PĀLI-MOGGALLĀNA-VYĀKARAA

पालि-मोग्गल्लान-व्याकरण

 

Chief Director

Prof. Radha Vallabh Tripathi

Vice Chancellor

  

Director

Prof. Sarva  Narayan Jha

Acting Principal ,

Rashtriya Sanskrit Sansthan, Lucknow Campus,

  

National Coordinator

Dr. Sukla Mukherjee

Project Officer

(R.SK.S, New Delhi)

  

Principal Investigator

Prof. Vijay Kumar Jain

Co-Investigator

Dr. Gurucharan Singh Negi

 

Department Of Bauddha Darshan

Rashtriya Sanskrit Sansthan

(Deemed University)

Lucknow Campus, Lucknow

 

सम्पादको

डॉ.गुरुचरणसिंहनेगी

 


कृतज्ञताज्ञापनम्

 

विदितमेवैतद् विदुषां यत् सम्पूर्ण-भारतीय-संस्कृते: सम्यग्ज्ञानाय पालि-प्राकृत-संस्कृतभाषाणां ज्ञानमावश्यकमिति। भाषाज्ञानस्य च कृते व्याकरण-ज्ञानमावश्यकं भवत्येव। भारतीय-श्रमणसंस्कृतेरग्रगण्यै: महाश्रमणैस्तथागतै: बुद्धै: स्वकीय: लोककल्याणकारिसन्देश: तत्कालीन-जनभाषया प्रकटित इति प्रसिद्धम्। तथागतस्य महापरिनिर्वाणानन्तरं तस्य वचनानां सङ्ग्रहो पालि-संस्कृतादिभाषासु बभूव। स च सङ्ग्रह: 'त्रिपिटकम्' इति नाम्ना विश्रुतम्। इदानीं पालिभाषायां निबद्धं स्थविरवादीनां त्रिपिटकं सम्पूर्णरूपेणोपलभ्यते। पालिभाषेयं पुरा मागधीत्यभिधानेन ज्ञायते स्म। यद्यपि पालि मागधी वा भाषेयमेका प्राचीना भाषा, तथापि अस्या: भाषाया उपलब्धा व्याकरणग्रन्था अपेक्षाकृता अर्वाचीना एव। पालि-भाषाया: बोधिसत्त-सब्बगुणाकर-कच्चायन-मोग्गल्‍लान-सद्दनीतीति पञ्च व्याकरण-परम्परा: आसन् पुरेति श्रूयते, परन्त्विदानीं तासु पञ्चसु परम्परासु प्रथमयो: द्वयो: परम्परयो: व्याकरणग्रन्थौ नैवोपलभ्येते। उपलब्धासु पालि-व्याकरण-परम्परासु षट्काण्डेषु विभक्तं सप्तदशाधिकमष्टशतं च (817) सूत्रात्मकं मोग्गल्लान-व्याकरणमिदं विशिष्टं स्थानमादधाति। पालि-भाषाया: विद्वांस: व्याकरणमिदं पूर्णतायां गभीरतायां च श्रेष्ठमिति स्वीकुर्वन्ति। व्याकरणस्यास्य रचनाकार: सिंहलाधीशस्य पराक्रमबाहो प्रथमस्य (1123-1186 ई०) समकालीन: ख्रीष्टीयद्वादशशताब्द्यां समुत्पन्नो मोग्गल्लान-महाथेरोऽस्तीत्यैतिहासिकानां मतम्। ग्रन्थस्यास्य वास्तविकं नाम 'मागधं सद्दलक्खनं' इत्यासीत्। संक्षेपेणेदं व्याकरणं 'सद्दलक्खनं' इत्यभिधानेनापि ज्ञायते स्म। साम्प्रतं व्याकरणमिदं रचनाकारस्य नाम्नैवाभिधीयते।

अस्य मोग्गल्लान-व्याकरणस्येदानीं पर्यन्तं देवनागर्यां लिप्यां भदन्त-आनन्द-कौसल्यायन-महापादै: सम्पादितं होशियारपुरस्थेन च विश्‍वेश्‍वरानन्द-वैदिक-शोध-संस्थानेन ख्रीष्टाब्दे 1965 तमे प्रकाशितमेकमेव संस्करणमुपलभ्यते। तदेव संस्करणं मयापि आदर्शत्वेन स्वीकृत्य संशोध्य सम्पादितम्। एतदर्थमहं भदन्त-आनन्द-कौसल्यायनेभ्य: प्रकाशकेभ्यश्च हार्दिकमाभारं प्रकटयामि।

राष्ट्रिय-संस्कृत-संस्थानस्य (मानितविश्वविद्यालयस्य) परमादरणीयानां कुलपतीनां संस्कृतजगति लब्धख्यातीनाम् आचार्य-राधावल्लभत्रिपाठि-महाभागानां दूरदृष्टे: परिणामोऽयं यदुपर्युक्तस्य संस्थानस्य परिसरेषु विश्‍वजालपुटस्य कृते संस्कृत-ग्रन्थानां सम्पादनकार्यं टङ्कणकार्यं च द्रुतगत्या प्रचलति। हर्षस्य विषयोऽयं यद् योजनायामस्यां बौद्धग्रन्थानामपि समावेशोऽस्‍ति। प्रथमे चरणेऽस्मिन्नाचार्ययो: धर्मकीर्ति-दिङ्नागयो: रचनानां सम्पादनकार्यं प्रचलति। अद्यावधि प्रमाणवार्तिकग्रन्थस्य कार्यं सम्पन्नं जातमस्ति।

परमादरणीयानां कुलपतिमहोदयानां सहृदयतावशाद् दूरदर्शितावशाच्च संस्थानस्य योजनायामिदानीं पालि-प्राकृत -भाषाया: समावेशोऽपि संजात:। तस्मिन्नेव क्रमे संस्थानस्यास्य तत्त्वावधाने पालि-प्राकृत-विषयमवलम्‍ब्य राष्ट्रियान्ताराष्ट्रियसंगोष्ठ्योऽपि सम्पन्ना: जाता:।

अस्य ज्ञानयज्ञस्‍यानुज्ञाया: कृते सर्वप्रथममहमस्माकं राष्ट्रिय-संस्कृत-संस्थानस्य (मानितविश्वविद्यालयस्य) परमादरणीयान् कुलपतिमहोदयान् प्रति आत्मन: हार्दिकीं कृतज्ञतां प्रकटयामि। योजनाया अस्या राष्ट्रियप्रभारिणीभि: डॉ० शुक्ला मुखर्जी-महोदयाभि: संस्थानस्य चास्य लखनऊ-परिसरस्य माननीयप्राचार्यवर्यै: आचार्यसर्वनारायणझा-महाभागै: कार्येऽस्मिन् यदमूल्यं कार्यालयीय-साहाय्यमनुष्ठितम्, तदर्थम् एतान् प्रति स्वकीयां हार्दिकीं कृतज्ञतां विज्ञापयामि। एवमेव परिसरस्यास्यैव बौद्धदर्शन-विभागाध्यक्षाणाम् आदरणीयानाम् आचार्य-विजयकुमारजैनमहोदयानां नितरां कृतज्ञोऽस्मि येषामत्यन्तं स्नेहपूर्णप्रेरणया सूक्ष्मतमनिर्देशेन च मदीयमिदं सम्पादन-कार्यं सम्पन्नम्। विभागीयान् एवोपाचार्यान् आदरणीयान् अवधेशकुमारचौबेमहोदयान् प्रत्यप्यहमात्मन: हार्दिकीं कृतज्ञतां प्रकटयामि। यै: काले-काले स्वकीयेन सत्परामर्शेन मदीयेऽस्मिन् सम्पादनकार्ये साहाय्यं कृतम्। टंककाय श्रीविकासजैनायापि हार्दिकान् धन्यवादान् ज्ञापयामीत्यलं पल्लवितेन।

 

भवतु सब्ब मङ्गलं

 

बुद्धपूर्णिमा                                                                              सम्पादक:

27 मई 2010                                                                गुरुचरणसिंहनेगी