Central Sanskrit University
Home » University » Kulgeet

Kulgeet


केन्द्रीयसंस्कृतविश्वविद्यालयः
कुलगीतम्


ज्ञानप्रभां वितरन् सदा भुवि राजते नवभास्करः।
केन्द्रीयसंस्कृतविश्वविद्यालय उदात्तगुणाकरः॥

केन्द्रीयसंस्कृतविश्वविद्यालय...

प्राचीन-बोध-परम्परा-संवाहको बुधमण्डितो
नवशोधबोधपरम्परापरिपालनेऽपि च पण्डितः ।
वेदाङ्ग-वेद-पुराण-दर्शन-काव्य-शास्त्रसुधाधरः
केन्द्रीयसंस्कृतविश्वविद्यालय उदात्तगुणाकरः॥

केन्द्रीयसंस्कृतविश्वविद्यालय...

विविधाधुनिकसंसाधनैः सज्जः सुरम्यकलेवरो
नानापरिसरो भारते भरते प्रशस्तयशः सरः।
योऽनूचानः स नो महानिति घोषपोषणतत्परः
केन्द्रीयसंस्कृतविश्वविद्यालय उदात्तगुणाकरः॥

केन्द्रीयसंस्कृतविश्वविद्यालय...

नवदृष्टिशक्तिसमूर्जितो नवयोजनापरियोजनो
नवनीतिरीतिसमुन्नतो नवकल्पनारचनाचणः।
नवलोपलब्धिविभासितो गुरुवाग्विलासमनोहरः
केन्द्रीयसंस्कृतविश्वविद्यालय उदात्तगुणाकरः॥

केन्द्रीयसंस्कृतविश्वविद्यालय...

संरक्षकः
आचार्यः, श्रीनिवासः वरखेडी,
कुलपतिः केन्द्रीयसंस्कृतविश्वविद्यालयः, नवदेहली

मार्गदर्शकः
आचार्यः रा.गा. मुरलीकृष्णः कुलसचिवः (प्र.)
केन्द्रीयसंस्कृतविश्वविद्यालयः, नवदेहली

रचयिता - डा. शैलेशकुमार तिवारी