परार्थानुमाननामा
चतुर्थ: परिच्छेद:
{आचार्यदिङ्नागसम्मते परार्थानुमानलक्षणे स्वदृष्टग्रहणफलम्}
परस्य
प्रतिपाद्यत्वात् अदृष्टोऽपि स्वयं परै:।
दृष्टसाधनमित्येके
तत्क्षेपायात्मदृग्वच:।। 1।।
अनुमाविषये नेष्टं
परीक्षितपरिग्रहात्।
वाच:
प्रामाण्यमस्मिन् हि नानुमानं प्रवर्तते।।2।।
बाधनायागमस्योक्ते:
साधनस्य परं प्रति।
सोऽप्रमाणं तदाऽसिद्धं
तत्सिद्धमखिलं तत:।।3।।
तदागमवत: सिद्धं यदि
कस्य क आगम:।
बाध्यमान: प्रमाणेन
स सिद्ध: कथमागम:।।4।।
तद्विरुद्धाभ्युपगमस्तेनैव
च कथं भवेत्!।
तदन्योपगमे तस्य
त्यागांगस्याप्रमाणता।।5।।
तत् कस्मात् साधनं
नोक्तं स्वप्रतीतिर्यदुद्भवा।
युक्त्या ययागमो
ग्राह्य: परस्यापि च सा न किम्।।6।।
प्राकृतस्य सत: प्राग्
यै: प्रतिपत्त्यक्षसम्भवौ।
साधनै: साधनान्यर्थशक्तिज्ञानेऽस्य
तान्यलम्।।7।।
विच्छिन्नानुगमा येऽपि
सामान्येनाप्यगोचरा:।
साध्यसाधनचिन्तास्ति
न तेष्वर्थेषु काचन।।8।।
पुंसामभिप्रायवशात्
तत्त्वातत्त्वव्यवस्थितौ।
लुप्तौ हेतुतदाभासौ
तस्य वस्त्वसमाश्रयात्।।9।।
सन्नर्थो
ज्ञानसापेक्षो नासन् ज्ञानेन साधक:।
सतोऽपि
वस्त्वसंश्लिष्टाऽसंगत्या सदृशी गति:।। 10।।
लिङ्गं स्वभाव:
कार्यं वा दृश्यादर्शनमेव वा।
सम्बद्धं
वस्तुतस्सिद्धं तदसिद्धं किमात्मन:।। 11।।
परेणाप्यन्यतो
गन्तुमयुक्तम्; परकल्पितै:।
प्रसङ्गो द्वयसम्बन्धादेकापायेऽन्यहानये।। 12।।
तदर्थग्रहणं
शब्दकल्पनारोपितात्मनाम्।
अलिङ्गत्वप्रसिद्ध्यर्थमर्थादर्थस्य
सिद्धित:।।13।।
कल्पनागमयो:
कर्तुरिच्छामात्रानुवृत्तित:।
वस्तुनश्चान्यथाभावात्
तत्कृता व्यभिचारिण:।।14।।
अर्थादर्थगते:
शक्ति: पक्षहेत्वभिधानयो:।
नार्थे तेन
तयोर्नास्ति स्वत: साधनसंस्थिति:।।15।।
तत् पक्षवचनं
वक्तुरभिप्रायनिवेदने।
प्रमाणं संशयोत्पत्तेस्तत:
साक्षान्न साधनम्।।16।।
साध्यस्यैवाभिधानेन
पारम्पर्येण नाप्यलम्।
शक्तस्य सूचकं
हेतुवचोऽशक्तमपि स्वयम्।।17।।
हेत्वर्थविषयत्वेन
तदशक्तोक्तिरीरिता।
शक्तिस्तस्यापि
चेद्धेतुवचनस्य प्रवर्त्तनात्।।18।।
तत्संशयेन
जिज्ञासोर्भवेत् प्रकरणाश्रय:।
विपक्षोपगमेऽप्येतत्
तुल्यमित्यनवस्थिति:।।19।।
अन्तरङ्गं तु
सामर्थ्यं त्रिषु रूपेषु संस्थितम्।
तत्र स्मृतिसमाधानं
तद्वचस्येव संस्थितम्।।20।।
अख्यापिते हि विषये
हेतुवृत्तेरसम्भवात्।
विषयख्यापनादेव
सिद्धौ चेत् तस्य शक्तता।।21।।
उक्तमत्र; विनाप्यस्मात् कृतक: शब्द ईदृशा:।
सर्वेऽनित्या इति
प्रोक्तेऽप्यर्थात् तन्नाशधीर्भवेत्।।22।।
अनुक्तावपि पक्षस्य
सिद्धेरप्रतिबन्धत:।
त्रिष्वन्यतमरूपस्यैवानुक्तिर्न्यूनतोदिता।।23।।
साध्योक्तिं वा
प्रतिज्ञां स वदन् दोषैर्न युज्यते।
साधनाधिकृतेरेव
हेत्वाभासाप्रसङ्गत:।।24।।
अविशेषोक्तिरप्येकजातीये
संशयावहा।
अन्यथा
सर्वसाध्योक्ते: प्रतिज्ञात्वं प्रसज्यते।।25।।
सिद्धोक्ते:
साधनत्वाच्च परस्यापि न दुष्यति।
इदानीं साध्यनिर्देश:
साधनावयव: कथम्!।।26।।
साभासोक्त्याद्युपक्षेपपरिहारविडम्बना।
असम्बद्धा तथा ह्येष
न न्याय्य इति वर्णितम्*।।27।। पा0टि0- *सूचितं-रा0।)
गम्यार्थत्वेऽपि
साध्योक्तेरसम्मोहाय लक्षणम्।
तच्चतुर्लक्षणं
रूपनिपातेषु स्वयं-पदै:।।28।।
असिद्धासाधनार्थोक्तवाद्यभ्युपगतग्रह: *।
अनुक्तोऽपीच्छया
व्याप्त: साध्य आत्मार्थवन्मत:।।29।।
(पा0टि0- *भ्युपगमग्रह:-पाठ0)
सर्वान्येष्टनिवृत्तावप्याशङ्कास्थानवारणम्।
वृत्तौ
स्वयं-श्रुतेनाह कृता चैषा तदर्थिका।।30।।
विशेषस्तद्व्यपेक्षत्वात्
कथितो धर्मधर्मिणो:।
अनुक्तावपि वाञ्छाया
भवेत् प्रकरणाद् गति:।।31।।
अनन्वयोऽपि
दृष्टान्ते दोषस्तस्य यथोदितम्।
‘आत्मा परश्चेत् सोऽसिद्ध:’
इति तत्रेष्टघातकृत्।।32।।
साधनं यद्विवादे न
न्यस्तं तच्चेन्न साध्यते।
किं
साध्यमन्यथानिष्टं भवेद् वैफल्यमेव वा।।33।।
सद्वितीयप्रयोगेषु
निरन्वयविरुद्धते।
एतेन कथिते; साध्यं सामान्येनाथ सम्मतम्।।34।।
तदेवार्थान्तराभावाद्
देहानाप्तौ न सिध्यति।
वाच्यशून्यं
प्रलपतां तदेतज्जाड्यवर्णितम्।।35।।
तुल्यं नाशेऽपि
चेच्छब्दघटभेदेन कल्पने।
न सिद्धेन विनाशेन
तद्वत: साधनाद् ध्वने:।।36।।
तथार्थान्तरभावे
स्यात् तद्वान् कुम्भोऽप्यनित्यता।
विशिष्टा
ध्वनिनान्वेति नो चेन्नायोगवारणात्।।37।।
द्विविधो हि
व्यवच्छेदो वियोगापरयोगयो:।
व्यवच्छेदादयोगे तु
वार्ये नानन्वयागम:।।38।।
सामान्यमेव
तत्साध्यं न च सिद्धप्रसाधनम्।
विशिष्टं धर्मिणा
तच्च न निरन्वयदोषवत्।।39।।
एतेन धर्मिधर्माभ्यां
विशिष्टौ धर्मधर्मिणौ।
प्रत्याख्यातौ
निराकुर्वन् धर्मिण्येवमसाधनात्।।40।।
समुदायापवादो हि न
धर्मिणि विरुध्यते।
साध्यं यतस्तथा
नेष्टं साध्यो धर्मोऽत्र केवल:।।41।।
{स्वयंशब्दग्रहणप्रयोजनम्}
एकस्य धर्मिण:
शास्त्रे नानाधर्मस्थितावपि।
साध्य:
स्यादात्मनैवेष्ट इत्युपात्ता स्वयं-श्रुति:।।42।।
शास्त्राभ्युपगमादेव
सर्वादानात् प्रबाधने।
तत्रैकस्यापि दोष:
स्याद् यदि हेतुप्रतिज्ञयो:।।43।।
शब्दनाशे प्रसाध्ये
स्याद् गन्धभूगुणताक्षते:।
हेतुर्विरुद्धोऽप्रकृतेर्नो
चेदन्यत्र सा समा।।44।।
अथात्र धर्मी
प्रकृतस्तत्र शास्त्रार्थबाधनम्।
अथ वादीष्टतां
ब्रूयाद् धर्मिधर्मादिसाधनै:।।45।।
कैश्चित्
प्रकरणैरिच्छा भवेत् सा गम्यते च तै:।
बलात् तवेच्छेयमिति
व्यक्तमीश्वरचेष्टितम्।।46।।
वदन्नकार्यलिङ्गां
तां व्यभिचारेण बाध्यते।
अनान्तरीयके चार्थे
बाधितेऽन्यस्य का क्षति:।।47।।
उक्तं च
नागमापेक्षमनुमानं स्वगोचरे।
सिद्धं तेन सुसिद्धं
तन्न तदा शास्त्रमीक्ष्यते।।48।।
वादत्यागस्तदा
स्याच्चेन्न तदानभ्युपायत:।
उपायो ह्यभ्युपायेऽयमनङ्गं
स तदापि सन्।।49।।
तदा विशुद्धे
विषयद्वये शास्त्रपरिग्रहम्।
चिकीर्षो: स हि काल:
स्यात् तदा शास्त्रेण बाधनम्।।50।।
तद्विरोधेन
चिन्तायास्तत्सिद्धार्थेष्वयोगत:।
तृतीयस्थानसांक्रान्तौ
न्याय्य: शास्त्रपरिग्रह:।।51।।
तत्रापि
साध्यधर्मस्य नान्तरीयकबाधनम्।
परिहार्यं न
चान्येषामनवस्थाप्रसङ्गत:।।52।।
केनेयं सर्वचिन्तासु
शास्त्रं ग्राह्यमिति स्थिति:।
कृतेदानीमसिद्धान्तैर्ग्राह्यो
धूमेन नानल:।।53।।
रिक्तस्य
जन्तोर्ज्जातस्य गुणदोषमपश्यत:।
विलब्धा बत केनामी
सिद्धान्तविषमग्रहा:।।54।।
यदि साधन एकत्र
सर्वं शास्त्रं निदर्शने।
दर्शयेत् साधनं
स्यादित्येषा लोकोत्तरा स्थिति:।।55।।
असम्बद्धस्य धर्मस्य
किमसिद्धौ न सिध्यति।
हेतुस्तत्साधनायोक्त:
किं दुष्टस्तत्र सिध्यति।।56।।
धर्माननुपनीयैव
दृष्टान्ते धर्मिणोऽखिलान्।
वाग्धूमादेर्जनोऽन्वेति
चैतन्यदहनादिकम्।।57।।
स्वभावं कारणं
चार्थोऽव्यभिचारेण साधयन्।
कस्यचिद् वादबाधायां
स्वभावान्न निवर्तते।।58।।
प्रपद्यमानश्चान्यस्तं
नान्तरीयकमीप्सितै:।
साध्यार्थैर्हेतुना
तेन कथमप्रतिपादित:।।59।।
उक्तोऽनुक्तोऽपि वा
हेतुर्विरोद्धा वादिनोऽत्र किम्।
न हि तस्योक्तिदोषेण
स जात: शास्त्रबाधन:।।60।।
बाधकस्याभिधानाच्चेद्
दोषो यदि वदेन्न स:।
किन्न बाधेत सोऽकुर्वन्नयुक्तं
केन दुष्यति!।।61।।
अन्येषु
हेत्वाभासेषु स्वेष्टस्यैवाप्रसाधनात्।
दुष्येद्
व्यर्थाभिधानेन नात्र तस्य प्रसाधनात्।।62।।
यदि किञ्चित
क्वचिच्छास्त्रे न युक्तं प्रतिषिध्यते।
ब्रुवाणो युक्तमप्यन्यदिति
राजकुलस्थिति:।।63।।
सर्वानर्थान्
समीकृत्य वक्तुं शक्यं न साधनम्।
सर्वत्र
तेनोत्सन्नेयं साध्यसाधनसंस्थति:।।64।।
विरुद्धयोरेकधर्मिण्ययोगादस्तु
बाधनम्।।
विरुद्धैकान्तिके
नात्र तद्वदस्ति विरोधिता।।65।।
अबाध्यबाधकत्वेऽपि
तयो: शास्त्रार्थविप्लवात्।
असम्बन्धेऽपि बाधा
चेत् स्यात् सर्वं सर्वबाधनम्।।66।।
सम्बन्धस्तेन तस्यैव
बाधनादस्ति चेदसत्।
हेतो: सर्वस्व
चिन्त्यत्वात् स्वसाध्ये गुणदोषयो:।।67।।
नान्तरीयकता साध्ये
सम्बन्ध: सेह नेक्ष्यते।
केवलं शास्त्रपीडेति
दोष: सान्यकृते समा।।68।।
शास्त्राभ्युपगमात्
साध्य: शास्त्रदृष्टोऽखिलो यदि।
प्रतिज्ञाऽसिद्धदृष्टान्तहेतुवाद:
प्रसज्यते।।69।।
उक्तयो: साधनत्वेन
नो चेदीप्सितवादत:।
न्यायप्राप्तं न
साध्यत्वं वचनाद् विनिवर्त्तते।।70।।
अनीप्सितमसाध्यं
चेद् वादिनान्योऽप्यनीप्सित:।
धर्मोऽसाध्यस्तदाऽसाध्यं
बाधमानं विरोधि किम्।।71।।
पक्षलक्षणबाह्यार्थ:
स्वयं-शब्दोऽप्यनर्थक:।
शास्त्रेष्विच्छाप्रवृत्त्यर्थो
यदि शङ्का कुतोन्वियम्।।72।।
सोऽनिषिद्ध:
प्रमाणेन गृह्णन् केन निवार्यते।
निषिद्धश्चेत्
प्रमाणेन वाचा केन प्रवर्त्त्यते।।73।।
पूर्वमप्येष
सिद्धान्तं स्वेच्छयैव गृहीतवान्।
किञ्चिदन्यं स तु
पुनर्ग्रहीतुं लभते न किम्।।74।।
दृष्टेर्विप्रतिपत्तीनामत्राकार्षीत्
स्वयं-श्रुतिम्।
इष्टाक्षतिमसाध्यत्वमनवस्थां
च दर्शयन्।।75।।
समयाहितभेदस्य
परिहारेण धर्मिण:।
प्रसिद्धस्य
गृहीत्यर्थां जगादान्य: स्वयं-श्रुतिम्।।76।।
विचारप्रस्तुतेरेव
प्रसिद्ध: सिद्ध आश्रय:।
स्वेच्छाकल्पितभेदेषु
पदार्थेष्वविवादत:।।77।।
असाध्यतामथ प्राह
सिद्धादेशेन धर्मिण:।
स्वरूपेणैव
निर्देश्य इत्यनेनैव तद् गतम्।।78।।
सिद्धसाधनरूपेण
निर्देशस्य हि सम्भवे।
साध्यत्वेनैव
निर्देश्य इतीदं फलवद् भवेत्।।79।।
अनुमानस्य
सामान्यविषयत्वं च वर्णितम्।
इहैवं न ह्यनुक्तेऽपि
किञ्चित् पक्षे विरुध्यते।।80।।
कुर्याच्चेद्
धर्मिणं साध्यं तत: किं तन्न शक्यते।
कस्माद्धेत्वन्वयाभावान्न
च दोषस्तयोरपि।।81।।
उत्तरावयवापेक्षो न
दोष: पक्ष इष्यते।
तथा हेत्वादिदोषोऽपि
पक्षदोष: प्रसज्यते।।82।।
सर्वै: पक्षस्य
बाधातस्तस्मात् तन्मात्रसङ्गिन:।
पक्षदोषा मता नान्ये
प्रत्यक्षादिविरोधवत्।।83।।
हेत्वादिलक्षणैर्बाध्यं
मुक्त्वा पक्षस्य लक्षणम्।
उच्यते
परिहारार्थमव्याप्तिव्यतिरेकयो:।।84।।
स्वयन्निपातरूपाख्या
व्यतिरेकस्य बाधिका:।
सहानिराकृतेनेष्टश्रुतिरव्याप्तिबाधनी।।85।।
साध्याभ्युपगम:
पक्षलक्षणं तेष्वपक्षता।
निराकृते बाधनत:
शेषेऽलक्षणवृत्तित:।।86।।
स्वयमिष्टाभिधानेन
गतार्थेऽप्यवधारणे।
कृत्यान्तेनाभिसम्बन्धादुक्तं
कालान्तरच्छिदे।।87।।
इहानङ्गमिषेर्न्निष्ठा
तेनेप्सितपदे पुन:।
अङ्गमेव तयाऽसिद्धहेत्वादि
प्रतिषिध्यते।।88।।
अवाचकत्वाच्चायुक्तं
तेनेष्टं स्वयमात्मना।
अनपेक्ष्याखिलं
शास्त्रं तद्वादीष्टस्य साध्यता।।89।।
तेनानभीष्टसंसृष्टस्येष्टस्यापि
हि बाधने।
यथा साध्यमबाधात:
पक्षहेतू न दुष्यत:।।90।।
{सहानिराकृतग्रहणप्रयोजनम्}
अनिषिद्ध:
प्रमाणाभ्यां स चोपगम इष्यते।
सन्दिग्धे
हेतुवचनाद् व्यस्तो हेतोरनाश्रय:।।91।।
अनुमानस्य भेदेन सा
बाधोक्ता चतुर्विधा।
तत्राभ्युपाय: कार्याङ्गं
स्वभावाङ्गं जगत्स्थिति:।।92।।
{आगमस्ववचनयोस्तुल्यबलत्वम्}
आत्मापरोधाभिमतो
भूतनिश्चययुक्तवाक्।
आप्त: स्ववचनं
शास्त्रं चैकमुक्तं समत्वत:।।93।।
यथात्मनोऽप्रमाणत्वे
वचनं न प्रवर्त्तते।
शास्त्रसिद्धे तथा
नार्थे विचारस्तदनाश्रये।।94।।
तत्प्रस्तावाश्रयत्वे
हि शास्त्रं बाधकमित्यमुम्।
वक्तुमर्थं
स्ववाचास्य सहोक्ति: साम्यदृष्टये।।95।।
उदाहरणमप्यत्र सदृशं
तेन वर्णितम्*। (पा0टि0-*दर्शितम्-पाठा0।)
प्रमाणानामभावे हि
शास्त्रवाचोरयोगत:।।96।।
स्ववाग्विरोधे विस्पष्टमुदाहरणमागमे।
दिङ्मात्रदर्शनम्,
तत्र प्रेत्यधर्मोऽसुखप्रद:।।97।।
शास्त्रिणोऽप्यतदालम्बे
विरुद्धोक्तौ तु वस्तुनि।
न बाधा प्रतिबन्ध:
स्यात् तुल्यकक्षतया तयो:।।98।।
यथा स्ववाचि
तच्चास्य तदा स्ववचनात्मकम्।
तयो: प्रमाणं
यस्यास्ति तत् स्यादन्यस्य बाधकम्।।99।।
प्रतिज्ञामनुमानं वा
प्रतिज्ञाऽपेतयुक्तिका।
तुल्यकक्षा यथार्थं
वा बाधेत कथमन्यथा।। 100।।
प्रामाण्यमागमानां च
प्रागेव विनिवारितम्।
अभ्युपायविचारेषु
तस्माद् दोषोऽयमिष्यते।। 101।।
तस्माद् विषयभेदस्य
दर्शनार्थं पृथक् कृत:।
अनुमानाबहिर्भूतोऽप्यभ्युपाय:
प्रबाधनात्।।102।।
अन्यथाऽतिप्रसङ्ग:
स्याद् व्यर्थता वा पृथक्कृते:।
भेदो वाङ्मात्रवचने
प्रतिबन्ध: स्ववाच्यपि।।103।।
तेनाभ्युपगमाच्छास्त्रं
प्रमाणं सर्ववस्तुषु।
बाधकम्, यदि नेच्छेत् स बाधकं किं पुनर्भवेत्।।104।।
स्ववाग्विरोधेऽभेद:
स्यात् स्ववाक्शास्त्रविरोधयो:।
पुरुषेच्छाकृता
चास्य परिपूर्णा प्रमाणता।।105।।
तस्मात्
प्रसिद्धेष्वर्थेषु शास्त्रत्यागेऽपि न क्षति:।
परोक्षेष्वागमानिष्टौ
न चिन्तैव प्रवर्त्तते।।106।।
विरोधोद्भावनप्राया
परीक्षाप्यत्र तद्यथा।
अधर्ममूलं रागादि
स्नानं चाधर्मनाशनम्।।107।।
शास्त्रं यत्सिद्धया
युक्त्या स्ववाचा च न बाध्यते।
दृष्टेऽदृष्टेऽपि
तद् ग्राह्यमिति चिन्ता प्रवर्त्त्यते*।।108।। (पा0टि0- *प्रवर्तते—पाठा0।)
अर्थेष्वप्रतिषिद्धत्वात्
पुरुषेच्छानुरोधिन:।
इष्टशब्दाभिधेयस्याप्तोऽत्राक्षतवाग्
जन:।।109।।
उक्त: प्रसिद्धशब्देन
धर्मस्तद्व्यवहारज:।
प्रत्यक्षादिमिता
मानश्रुत्यारोपेण सूचिता:।।110।।
तदाश्रयभुवामिच्छानुरोधादनिषेधिनाम्।
कृतानामकृतानां च
योग्यं विश्वं स्वभावत:।।111।।
अर्थमात्रानुरोधिन्या
भाविन्या भूतयापि वा।
बाध्यते
प्रतिरुन्धान: शब्दयोग्यतया तया।112।।
तद्योग्यताबलादेव
वस्तुतो घटितो ध्वनि:।
सर्वोऽस्यामप्रतीतेऽपि
तस्मिंस्तत्सिद्धता तत:।।113।।
असाधारणता न स्यात्
बाधाहेतोरिहान्यथा।
तन्निषेधोऽनुमानात्
स्याच्छब्दार्थेऽनक्षवृत्तित:।।114।।
असाधारणता तत्र
हेतूनां यत्र नान्वयि।
सत्त्वमित्यप्युदाहारो
हेतोरेवं कुतो मत:।।115।।
संकेतसंश्रया:
शब्दा: स चेच्छामात्रसंश्रय:।
नासिद्धि:
शब्दसिद्धानामिति शाब्दप्रसिद्धिवाक्।।116।।
अनुमानप्रसिद्धेषु
विरुद्धाव्यभिचारिण:।
अभावं दर्शयत्येवं
प्रतीतेरनुमात्वत:।।117।।
अथ वा ब्रुवतो
लोकस्यानुमाऽभाव उच्यते।
किं तेन भिन्नविषया
प्रतीतिरनुमानत:।।118।।
तेनानुमानाद्
वस्तूनां सदसत्तानुरोधिन:।
भिन्नस्यातद्वशा वृत्तिस्तदिच्छाजेति
सूचितम्।।119।।
चन्द्रतां शशिनोऽनिच्छन्
कां प्रतीतिं स वाञ्छति।
इति तं
प्रत्यदृष्टान्तं तदसाधारणं मतम्।।120।।
नोदाहरणमेवैकमधिकृत्येदमुच्यते।
लक्षणत्वात् तथा
वृक्षोऽधात्रीत्युक्तौ च बाधनात्।।121।।
अत्रापि लोके
दृष्टत्वात् कर्पूररजतादिषु।
समयाद् वर्तमानस्य
काऽसाधारणतापि वा।।122।।
यदि तस्य क्वचित्
सिध्येत् सिद्धं वस्तुबलेन तत्।
प्रतीतिसिद्धोपगमेऽशशिन्यप्यनिवारणम्।।123।।
तस्य वस्तुनि
सिद्धस्य शशिन्यप्यनिवारणम्।
तद्वस्त्वभावे शशिनि
वारणेऽपि न दुष्यति।।1224।।
तस्मादवस्तुनियतसंकेतबलभाविनाम्।
योग्या: पदार्था
धर्माणामिच्छाया अनिरोधनात्।।125।।
तां योग्यतां
विरुन्धानं संकेताप्रतिषेधजा।
प्रतिहन्ति
प्रतीत्याख्या योग्यताविषयेऽनुमा।।126।।
शब्दानामर्थनियम:
संकेतानुविधायिनाम्।
नेत्यनेनोक्तमत्रैषां
प्रतिषेधो विरुध्यते।।127।।
नैमित्तिक्या:
श्रुतेरर्थमर्थं वा पारमार्थिकम्।
शब्दानां
प्रतिरुन्धानोऽबाधनार्हो हि वर्णित:।।128।।
तस्माद् विषयभेदस्य
दर्शनाय पृथक्कृता।
अनुमानाबहिर्भूता
प्रतीतिरपि पूर्ववत्।।129।।
सिद्धयो:
पृथगाख्याने दर्शयँश्च प्रयोजनम्।
एते सहेतुके प्राह
नानुमाध्यक्षबाधने।।130।।
अत्राप्यध्यक्षबाधायां
नानारूपतया ध्वनौ।
प्रसिद्धस्य श्रुतौ;
रूपं यदेव प्रतिभासते।।131।।
अद्वयं
शबलाभासस्यादृष्टेर्बुद्धिजन्मन:।
तदर्थार्थोक्तिरस्यैव
क्षेपेऽध्यक्षेण बाधनम्।।132।।
तदेव रूपं तत्रार्थ:
शेषं व्यावृत्तिलक्षणम्।
अवस्तुभूतं
सामान्यमतस्तन्नाक्षगोचर:।।133।।
तेन
सामान्यधर्माणामप्रत्यक्षत्वसिद्धित:।
प्रतिक्षेपेऽप्यबाधेति
श्रावणोक्त्या प्रकाशितम्।।134।।
सर्वथाऽवाच्यरूपत्वात्
सिद्ध्या तस्य समाश्रयात्।
बाधनात् तद्बलेनोक्त:
श्रावणेनाक्षगोचर:।।135।।
सर्वत्र वादिनो
धर्मो य: स्वसाध्यतयेप्सित:।
तद्धर्मवति बाधा
स्नान्नान्यधर्मेण धर्मिणि।।136।।
अन्यथास्योपरोध: को
बाधितेऽन्यत्र धर्मिणि।
गतार्थे
लक्षणेनास्मिन् स्वधर्मिवचनं पुन:।।137।।
बाधायां धर्मिणोऽपि
स्याद् बाधेत्यस्य प्रसिद्धये।
आश्रयस्य विरोधेन
तदाश्रितविरोधनात्।।138।।
अन्यथैवंविधो धर्म:
साध्य इत्यभिधानत:।
तद्बाधामेव मन्येत
स्वधर्मिग्रहणं तत:।।139।।
नन्वेतदप्यर्थसिद्धं
सत्यं केचित्तु धर्मिण:।
केवलस्योपरोधेऽपि
दोषवत्तामुपागता:।।140।।
यथा
परैरनुत्पाद्यापूर्वरूपं न खादिकम्।
सकृच्छब्दाद्यहेतुत्वादित्युक्ते
प्राह दूषक:।।141।।
तद्वद् वस्तुस्वभावोऽसन्
धर्मी व्योमादिरित्यपि।
नेवमिष्टस्य
साध्यस्य बाधा काचन विद्यते।।142।।
द्वयस्यापि हि
साध्यत्वे साध्यधर्मोपरोधि यत्।
बाधनं धर्मिणस्तत्र
बाधेत्येतेन वर्णितम्।।143।।
तथैव धर्मिणोऽप्यत्र
साध्यत्वात् केवलस्य न।
यद्येवमत्र बाधा
स्यात्; नान्यानुत्पाद्यशक्तिक:।।144।।
सकृच्छब्दाद्यहेतुत्वात्
सुखादिरिति पूर्ववत्।
विरोधिता भवेदत्र
हेतुरैकान्तिको यदि।।145।।
क्रमक्रियाऽनित्यतयोरविरोधाद्
विपक्षत:।
व्यावृत्ते: संशयान्नायं
शेषवद् भेद इष्यते।।146।।
स्वयमिष्टो यतो
धर्म: साध्यस्तस्मात् तदाश्रय:।
बाध्यो न केवलो
नान्यसंश्रयो वेति सूचितम्।।147।।
स्वयं-श्रुत्यान्यधर्माणां
बाधाऽबाधेति कथ्यते।
तथा स्वधर्मिणान्यस्य धर्मिणोऽपीति कथ्यते।।148।।
सर्वसाधनदोषेण पक्ष
एवोपरुध्यते।
तथापि पक्षदोषत्वं
प्रतिज्ञामात्रभाविन:।।149।।
उत्तरावयवापेक्षो यो
दोष: सोऽनुबध्यते।
तेनेत्युक्तमतोऽपक्षदोषोऽसिद्धाश्रयादिक:।।150।।
धर्मिधर्मविशेषाणां
स्वरूपस्य च धर्मिण:।
बाधा साध्याङ्गभूतानामनेनैवोपदर्शिता।।151।।
तत्रोदाह्यतिदिङ्मात्रमुच्यतेऽर्थस्य
दृष्टये।
द्रव्यलक्षणयुक्तोऽन्य:
संयोगेऽर्थोऽस्ति दृष्टि भाक्।।152।।
अदृश्यस्य
विशिष्टस्य प्रतिज्ञा निष्प्रयोजना।
इष्टो ह्यवयवी कार्य
दृष्ट्वाऽदृश्येष्वसम्भवि।।153।।
अविशिष्टस्य
चान्यस्य साधने सिद्धसाधनम्।
गुरुत्वाधोगती स्यातां
यद्यस्य स्यात् तुलानति:।।154।।
तन्निर्गुणक्रियस्तस्मात्
समवायि न कारणम्।
तत एव न दृश्योऽसावदृष्टे:
कार्यरूपयो:।।155।।
तद्बाधान्यविशेषस्य
नान्तरीकभाविन:।
आसूक्ष्माद्
द्रव्यमालायास्तोल्यत्वादंशुपातवत्।।156।।
द्रव्यान्तरगुरुत्वस्य
गतिर्नेत्यपरोऽब्रवीत्।
तस्य क्रमेण
संयुक्ते पांशुराशौ सकृद् युते।।157।।
भेद: स्याद् गौरवे
तस्मात् पृथक् सह च तोलिते।
सुवर्णमाषकादीनां* संख्यासाम्यं न युज्यते।।158।।(पा0टि0-*क्रमेण
माषकादीनां-पाठा0।)
सर्षपाता महाराशेरुत्तरोत्तरवृद्धिमत्।
गौरवं कार्यमालाया
यदि नैवोपलभ्यते।।159।।
आ सर्षपाद् गौरवं तु
दुर्लक्षितमनल्पकम्।
तुल्यं तत्कारणं
कार्यगौरवानुपलक्षणात्।।160।।
नन्वदृष्टोंऽशुवत्
सोऽर्थो न च तत्कार्यमीक्ष्यते।
गुरुत्वागतिवत्
सर्वतद्गुणानुपलक्षणात्।।161।।
माषकादेरनाधिक्यम्;
अनति: सोपलक्षणम्।
यथास्वमक्षेणादृष्टे
रूपादावधिकाधिके।।162।।
अभ्युपाय:
स्ववागाद्यबाधाया: सम्भवेन तु।
उदाहरणमप्यन्यदिशा
गम्यं यथोक्तया।।163।।
त्रिकालविषयत्वात्
तु कृत्यनामतथात्मकम्।
तथा परं प्रति
न्यस्तं साध्यं नेष्टं तदापि तत्।।164।।
प्रत्ययनाधिकारे तु
सर्वासिद्धावरोधिनी।
यस्मात्
साध्यश्रुतिर्नेष्टं विशेषमवलम्बते।।165।।
तेनाप्रसिद्धदृष्टान्तहेतूदाहरणं
कृतम्।
अन्यथा शशश्रृङ्गादौ
सर्वासिद्धेऽपि साध्यता।।166।।
सर्वस्य
चाप्रसिद्धत्वात् कथञ्चित् तेन न क्षमा:।
कर्मादिभेदोपक्षेपपरिहारविवेचने।।167।।
प्रागसिद्धस्वभावत्वात्
साध्योऽवयव इत्यसत्।
तुल्या सिद्धान्तता,
ते हि येनोपगमलक्षणा:।।168।।
समुदायस्य साध्यत्वेऽप्यन्योन्यस्य
विशेषणम्।
साध्यं द्वयं तदाऽसिद्धं
हेतुदृष्टान्तलक्षणम्।।169।।
असम्भवात्
साध्यशब्दो धर्मिवृत्तिर्यदीष्यते।
शास्त्रेणालं
यथायोगं लोक एव प्रवर्त्तताम्।।170।।
साधनाख्यानसामर्थ्यात्
तदर्थे साध्यता मता।
हेत्वादिवचनैर्व्याप्तेरनाशंक्यं
च साधनम्।।171।।
पूर्वावधारणे तेन
प्रतिज्ञालक्षणाभिधा।
व्यर्था व्याप्तिफला
सोक्ति: सामर्थ्याद् गम्यते तत:।।172।।
विरुद्धतेष्टासम्बन्धोऽनुपकारसहास्थितो।
एवं सर्वाङ्गदोषाणां
प्रतिज्ञादोषता भवेत्।।173।।
पक्षदोष: परापक्षो
नेति च प्रतिपादितम्।
इष्टासम्भव्यसिद्धश्च
स एव स्यान्निराकृत:।।174।।
अनित्यत्वसहेतुत्वे
शब्द एवं प्रकीर्त्तयेत्।
दृष्टान्ताख्यानतोऽन्यत्
किमस्त्यत्रार्थानुदर्शनम्।।175।।
विशेषभिन्नमाख्याय
सामान्यस्यानुवर्त्तने।
न तद्व्याप्ति: फलं
वा किं सामान्येनानुवर्त्तने।। 176 ।।
स्यान्निराकरणं
शब्दे स्थितेनैवेत्यतोऽब्रवीत्।
विरुद्धविषयेऽन्यस्मिन्
वदन्नाहान्यतां श्रुते:।। 177 ।।
स च भेदोऽप्रतिक्षेपात्
समान्यानां न विद्यते।
वृक्षो न शिशपैवेति
यथा प्रकरणे क्वचित्।।178।।
सर्वश्रुतेरेकवृत्तिनिषेध:
स्यान्न चेयता।
सोऽसर्व:
सर्वभेदानामतत्त्वे तदसम्भवात्।।179।।
ज्ञाप्यज्ञापकयोर्भेदात्
धर्मिणो हेतुभाविन:।
असिद्धेर्ज्ञापकत्वस्य* धर्म्यसिद्ध: स्वसाधने।।180।। (पा0टि0-*र्ज्ञापिकत्वस्य-रा0)
धर्मधर्मिविवेकस्य
सर्वभावेष्वसिद्धित:।
सर्वत्र
दोषस्तुल्यश्चेन्न संवृत्या विशेषत:।।181।।
परमार्थविचारेषु
तथाभूताप्रसिद्धित:।
तत्त्वान्यत्वं
पदार्थेषु सांवृतेषु निषिध्यते।।182।।
अनुमानानुमेयार्थव्यवहारस्थितिस्त्वियम्।
भेदं
प्रत्ययसंसिद्धमवलम्ब्य च कल्प्यते।।183।।
यथास्वं भेदनिष्ठेषु
प्रत्ययेषु विवेकिन:।
धर्मी धर्माश्च
भासन्ते व्यवहारस्तदाश्रय:।।184।।
व्यवहारोपनीतोऽत्र स
एवाश्लिष्टभेदधी:।
साध्य: साधनतां
नीतस्तेनासिद्ध: प्रकाशित:।।185।।
भेदसामान्ययोर्धर्मभेदादंगांगिता
तत:।
यथाऽनित्य:
प्रयत्नोत्थ: प्रयत्नोत्थतया ध्वनि:।।186।।
पक्षाङ्गत्वेऽप्यबाधत्वान्नासिद्धिर्भिन्नधर्मिणि।
यथाश्वो न
विषाणित्वादेष पिण्डो विषाणवान्।।187।।
साध्यकालांगता वा न
निवृत्तेरुपलक्ष्य तत्।
विशेषोऽपि
प्रतिज्ञार्थो धर्मभेदान्न युज्यते।।188।।
पक्षधर्मप्रभेदेन
सुखग्रहणसिद्धये।
हेतुप्रकरणार्थस्य
सूत्रसंक्षेप उच्यते।।189।।
अयोगं योगमपरैरत्यन्तायोगमेव
च।
व्यवच्छिनत्ति
धर्मस्य निपातो व्यतिरेचक:।।190।।
विशेषणविशेषाभ्यां क्रियया
च सहोदित:।
विवक्षातोऽप्रयोगेऽपि
सर्वोऽर्थोऽयं प्रतीयते।।191।।
व्यवच्छेदफलं वाक्यं
यतश्चैत्रो धनुर्धर:।
पार्थो धनुर्धरो
नीलं सरोजमिति वा यथा।।192।।
प्रतियोगिव्यवच्छेदस्तत्राप्यर्थेषु
गम्यते।
तथा प्रसिद्धे:
सामर्थ्याद् विवक्षानुगमाद् ध्वने:।।193।।
तदयोगव्यवच्छेदाद्
धर्मी धर्मविशेषणम्।
तद्विशिष्टतया धर्मो
न निरन्वयदोषभाक्।।194।।
स्वभावकार्यसिद्ध्यर्थं
द्वौ द्वौ हेतुविपर्ययौ।
विवादाद्
भेदसामान्ये शेषो व्यावृत्तिसाधन:।।195।।
न हि स्वभावादन्येन
व्याप्तिर्गम्यस्य कारणे।
सम्भवाद्
व्यभिचारस्य द्विधावृतिफलं तत:।।196।।
प्रयत्नानन्तरं
ज्ञानं प्राक् सतो नियमेन न।
तस्यावृत्यक्षशब्देषु
सर्वथाऽनुपयोगत:।।197।।
कदाचिन्निरपेक्षस्य
कार्याऽकृतिविरोधत:।
कादाचित्कफलं सिद्धं
तल्लिङ्गं ज्ञानमीदृशम्।।198।।
{कार्यस्वभावप्रभेदनिर्देशफलम्:}
एतावतैव सिद्धेऽपि
स्वभावस्य पृथक् कृति:।
कार्येण सह निर्देशे
मा ज्ञासीत् सर्वमीदृशम्।।199।।
व्युत्पत्त्यर्था च
हेतूक्तिरुक्तार्थानुमितौ कृता।
अत्र प्रभेद आख्यात:
लक्षणं तु न भिद्यते।।200।।
तेनात्र कार्यलिङ्गेन
स्वभावोऽप्येकदेशभाक्।
सदृशोदाहृतिश्चात:
प्रयत्नाद् व्यक्तिजन्मन:।।201।।
यन्नान्तरीयका सत्ता
यो वात्मन्यविभागवान्।
स तेनाव्यभिचारी
स्यादित्यर्थं तत्प्रभेदनम्।।202।।
संयोग्यादिषु
येष्वस्ति प्रतिबन्धो न तादृश:।
न ते हेतव इत्युक्तं
व्यभिचारस्य सम्भवात्।।203।।
सति वा प्रतिबन्धेऽस्तु
स एव गतिसाधन:।
नियमो ह्यविनाभावोऽनियतश्च
न साधनम्।।204।।
{‘विवादाद्
भेदसामान्ये’ इत्यस्य
व्याख्यानम्}
ऐकान्तिकत्वं व्यावृत्तेरविनाभाव
उच्यते।
तच्च नाप्रतिबद्धेषु
तत एवान्वयस्थिति:।। 205 ।।
स्वात्मत्वे
हेतुभावे वा सिद्धे हि व्यतिरेकिता।
सिध्येदतो विशेषे न
व्यतिरेको न वान्वय:*।। 206 ।। (पा0टि0-* चान्वय:-रा0)
अदृष्टिमात्रमादाय
केवलं व्यतिरेकता।
उक्तोऽनैकान्तिकस्तस्मादन्यथा* गमको भवेत्।।207।।(पा0टि0-
*उक्ताऽनैकान्तिक0-रा0।)
{साध्याभाव:
साधनाभावेन न व्याप्त:}
प्राणाद्यभावो
नैरात्म्यव्यापीति विनिवर्त्तने।
आत्मनो विनिवर्त्तेत
प्राणादिर्यदि तच्च न।।208।।
अन्यस्य विनिवृत्त्यान्यविनिवृत्तेरयोगत:।
तदात्मा
तत्प्रसूतिश्चेत्? नैतद्;
आत्मोपलम्भने।।209।।
तस्योपलब्धावगतावगतौ
च प्रसिध्यति।
ते
चात्यन्तपरोक्षस्य दृष्ट्यदृष्टी न सिध्यत:।।210।।
अन्यत्रादृष्टरूपस्य
घटादौ नेति वा कुत:।
अज्ञातव्यतिरेकस्य
व्यावृत्तेर्व्यापिता कुत:।।211।।
प्राणादेश्च क्वचिद्
दृष्ट्या सत्त्वासत्त्वं प्रतीयते।
तथात्मा यदि दृश्येत
सत्त्वासत्त्वं प्रतीयते।।212।।
यस्य हेतोरभावेन घटे
प्राणो न दृश्यते।
देहेऽपि यद्यसौ न
स्याद् युक्तो देहे न सम्भव:।।213।।
भिन्नेऽपि किञ्चित्
साधर्म्याद् यदि तत्त्वं प्रतीयते।
प्रमेयत्वाद्
घटादीनां सात्मत्वं किन्न मीयते।।214।।
अनिष्टेश्चेत् ?
प्रमाणं हि सर्वेष्टीनां निबन्धनम्।
भावाभावव्यवस्थां क:
कर्तुं तेन विना प्रभु:!।।215।।
स्मृतीच्छायत्नज:
प्राणनिमेषादिस्तदुद्भव:।
विषयेन्द्रियचित्तेभ्य:;
ता: स्वजातिसमुद्भवा:।।216।।
अन्योन्यप्रत्ययापेक्षा
अन्वयव्यतिरेकभाक्।
एतावत्यात्मभावोऽयमनवस्थान्यकल्पने।।217।।
श्रावणत्वेन तत्
तुल्यं प्राणादि व्यभिचारत:।
न तस्य
व्यभिचारित्वाद् व्यतिरेकेऽपि चेत् कथम्।।218।।
नासाध्यादेव
विश्लेषस्तस्य नन्वेवमुच्यते।
साध्येऽनुवृत्त्यभावोऽर्थात्
तस्यान्यत्राप्यसौ सम:।।219।।
असाध्यादेव विच्छेद
इति साध्येऽस्तितोच्यते।
अर्थापत्त्याऽत एवोक्तमेकेनोभयदर्शनम्।।220।।
ईदृगव्यभिचारोऽतोऽनन्वयिषु
न सिध्यति।
प्रतिषेधनिषेधश्च
विधानात् कीदृशोऽपर:।।221।।
निवृत्तिर्नासत:
साध्यादसाध्येष्वेव नो तत:।
नेति सैव निवृत्ति:
किं निवृत्तेरसतो मता।।222।।
निवृत्त्यभावस्तु
विधिर्वस्तुभावोऽसतोऽपि सन्।
वस्त्वभावस्तु
नास्तीति पश्य बान्ध्यविजम्भितम्।।223।।
निवृत्तिर्यदि तस्मिन्न
हेतोर्वृत्ति: किमिष्यते।
सापि न प्रतिषेधोऽयं
निवृत्ति: किं निषिध्यते।।224।।
विधानं प्रतिषेधं च
मुक्त्वा शाब्दोऽस्ति नापर:।
व्यवहार: स चासत्सु
नेति प्राप्तात्र मूकता।।225।।
सतां च न निषेधोऽस्ति
सोऽसत्सु च न विद्यते।
जगत्यनेन न्यायेन नञर्थ:
प्रलयं गत:।।226।।
देशकालनिषेधश्चेद्
यथास्ति स निषिध्यते।
न तथा न यथा सोऽस्ति
तथापि न निषिध्यते।।227।।
तस्मादाश्रित्य
शब्दार्थं भावाभावसमाश्रयम्।
अबाह्याश्रयमत्रेष्टं
सर्वं विधिनिषेधनम्।।228।।
ताभ्यां स धर्मी
सम्बद्ध: ख्यात्यभावेऽपि तादृश:।
शब्दप्रवृत्तेरस्तीति
सोऽपीष्टो व्यवहारभाक्।।229।।
अन्यथा स्यात्
पदार्थानां विधानप्रतिषेधने।
एकधर्मस्य
सर्वात्मविधानप्रतिषेधनम्।।230।।
अनानात्मतया;
भेदे नानाविधिनिषेधवत्।
एकधर्मिण्यसंहारो
विधानप्रतिषेधयो:।।231।।
एकधर्मिणमुद्दिश्य
नानाधर्मसमाश्रयम्।
विधावेकस्य तद्भाजमिवान्येषामुपेक्षकम्।।232।।
निषेधे तद्विविक्तं
च तदन्येषामपेक्षकम्।
व्यवहारमसत्यार्थं
प्रकल्पयति धीर्यथा।।233।।
तं
तथैवाविकल्पार्थभेदाश्रयमुपागता:।
आदिवासनोद्भूतं
बाधन्तेऽर्थं न लौकिकम्।।234।।
तत्फलोऽतत्फलश्चार्थो
भिन्न एकस्ततस्तत:।
तैस्तैरुपप्लवैर्नीतसञ्चयापचयैरिव।।235।।
अतद्वानपि
सम्बन्धात् कुतश्चिदुपनीयते।
दृष्टिं
भेदाश्रयैस्तेऽपि तस्मादज्ञातविप्लवा:।।236।।
सत्तासाधनवृत्तेश्च
सन्दिग्ध: स्यादसन्न स:।
असत्त्वं
वाभ्युपगमादप्रमाणं न युज्यते।।237।।
असतो व्यतिरेकेऽपि
सपक्षाद् विनिवर्त्तनम्।
सन्दिग्धं तस्य
सन्देहाद् विपक्षाद् विनिवर्त्तनम्।।238।।
एकत्र नियमे सिद्धे
सिध्यत्यन्यनिवर्त्तनम्।
द्वैराश्ये सति
दृष्टेषु स्याददृष्टेऽपि संशय:।।239।।
अव्यक्तिव्यापिनोऽप्यर्था:
सन्ति तज्जातिभाविन:।
क्वचिन्न नियमोऽदृष्ट्या
पार्थिवालोहलेख्यवत्।।240।।
भावे विरोधस्यादृष्टे:
क: सन्देहं निवारयेत्।
क्वचिद् विनियमात्
कोऽन्यस्तत्कार्यात्मतया स च।।241।।
नैरात्म्यादपि
तेनास्य सन्दिग्धं विनिवर्तनम्।
अस्तु नाम
तथाप्यात्मा नानैरात्म्यात् प्रसिध्यति।।242।।
येनासौ व्यतिरेकस्य
नाभावं भावमिच्छति।
यथा नाव्यतिरेकेऽपि
प्राणादिर्न सपक्षत:।।243।।
सपक्षाव्यतिरेकी
चेद्धेतुर्हेतुरतोन्वयी।
नान्वयव्यतिरेकी
चेदनैरात्म्यं सात्मकम्।।244।।
यन्नान्तरीयक:
स्वात्मा यस्य सिद्ध: प्रवृत्तिषु।
निवर्त्तक: स एवात:
प्रवृत्तौ च प्रवर्तक:।।245।।
नान्तरीयकता सा च
साधनं समपेक्षते।
कार्ये
दृष्टिरदृष्टिश्च कार्यकारणता हि सा।।246।।
अर्थान्तरस्य तद्भावेऽभावानियतोंऽगति:।
अभावासम्भवात्
तेषामभवे नित्यभाविन:।।247।।
{सामग्रीशक्तिभेदाद्
वस्तूनां नानात्मता}
कार्यस्वभावभेदानां
कारणेभ्य: समुद्भवात्।
तैर्विना भवतोऽन्यस्मात्
तज्जं रूपं कथं भवेत्।।248।।
सामग्रीशक्ति भेदाद्धि
वस्तूनां विश्वरूपता।
सा चेन्न भेदिका
प्राप्तमेकरूपमिदं जगत्।।249।।
भेदकाभेदकत्वे
स्याद् व्याहता भिन्नरूपता।
एकस्य नानारूपत्वे
द्वे रूपे पावकेतरौ।।250।।
तत् तस्या जननं
रूपमन्यस्य यदि सैव सा।
न तस्या जननं रूपं
तत् तस्या: सम्भवेत् कथम्।251।।
तत: स्वभावौ
नियतावन्योन्यं हेतुकार्ययो:।
तस्मात्
स्वदृष्टाविव तद् दृष्टे कार्येऽपि गम्यते।।252।।
एकं कथमनेकस्मात्
क्लेदवद् दुग्धवारिण:।
द्रवशक्ते: यत:
क्लेद: सा त्वेकैव द्वयोरपि।।253।।
भिन्नाभिन्न: किमस्यात्मा
भिन्नोऽथ द्रवता कथम्।
अभिन्नेत्युच्यते
बुद्धेस्तद्रूपाया अभेदत:।।254।।
तद्वद् भेदेऽपि दहनो
दहनप्रत्ययाश्रय:।
येनांशेनादधद् धूमं
तेनांशेन तथा गति:।।255।।
दहनप्रत्ययाङ्गादेवान्यापेक्षात्
समुद्भवात्।
धूमोऽतद्व्यभिचारीति
तद्वत् कार्यं तथापरम्।।256।।
धूमेन्धनविकाराङ्गतापदे
दहनस्थिते:।
अनग्निश्चेदधूमोऽसौ
सधूमश्चेत् स पावक:।।257।।
नान्तरीयकता ज्ञेया
यथास्वं हेत्वपेक्षया।
स्वभावस्य यथोक्तं
प्राग् विनाशकृतकत्वयो:।।258।।
अहेतुत्वगतिन्याय:
सर्वोऽयं व्यतिरेकिण:।
अभ्यूह्य: श्रावणत्वोक्ते:
कृताया: साम्यदृष्टये।।259।।
हेतुस्वभावनिवृत्त्यैवार्थनिवृत्तिवर्णनात्।
सिद्धोदाहरणेत्युक्तानुपलब्धि:
पृथग् न तु।।260।।
तत्राप्यदृश्यात्
पुरुषात् प्राणादेरनिवर्तनात्।
सन्देहहेतुताख्यात्या
दृश्येऽर्थे सेति सूचितम्।।261।।
अनङ्गीकृतवस्त्वंशो
निषेध: साध्यतेऽनया।
वस्तुन्यपि तु
पूर्वाभ्यां पर्युदासो विधानत:।।262।।
तत्रोपलभ्येष्वस्तित्वमुपलब्धेर्न
चापरम्।
इत्यज्ञज्ञापनायैकानुपाख्योदाहृतिर्मता।।263।।
{स्वभावानुपलब्ध्या
विषयिप्रतिषेध:}
विषयासत्त्वतस्तत्र
विषयि प्रतिषिध्यते।
ज्ञानाभिधानसन्देहं
यथाऽदाहादपावक:।।264।।
तथान्या नोपलभ्येषु
नास्तितानुपलम्भनात्।
तज्ज्ञानशब्दा:
साध्यन्ते तद्भावात् तन्निबन्धना।।265।।
सिद्धो हि व्यवहारोऽयं
दृश्यादृष्टावसन्निति।
तस्या: सिद्धावसन्दिग्धौ
तत्कार्यत्वेऽपि धीध्वनी।।266।।
विद्यमानेऽपि विषये
मोहादत्राननुब्रुवन्।
केवलं सिद्धसाधर्म्यात्
स्मार्यते समयं पर:।।267।।
कार्यकारणता यद्वत्
साध्यते दृष्ट्यदृष्टित:।
कार्यादिशब्दा हि
तयोर्व्यवहाराय कल्पिता:।।268।।
कारणात्
कार्यसंसिद्धि: स्वभावान्तर्गमादियम्।
हेतुप्रभेदाख्याने न
दर्शितोदाहृति: पृथक्।।269।।
एकोपलम्भानुभवादिदं
नोपलभे इति।
बुद्धेरुपलभे वेति
कल्पिकाया: समुद्भव:।।270।।
{विशिष्टवेदनादेवार्थानां
विशेषावगति:}
विशेषो गम्यतेऽर्थानां
विशिष्टादेव वेदनात्।
तथाभूतात्मसम्पत्तिर्भेदधीहेतुरस्य
च।।271।।
तस्मात् स्वतो
धियोर्भेदसिद्धिस्ताभ्यां तदर्थयो:।
अन्यथा ह्यनवस्थातो
भेद: सिध्येन्न कस्यचित्।।272।।
विशिष्टरूपानुभवादन्यथान्यनिराक्रिया।
तद्विशिष्टोपलम्भोऽत:
तस्याप्यनुपलम्भनम्।।273।।
तस्मादनुपलम्भोऽयं
स्वयं प्रत्यक्षतो गत:।
स्वमात्रवृत्तेर्गमकस्तदभावव्यवस्थिते:।।274।।
अन्यथार्थस्य
नास्तित्वं गम्यतेऽनुपलम्भत:।
उपलम्भस्य
नास्तित्वमन्येनेत्यनवस्थिति:।।275।।
{दृश्यानुपलब्धि:
सद्व्यवहारबाधिका}
अदृश्ये
निश्चयायोगात् स्थितिरन्यत्र बाध्यते।
यथाऽलिङ्गोऽन्यसत्त्वेषु
विकल्पादिर्न सिध्यति।।276।।
अनिश्चयफला ह्येषा
नालं व्यावृत्तिसाधने।
आद्याधिक्रियते
हेतोर्निश्चितेनैव साधने।।277।।
तस्या: स्वयं प्रयोगेषु
स्वरूपं वा प्रयुज्यते।
अर्थबाधनरूपं वा
भावे भावादभावत:।।278।।
अन्योन्यभेदसिद्धेर्वा
ध्रुवभावविनाशवत्।
प्रमाणान्तरबाधाद्
वा सापेक्षध्रुवभाववत्।।279।।
हेत्वन्तरसमुत्थस्य
सन्निधौ नियत: कुत:।
भावहेतुभवत्वे किं
पारम्पर्यपरिश्रमै:।।280।।
नाशनं जनयित्वान्यं
स हेतुस्तस्य नाशक:।
तमेव नश्वरं भावं
जनयेद् यदि किं भवेत्।।281।।
आत्मोपकारक: क:
स्यात् तस्य सिद्धात्मन: सत:।
नात्मोपकारक: क:
स्यात् तेन य: समपेक्ष्यते।।282।।
अनपेक्षश्च किं भावोऽतथाभूत:
कदाचन।
यथा न क्षेपभागिष्ट:
स एवोद्भूतनाशक:।।283।।
क्षणमप्यनपेक्षत्वे
भावो भावस्य नेति चेत्।
भावो हि स तथा भूतोऽभावे
भावस्तथा कथम्।।284।।
येऽपरापेक्षतद्भावास्तद्भावनियता
हि ते।
असम्भवद्विबन्धा च
सामग्री कार्यकर्मणि।।285।।
*समाप्तं चेदं प्रमाणवार्त्तिकम्*