Rashtriya Sanskrit Sansthan (Deemed University)
Home » Organization » Vice-Chancellor

Vice-Chancellor


PROF. PARAMESHWARA NARAYANA SHASTRY


Vice Chancellor's Message
श्रीः
वसुधैव कुटुम्बकम्
भारतशासनस्य मानवसंसाधनविकासमन्त्रालयधीनं राष्ट्रियसंस्कृतसंस्थानं विश्वहिताय सङ्कल्पते ।

“योऽनूचानः स नो महान्”
इति ध्येयवाक्यं मनसि निधाय प्रवर्तते । वेदनिष्ठसनातनं ज्ञानमाश्रित्य वैज्ञानिकं तत्त्वं राष्ट्रस्य हिताय प्रयोक्तुम् अग्रेसरति ।

पुराणमित्येव न साधु सर्वं न चापि सर्वं (काव्यं) नवमित्यवध्यम् इति कालिदासस्य उक्तिं स्मरामः । प्राचीनम् अर्वाचीनम् इत्युभयं परीक्ष्य प्रवर्तामहे । वेदो नाम ज्ञानराशिः । वेदाङ्गानि तान्निहितं ज्ञानं विज्ञानं च प्रकाशयन्ति । शास्त्राणि तत्तत्प्रमाणैः सयुक्तिकं विश्लिष्य तत्त्वं प्रतिपादयन्ति । जिज्ञासुः चिन्तकः निरन्तरं नवनवीनं सत्यम् अनुसन्धत्ते । सत्यान्वेषणस्य सोऽयं मार्गः भारतानां सुगमो भवति । यथा – ‘सुगा ऋतस्य पन्थाः’ । – ऋ. इत्यस्माकं सङ्कल्पः ।
एतादृशं साहित्यं मूलतः संस्कृतभाषया निबद्धम् इति कारणतः संस्कृतभाषाज्ञानम् अत्यावश्यकं वर्तते । संस्कृतकार्ये संलग्नं, निखिलभारते व्याप्तपरिसरं, राष्ट्रियसंस्कृतसंस्थानं संस्कृतकार्येण राष्ट्रियविकासाय सङ्कल्पते । ‘समानी व आकूतिः । समाना हृदयानि वः’ । -ऋ. इति भावनया प्रवर्तामहे । भारतीः समेधयन्तः राष्ट्रे जागृयाम इति वयं तु कृतनिर्धाराः स्मः।
“मन्त्रो गुरुः पुनरस्तु” इति प्रतीक्षामहे ।


Namefromto
1.Prof. V.Kutumba Shastry12th May 200311th May 2008
2.Dr. Anita Bhatnagar Jain, IAS (Addl.Charge)23rd May 200813th August 2008
3.Prof. Radhavallabh Tripathi14th August 200813th August 2013
4.Prof. A.P. Sachchidanand, Incharge14th August 2013 23th February 2014
5.Dr. N.R. Kanan, Incharge24th February 201406th July 2014
6.Sh. R.P. Sisodia, IAS, Incharge07th July 2014 12th October 2014
7.Sh. Shashi Prasad Goyal, IAS, Incharge 13th October 2014 13th November 2014
8.Dr. Sukhbir Singh Sandhu, IAS, Incharge14th November 201428th April 2015
9.Prof.P.N.Shastry, Incharge29th April 201514th June 2015
10.Prof. P.N.Shastry15th June 2015Till date

Last Updated by admin on :