मम मनोभावं सहदेवोऽवगच्छति। मनोभावपरिवर्तनार्थं स स्थानपरिवर्तनं परामृशति, लोमशमुनिना सह च वयं तीर्थानि पर्यटाम:। नैमिषारण्ये कतिपयदिनानि यापयित्वा प्रयागगयागङ्गासागरमार्गेण समुद्रस्य तीरे तीरे समस्तानि तीर्थानि दर्शं दर्शं पश्चिमायां दिशि स्थिते प्रभासतीर्थे वयं समागता:। प्रभासतीर्थे कृष्ण:, बलराम:, यादवाश्चास्मान् मिलितुमागता:। तत्रावस्थानकाले सख्युरातिथ्येन सख्येन च हृदयं दु:खकालिममुक्तमभवत्। सख्या सहोन्मुक्तालापेनार्जुने विश्वास उत्पन्न:। नूतनाशया नूतनोत्साहेन च वयमग्रेऽसराम।
विपाशानदीमतिक्रम्य हिमालयान्तर्गतसुबाहुराज्ये वयं प्रविष्टा:। अहं तदानीमत्यन्तं क्लान्ता दुर्बला च। दु:खेन दुश्चिन्तया, क्रमशोऽर्धाहारेण, विनिद्रतया च, वनवासकष्टेन, शारीरिकपरिश्रमेण च मम स्वास्थ्यमपि क्षीणतरं सञ्जातम्। पदमेकमपि चलितुं मे शक्तिर्नास्ति। गन्धमादनदिशि दुर्गममरण्यम्।
तत्रैव गन्तुमग्रेसरा: पाण्डवा:। अहं न तु प्रतिवदामि। अस्माभि: सह लोमशमुनिरप्यस्ति। कथमहं तत्र कथयेयम्—''अहं गन्तुं न प्रभवामीति।’’ लोमशमुनेस्तीर्थभ्रमणेच्छासन्देशोऽर्जुनेन प्रेषित:। अत: स भारो युधिष्ठिरेणाङ्गीकृत:। अहमपि स्वजीवनमूल्येन स्वकर्तव्यं सम्पादयिष्यामि।
अतिकष्टेन कियद्दूरातिक्रमणात् परं प्रबला वात्याऽऽरेभे। प्राणरक्षणार्थं क: कुत्र समाश्रित इति ज्ञातुमुपायो नास्ति। किन्तु भीमसेनो मदन्तिकेऽस्ति। ममैकं बाहुं धृत्वा स वृक्षमूलमाश्रित:। परन्तु दुर्योग: सज्ञातिकुटुम्ब: समाविशति। वृक्षोऽप्याश्रयदानायाप्रस्तुत:। मडमडायित: स वृक्षो भग्नो भूतलेऽपतत्। भीमसेनस्तु तस्मात् सुरक्षित:, परन्त्वहमाघातप्राप्ता हृतचेतनाऽभूवम्। कियान् समयो व्यतीत इति न जाने। चेतनाऽऽगताऽपश्यम् यत् निर्मलमाकाशम्। शान्ता च वात्या।
मम पतयो मे मस्तकदेशे उपविष्टा:, पाददेशे उपविष्ट: कश्चिद् दीर्घकायो रूपवान् किशोर:। मत्पदसेवायां दत्तप्राण: स:। तद्दर्शनेन मे पुत्रा: स्मृतिपथमापतिता:। अचिन्तयम्—कस्या भाग्यवत्या रमण्या अयं सुधीरो तेजोदीप्त: सुत:? कश्चास्य शौर्यवान् जनक:? कस्य निर्देशेनासौ मे पदसेवां कुरुते?
हृदयं मे वात्सल्येन परिपूर्णमभूत्। कोमलकण्ठेनावोचम्—''कस्त्वं पुत्र!? कस्यादेशेनास्या अपरिचिताया: पदसेवां कुरुषे? त्वं य: कोऽपि वा भव नाम, अहं ते जननी। त्वां पुत्रातिरिक्तं न किमपि चिन्तयामि। कस्ते परिचय:?’’
स: किशोर: सलज्जमुवाच—''भवत्या पुत्र इति सम्बोध्य स्वमुखेनैव मे परिचय: प्रदत्त:। भवती मम जननीति सोऽयं मे वास्तविक: परिचय:।’’
अहं धीरस्वरेणापृच्छम्—''तथापि कस्ते शौर्यवान् जनक:, का ते सौभाग्यमयी जननी? ताभ्यां सह मम परिचयेन काऽऽपत्तिस्ते? त्वादृश: सुपुत्रो याभ्यां जनितस्तावहमभिनन्दयितुमिच्छामि।’’
रूपवान् किशोरो भीमसेनं ददर्श। भीमसेनो मृदु हसति। तन्मुखे स्निग्धकोमलहास्यं मया तदेदम्प्रथमतया प्रत्यक्षीकृतम्। स यदा हसति, तदाऽट्टहास्यं हसति। परन्त्वद्याहं पश्यामि तद्व्यक्ते: पार्श्वान्तरम्। तन्मुखं प्रशान्तमुज्ज्वलं, पितृत्वगौरवेण च महिममयम्। स्निग्धकण्ठेनावादीत्—''हिडिम्बापुत्र वीर घटोत्कच! मातरं याज्ञसेनीं प्रणम। तव पितृपरिचयप्रदाने न ममापत्ति:, परन्तु कृपया स्वमातरं राक्षसीं हिडिम्बां द्रुपदराजनन्दिन्या: पाञ्चाल्या: मा पुरस्तादुच्चर, यतोहि हिडिम्बानामश्रवणेन राजवधूर्विदुषी याज्ञसेनी शिक्षादीक्षासंस्कारान् विस्मृत्य राक्षसीत्वमाचरिष्यति। द्वयो: राक्षस्योर्मिलनेनास्माकं तीर्थयात्रायोजना निष्फला भविष्यति।’’
भीमसेनस्य रसिकतया सर्वेऽहसन्। प्रणमन्तं घटोत्कचमहमुत्सङ्गे उत्थापितवती। तत्स्पर्शेण स्वपञ्चपुत्राणां स्पर्शमनुभूय वात्सल्यास्रं प्रवाहितवती। घटोत्कचं कण्ठेनाश्लिष्यावदम्—''वत्स घटोत्कच! तव महियसीं जननी प्रणमामि। वनाधिवासिन्याऽपि तया त्वं भद्रो नम्र: शिष्टश्च सम्पादित इति तस्या अयं परिचय:। मह्यं कुप्यन् भीमसेनो हिडिम्बान्तिकमागच्छति। भीमसेनेन सा कियती दूना भवेदिति मदतिरिक्ताऽधिकं का जानातु? अतस्तस्यै मे धन्यवादो ज्ञापनीय:। अस्माकं हस्तिनापुरीप्रत्यावर्तनात् परं सर्वेषां द्वन्द्वानामवसानाच्च पश्चात् स्वमात्रा सह त्वं स्वपतिृराज्यमायास्यसि। तदर्थं निमन्त्रणं चानावश्यकम्। भीमसेनवचनं सत्यं न मन्तव्यं यदहं ते मात्रा सह सपत्नीत्वमाचरिष्यामीति। भद्राऽपि मे सपत्नी। मया सहैकत्र हस्तिनापुर्यां निवसति। परन्तु सा मेऽनुजा, न त्वन्या। तव जननी वयसा मत्तो ज्येष्ठतरा, अभिज्ञतरा च। सा मेऽग्रजा नमस्या। भीमसेनमुखात्तस्या: प्रशंसां शृण्वन्त्यहमवश्यमीर्ष्यावती आसम्। परन्तु त्वद्दर्शनात् परमद्य मम केवलं मनसि निर्मला भक्तिरुदेति। तस्यै मे मनोगतमवश्यं ज्ञापयिष्यसि।’’
घटोत्कचो नीरवसम्मतिमदात्, मां च स्वस्कन्धे वहन्नग्रे ससार। ममैवमवस्थां विज्ञाय भीमसेनोऽस्मरत्तम्। घटोत्कचो मां पुष्पवदुत्थाप्य पवनवेगेन पार्वत्यपथे अभ्यस्तपदपातैरचलत्। वयं शीघ्रं वदरिकाश्रमं प्राप्ता:।
घटोत्कच: प्रस्थानप्रणतिं चक्रे। अहं च तस्मै दीर्घजीवित्वाशीर्वादं प्रदाय पुनरेकवारं हस्तिनाऽऽगमनाय स्मारितवती। तस्य दर्शनेन कतिपयक्षणेभ्योऽहं स्वपञ्चपुत्रानभिमन्युं च व्यस्मरम्।
वदरिकाश्रमस्य प्राकृतिकपरिवेशेन मे सन्तापितं हृदयं शीतलीकृतम्। पूवमर्जुनेनेत एव स्वर्गयात्रा प्रारब्धा। अत इयं मे परमा तीर्थभूमि:। वदरिकाश्रमस्य मुनिभ्य इदमस्माभि: श्रुतं यदर्जुन: पञ्चवर्षेभ्य: परं स्वर्गराज्यात् प्रत्यावर्त्तिष्यत इति। एतावन्ति दिनानि स्वर्गराज्ये किमर्थं यापयिष्यतीति कोऽन्य ईश्वराज्जानातु? अहं स्थिरीकृतवती यदहमत्रार्जुनागमनं यावत् प्रतीक्षिष्य इति। मदुक्तौ सर्वे सम्मता अर्जुनप्रत्यागमनाय तत्र तपस्यामारेभिरे। अहमपि निष्ठया व्रतमाचरितवती।
वदरिकाश्रमे व्रतपालनकाले मया भीमसेनस्य प्रकृतप्रेम्ण: परिचयो ज्ञात:। स मे कामपीच्छां सद्य: पूरयति स्म छायावन्मामनुसरन्। व्रताचरणाद्दिवैकवारफलाहारमात्रेण मे तनु: क्षीणतराऽपि सौन्दर्यकान्तिर्दीपशिखेव निर्मला कोमला च प्रतीयते स्म। भीमसेन: स्वाभ्यस्तं कटुभाषणं विहायात्यन्तं कोमलां मधुरां च भाषां प्रयुङ्क्तेे स्म। अग्रजस्य द्यूतक्रीडाऽऽसक्त्याऽदूरदर्शितया च मयाऽनेकं दु:खमासादितमिति तेन प्राकाश्येनासकृत् स भर्त्सित:। स्वर्गराज्ये नृत्यगीतविलासनिमज्जितोऽर्जुनो मां विरहाग्रिना ज्वालयतीति सोऽपि। स्वकार्यमात्रव्यस्तौ नकुलसहदेवावपि। भीमसेनस्य पर्वतसदृशे विशालवपुषि कोमलप्रेममन्दाकिनीधारा मदर्थं वहतीति विज्ञायाहं धनञ्जयविरहदु:खं मध्ये मध्ये विस्मृतवती।
पञ्चवर्षपूर्त्तिदिवसो निकटतरायते। भीमसेनोऽहं चारण्ये भ्रमाव:, हठात् सुवर्णवर्णमत्यन्तसुगन्धियुक्तं सहस्रदलकमलमेकमुत्तरपूर्वकोणादुड्डीय मदुपरि निपतितम्। पुष्पसुरभिणाऽपूर्वसौन्दर्येण चाहं विमूढाऽभवम्। पुष्पं हस्ते धृत्वाऽनायासमब्रवम्—''यद्येवं कोऽपि शतं पुष्पाण्यानीय प्रयच्छेत्, तर्हि मालामेषां निर्मायार्जुनाभिनन्दनाय प्रतीक्षिष्ये। निष्ठापवित्रताजलसेचनेन माला चिराय रमणीया स्थास्यतीति मे विश्वास:।’’
मन्मुखाद् वचनासमाप्ते: पूर्वं भीमसेन उत्तरपूर्वकोणे कैलासपर्वतं लक्ष्यीकृत्य दृष्टिपथादन्तरितो बभूव। भीमसेनस्याप्रत्यावर्तनादचिरेणाहं विचलिता सर्वं युधिष्ठिराय ज्ञापितवती। युधिष्ठिरोऽपि विचलितो विषयेऽस्मिन् सहदेवमपृच्छत्। सहदेवश्च सर्वं विज्ञापयामास।
कैलासपर्वते कुबेरस्य सरोवरे विकसन्ति सुवर्णवर्णानि कमलानि। भीमसेनस्तत्र प्रविष्टोऽनुमतिं विना शतं पुष्पाणि चिकाय। अत: सरोवररक्षकै: राक्षसै: प्रतिरुद्धो भीमसेनस्तै: सह सम्प्रति तुमुलसङ्ग्रामरत:।
अनेन समाचारेण युधिष्ठिरो भूयान् विचलितो मामादाय कैलासमभितो धावन् तत्र समागत्य भीमसेनं युद्धाद् रुरोध। अक्रुध्यच्च तस्मै। तदनुमतिं विना भीमसेनस्यैवं पदक्षेपो नोचित इति युधिष्ठिरोक्त्या भीमसेन उवाच—''वस्तुत: कार्यमिदं भवत:। पत्न्यभिलाषपूर्त्ति: पत्युर्धर्म:। द्रौपद्या: स्वर्णकमलकामना भवतैव पूरणीया। यत् कृतं मया तत् भवत्पक्षत एव।’’
युधिष्ठिर: स्थिरकण्ठेनोवाद—''व्रतचारिण्या अरण्यवासिन्या याज्ञसेन्या: सुवर्णाम्बुजाभिलाषो यथा नोचितस्तथैव ते विनानुमतिं कुबेरसरसि कमलावचयो न प्रशस्य:। धनरत्नसुवर्णलोभो नारीणां स्वाभाविक:। तत्र ता उचितानुचितत्वं न विचारयन्ति। किन्तु प्रलोभनेन पुरुषस्य हिताहितज्ञानविस्मृतिरक्षमणीया।’’
भीमसेन: स्वकार्यस्य याथार्थ्यं प्रतिपादयन् जगाद—''एकदाऽरण्यवासिनी सीता स्वर्णमृगाभिलाषिण्यासीत्। भगवान् रामचन्द्रस्तत्कामनापूरणाय हिताहितज्ञानं विस्मृत्य स्वर्णमृगमन्वधावत्। अहं तु सामान्यो मानव:। पत्नीच्छापूर्त्तिकार्यसम्पादनं मम तु स्वाभाविकम्। सीताया एक एव पतिर्भगवान् रामचन्द्रस्तदिच्छां शिरसि निधाय स्वर्णमृगमन्वेष्टुं प्रतिज्ञातवान्। याज्ञसेनी तु पञ्चपतिका। शौर्येण वीर्येण पराक्रमेण च सर्वे बलीयांस:। अत: स्वर्णवर्णकमलाकाङ्क्षां तस्या: पूरयितुमहं प्रधावित:। राजनन्दिन्या कृष्णयाऽस्माकं कृते कियान् त्यागो न स्वीकृत:? राज्यत्यागकाले कर्णेङ्गितेन तस्या: शरीरात् समस्तालङ्कारनिस्सारणेन न साऽपमानिता किम्? अथ च तदिच्छापूर्त्तिर्मे दोषाय?’’—एतावता भीमसेनस्योत्पन्न: क्रोधोऽनुबेलं वर्धते।
युधिष्ठिरस्तथापि शान्तशीतलकण्ठेन सर्वं विचार्यावदत्—''भगवत: श्रीरामचन्द्रस्य स्वर्णमृगानुधावनस्य किं चरमं फलमभूदिति सर्वे जानन्ति। मातुर्जानक्या: स्वर्णकामना कियती दु:खविपद्दात्रीति त्वमपि जानासि। तदारभ्य सीतारामयोर्दु:खारम्भ: समजनि। तद् दु:खं हि जगज्जनेभ्य: शिक्षाप्रदम्। सम्प्रत्यपि त्वया स्वर्णवर्णमात्रकमलानां कृतेऽनेकजीवननाश: कृत:। अवश्यं ते जीवनं सङ्कटापन्नमभविष्यद् यदि नाहमत्रागमिष्यम्। धनपति: कुबेरस्तवेदमनधिकारं कार्यं कदापि नासहिष्यत। किमप्यविचार्य वीरत्वप्रदर्शनायाग्रौ लम्फनं ते जन्मजातो गुण:, परन्तु विदुषी शास्त्रनिपुणा याज्ञसेनी स्वर्णलोभेन हिताहितज्ञानरहिता त्वंा प्रेरितवतीति चिन्ताया विषय:। याज्ञसेन्या नारीसुलभ: सुवर्णलोभ एकदा नो विनाशकारणं भविष्यतीति नात्र सन्देह:। जानामि—याज्ञसेन्या गुण: साधारणराजकन्याया गुणापेक्षयाऽऽढ्यतर:, किन्तु..............’’ युधिष्ठिरो नाधिकमब्रवीत्। तदानीं लज्जया दु:खेनापमानेनानुतापेन च म्लानाऽहमतिकष्टेनागतं वाष्पं गोपयितुं प्रयते। भीमसेनस्यानुचितकार्याय युधिष्ठिर: कुबेरात् क्षमामयाचत।
कुबेरो ममैवमवस्थां लक्ष्यीकृत्यात्यन्तं दु:खेन जगाद—''देवी द्रौपदी स्वर्णकमलानीच्छतीत्येतावन्मात्रज्ञापनेनाहं दश्लक्षं तानि निश्चयेन प्रादास्यम्। भीमसेन: किमप्यनुक्त्वाऽनुमतिमस्वीकृत्य स्वर्णकमलान्यवचितवानित्येवं परिस्थितिरुत्पन्ना। अस्तु, यज्जातं तज्जातं, सम्प्रति भीमसेनो यथेच्छं कमलानि चित्वोपहर्तुमर्हति। तदतिरिक्तानि स्वयमहं दश्लक्षं पद्मानि देव्यै कृष्णायायुपहरामि। तस्या: पदयो: स्वर्णरेणुस्पर्शेण सरोवरस्थस्वर्णकमलशोभा विवर्धिता। एतानि कमलानि स्वर्णादपि महार्घतराणीत्यहमेतानि देव्यै द्रौपद्यै अकुण्ठमुपहरामि।’’
अहं प्रत्यवदम्। सविनयमुक्तवती—''भवता प्रदेयोपहारग्रहणं न पुन: सम्भवं मे। अद्यास्मिन् मुहूर्त्ते धर्मपुष्करिणीतीरे स्थिता प्रतिजानामि यत् कदापि जीवने पुन: स्वर्णरौप्यरत्नाद्यलङ्कारान् नैव परिधास्यामि, विलासवस्तुरूपेण च नैव व्यवहरिष्यामीति। भवान् जानाति यदहं स्वप्नतिज्ञापालनेऽतीव कठोरा। अत: क्षम्यतामयं जन:। स्वर्णवर्णानीति महार्घाणीति नैव ग्रहिष्याम्यहं कदापि। वस्तुतोऽलङ्कारा नैव भूषणानि मनुष्यस्य, अपि तु स्वव्यक्ति:, स्वकर्माणि, सुगुणाश्च। एतद् विज्ञायापि लोभवशाद् विस्मृतवती। युधिष्ठिर: समुचितसमये स्मारयन्नेतत् कृतार्थीकृतवान्।’’
कुबेर: सात्यन्तविनयमाह—''देवि! भवत्या मदुपहाराग्रहणेन मे मनसि दारुण आघातो जनिष्यति। स्वभावेन कृपण इति ख्यातपूर्वमपयशो मे। अद्यास्मात् तुमुलयुद्धात् परं यदि भवती सरोवरतीरादगृहीतकमला निवर्त्तते तर्हि जना: किं किं न वदेयुर्मद्विषये? भवती व्यवहरतु वा न वा, परन्तु रक्षतु मामपकीर्त्ते:। नाहं धनापव्ययपक्षपात:, परन्तु समुचितकार्याय धनविनियोगे न मे कदापि कुण्ठा। भवती स्वर्णकमलानि कस्मिंश्चिन्महति कार्ये विनियोजयितुमर्हति।’’
कुबेरस्यान्तरिकतापूर्णेन वचनेनान्धकारेष्वालोकमार्ग: परिष्कृत:। काम्यकवनप्रवेशात् परं यं स्वप्नं सत्यरूपेण परिणमयितुं मया मनसा सङ्कल्प: कृत आसीत्, स एतावच्छीघ्रं सम्भवेदिति को वाऽजानात् पूर्वम्? अहं विनयेनोपास्थापयम्—''महाशय! नगराधिवास्यार्यकुलवनाधिवास्यार्येतरकुलयोर्मध्ये समन्वयसुसम्बन्धाभावकारणादार्यार्येतरचिन्ताधाराजीवनयापनपद्धतौ यद् वैषम्यं सम्प्रत्यवलोक्यते तत् कदापि भाविनि नैव शुभाय समाजस्य। अरण्याधिवासिन: शिक्षाया: सभ्यतायाश्च दूरीभूता आर्येभ्य आत्मनो न्यूनतरा मन्यन्ते, आर्या: पुनरार्येतरेभ्य आत्मन: श्रेष्ठाँश्च वदन्ति। अस्माद् भ्रान्तिकारणाद् द्वयो: कुलयोर्मध्ये शात्रवमनुदिनं वर्धते। अथ च तयो: परस्परं सुसम्बन्धस्थापनप्रयत्नेनोभे चरमनिदर्शनं मित्रताया: प्रदर्शयन्ति। अस्य प्रमाणं काम्यकवने किर्मीकशबरकुलेन सह पाण्डवानां सहावस्थानं बन्धुत्वं च। परन्तु संयोगं विना परस्परं सुसम्बन्धस्थापनेऽनेका बाधोत्पद्यते। यदि दुर्गमारण्यमध्ये मार्गसौविध्यं भवेत्तर्हि वनाधिवासिभि: सह सम्बन्धस्थापनं सुकरं सम्पद्येत। तेऽपि नगरेषु तीर्थस्थानेषु च गन्तुं शक्नुयु:। अनेन आर्यार्येतराणाम्, ऋषिमुनीनाम्, साधुसज्जनानां परस्परं समन्वय: स्थापित: स्यात्। परस्परं विवाहाद्युत्सवेषु भावानामादानप्रदानाभ्यां च आर्यार्येतराणां मैत्रीबन्धनं सम्भवेत्। किञ्च विवाहसम्बन्धोऽपि संस्थापित: स्यात् यत् सम्प्रत्यार्यावर्तस्य विपन्नस्य कल्याणाय भवेत्। अत: मदनुरोधेन यदि दश्लक्षस्वर्णकमलमूल्यविनिमयेन काम्यकारण्यम्, द्वैतारण्यम्, नैमिषारण्यम्, हिमालयस्थविभिन्नस्थानानि, हस्तिनापुरीं च परस्परं यातायातमार्गेण संयोज्य मध्ये मध्ये विश्राममण्डपमन्दिरकूपादीनां निर्माणं कार्येत तर्हि मे स्वप्न एकदा सफलीभवेत्। शबरै राक्षसैश्च ऋषिमुनीनां योगसाधनाभङ्गस्य कारणं केवलं परस्परं समन्वयसंयोगाभाव:। भवान् किं विचारयति?’’
युधिष्ठिरो मन्त्रमुग्ध इव मदुक्तिं शृणोति स्म। कुबेरश्चमत्कृतो बभूव। लोमशमुनि: साधुसाधु इति ब्रूवन् प्रस्तावं मे समर्थयामास। नकुलश्चपलतया हसन्नुवाच—''दुर्गमे पथि तीर्थयात्रायां याज्ञसेन्याऽनेकं कष्टं सोढमिति वनमार्गे मार्गमन्दिरविश्रामागारादीनां निर्माणाय रमणीय: प्रस्ताव उपस्थापित:। प्रत्यावर्तनेऽवश्यमस्माकं कष्टं लाघवं यास्यति, उपकारश्च स्यात्।’’
सहदेवो मन्द्रमधुरकण्ठेनाह—''अनेनार्यावर्तस्यानेकविवादानां समाधानं सम्भविष्यति। अद्यास्मिन्नेव मुहूर्त्ते लोमशमुने: पौरोहित्येन याज्ञसेनीसमन्वयमण्डपस्य शुभकार्यारम्भो भूयात्।’’ कुबेरदेव: सस्मितमवादीत्—''अद्यास्योत्सवस्य शुभोद्घाटनं भीमसेन एव करिष्यति। यतोहि राक्षसीं हिडिम्बां परिणीय स प्रथम: पुरोधा आर्यार्येतरमिलनस्य। सर्वत्र समान: प्रेमभावो हि भीमसेनस्यादर्श:। याज्ञसेनीसमन्वयमण्डपस्य भीमसेन: शिलान्यासमेव करिष्यति।’’
मङ्गलध्वनिभि: सर्वे कुबेरोक्तिं समर्थितवन्त:। लोमशमुने: पौरोहित्येन समन्वयकार्यमारब्धम्। कौरवाणां शासने सत्यधर्मन्यायादिषु विपन्नेषु गुरुत्वपूर्णस्यास्य कार्यस्यऽऽवश्यकताऽऽसीदिति विज्ञापयन्तो देवा: स्वर्गात् पुष्पाणि मुमुचु:। देवानामस्मभ्यमाशीर्वादोऽस्तीति शक्तिरशेषाऽस्मासूदियाय। कार्यस्य समाप्ते: परं वयं पुन: वदरिकाश्रमं प्रत्यागत्यार्जुनं प्रतीक्षितवन्त:।
गन्धमादनपर्वतस्य गम्भीरोदासीनता मन ऊर्ध्वमुखं कुरुते। इच्छा भवति चिरायाहं प्रशान्तमौनतायामस्यां प्रकृतिशोभां द्रक्ष्यामीति, आत्मानं विस्मरिष्यामीति। गन्धमादनपर्वतनिकटे वयं सर्वे सप्ताहात् पूर्वमर्जुनं प्रतीक्षमाणा: स्म:। स्वर्गराज्येऽर्जुनस्य पञ्चवर्षात्मको निवास: समाप्त:। गन्धमादननिकटे स मर्त्यमवतरिष्यति।
तस्मिन् दिने आकाशं मेघाच्छन्नमासीत्। नीलमेघेषु अहमर्जुनस्य श्यामलां रूपशोभामुत्पश्यामि। अकस्मात् गगनस्य नीलमेघखण्डान् भित्त्वा दिव्यमालोकमण्डलमेकमदृश्यत। सुसज्जितो रथ एक: शनै: शनैराकाशमण्डलाद् गन्धमादनेऽवततार। इन्द्रस्यन्दने सारथिना मातलिना सहार्जुन: स्वर्गराज्यात् प्रत्यावर्त्तते।
पाण्डवा आनन्दोत्फुल्लिता बभूवु:। अहं निर्निमेषदृष्ट्याऽर्जुनस्य दिव्यज्योतिषोद्भासितमनुपमं रूपमाचुम्बामि। स्वर्गराज्ये पञ्चवर्षनिवासकारणादर्जुनस्य सौन्दर्ये दिव्यभाव: प्रकटित:। नैसर्गिकज्योतिषा स उद्भासित:। भीमसेनोऽर्जुनमुत्थाप्य सानन्दं ननर्त। अर्जुनो मृदु हसति। सर्वमर्जुनस्य नैसर्गिकज्योति:स्पर्शेण निरुपमं दृश्यते।
अग्रजौ प्रणनामार्जुन:। अनुजौ चालिलिङ्ग। सहोदराणां कृते स्वर्गराज्यादनेक उपहारा आनीतास्तेन। युधिष्ठिरस्य कृते च स्वर्गराज्यस्यावस्थितिराजनीतिकमानचित्राणि, शासनसम्बन्धिनि चित्राण्यनेकानि समानीतानि। भाविनि धरातले धर्मराज्यप्रतिष्ठा युधिष्ठिरस्य जीवनलक्ष्यम्। उपहारानधिगत्य स मुदित:। भीमसेनायानीतानि तु स्वर्गराज्यस्यानेकानि दुर्लभमिष्टान्नानि फलमूलानि च। भीमसेन उत्तिष्ठन् तानि भोक्तुं प्रचक्रमे। नकुलायाधिगृहीतानि धनञ्जयेन स्वर्गराज्यादिन्द्रभुवनस्य रत्नखचितान्यश्वावरणानि, आसनानि, विजयकालिकपरिच्छदाश्च। सहदेवस्य कृते तु ग्रहनक्षत्राणां गतिविधिं लक्ष्यीकर्तुमेकोऽद्भुत आदर्श: समानीत:। तत्र सर्वं प्रतिविम्बितं भवति। दिव्यदृष्ट्या दर्शनेन च गतवर्तमानभविष्यन्ति भासन्ते। उपहारान् सम्प्राप्य सर्वे प्रसन्ना:।
अहं निर्विकारा तिष्ठामि। तमहं निर्निमेषनयनाभ्यां विलोकयन्ती नैसर्गिकमधुरस्वप्नेष्वात्मविस्मृता। भीमसेनो मिष्टान्नानि खादन् पप्रच्छ—''द्रौपद्यै किमानीतं त्वया?’’
अर्जुनो हसन् मत्संनिधावागत:। अवोचत्—''त्वदर्थं किमानीतमिति त्वमेव ब्रूहि...........।’’ मम नयनमार्गेणाश्रुनिर्झरिणी प्रावहत्। अहं वाष्पाकुलकण्ठाऽवदम्—''मोहिनीनामप्सरसां जालमुक्तस्त्वं स्वर्गराज्यात् प्रत्यावर्त्तित इति पर्याप्तं मे। न मेऽधिकं किमप्यावश्यकम्।’’
अर्जुन: स्वगलप्रदेशान्निस्सारयामास बहुरत्नखचितामेकां मणिमयीं मालाम्, मस्तकाच्चातिमहार्घं सुन्दरं मुकुटम्, स्वरथादपि नानारत्नालिङ्गितकनकालङ्कारान्। सर्वं च मत्पुरस्तात् प्रास्तौत्। जगाद च—''कृष्णे, तस्मिन् दिने त्वां निराभरणां चकार दुर्योधनादेशेनाहङ्कारी कर्ण:। तदा च ते दु:खमनुभूयाहं प्रतिज्ञातवान् मनसा यदापादमस्तकं त्वामलङ्कारैर्महार्घैर्मण्डयिष्यामीति। पञ्चवर्षेषु देवानामुपकारेण ये येऽलङ्कारा उपहाररूपेण मयाऽऽसादितास्ते ते तुभ्यं सञ्चिता: सम्प्रति तवैव। एभिर्मण्डिता त्वं वनवासान्ते हस्तिनापुरीं प्रतिगमिष्यसि।’’
अहं सर्वानलङ्कारान् सविनयं स्वीकृतवती। अनन्तरं तान् लोमशमुनिहस्तयो: समर्पितवती। अवोचम्—''आर्यपुत्र! मम प्रतिज्ञाभङ्ग: कदापि न भवति। जीवने कदापि नैव पुनर्मणिरत्नस्वर्णालङ्कारैरात्मानं मण्डयिष्यामि। तवोपहारा विश्वकल्याणाय मया समर्प्यन्ते। स्वर्गराज्यादाहृता अलङ्कारा: पृथिव्यां मैत्रीबन्धनस्य पवित्रकार्ये विनियोजयितुमुचिता:।’’
अर्जुनोऽवाङ्मां सविस्मयमपश्यत्। स: किमपि ज्ञातुं नैव प्राभवत्। लोमशमुनिरार्यार्येतरसमन्वयकार्यस्य पूर्वपरेतिहासं वर्णयति स्म। अर्जुन आनन्दविह्वलितो बभूव। युधिष्ठिर उवाच—''अहममन्ये यद् राजनन्दिन्या द्रौपद्या: ज्वालामयी व्यक्ति: केवलं क्रोधाहङ्कारप्रतिहिंसाप्रतिशोधपरिपूर्णा, परन्तु ज्ञातवानिदानीं यदस्यां सन्निहिता मानविकातिमानविकावेगानुभवादय:। दयाक्षमाकरुणामन्दाकिनी अभ्यन्तरेऽस्या: प्रवहति। याज्ञसेन्या: प्रेरणयाऽरण्यस्य रूपं परिवर्त्तितम्, मनुष्ये मनुष्ये च विभेदो दूरीभूत:।’’
अर्जुनो मे करौ धृत्वाऽवादीत्—''कृष्णे! तव निष्ठया प्रेम्णैकान्तिकेनाहं स्वर्गराज्यस्याप्सरस उर्वश्या: प्रेमजालं छित्त्वाऽचलो निर्विकारश्च समपद्ये। अत एकवर्षस्य पौरुष उत्सर्गीकृतो मया। कारणमस्य श्रुत्वा त्वं दु:खेन त्रुटिष्यसि। तथापि पितु: करुणयाऽऽजीवननपुंसकत्वस्थाने वर्षमात्रात्मकक्लीवत्वाभिशापमङ्गीकृत्योर्वशीप्रभावान्मुक्त: प्रत्यावर्त्तित:, मम तन्नपुंस्त्वं स्थिरतया सहिष्यस इत्याशासे।’’
अहं दु:खेन त्रुटिता। अचिन्तयम्—अर्जुनस्याजीवनं स्वर्गराज्यनिवास: पौरुषहीनताभिशापाद् वरोऽभविष्यत्। यस्मायार्यावर्तस्य श्रेष्ठपुरुषाय स्वात्मा मया समर्पित:, तस्य पौरुषविहीनत्वं कथं बत सहिष्ये? सहदेवो मे दु:खमनुमायाब्रवीत्—''मा खिद्यतां द्रौपदि! सर्वमदृष्टनिर्देशेन सम्भवति। अभिशापोऽयमस्याज्ञातवासकाले आशीर्वादत्वं यास्यति।’’
अर्जुन: प्रशान्तकण्ठेनोवाच—''उर्वश्या: प्रेमनिवेदनोपेक्षया मयाऽयमभिशापो लब्ध:। परन्तु पित्रनुरोधेन तस्यैकवर्षत्वमेवावशिष्य स्थितम्। पितृपादा मां सान्त्वयन्त ऊचु:—अज्ञातवासेऽयं गुणत्वमाप्स्यति। सम्प्रति देवराजसहदेवयोरभिमतसाम्यान्मे ग्लानिर्दूरीभूता। ईश्वरविधानं मङ्गलायेति मे विश्वासो दृढीभूत:।’’
सहदेवोक्तं निशम्य सखायं स्मारं स्मारं सर्वं तस्मै निवेदितम्। मनसा चाचिन्तयम्—''कृष्णसखो धनञ्जयो यद्येकवर्षाय नपुंसकत्वं यास्यति, तर्हि लज्जा कृष्णस्य न तु कृष्णाया:।’’
वर्षर्तु: ऋतुर्जीवनस्य। इदं ज्ञातवती द्वैतवनेऽवस्थानकाले। अर्जुनेन सह काम्यकवनप्रत्यावर्तनमार्गे किरातराज: सुबाहु: सर्वानभिनन्द्य कतिपयदिवसेभ्य आतिथ्याय न: प्रार्थयामास। अत्रान्तरे दुर्गमवनमध्ये मार्गसौविध्यं च बभूव। मन्दिरविश्रामगृहादीनां निर्माणकार्यं सम्पन्नमासीत्। अरण्यवासिन: शबरा: तीर्थयात्रायां हिमालये च ऋषिमुनीनामाश्रमेषु निर्बाधं गच्छन्ति स्म निर्मितैर्मार्गैस्तै:। पाण्डवानां शबरप्रीति:, विशेषतश्चार्यशबरसांस्कृतिकसमन्वयाकाङ्क्षा च प्रचारिते सर्वत्र। काम्यकवने शबराणां जीवनयात्राया: परिवर्तनं, पाण्डवानां तै: सह च मैत्री न केनाप्यविदिते आस्ताम्। अत: समग्नारण्यवासिन: किरातकुलस्य प्रेमास्पदत्वसौभाग्यं लब्धमस्माभि:। कौरवाणां शबरविद्वेषकारणादार्यार्येतरविभेद: पाण्डवानां साम्यनीत्या दूरीभूत:।
किरातराजस्य सुबाहोर्मैत्रीं स्वीकृत्य वयं तद्राज्ये कञ्चित् कालं सानन्दमवसाम।
द्वैतवने चातुर्मास्ययापनाय मे मनसि आकाङ्क्षा प्रबलाऽजायत। वर्षर्तौ द्वैतवने यथा मायाया: स्पर्श आसीत्। वृष्टिधाराभिश्चतुर्दिशं श्यामलिमा प्रवहतीव। पाण्डवाश्च प्रकृतेर्मायया प्रमत्ता:। यामुनपर्वते मृगयानिरतौ भीमनकुलावानन्दमनुभवत:। एकदा तत्र मृगयाकाले भीमसेनं सर्परूपो नहुषो जग्राह। तमुद्धर्तुकामो युधिष्ठिरोऽजानाद् यत् पुरुवंशराजस्य ययाते: पिता नहुषोऽगस्त्यमुने: शापेन सर्परूपेण बहुवर्षेभ्योऽरण्ये भ्रमति। स्वपूर्वपुरुषस्य राज्ञो नहुषस्य शापमोचनाय पाण्डवा: प्रार्थयामासुरीश्वरम्। नहुषकृतानां प्रश्नानामुचितान्युत्तराणि ददौ युधिष्ठिर इति सर्परूपो नहुषो भीमसेनं त्यजन् शापमुक्तो बभूव, पाण्डवानां च कल्याणमिच्छन्नदृश्योऽभूत्।
प्रशान्तहृदयो युधिष्ठिरोऽमन्यत यदेवं पुण्यकार्यं सुबाहुराज्ये प्रतीक्षारतमिवासीत्। पूर्वपुरुषाणां शापमुक्तिरत्यन्तं पुण्यकार्यम्। सुबाहुराज्येऽवस्थानं विना सौभ्याग्यमिदं पाण्डवानां नाभविष्यत्, पूर्वपुरुषाशीर्वादोऽपि नैव लब्ध: स्यात्। तत: स सुबाहो: कृतज्ञो बभूव। सुबाहु: साञ्जलिराह—''सर्वं खलु ईश्वरगोचरं, न मम। अन्यथा भवन्त: किमर्थं मे राज्ये आगच्छेयु:?’’
भीमसेन उवाच—''अग्रजवर्या:! सम्प्रत्यस्माभिरनेकानि दिव्यास्त्राणि लब्धानि। समग्रं शबरकुलं नो मित्रम्। यदुकुलं, श्रीकृष्णबलरामावस्मत्पक्षपाता:। पुन: पूर्वपुरुषाणामाशीर्वादोऽस्माभिरासादित:। कदा पुन: पाञ्चाल्या वेणीसंहार: सम्भवेत्? दुर्योधन: कर्णबलेन बलीयस्त्वं मन्वानो गर्वपर्वतशिखरारूढ:। कर्णेनापि दिग्विजयं समाप्य महायज्ञ आयोजित:, अस्मभ्यं निमन्त्रणमपि प्रेषितम्। अथ च स: सम्यग् जानाति यत् त्रयोदशवर्षपूर्त्ते: पूर्वं न वयं हस्तिनां प्रत्यावर्त्तिष्यामह इति। निमन्त्रणमिदं परोक्षेण क्षते सुधाप्रलेपसमम्। महायज्ञोद्यापनोत्सवे दुर्योधनेन प्रशंसित: कर्ण आनन्दाधीर: सर्वेषां पुरस्तादुदघोषयद् यदर्जुनवधात् पूर्वं मद्यं मांसं मैथुनं च नैव स्प्रक्ष्यति, यो यद् याचिष्यते, तत् तस्मै प्रदास्यतीति। अर्जुननिधनं तस्य जीवनस्य व्रतम्, अत: निष्ठया मद्यमांसमैथुनादिभ्यो दूरीभूतो व्रतमाचरति। तस्मात्तस्य गर्वं चूर्णीकर्तुमयमुचित: समय:। अनन्तरं हस्तिनाप्रत्यावर्तने न कोऽपि क्लेशहेतु: स्यात्।’’
स्थिरमना युधिष्ठिरोऽवादीत्—''मयाऽपि कर्णप्रतिज्ञा श्रुता, तद्गुरुत्वं चावगतम्। किन्तु सम्प्रति न कोऽप्युपायोऽस्माकमस्ति। भयाद्वयं हस्तिनां न प्रत्यावर्त्तामह इति न चिन्तय। प्रतिगमनकालोऽनागत इति वयमरण्येष्वटाम:। अज्ञातवासवर्षेण सह वर्षत्रयसमाप्ते: परं वयं तत्र प्रतिगमिष्याम:। तत्रादौ शान्त्याऽहिंसया च द्वन्द्वसमाधानाय प्रयतिष्यामहे।’’
कर्णस्य व्रतपालनं मां चिन्ताऽधीरां कुरुते। अहं चिन्तयामि—कर्णस्य सर्वदाऽर्जुनविद्वेष: किमर्थम्? किम्, अर्जुनो मे प्रियतम इति कारणात्?
मम मनोगतमवगच्छन्निव भीमसेनो जगाद—''कर्णस्यार्जुनविद्वेष: केवलं द्रौपदीकारणात्। आबाल्यादवश्यं तस्येर्ष्याऽऽसीत्, किन्तु द्रौपदीजयात् सा हिंसारूपतां प्राप्ता। यत्र नारी तत्र नरकम्। द्रौपदीलाभात् परं सर्वेऽस्मदरित्वमाचरन्ति।’’
अहं क्रोधेन ज्वलामि भीमसेनस्य निष्कारणदोषारोपणेन। अहं नारीति न मे दोष:। अहं सुन्दरीति नापि दोष:। अर्जुनेनाहं जितेति नाहं दोषयुक्ता। परन्तु कर्णेन न जितेति किमहं निर्दोषा? अस्य प्रश्नस्योत्तरायाहं न स्वयं प्रभवामि। सर्वे दोषा अस्मिन् प्रश्न आपतन्ति। तथापि कर्णेनाजीवनं मम सन्ताप: प्रवर्धित इति किं नान्यायाय कल्पते?
मम विषण्णं मुखं विलोक्यार्जुनो गुरुगम्भीरकण्ठेनोवाच—''मदर्थं किमपि मा चिन्तयितुमर्हसि कृष्णे! न सफलीभविष्यति कदापि कर्णप्रतिज्ञा। तस्य निधनोपाय: पित्रेन्द्रेण पूर्वमेव सम्पादित:। दात्रहङ्कारेण कवचकुण्डलदानस्य क्षतरुधिरमद्यापि वहति तस्य। तथापि तस्येयती आस्पर्धा! सम्प्रति मत्सविधे स्थितानि दिव्यास्त्राणि कर्णवधसहायकानि भविष्यन्ति। केवलमिन्द्रप्रदत्तया कर्णस्य शत्रघातिन्या शक्त्या ते मनसि संशयोत्पत्ति: स्वाभाविकी। द्रौपद्यै यदि तस्येयान् क्नोध:, तर्हि तस्य शक्तिप्रयोगं निष्फलीकर्तुमहं पवित्रवनभूमौ सर्वेषां समक्षं प्रतिजाने यत् कर्णवधं यावदहं मद्यमांसद्रौपदीभ्यो दूरे स्थास्यामि। तन्निधनात् परं द्रौपद्यै वास्तविकं पत्नीसम्मानं दत्तवानिति मंस्ये।’’ अहं स्तब्धा तिष्ठन्ती चिन्तयामि—नारी शक्तिदायिनी, प्रेरणादात्री, कल्याणी च। कर्णो वाऽर्जुनो वा कोऽपि वा, अभीष्टपूॄत्त यावत् पत्न्या दूरे स्थातुं किमर्थं प्रतिज्ञां कुरुते? नार्या: सख्यं किमु पुरुषस्य शक्तिं हरति? इदं पुरुषस्य स्वीयचारित्रिकदृढतायामनास्थाभाव:, नार्या मनोहारिशक्तेर्भयं वा? सिद्धिमार्गे नारीदूरीकरणं पुरुषस्य स्वीया दुर्बलता दृढता वा? परन्तु, आर्यावर्त्तस्य किं श्रेष्ठपुरुषस्य श्रीकृष्णस्य सिद्धिमार्गेऽस्य दृष्टान्तोऽस्ति? अपितु, आर्यावर्त्तस्यानेकान्यसाध्यानि साधितवान् बहुनारीनायक: प्रेमिकश्रेष्ठ: श्रीकृष्ण:। अस्या: प्रतिज्ञाया: पूर्वं मामपि सकृद् जिज्ञासितुमुचितं नासीत् किम्? रहस्यतेदेव पृष्टं मयाऽर्जुनाय।
अर्जुनस्तीक्ष्णव्यङ्ग्यकण्ठेनावादीत्—''त्वयाप्येकदा स्वप्नतिज्ञाया: पूर्वं न मे मनोगतं जिज्ञासितम्। अस्माकं वैवाहिकजीवनस्यैकवर्षात्मक: पणो मयाऽद्यापि हृदयेन नानुमोदित:। किं त्वमेतन्न जानासि? ततोऽहं सुयोगमनुसृत्य त्वत्तो दूरीभवितुं प्रयते। निर्विकारतया स्वर्गराज्येऽप्सरोभि: सह पञ्चवर्षाणि मया व्यतीतानीति सम्प्रति नारीरक्तमांसशरीरं न मे कामनाया वस्तु वर्त्तते। अतोऽद्य प्रतिज्ञेयं मां ते शरीराद् दूरीकरिष्यति, न तु हृदयादिति विश्वसिहि। अहं वेद्मि यत् त्वया मदर्थमनेकं कष्टं सोढम्। मदनुपस्थितौ सन्न्यासिन्येव कालं यापयन्त्या स्वशरीरं क्षीणीकृतं त्वया। त्वद्दर्शनेन तदवगच्छामि। किन्तु, सत्सु चतुर्षु अन्येषु पतिषु खिद्यसे पुन: कथम्? किमयं तान् प्रति नान्यायस्तव? अतोऽद्यारभ्य तान् प्रति तेऽधिकयत्नेन मे व्रतपालने न काऽपि बाधाऽऽयास्यति। अनेनोभयोर्मानसिकी स्थिरता वर्धिष्यते। कृष्णे! सम्प्रति मानाभिमानरसरङ्गादीनां समयो नास्ति। आर्यावर्त्त: कौरवाणामन्यायशासनेन विपन्न:। अग्ने महासमर: प्रतीक्षते। वर्षत्रयात् परं पृथिव्यां धर्मयुद्धं सङ्घटिष्यते, तत्र स्वविजयाय मानसिकी स्थिरता नितरामावश्यकी। अत एवं प्रतिज्ञा मया विचिन्त्यैवोद्घोषिता। कर्मकर्त्तव्यधर्मरक्षां विना किमस्माभि: करणीयमस्ति जीवने? आशासे, त्वं मां नान्यथा चिन्तयिष्यसि।’’
अहं मे पत्युक्तमनुचितं न ज्ञातवती। यतोहि अहमेव साधु जानामि यद् धनञ्जयसम: स्वाभिमानी, मर्यादावान् पुरुष: संसारे कृष्णातिरिक्त: कोऽपि नास्ति। अन्यथा स्वमनोभिमानं व्यतीतेष्वप्यनेकेषु कालेषु एवं रमणीयतया कथं पुन: परावर्तयेत्?
काम्यकवनमस्मान् प्रतीक्षत इव। जम्बुकम्बुकिर्मीककिरातविरातादयो बद्धादरा: शबरबन्धवोऽपि प्रतीक्षारता आसन्। अस्माकमागमनात् परं सखा श्रीकृष्ण: स्वद्वितीयपटमहिष्या सत्यभामया सह मिलितुमागत:। अर्जुनस्य स्वर्गराज्याद्दिव्यास्त्रलाभकारणात् सखा श्रीकृष्णोऽर्जुनं सानन्दमभिनन्द्य स्वर्गराज्यसमाचारान् पप्रच्छ। अर्जुनोऽपि स्वर्गराज्यस्यामोदकरीं गाथां श्रावयन् सख्युर्मनोऽरञ्जयत्।
कृष्णं सद्यो विलोक्याहं साभिमानमवदम्—''एतावद्भ्यो दिवसेभ्य: परं सख्युश्चरणौ कथमत्रायातौ? अर्जुनस्य स्वर्गराज्यप्रस्थानात् परं वयमत्र मृता वा भ्रष्टा वा व्याघ्रभक्षिता वेति सकृदपि समाचारोऽस्माकं न पृष्ट:। अद्यार्जुनागमनात् परं वयं कथं पुनस्ते मनस्यकस्मादापतिता:?’’
श्रीकृष्ण आकाशात्पतितमिव मे वचनं निशम्य साश्चर्यमवादीत्—''पश्य सखे! नारीचित्तवृत्ति: कियती अकृतज्ञा, निर्दया, मायाविनी च। त्वं यावन्ति दिनानि स्वर्गराज्य आसी:, तावन्ति दिनान्यहं द्वारकाया: सुखभोगं सन्त्यज्य बन्धुपत्न्या देहारक्षीव दुर्गमारण्ये तदनु धावामि। पञ्चवर्षेषु मम द्वारकायां पत्नीमुखदर्शनं सकृदपि न जातम्। अथ च तदर्थं कृष्णा धन्यवादस्थाने दोषानारोपयति।’’
सख्युर्मथ्यावादितायाश्चरमनिदर्शनमतोऽधिकतरं किं पुनर्भवेत्? मम मौनतायामपि अर्जुनो मृदु हसति। सखा कोमलकण्ठेनाह—''सखि! सत्यं ब्रूहि यत् प्रत्यहं त्वया नयननिमीलनात् परमर्जुनस्वप्नो दृष्टो न वा? जागरणेऽपि कदा कदाऽस्य छाया सरोवरजले, अरण्येषु पादपच्छायायाम्, हिमाद्रितुषारकणेषु दृष्टा वा न वा? किं बहुना, प्रत्यहं स्वनखदर्पणे तस्य प्रतिच्छवि: प्रत्यक्षीकृता न वा? वर्षापातेषु विरहिणी त्वं यदा स्वविरहज्वालां प्रशमयसि, अदूरेऽर्जुनच्छाया तदा वर्षासिक्ताऽरण्यमार्गे ते सङ्गं ददाति, त्वं च तद्दृश्येण विह्वलितेति किं विस्मृतं सर्वं त्वया? सा च छायामूर्त्तिर्भीमसेनागमनेनादृश्या बभूव। परस्तात् सर्वमेतत्ते मनस: प्रतिफलनमिति मत्वा तूष्णीमाचरितं त्वया। किमेतत् समस्तं मिथ्या?
अहमवागपृच्छम्—''सखे! कुतो विदितं सर्वं त्वया? अद्य यावद् मद्भिन्नो न कोऽप्येतज्जानाति। प्रतिमुहूर्त्तं तमहं निकटेऽनुभवामि, पश्यामि च। किन्तु परक्षणे मे मनसो भ्रमस्तावदिति प्रतीयते। अयं तु निरन्तरतच्चिन्तनस्य परिणाम:। अत: लज्जया नीरवा भवामि। इदं तु कुतो ज्ञातं त्वया?’’
श्रीकृष्ण: समुखमालिन्यमवोचत्—''स्वहृदयानुभूतं दु:खं मे को बत निवेदयतु? सखा तु स्वर्गराज्येऽप्सरसां नृत्ये निमज्जित आसीत्। मदन्य: को वा तद्वेशेन त्वया सह भ्रमेत्? तदानीं त्वया वारं वारमर्जुन एव मनसा स्मृत:, न तु सकृदप्यहम्। अर्जुनरूपेणाहं ते सङ्गदानायारण्येषु भ्रमामीति सकृदपि न चिन्तितं त्वया। स्वत: किमर्थमहं तत् प्रकाशयेयम्? न मे किं कोऽप्यभिमानोऽस्ति? कृष्णार्जुनयोरभेद: किं त्वया न ज्ञात:?’’ अहं तु स्तम्भीभूताऽवदम्—''इदं सत्यं माया वा? प्रतिमुहूर्त्तं यमहं स्वप्नतिविम्बममन्ये स: किं सखा श्रीकृष्ण:? एकदा तु मया सिद्धान्तितं यदर्जुन: प्रत्यागतोऽरण्येष्वात्मगोपनेन भ्रमति। इदं मत् भीमसेनादय: श्रुत्वा मम च परिहासं चक्रु:। जागरणेऽहं तत्स्वप्रं पश्यामीति ते चोचु:। वस्तुतो मद्भिन्नो न कोऽपि द्रष्टुमर्जुनच्छायां समर्थ आसीत्।’’
मम चकितत्वभावं लक्ष्यीकृत्य सत्यभामा वक्तुमारेभे—''कृष्णे! त्वमज्ञातकृष्णलीलेवैवं वदसि! तव सखाऽस्मान् गौणीकृत्य बन्धुपत्न्या: कुशलाय पञ्चवर्षाणि वदरिकाश्रमे वसतिं चक्रे। तवार्जुनविरहरोगमुपशमयितुमस्मान् विरहानलेन भृशं ददाह।’’
अहं सव्यथितस्वरमुक्तवती—''सखा वदरिकाश्रमे निवसतीति न वयं ज्ञातवन्त:। सख्याऽपि न ज्ञापितम्। तेन सर्वेषामर्जुनविरहदु:खमुपाशमिष्यत्।’’
श्रीकृष्ण: किञ्चिदुदासीनस्वरेणाब्रवीत्—''ज्ञापयितुमसकृत् प्रयास: कृतो मया। प्रतिवारं त्वं मामर्जुनं मत्वा भ्रान्ताऽभू:। अन्त्ये पत्रमेकं विलिख्य कुबेरसरोवरात् सुगन्धिपद्मपुष्पमेकं चित्वा तत्कलिकासु पत्रं तत् प्रेषितवान्। अथ च तत् पुष्पं विलोक्यार्जुनाय तत्पुष्पशतेन त्वं मालां गन्थिष्यसीति ऐच्छ:। मम तु यत्नेन रचितं पत्रमपठितं बभूव।’’
सत्यभामा धीरस्वरेण कृष्णं तर्जयन्त्युवाच—''अभिप्रायोऽयं स्पष्टो सम्प्रेष्य यत्त्वया कृष्णायै प्रेमपत्रं लिखितमिति! सखायं स्वर्गराज्ये सम्प्रेष्य तत्पत्न्यै प्रेमपत्त्ररचना किं त्वया शोभनीया?’’
श्रीकृष्ण: किञ्चिदप्रस्तुत इवाभाषत—''मा मामन्यथा चिन्तय सत्ये! तदेकं सामान्यं शुभेच्छापत्रमासीत्।’’
सत्यभामाऽभिमानेन मुखं मलिनीकृत्याह—''त्वया साधारणं शुभेच्छापत्रं केन रूपेण लिख्यते, तदहं सम्यग् जानामि। पृथिव्यां प्रथम: प्रेमपत्रविनिमयस्तव रुक्मिण्याश्च मध्येऽभूदिति संसारे को न वेत्ति? प्रेमपत्ररचनायां त्वं खलु पृथिवीतिहासे प्रथम: पुरुष: प्रसिद्ध:। सामान्यं पत्रं चेत्तत् कमलकलिकासु सङ्गोप्य कृष्णायै प्रेषितं कस्मात् कारणात्?’’
कथोपकथनविनिमयेनानेनाहं लज्जया सङ्कोचेन च मलिना। शिशोरिव सत्यभामाया: कोऽयं सन्देह:, कोऽयमभिमानश्च? सा किमद्यापि स्वपतिं न वेत्ति? यदि वा तस्या: कोऽपि सन्देहस्तर्हि सर्वेषां समक्षं पत्युर्दौर्बल्यप्रकाशनं तया किमुचितम्?
श्रीकृष्ण: साभिनयाञ्जलि बभाषे—''व्यतीताय मां क्षमस्व। पत्रे यदस्तु नाम, तत्तु कृष्णया न पठितमिति तद्विषये मन्थनमेतावत् किमर्थम्? अहं तु न कृष्णाया: प्रेमास्पदतायोग्य इति प्रमाणितं तया।’’
दम्पत्यो: परस्परपरिहासरसे प्रविशन्नर्जुनो हसन्नाह—''अलं चिन्तया सखे! त्वत्प्रेरितं प्रेमपत्रमुचितस्थानं प्राप्तम्। अद्यापि कृष्णया तत् सुरभिपुष्पं स्वप्रियद्रव्येषु सञ्चितमस्ति। मम स्वर्गराज्यात् प्रत्यावर्तनात् परं तद् दर्शयन्ती समाघ्राय च तत्कलिकासु कृष्णसुरभिमनुभवति। तत्कारणात् तत् पुष्पमद्याप्यतियत्नेन सञ्चितम्। त्वल्लिखितं पत्रं यदि सम्प्रति तत्र सन्निहितमस्ति, तर्हि पठित्वा विमृशामो यत्तत् कस्यां कोटावन्तर्भवितुमर्हतीति।’’
श्रीकृष्णोऽर्जुनकर्णे शनैरुवाच—''एको मेऽनुरोधो यद् भीमाय मा दर्शय तत्। स पत्रस्य गभीरं मर्म नावगमिष्यतीति जानामि। क्षणेनार्थादनर्थमुद्घाट्य गदाप्रहारैर्मां चूर्णयिष्यति।’’
तदानीं भीमसेनो दूर उपविश्य सत्यभामाऽऽनीतानि मिष्टान्नानि खादति स्म। नकुलसहदेवौ वस्तुभारानादायाऽऽयातैर्यादवै: सहाऽऽलपताम्। मुनिभि: सह शास्त्रचर्च्चार्थं युधिष्ठिर आश्रमं गत:। अर्जुनो हसन्नवादीत्—''सखे! निश्चिन्तो भव यन्मदतिरिक्तो न कोऽपि ज्ञातुमिदं प्रभविष्यति। कस्मै निवेदयिष्यामि यन्मम प्राणेभ्योऽपि प्रियतर: सखा मदनुपस्थितौ मम प्राणप्रियायै पत्न्यै प्रेमपत्रं लिलेखेति। लज्जेयं तु ममैव।’’
श्रीकृष्णो मां विलोक्य मृदु हसन्नब्रवीत्—''इदं हि मे सौभाग्यं यदद्यापि कृष्णया तत् कमलं महता यत्नेन सञ्चितमिति, मम सुरभिं चानुभवतीति। इदं च मे दौर्भाग्यं यद् रुक्मिण्या मे प्रथमप्रेमपत्रं न सञ्चितम्। एतेन सत्यभामा सहसा तदुक्तमाकृष्य बलादिवाभाषत—अस्यायमभिप्रायो यद् भवता कृष्णायै प्रेमपत्रं प्रेषितं यत्तु भवान् स्वयं स्वीकरोति।’’
अर्जुनो हसन् जगाद—''सख्यु: प्रेमपत्रं हि कानने पत्रपुष्पमृत्तिकानदीपशुपक्षिमनुष्यादिषु परस्परं प्रेमनिर्झरिणीप्रवाहक्षमम्। तस्य प्रेमपत्ररचनां विना स्वर्णवर्णकमलानां कृते एतादृश: कलहो नाभविष्यत्, न चार्यार्येतरसमन्वयकार्यशुभारम्भोऽभविष्यत्। अत: सख्यु: प्रेमजनितोऽपराध: क्षमणीय:। बृहत्तरस्वार्थपूर्त्तये क्षुद्रतरस्वार्थत्यागो ननु सख्युर्जीवनादर्श एव।’’
अर्जुनस्याकलुषहृदयानन्देन निर्मलपरिहासेनाहमाश्चर्यान्विता जाता। द्वयो: सख्यो: परस्परं समन्वयस्य प्रीतिबन्धनस्य च न काऽपि तुलना, न संज्ञा, नापि परिभाषा मम गोचरीभूता बभूव। अन्यथा तथ्येन वा परिहासेन वा स्वपत्नीनिकटे बन्धो: प्रेमपत्रप्रेषणं कथमेतावता निर्मलहृदयेनार्जुन: स्वीकुर्यात्?
मध्याह्नभोजनात् परं सर्वे विश्रमन्ति। अहं तु कम्पितोल्लसिता च सौगन्धिकं सहस्रदलकमलं तदुद्घाटितवती। वस्तुत: दले दले सख्युरजरहस्तस्वाक्षराणि विद्योतन्ते। परमावेगेन दलं दलमुद्घाट्य पत्रस्यापठम्—
प्रियसखि!
त्वदर्थमहमोङ्कार:, य आत्मानं स्पृशति, ऊर्ध्वमुद्गच्छति, अनन्तनीलिम्नि प्रविशति, विश्वब्रह्माण्डेषु व्याप्नोति, सृष्टिस्थितिप्रलयस्वरेषु च निलीयते। सखि! सृष्टिस्थितिप्रलयाभ्यन्तरे आवयोर्बन्धनमविच्छेद्यमलङ्घ्यम्। कमलमिदं पश्य। आकाशसूर्याय जले कमलिन्या एकान्तप्रतीक्षा। साऽऽकाशसूर्यं जले लभते। जले सूर्य: प्रतिविम्बितो भवति। तत्प्रतिविम्बहृदि नलिनीदलानि निपतन्ति। इयं हि तज्जीवनस्य सार्थकता। अहमस्मि—तव हृदये प्रतिविम्बितो भवामि—मम प्रतिविम्बं मदभिन्नं यो न जानाति, स मां न लभते। यो मां लभते, मम प्रतिविम्बं तस्मिन्नविरतं दृश्यते—
सखि, यस्ते प्रभातीमन्त्रस्यौङ्कार:, सान्ध्यारात्रिकझङ्कारश्च, स एवाहम्। अहं निरन्तरं ते सविधेऽस्मि—कुतस्ते भयम्?
पत्रं पाठं पाठं स्वयमहं कमलिनी जाता। कृष्णप्रेमविशालतायामात्मानं समर्प्य स्वमस्तकस्य केतकीदलेष्वधररागेण प्रीतिप्रत्युत्तरमलिखम्—
''हृदयेश्वर! सखे!
त्वदर्थमहमेकमुपवनम्। मयि पुष्पाणि विकसन्ति। किमर्थं विकसन्तीति न जाने। विकसितं पुष्पं दिवसे निपतति, तदपि किमर्थं न जाने। परन्तु एतावदेव जानामि यत् पुष्पं यदर्थं विकसति, तदर्थमेव निपतति। अत: विकसितपुष्पस्य सार्थकता, निपतितपुष्पस्य च व्यथा एकस्मायेव समर्पिते। स एकस्त्वमेव, त्वयि यमहमन्विषामि, स न त्वद्भिन्न:। तस्मात् त्वमेव मे कृष्णस्त्वं चार्जुन:, त्वमपि विश्वमय:, आशाप्रत्याशाभ्यामूर्ध्वे त्वमेव मे सखा। त्वं मदीयो वा न वा, परन्तु अहं त्वदीया—।’’
केतकीपत्रं प्रभञ्जनप्रवाहितं मत्करात् तच्चरणे निपतितम्। सा पत्रमुत्थाय पठन्मां मृदुहसेन रञ्जितवान्। तत्पदयो: स्थिरदृष्टिरहं चकिताऽपश्यम् यत् य: पत्रं पठति स मे पतिरर्जुन:, अथ च पत्रं तद् कृष्णायोद्दिष्टम्। अर्जुनस्य पृष्ठतो दृश्यते सख्युर्हास्यललितं मुखम्। अर्जुनेन तत्पठनं न समाप्तम्। अत्रान्तरे तु सख्या तदात्मस्थीकृतम्। सखोवाच—''सखे! अन्यस्य पत्रमपठनीयम्। पत्रमिदं तु मे लिखितं कृष्णया।’’
''किन्तु पत्रं यन्मच्चरण आपतितम्!’’—अर्जुन आह। सखा हसन्नवादीत्—''अस्तु पत्रं तवैव, किन्तु तदीयभाषाभावौ मदीयौ। पठनात् पूर्वं तन्मयाऽऽत्मस्थीकृतम्।’’
''कथम्?’’—अर्जुन: पप्रच्छ।
—''अयमेवावयोर्मिथो भेद:। त्वं यत् स्थूलरूपेण गृह्णासि, तदहं तु सूक्ष्मानुभवेन। द्रौपदी तवैव, परन्तु तस्या देहातीता सत्ता मम। अयं निर्णयस्तु पूर्वमावयोरेव निष्पन्न:। अद्य तदर्थं द्वन्द्व: कुत:?’’
साञ्जलिरर्जुनोऽब्रवीत्—''मनुष्य: सर्वं जानन्नपि अज्ञान इव कार्यं कुरुते। इयं तु संसारमाया। वयं जानीमो यत् पाण्डवा: कृष्णस्य, संसारोऽयं कृष्णस्य, कृष्णाऽपि कृष्णस्य। तथापि मायया मध्ये मध्ये कृष्णाकारणात् कृष्णायेर्ष्यामि।’’
श्रीकृष्ण: सस्मितं जगाद—''भावविवर्तनेन जीवने माधुर्यमाविर्भवति। दाम्पत्यजीवने मान इवेर्ष्याऽपि मधुचक्रं सृजति। अत: दाम्पत्ये वां मधुचक्रसर्जनं विना मे उद्देश्यान्तरं नास्ति। सखे! मयि विश्वसिहि यदहं युवयोर्मधुचक्रं केवलम्।’’
कृष्णार्जुनौ मे नयनाभ्यामेकाकारावेकरूपौ च प्रतीयेते स्म। अहं विह्वलिता तौ निर्निमेषदृष्ट्याऽपश्यम्।