पाणिनीयं धातुपाठमाश्रित्य नैकाः वृत्तयः विरचिताः। तासु अनेकाः वृत्तयः लुप्ताः नैकाः प्रकाशिताश्च। काश्चन अप्रकाशिताश्चापि सन्ति। लुप्तानां नाममात्रेणैवोल्लेखः उपलभ्यते। यथा सुनाग-भीमसेन-प्रभृतीनाम् आचार्याणां वृत्तयः काशिका-माधवीय-धातुवृत्ति-क्षीरतरङ्गिणी-क्रियारत्नसमुच्चयामरटीकासर्वस्वप्रभृतिषु ग्रन्थेषु उल्लिखिताः, परञ्च अद्यत्वे नैवोपलभ्यन्ते। सम्प्रति प्रकाशितासु धातुवृत्तिषु क्षीरतरङ्गिणी-धातुप्रदीप-दैव-पुरुषकार-माधवीया-धातुवृत्ति-प्रभृतयः मुख्याः। एताः वृत्तीः अतिरिच्य पाणिनीयधातु-पाठस्योपरि अतीव महत्त्वपूर्णा हरियोगिना विरचिता चैका वृत्तिः शाब्दिकाभरणनाम्नी प्राप्यते। एषा धातुवृत्तिः प्रकाशितेभ्यः दैव-पुरुषकार-माधवीयाधतुवृत्ति-प्रभृतिग्रन्थेभ्यः प्राचीना। |
प्रधानसम्पादकः General Editor | सम्पादकः Editor |
प्रो. राधावल्लभ त्रिपाठी Prof. Radhavallabh Tripathi |
देवानन्द शुक्ल Devanand Shukl |