स्वार्थानुमाननामा
तृतीय: परिच्छेद:
पक्षधर्मस्तदंशेन
व्याप्तो हेतु:;
त्रिधैव स:।
अविनाभावनियमात्;
हेत्वाभासास्ततोऽपरे।।1।।
कार्यं स्वभावैर्यावद्भिरविनाभावि
कारणे।
हेतु: स्वभावे भावोऽपि
भावमात्रानुरोधिनि।।2।।
अप्रवृत्ति: प्रमाणानाम्
अप्रवृत्तिफलाऽसति।
असज्ज्ञानफला,
काचिद् हेतुभेदव्यपेक्षया।।3।।
विरुद्धकार्ययो:
सिद्धिरसिद्धिर्हेतुभावयो:।
दृश्यात्मनोरभावार्थानुपलब्धिश्चतुर्विधा।।4।।
तद्विरुद्धनिमित्तस्य
योपलब्धि: प्रयुज्यते।
निमित्तयोर्विरुद्धत्वाभावे*
सा व्यभिचारिणी**।।5।।(पा0टि0- **भावो हि व्यभिचारवान्-रा0।)
इष्टं विरुद्धकार्येऽपि
देशकालाद्यपेक्षणम्।
अन्यथा व्यभिचारि*
स्यात् भस्मेवाशीतसाधने।।6।।(पा0टि0 - *व्यभिचारी-रा0।
हेतुना य: समग्रेण
कार्योत्पादोऽनुमीयते।
अर्थान्तरानपेक्षत्वात्
स स्वभावोऽनुवर्णित:।।7।।
सामग्रीफलशक्तीनां परिणामानुबन्धिनि।
अनैकान्तिकता कार्ये
प्रतिबन्धस्य सम्भवात्।।8।।
एकसामग्र्यधीनस्य
रूपादे रसतो गति:।
हेतुधर्मानुमानेन
धूमेन्धनविकारवत्।।9।।
शक्तिप्रवृत्त्या न
विना रस: सैवान्यकारणम्।
इत्यतीतैककालानां
गतिस्तत्कार्यलिङ्गजा*।।10।।
हेतुना योऽसमग्रेण*
कार्योत्पादोऽनुमीयते।
तच्छेषवदसामर्थ्याद्
देहाद् रागानुमानवत्।।11।।
(पा0टि0-*जायते कार्यलिङ्गत:-रा0; त्वसग्रेण-क0।)
विपक्षेऽदृष्टिमात्रेण
कार्यसामान्यदर्शनात्।
हेतुज्ञानं*
प्रमाणाभं* वचनाद् रागितादिवत्।।12।।
(पा0टि0-*हेतुज्ञानप्रमाणाभं-रा0।)
न चादर्शनमात्रेण
विपक्षेऽव्यभिचारिता।
सम्भाव्यव्यभिचारित्वात्*
स्थालीतण्डुलपाकवत्।।13।। (पा0टि0- *0व्यभिचारत्वात्-क0।
यस्यादर्शनमात्रेण
व्यतिरेक: प्रदर्श्यते।
तस्य
संशयहेतुत्वाच्छेषवत् तदुदाहृतम्।।14।।
हेतोस्त्रिष्वपि
रूपेषु निश्चयस्तेन वर्णित:।
असिद्धविपरीतार्थव्यभिचारिविपक्षत:।।15।।
व्यभिचारिविपक्षेण
वैधर्म्यवचनं च यत्।
यद्यदृष्टिफलं तच्च
तदनुक्तेऽपि गम्यते।।16।।
न च नास्तीति वचनात्
तन्नास्त्येव यथा यदि।
नास्ति स ख्याप्यते
न्यायस्तदा* नास्तीति गम्यते**।।17।।
(पा0टि0-*चायमुक्तौ नेति गतिस्तदा-रा0 ** तद्व्यर्थमिति शेष:)
यद्यदृष्टौ निवृत्ति:*
स्याच्छेषवद् व्यभिचारि किम्।
व्यतिरेक्यपि हेतु:
स्यान्न वाच्याऽसिद्धियोजना।।18।।(पा0टि0-*यद्यदृष्ट्या-क0)
विशेषस्य
व्यवच्छेदहेतुता स्याददर्शनात्।
प्रमाणान्तरबाधा
चेन्नेदानीं नास्तिताऽदृश:।।19।।
तथान्यत्रापि
सम्भाव्यं प्रमाणान्तरबाधनम्।
दृष्टाऽयुक्तिरदृष्टेश्च
स्यात् स्पर्शस्याविरोधिनी।।20।।
देशादिभेदाद्
दृश्यन्ते भिन्ना द्रव्येषु शक्तय:।
तत्रैकदृष्ट्या
नान्यत्र युक्तस्तद्भावनिश्चय:।।21।।
आत्ममृच्चेतनादीनां
योऽभावस्याप्रसाधक:।
स एवानुपलम्भ: किं
हेत्वभावस्य साधक:।।22।।
तस्मात्
तन्मात्रसम्बद्ध:* स्वभावो भावमेव वा।
निवर्तयेत्,
कारणं वा कार्यमव्यभिचारत:।।23।। (पा0टि0 - *0सम्बन्ध:-रा0)
अन्यथैकनिवृत्त्यान्यविनिवृत्ति:
कथं भवेत्।
नाश्ववानिति
मर्त्येन* न भाव्यं गोमतापि किम्।।24।।(पा0टि0-*सन्देहे किं न वा पशुसंशय:रा0)
सन्निधानात् तथैकस्य कथमन्यस्य सन्निधि:।
गोमानित्येव मर्त्येन भाव्यमश्ववतापि किम्।।25।।
तस्माद्
वैधर्म्यदृष्टान्ते नेष्टोऽवश्यमिहाश्रय:।
तदभावे च तन्नेति
वचनादपि तद्गति: *।।26।। (पा0टि0- *तद्गते:-क0।)
तद्भावहेतुभावौ हि
दृष्टान्ते तदवेदिन:।
ख्याप्येते, विदुषां वाच्यो हेतुरेव हि केवल:।।27।।
तेनैव ज्ञातसम्बन्धे
द्वयोरन्यतरोक्तित:।
अर्थापत्त्या
द्वितीयेऽपि स्मृति: समुपजायते।।28।।
हेतुस्वभावाभावोऽत:
प्रतिषेधे च कस्यचित्।
हेतु:, युक्तोपलम्भस्य तस्य चानुपलम्भनम्।।29।।
इतीयं त्रिविधोक्ताप्यनुपलब्धिरनेकधा*।
तत्तद्विरुद्धाद्यगतिगतिभेदप्रयोगत:।।30।। (पा0टि0- *त्रिविधाप्युक्तानु0-क0।)
कार्यकारणभावाद् वा
स्वभावाद् वा नियामकात्।
अविनाभावनियमोऽदर्शनान्न
न दर्शनात्।।31।।
अवश्यंभावनियम:* क:
परस्यान्यथा* परै:। (पा0 टि0-
*0नियमोऽन्यथा परस्य क:-रा0।)
अर्थान्तरनिमित्ते
वा धर्मे वाससि रागवत्।।32।।
अर्थान्तरनिमित्तो
हि धर्म: स्यादन्य एव स:।
पश्चाद् भावान्न
हेतुत्वं फलेऽप्येकान्तता कुत:।।33।।
कार्यं धूमो हुतभुज:
कार्यधर्मानुवृत्तित:।
तस्याभावे* तु स
भवन्* हेतुमत्तां विलङ्घयेत्।।34।।
(पा0टि0-* स भवस्तदभावेपि-क0।)
नित्यं सत्त्वमसत्त्वं
वाऽहेतोरन्यानपेक्षणात्।
अपेक्षातश्च*
भावानां कादाचित्कस्य सम्भव:।।35।।
(पा0टि0-*अपेक्षया हि-क0।)
अग्निस्वभाव: शक्रस्य
मूर्धा यद्यग्निरेव स:।
अथानग्निस्वभावोऽसौ
धूमस्तत्र कथं भवेत्!।।36।।
धूमहेतुस्वभावो हि
वह्निस्तच्छक्तिभेदवान्।
अधूमहेतोर्धूमस्य
भावे स स्यादहेतुक:।।37।।
अन्वयव्यतिरेकाद् यो
यस्य दृष्टोऽनुवर्तक:।
स्वभावस्तस्य
तद्धेतुरतो भिन्नान्न सम्भव:।।38।।
स्वभावेऽप्यविनाभावो
भावामात्रानुरोधिनि।
तदभावे
स्वयम्भावस्याभाव: स्यादभेदत:।।39।।
सर्वे भावा:
स्वभावेन स्वस्वभावव्यवस्थिते:।
स्वभावपरभावाभ्यां
यस्माद्* व्यावृत्तिभागिन:**।।40।।
(पा0टि0-* **व्यवृत्तिभागिनो यत:रा0।)
तस्माद् यतो* यतोऽर्थानां
व्यावृत्तिस्तन्निबन्धना:**।
जातिभेदा:
प्रकल्प्यन्ते तद्विशेषावगाहिन:।।41।।
(पा0टि0-* **तस्माद्
व्यावृत्तिरर्थानां यतश्च तन्निबन्धना:-रा0।
तस्माद् विशेषो* यो
येन धर्मेण** सम्प्रतीयते।
न स शक्यस्ततोऽन्येन
तेन भिन्ना व्यवस्थिति:।।42।।
(पा0टि0- * **यो
येन धर्मेण विशेष: पाठा0।)
एकस्यार्थस्वभावस्य
प्रत्यक्षस्य सत: स्वयम्।
कोऽन्यो भागो* न
दृष्ट:** स्याद् य: प्रमाणै: परीक्ष्यते।।43।।
(पा0टि0-* **न दृष्टो भागा:-पाठा0।)
नो चेद् भ्रान्तिनिमित्तेन
संयोज्येत गुणान्तरम्।
शुक्तौ वा रजताकारो
रूपसाधर्म्यदर्शनात्।।44।।
तस्माद् दृष्टस्य
भावस्य दृष्ट एवाखिलो गुण:।
भ्रान्तेर्निश्चीयते*
नेति** साधनं सम्प्रवर्तते।।45।।
(पा0टि0- * **भ्रान्तेर्न निश्चय इति-रा0।)
वस्तुग्रहेऽनुमानाच्च
धर्मस्यैकस्य निश्चये।
सर्वग्रहो* ह्यपोहे
तु** नायं दोष: प्रसज्यते।।46।।
(पा0टि0-* **सर्वधर्मग्रहोऽपोहे-पाठा0।प्र0वा0 : 18।)
तस्मादपोहविषयमिति*
लिङ्गं* प्रकीर्तितम्।
अन्यथा धर्मिण:
सिद्धावसिद्धं** किमत: ** परम्।।47।।
(पा0टि0 -*विषयं लिङ्गमिति-रा0 ** ‘‘नैनोपाधिविश्ष्टिस्य
भेदिनोर्थस्य ग्राहिका। उपकाराङ्गशक्तिभ्योऽभिन्नात्मनिश्चयग्रहे’’।।-रा0।।)
क्वचित्
सामान्यविषयं दृष्टे ज्ञानमलिङ्गजम्।
कथमन्यापोहविषयम् ?
तन्मात्रापोहगोचरम्।।48।।
निश्चयारोपमनसोर्बाध्यबाधकभावत:।
समारोपविवेकेऽस्य
प्रवृत्तिरिति गम्यते।।49।।
यावन्तोंऽशसमारोपास्तन्निरासे*
विनिश्चया:*। (पा0टि0-*निश्चयास्तन्निरासत:-रा0)
तावन्त एव शब्दाश्च*
तेन ते भिन्नगोचरा:*।।50।।(पा0टि0-*शब्दाभिव्यवच्छेदगोचरा:-रा0।)
अन्यथैकेन शब्देन
व्याप्त एकत्र वस्तुनि।
बुद्ध्या वा
नान्यविषय इति पर्यायता भवेत्।।51।।
यस्यापि
नानोपाधेर्धीर्ग्राहिकार्थस्य भेदिन:।
नानोपाध्युपकाराङ्गशक्त्यभिन्नात्मनो
ग्रहे*।।52।। (पा0टि0 - * ‘नानोपाधिविशिष्टस्य
भेदिनोऽर्थस्य ग्राहिका। उपकाराङ्गशक्तिभ्योऽभिन्नात्मनिश्चयग्रहे’’।।-रा0।)
सर्वात्मनोपकार्यस्य*
को भेद: स्यादनिश्चित:।
तयोरात्मनि
सम्बन्धादेकज्ञाने द्वयग्रह:।।53।।(पा0टि0 -*सर्वात्मना कृते ग्राहे-रा0।)
धर्मोपकारशक्तीनां
भेदे तास्तस्य किं यदि।
नोपकारस्ततस्तासां
तदा स्यादनवस्थिति:।।54।।
एकोपकारके ग्राह्ये नोपकारास्ततोऽपरे*।
दृष्टे तस्मिन्नदृष्टाश्च
तद्ग्रहे सकलग्रह:*।।55।।
(पा0टि0- *ऽदृष्टा: तस्मिन्न सन्ति ते; सर्वोपकारं ह्येकं—रा0।)
{न्यायमीमांसामतनिराकरणम्}
यदि भ्रान्तिनिवृत्त्यर्थं
गृहीतेऽप्यन्यदिष्यते।
तद्व्यवच्छेदविषयं
सिद्धं तद्वत् ततोऽपरम्।।56।।
असमारोपविषये* वृत्तिरेपि
च* निश्चयै:।
यन्न निश्चीयते रूपं
तत् तेषां विषय: कथम्।।57।।(पा0टि0- *तद्विपक्षसमारोपविषये यदि-रा0।)
प्रत्यक्षेण गृहीतेऽपि
विशेषेंऽशविवर्जिते।
यद्विशेषावसायेऽस्ति
प्रत्यय: स प्रतीयते।।58।।
तत्रापि चान्यव्यावृत्तिरन्यव्यावृत्त
इत्यपि।
शब्दाश्च
निश्चयाश्चैव निमित्तमनुरुन्धते।।59।।
द्वयोरेकाभिधानेऽपि
विभक्तिर्व्यतिरेकिणी।
भिन्नमर्थमिवान्वेति
वाच्यलेशविशेषत:*।।60।। (पा0टि0 -* वाच्यते
स विशेषत:-रा0।)
भेदान्तरप्रतिक्षेपाप्रतिक्षेपौ
तयोर्द्वयो:।
पदं संकेतभेदस्य
ज्ञातृवाञ्छानुरोधिन:।।61।।
भेदोऽयमेव सर्वत्र
द्रव्यभावाभिधायिनो:।
शब्दयोर्न
तयोर्वाच्ये विशेषस्तेन कश्चन।।62।।
जिज्ञापयिषुरर्थं तं
तद्धितेन कृतापि वा।
अन्येन वा यदि
ब्रूयात् भेदो नास्ति तत: पर:।।63।।
तेनान्यापोहविषये
तद्वत्पक्षोपवर्णनम्*।
प्रत्याख्यातं
पृथक्त्वे हि स्याद् दोषो जातितद्वतो:।।64।।(पा0टि0-* तद्दोषोपवर्णनम्-रा0।)
येषां वस्तुवशा वाचो
न विवक्षापराश्रया:।
षष्ठीवचनभेदादि
चोद्यं तान् प्रति युक्तमत्।।65।।
यद् यथा वाचकत्वेन
वक्तृभिर्विनियम्यते।
अनपेक्षितबाह्यार्थं
तत् तथा वाचकं वच:।।66।।
दारा: षण्णगरीत्यादौ
भेदाभेदव्यवस्थिते:।
खस्य स्वभाव: खत्वं
चेत्यत्र वा किं निबन्धनम्।।67।।
पररूपं स्वरूपेण यया
संव्रियते धिया।
एकार्थप्रतिभासिन्या
भावानाश्रित्य भेदिन:*।।68।। (पा0टि0-*कारिकेयं रा0 संस्करणे
इत्थं दृश्यते-‘‘एकार्थप्रतिभासिन्या
भावानाश्रित्य भेदिना:। रूपं परेषां व्यावृत्तं सा धी: संवृतिरुच्यते।।” इति।)
तया संवृतनानात्वा:
संवृत्या भेदिन: स्वयम्।
अभेदिन इवाभान्ति
भावा* रूपेण केनचित्।।69।।
(पा0टि0-*भेदा-रा0।)
तस्या अभिप्रायवशात्
सामान्यं सत् प्रकीर्तितम्।
तदसत् परमार्थेन
यथा सङ्कल्पितं तया*।।70।।
(पा0टि0-*यथा तयोपकल्पितं तदसत् परमार्थत:-रा0।)
व्यक्तयो
नानुयन्त्यन्यदनुयायि न भासते।
ज्ञानादव्यतिरिक्तं वा
कथमर्थान्तरं व्रजेत्।।71।।
तस्मान्मिथ्याविकल्पोऽयमर्थेष्वेकात्मताग्रह:।
इतरेतरभेदोऽस्य बीजं
संज्ञा यदर्थिका।।72।।
एकप्रत्यवमर्शार्थज्ञानाद्येकार्थसाधने।
भेदेऽपि नियता:
केचित् स्वभावेनेन्द्रियादिवत्।।73।।
ज्वरादिशमने
काश्चित् सह प्रत्येकमेव वा।
दृष्टा यथा वौषधयो
नानात्वेऽपि न चापरा:।।74।।
अविशेषान्न
सामान्यमविशेषप्रसङ्गत:।
तासां
क्षेत्रादिभेदेऽपि ध्रौव्याच्चानुपकारत:।।75।।
तत्स्वभावग्रहाद्*
या* धीस्तदर्थेवाप्यनर्थिका। (पा0टि0-
*तत्त्वभवविकल्पा-रा0।)
विकल्पिकाऽतत्कार्यार्थभेदनिष्ठा
प्रजायते।।76।।
तस्यां यद्रूपमाभाति
बाह्यमेकमिवान्यत:।
व्यावृत्तमिव निस्तत्त्वं
परीक्षानङ्गभावत:।।77।।
अर्था
ज्ञाननिविष्टास्त एवं व्यावृत्तरूपका:।
अभिन्ना* इव
चाभान्ति* व्यावृत्ता: पुनरन्यत:।।78।। (पा0टि0- *तेनाभिन्न इवाभान्ति-पाठा0।)
त एव तेषां
सामान्यसमानाधारगोचरै:।
ज्ञानाभिधानैर्मिथ्यार्थो*
व्यवहार:* प्रतन्यते।।79।। (पा0टि0- *नैर्व्यवहारो मिथ्यार्थ:-रा0।)
स च सर्व:
पदार्थानामन्योन्याभावसंश्रय:।
तेनान्यापोहविषयो
वस्तुलाभस्य* चाश्रय:*।।80।। (पा0टि0- *तदत्कार्यकारिणाम्-रा0।)
यत्रास्ति*
वस्तुसम्बन्धो* यथाक्तानुमितौ यथा।
नान्यत्र
भ्रान्तिसाम्येऽपि दीपतेजो मणौ यथा।।81।। (पा0टि0-*वस्तुलाभाश्रयो यत्र-रा0।)
तत्रैककार्योऽनेकोऽपि*
तदकार्यान्यताश्रयै:। (पा0टि0-
*तत्रानेकोऽपि कार्येका न
तत्कार्यपराश्रयै:)
एकत्वेनाभिधाज्ञानै:*
व्यवहार: प्रतार्यते।।82।।(पा0टि0- *ज्ञानाभिधानैरेकत्वात्-रा0।)
ततोऽनेककृदेकोऽपि तद्भावपरिदीपने*।(पा0टि0- *ततश्चैकोऽप्यनेककृत्
तद्भावपरिदीपनात्)
अतत्कार्यार्थभेदेन
नानाधर्मा* प्रतीयते।।83।।(पा0टि0- *नानाधर्म:-रा0। एवं वृत्तावपि।)
यथाप्रतीति कथित:
शब्दार्थोऽसावसन्नपि।
सामानाधिकरण्यं च
वस्तुन्यस्य न सम्भव:।।84।।
धर्मधर्मिव्यवस्थानं
भेदोऽभेदश्च यादृश:।
असमीक्षिततत्त्वार्थो
यथा लोके प्रतीयते।।85।।
तं तथैव समाश्रित्य
साध्यसाधनसंस्थिति:।
परमार्थावताराय
विद्वद्भिरवकल्प्यते।।86।।
संसृज्यन्ते न
भिद्यन्ते स्वतोऽर्था: पारमार्थिका:।
रूपमेकमनेकं च तेषु
बुद्धेरुपप्लव:।।87।।
भेदस्ततोयं* बौद्धेऽर्थे सामान्यं भेद इत्यपि।
तस्यैव चान्यव्यावृत्त्या
धर्मभेद: प्रकल्प्यते।।88।। (पा0टि0- *ततोपि-रा0।)
साध्यसाधनसंकल्पे
वस्तुदर्शनहानित:।
भेद:
सामान्यसंसृष्टो ग्राह्यो नात्र स्वलक्षणम्।।89।।
समानभिन्नाद्याकारैर्न
तद् ग्राह्यं कथञ्चन।
भेदानां बहुभेदानां
तत्रैकस्मिन्नयोगत:।।90।।
तद्रूपं सर्वतो भिन्नं
तथा तत्प्रतिपादिका।
न श्रुति: कल्पना
वास्ति सामान्येनैव वृत्तित:।।91।।
शब्दा: संकेतितं
प्राहुर्व्यवहाराय स स्मृत:।
तदा स्वलक्षणं
नास्ति संकेतस्तेन तत्र न।।92।।
अपि प्रवर्त्तेत
पुमान् विज्ञायार्थक्रियाक्षमान्।
तत्साधनायेत्यर्थेषु
संयोज्यन्तेऽभिधाक्रिया: *।।93।।
(पा0टि0- *भिधयका:-पाठा0।)
तत्रानर्थयाक्रियायोग्या
जातिस्तद्वानलं* स च।
साक्षान्न योज्यते
कस्मादानन्त्याच्चेदिदं समम्।।94।।
(पा0टि0- *अत्रानर्थक्रियायोग्या नास्ति तद्वानलं-रा0।)
तत्कारिणामतत्कारिभेदसाम्ये
न किं कृत:।
तद्वद्दोषस्य
साम्याच्चेदस्तु जातिरलं परा।।95।।
तदन्यपरिहारेण प्रवर्त्तेतेति
च ध्वनि:।
उच्यते तेन तेभ्योऽस्याऽव्यवच्छेदे* कथं च स:।।96।।
(पा0टि0-*तेन तेभ्योऽव्यवच्छेद प्रवर्तेत-रा0।)
व्यवच्छेदोऽस्ति
चेदस्य नन्वेतावत् प्रयोजनम्।
शब्दानामिति किं
तत्र सामान्येनापरेण व:।।97।।
ज्ञानाद्यर्थक्रियां
तांस्तां दृष्ट्वा भेदेऽपि कुर्वत:।
अर्थांस्तदन्यविश्लेषविषयैर्ध्वनिभि:
सह।।98।।
संयोज्य
प्रत्यभिज्ञानं कुर्यादप्यन्यदर्शने*।
परस्यापि न सा
बुद्धि: सामान्यादेव केवलात्।।99।।(पा0टि0-*पूर्वदृष्टान्यदर्शने-रा0।)
नित्यं
तन्मात्रविज्ञाने व्यक्त्यज्ञानप्रसङ्गत:।
तदा कदाचित्
सम्बद्धस्यागृहीतस्य तद्वत:।।100।।
तद्वात्तनिश्चयो न
स्याद् व्यवहारस्तत: कथम् ?।
एकवस्तुसहायाश्चेद्
व्यक्तयो ज्ञानकारणम्।।101।।
तदेकं वस्तु किं
तासां नानात्वं समपोहति।
नानात्वाच्चैकविज्ञानहेतुता
तासु नेष्यते।।102।।
अनेकमपि
यद्येकमपेक्ष्याभिन्नबुद्धिकृत्।
ताभिर्विनापि
प्रत्येकं क्रियामाणां धियं प्रति।।103।।
तेनैकेनापि
सामर्थ्यं* तासां नेत्यग्रहो
धिया। (पा0टि0- *सामान्यात्-रा0।)
नीलादेर्नेत्रविज्ञाने
पृथक् सामर्थ्यदर्शनात्।।104।।
शक्तिसिद्धि: समूहेऽपि
नैवं व्यक्ते: कथञ्चन।
तासामन्यतमापेक्ष्यं
तच्चेच्छक्तं न केवलम्।।105।।
तदेकमुपकुर्युस्ता:
कथमेकां धियं च न।
कार्यञ्च* तासां प्राप्तोऽसौ जननं यदुपक्रिया।।106।। (पा0टि0- *कार्यञ्च-सर्वत्र।)
अभिन्नप्रतिभासा
धीर्न भिन्नेष्विति चेन्मतम्।
प्रतिभासो धिया
भिन्न: समाना इति तद्ग्रहात्।।107।।
कथं ता भिन्नधीग्राह्या:
समाश्चेदेककार्यता।
सादृश्यं ननु धी:
कार्यं तासां सा च विभिद्यते।।108।।
एकप्रत्यवमर्शस्य
हेतुत्वाद् धीरभेदिनी।
एकधीहेतुभावेन व्यक्तीनामप्यभिन्नता।।109।।
सा
चातत्कार्यविश्लेषस्तदन्यस्यानुवर्तिन:।
अदृष्टे:
प्रतिषेधाच्च संकेतस्तद्विदर्थिक:।।110।।
अतत्कारिविवेकेन
प्रवृत्त्यर्थतया श्रुति:।
अकार्यकृतितत्कारितुल्यरूपावभासिनीम्।।111।।
धियं
वस्तुपृथग्भावमात्रबीजामनर्थिकाम्।
जनयन्त्यप्यतत्कारिपरिहाराङ्गभावत:।।112।।
वस्तुभेदाश्रयाच्चार्थे
न विसंवादिका मता।
ततोऽन्यापोहविषया
तत्कर्त्राश्रितभावत:।।113।।
अवृक्षव्यतिरेकेण
वृक्षार्थग्रहणे द्वयम्।
अन्योन्याश्रयमित्येकग्रहाभावे
द्वयाग्रह:।।114।।
सङ्केतासम्भवस्तस्मादिति
केचित् प्रचक्षते।
तेषामवृक्षास्संकेते
व्यवच्छिन्ना न वा; यदि।।115।।
व्यवच्छिन्ना:,
कथं ज्ञाता: प्राग्वृक्षग्रहणादृते।
अनिराकरणे तेषां
संकेते व्यवहारिणाम्।।116।।
न स्यात्
तत्परिहारेण प्रवृत्तिर्वृक्षभेदवत्।
अविधाय
निषिध्यान्यत् प्रदर्श्यैकं पुर: स्थितम्।।117।।
वृक्षोऽयमिति संकेत:
क्रियते तत् प्रपद्यते।
व्यवहारेऽपि
तेनायमदोष इति चेत्; तरु:।।118।।
अयमप्ययमेवेति प्रसङ्गो
न निवर्त्तते।
एकप्रत्यवमर्शाख्ये
ज्ञाने; एकत्र हि स्थित:।।119।।
प्रपत्ता* तदतद्धेतूनर्थान् विभजते स्वयम्:।
तद्बुद्धिवर्तिनो
भावान् भातो** हेतुतया धिय:।120।। (पा0टि0-*प्रतिपत्ता-पाठा0
**भावो-पाठा0)
अहेतुरूपविकलानेकरूपानिव
स्वयम्।
भेदेन
प्रतिपद्येतेत्युक्तिर्भेदे नियुज्यते।।121।।
तं तस्या: प्रतियती* धी:* भ्रान्त्यैकं वस्त्विवेक्षते।
क्वचिन्निवेशनायार्थे
विनिवर्त्य कुतश्चन्।।122।। (पा0टि0- * **धीर्विकल्पिका-रा0।)
बुद्धे: प्रयुज्यते
शब्दस्तदर्थस्यावधारणात्।
व्यर्थोऽन्यथा
प्रयोग: स्यात्; तज्ज्ञेयादिपदेष्वपि।।123।।
व्यवहारोपनीतेषु
व्यवच्छेद्योऽस्ति कश्चन।
निवेशनं च यो
यस्माद् भिद्यते विनिवर्त्य* तम्**।।124।।(पा0टि0-* ** तन्निवर्तनात्-रा0।)
तद्भेदे भिद्यमानानां
समानाकारभासिनि।
स चायमन्यव्यावृत्त्या
गम्यते तस्य वस्तुन:।।125।।
कश्चिद् भाग इति प्रोक्तो
रूपं नास्यापि किञ्चन।
तद्गतावेव शब्देभ्यो
गम्यतेऽन्यनिवर्तनम्।।126।।
न तत्र गम्यते
कश्चिद् विशिष्ट:* केनचित्* पर:।
न चापि शब्दो
द्वयकृदन्योन्याभाव इत्यसौ।।127।।
(पा0टि0- *केनचिद् भेदवान्-रा0।)
अरूपो रूपवत्त्वेन
दर्शनं बुद्धिविप्लव:।
तेनैवापरमार्थोऽसावन्यथा
न हि वस्तुन:।।128।।
व्यावृत्तिर्वस्तु
भवति भेदोऽस्यास्मादितीरणात्।
एकार्थश्लेषविच्छेद
एको व्याप्रियते ध्वनि:।।129।।
लिङ्गं वा तत्र
विच्छिन्नं वाच्यं वस्तु न किञ्चन।
यस्याभिधानतो
वस्तुसामर्थ्यादखिले गति:।।130।।
भवेन्नानाफल: शब्द
एकाधारो भवत्यत:।
विच्छेदं
सूचयन्नेकमप्रतिक्षिप्य वर्त्तते।।131।।
यदान्यत्*; तेन स व्याप्त एकत्वेन च भासते।
सामानाधिकरण्यं
स्यात् तदा बुद्ध्यनुरोधत:।।132।।
(पा0टि0-*यदान्यं-पाठा0)
वस्तुधर्मस्य
संस्पर्शो विच्छेदकरणे ध्वने:।
स्यात् सत्यं स* हि तत्रेति* नैकवस्त्वभिधायिनि।।133।। (पा0टि0-
*सति तवे हि-रा0।)
बुद्धावभासमानस्य
दृश्यस्याभावनिश्चयात्।
तेनान्यापोहविषया:
प्रोक्ता: सामान्यगोचरा:।।134।।
शब्दाश्च
बुद्धयश्चैव वस्तुन्येषामसम्भवात्।
एकत्वाद्
वस्तुरूपस्य भिन्नरूपा मति: कुत:।।135।।
अन्वयव्यतिरेकौ वा
नैकस्यैकार्थगोचरौ।
अभेदव्यवहारश्च भेदे
स्युरनिबन्धना:।।136।।
सर्वत्र भावाद्
व्यावृत्तेर्नैते दोषा: प्रसंगिन:।
एककार्येषु भावेषु* तत्कार्यपरिचोदने।।137।। (पा0टि0-*भेदेषु-पाठा0।)
गौरवाशक्तिवैफल्याद्
भेदाख्याया: समा श्रुति:।
कृता
वृद्धैरतत्कार्यव्यावृत्तिविनिबन्धना।।138।।
न भावे सर्वभावानां
स्वस्वभावव्यवस्थिते:।
यद् रूपं शाबलेयस्य
बाहुलेयस्य नास्ति तत्।।139।।
अतत्कार्यपरावृत्तिर्द्वयोरपि
च विद्यते।
अर्थाभेदेन च विना
शब्दाभेदो न युज्यते।।140।।
तस्मात्
तत्कार्यतापीष्टाऽतत्कार्यादेव भिन्नता।
चक्षुरादौ* यथा रूपविज्ञानैकफले* क्वचित्।।141।।
(पा0टि0-*चक्षुरादावनेकत्र रूपविज्ञानके रा0।)
अविशेषेण
तत्कार्यचोदनासम्भवे सति।
सकृत्
सर्वप्रतीत्यर्थं कश्चित् सांकेतकीं श्रुतिम्।।142।।
कुर्याद् ऋतेऽपि तद्रूपसामान्याद्
व्यतिरेकिण:।
एकवृत्तेरनेकोऽपि
यद्येकश्रुतिमान् भवेत्।।143।।
वृत्तिराधेयता व्यक्तिरिति
तस्मिन्न युज्यते।
नित्यस्यानुपकार्यत्वात्
नाधार:; प्रविसर्पत:।।144।।
शक्तिस्तद्देशजननं
कुण्डादेर्बदरादिषु।
न सम्भवति साप्यत्र
तदभावेऽप्यवस्थिते:।।145।।
न स्थिति: साप्ययुक्तैव
भेदाभेदविवेचने।
विज्ञानोत्पत्तियोग्यत्वायात्मन्यन्यानुरोधि
यत्।।146।।
तद् व्यङ्ग्यं
योग्यतायाश्च कारणं कारकं मतम्।
प्रागेवास्य च
योग्यत्वे तदपेक्षा न युज्यते।।147।।
सामान्यस्याविकार्यस्य
तत्सामान्यवत: कुत:।
अञ्जनादेरिव व्यक्ते:
संस्कारो नेन्द्रियस्य* च*।।148।।(पा0टि0- *ऽक्षस्य न भवेत्-रा0।)
प्रतिपत्तेरभिन्नत्वात्* तद्भावाभावकालयो:।
व्यञ्जकस्य च
जातीनां जातिमत्ता यदीष्यते।।149।।
(पा0टि0-*तत्प्रतिपत्ते0-रा0।)
प्राप्तो गोत्वादिना
तद्वान् प्रदीपादि: प्रकाशक:।
व्यक्तेरन्याथ
वानन्या येषां जातिस्तु विद्यते।।150।।
तेषां व्यक्तिष्वपूर्वासु
कथं सामान्यबुद्धय:।
एकत्र तत्सतोऽन्यत्र* दर्शनासम्भवात् सत:।।151।।(पा0टि0- *दृष्टस्यान्यत्र-रा0।)
अनन्यत्वेऽन्वयाभावादन्यत्वेऽप्यनपाश्रयात्।
न याति न च
तत्रासीदस्ति पश्चान्न चांशवत्।।152।।
जहाति पूर्वं
नाधारमहो व्यसनसन्तति:।।
अन्यत्र वर्त्तमानस्य
ततोऽन्यस्थानजन्मनि।।153।।
स्वस्मादचलत: * स्थानाद् वृत्तिरित्यतियुक्तिमत्*।
यात्रासौ वर्त्तते
भावस्तेन सम्बध्यतेऽपि त।।154।।
(पा0टि0- *स्वस्थानादचलतोऽन्यत्र वृत्तिरयुक्तिमत्-रा0।)
तेद्देशिनञ्च
व्याप्नोति किमप्येतन्महाद्भुतम्!।
व्यक्त्यैवैकत्र* सा** व्यक्ताऽभेदात् सर्वत्रगा यदि**।।155।।
(पा0टि0- *व्यक्तेवैकत्र-पाठा0। **व्यक्ताथ सर्वगा जातिरिष्यते-रा0।)
सर्वत्र
दृश्येताभेदात् सापि न* व्यक्तयपेक्षिणी। (पा0टि0- *जातिर्दृश्येत सर्वत्र न च सा-पाठा0)
व्यञ्जकस्याप्रतीतौ
न व्यङ्ग्यं सम्यक् प्रतीयते*।।156।।
(पा0टि0- *व्यञ्जकाप्रतिपत्तौ हि न व्यङ्ग्यं सम्प्रतीयते-पाठा0।)
विपर्यय: पुन:
कस्मादिष्ट: सामान्यतद्वतो:।
पाचकादिष्वभिन्नेन
विनाप्यर्थेन वाचक:।।157।।
भेदान्न हेतु:
कर्मास्य न जाति: कर्मसंश्रयात्।
श्रुत्यन्तरनिमित्तत्वात्
स्थित्यभावाच्च* कर्मण:*।।158।। (पा0टि0- *कर्मणे न निमित्तता-रा0।)
असम्बन्धन्न
सामान्यं नायुक्तं शब्दकारणात्*।
अतिप्रसंगात्;
कर्मापि नासत्, ज्ञानाभिधानयो:।।159।। (पा0टि0-
*शब्दकारणम्-पाठा0।)
अनैमित्तिकतापत्ते:;
न च शक्तिरनन्वयात्।
सामान्यं पाचकत्वादि
यदि प्रागेव तद् भवेत्।।160।।
व्यक्तं सत्तादिवन्नो
चेन्न पश्चादविशेषत:।
क्रियोपकारापेक्षस्य
व्यञ्जकत्वेऽविकारिण:।।161।।
नापेक्षातिशयेऽप्यस्य* क्षणिकत्वात् क्रिया कुत:।
तुल्ये भेदे यया
जाति: प्रत्यासत्त्या प्रसर्पति।।162।।(पा0टि0- *अतिशये वा प्यस्य-रा0।)
क्वचिन्नान्यत्र
सैवास्तु शब्दज्ञाननिबन्धनम्।
न निवृत्तिं
विहायास्ति यदि भावान्वयोऽपर:।।163।।
एकस्य कार्यमन्यस्य
न स्यादत्यन्तभेदत:?।
यद्येकात्मतयानेक:
कार्यस्यैकस्य कारक:।।164।।
आत्मैकत्रापि
वास्तीति व्यर्था: स्यु: सहकारिण:।
नापैत्यभिन्नं तद्
रूपं विशेषा: खल्वपायिन:।।165।।
एकापाये फलाभावाद्
विशेषेभ्यस्तदुद्भव:।
स पारमार्थिको भावो
य एवार्थक्रियाक्षम:।।166।।
स च नान्वेति,
योऽन्वेति न तस्मात् कार्यसम्भव:।
तेनात्मनापि* भेदे हि हेतु:* कश्चिन्न चापर:।।167।।(पा0टि0-
*तेनात्मना भिमपि-पाठा0।)
स्वभावोऽयम्,
अभेदे तु स्यातां नाशोद्भवौ सकृत्।
भेदोऽपि तेन नैवं
चेद् य एकस्मिन् विनश्यति।।168।।
तिष्ठत्यात्मा न
तत्यातो न स्यात् सामान्यभेदधी:।
निवृत्तेर्नि:स्वभावत्वात्
न स्थानास्थानकल्पना।।169।।
उपप्लवश्च
सामान्यधियस्तेनाप्यदूषणा।
यत् तस्य जनकं रूपं
ततोऽन्यो जनक: कथम्।।170।।
भिन्ना विशेषा जनका:;
अस्त्यभेदोपि* तेषु चेत्।
तेन तेऽजनका: प्रोक्ता:;
प्रतिभासोऽपि भेदक:।।171।। (पा0टि0 -* अप्यभेदोऽपि-रा0।)
अनन्यभाक् स
एवार्थस्तस्य व्यावृत्तयोऽपरे।
तत् कार्यं कारणं
चोक्तं तत् स्वलक्षणमिष्यते।।172।।
तत्त्यागाप्तिफला:
सर्वा: पुरुषाणां प्रवृत्तय:।
यथाऽभेदाविशेषेऽपि न
सर्वं सर्वसाधनम्।।173।।
तथाभेदाविशेषेऽपि* न सर्वं सर्वसाधनम्।।
भेदे हि कारकं किञ्चिद
वस्तुधर्मतया भवेत्।।174।।(पा0टि0 -* तथाऽभेदाविशेषेऽपि-रा0।)
अभेदे तु विरुध्येते
तस्यैकस्य क्रियाक्रिये।
भेदोऽप्यस्त्यक्रियातश्चेत्* न कुर्यु: सहकारिण:।।175।।(पा0टि0-* भेदेश्चेदक्रियाहेतु:-क0।)
पर्यायेणाथ
कर्तृत्वं स किं तस्यैव वस्तुन:।
अत्यन्तभेदाभेदौ तु* स्यातां तद्वति वस्तुनि।।176।। (पा0टि0 - *हि-पाठ0।)
अन्योन्यं वा
तयोर्भेद: सदृशासदृशात्मनो:।
तयोरपि भवेद् भेदो
यदि येनात्मना तयो:।।177।
भेद:
सामान्यमित्येतद् यदि भेदस्तदात्मना।
भेद एव; तथा च स्यान्नि:सामान्यविशेषता।।178।।
भेदसामान्ययोर्यद्वद्
घटादीनां परस्परम्।
यमात्मानं
पुरस्कृत्य पुरुषोऽयं प्रवर्तते।।179।।
तत्साध्यफलवाञ्छावान्
भेदाभेदौ तदाश्रयो।
चिन्त्येते
स्वात्मना भेद:; व्यावृत्त्या च
समानता।।180।।
अस्त्येव वस्तु
नान्वेति प्रवृत्त्यादिप्रसङ्गत:।
एतेनैव यदह्रीका:* किमप्यश्लीलमाकुलम्*।।181।।(पा0टि0-*यदाह्रीका:-रा0; *प्ययुक्तमा0-रा0।)
प्रलपन्ति
प्रतिक्षिप्तं तदप्येकान्तसम्भवात्।
सर्वस्योभयरूपत्वे
तद्विशेषनिराकृते:।।182।।
चोदितो दधि खादेति
किमुष्टं नाभिधावति।
अथास्त्यतिशय:
कश्चिद् येन भेदेन वर्त्तते।।183।।
स एव दधि* सोऽन्यत्र* नास्तीत्यनुभयं परम्।
सर्वात्मत्वे च
सर्वेषां भिन्नौ स्यातां न धीध्वनी।।184।। (पा0टि0- *विशेषोन्यत्र-रा0।)
भेदसंहारवादस्य
तदभेदादसम्भव:*। (पा0टि0 -* तदभावासम्भव:-पाठा0।)
रूपाभावादभावस्य* शब्दा रूपाभिधायिन:।।185।। (पा0टि0-* द्रव्याभवा0-रा0।
नाशंक्या एव
सिद्धास्तेऽतो व्यवच्छेदवाचका:।
उपाधिभेदापेक्षो वा
स्वभाव: केवलोऽथ वा।। 186।।
उच्यते साध्यसिद्ध्यर्थं
नाशे कार्यत्वसत्त्ववत्।
सत्तास्वभावो
हेतुश्चेत् सा* सत्ता साध्यते
कथम्।। 187।। (पा0टि0-* न-पाठा0।)
अनन्वयो* हि भेदानां* व्याहतो हेतुसाध्ययो:?।
भावोपादानमात्रे तु
साध्ये सामान्यधर्मिणि।। 188।।(पा0टि0-
*भेदेनानव्यात् सोऽयं-रा0।)
न कश्चिदर्थ: सिद्ध:
स्यादनिषिद्धं च तादृशम्।
उपात्तभेदे साध्येऽस्मिन्
भवेद्धेतुरनन्वय:।। 189।।
सत्तायां तेन
साध्यायां विशेष: साधितो भवेत्।
अपरामृष्टतद्भेदे
वस्तुमात्रे तु साधने।।190।।
तन्मात्रव्यापिन:
साध्यस्यान्वयो न विहन्यते।
नासिद्धे भावधर्मोऽस्ति
व्यभिचार्युभयाश्रय:।।191।।
धर्मो विरुद्धोऽभावस्य
सा सत्ता साध्यते कथम्!
सिद्ध: स्वभावो गमको
व्यापकस्तस्य* निश्चित:*।।192।।
(पा0टि0- *ऽतो गम्यस्तस्य व्यापक:-रा0।)
गम्य:* स्वभावस्तस्यायं* स्वनिवृत्तौ* निवर्तक:।
(पा0टि0 - *सिद्ध: स्वभावनियत:-रा0; *निवृत्तौ वा-पाठा0।)
अनित्यत्वे यथा
कार्यमकार्यं वाऽविनाशिनि।।193।।
अहेतुत्वाद्
विनाशस्य स्वभावादनुबन्धिता।
सापेक्षाणां हि
भावानां नावश्यम्भावितेक्ष्यते।।194।।
बाहुल्येऽपीति* चेत्* तस्य हेतो: क्वचिदसम्भव:।
एतेन व्यभिचारित्वमुक्तं
कार्याव्यवस्थिते:।।195।। (पा0टि0-*बाहुल्येऽपि हि-पाठा0)
सर्वेषां नाशहेतूनां
हेतुमन्नाशवादिनाम्।
असामर्थ्याच्च
तद्धेतोर्भवत्येव स्वभावत:।।196।।
यत्र नाम
भवत्यस्मादन्यत्रापि स्वभावत:।
या काचिद् भावविषयाऽनुमितिर्द्विविधैव* सा*।।197।।(पा0टि0 - *द्विधैवानुमितिस्तत:-पाठा0)
स्वसाध्ये कार्यभावाभ्यां
सम्बन्धनियमात् तयो:।
प्रवृत्तेर्बुद्धिपूर्वत्वात्
तद्भावानुपलम्भने।।198।।
प्रवर्त्तितव्यं
नेत्युक्ताऽनुपलब्धे: प्रमाणता।।
शास्त्राधिकारेऽसम्बद्धा* बहवोऽर्था अतीन्द्रिया:।।199।।(पा0टि0*शास्त्राधिकारासम्बद्धा-रा0)
अलिङ्गाश्च कथं तेषामभावोऽनुपलब्धित:।
सदसन्निश्चयफला नेति
स्याद् वाऽप्रमाणता।।200।।
प्रमाणमपि काचित्
स्याद् लिङ्गातिशयभाविनी।
स्वभावज्ञापकाज्ञानस्यायं
न्याय उदाहृत:।।201।।
कार्ये तु
कारकाज्ञानमभावस्यैव साधकम्।
स्वभावानुपलम्भश्च
स्वभावेऽर्थस्य लिङ्गिनि।।202।।
तदभाव: प्रतीयेत
हेतुना यदि केनचित्।
दृश्यस्य
दर्शनाभावकारणाऽसम्भवे सति।।203।।
भावस्यानुपलब्धस्य* भावाभाव: प्रतीयते।
विरुद्धस्य च भावस्य
भावे तद्भावबाधनात्।।204।।(पा0टि0- *नुपलम्भस्य-रा0)
तद्विरुद्धोपलब्धौ
स्यादसत्ताया विनिश्चय:।
अनादिवासनोद्भूतविकल्पपरिनिष्ठित:।।205।।
शब्दार्थस्त्रिविधो
धर्मी भावाभावोभयाश्रय।
तस्मिन्
भावानुपादाने साध्येऽस्यानुपलम्भनम्।।206।।
तथा हेतुर्न
तस्यैवाभाव: शब्दप्रयोगत:।
परमार्थैकतानत्वे
शब्दानामनिबन्धना।।207।।
न स्यात् प्रवृत्तिरर्थेषु
दर्शनान्तरभेदिषु।
अतीताजातयोर्वापि न
च स्यादनृतार्थता।।208।।
वाच:
कस्याश्चिदित्येषा बौद्धार्थविषया मता।
शब्दार्थापह्नवे
साध्ये धर्माधारनिराकृते:।।209।।
न साध्य: समुदाय:
स्यात् सिद्धो धर्मश्च केवल:।
सदसत्पक्षभेदेन
शब्दार्थानपवादिभि:।।210।।
वस्त्वेव चिन्त्यते ह्यत्र
प्रतिबद्ध: फलोदय:।
अर्थक्रियाऽसमर्थस्य
विचारै: किं परीक्षया।।211।।
षण्ढस्य रूपे* वैरूप्ये* कामिन्या: किं परीक्षया।
शब्दार्थ:
कल्पनाज्ञानविषयत्वेन कल्पित:।।212।।
(पा0टि0-*रूपवैरूप्ये-पाठा0)
धर्मो
वस्त्वाश्रयासिद्धिरस्योक्ता*
न्यायवादिना। (पा0टि0- *रस्यक्तो-पाठा0।)
नान्तरीयकताऽभावाच्छब्दानां
वस्तुभिस्सह।।213।।
नार्थसिद्धिस्ततस्ते
हि वक्त्त्रभिप्रायसूचका:।
आप्तवादाविसंवादसामान्यादनुमानता*
?।।214।।
(पा0टि0-*कारिकांशोऽयं 217
कारिकायामप्यक्षरशो दृश्यते)
सम्बद्धानुगुणोपायं पुरुषार्थाभिधायकम्।
परीक्षाधिकृतं
वाक्यमतोऽनधिकृतं परम्।।215।।
प्रत्यक्षेणानुमानेन
द्विविधेनाप्यबाधनम्।
दृष्टादृष्टार्थयोरस्याविसंवादस्तदर्थयो:।।216।।
आप्तवादाविसंवादसामान्यादनुमानता।
बुद्धेरगत्याभिहिता
निषिद्धाप्यस्य गोचरे।।217।।
हेयोपादेयतत्त्वस्य
सोपायस्य प्रसिद्धित:।
प्रधानार्थाविसंवादानुमानं
परत्र वा।।218।।
पुरुषातिशयापेक्षं
यथार्थमपरे विदु:।
इष्टोऽयमर्थ:
प्रत्येतुं शक्य: सोऽतिशयो यदि।।219।।
अयमेवं न
वेत्यन्यदोषा निर्दोषतापि वा।
दुर्लभत्वात्
प्रमाणानां दुर्बोधेत्यपरे विदु:।।220।।
सर्वेषां
सविपक्षत्वान्निर्ह्रासातिशयश्रिताम्*।
सात्मीभावात् तदभ्यासाद्
हीयेरन्नास्रवा: क्वचित्।।221।।
(पा0टि0-*तिशयं श्रित:-रा0।)
निरुपद्रवभूतार्थस्वभावस्य
विपर्ययै:।
न बाधा यत्नवत्त्वेऽपि
बुद्धेस्तत्पक्षपातत:।।222।।
सर्वासां दोषजातीनां
जाति: सत्कार्यदर्शनात्।
साऽविद्या तत्र
तत्स्नेहस्तस्माद् द्वेषादिसम्भव:।।223।।
मोहो निदानं
दोषाणामत एवाभिधीयते।
सत्कायदृष्टिरन्यत्र;
तत्प्रहाणे प्रहाणत:।।।224।।
गिरां
मिथ्यात्वहेतूनां दोषाणां पुरुषाश्रयात्।
अपौरुषेयं
सत्यार्थमिति केचित् प्रचक्षते।।225।।
गिरां सत्यत्वहेतूनां
गुणानां पुरुषाश्रयात्।
अपौरुषेयं
मिथ्यार्थं किं नेत्यन्ये प्रचक्षते।।226।।
अर्थज्ञापनहेतुर्हि
संकेत: पुरुषाश्रय:।
गिरामपौरुषेयत्वेऽप्यतो
मिथ्यात्वसम्भव:।।227।।
सम्बन्धापौरुषेयत्वे
स्यात् प्रतीतिरसंविद:।
संकेतात् तदभिव्यक्तावसमर्थान्यकल्पना।।228।।
गिरामेकार्थनियमे न स्यादर्थान्तरे
गति:।
अनेकार्थाभिसम्बन्धे
विरुद्धव्यक्तिसम्भव:।।229।।
अपौरुषेयतायाश्च* व्यर्था स्यात् परिकल्पना। (पा0टि0- *अपौरुषेयतायाच्च-रा0)
वाच्यश्च हेतुर्भिन्नानां
सम्बन्धस्य व्यवस्थिते:।।230।।
असंस्कार्यतया
पुम्भि: सर्वथा स्यान्निरर्थता।
संस्कारोपगमे मुख्यं
गजस्नानमिदं* भवेत्।।231।। (पा0टि0-*गजस्नाननिभं-रा0)
सम्बन्धिनामनित्यत्वान्न
सम्बन्धेऽस्ति नित्यता।
नित्यस्यानुपकार्यत्वादकुर्वाणश्च
नाश्रय:।।232।।
अर्थैरत: स शब्दानां
संस्कार्य: पुरुषैर्धिया।
अर्थैरेव सहोत्पादे
न स्वभावविपर्यय:।।233।
शब्देषु युक्त:;
सम्बन्धे नायं दोषो विकल्पिते।
नित्यत्वादाश्रयापायेऽप्यनाशो
यदि जातिवत्*।।234।। (पा0टि0- *सम्मत:-रा0)
नित्येष्वाश्रयसामर्थ्यं
किं येनेष्ट: स चाश्रय:।
ज्ञानोत्पादनहेतूनां* सम्बन्धात् सहकारिणाम्।।235।।
(पा0टि0-*ज्ञानोत्पादेन हेतूनां-रा0।
एवं वृत्तावपि।)
तदुत्पादनयोग्यत्वेनोत्पत्तिर्व्यक्तिरिष्यते।
घटादिष्वपि युक्तिज्ञै:;
अविशेषेऽविकारिणाम्।।236।।
व्यञ्जकै: स्वै:
कृत:* कोऽर्थो व्यक्तास्तैस्ते
यतो मता:।
सम्बन्धस्य च
वस्तुत्वे स्याद् भेदाद् बुद्धिचित्रता।।237।।(पा0टि0-*कुत:-रा0। एवं वृत्तावपि)
ताभ्यामभेदे तावेव
नातोऽन्या वस्तुनो गति:।
भिन्नत्वाद्
वस्तुरूपस्य सम्बन्ध: कल्पनाकृत:।।238।।
सद् द्रव्यं स्यात्
पराधीनं सम्बन्धोऽन्यस्य वा कथम्।
वर्णा निरर्थका:
सन्त: पदादिपरिकल्पितम्।।239।।
अवस्तुनि कथं वृत्ति:
सम्बन्धस्यास्य वस्तुन:।
अपौरुषेयतापीष्टा कर्तॄणामस्मृते:
किल।।240।।
सन्त्यस्याप्यनुवक्तार
इति धिग् व्यापकं तम:।
यथायमन्यतोऽश्रुत्वा
नेमं वर्णपदक्रमम्।।241।।
वक्तुं समर्थ:
पुरुषस्तथान्योऽपीति कश्चन।
अन्यो वा रचितो
ग्रन्थ: सम्प्रदायाद् ऋते परै:।।242।
दृष्ट: कोऽभिहितो येन
सोऽप्येवं नानुमीयते।
यज्जातीयो यत:
सिद्ध: सोऽविशिष्टोऽग्निकाष्ठवत्*।।243।।
(पा0टि0-*स तस्मादग्निकाष्ठवत्-पाठा0)
अदृष्टहेतुरप्यन्यस्तद्भव:
सम्प्रतीयते।
तत्राप्रदर्श्य ये
भेदं कार्यसामान्यदर्शनात्।।244।।
हेतव: प्रवितन्यन्ते
सर्वे ते व्यभिचारिण:।
सर्वथाऽनादिता
सिध्येदेवं नापुरुषाश्रय:।।245।।
तस्मादपौरुषेयत्वे
स्यादन्योप्यनराश्रय:।
म्लेच्छादिव्यवहाराणां
नास्तिक्यवचसामपि।।246।।
अनादित्वाद् तथाभाव:;
पूर्वसंस्कारसन्तते:।
तादृशेऽपौरुषेयत्वे
क: सिद्धेऽपि गुणो भवेत्।।247।।
अर्थसंस्कारभेदानां
दर्शनात् संशय: पुन:।
अन्याविशेषाद्
वर्णानां साधने कि फलं भवेत्।।248।।
वाक्यं भिन्नं न
वर्णेभ्यो विद्यतेऽनुपलम्भत:।
अनेकावयवात्मत्वे
पृथक् तेषां निरर्थता।।249।।
अतद्रूपे च
ताद्रूप्यं कल्पितं सिंहतादिवत्।
प्रत्येकं
सार्थकत्वेऽपि मिथ्यानेकत्वकल्पना।।250।।
एकावयवगत्या च वाक्यार्थप्रतिपद्
भवेत्।
सकृच्छुतौ च
सर्वेषां कालभेदो न युज्यते।।251।।
एकत्वेऽपि ह्यभिन्नस्य
क्रमशो गत्यसम्भवात्।
अनित्यं यत्नसम्भूतं
पौरुषेयं कथं न तत्!।।252।।
नित्योपलब्धिर्नित्यत्वेऽप्यनावरणसम्भवात्।
अश्रुतिर्विकलत्वाच्चेत्
कस्यचित् सहकारिण:।।253।।
काममन्यप्रतीक्षाऽस्तु*,
नियमस्तु विरुध्यते। (पा0टि0- *काममन्यप्रतीक्षो:-रा0।)
सर्वत्रानुपलम्भ:
स्यात् तेषामव्यापिता यदि।।254।।
सर्वेषामुपलम्भ:
स्यात् युगपद् व्यापिता यदि।
संस्कृतस्योपलम्भे च
क: संस्कर्त्ताऽविकारिण:।।255।।
इन्द्रियस्य* स्यात्* संस्कार: श्रृणुयान्निखिलं च तत्। (पा0टि0- *इन्द्रिये स्याद्धि-पाठा0)
संस्कारभेदभिन्नत्वादेकार्थनियमो* यदि।।256।।(पा0टि0-*संस्कारभेदाद् भिन्न-रा0।)
अनेकशब्दसंघाते
श्रुति: कलकले कथम्?।
ध्वनय: केवलं तत्र
श्रूयन्ते चेन्न वाचका:।।257।।
ध्वनिभ्यो
भिन्नमस्तीति श्रद्धेयमति* बह्विदम्*। (पा0टि0-
*0मविवक्षित्-रा0।)
स्थितेष्वन्येषु
शब्देषु श्रूयते वाचक: कथम्।।258।।
कथं वा शक्तिनियमाद्
भिन्नध्वनिगतिर्भवेत्।
ध्वनय: मम्मता
यैस्ते दोषै: कैरप्यवाचका:।।259।।
ध्वनिभिर्व्यज्यमानेऽस्मिन्
वाचकेऽपि कथं न ते!।
वर्णानुपूर्वी
वाक्यं चेन्न वर्णानामभेदत:।।260।।
तेषां च न
व्यवस्थानं क्रमान्तरविरोधत:।
देशकालक्रमाभावो
व्याप्तिनित्यत्ववर्णनात्।।261।।
अनित्याव्यापितायां
च दोष: प्रागेव कीर्त्तित:।
व्यक्तिक्रमोऽपि
वाक्यं न नित्यव्यक्तिनिराकृते:।।262।।
व्यापारादेव
तत्सिद्धे: करणानां च कार्यता।
स्वज्ञानेनान्यधीहेतु:
सिद्धेऽर्थे व्यञ्जको मत:।।263।।
यथा दीपोऽन्यथा वापि
को विशेषोऽस्य कारकात्।
करणानां समग्राणां
व्यापारादुपलब्धित:।।264।।
नियमेन च कार्यत्वं
व्यञ्जके तदसम्भवात्।
तद्रूपावरणानां च
व्यक्तिस्ते विगमो यदि।265।।
अभावे करणग्रामसामर्थ्यं
किं नु* तद्भवेत्। (पा0टि0- *न-पाठा0।)
शब्दाविशेषादन्येषामपि
व्यक्ति: प्रसज्यते।।266।।
तथाभ्युपगमे
सर्वकारकाणां* निरर्थता। (पा0टि0-*कारणानां-पाठा0।)
साधनं
प्रत्यभिज्ञानं सत्प्रयोगादि यन्मतम्।।267।।
अनुदाहरणं
सर्वभावानां क्षणभङ्गत:।
दूष्य: कुहेतुरन्योऽपि;
बुद्धेरपुरुषाश्रये।।268।।
बाधाभ्युपेतप्रत्यक्षप्रतीतानुमितै:
समम्।
आनुपूर्व्याश्च
वर्णेभ्यो भेद: स्फोटेन चिन्तित:।।269।।
कल्पनारोपिता सा
स्यात् कथं वाऽपुरुषाश्रया।
सत्तामात्रानुबन्धित्वात्
नाशस्यानित्यता ध्वने:।।270।।
अग्नेरर्थान्तरोत्पत्तौ
भवेत् काष्ठस्य दर्शनम्।
अविनाशात् स,
एवास्य विनाश इति चेत्, कथम्।।271।।
अन्योन्यस्य* विनाशोऽस्तु* काष्ठं कस्मान्न दृश्यते।
(पा0टि0-*अन्योऽर्थोऽन्यस्य नाशोस्तु-रा0।)
तत्परिग्रहतश्चेन्न
तेनानावरणं यत:।।272।।
विनाशस्य
विनाशित्वम्; स्यादुत्पत्तेस्तत:
पुन:।
काष्ठस्य दर्शनम्;
हन्तृघाते चैत्रापुनर्भव:।।273।।
यथात्राप्येवमिति
चेत् हन्तुर्नामरणत्वत:।
अनन्यत्वे विनाशस्य
स्यान्नाश: काष्ठमेव तु।।274।।
तस्य* सत्त्वादहेतुत्वं* नातोऽन्या विद्यते गति:। (पा0टि0-*तस्यासत्त्वा0-रा0।)
अहेतुत्वेऽपि नाशस्य
नित्यत्वाद् भावनाशयो:।।275।।
सहभावप्रसङ्गश्चेदसतो
नित्यता कुत:!।
असत्त्वेऽभावनाशित्वप्रसङ्गोऽपि
न युज्यते।।276।।
नाशेन यस्माद्
भावस्य न विनाशनमिष्यते।
नश्यन् भावोऽपरापेक्ष* इति* तज्ज्ञापनाय सा।।277।।(पा.टि.-*भव: परापेक्षो न तस्य ज्ञाप.-रा0)
अवस्थाऽहेतुरुक्तास्या
भेदमारोप्य चेतसा।
स्वतोऽपि भावेऽभावस्य
विकल्पश्चेदयं सम:।।278।।
न तस्य किञ्चिद्
भवति न भवत्येव केवलम्।
भावे ह्येष विकल्प:
स्याद् विधेर्वस्त्वनुरोधत:।।279।।
न भावो भवतीत्युक्तमभावो
भवतीति* न*।
अपेक्ष्येत** पर: कार्यं यदि विद्येत किञ्चन।।280।।(पा0टि0- *भक्तीत्यपि-पाठा0 **अपेक्षेत-रा0)
यदकिञ्चित्करं वस्तु
किं केनचिदपेक्ष्यते।
एतेनाहेतुकत्वेऽपि ह्यभूत्वा
नाशभावत:।।281।।
सत्तानाशित्वदोषस्य
प्रत्याख्यातं प्रसञ्जनम्।
यथा केषाञ्चिदेवेष्ट:
प्रतिघो जन्मिनां तथा।।282।।
नाश: स्वभावो
भावानां नानुत्पत्तिमतां यदि।
स्वभावनियमाद्धेतो:
स्वभावनियम: फले।।283।।
नानित्ये रूपभेदोऽस्ति
भेदकानामभावत:।
प्रत्याख्येयाऽत
एवैषां सम्बन्धस्यापि नित्यता।।284।।
सम्बन्धदोषै: प्रागुक्तै:
शब्दशक्तिश्च दूषिता।
नाऽपौरुषेयमित्येव
यथार्थज्ञानसाधनम्।।285।।
दृष्टोऽन्यथापि वह्न्यादिरदुष्ट:
पुरुषागसा।
न ज्ञानहेतुतैव
स्यात् तस्मिन्नकृतके मते।।286।।
नित्येभ्यो
वस्तुसामर्थ्यात् न हि*
जन्मास्ति कस्यचित्। (पा0टि0-*च0-रा0।)
विकल्पवासनोद्भूता:
समारोपितगोचरा:।।287।।
जायन्ते
बुद्धयस्तत्र केवलं नार्थगोचरा:।
मिथ्यात्वं
कृतकेष्वेव दृष्टमित्यकृतं वच:।।288।।
सत्यार्थं
व्यतिरेकस्य विरोधिव्यापनाद् यदि।
हेतावसम्भवेऽनुक्ते* भावस्तस्यापि* शङ्क्यते।।289।।
(पा0टि0- *हेतावसम्भवे भावस्तत्तस्यापि-रा0।)
विरुद्धानां
पदार्थानामपि व्यापकदर्शनात्।
नासत्तासिद्धिरित्युक्तं
सर्वतोऽनुपलम्भनात्।।290।।
असिद्धायामसत्तायां
सन्दिग्धा व्यतिरेकिता।
अन्वयो व्यतिरेको वा
सत्त्वं वा साध्यधर्मिणि।।291।।
तन्निश्चयफलैर्ज्ञानै:
सिद्ध्यन्ति यदि साधनम्।
यत्र साध्यविपक्षस्य
वर्ण्यते व्यतिरेकिता।।292।।
स एवास्य सपक्ष:
स्यात् सर्वो हेतुरतोऽन्वयी*। (पा0टि0- *हेतुरनन्वयी-रा0। एवं वृत्तावपि)
समयत्वे हि
मन्त्राणां कस्यचित् कार्यसाधनम्*।।293।।(पा0टि0- *कार्यदर्शनम्-रा0)
अथापि भावशक्ति:
स्यादन्यथाप्यविशेषत:*।
क्रमस्यार्थान्तरत्वं
च पूर्वमेव निराकृतम्।।294।।(पा0टि0-*दन्यत्राप्य0-पाठा0।)
नित्यं तदर्थसिद्धि:
स्यादसामर्थ्यमपेक्षणे।
सर्वस्व साधनं ते
स्युर्भावशक्तिर्यदीदृशी।।295।।
प्रयोक्तृभेदापेक्षा
च नासंस्कार्यस्य युज्यते।
संस्कार्यस्यापि
भावस्य वस्तुभेदो हि भेदक:।।296।।
प्रयोक्तृभेदान्नियम:
शक्तौ न समये भवेत्।
अनाधेयविशेषाणां किं
कुर्वाण: प्रयोजक:।।297।।
प्रयोगो यद्यभिव्यक्ति:
सा प्रागेव निराकृता।
व्यक्तिश्च बुद्धि:
सा यस्मात् स फलैर्यदि युज्यते।।298।।
स्याच्छ्रोतु:
फलसम्बन्धो वक्ता हि व्यक्तिकारणम्।
अनभिव्यक्तशब्दानां
करणानां प्रयोजनम्।।299।।
मनोजपो वा व्यर्थ:
स्याच्छब्दो हि श्रोत्रगोचर:।
पारम्पर्येण
तज्जत्वात् तद्व्यक्ति: सापि चेन्मति:।।।300।।
तेऽपि तथा
स्युस्तदर्था चेदसिद्धं कल्पनान्वयात्।
स्वसामान्यस्वभावानामेकभावविवक्षया।।301।।
उक्ते:
समयकाराणामविरोधो न वस्तुनि।
आनुपूर्व्यामसत्यां
स्यात् सरो रस इति श्रुतौ।।302।।
न कार्यभेद इति चेद्
? अस्ति सा पुरुषाश्रया।
यो
यद्वर्णसमुत्थानज्ञानजाज्ज्ञानतो ध्वनि:।।303।।
जायते, तदुपाधि: स श्रुत्या समवसीयते।
तज्ज्ञानजनितज्ञान:
स श्रुतावपटुश्रुति:।।304।।
अपेक्ष्य तत्स्मृतिं
पश्चात्* स्मृतिमाधत्त आत्मनि*।
इत्येषा पौरुषेय्येव तद्धेतुग्राहिचेतसाम्।।305।।(पा0टि0-*पश्चादाधत्ते स्मृतिमास्मनि-इत्येवमपि पाठ:)
कार्यकारणता
वर्णेष्वानुपूर्वीति* कथ्यते। (पा.टि.-*वर्णे ह्यनुपूर्वीति-रा0)
अन्यदेव ततो रूपं
तद्वर्णानां पदे* पदे*।।306।।(पा.टि.-*पदं पदम्-पाठा.)
कर्तृसंस्कारतो भिन्नं
सहितं कार्यभेदकृत्।
सा चानुपूर्वी
वर्णानां प्रवृत्ता* रचनाकृत:*।।307।। (पा0टि0- *तद्धेतुग्राहिचेतसाम्-रा0)
इच्छाऽविरुद्धसिद्धीनां
स्थितक्रमविरोधत:।
कार्यकारणतासिद्धे:
पुम्भ्यो* वर्णक्रमस्य च।।308।। (पा0टि0- *पुंसां-पाठा0)
सर्वो वर्णक्रम:
पुम्भ्यो दहनेन्धनयुक्तिवत्।
असाधारणता सिद्धा
मन्त्राख्यक्रमकारिणाम्*।।309।।(पा0टि0- *पुंसां च क्रमकारिणाम।
अतो-रा0)
पुंसां* ज्ञानप्रभावाभ्यामन्येषां तदभावत:।
येऽपि तन्त्रविद:
केचिद् मन्त्रान् काँश्चन कुर्वते।।310।। (पा.टि.-*पुंसां च मकारिणाम्। अतो-रा.)
प्रभो: * प्रभावस्तेषां* स तदुक्तन्यायवृत्तित:।
कृतका: पौरुषेयाश्च
मन्त्रा वाच्या: फलेप्सुना।।311।।
(पा0टि0- *प्रभुप्रभाव0-पाठा0।)
अशसक्तिसाधनं
पुंसामनेनैव निराकृतम्।
बुद्धीन्द्रियोक्तिपुंस्त्वादिसाधनं
यत्तु वर्ण्यते।।312।।
प्रमाणाभं
यथार्थास्ति न हि शेषवतो गति:।
अर्थोऽयं नायमर्थो न* इति शब्दा वदन्ति न।।313।।(पा0टि0-*अयमर्थे
नायमर्थ-पाठा0।)
कल्प्योऽयमर्थ:
पुरुषैस्ते च रागादिसंयुता:।
तत्रैकस्तत्त्वविन्नान्य* इति भेदश्च किंकृत:।।314।। (पा0टि0- *स
एकस्तव0—रा0।)
तद्वत् पुंस्त्वे
कथमपि ज्ञानी कश्चित् कथं न व:।
यस्य* प्रमाणविसंवादि* वचनं सोऽर्थविद् यदि।।315।।(पा0टि0-*प्रमाणमविसंवादि-रा0।)
न ह्यत्यन्तपरोक्षेषु
प्रमाणस्यास्ति सम्भव:।
यस्य प्रमाणसंवादि
वचनं तत्कृतं वच:।।316।।
स आगम इति प्राप्तं
निरर्थाऽपौरुषेयता।
यद्यत्यन्तपरोक्षेऽर्थेऽनागमज्ञानसम्भव:।।317।।
अतीन्द्रियार्थवित्
कश्चिदस्तीत्यभिमतं भवेत्।
स्वयं
रागादिमान्नार्थं वेत्ति वेदस्य नान्यत:।।318।।
न वेदयति वेदोऽपि
वेदार्थस्य कुतो गति:।
तेनाग्निहोत्रं
जुहुयात् स्वर्गकाम इति श्रुतौ।।319।।
खादेत् श्वमांसमित्येव
नार्थ इत्यत्र का प्रमा।
प्रसिद्धो
लोकवादश्चेत् तत्र कोऽतीन्द्रियार्थदृक्।।320।।
अनेकार्थेषु शब्देषु
येनार्थोऽयं विवेचित:।
स्वर्गोर्वश्यादिशब्दश्च
दृष्टोरूढार्थवाचक:।।321।।
शब्दान्तरेषु
तादृक्षु तादृश्येवास्तु कल्पना।
प्रसिद्धिश्च* नृणां वाद: प्रमाणं स च नेष्यते।।322।। (पा0टि0-*प्रसिद्धश्च-रा0।)
ततश्च भूयोऽर्थगति:
किमेतद् द्विष्ठकामितम्।
अथ
प्रसिद्धिमुल्लंघ्य कल्पने न निबन्धनम्।।323।।
प्रसिद्धेरप्रमाणत्वात्
तद्ग्रहे किं निबन्धमम्।
उत्पादिता प्रसिद्ध्यैव
शंका शब्दार्थनिश्चये।।324।।
यस्मान्नानार्थवृत्तित्वं
शब्दानां तत्र दृश्यते।
अन्यथासम्भवाभावात्
नानाशक्ते: स्वयं ध्वने:।।325।।
अवश्यं शंकया भाव्यं
नियामकमपश्यताम्।
एष स्थाणुरयं मार्ग
इति वक्तीति कश्चन।।326।।
अन्य: स्वयं
ब्रवीमीति तयोर्भेद: परीक्ष्यताम्।
सर्वत्र
योग्यस्यैकार्थद्योतने नियम: कुत:।।327।।
ज्ञाता
वातीन्द्रिया: केन विवक्षावचनाद् ऋते।
विवक्षानियमे हेतु:
संकेतस्तत्प्रकाशन:।।328।।
अपौरुषेये सा नास्ति
तस्य सैकार्थता कुत:!
स्वभावनियमेऽन्यत्र
न योज्येत तया पुन:।।329।।
संकेतश्च निरर्थ:
स्याद् व्यक्तौ च नियम: कुत:!
यत्र स्वातन्त्र्यमिच्छाया
नियमो नाम तत्र क:।।330।।
द्योतयेत् तेन
संकेतो नेष्टामेवास्य योग्यताम्।
यस्मात् किलेदृशं
सत्यं यथाग्नि: शीतनोदन:।।331।।
वाक्यं वेदैकदेशत्वादन्यदप्यपरोऽब्रवीत्।
रसवत्
तुल्यरूपत्वादेकभाण्डे च पाकवत्।।332।।
शेषवद्
व्यभिचारित्वात् क्षिप्तं न्यायविदेदृशम्।
नित्यस्य पुंस:
कर्तृत्वं नित्यान् भावानतीन्द्रियान्।।333।।
ऐन्द्रियान् विषमं
हेतुं भावानां विषमां स्थितिम्।
निवृत्तिं च
प्रमाणाभ्यामन्यद् वा व्यस्तगोचरम्।।334।।
विरुद्धमागमापेक्षेणानुमानेन
वा वदत्।
विरोधमसमाधाय
शास्त्रार्थं चाप्रदर्श्य स:।।335।।
सत्यार्थं
प्रतिजानानो जयेद् धार्ष्ट्येन बन्धकीम्।
सिध्येत् प्रमाणं
यद्येवम्, अप्रमाणमथेह किम्।।336।।
न ह्येकं नास्ति
सत्यार्थं पुरुषे बहुभाषिणि।
नायं स्वभाव: कार्यं
वा वस्तूनां वक्तरि ध्वनि:।।337।।
न च तद्व्यतिरिक्तस्य
विद्यतेऽव्यभिचारिता।
प्रवृत्तिर्वाचकानां
च वाच्यदृष्टिकृतेति चेत्।।338।।
परस्परविरुद्धार्था
कथमेकत्र सा भवेत्।
वस्तुभिर्नागमास्तेन
कथञ्चिन्नान्तरीयका:।।339।।
प्रतिपत्तुर्न
सिध्यन्ति कुतस्तेभ्योऽर्थनिश्चय:!।
तस्मान्न तन्निवृत्त्यापि
भावाभाव: प्रसिध्यति।।340।।
तेनासन्निश्चयफलाऽनुपलब्धिर्न
सिध्यति।