प्रत्यक्षनामा
द्वितीय: परिच्छेद:
{प्रमाणस्य
द्वैविध्यप्रदर्शनपूर्वकं}
तत्र
संख्याविप्रतिपत्तिनिराकरणम्
मानं द्विविधं
विषयद्वैविध्यात्; शक्त्यक्तित:।
अर्थक्रियायाम्;
केशादिर्नार्थोऽनर्थाधिमोक्षत:।।1।।
सदृशासदृशत्वाच्च विषयाविषयत्वत:।
शब्दस्यान्यनिमित्तानां
भावे धीसदसत्त्वत:*।।2।। (पा0टि0- *धी:0सदसत्वत:-रा0)
अर्थक्रियासमर्थं
यत् तदत्र परमार्थसत्।
अन्यत् संवृतिसत्
प्रोक्तम्; ते
स्वसामान्यलक्षणे।।3।।
अशक्तं सर्वमिति
चेद् बीजादेरङ्कुरादिषु।
दृष्टा शक्ति:;
मता सा चेत् संवृत्याऽस्तु यथा तथा।।4।।
सास्ति सर्वत्र चेद्
बुद्धेर्नान्वयव्यतिरेकयो:।
सामान्यलक्षणेऽदृष्टे:
चक्षूरूपादिबुद्धिवत्।।5।।
एतेन
समयाभोगाद्यन्तरङ्गानुरोधत:।
घटोत्क्षेपणसामान्यसंख्यादिषु
धियो गता:।।6।।
केशादयो न
सामान्यमनर्थाभिनिवेशत:।
ज्ञेयत्वेन ग्रहाद्
दोषो नाभावेषु प्रसज्यते।।7।।
तेषामपि तथाभावेऽप्रतिषेधात्;
स्फुटाभता।
ज्ञानरूपतयार्थत्वात्;
केशादीति मति: पुन:।।8।।
सामान्यविषया;
केशप्रतिभासमनर्थकम्।
ज्ञानरूपतयार्थत्वे
सामान्ये चेत् प्रसज्यते ?।।9।।
तथेष्टत्वाददोष:;
अर्थरूपत्वेन समानता।
सर्वत्र समरूपत्वात्
तद्व्यावृत्तिसमाश्रयात्।।10।।
न तद्
वस्त्वभिधेयत्वात् साफल्यादक्षसंहते:।
नामादिवचने
वक्तृश्रोतृवाच्यानुबन्धिनि।।11।।
असम्बन्धिनि
नामादावर्थे स्यादप्रवर्त्तनम्।
सारूप्याद्
भ्रान्तितो वृत्तिरर्थे चेत् स्यान्न सर्वदा।।12।।
देशभ्रान्तिश्च,
न ज्ञाने तुल्यमुत्पत्तितो धिय:।
तथाविधाया:; अन्यत्र तत्रानुपगमाद् धिय:।।13।।
बाह्यार्थप्रतिभासाया
उपाये वाऽप्रमाणता।
विज्ञानव्यतिरिक्तस्य;
व्यतिरेकाप्रसिद्धित:।।14।।
सर्वज्ञानार्थवत्त्वाच्चेत्
स्वप्नादावन्यथेक्षणात्।
अयुक्तम्, न च संस्कारान्नीलादिप्रतिभासत:।।15।।
नीलाद्यप्रतिघातान्न;
ज्ञानं तद् योग्यदेशकै:।
अज्ञातस्य स्वयं
ज्ञानात्, नामाद्येतेन वर्णितम्।।16।।
सैवेष्टार्थवती केन
चक्षुरादिमति: स्मृता।
अर्थसामर्थ्यदृष्टेश्चेदन्यत्
प्राप्तमनर्थकम्।।17।।
अप्रवृत्तिरसम्बन्धेऽप्यर्थसम्बन्धवद्
यदि।
अतीतानागतं वाच्यं न
स्यादर्थेन तत्क्षयात्।।18।।
सामान्यग्रहणाच्छब्दादप्रसङ्गो
मतो यदि।
तन्न
केवलसामान्याग्रहणाद् ग्रहणेऽपि वा।।19।।
अतत्समानताव्यक्ती
तेन नित्योपलम्भनम्।
नित्यत्वाच्च यदि
व्यक्तिर्व्यक्ते: प्रत्यक्षतां प्रति।।20।।
आत्मनि ज्ञानजनने
यच्छक्तं शक्तमेव तत्।
अथाशक्तं
कदाचिच्चेदशक्तं सर्वदैव तत्।।21।।
तस्य
शक्तिरशक्तिर्वा या स्वभावेन संस्थिता।
नित्यत्वादपि किं
तस्य कस्तां क्षपयितुं क्षम: !।।22।।
तच्च
सामान्यविज्ञानमनुरुन्धन् विभाव्यते।
नीलाद्याकारलेशो य:
स तस्मिन् केन निर्मित:।।23।।
प्रत्यक्षप्रत्ययार्थत्वान्नाक्षाणां
व्यर्थतेति चेत्।
सैवैकरूपाच्छब्दादेर्भिन्नाभासा
मति: कुत:।।24।।
न जातिर्जातिमद्
व्यक्तिरूपं येनापराश्रयम्।
सिद्धम्; पृथक् चेत् कार्यत्वं ह्यपेक्षेत्यभिधीयते।।25।।
निष्पत्तेरपराधीनमपि
कार्यं स्वहेतुत:।
सम्बध्यते कल्पनया
किमकार्यं कथञ्चन।।26।।
अन्यत्वे तदसम्बद्धं
सिद्धाऽतो नि:स्वभावता।
जातिप्रसङ्गोऽभावस्य
न; अपेक्षाभावतस्तयो:।।27।।
तस्मादरूपा रूपाणां
नाश्रयेणोपकल्पिता।
तद्विशेषावगाहार्थैर्जाति:
शब्दै: प्रकाश्यते।।28।।
तस्यां रूपावभासोऽयं
तत्त्वेनार्थस्य वा ग्रह:।
भ्रान्ति: सा;
अनादिकालीनदर्शनाभ्यासनिर्मिता।।29।।
अर्थानां यच्च
सामान्यमन्यव्यावृत्तिलक्षणम्।
यन्निष्ठास्त इमे
शब्दा न रूपं तस्य किञ्चन।।30।।
सामान्यबुद्धौ
सामान्येनारूपायामवीक्षणात्।
अर्थभ्रान्तिरपीष्येत
सामान्यं सापि; अभिप्लवात्।।31।।
अर्थरूपतया
तत्त्वेनाभावाच्च न रूपिणी।
नि:स्वभावतयाऽवाच्यं
कुतश्चिद् वचनान्मतम्।।32।।
यदि वस्तुनि
वस्तूनामवाच्यत्वं कथञ्चन।
नैव
वाच्यमुपादानभेदाद् भेदोपचारत:।।33।।
अतीतानागतेऽप्यर्थे
सामान्यविनिबन्धना:।
श्रुतयो निविशन्ते
सदसद्धर्म: कथं भवेत् !।।34।।
उपचारात् तदिष्टं
चेद् वर्त्तमानघटस्य का।
प्रत्यासत्तिरभावेन
या पटादौ न विद्यते।।35।।
बुद्धेरस्खलिता
वृत्तिर्मुख्यारोपितयो: सदा।
सिंहे माणवके तद्वद्
घोषणाप्यस्ति लौकिकी।।36।।
यत्र रूढ्याऽसदर्थोऽपि
जनै: शब्दो निवेशित:।
स मुख्यस्तत्र
तत्साम्याद् गौणोऽन्यत्र स्खलद्गति:।।37।।
यथा भावेऽप्यभावाख्यां
यथाकल्पनमेव वा।
कुर्यादशक्ते शक्ते
वा प्रधानादिश्रुतिं जन:।।38।।
शब्देभ्यो यादृशी
बुद्धिर्नष्टेऽनष्टेऽपि दृश्यते।
तादृश्येव, सदर्थानां नैतच्छ्रोत्रादिचेतसाम्।।39।।
सामान्यमात्रग्रहणात्
सामान्यं चेतसोर्द्वयो:।
तस्यापि केवलस्य
प्राग् ग्रहणं विनिवारितम् ।।40।।
परस्परविशिष्टानामविशिष्टं
कथं भवेत् !।
तथा द्विरूपतायां वा
तद् वस्त्वेकं कथं भवेत् ! ।।41।।
ताभ्यां तदन्यदेव
स्याद् यदि रूपं समं तयो:।
तयोरिति न सम्बन्धो
व्यावृत्तिस्तु न दुष्यति।।42।।
तस्मात् समानतैवास्मिन्
सामान्येऽवस्तुलक्षणम्।
कार्यं चेत् तदनेकं
स्यान्नश्वरं च न तन्मतम्।।43।।
वस्तुमात्रानुबन्धित्वाद्
विनाशस्य न नित्यता।
असम्बन्धश्च
जातीनामकार्यत्वादरूपता।।44।।
यच्च
वस्तुबलाज्ज्ञानं जायते तदपेक्षते।
न संकेतं न
सामान्यबुद्धिष्वेतद् विभाव्यते।।45।।
याप्यभेदानुगा
बुद्धि: काचिद् वस्तुद्वयेक्षणे।
संकेतेन विना
सार्थप्रत्यासत्तिनिबन्धना।।46।।
प्रत्यासत्तिर्विना
जात्या यथेष्टा चक्षुरादिषु।
ज्ञानकार्येषु
जातिर्वा यथान्वेति विभागत:।।47।।
कथञ्चिदपि विज्ञाने
तद्रूपानवभासत:।
यदि नामेन्द्रियाणां
स्याद् द्रष्टा भासेत तद्वपु:।।48।।
रूपवत्त्वात्; न
जातीनां केवलानामदर्शनात्।
व्यक्तिग्रहे च
तच्छब्दरूपादन्यन्न दृश्यते।।49।।
ज्ञानमात्रार्थकरणेऽप्ययोग्यमत
एव तत्।
तदयोग्यतयाऽरूपं तद्ध्यवस्तुषु
लक्षणम्।।50।।
यथोक्तविपरीतं यत्
तत् स्वलक्षणमिष्यते।
सामान्यं त्रिविधम्,
तच्च भावाभावोभयाश्रयात्।।51।।
यदि भावाश्रयं
ज्ञानं भावे भावानुबन्धत:।
नोक्तोत्तरत्वाद्
दृष्टत्वाद्; अतीतादिषु
चान्यथा।।52।।
भावधर्मत्वहानिश्चेत्
भावग्रहणपूर्वकम्।
तज्ज्ञानमित्यदोषोऽयम्,
मेयं त्वेकं स्वलक्षणम्।।53।।
तस्मादर्थक्रियासिद्धे:
सदसत्ताविचारणात्।
तस्य स्वपररूपाभ्यां
गतेर्मेयद्वयं मतम्।।54।।
अयथाभिनिवेशेन
द्वितीया भ्रान्तिरिष्यते।
गतिश्चेत् पररूपेण
न च भ्रान्ते: प्रमाणता।।55।।
अभिप्रायाविसंवादादपि
भ्रान्ते: प्रमाणता।
गतिरप्यन्यथा दृष्टा,
पक्षश्चायं कृतोत्तर:।।56।।
मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतो:।
मिथ्याज्ञानाविशेषेऽपि
विशेषोऽर्थक्रियां प्रति।।57।।
यथा तथाऽयथार्थत्वेऽप्यनुमानतदाभयो:।
अर्थक्रियानुरोधेन
प्रमाणत्वं व्यवस्थितम्।।58।।
बुद्धिर्यत्रार्थसामर्थ्यादन्वयव्यतिरेकिणी।
तस्य स्वतन्त्रं
ग्रहणमतोऽन्यद् वस्त्वतीन्द्रियम्।।59।।
तस्यादृष्टात्मरूपस्य
गतेरन्योऽर्थ आश्रय:।
तदाश्रयेण सम्बन्धी
यदि स्याद् गमकस्तदा।।60।।
गमकानुगसामान्यरूपेणैव
तदा गति:।
तस्मात् सर्व:
परोक्षोऽर्थो विशेषेण न गम्यते।।61।।
या च सम्बन्धिनो
धर्माद् भूतिर्धर्मिणि ज्ञायते।
सानुमानं
परोक्षाणामेकान्तेनैव साधनम्।।62।।
न
प्रत्यक्षपरोक्षाभ्यां मेयस्यान्यस्य सम्भव:।
तस्मात्
प्रमेयद्वित्वेन प्रमाणद्वित्वमिष्यते।।63।।
त्र्येकसंख्यानिरासो
वा प्रमेयद्वयदर्शनात्।
एकमेवाप्रमेयत्वादसतश्चेन्मतं
च न:।।64।।
अनेकान्तोऽप्रमेयत्वेऽसद्भावस्य
विनिश्चय:।
तन्निश्चयप्रमाणं वा
द्वितीयम्; नाक्षजा मति:।।65।।
अभावेऽर्थबलाज्जातेरर्थशक्त्यनपेक्षणे।
व्यवधानादिभावेऽपि
जायेतेन्द्रियजा मति:।।66।।
अभावे
विनिवृत्तिश्चेत् प्रत्यक्षस्यैव निश्चय:।
विरुद्धं सैव वा
लिङ्गमन्वयव्यतिरेकिणी।।67।।
सिद्धं च
परचैतन्यप्रतिपत्ते: प्रमाद्वयम्।
व्यवहारादौ
प्रवृत्तेश्च सिद्धस्तद्भावनिश्चय:।।68।।
प्रमाणमविसंवादात्
तत् क्वचिद् व्यभिचारत:।
नाश्वास इति
चेल्लिङ्गं दुर्दृष्टिरेतदीदृशम्।।69।।
यत: कदाचित् सिद्धाऽस्य
प्रतीतिर्वस्तुन: क्वचित्।
तदवश्यं ततो जातं
तत्स्वभावोऽपि वा भवेत्।।70।।
स्वनिमित्तात् स्वभावाद्
वा विना नार्थस्य सम्भव:।
यच्च रूपं
तयोर्दृष्टं तदेवान्यत्र लक्षणम्।।71।।
स्वभावे स्वनिमित्ते
वा दृश्ये दर्शनहेतुषु।
अन्येषु
सत्स्वदृश्ये च सत्ता वा तद्वत: कथम्!।।72।।
अप्रामाण्ये च
सामान्यबुद्धेस्तल्लोप आगत:।
प्रेत्यभाववद्;
अक्षैस्तत् पर्यायेण प्रतीयते।।73।।
तच्च
नेन्द्रियशक्त्यादावक्षबुद्धेरसम्भवात्।
अभावप्रतिपत्तौ
स्याद् बुद्धेर्जन्मानिमित्तकम्।।74।।
स्वलक्षणे च
प्रत्यक्षमविकल्पतया विना।
विकल्पेन न
सामान्यग्रहस्तस्मिंस्ततोऽनुमा।।75।।
प्रमेयनियमे
वर्णानित्यता न प्रतीयते।
प्रमाणमन्यत्
तद्बुद्धिर्विना लिङ्गेन सम्भवात्।।76।।
विशेषदृष्टे लिङ्गस्य
सम्बन्धस्याप्रसिद्धित:।
तत् प्रमाणान्तरं
मेयबहुत्वाद् बहुतापि वा।।77।।
प्रमाणानामनेकस्य
वृत्तेरेकत्र वा यथा।
विशेषदृष्टेरेकत्रिसंख्यापोहो
न वा भवेत्।।78।।
विषयानियमादन्यप्रमेयस्य
च सम्भवात?
योजनाद् वर्णसामान्ये
नायं दोष: प्रसज्यते।।79।।
नावस्तुरूपं तस्यैव
तथा सिद्धे:* प्रसाधनात्।
अन्यत्र
नान्यसिद्धिश्चेन्न तस्यैव प्रसिद्धित:।।80।। पा0टि0- *सिद्धे-रा0)
यो हि भावो यथाभूतो
स तादृग्लिङ्गचेतस:।
हेतुस्तज्जा तथाभूते
तस्माद् वस्तुनि लिङ्गिधी:।।81।।
लिङ्गलिङ्गिधियोरेवं
पारम्पर्येण वस्तुनि।
प्रतिबन्धात्
तदाभासशून्ययोरप्यवञ्चनम्।।82।।
तद्रूपाध्यवसायाच्च
तयोस्तद्रूपशून्ययो:।
तद्रूपावञ्चकत्वेऽपि
कृता भ्रान्तिव्यवस्थिति:।।83।।
तस्माद् वस्तुनि
बोद्धव्ये व्यापकं व्याप्यचेतस:।
निमित्तं तत्स्वभावो
वा कारणम्, तञ्च तद्धिय:।।84।।
प्रतिषेधस्तु
सर्वत्र साध्यतेऽनुपलम्भत:।
सिद्धिं
प्रमाणैर्वदतामर्थादेव विपर्ययात्।।85।।
दृष्टा
विरुद्धधर्मोक्तिस्तस्य तत्कारणस्य वा।
निषेधे यापि तस्यैव
साऽप्रमाणत्वसूचना।।86।।
अन्यथैकस्य धर्मस्य
स्वभावोक्त्या परस्य तत्।
नास्तित्वं केन
गम्येत; विरोधाच्चेद्, असावपि।।87।।
सिद्ध:
केनासहस्थानादिति चेत्, तत्
कुतो मतम् !।
दृश्यस्य
दर्शनाभावादिति चेत्, साऽप्रमाणता।।88।।
तस्मात्
स्वशब्देनोक्तापि साऽभावस्य प्रसाधिका।
यस्याप्रमाणं साऽवाच्यो
निषेधस्तेन सर्वथा।।89।।
एतेन तद्विरुद्धार्थकार्योक्तिरुपवर्णिता।
प्रयोग: केवलं
भिन्न: सर्वत्रार्थो न भिद्यते।।90।।
विरुद्धं तच्च
सोपायमविधायापिधाय च।
प्रमाणोक्तिर्निषेधे
या न साम्नायानुसारिणी।।91।।
उक्त्यादे:
सर्ववित्प्रेत्यभावादिप्रतिषेधवत्।
अतीन्द्रियाणामर्थानां
विरोधस्याप्रसिद्धित:।।92।।
बाध्यबाधकभाव: क:
स्यातां यद्युक्तिसंविदौ।
तादृशोऽनुपलब्धेश्चेद्,
उच्यतां सैव साधनम्।।93।।
अनिश्चयकरं
प्रोक्तमीदृक् क्वानुपलम्भनम्।
तन्नात्यन्तपरोक्षेषु
सदसत्ताविनिश्चयौ।।94।।
भिन्नोऽभिन्नोऽपि वा
धर्म: स विरुद्ध: प्रयुज्यते*।
यथाऽग्निरहिमे
साध्ये सत्ता वा जन्मबाधनी।।95।। (पा0टि0- *प्रसज्यते-पाठा0)
यथा वस्त्वेव
वस्तूनां साधने साधनं मतम्।
तथा वस्त्वेव
वस्तूनां स्वनिवृत्तौ निवर्त्तकम्।।96।।
एतेन कल्नान्यस्तो
यत्र क्वचन सम्भवात्।
धर्म:
पक्षसपक्षान्यतरत्वादिरपोदित:।।97।।
तत्रापि व्यापको
धर्मो निवृत्तेर्गमको मत:।
व्याप्यस्य
स्वनिवृत्तिश्चेत् परिच्छिन्ना कथञ्चन।।98।।
यदप्रमाणताऽभावे
लिङ्गं तस्यैव कथ्यते।
तदत्यन्तविमूढार्थम्;
आगोपालमसंवृते:*।।99।।( पा0टि0- *मसंवृत्ते:-रा0। एवं वृत्तावपि)
एतावन्निश्चयफलमभावेऽनुपलम्भनम्।
तच्च हेतौ स्वभावे
वाऽदृश्ये दृश्यतया मते।।100।।
अनुमानादनित्यादेर्ग्रहणेऽयं
क्रमो मत:।
प्रामाण्यमेव
नान्यत्र गृहीतग्रहणान्मतम्।।101।।
नान्यास्यानित्यता
भावात् पूर्वं सिद्ध: स चैन्द्रियात्।
नानेकरूपो वाच्योऽसौ;
वाच्यो धर्मो विकल्पज:।।102।।
सामान्याश्रयसंसिद्धौ
सामान्यं सिद्धमेव तत्।
तदसिद्धौ तथास्यैव
ह्यनुमानं प्रवर्तते।।103।।
क्वचित्
तदपरिज्ञानं सदृशापरसम्भवात्।
भ्रान्तेरपश्यतो
भेदं मायागोलकभेदवत्।।104।।
तथा ह्यलिङ्गमाबालमसंश्लिष्टोत्तरोदयम्।
पश्यन्
परिच्छिनत्त्येव दीपादि नाशिनं जन:।।105।।
भावस्वभावभूतायामपि
शक्तौ फलेऽदृश:।
अनानन्तर्यतो मोहो
विनिश्चेतुरपाटवात्।।106।।
तस्यैव
विनिवृत्त्यर्थमनुमानोपवर्णनम्।
व्यवस्यन्तीक्षणादेव
सर्वाकारान् महाधिय:।।107।।
व्यावृत्ते
सर्वतस्तस्मिन् व्यावृत्तिविनिबन्धना।
बुद्धयोऽर्थे
प्रवर्त्तन्तेऽभिन्ने भिन्नाश्रया इव।।108।।
यथाचोदनमाख्याश्च सोऽसति
भ्रान्तिकारणे।
प्रतिभा:
प्रतिसन्धत्ते स्वानुरूपा: स्वभावत:।।109।।
सिद्धोऽत्राप्यथवा
ध्वंसो लिङ्गादनुपलम्भनात्।
प्राग्भूत्वा
ह्यभवन्* भावोऽनित्य इत्यभिधीयते।।110।। (पा0टि0- *ह्यमवद्-रा0)
यस्योभयान्तव्यवधिसत्तासम्बन्धवाचिनी।
अनित्यताश्रुतिस्तेन
तावन्ताविति कौ स्मृतौ।।111।
प्राक्
पश्चादप्यभावश्चेत् स एवानित्यता न किम्!
षष्ठ्याद्ययोगादिति
चेद् अन्तयो: स कथं भवेत् !।।112।।
सत्ता
सम्बन्धयोर्ध्रौव्यादन्ताभ्यां न विशेषणम्।
अविशेषणमेव
स्यादन्तौ चेत् कार्यकारणे।।113।।
असम्बन्धान्न भावस्य
प्रागभावं स वाञ्छति।
तदुपाधिसमाख्याने तेऽप्यस्य
च न सिध्यत:।।114।।
सत्ता
स्वकारणाश्लेषकरणात् कारणं किल।
सा सत्ता स च
सम्बन्धो नित्यौ कार्यमथेह किम्।।115।।
यस्याभाव:
क्रियेतासौ न भाव: प्रागभाववान्।
सम्बन्धानभ्युपगमान्नित्यं
विश्वमिदं तत:।।116।।
तस्मादनर्थास्कन्दिन्योऽभिन्नार्थाभिमतेष्वपि।
शब्देषु
वाच्यभेदिन्यो व्यतिरेकास्पदं धिय:।।117।।
विशेषप्रत्यभिज्ञानं
न प्रतिक्षणभेदत:।
न वा विशेषविषयं
दृष्टसाम्येन तद्ग्रहात्।।118।।
निदर्शनं तदेवेति
सामान्याग्रहणं यदि।
निदर्शनत्वात्
सिद्धस्य प्रमाणेनास्य किं पुन:।।119।।
विस्मृत्वाददोषश्चेत्
तत एवानिदर्शनम्।
दृष्टे
तद्भावसिद्धिश्चेत् प्रमाणाद्; अन्यवस्तुनि।।120।।
तत्त्वारोपे
विपर्यासस्तत्सिद्धेरप्रमाणता।
प्रत्यक्षेतरयोरैक्यादेकसिद्धिर्द्वयोरपि।।121।।
सन्धीयमानं चान्येन
व्यवसायं स्मृतिं विदु:।
तल्लिङ्गापेक्षणान्नो
चेत् स्मृतिर्न व्यभिचारत:।।122।।
{लक्षणविप्रतिपत्तिनिराकरणम्}
प्रत्यक्षं
कल्पनापोढं प्रत्यक्षेणैव सिध्यति।
प्रत्यात्मवेद्य:
सर्वेषां विकल्पो नामसंश्रय:।।123।।
संहृत्य
सर्वतश्चिन्तां स्तिमितेनान्तरात्मना।
स्थितोऽपि चक्षुषा
रूपमीक्षते साक्षजा मति:।।124।।
पुनर्विकल्पयन्
किञ्चिदासीन्मे कल्पनेदृशी।
वेत्ति चेति न
पूर्वोक्तावस्थायामिन्द्रियाद् गतौ।।125।।
एकत्र दृष्टो भेदो
हि क्वचिन्नान्यत्र दृश्यते।
न तस्माद्
भिन्नमस्त्यन्यत् सामान्यं बुद्ध्यभेदत:।।126।।
तस्माद् विशेषविषया
सर्वैवेन्द्रियजा मति:।
न विशेषेषु शब्दानां
प्रवृत्तावस्ति सम्भव:।।127।।
अनन्वयाद् विशेषाणां
सङ्केतस्याप्रवृत्तित:।
विषयो यश्च शब्दानां
संयोज्येत स एव तै:।।128।।
अस्येदमिति सम्बन्धे
यावर्थौ प्रतिभासिनौ।
तयोरेव हि सम्बन्धो
न तदेन्द्रियगोचर:।।129।।
विशदप्रतिभासस्य
तदार्थस्याविभावनाद्।
विज्ञानाभासभेदो* हि*
पदार्थानां विशेषक:।।130।।(पा0टि0- **0भेदश्च-रा0)
चक्षुषाऽर्थावभासेऽपि
यं परोऽस्येति शंसति।
स एव योज्यते
शब्दैर्न खल्विन्द्रियगोचर:।।131।।
अव्यापृतेन्द्रियस्यान्यवाङ्मात्रेणाविभावनात्।
न चानुदितसम्बन्ध:
स्वयं ज्ञानप्रसङ्गत:।।132।।
मनसो युगपद्-वृत्ते:
सविकल्पाविकल्पयो:।
विमूढो
लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति।।133।।
विकल्पव्यवधानेन
विच्छिन्नं दर्शनं भवेत्।
इति चेद्, भिन्नजातीयविकल्पेऽन्यस्य वा कथम्।।134।।
अलातदृष्टिवद्
भावपक्षश्चेद् बलवान् मत:।
अन्यत्रापि समानं
तद् वर्णयोर्वा सकृच्छ्रुति:।।135।।
सकृत् सङ्गतशब्दार्थेष्विन्द्रियेष्विह
सत्स्वपि।
पञ्चभिर्व्यवधानेऽपि
भात्यव्यवहितेव या।।136।।
सा
मतिर्नामपर्यन्तक्षणिकज्ञानमिश्रणात्।
विच्छिन्नाभेति
तच्चित्रं तस्मात् सन्तु सकृद्धिय:।।137।।
प्रतिभासाविशेषश्च
सान्तरानन्तरे कथम्।
शुद्धे मनोविकल्पे च
न क्रमग्रहणं भवेत्।।138।।
योऽग्रह: सङ्गतेऽप्यर्थे
क्वचिदासक्तचेतस:।
सक्त्यान्योत्पत्तिवैगुण्याच्चोद्यं
वै तद् द्वयोरपि।।139।।
शीघ्रवृत्तेरलातादेरन्वयप्रतिघातिनी।
चक्रभ्रान्तिं
दृगाधत्ते न दृशां घटनेन सा।।140।।
{शङ्करस्वामिप्रभृतिमतखण्डनम्}
केचिदिन्द्रियजत्वादेर्बालधीवदकल्पनाम्।
आहुर्बालाविकल्पे च
हेतुं संकेतमन्दताम्।।141।।
तेषां प्रत्यक्षमेव
स्याद् बालानामविकल्पनात्।
संकेतोपायविगमात्
पश्चादपि भवेन्न स:।।142।।
मनो
व्युत्पन्नसंकेतमस्ति तेन स चेन्मत:।
एवमिन्द्रियजेऽपि
स्याद् शेषवच्चेदमीदृशम्।।143।।
यदेव साधनं बाले
तदेवात्रापि कथ्यताम्।
साम्यादक्षधियामुक्तमनेनानुभवादिकम्।।144।।
विशेषणं विशेष्यञ्च
सम्बन्धं लौकिकीं स्थितिम्।
गृहीत्वा सङ्कलय्यैतत्
तथा प्रत्येति नान्यथा।।145।।
यथा दण्डिनि
जात्यादेर्विवेकेनानिरूपणात्।
तद्वता योजना नास्ति
कल्पनाप्यत्र नास्त्यत:।।146।।
यदप्यन्वयि विज्ञानं
शब्दव्यक्त्यवभासि तत्।
वर्णाकृत्यक्षराकारशून्यं
गोत्वं हि वर्ण्यते।।147।।
समानत्वेऽपि तस्यैव
नेक्षणं नेत्रगोचरे।
प्रतिभासद्वयाभावात्
बुद्धेर्भेदश्च दुर्लभ:।।148।।
समवायाग्रहादक्षै:
सम्बन्धादर्शनं स्थितिम्।
पटस्तन्तुष्विहेत्यादिशब्दाश्चेमे
स्वयं कृता:।।149।।
शृङ्गं गवीति लोके
स्यात् शृङ्गे गौरित्यलौकिकम्।
गवाख्यपरिशिष्टाङ्गविच्छेदानुपलम्भनात्।।150।।
तैस्तन्तुभिरियं
शाटीत्युत्तरं कार्यमुच्यते।
तन्तुसंस्कारसम्भूतं
नैककालं कथञ्चन।।151।।
कारणारोपत: कश्चिद्
एकापोद्धारतोऽपि वा।
तन्त्वाख्यां
वर्तयेत् कार्ये दर्शयन् नाश्रयं श्रुते:।।152।।
उपकार्योपकारित्वं
विच्छेदाद् दृष्टिरेव वा।
मुख्यं
यदस्खलज्ज्ञानमादिसंकेतगोचर:।।153।।
अनुमानं च जात्यादौ
वस्तुनो नास्ति भेदिनि।
सर्वत्र व्यपदेशो हि
दण्डादेरपि सांवृतात्।।154।।
वस्तुप्रासादमालादिशब्दाश्चान्यानपेक्षिण:।
गेहो यद्यपि संयोगस्तन्माला
किन्नु* तद् भवेत्।।155।।(
पा0टि0-*किन्तु-
रा0। एवं वृत्तावपि।)
जातिश्चेद् गेह एकोऽपि
मालेत्युच्येत वृक्षवत्।
मालाबहुत्वे
तच्छब्द: कथं जातेरजातित:।।156।।
मालादौ च
महत्त्वादिरिष्टो यश्चौपचारिक:।
मुख्याविशिष्टविज्ञानग्राह्यत्वान्नौपचारिक:।।157।।
अनन्यहेतुता तुल्या
सा मुख्याभिमतेष्वपि।
पदार्थशब्द: कं
हेतुमन्यं षट्सु* समीक्षते।।158।। (पा0टि0-*षटकं-रा0।)
यो यथा रूढित:*
सिद्धस्तत्साम्याद् यस्तथोच्यते।।
मुख्यो** गौणश्च
भावेष्वप्यभावस्योपचारत:।।159।।(
पा0टि0- *रूठित:-रा0। ** यत्र-रा0)
संकेतान्वयिनी
रूढिर्वक्तुरिच्छान्वयी च स:।
क्रियते
व्यवहारार्थं छन्द:शब्दांशनामवत्*।।160।। ( पा0टि0- *शब्दाङ्ग:-पाठा0)
वस्तुधर्मतयैवार्थास्तादृग्विज्ञानकारणम्।
भेदेऽपि यत्र
तज्ज्ञानं* ताँस्तथा प्रतिपद्यते।।161।। ( पा0टि0-*तज्ज्ञानात्-रा0)
ज्ञानान्यपि तथा
भेदेऽभेदप्रत्यवमर्शने।
इत्यतत्कार्यविश्लेषस्यान्वयो
नैकवस्तुन:।।162।।
वस्तूनां विद्यते
तस्मात् तन्निष्ठा वस्तुनि श्रुति:।
बाह्यशक्तिव्यवच्छेदनिष्ठाभावेऽपि
तच्छ्रुति:।।163।।
विकल्पप्रतिबिम्बेषु
तन्निष्ठेषु निबध्यते।
ततोऽन्यापोहनिष्ठत्वादुक्तान्यापोहकृत्
श्रुति:।।164।।
व्यतिरेकीव
यज्ज्ञाने भात्यर्थप्रतिबिम्बकम्।
शब्दात् तदपि
नार्थात्मा भ्रान्ति: सा वासनोद्भवा*।।165।।( पा0टि0-*-वासनामयी-पाठा0।)
तस्याभिधाने
श्रुतिभिरर्थे कोंऽशोऽवगम्यते।
तस्यागतौ च
संकेतक्रिया व्यर्था तदर्थिका।।166।।
शब्दोऽर्थांशं*
कमाहेति* तत्रान्यापोह उच्यते।
आकार: स च नार्थेऽस्ति
तं वदन्नर्थभाक् कथम्।।167।।(
पा0टि0- **शब्दोऽर्थांशकमाहेति-रा0)
शब्दस्यान्वयिन: कार्यमर्थेनान्वयिना
स च।
अनन्वयी धियोऽभेदाद्
दर्शनाभ्यासनिर्मित:।।168।।
तद्रूपारोपगत्यान्यव्यावृत्ताधिगते:
पुन:।
शब्दार्थोऽर्थ:* स
एवेति वचने न विरुध्यते।।169।। (पा0टि0- *शब्दार्थार्थ:-रा0)
मिथ्यावभासिनो वैते
प्रत्यया: शब्दनिर्मिता:।
अनुयान्तीममर्थांशमिति
चापोहकृत् श्रुति:।।170।।
तस्मात् संकेतकालेऽपि;
निर्दिष्टार्थेन संयुत:।
स्वप्रतीतिफलेनान्यापोह:
सम्बध्यते श्रुतौ।।171।।
अन्यत्रादृष्ट्यत्वात्
क्वचित्तद्दृष्ट्यपेक्षणात्।
श्रुतौ सम्बध्यतेऽपोहो
नैतद् वस्तुनि युज्यते।।172।।
तस्माद्
जात्यादितद्योगा नार्थे तेषु च न श्रुति:।
संयुज्यतेऽन्यव्यावृत्तौ
*शब्दानामेव योजनात्।।173।। (पा.टि.- *संजोज्यते-रा.।सम्बध्यते-पाठा.)
{प्रत्यक्षे
शब्दकल्पनानिराकरणम्}
संकेतस्मरणोपायं
दृष्टसंकलनात्मकम्।
पूर्वापरपरामर्शशून्ये
तच्चाक्षुषे कथम्।।174।।
अन्यत्रगतचित्तोऽपि
चक्षुषा रूपमीक्षते।
तत्संकेताग्रहस्तत्र
स्पष्टस्तज्जा च कल्पना।।175।।
जायन्ते
कल्पनास्तत्र यत्र शब्दो निवेशित:।
तेनेच्छात:
प्रवर्त्तेरन् नेक्षेरन् बाह्यमक्षजा:।।176।।
रूपं रूपमितीक्षेत
तद्धियं किमितीक्षते।
अस्ति
चानुभवस्तस्या: सोऽविकल्प: कथं भवेत्।।177।।
तयैवानुभवे दृष्टं न
विकल्पद्वयं सकृत्।
एतेन
तुल्यकालान्यविज्ञानानुभवो गत:।।178।।
स्मृतिर्भवेदतीते च
साऽगृहीते कथं भवेत्।
स्याच्चान्यधीपरिच्छेदाभिन्नरूपा
स्वबुद्धिधी:।।179।।
अतीतमपदृष्टान्तमलिङ्गञ्चार्थवेदनम्।
सिद्धं तत्केन
तस्मिन् हि न प्रत्यक्षं न लैङ्गिकम्।।180।।
तत्स्वरूपावभासिन्या
बुद्ध्यानन्तरया यदि।
रूपादिरिव गृह्येत;
न स्यात् तत्पूर्वधीग्रह:।।181।।
सोऽविकल्प: स्वविषयो
विज्ञानानुभवो यथा।
अशक्यसमयं
तद्वदन्यदप्यविकल्पकम्।।182।।
सामान्यवाचिन:
शब्दास्तदेकार्था च कल्पना।
अभावे निर्विकल्पस्य
विशेषाधिगम: कथम्।।183।।
अस्ति
चेन्निर्विकल्पं च किञ्चित् तत्तुल्यहेतुकम्।
सर्वं तथैव हेतोर्हि
भेदाद् भेद: फलात्मनाम्।।184।।
अनपेक्षितबाह्यार्था
योजना समयस्मृते:।
तथानपेक्ष्य समयं
वस्तुशक्त्यैव नेत्रधी:।।185।।
संकेतस्मरणापेक्षं
रूपं यद्यक्षचेतसि।
अनपेक्ष्य न
चेच्छक्तं स्यात् स्मृतावेव लिंगवत्।।186।।
तस्यास्तत्संगमोत्पत्तेरक्षधी:
स्यात् स्मृतेर्न वा।
तत: कालान्तरेऽपि
स्यात् क्वचिद् व्याक्षेपसम्भवात्।।187।।
क्रमेणोभयहेतुश्चेत्
प्रागेव स्यादभेदत:।
अन्योऽक्षबुद्धिहेतुश्चेत्
स्मृतिस्तत्राप्यनर्थिका।।188।।
यथासमितसिद्ध्यर्थमिष्यते
समयस्मृति:।
भेदश्चासमितो
ग्राह्य: स्मृतिस्तत्र किमर्थिका। ! ।।189।।
सामान्यमात्रग्रहणे
भेदापेक्षा न युज्यते।
तस्माच्चक्षुश्च
रूपं च प्रतीत्योदेति नेत्रधी:।।190।।
साक्षाच्च*
ज्ञानजनने समर्थो विषयोऽक्षवत्। (पा0टि0-*-साक्षाच्चेत्-रा0)
अथ कस्माद्
द्वयाधीनजन्म तत् तेन नोच्यते।।191।।
समीक्ष्य गमकत्वं हि
व्यपदेशे नियुज्यते*। (पा0टि0-
*न गृह्यते-रा0)
तच्चाक्षव्यपदेशेऽस्ति
तद्धर्मश्च नियोज्यताम्।।192।।
ततो लिंगस्वभावोऽत्र
व्यपदेशे नियोज्यताम्।
निवर्त्तते व्यापकस्य
स्वभावस्य निवृत्तित:।।193।।
सञ्चित: समुदाय: स
सामान्यं तत्र चाक्षधी:।
सामान्यबुद्धिश्चावश्यं
विकल्पेनानुबध्यते?।।194।।
अर्थान्तराभिसम्बन्धाज्जायन्ते
येऽणवोऽपरे।
उक्तास्ते सञ्चितास्ते
हि निमित्तं ज्ञानजन्मन:।।195।।
अणूनां स विशेषश्च
नान्तरेणापरानणून्।
तदेकानियमाज्ज्ञानमुक्तं
सामान्यगोचरम्।।196।।
अथैकायतनत्वेऽपि
नानेकं दृश्यते सकृत्।
सकृद्ग्रहावभास: किं
वियुक्तेषु तिलादिषु।।197।।
प्रयुक्तं
लाघवञ्चात्र तेष्वेव क्रमपातिषु।
किं
नाक्रमग्रहस्तुल्यकाला: सर्वाश्च बुद्धय:।।198।।
काश्चित्
तास्वक्रमाभासा: क्रमवत्योऽपराश्च किम्।
सर्वार्थग्रहणे
तस्मादक्रमोऽयं प्रसज्यते।।199।।
नैकं चित्रपतंगादि
रूपं वा दृश्यते कथम्।
चित्रं तदेकमिति
चेदिदं चित्रतरं तत:।।200।।
नैकं स्वभावं चित्रं
हि मणिरूपं यथैव तत्।
नीलादिप्रतिभासश्च
तुल्यश्चित्रपटादिषु।।201।।
तत्रावयवरूपं चेत्
केवलं दृश्यते तथा।
नीलादीनि
निरस्यान्यच्चित्रं चित्रं यदीक्षसे।।202।।
तुल्यार्थाकारकालत्वेनोपलक्षितयोर्द्वयो:
नानार्था
क्रमवत्येका किमेकार्थाऽक्रमापरा।।203।।
वैश्वरूप्याद्
धियामेव भावानां विश्वरूपता।
तच्चेदनङ्गं केनेयं
सिद्धा भेदव्यवस्थिति:!।।204।।
विजातीनामनारम्भादालेख्यादौ
न चित्रधी:।
अरूपत्वान्न
संयोगश्चित्रो भक्तेश्च नाश्रय:।।205।।
प्रत्येकमविचित्रत्वाद्
गृहीतेषु क्रमेण च।
न चित्रधीसङ्कलनमनेकस्यैकयाऽग्रहात्।।206।।
नानार्थैका भवेत्
तस्मात् सिद्धाऽतोऽप्यविकल्पिका।
विकल्पयन्नेकमर्थं*
यतोऽन्यदपि पश्यति।।207।।
( पा0टि0- *विकल्पन्नायेकार्थं-रा0।
विकल्पयन्नप्येकार्थं-पाठा0)
चित्रावभासेष्वर्थेषु
यद्येकत्वं न युज्यते।
सैव तावत् कथं
बुद्धिरेका चित्रावभासिनी।।208।।
इदं वस्तुबलायातं
यद् वदन्ति विपश्चित:।
यथा
यथार्थाश्चिन्त्यन्ते विशीर्यन्ते* तथा तथा।।209।।( पा0टि0- *विविच्यन्ते-पाठा0)
किं स्यात् सा
चित्रतैकस्याम्; न स्यात्
तस्यां मतावपि।
यदीदं स्वयमर्थानां
रोचते तत्र के वयम्।।210।।
तस्मान्नार्थेषु न
ज्ञाने स्थूलाभासस्तदात्मन:।
एकत्र
प्रतिषिद्धत्वाद् बहुष्वपि न सम्भव:।।211।।
परिच्छेदोऽन्तरन्योऽयं
भागो बहिरिव स्थित:।
ज्ञानस्याभेदिनौ
भिन्नौ प्रतिभासो ह्युपप्लव:।।212।।
तत्रैकस्याप्यभावेन
द्वयमप्यवहीयते।
तस्मात् तदेव
तस्यापि तत्त्वं या द्वयशून्यता।।213।।
तद्भेदाश्रयिणी चेयं
भावानां भेदसंस्थिति:।
तदुपप्लवभावे च
तेषां भेदोऽप्युपप्लव:।।214।।
न
ग्राह्यग्राहकाकारबाह्यमस्ति च लक्षणम्।
अतो
लक्षणशून्यत्वान्नि:स्वभावा: प्रकाशिता:।।215।।
व्यापारोपाधिकं
सर्वं स्कन्धादीनां विशेषत:।
लक्षणं स च तत्त्वं
न तेनाप्येते विलक्षणा:।।216।।
यथास्वम्प्रत्ययापेक्षादविद्योपप्लुतात्मनाम्।
विज्ञप्तिर्वितथाकारा
जायते तिमिरादिवत्।।217।।
असंविदिततत्त्वा च
सा सर्वापरदर्शनै:।
असम्भवाद् विना
तेषां ग्राह्यग्राहकविप्लवै:।।218।।
तदुपेक्षिततत्त्वार्थै:
कृत्वा गजनिमीलनम्।
केवलं लोकबुद्ध्यैव
बाह्यचिन्ता प्रतन्यते।।219।।
नीलादिश्चित्रविज्ञाने
ज्ञानोपाधिरनन्यभाक्।
अशक्यदर्शन:;
तं हि पतत्यर्थे विवेचयन्।।220।।
यद् यथा भासते
ज्ञानं तत् तथैव प्रकाशते।
इति नामैकभाव:
स्याच्चित्राकारस्य चेतसि*।।221।। ( पा0टि0-*चेतस:- पाठा0)
पटादिरूपस्यैकत्वे
तथा स्यादविवेकिता।
विवेकीनि
निरस्यान्यदा विवेकि च नेक्षते*।।222।। (पा0टि0- *नेक्ष्यते-पाठा0)
को वा विरोधो बहव:
सञ्जातातिशया: पृथक्*।
भवेयु: कारणं
बुद्धेर्यदि नात्मेद्रियादिवत्।।223।। ( पा0टि0-*सकृद्-पाठा0।)
हेतुभावाद् ऋते
नान्या ग्राह्यता नाम काचन।
तत्र
बुद्धिर्यदाकारा तस्यास्तद् ग्राह्यमुच्यते।।224।।
कथं वाऽवयवी
ग्राह्य: सकृत् स्वावयवै: सह।
न हि गोप्रत्ययो
दृष्ट: सास्नादीनामदर्शने।।225।।
गुणप्रधानाधिगम:
सहाप्यभिमतो यदि।
सम्पूर्णाङ्गो न
गृह्येत सकृन्नापि गुणादिमान्।।226।।
विवक्षापरतन्त्रत्वाद्
विशेषणविशेष्ययो:।
यदङ्गभावेनोपात्तं
तत् तेनैव हि गृह्यते।।227।।
स्वतो
वस्त्वन्तराभेदाद् गुणादेर्भेदकस्य च।
अग्रहादेकबुद्धि:
स्यात् पश्यतोऽपि परापरम्।।228।।
गुणादिभेदग्रहणान्नानात्वप्रतिपद्
यदि।
अस्तु नाम
तथाप्येषां भवेत् सम्बन्धिसङ्कर:।।229।।
शब्दादीनामनेकत्वात्
सिद्धोऽनेकग्रह: सकृत्।
सन्निवेशग्रहायोगादग्रहे
सन्निवेशिनाम्।।230।।
सर्वतो विनिवृत्तस्य
विनिवृत्तिर्यतो यत:।
तद्भेदोन्नीतभेदा सा
धर्मिणोऽनेकरूपता।।231।।
ते कल्पिता
रूपभेदाद् निर्विकल्पस्य चेतस:।
न विचित्रस्य
चित्राभा: कादाचित्कस्य गोचर:।।232।।
यद्यप्यस्ति
सितत्वादि यादृगिन्द्रियगोचर:।
न सोऽभिधीयते
शब्दैर्ज्ञानयो रूपभेदत:।।233।।
एकार्थत्वेऽपि
बुद्धीनां नानाश्रयतया स चेत्।
श्रोत्रादिचित्तानीदानीं
भिन्नार्थानीति तत् कुत:।।234।।
जातो नामाश्रयोऽन्योऽन्य:
चेतसा तस्य वस्तुन:।
एकस्यैव कुतो रूपं
भिन्नाकारावभासि तत्।।235।।
वृत्तेर्दृश्यपरामर्शेनाभिधानविकल्पयो:।
दर्शनात्
प्रत्यभिज्ञानं गवादीनां निवारितम्।।236।।
अन्वयाच्चानुमानं
यदभिधानविकल्पयो:।
दृश्ये गवादौ
जात्यादेस्तदप्येतेन दूषितम्।।237।।
दर्शनान्येव
भिन्नान्यप्येकां कुर्वन्ति कल्पनाम्।
प्रत्यभिज्ञानसंख्यातां
स्वभावेनेति वर्णितम्।।238।।
पूर्वानुभूतग्रहणे
मानसस्याप्रमाणता।
अदृष्टग्रहणेऽन्धादेरपि
स्यादर्थदर्शनम्।।239।।
क्षणिकत्वादतीतस्य
दर्शनस्य* न सम्भव:। (पा0टि0-*दर्शने च-रा0)
वाच्यमक्षणिकत्वे
स्याल्लक्षणं सविशेषणम्।।240।।
निष्पादितक्रिये
कञ्चिद्* विशेषमसमादधत्।
कर्मण्यैन्द्रियमन्यद्
वा साधनं किमितीष्यते।।241।। (
पा0टि0-*किञ्चिद-रा0।)
सकृद् भावश्च
सर्वासां धियां तद्भावजन्मनाम्।
अन्यैरकार्यभेदस्य
तदपेक्षाविरोधत:।।242।।
तस्मादिन्द्रियविज्ञानानन्तरप्रत्ययोद्भवम्।
मनोऽन्यमेव गृह्णाति
विषयं नान्यदृक् तत:।।243।।
स्वार्थान्वयार्थापेक्षैव
हेतुरिन्द्रियजा मति:।
ततोऽन्यग्रहणेऽप्यस्य
नियतग्राह्यता मता।।244।।
तदतुल्यक्रियाकाल:
कथं स्वज्ञानकालिक:।
सहकारी भवेदर्थ इति
चेदक्षचेतस: ?।।245।।
असत:
प्रागसामर्थ्यात् पश्चाच्चानुपयोगत:।
प्राग्भाव:
सर्वहेतूनां नातोऽर्थ: स्वधिया सह।।246।।
भिन्नकालं कथं
ग्राह्यमिति चेद् ग्राह्यतां विदु:।
हेतुत्वमेव
युक्तिज्ञा ज्ञानाकारार्पणक्षमम्।।247।।
कार्यं
ह्यनेकहेतुत्वेऽप्यनुकुर्वदुदेति यत्।
तत् तेनाप्यत्र*
तद्रूपं* गृहीतमिति चोच्यते।।248।। ( पा0टि0- **तेनार्पिततद्रूपं-पाठा0)
{3- स्वसंवेदनप्रत्यक्षम्}
अशक्यसमयो ह्यात्मा
रागादीनामनन्यभाक्।
तेषामत:
स्वसंवित्तिर्न्नाभिजल्पानुषङ्गिणी।।249।।
अवेदका: परस्यापि ते
स्वरूपं कथं विदु:।
एकार्थाश्रयिणा
वेद्या विज्ञानेनेति केचन।।250।।
तदतद्रूपिणो
भावास्तदतद्रूपहेतुजा:।
तत्सुखादि किमज्ञानं
विज्ञानाभिन्नहेतुजम्।।251।।
सार्थे सतीन्द्रिये
योग्ये यथास्वमपि चेतसि।
दृष्टं जन्म
सुखादीनां तत् तुल्यं मनसामपि।।252।।
असत्सु सत्सु चैतेषु
न जन्माजन्म वा क्वचित्।
दृष्टं
सुखादेर्बुद्धेर्वा तत् ततो नान्यतश्च ते।।253।।
सुखदु:खादिभेदश्च
तेषामेव विशेषत:।
तस्या एव यथा
बुद्धेर्मान्द्यपाटवसंश्रया:।।254।।
यस्यार्थस्य निपातेन
ते जाता धीसुखादय:।
मुक्त्वा तं
प्रतिपद्येत सुखादीनेव सा कथम्!।।255।।
अविच्छिन्ना* न*
भासेत तत्संवित्ति: क्रमग्रहे।
तल्लाघवाच्चेत्
तत्तुल्यमित्यसंवेदनं न किम् !।।256।। (पा0टि0-*अविच्छिन्नाथ-रा0)
न चैकया द्वयज्ञानं
नियमादक्षचेतस:।
सुखाद्यभावेऽप्यर्थाच्च
जातेस्तच्छक्त्यसिद्धित:।।257।।
पृथक् पृथक् च
सामर्थ्ये द्वयोर्नीलादिवत् सुखम्।
गृह्येत केवलम्;
तस्य तद्धेत्वर्थमगृह्णत:।।258।।
न हि संवेदनं
युक्तम्, अर्थेनैव सह ग्रहे।
किं सामर्थ्यं
सुखादीनां नेष्टा धीर्यत् तदुद्भवा।।259।।
विनार्थेन सुखादीनां
वेदने चक्षुरादिभि:।
रूपादि: स्त्र्यादिभेदोऽक्ष्णा
न गृह्येत कदाचन।।260।।
न हि सत्यन्तरङ्गेऽर्थे
शक्ते धीर्बाह्यदर्शनी।
अर्थग्रहे सुखादीनां
तज्जानां स्यादवेदनम्।।261।।
धियोर्युगपदुत्पत्तौ
तत्तद्विषयसम्भवात्।
सुखदु:खविदौ स्यातां
सकृदर्थस्य सम्भवे।।262।।
सत्यान्तरेऽप्युपादाने
ज्ञाने दु:खादिसम्भव:।
नोपादानं विरुद्धस्य
तच्चैकमिति चेन्मतम्।।263।।
तदज्ञानस्य विज्ञानं
केनोपादानकारणम्।
आधिपत्यं तु कुर्वीत
तद्विरुद्धेऽपि दृश्यते।।264।
अक्ष्णोर्यथैक आलोको
नक्तञ्चरतदन्ययो:।
रूपदर्शनवैगुण्यावैगुण्ये
कुरुते सकृत्।।265।।
तस्मात् सुखादयोऽर्थानां
स्वसंक्रान्तावभासिनाम्।
वेदका:
स्वात्मनश्चैषामर्थेभ्यो जन्म केवलम्।।266।।
अर्थात्मा
स्वात्मभूतो हि तेषां तैरनुभूयते।
तेनार्थानुभावख्यातिरालम्बस्तु
तदाभता।।267।।
{तत्र
साङ्ख्यमतनिराकरणम्}
कश्चिद्
बहि:स्थितानेव सुखादीनप्रचेतनान्।
ग्राह्यानाह,
न तस्यापि सकृद् युक्तो द्वयग्रह:।।268।।
सुखाद्यभिन्नरूपत्वान्नीलादेश्चेत्
सकृद् ग्रह:।
भिन्नावभासिनोर्ग्राह्यं
चेतसोस्तदभेदि किम्।।269।।
तस्याविशेषे बाह्यस्य
भावनातारतम्यत:।
तारतम्यञ्च बुद्धौ
स्यान्न प्रीतिपरितापयो:।।270।।
सुखाद्यात्मतया
बुद्धेरपि यद्यविरोधिता।
स इदानीं कथं बाह्य:
सुखाद्यात्मेति गम्यते ?।।271।।
अग्राह्यग्राहकत्वाच्चेद्
भिन्नजातीययो: पुमान्।
अग्राहक: स्यात्
सर्वस्य ततो हीयेत् भोक्तृता।।272।।
कार्यकारणतानेन
प्रत्युक्ताऽकार्यकारणे।
ग्राह्यग्राहकताभावाद्
भावेऽन्यत्रापि सा भवेत्।।273।।
तस्मात् त आन्तरा एव,
संवेद्यत्वाच्च चेतना:।
संवेदनं न यद् रूपं
न हि तत् तस्य वेदनम्।।274।।
अतत्स्वभावोऽनुभवो
बौद्धांस्तान् सन्नवैति चेत्।
मुक्त्वाध्यक्षस्मृताकारां
संवित्तिं बुद्धिरत्र का ।।275।।
ताँस्तानर्थानुपादाय
सुखदु:खादिवेदनम्।
एकमाविर्भवद् दृष्टं
न दृष्टं त्वन्यदन्तरा।।276।।
संसर्गादविभागश्चेदयोगोलोकवह्निवत्।
भेदाभेदव्यवस्थैवमुच्छिन्ना
सर्ववस्तुषु।।277।।
अभिन्नवेदनस्यैक्यं
यन्नैवं तद् विभेदवत्।
सिध्येदसाधनत्वेऽस्य
न सिद्धं भेदसाधनम्।।278।।
भिन्नाभ:
सितदु:खादिरभिन्नो बुद्धिवेदने।
अभिन्नाभे विभिन्ने
चेत् भेदाभेदौ किमाश्रयौ!।।279।।
तिरस्कृतानां
पटुनाप्येकदाऽभेददर्शनात्।
प्रवाहे
वित्तिभेदानां सिद्धा भेदव्यवस्थिति:।।280।।
प्रागुक्तं योगिनां
ज्ञानं तेषां तद् भावनामयम्।
विधूतकल्पनाजालं
स्पष्टमेवावभासते।।281।।
कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुता:।
अभूतानपि पश्यन्ति
पुरतोऽवस्थितानिव।।282।।
न
विकल्पानुबद्धस्यास्ति स्फुटार्थावभासिता।
स्वप्नेऽपि स्मर्यते
स्मार्त्तं न च तत् तादृगर्थवत्।।283।।
अशुभा
पृथिवीकृत्स्नाद्यभूतमपि वर्ण्यते।
स्पष्टाभं
निर्विकल्पच्च भावनाबलनिर्मितम्।।284।।
तस्माद् भूतमभूतं वा
यद् यदेवाति* भाव्यते*।
भावनापरिनिष्पत्तौ
तत् स्फुटाकल्पधीफलम्।।285।। ( पा0टि0-*यदेवाभिभाव्यते-रा0)
तत्र प्रमाणं संवादि
यत् प्राङ् निर्णीतवस्तुवत्।
तद् भावनाजं
प्रत्यक्षमिष्टम् शेषा उपप्लवा:।286।।
शब्दार्थग्राहि यद्
यत्र तज्ज्ञानं तत्र कल्पना।
स्वरूपं च न
शब्दार्थस्तत्राध्यक्षमतोऽखिलम्।।287।।
त्रिविधं
कल्पनाज्ञानमाश्रयोपप्लवोद्भवम्।
अविकल्पकमेकं च
प्रत्यक्षाभं चतुर्विधम्।।288।।
अनक्षजत्वसिद्ध्यर्थमुक्ते
द्वे भ्रान्तिदर्शनात्।
सिद्धानुमादिवचनं
साधनायैव पूर्वयो:।।289।।
संकेतसंश्रयान्यार्थसमारोपविकल्पने।
न
प्रत्यक्षानुवृत्तित्वात् कदाचिद् भ्रान्तिकारणम्।।290।।
यथैवेयं परोक्षार्थकल्पना
स्मरणात्मिका।
समयापेक्षिणी नार्थं
प्रत्यक्षमध्यवस्यति।।291।।
तथानुभूतस्मरणमन्तरेण
घटादिषु।
न प्रत्ययोऽनुयँस्तच्च
प्रत्यक्षात् परिहीयते।।292।।
अपवादश्चतुर्थोऽत्र
तेनोक्तमुपघातजम्।
केवलं तत्र
तिमिरमुपघातोपलक्षणम्।।293।।
मानसं तदपीत्येके
तेषां ग्रन्थो विरुध्यते।
नीलद्विचन्द्रादिधियां
हेतुरक्षाण्यपीत्ययम्।।294।।
पारम्पर्येण
हेतुश्चेदिन्द्रियज्ञानगोचरे।
विचार्यमाणे प्रस्तावो
मानसस्येह कीदृश:! ।।295।।
किं वैन्द्रियं
यदक्षाणां भावाभावानुरोधि चेत्।
तत् तुल्यं
विक्रियावच्चेत् सैवेयं किं निषिध्यते!।।296।।
सर्पादिभ्रान्तिवच्चास्या:
स्यादक्षविकृतावपि।
निवृत्तिर्न
निवर्त्तेत निवृत्तेऽप्यक्षविप्लवे।।297।।
कदाचिदन्यसन्ताने
तथैवार्प्येत वाचकै:।
दृष्टस्मृतिमपेक्षेत
न भासेत परिस्फुटम्।।298।।
सुप्तस्य जाग्रतो
वापि यैव धी: स्फुटभासिनी।
सा
निर्विकल्पोभयथाप्यन्यथैव विकल्पिका।।299।।
तस्मात्
तस्याविकल्पेऽपि प्रामाण्यं प्रतिषिध्यते।
विसंवादात् तदर्थं
च प्रत्यक्षाभं द्विधोदितम्।।300।।
क्रियासाधनमित्येव
सर्वं सर्वस्य कर्मण:।
साधनं न हि तत्
तस्य साधनं या क्रिया यत:।।301।।
तत्रानुभवमात्रेण
ज्ञानस्य सदृशात्मन:।
भाव्यं तेनात्मना
येन प्रतिकर्म विभज्यते।।302।।
अनात्मभूतो भेदोऽस्य
विद्यमानोऽपि हेतुषु।
भिन्ने
कर्मण्यभिन्नस्य न भेदेन नियामक:।।303।।
तस्माद् यतोऽस्यात्मभेदादस्याधिगतिरित्ययम्।
क्रियाया: कर्मनियम:
सिद्धा सा तत्प्रसाधना।।304।।
अर्थेन घटयत्येनां न
हि मुक्त्वार्थरूपताम्।
अन्य:
स्वभेदाज्ज्ञानस्य भेदकोऽपि कथञ्चन।।305।।
तस्मात्
प्रमेयाधिगते: साधनं मेयरूपता।
साधनेऽन्यत्र तत्कार्यसम्बन्धो
न प्रसिध्यति।।306।।
सा च तस्यात्मभूतेव
तेन नार्थान्तरं फलम्।
दधानं तच्च
तामात्मर्न्थाधिगमनात्मना।।307।।
सव्यापारमिवाभाति
व्यापारेण स्वकर्मणि।
तद्वशात् तद्व्यवस्थानादकारकमपि
स्वयम्।।308।।
यथा फलस्य हेतूनां
सदृशात्मतयोद्भवात्।
हेतुरूपग्रहो लोकेऽक्रियावत्त्वेऽपि
कथ्यते।।309।।
आलोचनाक्षसम्बन्धविशेषणधियामत:।
नेष्टं
प्रामाण्यमेतेषां व्यवधानात् क्रियां प्रति।।310।।
सर्वेषामुपयोगेऽपि
कारकाणां क्रियां प्रति।
यदन्त्यं भेदकं
तस्यास्तत् साधकतमं मतम्।।311।।
सर्वसामान्यहेतुत्वादक्षाणामस्ति
नेदृशम्।
तद्भेदेऽपि
ह्यतद्रूपस्यास्येदमिति तत् कुत:!।।312।।
एतेन शेषं
व्याख्यातं विशेषणधियां पुन:।
अताद्रूप्ये न भेदोऽपि
तद्वदन्यधियोऽपि वा।।313।।
नेष्टो विषयभेदोऽपि
क्रियासाधनयोर्द्वयो:।
एकार्थत्वे द्वयं
व्यर्थं न च स्यात् क्रमभाविता।।314।।
साध्यसाधनताभाव: सकृद्भावे;
धियोंऽशयो:।
तद्व्यवस्थाश्रयत्वेन
साध्यसाधनसंस्थिति:।।315।।
सर्वात्मनापि
सम्बद्धं कैश्चिदेवावगम्यते।
धर्मै: स नियमो न स्यात् सम्बन्धस्याविशेषत:।।316।।
तदभेदेऽपि भेदोऽयं
यस्मात् तस्य प्रमाणता।
संस्काराच्चेदताद्रूप्ये
न तस्याप्यव्यवस्थिते:।।317।।
क्रियाकारणयोरैक्यविरोध
इति चेद्, असत्।
धर्मभेदाभ्युपगमाद्;
वस्त्वभिन्नमितीष्यते।।318।।
एवम्प्रकारा सर्वैव
क्रियाकारकसंस्थिति:।
भावस्य
भिन्नाभिमतेष्वप्यारोपेण वृत्तित:।।319।।
काऽर्थसंविद् ? यदेवेदं
प्रत्यक्षं प्रतिवेदनम्।
तदर्थवेदनं केन
ताद्रूप्याद् व्यभिचारि तत्।।320।।
अथ सोऽनुभव: क्वास्य
? तदेवेदं विचार्यते।
सरूपयन्ति तत् केन
स्थूलाभासं च तेऽणव:।।321।।
तन्नार्थरूपता तस्य
सत्यार्थाव्यभिचारिणी।
तत्सवंदेनभावस्य न
समर्था प्रसाधने।।322।।
तत्सारूप्यतदुत्पत्ती
यदि संवेद्यलक्षणम्।
संवेद्यं स्यात्
समानार्थं विज्ञानं समनन्तरम्।।323।।
‘इदं दृष्टं श्रुतं
वेदम्’ इति यत्रावसायधी:।
न तस्यानुभव: सैव
प्रत्यासत्तिर्विचार्यते।।324।।
दृश्यदर्शनयोर्येन
तस्य तद् दर्शनं मतम्।
तयो:
सम्बन्धमाश्रित्य द्रष्टुरेष विनिश्चय:।।325।।
आत्मा स तस्यानुभव:
स च नान्यस्य कस्यचित्।
प्रत्यक्षप्रतिवेद्यत्वमपि
तस्य तदात्मता।।326।।
नान्योऽनुभाव्यस्तेनास्ति
तस्य नानुभवोऽपर:।
तस्यापि
तुल्यचोद्यत्वात् स्वयं सैव प्रकाशते।।327।।
नीलादिरूपस्तस्यासौ
स्वभावोऽनुभवश्च स:।
नीलाद्यनुभवात्
ख्यात: स्वरूपानुभवोऽपि सन्।।328।।
प्रकाशमानस्तादात्म्यात्
स्वरूपस्य प्रकाशक:।
यथा प्रकाशोऽभिमतस्तथा
धीरात्मवेदिनी।।329।।
तस्याश्चार्थान्तरे वेद्ये दुर्घटौ वेद्यवेदकौ।
अवेद्यवेदकाकारा;
यथा भ्रान्तैर्निरीक्ष्यते।।330।।
विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा।
तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत्।।331।।
यदा तदा न
सच्चोद्यग्राह्यग्राहकलक्षणा।
तदान्यसंविदोऽभावात्
स्वसंवित् फलमिष्यते।।332।।
यदि बाह्योऽनुभूयेत
को दोषो नैव कश्चन।
इदमेव किमुक्तं
स्यात् स बाह्योऽर्थोऽनुभूयते।।333।।
यदि बुद्धिस्तदाकारा
साऽस्त्याकारविशेषिणी।
सा बाह्यादन्यतो
वेति विचारमिदमर्हति।।334।।
दर्शनोपाधिरहितस्याग्रहात्
तद्ग्रहे ग्रहाद्।
दर्शनं नीलनिर्भासम्;
नार्थो बाह्योऽस्ति केवलम्।।335।।
कस्यचित्
किच्चिदेवान्तर्वासनाया: प्रबोधकम्।
ततो धियां विनियमो न
बाह्यार्थव्यपेक्षया।।336।।
तस्माद्
द्विरूपमस्त्येकं यदेवमनुभूयते।
स्मर्यते
चोभयाकारस्यास्य संवेदनं फलम्।।337।।
यदा निष्पन्नतद्भाव
इष्टोऽनिष्टोऽपि वा पर:।
विज्ञप्तिहेतुर्विषयस्तस्याश्चानुभवस्तथा।।338।।
यदा सविषयं ज्ञानं
ज्ञानांशेऽर्थव्यवस्थिते:।
तदा य आत्मानुभव: स
एवार्थविनिश्चय:।।339।।
यदीष्टाकार आत्मा
स्यादन्यथा वानुभूयते।
इष्टोऽनिष्टोऽपि वा
तेन भवत्यर्थ: प्रवेदित:।।340।।
विद्यमानेऽपि बाह्येऽर्थे
यथानुभवमेव स:।
निश्चितात्मा
स्वरूपेण नानेकात्मत्वदोषत:।।341।।
यदि बाह्यं न
विद्येत कस्य संवेदनं भवेत्।
यद्यगत्या स्वरूपस्य बाह्यस्यैव न किं मतम्।।342।।
अभ्युपायेऽपि भेदेन
न स्यादनुभवो द्वयो:।
अदृष्टावरणात्
स्यात् चेन्न नामार्थवशा गति:।।343।।
तमनेकात्मकं
भावमेकात्मत्वेन दर्शयत्।
तददृष्टं कथं नाम
भवेदर्थस्य दर्शकम्।।344।।
इष्टानिष्टावभासिन्य:
कल्पना नाक्षधीर्यदिं।
अनिष्टादावसन्धानं
दृष्टं तत्रापि चेतसाम्।।345।।
तस्मात् प्रमेये
बाह्येऽपि युक्तं स्वानुभव: फलम्।
यत: स्वभावोऽस्य यथा
तथैवार्थविनिश्चय:।।346।।
तदर्थाभासतैवास्य
प्रमाणं न तु सन्नपि।
ग्राहकात्माऽपरार्थत्वाद्
ब्राह्येष्वर्थेष्वपेक्षते।।347।।
यस्माद् यथा
निविष्टोऽसावर्थात्मा प्रत्यये तथा।
निश्चीयते निविष्टोऽसावेवमित्यात्मसंविद:।।348।।
इत्यर्थसंवित्
सैवेष्टा यतोऽर्थात्मा न दृश्यते।
तस्माद्
बुद्धिनिवेश्यार्थ: साधनं तस्य सा क्रिया।।349।।
यथा निविशते सोऽर्थो
यत: सा प्रथते तथा।
अर्थस्थितेस्तदात्मत्वात्
स्वविदप्यर्थविन्मता।।350।।
तस्माद् विषयभेदोऽपि
न; स्वसंवेदनं फलम्।
उक्तं
स्वभावचिन्तायां तादात्म्यादर्थसंविद:।।351।।
तथावभासमानस्य
तादृशोऽन्यादृशोऽपि वा।
ज्ञानस्य हेतुरर्थोऽपीत्यर्थस्येष्टा
प्रमेयता।।352।।
यथाकथञ्चित्
तस्यार्थरूपं मुक्त्वावभासिन:।
अर्थग्रह: कथम् ? सत्यं
न जानेऽहमपीदृशम्।।353।।
अविभागोऽपि बुद्ध्यात्मविपर्यासितदर्शनै:।
ग्राह्यग्राहकसंवित्तिभेदवानिव
लक्ष्यते।।354।।
मन्त्राद्युपप्लुताक्षाणां
यथा मृच्छकलादय:।
अन्यथैवावभासन्ते
तद्रूपरहिता अपि।।355।।
तथैव दर्शनात्
तेषामनुपप्लुतचक्षुषा*।
दूरे यथा वा मरुषु
महानल्पोऽपि दृश्यते।।356।। ( पा0टि0- *0मनुपप्लुतचक्षुषाम्-रा0)
यथानुदर्शनं चेयं
मेयमानफलस्थिति:।
क्रियतेऽविद्यमानापि
ग्राह्यग्राहकसंविदाम्।।357।।
अन्यथैकस्य भावस्य
नानारूपावभासिन:।
सत्यं कथं
स्युराकारास्तदेकत्वस्य हानित:।।358।।
अन्यस्यान्यत्वहानेश्च;
नाभेदो रूपदर्शनात्।
रूपाभेदं* च*
पश्यन्ती धीरभेदं व्यवस्यति।।359।। (पा0टि0-**रूपाभेदेऽपि-रा0)
भावा येन
निरूप्यन्ते तद्रूपं नास्ति तत्त्वत:।
यस्मादेकमनेकं च
रूपं तेषां न विद्यते।।360।।
साधर्म्यदर्शनाल्लोके
भ्रान्तिर्नामोपजायते।
अतदात्मनि
तादात्म्यव्यवसायेन नेह तत्।।361।।
अदर्शनाज्जगत्यस्मिन्नेकस्यापि
तदात्मन:।
अस्तीयमपि या
त्वन्तरुपप्लवसमुद्भवा।।362।।
दोषोद्भवा प्रकृत्या
सा वितथप्रतिभासिनी।
अनपेक्षितसाधर्म्यदृगादिस्तैमिरादिवत्।।363।।
तत्र बुद्धे:
परिच्छेदो ग्राहकाकारसम्मत:।
तादात्म्यादात्मवित्
तस्य स तस्य साधनं तत:।।364।।
तत्रात्मविषये माने
यथारागादि वेदनम्।
इयं सर्वत्र
संयोज्या मानमेयफलस्थिति:।।365।।
तत्राप्यनुभवात्मत्वात्
ते योग्या स्वात्मसंविदि।
इति सा योग्यता
मानमात्मा मेय: फलं स्ववित्।।366।।
ग्राहकाकारसंख्याता
परिच्छेदात्मतात्मनि।
सा योग्यतेति च
प्रोक्तं प्रमाणं स्वात्मवेदनम्।।367।।
सर्वमेह हि* विज्ञानं
विषयेभ्य: समुद्भवद्।
तदन्यस्यापि** हेतुत्वे कथञ्चिद् विषयाकृति।।368।। (पा0टि0-
*तु-पाठा0। **तदर्थस्यापि-पाठा0)
यथैवाहारकालादेर्हेतुत्वेऽपत्यजन्मनि।
पित्रोस्तदेकस्याकारं
धत्ते नान्यस्य कस्यचित्।।369।।
तद्धेतुत्वेन तुल्येऽपि
तदन्यैर्विषये मतम्।
विषयत्वं तदंशेन
तदभावे न तद् भवेत्।।370।।
अनर्थाकारशङ्का
स्यादप्यर्थवति चेतसि।
अतीतार्थग्रहे
सिद्धे द्विरूपत्वात्मवेदने।।371।।
नीलाद्याभासभेदित्वान्नार्थो
जातितद्वती।
सा चानित्या* न
जाति: स्यान्नित्या वा जनिका कथम्।।372।। (पा0टि0-*वा नित्या—रा0।)
नामादिकं निषिद्धं
प्राङ् नायमर्थवतां क्रम:।
इच्छामात्रानुरोधित्वादर्थशक्तिर्न
सिध्यति।।373।।
स्मृतिश्चेदृग्विधं
ज्ञानं तस्याश्चानुभवाद् भव:।
स चार्थाकाररहित:
सेदानीं तद्वती कथम्!।।374।।
नार्थाद्
भावस्तदाभावात् स्यात्तथानुभवेऽपि स:।
आकार: स च नार्थस्य स्पष्टाकारविवेकत:।।375।।
व्यतिरिक्तं तदाकारं
प्रतीयादपरस्तदा।
नित्यमात्मनि
सम्बन्धे प्रतीयात् कथितं च न।।376।।
एकैकेनाभिसम्बन्धे
प्रतिसन्धिर्न युज्यते।
एकार्थाभिनिवेशात्मा
प्रवक्तृश्रोतृचेतसो:।।377।।
तदेकव्यवहारश्चेत्
सादृश्यादतदाभयो:।
भिन्नात्मार्थ: कथं
ग्राह्यस्तदा स्याद्धीरनर्थिका।।378।।
तच्चानुभवविज्ञानेनोभयांशावलम्बिना।
एकाकारविशेषेण
तज्ज्ञानेनानुबध्यते।।379।।
अन्यथा ह्यतथारूपं*
कथं ज्ञानेऽधिरोहति। (*ह्यतथाकारं—पाठा0।
एकाकारोत्तरं ज्ञानं
तथा ह्युत्तरमुत्तरम्।।380।।
तस्यार्थरूपेणाकारावात्माकारश्च
कश्चन।
द्वितीयस्य तृतीयेन
ज्ञानेन हि विविच्यते।।381।।
अर्थकार्यतया
ज्ञानस्मृतावर्थस्मृतेर्यदि।
भ्रान्त्या
सङ्कलनम्; ज्योतिर्मनस्कारे च सा भवेत्।।382।।
सर्वेषामपि
कार्याणां कारणै: स्यात् तथा ग्रह:।
कुलालादिविवेकेन न
स्मर्येत घटस्तत:।।383।।
यस्मादतिशयाज्
ज्ञानमर्थसंसर्गभाजनम्।
सारूप्यात्तत्
किमन्यत् स्याद् दृष्टेश्च यमलादिषु।।384।।
आद्यानुभयरूपत्वे
ह्येकरूपे* व्यवस्थितम्।
द्वितीयं व्यतिरिच्येत
न परामर्शचेतसा।।385।।
अर्थसंकलनाश्लेषां
धीर्द्वितीयावलम्बते। (पा0टि0-*अर्थसंकलनाश्लेषा—रा0)
नीलादिरूपेण धियं
भासमानां पुरस्तत:।।386।।
अन्यथा
ह्याद्यमेवैकं संयोज्येतार्थसम्भवात्।
ज्ञानं
नादृष्टसम्बन्धं पूर्वार्थेनोत्तरोत्तरम्।।387।।
सकृत् संवेद्यमानस्य
नियमेन धिया सह।
विषयस्य ततोऽन्यत्वं
केनाकारेण सिध्यति।।388।।
भेदश्च
भ्रान्तविज्ञानैर्दृश्येतेन्दाविवाद्वये।
संवित्तिनियमो नास्ति
भिन्नयोर्नीलपीतयो:।।389।।
नार्थोऽसंवेदन:
कश्चिदनर्थं वापि वेदनम्।
दृष्टं संवेद्यमानं
तत् तयोर्नास्ति विवेकिता।।390।।
तस्मादर्थस्य
दुर्वारं ज्ञानकालावभासिन:।
ज्ञानादव्यतिरेकित्वम्;
हेतुभेदानुमा भवेत्।।391।।
अभावादक्षबुद्धीनां
सत्स्वप्यन्येषु हेतुषु।
नियमं यदि न
ब्रूयाद् प्रत्ययात् समनन्तरात्।।392।।
बीजादंकुरजन्माग्नेर्धूमात्
सिद्धिरितीदृशी।
बाह्यार्थाश्रयिणी
यापि कारणज्ञापकस्थिति:।।393।।
सापि तद्रूपनिर्भासा
तथा नियतसङ्गमा:।
बुद्धीराश्रित्य
कल्प्येत यदि किं वा विरुध्यते।।394।।
अनग्निजन्यो धूम:
स्यात् तत्कार्यात् कारणेऽगति:।
न स्यात् कारणतायां
वा कुत एकान्ततो गति:।।395।।
तत्रापि धूमाभासा
धी: प्रबोधपटुवासनाम्।
गमयेदग्निनिर्भासां
धियमेव न पावकम्।।396।।
तद्योग्यवासनागर्भ
एव धूमावभासिनीम्।
व्यनक्ति
चित्तसन्तानो धियं धूमोऽग्नितस्तत:।।397।।
{ज्ञानस्य
द्वैरूप्यसाधनम्}
अस्त्येष विदुषां
वादो बाह्यं त्वाश्रित्य वर्ण्यते।
द्वैरूप्यं
सहसंवित्तिनियमात् तञ्च सिध्यति।।398।।
ज्ञानमिन्द्रियभेदेन पटुमन्दाविलादिकाम्।
प्रतिभासभिदामर्थे
बिभ्रदेकत्र दृश्यते।399।।
अर्थस्याभिन्नरूपत्वादेकरूपं
भवेन्मन:।
सर्वं
तदर्थमर्थाच्चेत् तस्य नास्ति तदाभता।।400।।
अर्थाश्रयेणोद्भवस्तद्रूपमनकुर्वत:।
तस्य केनचिदंशेन
परतोऽपि भिदा भवेत्।।401।।
तथा ह्याश्रित्य
पितरं तद्रूपोऽपि* सुत: पितु:।
भेदं केनचिदंशेन
कुतश्चिदवलम्बते।।402।। (पा0टि0-*तद्रूपो हि—रा0)
मयूरचन्द्रकाकारं
नीललोहितभास्वरम्।
सम्पश्यन्ति प्रदीपादेर्मण्डलं
मन्दचक्षुष:।।403।।
तस्य
तद्बाह्यरूपत्वे का प्रसन्नेक्षणेऽक्षमा।
भूतं पश्यँश्च
तद्दर्शी कथं चोपहतेन्द्रिय:।।404।।
शोधितं तिमिरेणास्य
व्यक्तं चक्षुरतीन्द्रियम्।
पश्यतोऽन्याक्षदृश्येऽर्थे
तदव्यक्तं कथं पुन:।।405।।
आलोकाक्षमनस्कारादन्यस्यैकस्य
गम्यते।
शक्तिर्हेतुस्ततो
नान्योऽहेतुश्च विषय: कथम्!।।406।।
स एव यदि धीहेतु:
किं प्रदीपमपेक्षते।
दीपमात्रेण
धीभावादुभयं नापि कारणम्।।407।।
दूरासन्नादिभेदेन
व्यक्ताव्यक्तं न युज्यते।
तत् स्यादालोकभेदाच्चेत्
तत्पिधानापिधानयो:।।408।।
तुल्या
दृष्टिरदृष्टिर्वा सूक्ष्मोंऽशस्तस्य कश्चन।
आलोकेन च मन्देन
दृश्यतेऽतो भिदा यदि।।409।।
एकत्वेऽर्थस्य
बाह्यस्य दृश्यादृश्यभिदा कुत:।
अनेकत्वेऽणुशो भिन्ने
दृश्यादृश्यभिदा कुत:।।।410।।
मान्द्यपाटवभेदेन
भासो बुद्धिभिदा यदि।
भिन्नेऽन्यस्मिन्नभिन्नस्य
कुतो भेदेन भासनम्।।411।।
मन्दं तदपि तेज:
किमावृतेरिह सा न किम्।
तनुत्वं
तेजसोऽप्येतदस्त्यन्यत्राप्यतानवम्।।412।।
अत्यासन्ने च
सुव्यक्तं तेजस्तत् स्यादतिस्फुटम्।
तत्राप्यदृष्टमाश्रित्य
भवेद् रूपान्तरं यदि ? ।।413।।
अन्योन्यावरणात्
तेषां स्यात् तेजोविहतिस्तत:।
तत्रैकमेव दृश्येत
तस्यानावरणे सकृत्।।414।।
पश्येत्
स्फुटास्फुटं रूपमेकोऽदृष्टेन वारणे।
अर्थानथौ न येन
स्तस्तददृष्टं करोति किम्।।415।।
तस्मात् संविद्
यथाहेतु जायमानार्थसंश्रयात्।
प्रतिभासभिदां
धत्ते, शेषा: कुमतिदुर्नया:।।416।।
ज्ञानशब्दप्रदीपानां
प्रत्यक्षस्येतरस्य वा।
जनकत्वेन पूर्वेषां
क्षणिकानां विनाशत:।।417।।
व्यक्ति: कुतोऽसतां
ज्ञानाद्; अन्यस्यानुपकारिण:।
व्यक्तौ व्यज्येत
सर्वोऽर्थस्तद्धेतोर्नियमो यदि।।418।।
नैषापि कल्पना
ज्ञाने ज्ञानं त्वर्थावभासत:।
तं व्यनक्तीति
कथ्येत तदभावेऽपि तत्कृतम्।।419।।
नाकारयति
चान्योऽर्थोऽनुपकारात् सहोदित:।
*व्यक्तोऽनाकारयन्
ज्ञानं स्वाकारेण कथं भवेत् ! ।।420।। (*नाकारयज्ज्ञानं—रा0)
{अक्षणिकव्यक्तेरसम्भवत्वम्}
वज्रोपलादिरप्यर्थ:
स्थिर: सोऽन्यानपेक्षणात्।
सकृत् सर्वस्य*
जनयेज्ज्ञानानि जगत: समम्।1421।। (*स्वयम्—पाठा0)
क्रमाद् भवन्ति
तान्यस्य सहकार्युपकार्यत:।
आहु: प्रतिक्षणं
भेदं स दोषोऽत्रापि पूर्ववत्।।422।।
संवेदनस्य
तादात्म्ये न विवादोऽस्ति कस्यचित्।
तस्यार्थरूपताऽसिद्धा
सापि सिध्यति संस्मृते:।।423।।
भेदेनाननुभूतेऽस्मिन्नविभक्ते
स्वगोचरै:।
एवमेतन्न खल्वेवमिति
सा स्यान्न भेदिनी।।424।।
न चानुभवमात्रेण
कश्चित् भेदौ विवेचक:।
विवेकिनी न
चास्पष्टभेदे धीर्यमलादिवत्।।425।।
द्वैरूप्यसाधनेमापि
प्राय: सिद्धं स्ववेदनम्।
स्वरूपभूताभासस्य
तदा संवेदनेक्षणात्।।426।।
धियाऽतद्रूपया
ज्ञाने निरुद्धेऽनुभव: *कथम्। (पा0टि0-*कुत:—पाठा0)
स्वं च रूपं न सा
*वेत्तीत्युत्सन्नोऽनुभवोऽखिल:।।427।। (पा0टि0-*0ऽर्थिन:—पाठा0)
बर्हिमुखं च
तज्ज्ञानं भात्यर्थप्रतिभासवत्।
बुद्धेश्च ग्राहिका
वित्तिर्नित्यमन्तर्मुखात्मनि।।428।।
यो यस्य
विषयाभासस्तं वेत्ति न तदित्यपि।
प्राप्ता का
संविदन्यास्ति ताद्रूप्यादिति चेन्मतम्।।429।।
प्राप्तं संवेदनं
सर्वसदृशानां परस्परम्।
बुद्धि: सरूपा
तद्विच्चेत् नेदानीं वित् सरूपिका।।430।।
स्वयं
सोऽनुभवस्तस्या न स सारूप्यकारण:।
क्रियाकर्मव्यवस्थायास्तल्लोके
स्यान्निबन्धनम्।।431।।
स्वभावभूततद्रूपसंविदारोपविप्लवात्।
नीलादेरनुभूताख्या
नानुभूते: परात्मन:।।432।।
धियो नीलादिरूपत्वे
बाह्योऽर्थ: किम्प्रमाणक:।
धियोऽनीलादिरूपत्वे
स तस्यानुभव: कथम्!।।433।।
यदा संवेदनात्मत्वं
न सारूप्यनिबन्धनम्।
सिद्धं तत् स्वत
एवास्य किमर्थेनोपनीयते!।।434।।
न च *सर्वात्मना
साम्यमज्ञानत्वप्रसङ्गत:।
न च केनचिदंशेन
सर्वं सर्वस्य वेदनम्।।435।।
(*पा0टि0-"सर्वात्मना
हि सारूप्ये ज्ञानमज्ञानतां व्रजेत। साम्ये केनचिदंशेन स्यात् सर्वे
सर्ववेदनम्।।" —पाठा0।)
यथा
नीलादिरूपत्वान्नीलाद्यनुभवो मत:।
तथानुभवरूपत्वात्
तस्याप्यनुभवो भवेत्।।436।।
नानुभूतोऽनुभव
इत्यर्थवद्धि विनिश्चय:।
तस्माददोष इति चेत्
नार्थेऽप्यस्त्येष सर्वदा।।437।।
कस्माद् वानुभवे
नास्ति सति सत्तानिबन्धने।
अपि चेदं यदाभाति
दृश्यमाने सितादिके।।438।।
पुंस:
सिताद्यभिव्यक्तिरूपंसंवेदनं स्फुटम्।
तत् किं
सिताद्यभिव्यक्ते: पररूपमथात्मन:।।439।।
पररूपेऽप्रकाशायां
व्यक्तौ व्यक्तं कथं सितम्।
ज्ञानं व्यक्तिर्न
सा व्यक्तेत्यव्यक्तमखिलं जगत्।।440।।
व्यक्तेर्व्यक्त्यन्तरव्यक्तावपि
दोषप्रसङ्गत:।
दृष्ट्या
वाज्ञातसम्बन्धं विशिनष्टि तया कथम्!।।441।।
यस्माद् द्वयोरेकगतौ
न द्वितीयस्य दर्शनम्।
द्वयो:
संसृष्टयोर्दृष्टौ स्याद् दृष्टमिति निश्चय:।।442।।
सरूपं दर्शनं यस्य
दृश्यतेऽन्येन चेतसा।
दृष्टाख्या* तत्र
चेत्; सिद्धं सारूप्येऽस्य स्ववेदनम्।।443।। (पा0टि0-*दृष्टाख्येति न—रा0)
अथात्मरूपं नो
वेत्ति पररूपस्य चित् कथम्।
सारूप्याद्
वेदनाख्या च प्रागेव प्रतिवर्णिता।।444।।
दृष्टयोरेव सारूप्यग्रहोऽर्थ
च न दृष्टवान्।
प्राक् कथं
दर्शनेनास्य सारूप्यं सोऽध्यवस्यति।।445।।
सारूप्यमपि नेच्छेद्
यस्तस्य नोभयदर्शनम्।
तदार्थो ज्ञानमिति च
ज्ञाते चेति गता कथा।।446।।
अथ स्वरूपम्, सा
तर्हि स्वयमेव प्रकाशते।
यत्
तस्यामप्रकाशायामर्थ: स्यादप्रकाशित:।।447।।
एतेनानात्मवित्पक्षे
सर्वार्थादर्शनेन ये।
अप्रत्यक्षा धियं
प्राहुस्तेऽपि निर्वर्णितोत्तरा:।।448।।
आश्रयालम्बनाभ्यासभेदाद्
भिन्नप्रवृत्तय:।
सुखदु:खाभिलाषादिभेदा
बुद्धय एव ता:।।449।।
प्रत्यक्षा:,
तद्विविक्तं च नान्यत् किञ्चिद्विभाव्यते।
यत्तज्ज्ञानं
परोऽप्येतान् भुञ्जीतान्येन विद् यदि।।450।।
तज्जा तत्प्रतिभासा
वा यदि धीर्वेत्ति नापरा
आलम्बमानस्यान्यस्याप्यस्त्यवश्यमिदं
द्वयम्।।451।।
अथ नोत्पद्यते
तस्मान्न च तत्प्रतिभासिनी।
सा धीर्निर्विषया
प्राप्ता; सामान्यं च तदग्रहे।।452।।
न गृह्यत इति
प्रोक्तम्; न च तद्वस्तु किञ्चन।
तस्मादर्थावभासोऽसौ
नान्यस्तस्या धियस्तत:।।453।।
सिद्धे प्रत्यक्षभावात्मविदौ;
गृह्णाति तान्* पुन:। (*पा0टि0-तत्—रा0)
नाध्यक्षमिति चेदेष
कुतो भेद: समार्थयो:।।454।।
अदृष्टैकार्थयोगादे:
संविदो नियमो यदि।
सर्वथान्यो न
गृह्णीयात् संविद्भेदोऽप्यपोदित:।।455।।
येषां च योगिनोऽन्यस्य
प्रत्यक्षेण सुखादिकम्।
विदन्ति
तुल्यानुभवास्तद्वत् तेऽपि स्युरातुरा:।।456।।
विषयेन्द्रियसम्पाताभावात्
तेषां तदुद्भवम्।
नोदेति दु:खमिति
चेत् ? न वै दु:खसमुद्भव:।।457।।
दुखस्य वेदनं किन्तु
*दु:खज्ञानसमुद्भव:।
न हि
दु:खाद्यसंवेद्यं पीडानुग्रहकारणम्।।458।। (*पा0टि0-दु:खासंवेदनं—पाठा0)
भासमानं स्वरूपेण
पीडा दु:खं स्वयं यदा।
न तदालम्बनं ज्ञानं
न तदैवं प्रयुज्यते*।।459।। (पा0टि0-*प्रसज्यते—पाठा0)
भिन्ने ज्ञानस्य
सर्वस्य तेनालम्बनवेदने।
अर्थसारूप्यमालम्ब
आत्मा वित्ति: स्वयं स्फुटा।।460।।
अपि चाध्यक्षताऽभावे
धिय: स्याल्लिङ्गतो गति:।
तच्चाक्षमर्थो धी:
पूर्वो मनस्कारोऽपि वा भवेत्।।461।।
कार्यकारणसामग्र्यामस्यां
सम्बन्धि नापरम्*।
सामर्थ्यादर्शनात्
तत्र नेन्द्रियं व्यभिचारत:।।462।।(*पा0टि0-नापराम्—रा0)
तथार्थो धीमनस्कारौ
ज्ञानं तौ च न सिध्यत:।
नाप्रसिद्धस्य
लिङ्गत्वं व्यक्तिरर्थस्य चेन्मता।।463।।
लिङ्गम्; सैव ननु
ज्ञानं व्यक्तोऽर्थोऽनेन वर्णित:।
व्यक्तावननुभूतायां
तद्व्यक्तत्वाविनिश्चयात्।।464।।
अथार्थस्यैव कश्चित्
स विशेषो व्यक्तिरिष्यते।
नानुत्पादव्ययवतो
विशेषोऽर्थस्य कश्चन।।465।।
तदिष्टौ वा प्रतिज्ञानं क्षणभङ्ग: प्रसज्यते।
स च जातोऽथ
वाऽज्ञातो भवेज्ज्ञातस्य लिङ्गता।।466।।
यदि
ज्ञानेऽपरिच्छिन्ने ज्ञातोऽसाविति तत् कुत:।
ज्ञातत्वेनापरिच्छिन्नमपि
तद् गमकं कथम्।।467।।
अदृष्टदृष्टयोऽन्येन
द्रष्ट्रा दृष्टा न हि क्वचित्।
विशेष:
सोऽन्यदृष्टावप्यस्तीति स्यात् स्वधीगति:।।468।।
तस्मादनुमितिर्बुद्धे:
स्वधर्मनिरपेक्षिण:।
केवलान्नार्थधर्मात्
क: स्वधर्म: स्वधियो पर:।।469।।
प्रत्यक्षाधिगतो
हेतु: तुल्यकारणजन्मन:।
तस्य भेद: कुतो
बुद्धेर्व्यभिचार्यन्यजश्च स:।।470।।
रूपादीन्
पञ्चविषयानिन्द्रियाण्युपलम्भनम्।
मुक्त्वा न कार्यमपरं
तस्या: समुपलभ्यते।।471।।
तत्रात्यक्षं द्वयं
पञ्चस्वर्थेष्वेकोऽपि नेक्ष्यते।
रूपदर्शनतो जातो
योऽन्यथा व्यस्तसम्भव:।।472।।
यदेवमप्रतीतं
तल्लिङ्गमित्यतिलौकिकम्।
विद्यमानेऽपि लिङ्गे
तां तेन सार्धमपश्यत:।।473।।
कथं प्रतीतिर्लिङ्गं
हि नादृष्टस्य प्रकाशकम्।
तत एवास्य लिङ्गात्
प्राक् प्रसिद्धेरुपवर्णने।।474।।
दृष्टान्तान्तरसाध्यत्वं
तस्यापीत्यनवस्थिति:।
इत्यर्थस्य धिय:
सिद्धि: नार्थात् तस्या: कथञ्चन।।475।।
तदप्रसिद्धावर्थस्य
स्वयमेवाप्रसिद्धित:।
प्रत्यक्षां च धियं
दृष्ट्वा तस्याश्चेष्टाभिधादिकम्।।476।।
परचित्तानुमानं च न
स्यादात्मन्यदर्शनात्।
सबन्धस्य,
मनोबुद्धावर्थलिङ्गाप्रसिद्धित:।।477।।
प्रकाशिता कथं वा
स्यात् बुद्धिर्बुद्ध्यन्तरेण व:।
अप्रकाशात्मनो:
साम्याद् व्यङ्ग्यव्यञ्जकता कुत:।।478।।
विषयस्य कथं
व्यक्ति: ? प्रकाशे रूपसंक्रमात्।
स च प्रकाशस्तद्रूप:
स्वयमेव प्रकाशते।।479।।
तथाम्युपगमे
बुद्धेर्बुद्धौ बुद्धि: स्ववेदिका।
सिद्धान्यथा
तुल्यधर्मा विषयोऽपि धिया सह।।480।।
इति प्रकाशरूपा न:
स्वयं धी: सम्प्रकाशते।
अन्योऽस्यां
रूपसंक्रान्त्या प्रकाश: सन् प्रकाशते।।481।।
सादृश्येऽपि हि
धीरन्या प्रकाश्या न तया मता।
स्वयं प्रकाशमानाऽर्थस्तद्रूपेण*
प्रकाशते।।482।। (पा0टि0-*प्रकाशनाद्—पाठा0)
यथा
प्रदीपयोर्दीपघटयोश्च तदाश्रय:।
व्यंग्यव्यञ्जकभेदेन
व्यवहार: प्रतन्यते।।483।।
विषयेन्द्रियमात्रेण
न दृष्टमिति निश्चय:।
तस्माद् यतोऽयं
तस्यापि वाच्यमन्यस्य दर्शनम्।।484।।
स्मृतेरप्यात्मवित्
सिद्धा ज्ञानस्या; ऽन्येन वेदने।
दीर्घादिग्रहणं न
स्याद् बहुमात्रानवस्थिते:।।485।।
अवस्थितावक्रमायां
सकृदाभासनान्मतौ।
वर्ण:
स्यादक्रमोऽदीर्घ:; क्रमवानक्रमां कथम्।।486।।
उपकुर्यादसंश्लिष्यन्
वर्णभाग: परस्परम्।
आन्त्यं पूर्वस्थितादूर्ध्व
वर्धमानो ध्वनिर्भवेत्।। 487।।
अक्रमेण ग्रहादन्ते
क्रमवद्धीश्च नो भवेत्।
धिय: स्वयं च न
स्थानं तदूर्ध्वविषयास्थिते:।।488।।
स्थाने स्वयं न
नश्येत् सा पश्चादप्यविशेषत:।
दोषोऽयं
सकृदुत्पन्नाक्रमवर्णस्थितावपि।।489।।
सकृद्यत्नोद्भवाद्
व्यर्थ: स्याद् यत्नश्चोत्तरोत्तर:।
व्यक्तावप्येष
वर्णानां दोष: समनुषज्यते।।490।।
अनेकया तद्ग्रहणे
यान्त्या धी: सानुभूयते।
न दीर्घग्राहिका सा
च तन्न स्याद् दीर्घधीस्मृति:।।491।।
पृथक् पृथक् च
बुद्धीनां संवित्तौ तद्ध्वनिश्रुते:*। (पा0टि-*तद्ध्वनि : श्रुतो: —रा0)
अविच्छिन्नाभता न
स्याद् घटनं च निराकृतम्।।492।।
विच्छिन्नं
श्रृण्वतोऽप्यस्य यद्यविच्छिन्नविभ्रम:।
ह्रस्वद्वयोच्चारणेऽपि स्यादविच्छिन्नविभ्रम:।।493।।
विच्छिन्ने दर्शने
चाक्षादविच्छिन्नाधिरोपणम्।
नाक्षात्,
सर्वाक्षबुद्धीनां वितथत्वप्रसङ्गत:।।494।।
सर्वान्त्योऽपि हि
वर्णात्मा निमेषतुलितस्थिति:।
स च
क्रमादनेकाणुसम्बन्धेन नितिष्ठति।।495।।
एकाण्वत्ययकालश्च
कालोऽल्पीयान् क्षणो मत:।
बुद्धिश्च क्षणिका
तस्मात् क्रमाद् वर्णान् प्रपद्यते।।496।।
इति वर्णेऽपि रूपादावविच्छिन्नावभासिनी।
विच्छिन्नाप्यन्यया
बुद्धि: सर्वा स्याद् वितथार्थिका।।497।।
घटनं यच्च भावानामन्यत्रेन्द्रियविभ्रमात्।
भेदालक्षणविभ्रान्तं
स्मरणं तद् विकल्पकम्।।498।।
तस्य
स्पष्टावभासित्वं जल्पसंसर्गिण: कुत:।
नाक्षग्राह्येऽस्ति
शब्दानां योजनेति विवेचितम्।।499।
विच्छिन्नं
पश्यतोऽप्यक्षैर्घटयेद् यदि कल्पना।
अर्थस्य तत्संवित्तेश्च
सततं भासमानयो:।।500।।
बाधकेऽसति सन्न्याये
विच्छिन्न इति तत् कुत:।
बुद्धीनां
शक्तिनियमादिति चेत् स कुतो मत:!।।501।।
युगपद्
बुद्ध्यदृष्टेश्चेत् ? तदेवेदं विचार्यते।
तासां समानजातीये
सामर्थ्यनियमो भवेत्।।502।।
तथा हि सम्यग्
लक्ष्यन्ते विकल्पा: क्रमभाविन:।
एतेन य: समक्षेऽर्थे
प्रत्यभिज्ञानकल्पनाम्।।503।।
स्पष्टावभासां
प्रत्यक्षां कल्पयेत् सोऽपि वारित:।
केशगोलकदीपादावपि
स्पष्टावभासनात्।।504।।
प्रतीतभेदेऽप्यध्यक्षा
धी: कथं तादृशी भवेत्।
तस्मान्न
प्रत्यभिज्ञानाद् वर्णाद्येकत्वनिश्चय:।।505।।
पूर्वानुभूतस्मरणात्
तद्धर्मारोपणाद् विना।
स एवायमिति ज्ञानं
नास्ति तच्चाक्षजे कुत:।।506।।
न
चार्थज्ञानसंवित्योर्युगपत् सम्भवो यत:।
लक्ष्येते*
प्रतिभासौ द्वौ नार्थार्थज्ञानयो: पृथक्।।507।। (पा0टि0-*लक्ष्यते—रा0)
न ह्यर्थाभासि च
ज्ञानमर्थो बाह्यश्च केवल:।
एकाकारमतिग्राह्ये
भेदाभावप्रसङ्गत:।।508।।
सूपलक्षेण भेदेन यौ
संवित्तौ न लक्षितौ।
अर्थार्थप्रत्ययौ
पश्चात् स्मर्येते तौ पृथक् कथम्।।509।।
क्रमेणानुभवोत्पादेऽप्यर्थार्थमनसोरयम्।
प्रतिभासस्य
नानात्वचोद्यदोषो दुरुद्धर:।।510।।
अर्थसंवेदनं तावत्
ततोऽर्थाभासवेदनम्।
न हि संवेदनं शुद्धं
भवेदर्थस्य वेदनम्।।511।।
तथा हि नीलाद्याकार
एक एकं च वेदनम्।
लक्ष्यते न तु
नीलाभे वेदने वेदनं परम्।।512।।
ज्ञानान्तरेणानुभवो
भवेत् तत्रापि हि* स्मृति:। (पा0टि0-*च—रा0)
दृष्टा; तद्वेदनं
केन तस्याप्यन्येन चेद् ? इमाम्।।513।।
मालां ज्ञानविदां
कोऽयं जनयत्यनुबन्धिनीम्।
पूर्वा धी: सैव
चेन्न स्यात् सञ्चारो विषयान्तरे।। 514 ।।
तां
ग्राह्यलक्षणप्राप्तामासन्नां जनिकां धियम्।
अगृहीत्वोत्तरं
ज्ञानं गृह्णीयादपरं कथम्।।515।।
आत्मनि ज्ञानजनने
स्वभावे नियतां च ताम्।
को नामान्या विबध्नीयाद्
बहिरंगेऽन्तरङ्गिकाम्।।516।।
बाह्य:
सन्निहितोऽप्यर्थस्तां विबध्नन् हि न प्रभु:।
धियं नानुभवेत्
कश्चिदन्यथार्थस्य सन्निधौ।।517।।
न
चासन्निहितार्थास्ति दशा काचिदतो धिय:।
उत्खातमूला
स्मृतिरप्युत्सन्नेत्युज्ज्वलं मतम्।।518।।
अतीतादिविकल्पानां
येषां नार्थस्य सन्निधि:।
सञ्चारकरणाभावाद्
उत्सीदेदर्थचिन्तनम्।।519।।
आत्मविज्ञानजनने
शक्तिसंक्षयत: शनै:।
विषयान्तरसञ्चारो
यदि ? सैवार्थधी: कुत: !।।520।।
शक्तिक्षये
पूर्वधियो न हि धी: प्राग्धिया विना।
अन्यार्थाशक्तिविगुणे
ज्ञाने ज्ञानोदयागते:।।521।।
सकृद्विजातीयजातावप्येकेन
पटीयसा।
चित्तेनाहितवैगुण्यादालयान्नान्यसम्भव:।।522।।
नापेक्षेतान्यथा
साम्यं मनोवृत्तेर्मनोऽन्तरम्।
मनोज्ञानक्रमोत्पत्तिरप्यपेक्षा
प्रसाधनी।।523।।
एकत्वान्मनसोऽन्यस्मिन्
सक्तस्यान्यागतेर्यदि।
ज्ञानान्तरस्यानुदयो
न कदाचित् सहोदयात्।।524।।
समवृत्तौ च तुल्यत्वात्
सर्वदान्यागतिर्भवेत्।
जन्म
वात्ममनोयोगमात्रजानां* सकृद् भवेत्।।525।। (पा0टि0-*चात्थमनो0—रा0)
एकैव चेत् क्रियैक:
स्यात् किं दीपोऽनेकदर्शन:।
क्रमेणापि न शक्तं
स्यात् पश्चादप्यविशेषत:।।526।।
अनेन
देहपुरुषावुक्तौ संस्कारतो यदि।
नियम: स कुत:
पश्चात् बुद्धेश्चेदस्तु सम्मतम्।।527।।
न ग्राह्यतान्या
जननाज्जननं ग्राह्यलक्षणम्।
अग्राह्यं न हि तेजोऽस्ति;
न च सौक्ष्म्याद्यनंशके।।528।।
ग्राह्यताशक्तिहानि:
स्यात् नान्यस्य जननात्मन:।
ग्राह्यताया न
खल्वन्यज्जननं ग्राह्यलक्षणे।।529।।
साक्षान्न ह्यन्यथा
बुद्धे रूपादिरुपकारक:।
ग्राह्यतालक्षणादन्यस्तद्भावनियमोऽस्य
क:।।530।।
बुद्धेरपि तदस्तीति
सापि सत्त्वे व्यवस्थिता।
ग्राह्योपादानसंवित्ती
चेतसो ग्राह्यलक्षणम्।।531।।
रूपादेश्चेतसश्चैवमविशुद्धधियं
प्रति।
ग्राह्यलक्षणचिन्तेयमचिन्त्या
योगिनां गति:।।532।।
तत्र
सूक्ष्मादिभावेन ग्राह्यमग्राह्यतां व्रजेत्।
रूपादि बुद्धे: किं
जातं पश्चाद् यत् प्राङ् न विद्यते।।533।।
सति स्वधीग्रहे
तस्माद् यैवानन्तरहेतुता*।
चेतसो ग्राह्यता सैव
ततो नार्थान्तरे गति:।।534।।(पा0टि0- *सैवानन्तर0-रा0)
नानेकशक्त्यभवेऽपि
भावो नानेककार्यकृत्।
प्रकृत्यैवेति गदितम्,
नानेकस्मान्न चेद् भवेत्।।535।।
{हेतुसामग्र्या:
सर्वसम्भवत्वम्}
न
किञ्चिदेकमेकस्मात्. सामग्र्या: सर्वसम्भव:।
एकं स्यादपि
सामग्र्योरित्युक्तं तदनेककृत्।।536।।
अर्थं पूर्वञ्च
विज्ञानं गृह्णीयाद् यदि धी: परा।
अभिलापद्वयं नित्यं
स्याद् दृष्टक्रममक्रमम्।।537।।
पूर्वापरार्थभासित्वाच्चिन्तादावेकचेतसि।
द्विर्द्विरेकं च
भासेत भासनादात्मतद्धियो:।।538।।
{आत्मानुभूतं
प्रत्यक्षम्}
विषयान्तरसञ्चारे
यद्यन्त्यं नानुभूयते।
परानुभूतवत्
सर्वाननुभूति: प्रसज्यते।।539।।
आत्मानुभूतं
प्रत्यक्षं नानुभूतं परै: यदि।
आत्मानुभूति: सा
सिद्धा कुतो येनैवमुच्यते।।540।।
व्यक्तिहेत्वप्रसिद्धि:
स्यात् न व्यक्तेर्व्यक्तमिच्छत:।
व्यक्त्यसिद्धावपि
व्यक्तं यदि व्यक्तमिदं जगत्।।541।।