Central Sanskrit University

Established by an Act of Parliament
(Formerly Rashtriya Sanskrit Sansthan, Deemed to be University)
Under Ministry of Education, Government of India

CSU Logo

Internal Quality Assurance Cell


Alumni


परिचयः [Introduction]

सन्मित्रम् इति केन्द्रीयसंस्कृतविश्वविद्यालयस्य पूर्वच्छात्राणामयं संघः विगतपञ्चाशत् वर्षेषु अधीतानाम् अधिगतानां छात्राणां समवायार्थं समागमार्थं सहयोग-संयोग-समायोजनार्थं निर्मितः कश्चन प्रयासो वर्तते। प्रयासस्यास्य विश्वासो वर्तते यत् विश्वविद्यालयस्य पूर्वच्छात्राणाम् अयं संघः विश्वविद्यालयस्य भाविपरिकल्पनाभिकल्पनार्थं स्वदायित्वं निर्वक्ष्यति।

वयं जानीमः अस्माकं विश्वविद्यालयस्य अध्ययनाध्यापनपरम्पराः, सततविकासपरम्पराश्च। महत्सौभाग्यात् अस्माकं विश्वविद्यालयः अधुना केन्द्रीयसंस्कृतविश्वविद्यालयरूपेण राराजते। इयम् उपहुतिरिव कथमयं विश्वविद्यालयः स्वभविष्यपथम् अनुगच्छेत्। एतदर्थम् अनुभवानां स्थानम् अद्वितीयमिति धिया पूर्वच्छात्राणाम् अयं संघः अभिकल्पितः संस्थापितश्च। नूनम् अस्माकं पूर्वच्छात्राणाम् उपयोग्यनुभवानां कश्चन लाभः विश्वविद्यालयस्य प्रगताभ्युदयार्थम् अपेक्ष्यते एव।

यथाशक्यम् अस्माकं पूर्वच्छात्राणां समग्रप्रयासाः अस्माकं विश्वविद्यालयस्य गतिविधीनां सामाजिकस्वीकृतीनां प्रचारप्रसारप्रवृत्तीनां च दृष्ट्या विद्यन्ते एव। गौरवानुभूताः वयं समवेतस्वरेण विश्वविद्यालयेन सम्बद्धानां पूर्वच्छात्राणां दृढसम्बन्धानां विकासाय स्वदायित्वानि निर्वक्ष्यामः। वर्तमानच्छात्राणां मार्गदर्शनमपि अस्माकं कर्तव्यमिति धिया पूर्वच्छात्राणां अयं संघः संस्थापितः।

उत्कृष्टसंस्कृतशिक्षायै संस्कृतभाषाप्रचारप्रसाराय च निरन्तरम् उत्तमोत्तमोपायानाम् अन्वेषणम् अस्माकं दायित्वम् । अनेन प्रक्रमेणैव संघोऽयं साफल्यमवाप्स्यति। विश्वविद्यालयेनानेन सम्बद्धतायाः काचित् भावनैव विशिष्टा वर्तते। पारस्परिकसम्बन्धैः समर्थनसहयोगैश्च वयं विश्वविद्यालयस्य नवोत्थानार्थं प्रयतिष्यामहे – इयमेव संघस्यास्य अन्तर्दृष्टिः, इदमेव विशिष्टं लक्ष्यम्।

संघस्य कार्यकारिणी समितिः [Executive Committee]

संघस्य प्रारम्भिकगतिविधीनाम् अनुरूपेण कार्यकारिणी समितिः संस्थापिता विद्यते। अस्याः समितेः कार्यकालः 30 अप्रेल् 2023 पर्यन्तम् एकवर्षात्मकः एव भविष्यति ।

समितेः संरचनेयं विद्यते –

  • संरक्षकः - प्रो. परमेश्वरनारायणशास्त्री, कुलपतिचरः, केन्द्रीयसंस्कृतविश्वविद्यालयः, नवदेहली
  • अध्यक्षः - प्रो. के. भरतभूषणः, सङ्कायाध्यक्षचरः, शिक्षाशास्त्रम्, श्रीलालबहादुरशास्त्रि- राष्ट्रियसंस्कृतविश्वविद्यालयः, नवदेहली
  • उपाध्यक्षः - प्रो. राधागोविन्दत्रिपाठी, राष्ट्रियसंस्कृतविश्वविद्यालयः, तिरुपतिः
  • उपाध्यक्षः - डा. देवानन्दशुक्लः
  • सचिवः - डा. नितिनकुमारजैनः
  • सहसचिवः - डा. गजाननधरेन्द्रः
  • सहसचिवः - डा. कमलकान्तबालानः
  • कोषाध्यक्षः - डा. शक्तिशरणशर्मा
  • सदस्यः - डा. रामकृष्णशर्मा
  • सदस्यः - श्री विनोदकुमारः
  • सदस्यः - श्री नीरजकुमारः


अस्मिन् केन्द्रीयसंघे परिसरीय-पूर्वच्छात्रसंघानां सचिवाः पदेन सदस्यत्वम् अङ्गीकरिष्यन्ति।

   

सदस्यतायै पञ्जीयनम् [Registration for Membership]

प्रारम्भिकसदस्यतायाः शुल्कं शतरुप्यकाणि इति निर्धारतमस्ति। पूर्वच्छात्रकोषविकासस्य दृष्ट्या अधिकार्थिकसहयोगोऽपि अनुरुन्ध्यते।

सदस्यता-सहयोगराशिसमर्पणार्थम् अधोलिखितविवरणं संसूच्यते-
Bank Account No. 10469781338
Account Holder Name CENTRAL SANSKRIT UNIVERSITY, NEW DELHI
IFSC CodeSBIN0000733
Bank NameState Bank of India
Branch AddressRETAIL BUSINESS CENTRE 8, DDA SHOPING COMPLEX, NEW DELHI-110046
कृपया कृतार्थिकसहयोगः अनेन ईमेलमाध्यमेन सूचनीयः।

alumni[at]csu[dot]co[dot]in