तद्वत् प्रमाणं
भगवान्; अभूतविनिवृत्तये।
भूतोक्ति:; साधनापेक्षा ततो युक्ता प्रमाणता।। 9 ।।
नित्यं प्रमाणं
नैवास्ति प्रामाण्यात्; वस्तुसद्गते*:।।
ज्ञेयानित्यतया
तस्या अध्रौव्यात्; क्रमजन्मनाम्।।
10 ।।(पा0टि0-*वस्तुसङ्गते:-रा0।)
नित्यादुत्पत्तिविश्लेषादपेक्षाया
अयोगत:।
कथञ्चिन्नोपकार्यत्वात्;
{अनित्येऽप्यप्रामाण्यम्}
अनित्येऽप्यप्रमाणता।।11।।
स्थित्वा प्रवृत्ति:संस्थानविशेषार्थक्रियादिषु।
इष्टसिद्धि:;
असिद्धिर्वा दृष्टान्ते संशयोऽथवा।। 12
।।
सिद्धं
यादृगधिष्ठातृभावाभावानुवृत्तिमत्।
सन्निवेशादि;
तद्युक्तं तस्माद् यदनुमीयते।। 13।।
वस्तुभेदे
प्रसिद्धस्य शब्दसाम्यादभेदिन:।
न युक्तानुमिति:
पाण्डुद्रव्यादिव* हुताशने।। 14।।
(पा0टि0- *पाण्डुद्रव्यादिवद्-रा0।
एवमेव टीकायामपि।)
अन्यथा कुम्भकारेण
मृद्विकारस्य कस्यचित्।
घटादे: करणात्
सिध्येद् वल्मीकस्यापि तत्कृति:।। 15।।
साध्येनानुगमात् कार्ये
सामान्येनापि साधने।
सम्बन्धिभेदाद् भेदोक्तिदोष:
कार्यसमो मत:।। 16।।
जात्यन्तरे
प्रसिद्धस्य शब्दसामान्यदर्शनात्।
न युक्तं साधनं
गोत्वाद् वागादीनां विषाणिवत्।। 17।।
विवक्षापरतन्त्रत्वान्न*
शब्दा: सन्ति कुत्र वा।
तद्भावादर्थसिद्धौ
तु सर्वं सर्वस्य सिध्यति।। 18।।(पा0टि0-
*तदभावाद्; अर्थ0-रा0।)
एतेन
कापिलादीनामचैतन्यादि चिन्तितम्।
अनित्यादेश्च
चैतन्यं मरणात् त्वगपोहत:।। 19।।
वस्तुस्वरूपेऽसिद्धेऽयं
न्याय: सिद्धे विशेषणम्।
अबाधकमसिद्धावप्याकाशाश्रयवद्
ध्वने:।।20।।
असिद्धावपि शब्दस्य
सिद्धे वस्तुनि सिद्ध्यति।
औलूक्यस्य यथा
बौद्धेनोक्तं मूर्त्त्यादिसाधनम्।।21।।
तस्यैव व्यभिचारादौ
शब्देऽप्यव्यभिचारिणि।
दोषवत् साधनं
ज्ञेयं वस्तुनो वस्तुसिद्धित:।।22।।
यथा तत् कारणं
वस्तु तथैव तदकारणम्।
यदा तत् कारणं केन
मतं नेष्टमकारणम्।।23।।
शस्त्रौषधाभिसम्बन्धाच्चैत्रस्य
व्रणरोहणे।
असम्बद्धस्य किं
स्थाणो: कारणत्वं न कल्प्यते।।24।।
स्वभावभेदेन विना
व्यापारोऽपि न युज्यते।
नित्यस्याव्यतिरेकित्वात्
सामर्थ्यं च दुरन्वयम्।।25।।
येषु सत्सु भवत्येव
यत् तेभ्योऽन्यस्य कल्पने।
तद्धेतुत्वेन
सर्वत्र हेतूनामनवस्थिति:।।26।।
स्वभावपरिणामेन
हेतुरंकुरजन्मनि।
भूम्यादिस्तस्य
संस्कारे तद्विशेषस्य दर्शनात्।।27।।
यथा विशेषेण विना
विषयेन्द्रियसंहति:।
बुद्धेर्हेतुस्तथेदं
चेन्न तत्रापि विशेषत:।।28।।
पृथक् पृथगशक्तानां
स्वभावातिशयेऽसति।
संहतावप्यसामर्थ्यं
स्यात् सिद्धोऽतिशयस्तत:।।29।।
तस्मात्
पृथगशक्तेषु येषु सम्भाव्यते गुण:।
संहतौ हेतुता तेषां
नेश्वरादेरभेदत:।।30।।
{1- ज्ञानवत्त्वाद्
भगवान् प्रमाणम्}
प्रामाण्यञ्च
परोक्षार्थज्ञानं तत्साधनस्य च।
अभावान्
नास्त्यनुष्ठानमिति केचित् प्रचक्षते।।31।।
ज्ञानवान् मृग्यते
कश्चिद् तदुक्तप्रतिपत्तये।
अज्ञोपदेशकरणे
विप्रलम्भनशङ्किभि:।।32।।
तस्मादनुष्ठेयगतं
ज्ञानमस्य विचार्यताम्।
कीटसंख्यापरिज्ञानं
तस्य न: क्वोपयुज्यते !।।33।।
{2- हेयोपादेयवेदकत्वादेव
भगवान् प्रमाणम्}
हेयोपादेयतत्त्वस्य
साभ्युपायस्य वेदक:।
य: प्रमाणमसाविष्टो
न तु सर्वस्य वेदक:।।34।।
दूरं पश्यतु वा मा
वा तत्त्वमिष्टं तु पश्यतु।
प्रमाणं दूरदर्शी
चेदेत गृध्रानुपास्महे !।।35।।
{3- कारुणिकत्वादपि
भगवान् प्रमाणम्}
{चार्वाकमतनिरसनपूर्वकं
परलोकसाधनम्}
साधनं करुणाभ्यासात्
सा; बुद्धेर्देहसंश्रयात्।
असिद्धोऽभ्यास इति चेन्नाश्रयप्रतिषेधत:।।36।।
प्राणापानेन्द्रियधियां
देहादेव न केवलात्।
सजातिनिरपेक्षाणां
जन्म जन्मपरिग्रहे।।37।।
अतिप्रसङ्गात्;
यद् दृष्टं प्रतिसन्धानशक्तमित्।
किमासीत् तस्य यन्नास्ति
पश्चाद् येन न सन्धिमत्।।38।।
न स कश्चित्
पृथिव्यादेरंशो यत्र न जन्तव:।
संस्वेदजाद्या
जायन्ते सर्वं बीजात्मकं तत:।।39।।
तत्
सजात्यनपेक्षाणामक्षादीनां* समुद्भवे।
परिणामो यथैकस्य
स्यात् सर्वस्याविशेषत:।।40।। (पा0टि0-* स्वजात्य0—रा0)
प्रत्येकमुपघातेऽपि नेन्द्रियाणां मनोमते:।
उपघातोऽस्ति;
भङ्गेऽस्यास्तेषां भङ्गश्च दृश्यते।।41।।
तस्मात्
स्थित्याश्रयो बुद्धेर्बुद्धिमेव समाश्रित:।
कश्चिन्निमित्तमक्षाणां
तस्मादक्षाणि बुद्धित:।।42।।
यादृश्याक्षेपिका साऽसीत्
पश्चादप्यस्तु तादृशी।
तज्ज्ञानैरुपकार्यत्वादुक्तं
कायाश्रितं मन:।।43।।
यद्यप्यक्षैर्विना
बुद्धिर्न तान्यपि तया विना।
तथाप्यन्योऽऽन्यहेतुत्वं
ततोऽप्यन्योऽन्यहेतुके।।44।।
नाक्रमात् क्रमिणो
भावो नाप्यपेक्षाऽविशेषिण:।
क्रमाद् भवन्ती धी:
कायात् क्रमन्तस्यापि* शंसति।।45।। (पा0टि0-*क्रमं तस्यापि0-रा0।)
प्रतिक्षणमपूर्वस्य
पूर्व: पूर्व: क्षणो भवेत्।
तस्य हेतुरतो
हेतुर्दृष्ट एवास्तु सर्वदा।।46।।
चित्तान्तरस्य
सन्धाने को विरोधोऽन्त्यचेतस:।
तद्वदप्यर्हतश्चित्तमसन्धानं
कुतो मतम्।।47।।
असिद्धार्थ:
प्रमाणेन किं सिद्धान्तोऽनुगम्यते।
हेतोर्वैकल्यतस्तच्चेत्
किं तदेवाऽत्र नोदितम्।।48।।
तद्धीवद् ग्रहणप्राप्तेर्मनोज्ञानं
न सेन्द्रियात्।
ज्ञानोत्पादनसामर्थ्यभेदान्न
सकलादपि।।49।।
अचेतनत्वान्नन्यस्माद्;
हेत्वभेदात् सहस्थिति:।
अक्षवद् रूपरसवद्
अर्थद्वारेण विक्रिया।।50।।
सत्तोपकारिणी यस्य
नित्यं तदनुबन्धत:।
स हेतु: सप्तमी तस्मादुत्पादादिति
चोच्यते।।51।।
अस्तूपकारको वापि
कदाचिच्चित्तसन्तते:।
वह्नयादिवद्
घटादीनां विनिवृत्तिर्न तावता।।52।।
अनिवृत्तिप्रसङ्गश्च
देहे तिष्ठति चेतस:।
तद्भावभावाद्
वश्यत्वात् प्राणापानौ ततो न तत्।।53।।
प्रेरणाकर्षणे वायो:
प्रयत्नेन विना कुत:।
निर्ह्रासातिशयापत्तिर्निर्ह्रासातिशयात्
तयो:।।54।।
तुल्य: प्रसङ्गोऽपि
तयो:; न तुल्यं चित्तकारणे।
स्थित्यावेधकमन्यच्च
यत: कारणमिष्यते।।55।।
न दोषैर्विगुणो देहो
हेतुर्वर्त्यादिवद् यदि।
मृते शमीकृते दोषे
पुनरुज्जीवनं भवेत्।।56।।
निवृत्तेऽप्यनले
काष्ठविकाराविनिवृत्तिवत्।
तस्यानिवृत्तिरिति
चेन्न चिकित्साप्रयोगत:।।57।।
अपुनर्भावत: किञ्चिद्
विकारजननं क्वचित्।
किञ्चिद् विपर्ययादग्निर्यथा
काष्ठसुवर्णयो:।।58।।
आद्यस्याल्पोऽप्यसंहार्य:
प्रत्यानेयस्तु यत्कृत:।
विकार: स्यात्
पुनर्भाव: तस्य हेम्नि खरत्ववत्।।59।।
दुर्लभत्वात्
समाधातुरसाध्यं किञ्चिदीरितम्।
आयु:क्षयाद् वा;
दोषे तु केवले नास्त्यसाध्यता।।60।।
मृते विषादिसंहारात्
तद्दंशच्छेदतोऽपि वा।
विकारहेतोर्विगमे स
नोच्छ्वसिति किं पुन:।।61।।
उपादानाविकारेण
नोपादेयस्य विक्रिया।
कर्तुं शक्याऽविकारेण
मृद: कुण्डादिनो यथा।।62।।
अविकृत्य हि यद्
वस्तु य: पदार्थो विकार्यते।
उपादानं न तत् तस्य
युक्तं गोगवयादिवत्।।63।।
चेत:शरीरयोरेवम्,
तद्धेतो: कार्यजन्मन:।
सहकारात्
सहस्थानमग्निताम्रद्रवत्ववत्।।64।।
अनाश्रयात्
सदसतोर्नाश्रय: स्थितिकारणम्।
सतश्चेदाश्रयो
नास्या: स्थातुरव्यतिरेकत:।।65।।
व्यतिरेकेऽपि
तद्धेतुस्तेन भावस्य किं कृतम्।
अविनाशप्रसङ्ग: स
नाशहेतोर्मतो यदि।।66।।
तुल्य: प्रसङ्गस्तत्रापि;
किं पुन: स्थितिहेतुना।
आ नाशकागमात्
स्थानं ततश्चेद् वस्तुधर्मता।।67।।
नाशस्य; सत्यबाधोऽसाविति किं स्थितिहेतुना।
यथा जलादेराधार इति
चेत् तुल्यमत्र च।।68।।
प्रतिक्षणविनाशे हि
भावानां भावसन्तते:।
तथोत्पत्ते:
सहेतुत्वादाश्रयोऽयुक्तमन्यथा।।69।।
स्यादाधारो जलादीनां
गमनप्रतिबन्धत:।
अगतीनां
किमाधारैर्गुणसामान्यकर्मणाम्।।70।।
एतेन समवायश्च
समवायि च कारणम्।
व्यवस्थितत्वं
जात्यादेर्निरस्तमनपाश्रयात्।।71।।
परतो भावनाशश्चेत्
तस्य किं स्थितिहेतुना।
स विनश्येद् विनाऽप्यन्यैरशक्ता:
स्थितिहेतव:।।72।।
स्थितिमान् नाश्रय:
सर्व: सर्वोत्पत्तौ च साश्रय:।
तस्मात् सर्वस्य
भावस्य न विनाश: कदाचन।।73।।
स्वयं विनश्वरात्मा
चेत् तस्य क: स्थापक: पर।
स्वयं न नश्वरात्मा
चेत् तस्य क: स्थापक: पर:।।74।।
बुद्धिव्यापारभेदेन
निर्ह्रासातिशयावपि।
प्रज्ञादेर्भवतो
देहनिर्ह्रासातिशयौ विना।।75।।
इदं
दीपप्रभादीनामाश्रितानां न विद्यते।
स्यात् ततोऽपि
विशेषोऽस्य न चित्तेऽनुपकारिणि।।76।।
रागादिवृद्धि: पुष्ट्यादे:
कदाचित् सुखदु:खजा।
तयोश्च
धातुसाम्यादेरन्तरर्थस्य सन्निधे:।।77।।
एतेन सन्निपातादे:
स्मृतिभ्रंशादयो गता:।
विकारयति धीरेव ह्यन्तरर्थविशेषजा।।78।।
शार्दूलशोणितादीनां
सन्तानातिशये क्वचित्।
मोहादय: सम्भवन्ति
श्रवणेक्षणतो यथा।।79।।
तस्मात् स्वस्यैव
संस्कारं नियमेनानुवर्तते।
तन्नान्तरीयकं चित्तमतश्चित्तसमाश्रितम्।।80।।
यथा
श्रुतादिसंस्कार: कृतश्चेतसि चेतसि।
कालेन व्यज्यतेऽभेदात्
स्याद् देहेऽपि ततो गुण:।।81।।
अनन्यसत्त्वनेयस्य
हीनस्थानपरिग्रह:।
आत्मस्नेहवतो
दु:खसुखत्यागाप्तिवाञ्छया।।82।।
दु:खे विपर्यासमति:
तृष्णा चाऽऽबन्धकारणम्।
जन्मिनो यस्य ते न
स्तो न स जन्माधिगच्छति।।83।।
गत्यागती न दृष्टे
चेदिन्द्रियाणामपाटवात्।
अदृष्टिर्मन्दनेत्रस्य
तनुधूमागतिर्यथा।84।।
तनुत्वान्मूर्तमपि
तु किञ्चित् क्वचिदशक्तिमत्।
जलवत् सूतवद्धेम्नि
नादृष्टेनासदेव वा।।85।।
पाण्यादिकम्पे
सर्वस्य कम्पप्राप्तेर्विरोधिन:।
एकस्मिन् कर्मणोऽयोगात्
स्यात् पृथक् सिद्धिरन्यथा।।86।।
एकस्य चावृतौ
सर्वस्यावृति स्यादनावृतौ।
दृश्येत रक्ते
चैकस्मिन् रागोऽरक्तस्य वाऽगति:।।87।।
नास्त्येकसमुदायोऽस्मादनेकत्वेऽपि
पूर्ववत्।
अविशेषादणुत्वाच्च न
गतिश्चेन्न सिध्यति।।88।।
अविशेष:; विशिष्टानामैन्द्रियत्वमतोऽनणु:।
एतेनावरणादीनामभावश्च
निराकृत:।।89।।
कथं वा
सूतहेमादिमिश्रं तप्तोपलादि वा।
दृश्यम् ? पृथगशक्तानामक्षादीनां गति: कथम्।।90।।
संयोगाच्चेत्;
समानोऽत्र प्रसङ्गो हेमसूतयो:।
दृश्य: संयोग इति
चेत् कुतोऽदृश्याश्रये गति:!।।91।।
रसरूपादियोगश्च
संयोग उपचारत:।
इष्टश्चेद्
बुद्धिभेदोऽस्तु पंक्तिदीर्घेति वा कथम्!।।92।।
संख्यासंयोगकर्मादेरपि
तद्वत् स्वरूपत:।
अभिलापाच्च भेदेन
रूपं बुद्धौ न भासते।।93।।
शब्दज्ञाने विकल्पेन
वस्तुभेदानुसारिणा।
गुणादिष्विव कल्प्यार्थे
नष्टाजातेषु वा यथा।।94।।
मतो यद्युपचारोऽत्र
स इष्टो यन्निबन्धन:।
स एव सर्वभावेषु
हेतु: किं नेष्यते तयो:।।95।।
उपचारो न सर्वत्र
यदि भिन्नविशेषणम्।
मुख्यमित्येव च कुतोऽभिन्ने
भिन्नार्थतेति चेत् !।।96।।
अनर्थान्तरहेतुत्वेऽप्यपर्याय:
सितादिषु।
संख्यादियोगिन:
शब्दास्तत्राप्यर्थान्तरं यदि।।97।।
गुणद्रव्याविशेष:
स्याद् भिन्नो व्यावृत्तिभेदत:।
स्यादनर्थान्तरार्थत्वेऽप्यकर्माद्रव्यशब्दवत्।।98।।
व्यतिरेकीव यच्चापि
सूच्यते भाववाचिभि:।
संख्यादितद्वत:
शब्दैस्तद्धर्मान्तरभेदकम्।।99।।
श्रुतिस्तन्मात्रजिज्ञासोरनाक्षिप्ताखिलापरा।
भिन्नं
धर्ममिवाचष्टे योगोऽङ्गुल्या इति क्वचित्।। 100।।
युक्ताङ्गुलीति
सर्वेषामाक्षेपाद् धर्मिवाचिनी।
ख्यातैकार्थाभिधानेऽपि
तथा विहितसंस्थिति:।। 101।।
रूपादिशक्तिभेदानामनाक्षेपेण
वर्त्तते।
तत्समानफलाऽहेतुव्यवच्छेदे
घटश्रुति:।। 102।।
अतो न रूपं घट
इत्येकाधिकरणा श्रुति:।
भेदोऽयमीदृशो
जातिसमुदायाभिधायिनो:।। 103।।
रूपादयो घटस्येति
तत्सामान्योपसर्जना:।
तच्छक्तिभेदा:
ख्याप्यन्ते वाच्योऽन्योऽपि दिशानया।। 104।।
हेतुत्वे च
समस्तानामेकाङ्गविकलेऽपि न।
प्रत्येकमपि
सामर्थ्ये युगपद् बहुसम्भव:।। 105।।
नानेकत्वस्य
तुल्यत्वात् प्राणापानौ नियामकौ।
एकत्वेऽपि बहुव्यक्तिस्तद्धेतोर्नित्यसन्निधे:।।
106।।
नानेकहेतुरिति
चेन्नाविशेषात् क्रमादपि।
नैकप्राणेऽप्यनेकार्थग्रहणान्नियमस्तत:।। 107।।
एकयाऽनेकविज्ञाने बुद्ध्याऽस्तु
सकृदेव तत्।
अविरोधात्; क्रमेणापि मा भूत् तदविशेषत:।। 108।।
बहव: क्षणिका:
प्राणा अस्वजातीयकालिका:।
तादृशामेव चित्तानां
कल्प्यते यदि कारणम्।। 109।।
क्रमवन्त: कथं ते
स्यु: क्रमवद्धेतुना विना।
पूर्वस्वजातिहेतुत्वे
न स्यादाद्यस्य सम्भव:।। 110।।
तद्धेतुस्तादृशो
नास्ति सति वाऽनेकता ध्रुवम्।
प्राणानां
भिन्नदेशत्वात् सकृज्जन्म धियामत:।। 111।।
यद्येककालिकोऽनेकोऽप्येकचैतन्यकारणम्।
एकस्यापि न वैकल्ये
स्यान्मन्दश्वसितादिषु।। 112।।
अथ हेतुर्यथाभावं
ज्ञानेऽपि स्याद् विशिष्टता।
न हि तत् तस्य
कार्यं यद् यस्य* भेदान्न भिद्यते।। 113 ।। (पा0टि0 *-तस्य-रा0)
विज्ञानं शक्तिनियमादेकमेकस्य
कारणम्।
अन्यार्थासक्तिविगुणे
ज्ञाने नार्थान्तराग्रहात्।। 114।।
शरीरात्
सकृदुत्पन्ना धी: स्वजात्या नियम्यते।
परतश्चेत् समर्थस्य
देहस्य विरति: कुत:।। 115।।
अनाश्रयान्निवृत्ते
स्याच्छरीरे चेतस: स्थिति:।
केवलस्येति चेच्चित्तसन्तानस्थितिकारणम्।।
116।।
तद्धेतुवृत्तिलाभाय
नाङ्गतां यदि गच्छति।
हेतुर्देहान्तरोत्पत्तौ
पञ्चायतनमैहिकम्।। 117।।
तदङ्गभावहेतुत्वनिषेधेऽनुपलम्भनम्।
अनिश्चयकरं प्रोक्तं
इन्द्रियाद्यपि शेषवत्।। 118।।
दृष्टा च शक्ति:
पूर्वेषामिन्द्रियाणां स्वजातिषु।
विकारदर्शनात्
सिद्धमपरापरजन्म च।। 119।।
शरीराद् यदि तज्जन्म
प्रसङ्ग: पूर्ववद् भवेत्।
चित्ताच्चेत् तत
एवास्तु जन्म देहान्तरस्य च।। 120।।
तस्मान्न
हेतुवैकल्यात् सर्वेषामन्त्यचेतसाम्।
असन्धिरीदृशं तेन
शेषवत् साधनं मतम्।। 121।।
अभ्यासेन विशेषेऽपि
लङ्घनोदकतापवत्।
स्वभावातिक्रमो मा
भूदिति चेद्; आहित: स चेत्।। 122।।
पुनर्यत्नमपेक्षेत
यदि स्याच्चास्थिराश्रय:।
विशेषो नैव वर्धेत
स्वभावश्च न तादृश:।। 123।।
तत्रोपयुक्तशक्तीनां
विशेषानुत्तरान् प्रति।
साधनानामसामर्थ्यान्नित्यं
चानाश्रयस्थिते:।। 124।।
विशेषस्यास्वभावत्वाद्
वृद्धावप्याहितो* यदा।
नापेक्षेत
पुनर्यत्नं यत्नोऽन्य: स्याद् विशेषकृत्।। 125।। (पा0टि0-
*वप्याहिता-रा0)
काष्ठपारदहेमादेरग्न्यादेरिव
चेतस:।
अभ्यासजा: प्रवर्त्तन्ते
स्वरसेन कृपादय:।। 126।।
तस्मात् स
तेषामुत्पन्न: स्वभावो जायते गुण:।
तदुत्तरोत्तरो यत्नो
विशेषस्य विधायक:।।127।।
यस्माच्च
तुल्यजातीयपूर्वबीजप्रवृद्धय:।
कृपादिबुद्धयस्तासां
सत्यभ्यासे कुत: स्थिति: ! ।।128।।
न चैवं लङ्घनादेव लङ्घनं
बलयत्नयो:।
तद्धेत्वो:
स्थितशक्तित्वाल्लङ्घनस्य स्थितात्मता।।129।।
तस्यादौ
देहवैगुण्यात् पश्चाद्वदविलङ्घनम्।
शनैर्यत्नेन
वैगुण्ये निरस्ते स्वबले स्थिति:।।130।।
कृपा स्वबीजप्रभवा
स्वबीजप्रभवैर्न चेत्।
विपक्षैर्बाध्यते चित्ते
प्रयात्यत्यन्तसात्मताम्।।131।।
तथा हि मूलमभ्यास:
पूर्व: पूर्व: परस्य तु।
कृपावैराग्यबोधादेश्चित्तधर्मस्य
पाटवे।।132।।
कृपात्मकत्वमभ्यासाद्
घृणावैराग्यरागवत्।
निष्पन्न:*
करुणोत्कर्ष: परदु:खाक्षमेरित:*।।133।।
(पा0टि0- *निष्पन्नकरुणोत्कर्षपरदु:खक्षमेरित:-रा0।)
{4- शास्तृत्वाच्च
भगवान् प्रमाणम्}
दयावान्
दु:खहानार्थमुपायेष्वभियुज्यते।
परोक्षोपेयद्धेतोस्तदाख्यानं
हि दुष्करम्।।134।।
युक्त्यागमाभ्यां
विमृशन् दु:खहेतुं परीक्षते।
तस्यानित्यादिरूपं च
दु:खस्यैव विशेषणै:।।135।।
यतस्तथा स्थिते हेतौ
निवृत्तिर्नेति पश्यति।
फलस्य
हेतोर्हानार्थं तद्विपक्षं परीक्षते।।136।।
साध्यते तद्विपक्षोऽपि
हेतो रूपावबोधत:।
आत्मात्मीयग्रहकृत:
स्नेह: संस्कारगोचर:।।137।।
हेतुर्विरोधि
नैरात्म्यदर्शनं तस्य बाधकम्।
बहुशो बहुधोपायं
कालेन बहुनास्य च।।138।।
गच्छन्त्यभ्यस्यतस्तत्र
गुणदोषा: प्रकाशताम्।
बुद्धेश्च
पाटवाद्धेतोर्वासनात: प्रहीयते।।139।।
{प्रत्येकबुद्धादिभ्यो
बुद्धस्य वैशिष्ट्यम्}
परार्थवृत्ते: खङ्गादेर्विशेषोऽयं
महामुने:।
उपायाभ्यास एवायं
तादर्थ्याच्छासनं मतम्।।140।।
निष्पत्ते: प्रथमं
भावाद्धेतुरुक्तमिदं द्वयम्।
{5- सुगतत्वाद्
भगवान् प्रमाणम्}
हेतो: प्रहाणं
त्रिगुणं सुगतत्वमनि:श्रयात्।।141।।
दु:खस्य शस्तं
नैरात्म्यदृटेश्च* युक्तितोऽपि* वा।
पुनरावृत्तिरित्युक्तौ
जन्मदोषसमुद्भवौ।।142।। (पा0टि0-*दृष्टेस्तद्यक्ति0-पाठा0)
आत्मदर्शनबीजस्य
हानादपुनरागम:।
तद्भूतभिन्नात्मतया
शेषमक्लेशनिर्ज्वरम्।।143।।
कायवाग्बुद्धिवैगुण्यं
मार्गोक्त्यपटुतापि वा।
अशेषहानमभ्यासाद्;
{सर्वज्ञबाधने
जैमिनीयमतम्}
उक्त्यादेर्दोषसंक्षय:।।144।।
नेत्येके;
व्यतिरेकोऽस्य
सन्दिग्धो व्यभिचार्यत:।
अक्षयित्वं च
दोषाणां नित्यत्वादनुपायत:।।145।।
उपायस्यापरिज्ञानादपि*
वा परिकल्पयेत्।
हेतुमत्त्वाद्
विरुद्धस्य हेतोरभ्यासत: क्षयात्।।146।।(पा0टि0-* परिज्ञानादिति-पाठा0)
हेतुस्वभावज्ञानेन
तज्ज्ञानमपि साध्यते।
{6- तायित्वाद्
भगवान् प्रमाणम्}
ताय: स्वदृष्टमार्गोक्ति:,
वैफल्याद् वक्ति नानृतम्।।147।।
दयालुत्वात् परार्थञ्च
सर्वारम्भाभियोगत:।
तस्मात्* प्रमाणम्; तायो वा चतु:सत्यप्रकाशनम्।।148।।(पा0टि0-* तत:-पाठा0)
दु:खं संसारिण:
स्कन्धा:; रागादे: पाटवेक्षणात्।
अभ्यासान्न
यदृच्छातोऽहेतोर्जन्मविरोधत:।।149।।
व्यभिचारान्न
वातादिधर्म: प्रकृतिसङ्करात्।
अदोषश्च तदन्योऽपि
धर्म: किं तस्य नेक्ष्यते।।150।।
न सर्वधर्म:
सर्वेषां समरागप्रसङ्गत:।
रूपादिवददोषश्चेत्
तुल्यं तत्रापि चोदनम्।।151।।
आधिपत्यं
विशिष्टानां यदि तत्र न कर्मणाम्।
विशेषेऽपि च
दोषाणामविशेषाद्; असिद्धता।।152।।
न विकाराद् विकारेण
सर्वेषाम्, न च सर्वजा:।
कारणे वर्धमाने च
कार्यहानिर्न युज्यते।।153।।
तापादिष्विव;
रागादेर्विकारोऽपि सुखादिज:।
वैषम्यजेन दु:खेन
रागस्यानुद्भवो यदि।।154।।
वाच्यं केनोद्भव:
साम्यान्मदवृद्धि: स्मरस्तत:।
रागी विषमदोषोऽपि
दृष्ट: साम्येऽपि नापर:।।155।।
क्षयादसृक्स्रुतोऽप्यन्ये;
नैकस्त्रीनियतो मद:।
तेनैकस्यां न तीव्र:
स्याद्, अङ्गं रूपाद्यपीति चेत्।।156।।
न
सर्वेषामनेकान्तान्न चाप्यनियतो भवेत्।
अगुणग्राहिणोऽपि
स्यात्; अङ्गं सोऽपि
गुणग्रह:।।157।।
यदि सर्वो गुणग्राही
स्याद्, हेतोरविशेषत:।
यदवस्थो मतो रागी न
द्वेषी स्याच्च तादृश:।।158।।
तयोरसमरूपत्वान्नियमश्चात्र
नेक्ष्यते।
सजातिवासनाभेदप्रतिबद्धप्रवृत्तय:।।159।।
यस्य रागादयस्तस्य
नैते दोषा: प्रसङ्गिन:।
एतेन भूतधर्मत्वं
निषिद्धम्; नि:श्रयस्य च।।160।।
निषेधान्न
पृथिव्यादिनि:श्रिता धवलादय:।
तदुपादाय शब्दश्च
हेत्वर्थ: स्वाश्रयेण च।।161।।
अविनिर्भागवर्तित्वाद्
रूपादेराश्रयोऽपि वा।
मदादिशक्तेरिव चेद्
विनिर्भाग:; न वस्तुन:।।162।।
शक्तिरर्थान्तरं
वस्तु नश्येन्नाश्रितमाश्रये।
तिष्ठत्यविकले याति,
तत्तुल्यं चेन्न भेदत:।।163।।
भूतचेतनयो:; भिन्नप्रतिभासावबोधत:।
आविकारञ्च कायस्य
तुल्यरूपं भवेन्मन:।।164।।
रूपादिवत्; विकल्पस्य कैवार्थपरतन्त्रता।
अनपेक्ष्य यदा कायं
वासनाबोधकारणम्।।165।।
ज्ञानं स्यात्
कस्यचित् किञ्चित् कुतश्चित् तेन किञ्चन।
अविज्ञानस्य
विज्ञानानुपादानाच्च सिध्यति।।166।।
विज्ञानशक्तिसम्बन्धादिष्टं
चेत् सर्ववस्तुन:।
एतत् सांख्यपशो: कोऽन्य:
सलज्जो वक्तुमीहते।।167।।
अदृष्टपूर्वमस्तीति
तृणाग्रे करिणां शतम्।
यद् रूपं दृश्यतां
यातं तद् रूपं प्राङ् न दृश्यते।।168।।
शतधा विप्रकीर्णेऽपि
हेतौ तद् विद्यते कथम्।
रागाद्यनियमोऽपूर्वप्रादुर्भावे
प्रसज्यते।।169।।
भूतात्मताऽनतिक्रान्त:
सर्वो रागादिमान् यदि।
सर्व: समानराग:
स्याद् भूतातिशयतो न चेत्।।170।।
भूतानां प्राणिताऽभेदेऽप्ययं
भेदो यदाश्रय:।
तन्निर्ह्रासातिशयवत्
तद्भावात् तानि हापयेत्।।171।।
न चेद् भेदेऽपि
रागादिहेतुतुल्यात्मताक्षय:।
सर्वत्र राग: सदृश:
स्याद्धेतोस्सदृशात्मन:।।172।।
न हि
गोप्रत्ययस्यास्ति समानात्मभुव: क्वचित्।
तारतम्यं पृथिव्यादौ
प्राणितादेरिहापि वा।।173।।
औष्ण्यस्य तारतम्येऽपि
नानुष्णोऽग्नि: कदाचन।
तथेहापीति
चेन्नाग्नेरौष्ण्याद् भेदनिषेधत:।।174।।
तारतम्यानुभविनो
यस्यान्यस्य सतो गुणा:।
ते क्वचित्
प्रतिहन्यन्ते तद्भेदे धवलादिवत्।।175।।
रूपादिवन्न
नियमस्तेषां भूताविभागत:।
तत् तुल्यं चेन्न
रागादे: सहोत्पत्तिप्रसङ्गत:।।176।।
विकल्प्यविषयत्वाच्च
विषया न नियामका:।
सभागहेतुविरहाद्
रागादेर्नियमो न वा।।177।।
सर्वदा
सर्वबुद्धीनां जन्म वा हेतुसन्निधे:।
{दु:खसत्यस्य
चतुराकारत्वम्}
कदाचिदुपलम्भात्
तदध्रुवं दोषनि:श्रयात्।।178।।
दु:खं हेतुवशत्वाच्च
न चात्मा नाप्यधिष्ठितम्।
नाकारणमधिष्ठाता
नित्यं वा कारणं* कथम्।।179।। (पा0टि0-*जनकं-पाठा0)
तस्मादनेकमेकस्माद्
भिन्नकालं न जायते।
कार्यानुत्पादतोऽन्येषु
सङ्गतेष्वपि हेतुषु।।180।।
हेत्वन्तरानुमानं
स्यान्नैतन् नित्येषु विद्यते।
{2- चतुराकारं
समुदयसत्यम्}
कादाचित्कतया सिद्धा
दु:खस्यास्य सहेतुता।।181।।
नित्यं सत्त्वमसत्त्वं
वा हेतोर्बाह्यनपेक्षणात्*।(पा0टि0-*हेतोरन्यानपे0-पाठा0)
‘तैक्ष्ण्यादीनां
यथा नास्ति कारणं कण्टकादिषु।।182।।
तथाऽकारणमेतत्
स्याद्’ इति केचित् प्रचक्षते।
सत्येव यस्मिन्
यज्जन्म विकारे वापि विक्रिया।।183।।
तत् तस्य कारणं
प्राहुस्तत् तेषामपि विद्यते।
स्पर्शस्य
रूपहेतुत्वाद् दर्शनेऽस्ति निमित्तता।184।।
नित्यानां
प्रतिषेधेन नेश्वरादेश्च सम्भव:।
असामर्थ्यादतो
हेतुर्भववाञ्छा; परिग्रह:।।185।।
यस्माद् देशविशेषस्य
तत्प्राप्त्याशाकृतो नृणाम्।
सा
भवेच्छाप्त्यनाप्तीच्छो: प्रवृत्ति: सुखदु:खयो:।।186।।
यतोऽपि प्राणिन:
कामविभवेच्छे च ते मते।
सर्वत्र
चात्मस्नेहस्य हेतुत्वात् सम्प्रवर्तते।।187।।
असुखे सुखसंज्ञस्य;
तस्मात् तृष्णा भवाश्रय:।
विरक्तजन्मादृष्टेरित्याचार्या:
सम्प्रचक्षते।।188।।
अदेहरागादृष्टेश्च
देहाद् रागसमुद्भव:।
निमित्तोपगमादिष्टमुपादानं
तु वार्यते।।189।।
इमां तु युक्तिमन्विच्छन्
बाधते स्वमतं स्वयम्।
जन्मना सहभावश्चेत्
जातानां रागदर्शनात्।।190।।
सभागजाते: प्राक्
सिद्धि:; कारणत्वेऽपि नोदितम्।
अज्ञानम्, उक्ता तृष्णैव सन्तानप्रेरणाद् भवे।।191।
आनन्तर्याच्च
कर्मापि सति तस्मिन्नसम्भवात्।
तदनात्यन्तिकं हेतो:
प्रतिबन्धादिसम्भवात्।।192।।
संसारित्वादनिर्मोक्षो
नेष्टत्वादप्रसिद्धित:।
यावच्चात्मनि* न
प्रेम्णो हानि: स परितस्यति।।193।।(पा0टि0-*यावदात्मवि-पाठा0)
तावद् दु:खितमारोप्य
न च स्वस्थोऽवतिष्ठते।
मिथ्याध्यारोपहानार्थं
यत्नोऽसत्यपि मोक्तरि।।194।।
अवस्था वीतरागाणं
दयया कर्मणाऽपि वा।
आक्षिप्तेऽविनिवृत्तीष्टे:;
सहकारिक्षयादलम्।।195।।
नाक्षेप्तुमपरं कर्म
भवतृष्णाविलङ्घिनाम्।
दु:खज्ञानेऽविरुद्धस्य
पूर्वसंस्कारवाहिनी।।196।।
वस्तुधर्मों दयोत्पत्तिर्न
सा सत्त्वानुरोधिनी।
आत्मान्तरसमारोपाद्
रागो धर्मेऽतदात्मके।।197।।
दु:खसन्तानसंस्पर्शमात्रेणैवं
दयोदय:।
मोहश्च मूलं दोषाणां
स च सत्त्वग्रह:; विना।।198।।
तेनाद्यहेतौ न
द्वेषो, न दोषोऽत: कृपा मता।
नामुक्ति:
पूर्वसंस्कारक्षयेऽन्याप्रतिसन्धित:।।199।।
अक्षीणशक्ति:
संस्कारो येषां तिष्ठन्ति तेऽनघा:।
मन्दत्वात्
करुणायाश्च न यत्न: स्थापने महान्।।200।।
तिष्ठन्त्येव
पराधीना येषां तु महती कृपा।
सत्कायदृष्टेर्विगमादाद्य
एवाभवो भवेत्।।201।।
मार्गे चेत्
सहजाहानेर्न हानौ वा भव: कुत:।
सुखी भवेयं दु:खी वा
मा भूवमिति तृष्यत:।।202।।
यैवाऽहमिति धी: सैव
सहजं सत्त्वदर्शनम्।
न ह्यपश्यन्नहमिति
कश्चिदात्मनि स्निह्यति।।203।।
न चात्मनि विना
प्रेम्णा सुखकामोऽभिधावति।
दु:खस्योत्पादहेतुत्वं
बन्ध:, नित्यस्य तत् कुत:!।।204।।
अदु:खोत्पादहेतुत्वं
मोक्ष:, नित्यस्य तत् कुत:।
अनित्यत्वेन योऽवाच्य:
स हेतुर्न हि कस्यचित्।।205।।
बन्धमोक्षावप्यवाच्ये
न युज्येते कथञ्चन।
नित्यं
तमाहुर्विद्वांसो य: स्वभावो न नश्यति।।206।।
त्यक्त्वेमां
ह्रेपणीं दृष्टिमतोऽनित्य: स उच्यताम्।
उक्तो मार्ग:,
तदभ्यासादाश्रय: परिवर्त्तते।।207।।
सात्म्येऽपि
दोषभावश्चेन्मार्गवत्, नाविभुत्वत:।
विषयग्रहणं धर्मो
विज्ञानस्य यथास्ति स:।।208।।
गृह्यते सोऽस्य जनको
विद्यमानात्मनेति च।
एषा प्रकृतिरस्यास्तन्निमित्तान्तरत:
स्खलत्।।209।।
व्यावृत्तौ
प्रत्ययापेक्षमदृढं सर्पबुद्धिवत्।
प्रभास्वरमिदं चित्तं
प्रकृत्यागन्तवो मला:।।210।।
तत्प्रागप्यसमर्थानां
पश्चाच्छक्ति: क्व तन्मये।
नालं
प्ररोढुमत्यन्तं स्यन्दिन्यामग्निवद् भुवि।।211।।
बाधकोत्पत्तिसामर्थ्यगर्भे
शक्तोऽपि वस्तुनि।
निरुपद्रवभूतार्थस्वभावस्य
विपर्ययै:।।212।।
न बाधा यत्नवत्त्वेऽपि
बुद्धेस्तत्पक्षपातत:।
आत्मग्रहैकयोनित्वात्,
कार्यकारणभावत:।।213।।
रागप्रतिघयोर्बाधा
भेदेऽपि न परस्परम्।
मोहाविरोधान्मैत्र्यादेर्नात्यन्तं
दोषनिग्रह:।।214।।
तन्मूलाश्च मला: सर्वे;
स च सत्कायदर्शनम्।
विद्याया:
प्रतिपक्षत्वाच्चैत्तत्वेनोपलब्धित।।215।।
मिथ्योपलब्धिरज्ञानं
युक्तेश्चान्यदयुक्तिमत्।
व्याख्येयोऽत्र
विरोधो य:; तद्विरोधाच्च
तन्मयै:।।216।।
विरोध:
शून्यतादृष्टे: सर्वदोषै: प्रसिध्यति।
नाक्षय:
प्राणिधर्मत्वाद् रूपादिवदसिद्धित:।।217।।
सम्बन्धे
प्रतिपक्षस्य त्यागस्यादर्शनादपि*।
न काठिन्यवदुत्पत्ति:
पुनर्दोषविरोधिन:।।218।। (पा0टि0- *त्यागसंसर्जनादपि-पाठा0)
सात्मत्वेनानपायत्वात्
अनेकान्ताञ्च भस्मवत्।
य: पश्यत्यात्मानं
तत्रास्याहमिति शाश्वत: स्नेह:।।219।।
स्नेहात् सुखेषु तृष्यति,
तृष्णा दोषांस्तिरस्कुरुते*।
गुणदर्शी परितृष्यन्
ममेति तत्साधनान्युपादत्ते।।220।।(पा0टि0-*दोषास्थिरीकुरुते-पाठा0)
तेनात्माभिनिवेशो
यावत् तावत् स संसारे।
आत्मनि सति परसंज्ञा,
स्वपरविभागात् परिग्रहद्वेषौ।।221।।
अनयो:
सम्प्रतिबद्धा: सर्वे दोषा: प्रजायन्ते।
नियमेनात्मनि स्निह्यंस्तदीये
न विरज्यते।।222।।
न चास्त्यात्मनि
निर्दोषे स्नेहापगमकारणम्।
स्नेह: सदोष इति
चेत् तत: किं तस्य वर्जनम्।।223।।
अदूषितेऽस्य विषये न
शक्यं तस्य वर्जनम्।
प्रहाणिरिच्छाद्वेषादेर्गुणदोषानुबन्धिन:।।224।।
तयोरदृष्टिर्विषये;
न तु बाह्येषु य: क्रम:।
न हि स्नेहगुणात्
स्नेह: किन्त्वर्थगुणदर्शनात्।।225।।
कारणेऽविकले तस्मिन्
कार्यं केन निवार्यते।
का वा सदोषता दृष्टा
स्नेहे दु:खसमाश्रय:।।226।।
तथापि न विरागोऽत्र
स्वत्वदृष्टेर्यथात्मनि।
न तैर्विना
दु:खहेतुरात्मा चेत् तेऽपि तादृशा:।।227।।
निर्दोषं
द्वयमप्येवं वैराग्यान्न द्वयोस्तत:।
दु:खभावनया
स्याच्चेदहिदष्टाङ्गहानिवत्।।228।।
आत्मीयबुद्धिहान्याऽत्र
त्यागो न तु विपर्यये।
उपभोगाश्रयत्वेन
गृहीतेष्विन्द्रियादिषु।।229।।
स्वत्वधी: केन
वार्येत वैराग्यं तत्र तत् कुत:।
प्रत्यक्षमेव सर्वस्य
केशादिषु कलेवरात्।।230।।
च्युतेषु सघृणा
बुद्धिर्जायतेऽन्येषु सस्पृहा।
समवायादिसम्बन्धजनिता
तत्र हि स्वधी:।।231।
स तथैवेति सा
दोषदृष्टावपि न हीयते।
समवायाद्यभावेऽपि
सर्वत्रास्त्युपकारिता।।232।।
दु:खोपकारान्न
भवेदंगुल्यामिव चेत् स्वधी:।
न ह्येकान्तेन तद्
दु:खं भूयसा सविषान्नवत्।।233।।
विशिष्टसुखसङ्गात्
स्यात् तद्विरुद्धे विरागिता।
किञ्चित् परित्यजेत्
सौख्यं विशिष्टसुखतृष्णया।।234।।
नैरात्म्ये तु
यथालाभमात्मस्नेहात् प्रवर्तते।
अलाभे मत्तकासिन्या
दृष्टा तिर्यक्षु कामिता।।235।।
यस्यात्मा
वल्लभस्तस्य स नाशं कथमिच्छति !
निवृत्तसर्वानुभवव्यवहारगुणाश्रयम्।।236।।
इच्छेत् प्रेम कथम्;
प्रेम्ण: प्रकृतिर्न हि तादृशी।
सर्वथात्मग्रह:
स्नेहमात्मनि द्रढयत्यलम्।।237।।
आत्मीयस्नेहबीजं तु
तदवस्थं व्यवस्थितम्।
यत्नेऽप्यात्मीयवैराग्यं
गुणलेशसमाश्रयात्।।238।।
वृत्तिमान् प्रतिबध्नाति,
तद्दोषान् संवृणोति च।
आत्मन्यपि
विरागश्चेदिदानीं यो विरज्यते।।239।।
त्यजत्यसौ यथात्मानं
व्यर्थाऽतो दु:खभावना।
दु:खभावनयाऽप्येष
दु:खमेव विभावयेत्।।240।।
प्रत्यक्षं पूर्वमपि
तत् तथापि न विरागवान्।
यद्यप्येकत्र दोषेण
तत्क्षणं चलिता मति:।।241।।
विरक्तो नैव तत्रापि
कामीव वनितान्तरे।
त्याज्योपादेयभेदे
हि सक्तिर्यैवैकभाविनी।।242।।
सा बीजं सर्वसक्तीनां
पर्यायेण समुद्भवे।
निर्दोषविषय: स्नेहो
निर्दोष: साधनानि च।।243।।
एतावदेव च जगत्
क्वेदानीं स विरज्यते।
सदोषताऽपि चेत्
तस्य, तत्रात्मन्यपि सा समा।।244।।
तत्राविरक्तस्तद्दोषे
क्वेदानीं स विरज्यते।
गुणदर्शनसम्भूतं
स्नेहं बाधितदोषदृक्।।245।।
स चेन्द्रियादौ न
त्वेवं बालादेरपि सम्भवात्।
दोषवत्यपि सद्भावात्
स्वभावाद् गुणवत्यपि।।246।।
अन्यत्रात्मीयतायां
वा व्यतीतादौ विहानित:।
तत एव च
नात्मीयबुद्धेरपि गुणेक्षणम्।।247।।
कारणम्; हीयते सापि तस्मान्नागुणदर्शनात्।
अपि चासद्गुणारोप:
स्नेहात् तत्र हि दृश्यते।।248।।
तस्मात्
तत्कारणाबाधी विविधस्तं बाधते कथम्।
परापरप्रार्थनातो
विनाशोत्पादबुद्धित:।।249।।
इन्द्रियादौ
पृथग्भूतमात्मानं वेत्त्ययं जन:।
तस्मान्नैकत्वदृष्ट्यापि
स्नेह: स्निह्यन् स आत्मनि।।250।।
उपलम्भान्तरङ्गेषु प्रकृत्यैवानुरज्यते।
प्रत्युत्पन्नात्
तु यो दु:खान्निर्वेदो द्वेष ईदृश:।।251।।
न वैराग्यम्;
तदाप्यस्य स्नेहोऽवस्थान्तरेषणात्।
द्वेषस्य
दु:खयोनित्वात् स तावन्मात्रसंस्थिति:।।252।।
तस्मिन् निवृत्ते
प्रकृतिं स्वामेव भजते पुन:।
औदासीन्यं तु
सर्वत्र त्यागोपादानहानित:।।253।।
वासीचन्दनकल्पानां
वैराग्यं नाम कथ्यते।
संस्कारदु:खतां
मत्वा कथिता दु:खभावना।254।।
सा च न: प्रत्ययोत्पत्ति:
सा नैरात्म्यदृगाश्रय:।
मुक्तिस्तु
शून्यतादृष्टेस्तदर्था: शेषभावना:।।255।।
अनित्यात् प्राह
तेनैव दु:खं दु:खान्निरात्मताम्।
अविरक्तश्च
तृष्णावान् सर्वारम्भसमाश्रित:।।256।।
सोऽमुक्त:
क्लेशकर्मभ्यां संसारी नाम तादृश:।
आत्मीयमेव यो नेच्छेद्
भोक्ताप्यस्य न विद्यते।।257।।
आत्मापि न तदा तस्य क्रियाभोगौ
हि लक्षणम्।
तस्मादनादिसन्तानतुल्यजातीयबीजिकाम्।।258।।
उत्खातमूलां कुरुत सत्त्वदृष्टिं
मुमुक्षव:।
आगमस्य
तथाभावनिबन्धनमपश्यताम्।।259।।
मुक्तिमागममात्रेण
वदन्न परितोषकृद्।
{मोक्षे दीक्षाविधिरकिञ्चित्कर:}
नालं बीजादिसंसिद्धो
विधि: पुंसामजन्मने।।260।।
तैलाभ्यङ्गाग्निदाहादेरपि
मुक्तिप्रसङ्गत:।
प्राग्
गुरोर्लाघवात् पश्चान्न पापहरणं कृतम्।।261।।
मा भूद् गौरवमेवास्य
न पापं गुर्वमूर्त्तित:।
मिथ्याज्ञानतदुद्भूततर्षसञ्चेतनावशात्।।262।।
हीनस्थानगतिर्जन्म
ततस्तच्छिन्न जायते।
तयोरेव हि सामर्थ्यं
जातौ तन्मात्रभावत:।।263।।
ते चेतने स्वयं
कर्मेत्यखण्डं जन्मकारणम्।
'गतिप्रतीत्यो:
करणान्याश्रयास्तान्यदृष्टत:।।264।।
अदृष्टनाशादगति:
तत्संस्कारो न चेतना' ?
सामर्थ्यं करणोत्पत्तेर्भावाभावानुवृत्तित:।।265।।
दृष्टं बुद्धेर्न
चान्यस्य सन्ति तानि नयन्ति किम्।
धारणप्रेरणक्षोभनिरोधाश्चेतनावशा:।।266।।
न स्युस्तेषामसामर्थ्ये
तस्य दीक्षाद्यनन्तरम्।
अथ बुद्धेस्तदाभावान्न
स्यु: सन्धीयते मलै:।।267।।
बुद्धेस्तेषामसामर्थ्ये
जीवतोऽपि स्युरक्षमा:।
निर्ह्रासातिशयात्
पुष्टौ प्रतिपक्षस्वपक्षयो:।।268।।
दोषा: स्वबीजसन्ताना
दीक्षितेऽप्यनिवारिता:।
नित्यस्य निरपेक्षत्वात्
क्रमोत्पत्तिर्विरुध्यते।।269।।
क्रियायामक्रियायाञ्च
क्रिययो: सदृशात्मन:।
ऐक्यञ्च
हेतुफलयोर्व्यतिरेकस्ततस्तयो:।।270।।
कर्तृभोक्तृत्वहानि:
स्यात् सामर्थ्यं च न सिध्यति।
अन्यस्मरणभोगादिप्रसङ्गाश्च
न बाधका:।।271।।
अस्मृते:; कस्यचित् तेन ह्यनुभूते: स्मृतोद्भव:।
स्थिरं सुखं ममाहं
चेत्यादिसत्यचतुष्टये।।272।।
अभूतान् षोडशाकारान्
आरोप्य परितृष्यति।
{नैरात्म्यदृष्टिस्तृष्णाक्षये
हेतु:}
तत्रैव
तद्विरुद्धार्थतत्त्वाकारानुरोधिनी।।273।।
हन्ति सानुचरां
तृष्णां सम्यग्दृष्टि: सुभाविता।
त्रिहेतोर्नोद्भव: कर्मदेहयो:
स्थितयोरपि।।274।।
एकाभावाद् विना बीजं
नांकुरस्येव सम्भव:।
असम्भवाद् विपक्षस्य
न हानि: कर्मदेहयो:।।275।।
अशक्यत्वाच्च
तृष्णायां स्थितायां पुनरुद्भवात्।
द्वयक्षयार्थं यत्ने
च व्यर्थ: कर्मक्षये श्रम:।।276।।
फलवैचित्र्यदृष्टेश्च
शक्तिभेदोऽनुमीयते।
कर्मणां
तापसंक्लेशात् नैकरूपात् तत: क्षय:।।277।।
फलं कथञ्चित्
तज्जन्यमल्पं स्यान्न विजातिमत्।
अथापि तपस: शक्त्या
शक्तिसङ्करसंक्षयै:।।278।।
क्लेशात्
कुतश्चिद्धीयेताशेषमक्लेशलेशत:।
यदीष्टमपरं क्लेशात्
तत् तप: क्लेश एव चेत्।।279।।
तत्
कर्मफलमित्यस्मान्न शक्ते: सङ्करादिकम्।
उत्पित्सुदोषनिर्घाताद्
येऽपि दोषविरोधिन:।।280।।
तज्जे कर्मणि शक्ता:
स्यु: कृतिहानि: कथं भवेत्।
दोषा न कर्मणो दुष्ट:
करोति न विपर्ययात्।।281।।
मिथ्याविकल्पेन विना
नाभिलाष: सुखादपि।
तायात् तत्त्वस्थिराशेषज्ञानसाधनम्।।282।।
बोधार्थत्वाद् गमे:;
बाह्यशैक्षाशैक्षाधिकस्तत:।
परार्थज्ञानघटनं
तस्मात् तच्छासनं तत:।।283।।
दयापरार्थतन्त्रत्वम्;
सिद्धार्थस्याविरामत:।
दयया श्रेय आचष्टे;
ज्ञानात् सत्यं ससाधनम्।।284।।
तच्चाभियोगवान् वक्तुं
यतस्तस्मात् प्रमाणता।
{7- संवादकत्वाद्
भगवान् प्रमाणम्}
उपदेशतथाभावस्तुतिस्तदुपदेशत:।।285।।
प्रमाणतत्त्वसिद्ध्यर्थम्;
अनुमानेऽप्यवारणात्।
प्रयोगदर्शनाद् वाऽस्य;
‘यत् किञ्चिदुदयात्मकम्।।286।।
निरोधधर्मकं सर्वं
तद्’ इत्यादावनेकधा।
अनुमानाश्रयो लिङ्गमविनाभावलक्षणम्।।
व्याप्तिप्रदर्शनाद्धेतो:
साध्येनोक्तञ्च तत् स्फुटम्।।287।
|
|