(३१)
भाद्रपदकृष्णाष्टमी। अद्य सख्यु: कृष्णस्य जन्माष्टमी। द्वारकायां महोत्सव: स्यात्। माता कुन्ती च कृष्णजन्मतिथिं साडम्बरं पालयति। अक्षयपात्रे नानासुमिष्टभोजनानि निर्माय काम्यकवने, पशुपक्षिष्वपि वितरितवत्यहम्। कदाचित् कोऽप्यतिथिरागच्छेत्, अत: सायं यावत् प्रतीक्षितवती। अङ्क उपावेश्य कम्बुजम्बुभ्यां मिष्टान्नं भोजितवती। तौ सम्प्रति सुस्थौ वर्धेतेऽनुदिनम्। नानाखाद्यान्यपि शनै: शनै: खादत:। तयोर्भोजनात् परं हठान्मनस्यापतित: सखा। सखाऽद्य चन्दनचर्च्चितो वनमालाविभूषितोऽपूर्वसुन्दरो दृश्येत। देवकीवसुदेवौ परमानन्दितौ मिष्टान्नं वितरेताम्। आनन्दोत्सवमध्ये सखाऽस्मान् विस्मरेत्। क्व द्वारकाधिपति: पुरुषोत्तम: श्रीकृष्ण:, क्व हृतराज्या अरण्यवासिन: पाण्डवास्तत्पत्नी द्रौपदी च!
वनवासकाले मध्ये मध्ये आगत्य युष्माभि: सह मिलिष्यामीति प्रस्थानबेलायां प्रतिश्रुतिं प्रादात् सखा। परन्तु अद्यावधि तु सकृदपि नागत:! अद्य तज्जन्मतिथौ तत्स्मृति: कथं मामस्थिरीकुरुते, न जाने। तत्कमनीयं रूपं नृत्यति मुहुर्मुहु: स्मृतिपटे। मत्प्रस्तुते खाद्ये सख्युर्यावती रुचि:, तदर्थं भोजननिर्माणे मम तावती श्रद्धा। काम्यकवनेऽस्माकमागमनात् परमनेकेऽतिथय: समागता:। अक्षयपात्रकरुणया तेभ्य: पूर्णाहारं भोजयन्ती धन्याऽहम्। अद्यापि बहव आप्यायिता मिष्टान्नभोजनै: प्रस्थिता:। किन्तु तथापि मे मनसि प्रतीयतेऽपूर्णता। हृदयं च न तृप्तम्। मनोऽन्तराले कोऽपि यथा वदति—''अतिथिरायास्यति, परमातिथे:शुभागमनं भविष्यति—निश्चयेनागमिष्यति।’’
निशा व्यतीयते क्रमश:। अहमभुक्ता। अर्जुन उवाच—''प्रतीक्षा पुन: किमर्थं कृष्णे! एतावत्यां रात्रौ न कोऽप्यतिथिरागमिष्यति। अतिक्रान्तोऽतिथिसमागमसमय:। त्वं तावदद्धि। समग्नो दिवस उपवासेन व्यतीत:। अरण्यस्यास्य साधुसंन्यासिन:, शबरवसतेर्बालवृद्धवनिता:, पशुपक्षिण:, कीटपतङ्गाश्च सर्वे सादरं भोजितास्त्वया। पुन: प्रतीक्षसे कुत:?’’
अहं दृढकण्ठेनावोचम्—''मनो मे प्रेरयति यत् सखाऽऽयास्यत्यवश्यमिति।’’
—''अस्मिन्नसमये?’’
—''प्रत्येकं समय: सख्यु: शुभागमनसमय:। किमेतत् त्वं न जानासि?’’ अर्जुनो मे करौ सादरमस्पृशत्। सस्मितं चाह—''किं सखायं प्रति मदपेक्षया तेऽधिक: प्रेमा, कृष्णे?’’
''सोऽयं मे प्रश्नस्तुभ्यं स्याच्चेत्—?’’
—''आमित्युत्तरिष्यामि। सखा श्रीकृष्णो मे प्रिय:, प्रियतर:, प्रियतमश्च।’’
—''अहमप्येतदुत्तरिष्यामि। किन्तु, सख्यै प्रेम्ण: न काऽपि संज्ञा, सीमा, परिसीमा, पार्थिवतुलना वा मद्गोचरतायामस्ति।’’
अर्जुन: पुन: सादरमवादीत्—''कृष्णे! सखायं प्रति तव प्रेमकारणादहं सख्यै नेर्ष्यामि, परन्तु तुभ्यम्। अहं बिभेमि यत् प्रेमपराकाष्ठया त्वं कदाचिन्मत्तोऽधिकतरा, सख्युश्च प्रियतरा स्या इति।’’
अहं हसन्त्यभाषे—''आर्यपुत्र! अहं त्वयि, त्वं च मय्यसि। आवयो: कोऽपि सख्यु: परमप्रियतरोऽपि चेन्नावयो: कस्यापि काचित् क्षति:। एकस्य तत्प्रियतरत्वेऽन्यस्य लाभो हि लाभ एव।’’
एतावताऽर्जुनो रसिकतां परित्यज्यानुरुद्धवान् मां भोजनाय। तथापि मे मनसि संशय:। यदि सखा समागमिष्यति, तर्हि किं तस्मै भोजयिष्यामि?
धनञ्जयोऽभयं ददौ। स उवाद—''यदि सखाऽऽगमिष्यति, अवश्यं स कृतभोजन आगच्छेत्। विशेषतोऽद्य तज्जन्मदिवसे। द्वारकाधिपते: सर्वशक्तिमत: श्रीकृष्णस्य किं खाद्याभावो यत् स खादितुमिह काम्यकवने रात्रावागच्छेत्! यदि कृष्णं भोजयितुं त इयतीच्छा, तर्हि तत्कृते यद्यत् खाद्यं सुरक्षितं, तत्तत्सर्वं मह्यं परिवेषय। अहं यद्यद् गृह्णामि तत्तत् प्रथमं सख्यै समर्पयामि। किं बहुना, मम प्रश्वासोऽपि तस्मायुत्सर्गीकृत:। त्वमपि ग्रहणात् पूर्वं मया तस्मै समर्पिता। अहं यदश्रामि, तत्स्वादं सखाऽनुभवति। यदहमनुभवामि, तत् सोऽप्यनुभवति। मयि तं द्रष्टुं प्रयतिष्यमाणा तमवश्यमाप्स्यसि। अत: परिवेषय मत्पात्रेऽवशिष्टम्। न जाने, पुनरद्य भोजनात् परमपि मे क्षुधा जागर्त्ति कथम्?’’
वस्तुत एतावत्यां निशायां सखायं प्रतीक्ष्योपवेशनस्य न किमपि तात्पर्यम्। अहं जानामि—श्रीकृष्णार्जुनौ भिन्नशरीरधारिणावपि एकात्मानौ, अभिन्नहृदयौ। अतियत्नेन, परमश्रद्धया, हृदयस्य कोमलममतास्पर्शेण, पवित्रप्रेम्णो मधुरतया चावशिष्टं खाद्यं पर्यवेषयम् फाल्गुनपात्रे। आदौ समर्प्य श्रीकृष्णाय स तत् जग्राह। तदुच्छिष्टमास्वाद्याहं परमशान्तिमलभे, अक्षयपात्रं च परिष्कृत्य यथास्थानं संस्थापितवती। कृष्णं स्मरन्ती शय्यामभजम्।
न जानेऽहं जागृता निद्रिता वा—अशृण्वम् मोहनवंशीस्वनं हृदये, अपश्यम् चन्दनचर्च्चित: पीतवसन: श्रीकृष्णो मत्सम्मुखे दण्डायमान: साञ्जलि: किमपि याचते। वदति च—''सखि! कण्ठे मे तृष्णाऽशेषा, तन्निवारणाय च सुमधुरं जलं पर्याप्तं नैव स्यात्। अत: वृष्टिं वात्यां चाविगणय्य बहुदूरारण्यपथमतिक्रम्यात्र प्रधावित:। जानामि काम्यकवने त्वममृतमयी जननी सिद्धा। तवामृतनिर्झरिण्या जलस्थलाकाशजीवजन्तुषु कीटपतङ्गेषु च न कोऽप्यभुक्त:। कम्बुजम्ब्वोस्त्वं सम्प्रति जीवनदात्री। तव हृदयामृते निहिताऽस्ति सञ्जीवनी सुधा। कल्याणि! अद्य जन्मतिथौ मे कण्ठेऽमृतपिपासा बलीयसी। तां निवार्य धन्यं कुरु माम्।’’
अहमपूर्वरोमाञ्चेनोल्लसिता। मदन्तरालेऽन्वभवं मातुर्यशोदाया अस्तित्वम्। काऽहम्? कृष्णा यशोदा वा? अपश्यम्—मम सकलं द्वन्द्वमवसाय मत्सम्मुखे बालगोपाल: श्रीकृष्ण: साञ्जलिस्तिष्ठति। तन्मुखमण्डले विश्वस्य सर्वा पवित्रताऽपूर्वशोभामयी विकसति। व्रजे प्रसिद्धो नवनीतचौर: श्रीकृष्णो रोदिति मदमृताय—मम वक्षसोऽमृतं निस्सरत्यनायासम्—अञ्जलिना पिबति कृष्णस्तत्—मदपत्यरूपेण कृष्ण आगतो मदन्तिके। जननीहृदयव्यथां दूरीचकार माममृतमयीं कुर्वन्। अहं गभीरवात्सल्येनाकारयामि कृष्ण! कृष्ण! कृष्ण! . . . . . . .।
फाल्गुनो मां संस्पृश्य मे निद्रां बभञ्ज। उवाच च—''स्वप्नेऽपि 'कृष्णकृष्ण’ इति शब्दापयन्ती प्रमत्ताायसे?’’ अहं विह्वलितावोचम्—''न कृष्णमपितु आकारयाम्यहं मे पुत्रान्। मम पञ्च पुत्रा: कृष्णवेशेनागता अमृतं याचमाना:। तन्द्राविजडितनेत्राभ्यामहं कृष्णे प्रत्यक्षीकृतवती स्वापत्यानि।’’ स्वप्नेऽस्तु नाम, वक्षोऽमृतप्रदानेन पुत्रमुखेभ्यो हृदयं मे परिपूर्णम्। वास्तविकामृतप्रवाहेनापि मे वक्षोवसनं संसिक्तं बभूव।
मम स्वप्नवृत्तान्तं निशम्यार्जुन उवाद—''त्वदभ्यन्तरोदारसकरुणमातृत्वेन श्रीकृष्णमुखे, समग्रसंसारशिशुमुखेषु चामृतं प्रवाहितम्। निद्रायां सुप्ताऽपि त्वं संसारस्य शिशूनां क्षुधामवगच्छसि। तव महत्त्वं निरुपमम्।’’
आवयो: कथोपकथनमसमाप्तम्, वास्तविक: सखा पुरस्तादुपस्थित:।
कृष्णपक्षाष्टमीनिशा। घोरोऽन्धकार:। भाद्रपदाकाशस्याविरामा वृष्टि:। अथ च हृतराज्यानां पाण्डवानां वनवासिनां कुटीरे नीलशिख: प्रदीप इव समुपस्थित: परमपुरुष: सखा कृष्ण:!
अर्जुन: सविस्मयरोमाञ्चं पप्रच्छ—''सखे! अस्मिन् घोरे दुर्दिने, अस्मिन्नसमये च द्वारकापुरीं विहायास्मिन्निविडेऽरण्ये कथं प्राविश:?’’
श्रीकृष्ण: समृदुमधुरस्मितमुवाच—''य एवम्भूते दुर्दिने एकदा मातुर्निर्भरगर्भाशयं सन्त्यज्य पृथिव्यामवततार, तस्य पुन: समयासमयज्ञानं कुत:? किं वा स्थानं तस्यागम्यम्?’’
किन्तु तव हठादागमनस्य किमुद्देश्यम्? द्वारकापुर्यां सर्वं कुशलं नु? पुत्राश्च सर्वे कुशलिनो नु?—अर्जुनोऽपृच्छत्।
श्रीकृष्ण: शान्त्याऽवादीत्—''सर्वे सुखिन: सन्ति। किन्तु ममागमनस्योद्देश्यं पृथक्। अद्य हठात् कृष्णाया: स्वहस्तपाकमस्मरम्। अचिन्तयम्—अद्य मे जन्मतिथौ तयाऽनेकानि सुमिष्टभोजनानि प्रस्तुतानि स्यु:। लोभ उदितो मनसि। अत: समागत:। आदिवसात् कृष्णाप्रस्तुतभोजनस्मरणेन सर्वमन्यत् प्रतीयायास्वादुकरम्। अधुनाप्यहमभुक्त:। मनसि कोऽपि यथाऽस्मारयत् कृष्णा मां प्रतीक्षत इति। अत: प्रबलं बातमुपेक्ष्यात्रायात:। पश्याहमापादमस्तकं वृष्टिसिक्त:।’’
सख्यु: श्रीशरीरपीतवसनं पूर्णत: संसिक्तम्। आकुञ्चितकेशराशेर्निपतन्ति जलबिन्दव:। अर्जुन: सहसा तस्य परिचारव्यस्तो बभूव। स्वशुष्कं वसनं तस्य परिधानायादात्। सख्यु: पादौ प्रक्षाल्य शरीरात् केशेभ्यश्च वर्षाजलबिन्दून् प्रोञ्छितवान्। अर्जुनेन स्वकर्तव्यं क्रमश: सम्पादितं, परन्त्वहमकर्तव्योपविष्टा। निशार्धेऽहं सख्युर्भोजनाय किं प्रस्तोष्यामि? मम भोजनात् परमक्षयपात्रं तु शून्यम्। अहं कदाचिद् विपाट्य स्ववक्षो हृदयशोणितं सख्यु: क्षुधानिवारणाय परिवेषयितुं शक्नुयाम्, न तु सम्प्रति भोजनं मुष्टिमात्रं परिवेषयितुं समर्था। अर्जुनप्रेरणयाऽखादमिति धिक्कृतवती आत्मानम्। आदिवसादुपवासोऽभ्यासरूपेण मे परिणत:। रात्रावभुक्त्वा शयनेन न काऽपि क्षतिरासीत्। मम हस्तपाकमत्तुं प्रबलां वृष्टिमतिक्रम्य यो धावन्नागत:, तं केन तोषयामि?
अर्जुनस्य वस्त्रं परिधाय सखा तद्वद् दृश्यते। दिव्यासनेनोपविश्याज्ञान इव ब्रूते—''सखि! विलम्ब: कुत:? क्षुधया मे प्राणा: प्रस्थातुमुद्यता:—।’’ साश्रुनेत्राभ्यामहं केवलं सखायं पश्यामि। न किमप्युत्तरामि। क्रुध्यामि मनसाऽर्जुनाय सख्यै च। एतावत्यां रात्रौ यदि कोऽप्यतिथिरायाति, तर्हि निद्राया उत्थाप्य तस्मै भोजनपरिवेषणाय प्रेरणा किं सौजन्यम्? पुन: सखाऽपि जानाति सम्यग् यदक्षयपात्रस्य शून्यताया: परं याज्ञसेन्या अन्नपूर्णाशक्तिर्लुप्यते। सर्वं जानत: सख्युर्यदि मामपमानयितुमिच्छा, तर्हि किमुत्तरिष्यामि?
फाल्गुनो मे वेदनामवजगाम। चिन्तित: सन्नुवाच—''सखे! रात्रावेतावत्यां कृष्णापमानतत्परो भवान् कथम्? तज्जीवने यद्यज्जातं तेन किं मनो भवतो न तृप्तम्? तवाज्ञाने किं संसारे सम्पद्यते...........?’’
सखाऽर्जुनवचनमश्रुत्वेवोवाच—''किमद्य मम कृते चण्डमात्रमपि नावशिष्टम्? सखि! अचिन्तयम्—मम जन्मदिवसे तावन्मात्रमवशिष्टं स्यादिति। सर्वं भुक्तमिति नाहं विश्वसिमि।’’
अहं साभिमानमुक्तवती—''अभुक्तोऽतिथिरभिशपति। यद् दास्यसि, सादरं तत् स्वीकरिष्यामि। अभिशप्तजीवनाऽभिशापात् किं बिभीयात्?’’
सखा मृदु हसन्नुवाच—''तवाभिशप्तं जीवनमिति कोऽभिदध्यात्? दर्शय, दर्शय ते हस्तम्। अहं तद्रेखा विलोक्य भविष्यगणनां करिष्यामि।’’
मम किमपि कथनात् पूर्वं सखा मे पाणिं पाणिनाऽस्पृशत्। दु:खेनाभिमानेन चाहं स्वहस्तमाक्षिपामि, किन्तु धनञ्जयो मे कर्णेऽभाषत—''सख्यै दर्शय स्वहस्तं कृष्णे! तस्य गणनाऽभ्रान्ता। अन्यच्च, तव हस्तं दर्शं दर्शं स: क्षुधां विस्मरिष्यति, अतिथेरभिशापश्च नापतिष्यति।’’
पाणिर्मे कृष्णस्य पाणावस्ति। ममाङ्गुल्यग्रभागान् परीक्षते सखा। हठादपश्यम्—अङ्गुल्यग्रभागे मे कणमेकमन्नस्य सन्निहितमस्ति। क्लान्त्या त्वरया हस्तं प्रक्षाल्यास्वपम्। तच्च तत्र सन्निहितं शुष्कं च। उच्छिष्टहस्तं सख्युर्हस्तात् परावर्तयामि, सखा सद्योऽन्नकणं सङ्गृह्य प्रसादमिव स्वमुखे निपातितवान्।
अहं तटस्था—''किमिदं क्रियते—ममोच्छिष्टं गृहीत्वा मे पापभारं वर्धयसि’’—इत्युक्त्वा निवारयितुं तमिच्छामि। किन्तु सखा परमतृप्त्योदरे स्वकरं भ्रामयति। हसँश्च ब्रूते—''अरे, सखीपाकस्य कणिकया यदि भोजनमेतावद् गुरु, तर्हि अधिकेनाजीर्णतारोगग्रस्तोऽभविष्यम्। इदं मे सुखाय यदहं भोजनसमाप्ते: परं समागत:।’’
ममासावधानताकारणादहमात्मानं धिक्करोमि, किन्तु सखा परमतृप्त्या दिवसे मत्प्रस्तुतपाकानामेकैकश: स्वादगुणान् गायति स्म। अहं स्तम्भीभूता सख्युरलौकिकशक्तिमकलयम्। मम पापपुण्यधर्माधर्मभावनास्तदद्भुतशक्त्यैकाकारतां भेजु:। अस्मान् विश्रामाय प्रेरयन् सखा विश्रामं जगाम, प्रभातात् पूर्वं च प्रस्थित:।
परेद्यु: सख्युर्नाटकीयप्रवेशप्रस्थानरहस्यमुद्घाटितम्। नारदमहर्षि: समागत:, सख्युर्बन्धुवात्सल्यं भूय: प्रशंसितवाँश्च। मित्राणां दुर्वाससो ब्रह्माभिशापाद्रक्षणाय सखा घोरवर्षणमुखररात्रावगम्यारण्ये प्रविश्य ममोच्छिष्टं जग्राह।
दुर्योधनस्य सेवया सन्तुष्टो दुर्वासास्तदनुरोधेन दशसहस्रशिष्यै: सह ह्यो निशार्धे काम्यकवने प्रविवेश। प्रभातात् पूर्वमक्षयपात्रं शून्यमिति विज्ञाय स पाण्डवातिथ्यं कामयते, दशसहस्रशिष्याणां भोजनायोजनाय च पाण्डवानादिशेत्। पाण्डवास्तु तथा कर्तुमसमर्था दुर्वाससोऽभिशापेन भस्मीभूता: स्यु:।
दुर्योधनो जानाति यन्निशार्धात् परमक्षयपात्रं शून्यतां गच्छति, ममान्नदात्री शक्तिश्च लुप्यते। अत: स: समयो दुर्वाससोऽभिशापाय प्रकृष्ट:। परन्तु आपद्बान्धव: कृष्णो येषां सखा, तेषां दुर्वासश्शापमुक्ति: किमसम्भवा? मम नखकोणोच्छिष्टकणभक्षणेन कृष्णस्य विश्वात्मा तृप्तो बभूव। विश्वात्मनस्तृप्त्या दुर्वाससस्तस्य शिष्याणां चात्मा सन्तृप्तो बभूव। अरण्ये प्रविशन्तस्ते सर्वे उदरक्षुधानिवृत्तिपूर्वकमाकण्ठभक्षणमन्वभवन्। कृष्णस्येमां मायां विज्ञाय च सशिष्यवर्गो दुर्वासा: प्रतिजगाम लज्जया।
नारदमहर्षेरिमं वृत्तान्तं निशम्याहं सानन्दाऽश्रुपातमकरवम्। कृष्णस्य ममोच्छिष्टभक्षणं मत्पापाय भूयतां नाम, मम पतयो मुन्यभिशापान्मुक्ता इति विदित्वा कृष्णपदतले पुनरेकवारमात्मानमहं समर्पितवती।
(३२)
अर्जुनं निहनिष्यतीति कवचकुण्डलधारिण: कर्णस्य प्रतिज्ञा। कवचकुण्डलयुक्त: स जातोऽपराजेय एव। अतो दुर्वाससोऽभिशापेन पाण्डवनिधननीतिवैफल्यात् परं दुर्योधन: कर्णस्य प्रतिज्ञां पुनरपि स्मारितवान्। कर्णो गुरुगम्भीरकण्ठेनोवाच— ''पाण्डवनिधनस्य प्रथमं सोपानमर्जुननिधनमेव। पृथिव्यां न काऽपि शक्तिस्तं मृत्यो: रक्षितुं न शक्ष्यति। अर्जुनहन्तृत्वेन मे जन्म। स्वयं भगवानपि तं मत्पराक्रमात् न समर्थो जीवयितुम्। भगवान् यदि सर्वं कर्त्तुं समर्थस्तर्हि प्रत्येकं मनुष्यस्यैतावन्ति कथमङ्गानि, मस्तिष्कं च?’’,
वीरकर्णस्य प्रतिज्ञा वज्रनिनादगतिरिवार्यावर्त्ते चतुर्दिशं मुहुर्व्याप्रोत्। माता कुन्ती दु:खेन म्रियमाणा बभूव। कुन्त्या: कातरहृदयविलाप: कृष्णकर्णे आपपात। कृष्णनिकटे दु:खनिवेदनात् परं चिन्ता नावशिष्यते। मया सर्वं दु:खमपि तस्मै पूर्वं समर्पितम्। अरण्यवासिन: पाण्डवा: कर्णप्रतिज्ञया चिन्तिताश्च बभूवु:।
हठान्महर्षिनारद आगत्य समाचारं प्रादाद्यत् कर्ण: सम्प्रति न कवचकुण्डलयुक्त:, अतस्तस्य जीवनं सङ्कटापन्नम्, न तु धनञ्जयस्य। अर्जुनपितेन्द्रदेव: कर्णस्य प्रतिज्ञां जानन् ब्राह्मणवेशेनागत्य दानरूपेण कर्णस्य कवचकुण्डलानि ययाचे। तान्येव कर्णस्य शक्तय:। सर्वं विज्ञाय दातृत्वाहङ्कारेण कर्ण: स्वशक्तिं सौन्दर्यं च देवराजाय कथमकुण्ठचित्तं ददौ?
अर्जुनजीवनं निष्कण्टकमिति निश्चिन्ताऽहम्। किन्तु हृदयस्य निभृतकोणे मे करुणस्वर: कश्चिदुदियाय। अहह, कर्णो यद्यनाथो नाभविष्यत्, तस्य यदि पितृपिरचयोऽभविष्यत्, तर्हि तस्य पिताऽपि देवराजवत् स्वपुत्ररक्षायै आगमिष्यदवश्यम्। अथ च तमसहायानाथरूपेण मृत्युमखे प्रचिक्षेप। किं माता कुन्ती विज्ञायैतत् प्रमुदिता स्यात्? कर्णो यत् तस्या धर्मपुत्र:!
नारद उवाच—''कर्णोऽपीन्द्राच्छत्रुघातिनीं शक्तिं प्रतिययाचे। अत: कर्णाय दु:खेनालम्।’’
अहं पुनरर्जुनस्य पाण्डवानां कृते चोद्विग्राऽभूवम्। कियद् विचित्रं मनुष्यमन:। कर्णस्यार्जुननाशनप्रतिज्ञयाऽहं दुश्चिन्ताग्रस्ता, कर्णस्य च कवचकुण्डलप्रदानोपाख्यानेन सहानुभूत्या व्यथातुरा। परस्तात् पुन: कर्णस्य शत्रुघातिनीशक्तिलाभात् पाण्डवानां कृतेऽहं भृशं जातोद्वेगा।
दुश्चिन्तया द्वन्द्वेन चाहं भाराक्रान्ता, सद्य: सखा समागत:, मां विलोक्य चोवाच—''कस्मै चिन्ता? कर्णायार्जुनाय वा? उभौ समकक्षयोद्धारौ, शौर्यवन्तौ, वीरपुरुषौ च। एक: कुन्तीपुत्र:, अपरश्च कुन्तीधर्मपुत्र:। अहं तु जानामि कुन्तीदृष्ट्या कर्णार्जुनौ समानौ। त्वमपि किं तौ समदृष्ट्या पश्यसि?’’
सखाऽकस्मात् कर्णमाधारीकृत्य रसिकतां प्रदर्शयिष्यतीति न मया चिन्तितम्। सद्योऽप्रस्तुतविकाराऽभूवम्। प्रायेण मुखं पाटलवर्णं बभूव। तत्तु मया सख्युर्दुष्टकटाक्षदर्पणे प्रत्यक्षीकृतम्। परस्मिन् क्षणे स्वयं प्रकृतिस्थां कृत्वाऽवोचम्—''सखे! मनुष्यस्य मन: काष्ठपाषाणादिभिस्तु न रचितम्, नारीहृदयं तु स्वभावत: कोमलम्। यस्य कृते मातुरियती ममता, सहानुभूतिश्च, स शत्रुश्चेदपि तन्मृत्युर्मे सुखाय कथमपि न स्यात्। मृत्यु: प्रायेण शत्रवे न समुचितो दण्ड:। जन्ममरणे मनुष्यानायत्ते। अत: तं भारं मनुष्य: कथं वहतु? विभेदस्य विद्वेषस्य विरागस्य च समाधानं नैव मरणम्। अत: कर्णाय मे मनसि सहानुभूति: स्वाभाविकी। अपि च, कर्णस्य शत्रुघातिनीशक्तिलाभेनार्जुनाय दुश्चिन्ता स्वाभाविकतरी।’’
सखा हसन्नुवाद—''एकदा कर्णस्त्वां नदीजलादुद्धृत्य तव त्राणकर्त्ता बभूव। अतस्तस्मै ते सहानुभूतिरवश्यम्भाविनी। अकृतज्ञता मनुष्यं पशुं कुरुते। तथापि, अर्जुनविषये मा चिन्तय। कर्ण इन्द्राल्लब्धां शत्रुघातिनीं शक्तिं सकृत् प्रयोक्तुं शक्ष्यति, तत: परं सा पुनरिन्द्रान्तिकं व्रजिष्यति। तस्या: सकृत् प्रयोगेऽपि कर्णो लक्ष्यभ्रष्टो न स्यादिति को जानातु?’’
कृष्णस्य वक्रिमाधरकुटिलहास्येनाहमाश्वस्ता। अचिन्तयम्—सति कृष्णेऽर्जुनस्य किं भयम्? परस्तादभाषे—''कदाचिदपि यदि कर्णस्य जीवनरक्षासुयोगमाप्स्यामि, तर्हि ऋणभारविमुक्ता स्याम्। किं तथा सुयोगो नायास्यति? अन्यथा, स्वजीवनविनिमयेन रक्षिष्यामि तज्जीवनम्। यत्राहं ऋणवती, तस्य मे पतय: शत्रव इति विचिन्त्य मनो ग्लायते।’’
श्रीकृष्णो मां गभीरदृशा विलोक्याह—''न न सखि! तव पतय: कर्णस्य न शत्रव:, अपितु कर्णस्तव पतीनां शत्रु:। कर्ण: स्वेच्छया पाण्डवानां परमो बन्धुर्भवेत्, परन्तु, अर्जुनं प्रति तस्यासूयाकारणात् स कौरवमित्रम्। अहङ्कारं पौरुषं मत्वा स एकदा स्वविनाशं निमन्त्रयिष्यति। यदि कदाचित् तस्य जीवनमरणे त्वत्करे समर्प्येते, तर्हि स ते दयां पदेनापसार्य मृत्युं कामयिष्यते। अहङ्कारो हि कर्णस्य परम: शत्रु:।’’
ऋणभार: कष्टदायक:, विशेषत: साहङ्कारपुरुषस्यायं मृत्योरप्यधिकतरयन्त्रणादयक:। अमन्ये, तस्मिन् दिने मे मरणं श्रेय आसीत्। तथा सति ग्लानिरद्य मां न कवलीकुर्यात्।
(३३)
पाण्डवानां परस्परं सर्वदा हस्तिनापुरराजसिंहासनप्राप्तिचर्च्चा भवति स्म। परन्तु युधिष्ठिरस्तत्र न वर्त्तते स्म। युधिष्ठिरस्येयं नीरवता मे क्नोधमापादयत्। अमन्ये—यस्यादूरदर्शितया भीमार्जुननकुलसहदेवा: महावीरा:, अहं च द्रुपदराजनन्दिनी याज्ञसेनी राज्याद् विताडिता अरण्ये इतस्ततोऽटाम:, सोऽस्यान्यायस्य प्रतिकाराय कथं न तिलमपि चिन्तयति? क्षमाशीलं हृदयमीश्वरस्यावास:। परन्तु शत्रुं पापाचारिणश्च प्रति क्षमाप्रदर्शनं नैव कथञ्चित् क्षत्रियधर्म:। केवलां मृदुतां केवलां वोग्रतां प्रकाशयन् पुरुषो नैव सुपुरुषपदवाच्य:। समयावश्यकतयोभयो: प्रकाशनं शोभनीयम्। मन्मुखादेवमुक्तिं निशम्य युधिष्ठिर: शान्त्योत्तरति—''प्रिये! भरतवंशस्य विनाशकाल: समुपस्थित:। राजपदे स्थितो दुर्योधन: क्षमामाचरितुं न शक्ष्यति। राजा यदि क्षमायायाश्रयं न प्रयच्छति, तर्हि सोऽक्षम्यापराधेन दुराचारेण च लिप्यते। तेन देशो जातिश्च ध्वंसदानवमुखे निपतत:। अत: क्षमा मया दत्ताश्रया। सत्याहिंसे च ममाश्रयभूते। यदि भरतवंशो ध्वंसात् सुरक्षितो भवेत्, तर्हि मे साधना सफला मन्तव्या। कामक्नोधलोभा नरकस्य द्वारत्रयम्। क्नोधलोभसम्मिश्रया कामनयाऽन्तिमं फलं कथञ्चिन्न लभ्यते। अतोऽस्माभि: शान्तचित्तैर्भाग्यपरिवर्तनस्य शुभ:समय: प्रतीक्षणीय:। वनवासारम्भकाले परावृत्य हस्तिनाधिकारविचार: कथम्?’’
अहं क्षुण्णा वदामि—''अप्रयासेन सुखं क्षणिकं नित्यं वा न लभ्यते। भाग्यं कर्मणा नियन्त्र्यते। कर्मणोऽनाचरणे भाग्यपरिवर्तनं कुत:? वनवासान्ते हृतं सम्मानं कथं प्रतिलप्स्यते—इति योजनां विना पाण्डवानां रक्षा सम्भवेत्?’’
युधिष्ठिर: शान्ततरस्वरेणाह—''धर्मो रक्षति रक्षित:। अतोऽहं कस्यामपि परिस्थितौ धर्मं न त्यक्ष्यामीति मे प्रतिज्ञा। त्वं विदुषी, धर्मरक्षामहत्त्वं कोऽधिकतरं त्वत्तो जानातु?’’
अहं साभिमानाश्रुनयनाऽवदम्—''सखाऽत्र प्रमाणं यत् युधिष्ठिरश्चतुरो भ्रातृन् स्वपत्नीं च त्यक्तुं शक्ष्यति, परन्तु न स्वधर्मम्। अथ च धर्मस्तं कथं रक्षतीति तस्य प्रत्यक्षोदाहरणानि—मम लाञ्छना, अस्माकमरण्यवास:, कर्णस्यार्जुननिधनाय शत्रुघातिनीशक्तिलाभश्च। पाण्डवा: कथं जीवेयुरिति प्रश्न: किं धर्मराजं कदापि विचलितं न कुरुते?’’
कृष्णस्य पुरस्तादस्माकं सञ्चलत्येवं वार्त्तालापे गुरुदेव: कृष्णद्वैपायन: समाजगाम। मां प्रबोध्योवाच—''वत्से! कृष्णे! पत्नीरूपेण पतीनां जयपराजययो:, जीवनमरणयोश्चिन्तया ते मनसि द्वन्द्वोत्पत्ति: स्वाभाविकी, युधिष्ठिरस्य सर्वं श्रुत्वाऽविचलत्वं स्वाभाविकञ्च। अतस्तव चिन्तादूरीकरणायाहमत्रागत:। कर्णेन शौर्यवता पुरुषेण सह योद्धुं पाण्डवानां पर्याप्तास्त्रशस्त्राभावाद् दुश्चिन्ताऽत्यन्तं प्रासङ्गिकी। अतो युधिष्ठिरायाद्य श्रुतिस्मृतिविद्यां प्रदास्यामि। युधिष्ठिरस्तां विद्यामर्जुनाय शिक्षयिष्यति, तया चार्जुनो विद्यया देवराजमहादेवयमराजकुबेरान् सन्तोष्य दिव्यास्त्राणि लप्स्यते। आग्नेयास्त्रविद्यालब्धे: परमर्जुनस्य कर्णशत्रुघातिनीशक्तेर्भीतिर्नैव स्यात्। याज्ञसेनि! किं त्वयापीदं सम्मतं न वा?’’
अहं नीरवसम्मतिमदाम्। श्रीकृष्णनारदव्यासदेवा: विद्यादानात् परं प्रतस्थिरे।
(३४)
फाल्गुन: प्रस्थानानुमतिं याचते। गाण्डीवं धनुरक्षयतूणीरं चादाय वीरोऽर्जुनो दिव्यास्त्रलाभाय कठोरसाधनां रचयितुं गिरिराजहिमालयं प्रस्थास्यते। प्रसन्ना: सर्वे भ्रातृर: प्रस्थानानुज्ञां प्रयच्छन्ति। किन्तु मनसि मे प्रश्न उदेति—सत्स्वपरेषु सहोदरेषु भारोऽयमर्जुनस्य कुत:? इन्द्रमहादेवयमवरुणकुबेरेभ्य: पञ्चदेवेभ्यो दिव्यास्त्रलाभाय पञ्चभ्रातृरस्तप: साधयेयु:। अर्जुनो वीरोऽस्वार्थपर उदार: शक्तिशाली च। एतस्मादेव कारणात्तस्य किं किमपि सुखं नास्ति? जीवनस्यार्धाधिक: समयो वनवासेन कठोरसाधनया च व्यतीत:। मनस्यासीत्—एतावानरण्यवासस्तस्मै प्रीतिप्रदो गीतिमुखरश्च स्यादवशिष्ट:। तेन सह विचरन्ती स्वजीवनमहं काव्यमयं करिष्यामीति। भ्रातृषु धनञ्जय: कविप्राणो भावुकश्च। तस्य हिमालयप्रस्थानात् परमरण्यवासस्य वास्तविकं कष्टं ममैवारप्स्यते। पुन: पुनर्मेऽतिप्रियं पुरुषं मत्तोऽपसारयितुं नियते: कोऽयं प्रयास:? मनसि मे दु:खमापादयितुं, पतिप्रेम्ण: पक्षपातमवगमयितुं केयमदृष्टस्य निष्ठुरता? अर्जुनो दृष्टिपथादन्तरितोऽपि न दूरीभवति हृदयपटादिति प्रायेणादृष्टं न जानाति। ज्ञात्वाऽपि एवं निष्ठुरतामवश्यं कुर्यादिति विचिन्त्य हृदयं कम्पते।
फाल्गुनस्य प्रस्थानं स्थिरचित्तेन प्रशान्तवदनेन चानुज्ञेयम्। अद्य सोऽभिमानेन हिमालययात्रां न कुरुते, अपि त्वभिलाषपूर्त्यै। सिद्धिलाभाय स दृढप्रतिज्ञ:। अहं शनैरपृच्छम्—''कदा प्रत्यावर्त्तसे? विगतवनवासकाले प्रतीक्षा द्वादशवर्षाणामासीत्। परन्त्वधुना हिमालयात् प्रत्यावर्त्तनस्य निर्दिष्ट: समयावधि: कियानिति न जानामि।’’
अर्जुन: सस्थिरशान्तस्वरं सम्बभाषे—''अज्ञातवासारम्भात्पूर्वमवश्यं प्रत्यागमिष्यामि। साधनासिद्धिविषये पूर्वं किमपि किं वक्तुं शक्नुयाम्?’’
—''तथापि?’’
—''अयं तु पञ्चदेवविषय:। पञ्चवर्षेभ्य: पूर्वं प्रत्यावर्तनं त्वसम्भवम्। अवधेराधिक्यमपि सम्भवम्। त्वं कथं शोचसि? ममानुपस्थित्याऽप्यपरे पतयस्ते निकटे सन्ति। अहमेकं गुरुभारं निवर्त्तयितुं गच्छामि। ते सम्प्रति वनपक्षिण इव चिन्तामुक्ता:। तै: सह वन्यनिर्झरिण्या इव ते समयोऽबाधसुखेन गमिष्यति। अतस्त्वदर्थं तिलमप्यहं न चिन्तयामि। अद्य विचारयामि—मयैकेन सह तव परिणयेन ते कियद् दु:खं नाभविष्यत्! पाण्डवपरिवारे समयसापेक्षमेवं कार्यमहं सम्पादयामि। अतस्तव जीवनस्याधिकतर: समयो विरहेणागमिष्यत्। परन्त्वद्य तद् भयं नास्ति। तव सुखेन कालयापनेन मम साधनायामेकग्रताऽऽयास्यति।’’
अहं सुखेन स्थास्यामि—अर्जुनविरहदु:खं चतुर्भ: पतिभिर्वस्मरिष्यामि, अबाधवननिर्झरिणीव सुखेन कालमतिवाहयिष्यामीत्यर्जुनो विचारयति—अनेन हि मे मनस्यधिकतरं दु:खमापद्यते। केन प्रकारेण स्वप्नाणानामधिष्ठातारं देवं बोधयिष्यामि यत्तस्य पतित्वस्य मदर्थं किं स्वातन्त्र्यमस्ति, यदन्येभ्यो भिन्नमनवद्यञ्च।
संसारेऽस्मिन् क: कस्य बत मनोभावं जानाति? मनसो मे सन्तापं न जानात्यर्जुन इति दु:खादतिरिक्तं किं गत्यन्तरं वा मे? यमहं प्रतिमुहूर्त्तं स्वान्तिक इच्छामि, तं विधाता वारं वारं मत्तो दूरयति। कृष्णोपस्थित्या भगवता व्यासदेवेन यन्निर्दिष्टं, तस्य सविनयं स्वीकारं विना नान्या गति:। विवाहात् परं प्रतिपदमहं सङ्ग्रामसम्मुखीना। पतीनां निरापत्तायै दुश्चिन्तया केवलं मया कालो यापित:।
अद्य पुनरर्जुनाय विनिद्ररजनीयापनवेला समुपागता मम। विचारयामि—पतिसङ्गलाभेन वनवासकष्टं लाघवं गमिष्यति, किन्तु अद्यारभ्य धनञ्जयस्य विरहेणादर्शनेन च तत्कष्टं शतगुणं भविष्यति।
फाल्गुनो मेऽश्रूच्छलितनयनयुगलं वीक्ष्योवाच—''कृष्णे! अहं गच्छामि शुभकार्याय। दिव्यास्त्रलाभात् परं प्रत्यावर्तनेन त्वं भविष्यसि हस्तिनापुरीमहाराज्ञी। कर्णाहङ्कारश्चूर्णीभविष्यति, कर्णवध एव स्यात्तवापमानप्रतिशोध:। कौरवाणां प्रत्येकं कार्यस्य कूटनीतिकारो मातुल: शकुनि:, किन्तु कर्णो मुख्य उपदेष्टा तेषाम्। त्वं निश्चिन्ता भव, कर्णस्य मद्वधोद्यमात् पूर्वं स जीवितो नैव स्यात्।’’
कर्णवधो निश्चित इति जानामि। यत्र योगेश्वर: कृष्णस्तत्र विजयोऽवश्यमित्यपि जानामि। कर्णवधाय सुचिन्तितयोजनाया: फलवत्त्वेन धर्मस्य जयो भविष्यति। न जाने, तथापि कर्णवधप्रसङ्गो मे हृदयमालोडयति। प्रायेण मातु: कुन्त्या: हृदयस्यान्धममता मातृत्वं च मां प्रभावयत:। सर्वं पुन: विधातृवशमित्यचिन्तयम् सकृत्। हसन्ती पत्यु: प्रस्थानमनुज्ञातवती। प्रस्थानकाले नारीसुलभं संशयं प्रकाश्यावदम्—''श्रूयते मया यत्त्वं वरलाभाय देवानां स्वर्गराज्यं गमिष्यसीति। तत्र रम्भोर्वशीमेनकाप्रभृतयोऽनन्तयौवना रूपवत्योऽप्सरस: सन्ति। शृणु, विगतवनवास इवास्मिन् यथा ब्रह्मचर्यं नाचर! विगतवनवासो भिन्नप्रकारक आसीत्। किन्तु साम्प्रतिको बृहत्तरोद्देश्यक:। कामना मनुष्याय क्षणिकं सुखं प्रयच्छतीति सत्यं, न तु लक्ष्यम्।’’
अर्जुनो मृदु विहस्य रसिकताच्छलेनोवाच—''किं रूपवदप्सरोभ्य ईर्ष्या जागर्त्ति?’’
—''किमीर्ष्योत्पत्तिर्न स्वाभावकी? किं नाहं नारीन पत्नीन च मानवी?’’
—''किं भवितेति को जानाति? अप्सरसां सौन्दर्यदर्शनेन महतामपि ऋषीणां तपोभङ्गो जात:। अहं सामान्यो गृहस्थपुरुष:। यदि पुन: पत्नी दूरस्था, तर्हि तस्यां परिस्थितौ पुरुषस्य दम्भ: कियान् सुदृढ इति त्वं तु सम्यक् जानासि। यदि किमप्यसम्भवं सम्भवति, तर्हि को म उपाय:?’’
अर्जुनस्य रसिकतयाऽहं क्रुद्धा। प्रज्ज्वलद्दृष्ट्या तं वीक्ष्याब्रवम्—''किं चिन्तयसि, अप्सरोभि: सह केलिसमाचारमाप्याहं प्राणान् त्यक्ष्यामीति? तत्तु पूर्वं परीक्षितं भवता। अहं जानामि, कृष्णाभाग्ये संसारपतिपुत्रकन्यानां स्वाभाविकं सुखं नास्तीति। एतेनासौविध्यं तवैव। पूर्वं यस्यां यस्यामनुरक्तस्तां तां परिणीय स्वपौरुषं प्रचारितवान्। किन्तु, अप्सरसां सकृदपि प्रेमजालनिबद्धस्ता: परिणेतुं न शक्ष्यसि। केवलमपयश: सारं स्यात्।’’
फाल्गुनो मे करौ गृहीत्वोवाच—''कृष्णसखमर्जुनं त्वमद्यावधि न जानासि। तन्मनसो दम्भमपि न वेत्सि। कृष्णो यस्य सखा, स प्रेमिकपुरुषोऽवश्यम्, न तु कामुकपुरुष:। समुचितसमये त्वं मामवगमिष्यसि।’’
अर्जुनस्य स्पर्शे तदीयहृदयस्य पवित्रता बभासे। ममेर्ष्यातुरं नारीहृदयमूर्ध्वमुखं बभूव तेनैव स्पर्शेण।
(३५)
पुष्पं विकसति उपवने मनोऽङ्गने वा? सौरभं कलिकासु प्रसूनस्य, मनसो वा? कुहूतानं निवसति पिकालिकण्ठे मनस्तन्त्र्यां वा? वसन्तो वास्तविको भावनाचित्रितो वा?
न जाने—प्रकृते: शोभा, सङ्गीतस्य झङ्कार:, मनस: स्वप्न इत्यादयो दृष्टिपथादपसृता अर्जुनविहीनारण्यजीवने। तीर्थयात्रायै प्राणा व्याकुलिता भवन्ति। चिन्तयामि—यदि तीर्थयात्राकाले साधनारतस्य योगाविष्टस्यार्जुनस्य सौम्यरूपदर्शनलाभसुयोगो लभ्येत, तर्हि कतिपयदिवसा मोहाविष्टतया व्यतिगच्छेयु:। तीर्थयात्रायै बहुवारमनुरोधात् परं युधिष्ठिरस्तदर्थं स्वयं प्रस्तौति। मध्ये मध्ये तीर्थेषु व्रजद्भ्यो मुनिभ्योऽर्जुनसमाचार: प्राप्यते। स: सम्प्रति हिमालये साधनारतोऽस्तीति निशम्य तत्कुश्लसमाचारलाभाय मनो व्याकुलतरीभवति। हिमालयनिकटस्थदुर्गमारण्ये तपस्ययाऽनन्तरं वीरत्वप्रदर्शनेन च महावीरो धनञ्जय: शङ्करात् पाशुपतास्त्रमलभतेति समाकर्ण्य वयमुत्फुल्लिता:। तत: परं यमराजाद् दण्डास्त्रस्य, वरुणदेवाद् वरुणपाशस्य, कुबेरादोजस्तेजोद्युतिकरस्य प्रस्वापनास्त्रस्य समुपलब्धिसमाचारोऽप्यस्माभि: स्वल्पदिवसानां व्यवधानेनासादित:। अमन्यामहि वयं यत् स शीघ्रं प्रत्यागमिष्यतीति। पितुर्देवराजाद् दिव्यास्त्रलाभाय तस्य नाधिक: कालोऽपेक्ष्यते। प्रतिदिनं प्रतिमुहूर्त्तं प्रस्तौम्यात्मानमर्जुनस्वागताय। रात्रिर्जागरणेन याप्यते। प्रतीयते—फाल्गुन आयाति उदितसूर्याभायाम्, अस्तङ्गच्छद्रवे: कोमलललितप्रस्थानच्छटायाम्, ज्योत्स्नालोकेषु, वर्षासङ्गीतेषु।
अनेकासु रात्रिषु विनिद्राऽहं स्वप्नान् विलोक्य चीत्करोमि—''फाल्गुन! न पुनस्त्वां त्यक्ष्यामि। राज्यं, धनं, प्रतिपत्तिं च न कामये। त्वं केवलं ममान्तिके भव सर्वदा। विरहेण जीवनस्येयान् भागो व्यतीत:। मरणशीलमनुष्यजीवनेऽवशिष्टानि कियन्ति दिनानीति को वेत्ति? किमन्तिमसमये मे तवोपस्थितिर्न भाग्ये लिखिता?’’
भीमसेनो मे वाचालतायै क्रुध्यति। भर्त्ययन् ब्रूते—''नारी विदुष्यपि प्रकृत्या नारी। अर्जुनं स्ववस्त्राञ्चले बध्वा स्वापमानप्रतिशोधं कथं करिष्यसि? अन्यायाधर्मलोप: कथं भवेत्? धिक् पाञ्चालि! त्वमियती दुर्बलमति: सुखलोभा च!’’
भीमसेनभर्त्सनया ममापमानक्षताद्रुधिरं वहति। मुक्ता:केशा भाराक्रान्ता: प्रतीयन्ते। शत्रुविनाशप्रतिज्ञान्तराले मनस्यापतति मे चरमलाञ्छना। अहमात्मानं प्रकृतिस्थं करोमि। वदामि च—''सत्यं, सत्यं, त्रिवारं सत्यं यत् फाल्गुनं स्मरन्ती तत्साधनायां व्याघातं नोत्पादयिष्यामीति।’’
नकुलो मे विरहवेदनां विज्ञाय परिहसति। सहदेव: कथयति—''विरम नकुल! याज्ञसेनी उचितसमये समुचितं कर्त्तव्यमाचरति। प्रतिदिनमग्रजयुधिष्ठिरमनसि स्वापमानप्रतिशोधायाङ्क्षग्र संयोज्य घृताहूर्तिं प्रयच्छति। अन्यथाऽहिंस: क्षमाशीलोऽग्रज: प्रतिशोधभावनां न स्पृशेत्। सम्प्रति त्वं तस्या विरहिणीवेशं विलोक्य परिहससि। तस्या वास्तविकं स्वरूपं विज्ञाय भेष्यसि। सा यथा कोमला तथा कठोरा च, यथा क्षमाशीला तथा प्रतिशोधपरायणा च। समयानुसारेण सा कार्यं कुरुते। सम्प्रति विरहं वर्णयित्वा काव्यरचनां विना तस्या: कार्यान्तरं नास्ति। सा काव्यमिदानीं रचयति। परावर्त्तितायार्जुनायोपहरिष्यति!’’ वस्तुतो मयाऽत्रान्तरे 'विरहर्तुर्’ नामकं काव्यं रचितमित्येभिभ्र्रातुभिर्नाज्ञातम्। धिङ्माम्, किं चिन्तयेयु: सर्व एते!
भीमसेन: काव्यरचनावृत्तान्तं निशम्य कपटक्रोधेन ब्रूते—''पाञ्चालि! अहमप्यद्य हिडिम्बान्तिकं गच्छामि। जीवने कदापि न प्रत्यागमिष्यामि, यदि मामाधारीकृत्य काव्यं न रचयसि। वद, लेखिष्यसि उताहो मत्तो मुक्ताऽऽश्वस्त्या श्वासं त्यक्ष्यसि?’’
नकुल: परिहसति—''तर्हि तस्य काव्यस्य नाम स्यात् 'द्रौपदीविलापम्’ अर्थात् भवतो विरहेण द्रौपदी कथं विलपिष्यतीति तस्य वर्णनं भवेत्।’’
भीमसेन: सानन्दं भाषते—''अस्तु, मद्विरहेण द्रौपदी एवं विलपिष्यति यत् स विलापो गगनं पवनं च प्रकम्पयन् मां प्राप्स्यति। तं रोदनस्वरं निशम्य राक्षसी हिडिम्बेर्ष्यया प्रतिविलपिष्यति। स च विलापो दुर्योधनं भयेन कम्पयिष्यति। तेन सोऽवगमिष्यति यत् तस्यादृष्टं विलपतीति।’’
भीमसेनोक्त्या नकुलश्चपलतया हसितुमारभते। सहदेवस्तु गम्भीरकण्ठेन वदति—''भीमसेनो नारीविलापं प्रेमनिदर्शनं मन्यते। तथापि स उन्मुक्तहृदयेनास्मासु द्रौपद्यामनुरक्ततम:। इच्छन्तोऽपि न वयं बलात्तस्यां प्रेमाधिकारं स्थापयाम:, परन्तु भीमसेनो यदेच्छति तदा तां क्लेशयति स्वाधिकारेण। अस्माकं दाम्पत्यजीवनस्यैकवर्षात्मक: कालोऽस्माभिरङ्गीकृतोऽपि द्रौपद्यां तस्य बलादधिकारो न स्वल्पीयान्। अत: कादाचित्कतया द्रौपदी क्षुब्धा। कारणादस्मादपि तस्मिन् तस्या अधिकतमाऽऽस्था। किं मया मिथ्योक्तम्?’’
सर्वे सहोदरा मे मुखं पश्यन्ति। चपलस्मितेन मे विरहवेदनां दूरयितुं प्रयतन्ते। परन्तु प्रस्तरविग्रह इव प्रशान्त: सर्वं शृणोति, सर्वं पश्यति च निर्विकारो युधिष्ठिर:। मम समयो व्यतीयते, परन्तु न प्रत्यावर्त्ततेऽर्जुन:, न चायाति कोऽपि पुनस्तत्समाचार:। हिमालयात् प्रत्यावर्तिता: सन्न्यासिनो ''हिमालयं परित्यज्य गतोऽर्जुन:’’ इति वदन्ति। हिमालये स: परमशान्त्याऽऽसीत्। सम्प्रति कथं कुत्र स वर्तत इति न कोऽपि जानाति। प्रतीक्षाया दैर्घ्यं वर्धते। अर्जुनकारणात् स्वमनसो व्याकुलतोत्कण्ठारूपेण परिणमते। न केवलमहमपितु युधिष्ठिरादय: सर्वे तत्समाचारान् ज्ञातुमुत्कण्ठया प्रतीक्ष्यन्ते। अहं वस्तुत: फलजलत्यागपूर्वकं प्रतीक्षारता। क: श्रावयिष्यति कुश्लसमाचारानर्जुनस्य?
ईश्वरप्रेरित इवैकदाऽपराह्णे लोमशो मुनिरस्माकं कुटीरद्वारि समुपस्थित:। अर्जुनसमाचारस्तस्मादेवोपलब्ध:। मम शोचनीयामवस्थां विलोक्य स सान्त्वयन्मामुवाच—''देवि द्रौपदि! चिन्तां त्यज। तव सुयोग्य: पतिर्हिमालये कार्यं समाप्य सम्प्रति स्वर्गराज्ये कालं सपरमानन्दं यापयति। कौरवान् पराजेतुं स बहून्यस्त्राणि सङ्गृह्णाति। अस्त्रसङ्ग्रहकार्यं प्रायेण समाप्तमिति जानीहि।’’
''तर्हि अर्जुन: पुन: स्वर्गराज्ये किं कुरुते?’’—अहं व्याकुलस्वरेणापृच्छम्। लोमशमुनि: शान्तोदारभाषयाऽऽह—''बहुदिनेभ्य: परं स्वपुत्रमवाप्त इन्द्रदेव:। आजीवनमरण्यवासद्रारिद्र्यक्लेशान् सहमानं स्वसुतं स्वर्गराज्ये कतिपयदिनानि सुखेन यापयितुमनुरुद्धवान् देवराज:। पित्रनुरोधोऽप्यङ्गीकृतोऽर्जुनेन। अमरावत्यामिन्द्रसभादर्शनेन कविप्राणोऽर्जुनोऽत्यन्तं प्रीत:। गन्धर्वीणां सामगानेन, उर्वशीमेनकारम्भास्वर्णप्रभाचित्रसेनाकुम्भयोनिवरुथिनीमित्रकेशीपुष्पवेणीचित्रलेखापद्मयोनीत्यादीनामनन्तयौवनानामप्सरसां नृत्यगीतादिभिर्विमोहितोऽर्जुनो विह्वलितावस्थोऽतिसुखेन कालं यापयति। पितुरिन्द्रस्योपदेशेनार्जुन: सम्प्रति गन्धर्वराजाच्चित्रसेनान्नृत्यगीतवाद्यान्यधीते। शिक्षासमाप्ते: परं सोऽवश्यं प्रत्यागमिष्यति, इन्द्राच्चाशनिप्रभृतिनि लप्स्यते। अतस्तदाशङ्का वृथा कृष्णे!’’
अर्जुनकुश्लसमाचारमाप्तुं मेऽसीमा चिन्ताऽऽसीत् किन्तु सम्प्रति स सुखेनास्ते, स्वर्गसुखं भुङ्क्ते इति निशम्य नर्कयन्त्रणामनुभवामि। रम्भामेनकोर्वशीचित्रलेखाद्यप्सरसोऽहमभिशपामि। मम वीरस्य पत्युर्नृत्यगीतविलासवर्धनादहं तासां वंशनाशं कामये। अहं मनसा चिन्तयामि—शत्रून् प्रतिरोद्धुमस्त्रशस्त्रसङ्ग्रहाय प्रस्थितोऽर्जुनो नृत्यगीतादिनि शिक्षते किमर्थमिति। स कदाचित् स्वर्गं सन्त्यज्य परावर्त्तिष्यते किम्? युधिष्ठिरस्य द्यूतक्रीडया व्यतीतां मे दु:सहलाञ्छनां किं स स्मरति? तद्भ्रातर: सहधर्मिणी च गृहशून्या वनेऽटन्तीति किमधुना स स्मरेत्? निजभावनानिमग्नाऽहमुपविष्टा दु:खदुष्प्रभाविता। कल्पनानेत्रेण पत्यु: स्वर्गसुखं पश्यन्त्यहं नर्कवासं श्रेयष्करं मन्ये।
मम मलिनं मुखमालक्ष्य सहदेवोऽन्तरङ्गकण्ठेन जगाद—''तदर्थं मा चिन्तयितुमर्हसि देवि! स कुन्तीपुत्र: फाल्गुन:। अपमानज्वालां कदापि न विस्मरेत्। अधर्मविलोपमकृत्वा स स्वर्गराज्ये सुखेनापि नैव निवसेत्।’’
सहदेवस्य सानुकम्पस्वरेण मम रुद्धाश्रुबन्धस्त्रुटित:। अहमश्रूणि मुञ्चन्ती अब्रवम्—''ता: मोहिनी: नर्तकी: न जानासि त्वं देव! सकृदपि तासां परिचयेन मुक्तिर्दुष्करा। अस्त्रशस्त्रसङ्ग्रहोद्देश्यस्यार्जुनस्य नृत्यसङ्गीतशिक्षायां मनो निविशते इति चिन्ताया विषय:। तस्य पुन: प्रत्यावर्तनं नैव प्रतीयते।’’
सहदेवो मामाश्वास्योवाच—''अर्जुनेऽविश्वासोऽनुचित:। स: कस्य सखेति त्वं जानासि। तस्मिन्नविश्वासो नाम कृष्णेऽविश्वास:। यद्यदद्यावध्यर्जुनेन कृतं, तत्तत् सर्वमार्यावर्तस्य मङ्गलाय, तस्य तस्य च किमपि रहस्यमन्तॢनहितमस्ति। स्थाने किलार्जुनस्य नृत्यगीतशिक्षायास्तात्पर्यं ज्ञास्यते। या काऽपि नाम शिक्षा स्यात्, सा सर्वथा महत: कार्यस्य सम्पादनाय भवति। सम्प्रति यद्यर्जुन: प्रत्यावर्त्तेत, तथापि हस्तिनापुरीप्रतिगमनाय निर्दिष्टात् समयात् पूर्वमस्माकं प्रचुरशक्तिशालित्वेऽपि ज्येष्ठाग्रज: कदापि हस्तिनापुरीसीमां नैव स्प्रक्ष्यति। त्रयोदशवर्षात्मको वनवासोऽस्माभि: पूरणीय: किल। अतोऽलमेतावत्यार्जुनप्रत्यावर्तनोद्विग्नतया। स निवसतु स्वर्गराज्ये सुखेन कतिपयदिनानि। अस्मास्वन्तत: कोऽप्येक: किञ्चित् सुखेन तिष्ठतु।’’
अहं निरुत्तराऽभूवम्। केन प्रकारेणावबोधयिष्यामि यदर्जुनस्य पदसेवा मे परमकाम्येति? तत्सख्यं विना सर्वं शून्यं प्रतीयत इति? तथापि सहदेवस्य वाक्येनाशावत्यभवम् यदर्जुन आयास्यति, अवश्यं प्रत्यावर्त्तिष्यते। हस्तिनाप्रत्यावर्तनात् पूर्वं सोऽवश्यमागमिष्यतीति नात्र सन्देह:। नाहमेकाकिनी, तत्प्राणप्रिया पत्नी सुभद्राऽपि तं निर्निमेषनयना प्रतीक्षते। सुभद्रा पुनस्तत्प्रियसख्यु: कृष्णस्यादरणीया भगिनी। मदर्थं नास्तु नाम, सुभद्रार्थं सोऽवश्यं प्रत्यायास्यतीति अभिमानेन त्रुटितं नैजं मन: प्रबोधितवती। किन्तु मनुष्यमन इयदबाध्यं यदल्पेन न सन्तुष्यते।
सम्पूर्णं दिनं व्यतीयते लोमशमुनिना सह तीर्थभ्रमणेन। परन्तु रात्रौ मनसो यन्त्रणा नयनयोर्निद्रां हरति। यदा क्लान्तिवशात्तन्द्रा जायते, तदा दु:स्वप्ना: क्लेशयन्ति। कदाचित् स्वप्ने कुरुसभायां मे लाञ्छनापमानदृश्यमुदेति, कदाचिच्च जलादुद्धरता कर्णेन मे ससम्मानं प्रापणमिन्द्रप्रस्थे। कदाचित् स्वप्नं पश्यामि यत् मत्पुत्रा मामन्विषन्ति, प्रस्थानकाले च मे वस्त्राञ्चलं धृत्वा रुदन्ति मात:! अस्मान् विहाय मा गच्छ। पुन:कदाचिच्चाप्सरोभि: सहार्जुनस्य नृत्यस्वप्न:। अत्रान्तरे स नृत्यगीतविशारद: सम्पन्न:, गन्धर्वांश्चातिशेते। अप्सर:सु तथाऽर्जुनो दृश्यते, यथा गोपिकासु रसिकराज: कृष्ण:।
निद्रा त्रुटिता। प्रत्येकं स्वप्नं संस्मृत्य पुनर्दु:खं लभे। परन्तु मनसो दु:खं नैव कुत्रापि प्रकाशयितुं शक्नोमि। माया वा नितम्बिनी वा, न काऽप्यस्ति निकटे। अत: कविता केवला मेऽत्र प्रियसहचरी। हृदयव्यथां कवितायां रूपयन्ती सान्त्वनां लभे। वर्षात् परं वर्षं व्यतीयते। अर्जुनस्तु नैव प्रत्यावर्त्तते।