वनवासदु:खात् परमुत्तराभिमन्युशुभपरिणयेन मे प्रथमेच्छा सम्पन्नतां गता। वीरेणार्जुनेन सहोत्तराविवाहो विराटराजस्याभिलषित आसीत्। परन्तु सच्चरित्रो विवेकवानर्जुन उवाच—अहमुत्तराया नृत्यगुरु:, तातसदृश:। अतो मम पुत्रेण वीरेणाभिमन्युना सहोत्तराविवाहो मे स्पृहणीय इति। मन्मनसोऽभिलाष इदम्प्रथमतयाऽर्जुनभाषया रूपायितो बभूव। उत्तराभिमन्यो: परिणय: साडम्बरं सम्पन्न:। श्रीकृष्णबलरामौ, सुभद्रा, अष्टपटमहिष्य:, मम पञ्चपुत्रा:, मम पिता, मम सहोदर:, अनेके राजानश्च परिणयमहोत्सवे सम्मिलिता:। परन्तु नागन्तुं शक्ता माता कुन्ती। विदुरभवनेऽसुस्थताकारणात् सा शय्याशायिनी आसीत्।
किशोर्या नववध्वा उत्तराया अनिन्द्यरूपेण विमुग्धा भद्रा सानन्दमाह—''अग्रजे! त्वदीयेयं वधूस्त्वतो रूपेण नाधिका, यद्यपि तत्समा सुन्दरी विरला। इत: परं वधूनिर्वाचनभारो ममैवास्तु। अहं मम पञ्चपुत्राणां कृतेऽन्विष्यान्विष्य त्वत्तोधिकतररूपवती: वधू: करिष्यामि। त्वं तासां पुरस्तान्मलिनीभविष्यसि। तदानीं मम तावदीर्ष्या दूरीभवेत्।’’ भद्रा सकौतुकमहसत्। अहं सदीर्घश्वासमवोचम्—''अस्तु, ते प्रथमतो मनुष्यरूपेण
संसारे परिगणिता भवन्तु। आजन्मन इतस्ततो निवसन्ति। को जानाति, तेषां भाग्ये किं लिखितमस्ति।’’
पुत्रान् सन्त्यज्यैतावन्ति दिनान्यरण्येऽटामीति अद्य पुनर्मे पुत्रेषु ममत्वविश्वासो नैव भवति। तथापि भद्रोक्त्या निमेषेणैव मनसि मे नैके स्वप्ना रूपायिता बभूवु:। कल्पनाचक्षुषाऽहं पश्यामि विवाहमुकुटसुशोभितान् मे पञ्चपुत्रान्, तेषां निकटे चानिन्द्यसुन्दरी: पञ्चराजकन्या:। नयनकोणं मे सहसा सजलमभूत्। अचिन्तयम्—किं पुन: सुखान्तरमावश्यकम्—तत: परं वानप्रस्थं शान्तमाचरिष्यामीति।
विवाहमहोत्सवात् परं भद्रा, अहं चोत्तराभिमन्युभ्यां सह विदुरभवने मातु: कुन्त्या आशीर्वादलाभाय प्रस्थिते।
पुत्राणां दु:खेन चिराद् दु:खिता जननी कुन्ती प्रायेणानेन परिणयसम्बन्धेनात्यधिकमानन्दिता स्यात्। परिणतवयसि रोगशय्यायां निपतिताया: समस्तजीवनयन्त्रणां विस्मर्तुं तस्या: किशोरी नववधूरुत्तराद्यैका मनोमोहकं क्रीडनकम्। उत्तराया: सुखमयदाम्पत्येन पितामही कुन्ती प्रायेण तदीयविडम्बितदाम्पत्यस्य, दु:खमयमातृत्वस्य च विलापं विस्मरिष्यति।
एकत: शान्तिस्थापनप्रयास:, अपरतो 'युद्धं देहि’ आवाहनम्। अनयोरन्तराले ममावशिष्टजीवनस्वप्न: समाप्त:।
द्वादशवर्षात्मकवनवासात् परम्, वर्षात्मकाज्ञातवाससम्पूर्णताया: परमपि पाण्डवानां स्वोचिताधिकारस्येन्द्रप्रस्थार्धस्य प्राप्तिप्रयासो विफलो बभूव। अहङ्कारवतां परश्रीकातराणां दुराचाराणां कौरवाणां स्वार्थपरताया अधर्मविचारस्य चेदं चूडान्तं निदर्शनम्। महासमरातिरिक्तं गत्यन्तरं नास्ति।
शान्तिपूर्णतया परस्परसमाधानेन काऽऽवश्यकता पुनर्युद्धस्य? मनुष्य: शान्तिप्रिय:, पशुस्तु प्रतिविवादं युद्धं, रक्तपातं, हिंसाकाण्डं च रचयति। संसारस्यादिमकालान्नानाकारणेभ्यो मनुष्येषु परस्परमवश्यं युद्धं सङ्घटितं, परन्तु प्रतिक्षेत्रं तस्य चरमं फलं मृत्यु:, हाहाकार:, रक्तपात:, ध्वंसश्च। समरे कोऽप्येक: पक्षो विजयं लभत इति सत्यम्, परन्तु पक्षावुभौ क्षतिग्रस्तौ भवत:। उभयपक्षयोर्वीरपुरुषा रणाङ्गने प्राणानुत्सृजन्ति। दुर्लभं मानवजीवनमकाले म्लायति। सभ्यता ध्वंसते। अर्थहानि:, प्राणनाश:, भयम्, शङ्का, दुश्चिन्ता, दु:खं चोभौ पक्षौ क्षतौ कुर्वन्ति। युद्धेन समाजस्य या क्षति: सम्भवति, तया जयपराजययो: स्वाद: समान: प्रतीयते। अतोऽन्तिमसमयं यावद् युद्धं निवारयितुं, समस्याया: शान्तिपूर्णसमाधानाय च प्रायतत युधिष्ठिर:।
पिता द्रुपदो राजपुरोहितेन सह शान्तिसमाधानप्रस्तावेन हस्तिनापुरीं गतोऽसफल: परावर्त्तित:। कौरवा: पाण्डवानामुचितमधिकारमिन्द्रप्रस्थार्धं प्रत्यर्पयितुं न प्रस्तुता:।
अत: युद्धान्नान्या गतिरस्ति। पाण्डवानां युद्धप्रस्तुतिसन्देशमाप्य धृतराष्ट्रेण सञ्जय: पाण्डवशिविरे प्रेषित:। युद्धाद् विरत्यै पाण्डवान् स प्राबोधयत्। परन्तु तस्य प्रबोधनस्याशयो न किं भिक्षावृत्ति:!
स: पाण्डवशिविर उपस्थित उवाच—''हे राजन्! विना युद्धं कौरवा भवद्भ्य: पञ्चग्रामानपि नैव दास्यन्ति। अत: भवन्त: समराय प्रस्तुतिं कुर्वन्ति। किन्तु, युद्धेन राज्यलाभेन किं भवद्भि: वास्तविकी शान्तिर्लभ्येत? युद्धेन ज्ञातिबन्धुमित्रादिनाशेन लब्धं राज्यं किं शान्तिप्रदानायालं भवेत्? क्षणस्थायिनि जीवने रुधिरक्षयेन राजसुखप्राप्ते: किं मूल्यम्? तत् सुखं दु:खस्य रूपान्तरमात्रम्। यदि रुधिरक्षयेन राज्यलाभो भवतामभीष्टस्तर्हि कथं त्रयोदशवर्षात्मकं वनवासकष्टमङ्गीकृतम्? भवतां महनीयता, धर्मविचारा:, पुण्यम्, यश:, सर्वे गुणाश्च युद्धेन नाशं भजिष्यन्ते। अत: हे राजन्! महावीरस्यापि तुच्छाय धनाय राज्याय वा हीनस्य युद्धस्य स्थाने भिक्षावृत्तिरेव श्रेयस्तसी। अरण्येषु कुटीरनिर्माणपूर्वकं सन्न्यासाचरणमेव वरम्।’’
युधिष्ठिर: सहसा चिन्तासक्तो बभूव। आचिरात् स युद्धविरोधी। किन्तु, अधुना युद्धमकृत्वाऽरण्यगमनं किं क्षत्रियोचितम्?
युधिष्ठिरस्य चिन्ताकुलं मुखमण्डलं विलोक्य भीमसेन आह—''भिक्षावृत्तिब्राह्मणस्य धर्म:, न तु क्षत्रियस्य। भवान् किं कौरवाणामनुचिताचरणं, द्रौपदीलाञ्छनां, जतुगृहकूटचक्रम्, अनुर्वरखाण्डवप्रस्थप्रेषणं च विस्मृतवानस्ति? कौरवाणामयमधर्मो न केवलमद्यतन:, अपि तु अन्धधृतराष्ट्रस्येर्ष्ययाऽस्माकं धार्मिक: शान्तिप्रिय: पिता पाण्डुर्न्यायत: हस्तिनापुर्या राजा सन्नपि आजीवनं पत्नीभ्यां सह घोरारण्ये प्रविवेश। अरण्येऽपि च स: स्वप्नाणान् तत्याज। अस्माकं जननी कुन्ती साम्राज्ञी सत्यपि राजमाता सत्यपि च दु:खेन दारिद्र्येण मनस्तापेन च कालं यापयति। अस्माकं पुत्रा राजकुमारा अपि मातुलगृहमाश्रिता:। अस्माकं पुन: का कथा? आजन्मनो यद् यत् सोढं, तत्तत् सर्वं कौरवाणामन्यायाधर्मासत्याविचाराणां क्षतचिह्नम्। युद्धेनान्यस्त्रीसम्पत्तिहरणं हीनकार्यमेव। युद्धेन तु स्वाधिकारप्राप्ति: पुरुषस्य गौरवाय। इत: परं न भवतो निर्णयं सहिष्ये। द्रौपद्यपमानप्रतिशोधायेदंमहार्हसुयोगहस्तान्तरीकरणेन मे जीवनधारणं हीनकार्यमेव स्यात्।’’
अर्जुन: शान्तकण्ठेनोवाच—''उद्विग्नो मा भवतु, अग्रज! अस्माकं सखाऽऽर्यावर्त्ते श्रेष्ठो विद्वान्, नीतिज्ञश्च श्रीकृष्णोऽत्रोपस्थितोऽस्ति। स यत् स्थिरीकरिष्यति तदेवास्माभि: करणीयम्।’’
प्रशान्तवदन: सखा कृष्णस्तत्रोपविष्ट: सर्वं शृणोति स्म। उदारस्वरेण च जगाद—''अहमुभयेषां पाण्डवकौरवाणां मङ्गलं कामये। तेषामनेकद्वन्द्वानां समाधानं मयैव सम्पादितम्। अद्यापि मे शान्तिपूर्णसमाधानप्रयासोऽप्यव्याहतोऽस्ति। आर्यावर्त्तेऽद्य शान्तिधर्मौ विपन्नौ। तयो: पुन: प्रतिष्ठा मे जीवनलक्ष्यम्। यदि शान्तिपूर्णसमाधानं कौरवाणां नाभिमतं तर्हि युद्धातिरिक्तं गत्यन्तरं नास्ति। साम्प्रतिक: प्रसङ्गस्तु पाण्डवकौरवाणां भ्रातृविवादे न सीमित:। न सम्प्रति सङ्घर्ष: केवलं पाण्डवकौरवाणाम्। अधुना सङ्घर्ष: परस्परं धर्माधर्मयो:, आदर्शानादर्शयो:, सत्यासत्ययो:, पुण्यपापयोश्च। अत: धर्माय, आदर्शाय, शान्त्यै, लोककल्याणाय च सत्यामावश्यकतायां रुधिरपातजीवननाशाऽर्थक्षयादिनानाक्षतिसहनं क्षत्रियधर्म एव। समग्नार्यावर्त्तेऽधुनाऽखण्डता विपन्ना। आर्यावर्त्तविभाजनेन देवा वा दानवा वा तमधिकरिष्यन्ति। आर्यावर्त्तस्य स्वातन्त्र्यं नङ्क्ष्यति। तत: पराधीनतान्धकार: प्रसरिष्यति। तेन न केवलं कौरवाणां पाण्डवानां वा, अपितु समग्नार्यावर्त्ते निरीहनागरिकाणां सुखशान्तिसुरक्षासौभाग्यानि नङ्क्ष्यन्ति। देशस्याखण्डताधर्मरक्षार्थं को योग्य इति सोऽयं सम्प्रति महान् प्रश्न:। कौरवपाण्डवेषु यो योग्य:, स यदि स्वाधिकारं न लभते, तर्हि समूहस्वार्थाय युद्धमेव श्रेय:। पाण्डवा यदि राज्यमोहं सन्त्यज्यारण्ये निवसन्ति, तर्हि तेषामेव न काऽपि क्षति: स्यात्, अपितु आर्यावर्त्तजनता क्षतिग्रस्ता भवेत्। धर्मवतो न्यायविचारकस्य सुशासकस्य हस्ते सर्वदा देशस्य शासनदण्डाधिकारो भवेत्। गोब्राह्मणशिशुनारीधर्मैतिह्यादीनां भाग्यमद्यापद्ग्रस्तम्। सर्वेषां सुरक्षा महासमरस्य महल्लक्ष्यम्। यदि सङ्क्षन्ध न स्वीकुर्वन्ति कौरवास्तर्हि महायुद्धमनिवार्यमेव।’’
वासुदेवाभिमतमस्माभि: सर्वै: सम्मतम्। मूलतस्तु युद्धायाहमात्मानं प्रस्तौमि। अन्यथा दुष्टा: कथं दण्डं लभेरन्? अदण्डितेषु कौरवेषु भाविवंशधरा: पापादधर्माच्च कथं बिभीयु:? प्रतिदिनं दिवालोके नारीवस्त्रहरणं, तत्सतीत्वहरणं च भवेताम्।
महासमरस्य प्रस्तुतिश्चरमपर्याये। तथापि सखा श्रीकृष्णो युधिष्ठिरानुरोधेनान्तिमं सन्धिप्रस्तावं नीत्वा हस्तिनापुर्यै प्रस्थित:। पञ्चपाण्डवानां पञ्चमात्रग्रामा एव याच्ञा। तान् प्राप्य धर्मबलेनार्यावर्त्ते शान्तिप्रतिष्ठाव्रतमाचरिष्यन्ति। परन्तु दुराचारो दुर्योधन: पाण्डवानां वीरत्वं सम्यग् विज्ञायापि कर्णबलेन पोषिताहङ्कार: सन्धिं न्यक्चक्रे, शान्तिदूतं श्रीकृष्णमप्यपमानितवान्।
कर्ण: कौरवान् प्रेरयामास—''पञ्चग्रामप्राप्ते: परं सख्यु: श्रीकृष्णस्य कूटबुद्ध्या पाण्डवा हस्तिनाराजपदमनायासमधिकरिष्यन्ति। अत: पाण्डवेभ्य: सूच्यग्रभूमिदानमप्यनुचितम्।’’
सखा प्रत्यावर्त्तित:। महासमरस्यानिर्वार्यता सर्वत्र प्रचारिता। समग्र आर्यावर्त्त: सहसा स्तब्ध:। धर्मस्य विजय: सुनिश्चित:, परन्तु युद्धस्य भयावहां परिणतिं को न जानाति!
कौरवाणां स्वार्थपरतया वैयक्तिकलाभलोभेन च समग्र आर्यावर्त्तो विपन्नो भयावहताक्षिप्तश्चेति श्रीकृष्णो वारं वारं धृतराष्ट्रमवागमयत्। अपि च महासमरोऽयं तत्कृत इत्यपि प्राकाशयत् परन्तु अन्धो धृतराष्ट्रोऽन्यस्य सुखदु:खाभ्यां यथाऽन्ध:, तथैव पुत्रस्नेहेनाप्यन्ध:। तदन्धत्वेन पाण्डवा आजीवनं दु:खग्रस्ता:, स्वाधिकारवञ्चिताश्च। धृतराष्ट्रेच्छया युद्धमिदं न समघटिष्यत। परन्तु कुटिलप्रकृतेर्धृतराष्ट्रस्य तत्सुताबाध्यता व्याजमात्रम्। सन्धिप्रस्तावप्रत्याख्यानात् परं सर्वमेतत् प्रकाशयन् श्रीकृष्ण: सभागृहे महायुद्धमुद्घोष्य तत: प्रतस्थे।
किञ्चिद्दूरं स्वमनुसर्तुं वीरं कर्णमनुरुरोध श्रीकृष्ण:। भीष्मद्रोणकृपाचार्यप्रभृतयो महारथिनोऽगत्या कौरवपक्षं समर्थयामासु:। परन्तु कर्ण एव कौरवाणां मानसिकबलस्योत्स:। अन्तिमप्रयासेन यदि कर्णेन सन्धि: स्वीक्रियेत, तर्हि तत्प्ररोचनया कदाचिद् दुर्योधनो युद्धबुद्धेरपसरेत्।
विदुरभवने निवसति माता कुन्ती। वनवासात् परं पुत्राणामनिश्चितभविष्यचिन्तया सा सम्प्रति दारुणमानसिकयन्त्रणामासाद्य शय्याशायिनी। अहमपि तस्या असुस्थतासमाचारमाप्य तत्रागताऽसम्। युद्धं निश्चितमिति समाचारस्य उपप्लव्यनगरेऽवस्थितेभ्य: पाण्डवेभ्यो विज्ञापनात् पूर्वं मातु: कुन्त्या दर्शनमुचितं मन्यमान: सखा विदुरभवनं यावत् सङ्गदानाय कर्णमनुरुरोध।
युद्धस्यावश्यम्भावितां विज्ञाय कृष्णकर्णौ गम्भीरौ। सन्धिप्रस्तावस्य पुनर्विचाराय कृष्णेनानुरुद्ध: कर्ण: प्रत्याख्यानपरं साहङ्कारमिदमुवाच—''वीरस्य जन्मजातके पश्चाद्गतिर्न वर्त्तते। आदौ सङ्क्षन्ध प्रत्याख्याय पुनस्तद्ग्रहणं दुर्योधनायानुचितं स्यात्। अत: पुनस्तं प्रबोधयामि कथम्?’’ पुनश्च स सव्यङ्ग्यमब्रवीत्—''अर्जुन: स्वर्गमर्त्यपातालेषु भ्रमन् दुर्लभास्त्राणि सञ्जग्राह। वनवासकाले कृष्णाया: प्रयासेन शवरा: पाण्डवानां मित्राणि जाता:, आर्यानार्यगोष्ठीसमर्थनमपि पाण्डवैर्लब्धम्। अस्य युगस्यालौकिकवीरपुरुषस्य कृष्णस्यापि तेभ्य: समर्थनमस्ति। तथापि पाण्डवानां युद्धाद् भयं कुत:? नायं किं परिचयो भीरुताया:?’’
कर्णं युद्धान्निवारयितुं स्वप्नयासं निष्फलं विज्ञाय श्रीकृष्ण उवाच—''कर्ण! त्वं कुन्त्या: धर्मपुत्र:। शङ्करपादोदकं प्रमाणीकृत्य धर्मपुत्ररूपेण त्वदङ्गीकारस्य पृष्ठभूमौ तस्या अस्ति नीरवो विलापोऽसहायमातृत्वस्य। तं विलापं श्रोतुं न त्वया कदापि प्रयास: कृत:। कुन्तीव दु:खिनी नारी काऽस्ति आर्यावर्त्ते? वसुषेण! त्वं कुन्त्या: कुमारीवयसि तदुदरजाता सन्तति:। अनन्तालोकस्योत्स: प्रचण्डपुरुष: सूर्यदेवस्ते पिता। त्वं ननु कुन्त्या: प्रथमो गर्भज:। लोकलज्जया समाजभयाच्च सा त्वां मृण्मयमञ्जूषायां निक्षिप्य नदीस्रोतसि प्रवाहितवती। तस्या: हृदयस्य प्रतिस्पन्दनं तव करुणस्मृतिरद्यापि वर्त्तते। राधागृहे त्वां विलोक्य तव च जन्मवृत्तान्तं निशम्य सा सर्वमवगतवती, धर्मपुत्ररूपेण च त्वां स्वीकृत्य तदीयहृदयस्य नीरवव्यथां प्रशमयितुं प्रयतते। तत: धर्मतस्त्वं पाण्डो: ज्येष्ठपुत्र:, पाण्डवानां ज्येष्ठभ्राता च। महासमरसङ्घटनात् पूर्वं प्रकाशनमस्य तव पुरस्तान्मे कर्त्तव्यम्। यतोहि अहं तव मातुलपुत्रो भ्राता, शुभेच्छुश्च। अद्यावधि त्वया निजसहोदरै: सह शत्रुताऽऽचरिता, अनुजवधू: कृष्णा च वारं वारं लाञ्छिताऽपमानिता च। सम्प्रति त्वमपि स्वसहोदराणां विरोधेन योद्धुं बद्धपरिकर:। अनयैव चिन्तया माता कुन्ती मरणयन्त्रणां प्राप्ता। अत: सम्प्रति चिन्तय यत् केषां पक्षस्त्वत्स्वीकार्य इति।’’
महावीर: कर्ण: स्तम्भीभूत:। स कुन्तीपुत्र:। सूर्यदेवस्तस्य जनक:! अथ चाजीवनं नीचकुलसम्भूतत्वेन स्वाधिकाराद् वञ्चित:। प्रतिपदमपमानितो लाञ्छितश्च। पृथक् पृथक् देवेभ्य: कुन्तीगर्भात् त्रय: पुत्रा अजायन्त। तथैव कर्णोऽपि सूर्यदेवात् कुन्तीगर्भस्थो बभूव। अत: पञ्चपाण्डवेभ्यो न केनापि गुणेन कर्णो हीन:। वस्तुत: कर्णस्तु निष्पापकुमार्या: प्रथमं नैवेद्यम्। युधिष्ठिरभीमार्जुनोत्पत्ते: पूर्वं पाण्डुना देवैश्च सा भुक्ता बभूव। तद्दृष्ट्या कर्णो निष्कलङ्को देवशिशु:। ऋषेराशिषा तस्य जन्म। परन्तु पित्रोर्वृथाहङ्कारात्, सामाजिकप्रतिष्ठाकारणात् सम्मानमोहाच्च स कलङ्कितपुरुषरूपेण समाजेऽधोमुखो जीवति। अद्यान्तिममुहूर्त्ते सर्वमेतद्विज्ञाय क्षोभो वर्धते, न तु प्रशाम्यति। इयता विलम्बेन रहस्यस्यास्योन्मोचनं कर्णजीवनमार्गं नैव परिवर्तयितुं क्षममिति कर्ण: सम्यग् जानाति।
कर्णस्य नीरवद्वन्द्वं लक्यीो कृत्य श्रीकृष्णोऽवोचत्—''वीर कर्ण! अद्यापि समयो न गत:। आयाहि, पाण्डवै: सह सम्मिलितो भव। मातुराशिषं स्वीकुरु। पाण्डवै: साकं तव मिलनेन समग्ना पृथिवी ते पदानता भविष्यति। अतीतं सर्वं दु:खं विस्मृत्य पाण्डवपक्षे युद्धं कुरु। समृद्धां पृथिवीं भुङ्क्ष्व। वरनारीं द्रौपदीं च लब्ध्वा स्वपौरुषं प्रतिपादय।’’
एकत: सन्निकटे समग्ना वीरभोग्या मही, बहुपुरुषवाञ्छिताऽऽर्यावर्तस्य श्रेष्ठा सुन्दरी कृष्णा च, अन्यतस्तु पुरुषस्याहङ्कार:, स्वकीयप्रतिज्ञा, विवेकसङ्घर्षश्च। एकत: स्वर्गसुखम्, अन्यतस्तु मृत्यु:। किन्तु स्वर्गसुखं श्रीकृष्णस्य दानम्, मृत्युस्तु पुरुषकारस्याह्वानम्। रणाङ्गने युध्यतो नु प्राणाहूति: श्रेयसी अथवा श्रीकृष्णानुकम्पया जीवनलोभेन, राज्यनारीप्रलोभनेन च चरमपर्याये पालकपितरौ, मित्रं दुर्योधनं च प्रतार्य प्रतिज्ञामपालयतो दलपरिवर्तनं श्रेय:? कर्णो मृत्योर्न बिभेति, स तु जन्मन: परस्तात् सद्यो मृत्युहस्ते प्रक्षिप्त:। परन्तु कर्णस्य भयं भीरुताया:, कापुरुषताया:, अपयशसश्च। अत: कर्णो मृत्युमेव कामयते।
गम्भीर: कर्ण उवाच—''अहं सम्यग् जानामि, यत्र कृष्णस्तत्र विजय एव। अन्यच्च, मम कवचकुण्डलानि कपटेन शरीरादपसारितानि। अहं जानामि, युद्धे कौरवपक्षावलम्बनस्यार्थो मृत्युरेव। तथापि मम स्वशक्त्यां प्रबलाऽऽस्था वर्त्तते। अद्याप्यहं पञ्चपाण्डवान् हन्तुं समर्थ इति विश्वसिमि। यतोहि अहं स्वशक्त्या बलीयान्। या कुन्ती स्वसम्मानाय, सुखाय, मङ्गलाय च शैशवे मां मृत्युमुखे प्रक्षिप्तवती, सम्प्रति तदाशीर्वादापेक्षया पालनकर्त्र्या मातू राधाया आशीर्वादो मम काम्यतर एव। येन मित्रेण दुर्योधनेन प्रतिपदं मम भूलुठित: पुरुषकार: सम्मानित:, असमये च मे साहाय्यं कृतम्, तस्य सुनिश्चितं पराजयं विज्ञायापि तमहं कथमपि त्यक्तुं न प्रभवामि। मृत्युभयेन कर्णो विश्वासघातकतां कर्त्तुं न शक्ष्यति, अथवा राज्यलिप्सया वृद्धवयसौ परिपालकौ पितरौ नास्वीकरिष्यति। अत: हे कृष्ण! कृपया मे जन्मपरिचयं नान्यत्र प्रकाशयितुमर्हसि। तथा सति विजयलाभात् परं धार्मिकहृदय उदारपुरुषो युधिष्ठिर: समस्तं राज्यं मत्पदतले समर्पयिष्यति। त्वं तु जानासि, मम दानदयाकरुणाभ्यो महती जुगुप्सा। युधिष्ठिरस्य विजयो भवतु इति तदग्रजस्य मे शुभकामना।’’
साहङ्कारपुरुषस्य कर्णस्य नयनयोरश्रु! तस्य कण्ठे युधिष्ठिराय ममतास्पर्श:! तथापि स स्वमते दृढप्रतिज्ञ:। कृष्णस्याशीर्वादं शुभेच्छां यो दयां मन्यते तस्याहङ्कारवत: पुरुषस्य मृत्युरेव प्रियबान्धव:।
माता कुन्ती बहुदिनेभ्य: परं कर्णं दृष्ट्वा नानन्दिता, अपि तु दु:खातिशय्येन त्रुटिता। कर्णमालिङ्ग्य व्याकुलिता कुन्ती अपृच्छत्—''पुत्र! देवाशीर्वादभूतानि जन्मसमयस्य कवचकुण्डलानि किमर्थं त्वमर्पितवान्? जानासि, तद्दानात् परमहं रात्रौ कियतोऽशुभस्वप्नान् पश्यामि!’’
कर्ण: शान्त्याऽऽह—''मात:! भवत्या: प्रियपुत्रस्यार्जुनस्य सुरक्षायै दानरूपेण तानि मत्तो निस्सारितानि। अनेन भवती आश्वस्तैव नु स्यात्!’’
'त्वं कथं ज्ञास्यसि मे मनोभावम्!’
माता कुन्ती अश्रु रुध्यन्ती कर्णमस्तकमतिव्याकुलतया हस्तेन पस्पर्श। अहं प्रकोष्ठान्तरे उद्विग्नहृदया सन्धिप्रस्तावफलं श्रोतुं प्रतीक्षमाणाऽभिनवदृश्यमिदं दृष्टवती।
श्रीकृष्ण: प्रकारान्तरेण युद्धसमाचारं कुन्तीं श्रावयितुमुवाच—''कर्ण! पाण्डवपक्षसमर्थनाय ममाभिमतं न त्वया सम्मतम्। अत: युद्धाय प्रस्तुतो भव। अद्यारभ्य सप्तदिनेभ्य: पश्चात् मार्गशीर्षामावास्यातिथिरायाति। तस्मिन्नेव दिने पुण्यतोयासरस्वतीनदीतटे शुष्कशय्याधारे पञ्चह्रदतीरे कुरुक्षेत्रे पाण्डवकौरवमहासमरमारप्स्यते। कुरुक्षेत्रं नाम कर्मक्षेत्रम्। सत्कर्मैव कर्म। असत्कर्म नाम दुष्कर्म। अत: कुरुक्षेत्रस्य वास्तविकोऽर्थ: सत्कर्मक्षेत्रम्। न्यायप्रतिष्ठायै युद्धं सत्कर्म। असदाशापूर्णतायै युद्धमसत्कर्म। अत: कुरुक्षेत्रे सत्कर्मण: सत्यस्य च जय: स्यादिति नात्र सन्देहलेश:। कौरवेभ्यो युद्धदिवसं वक्तुमर्हसि।’’
युद्धं निश्चितमिति विज्ञाय माता कुन्ती मूर्च्छिता। युद्धाय युधिष्ठिरं वारं वारं प्रोत्साहयन्त्या ममान्तरात्मा युद्धं निश्चितमिति निशम्य प्राकम्पत। चेतनाप्राप्ते: परं माता भृशं रुरोद। विदुषी, धैर्यशीला, कष्टसहना, धरित्रीव सवंसहा माता कुन्ती जीवने कियतां सङ्कटानां सम्मुखीना न बभूव! क्षत्रियनारीकृते युद्धशब्दो न तथा भयोद्रेककारी। अन्यच्च, पाण्डवानां विजयं सुनिश्चितं विज्ञायापि माता कुन्ती एवं हृतधैर्येव रोदिति किमर्थम्? सा तु न दुर्बलमना:। तस्या अवस्थैवं विचलिता कथम्?
मातु: पदधूलिमासाद्य विषण्णवदन: कर्ण: प्रस्थित:। माताऽस्पष्टं जगाद—''वत्स! दीर्घजीवी भव। तव मङ्गलं भवतु।’’ पुनर्मातुर्नयनाभ्यामश्रु प्रावहत्।
कर्णस्य प्रस्थानकाले सखा तद्रथं यावद् गतस्तत्पृष्ठे करं निधायोवाच—''दृष्टा नु मातु: कुन्त्या अवस्था! अर्जुनाय यावान् तस्या उद्वेगस्तावानपि तुभ्यम्। त्वं तस्या: कौमारसन्ततिरिति लज्जया कुण्ठया च न किमपि मुखेन वक्तुं पारयति। किन्तु, सम्प्रति त्वदर्थं सा बहुतरं चिन्तिता।’’
दु:खित: कर्ण आह—''इदं मातु: कृतकर्मण: फलम्। अहं तु द्रौपदीं स्वभ्रातृवधूमज्ञात्वाऽपमानितवानिति भृशं दूये। ममानुजानां वधूरिति सा मे पुत्रवधूतुल्या। अथचाहं तल्लाञ्छनाया अपमानस्य च पुरोधा:। एतदर्थं भवतां पुरस्तात् क्षमां प्रार्थये।’’ अश्रूच्छलितनयन: कर्ण: कृष्णस्य हस्तं दु:खेन धृत्वेदमुवाच।
श्रीकृष्णोऽवादीत्—''अपमानप्रतिशोधाय प्रतीक्षमाणाऽपि कृष्णा ते वास्तविकं परिचयं विज्ञाय त्वां क्षंस्यति। तस्या हृदयमत्यन्तं कोमलमुदारञ्च। स्थाने खलु सा सर्वं ज्ञास्यति, तुभ्यमप्युचितं सम्मानं प्रदास्यति। कर्ण! समग्रां धरित्रीं प्रदातुं तुभ्यमहमैच्छम्, पृथिव्या सहापि कृष्णा तवाभविष्यत्। मातुराज्ञया पाण्डवाग्रजत्वेन न्यायत: कृष्णा तव प्राप्तियोग्या। एवं मे वाणी त्वां पाण्डवपक्षसमर्थनाय न प्रलोभितवती। सम्प्रति किं ते वाञ्छामि? दैवीशक्त्यां न ते विश्वास:। शुभेच्छां मङ्गलकामनां च त्वं दयां मन्यसे। अतोऽन्त्ये तुभ्यं ममायं सन्देश:—पुरुषकाराहङ्कारौ नैवैकाकारौ। तव पुरुषकारो विजयताम्, अहङ्कारस्तु चूर्णीभवेदिति मे कामना।’’
कर्ण: कृष्णमालिङ्ग्य प्रस्थित:। उदासीनस्वरेणाभाषत—''तव सख्यं मया पाण्डवशत्रुतामाचरता परिभ्रष्टम्। इदानीं तवोपलभ्यमानं सख्यं स्वीकर्त्तुं न शक्नोमि, यतोहि कौरवेष्वहं वचनबद्ध:। अत: हे कृष्ण! महासमरान्ते यदि जीवामि, तदा ते सख्यं मिलिष्यति, अन्यथा परजन्मनि प्रतीक्षिष्ये।’’
श्रीकृष्ण: कर्णमार्गं सकरुणं निरीक्षमाण आसीत्। अहं स्तम्भीभूता कुन्तीपुत्रस्य कर्णस्य निष्ठापरं बन्धुत्वं, वचनबद्धतां च मनसा प्रशंसामि। किन्तु मे नयनयोरश्रु किमर्थम्? कर्णाय पाण्डवपत्न्या: कृष्णाया नेत्रे सजले कया भावनयाऽभूताम्?
अहं स्वयमपि तत्कारणं न जानामि।
जननीहृदयं काऽपि जननी एव जानाति। अतोऽद्य मातुर्दु:खं मर्मणाऽनुभवामि। मातुरवस्थां विलोक्याहं सख्या सहोपप्लव्यनगरं न गता। युद्धारम्भात् पूर्वं पाण्डवानामन्तिकमहमवश्यं प्रत्यावर्त्तिष्ये। तेषां कपालेषु मण्डयिष्यामि विजय तिलकम्। अर्घ्यंपात्रं सज्जीकृत्य पूजयिष्यामि तान्। हसन्ती प्रेषयिष्यामि युद्धक्षेत्रे। किन्तु सम्प्रति चत्वारि पञ्च वा दिनानि मातृनिकटेऽहं स्थास्यामि। माता सम्प्रति चित्ते भृशमस्थिरतामनुभवति। युद्धे यस्य वा पक्षस्य विजयो भवतु नाम, पुत्रशोकस्तु तद्भाग्ये लिखितोऽस्तीति विज्ञाय सा दु:खेन त्रुटितमानसा।
प्रायेण सकौरवस्य महावीरस्य कर्णस्य मृत्यु: स्यादथवा पाण्डवानाम्। उभयत्र तु पुत्रशोक: केवलं मातुरेव। कस्या: पाषाणकठोरजनन्या अपि हृदयमनेन शोकाकुलं न स्यात्?
पाण्डवानां दु:खदैन्यकारणान्माता कुन्ती चिराद् दु:खिता। पाण्डवानां वेदना मात्रा प्रकाश्या, किन्तु अप्रकाश्या कर्णस्य। अपाङ्गे पतिता धूलिकणिकाऽशेषयन्त्रणादायिकाऽपि कस्मैचिन्निवेदयितुं न शक्यते। सुस्थे शरीरे नखकोणमात्रं भेदयत्कण्टकं यथाऽनिर्वचयनीयदु:खदायकं, तथैव कर्ण: कुन्त्या दु:सहयन्त्रणादायी। अनुभववानेव नखकोणे प्रविष्टस्य समग्रं शरीरं क्लेशयत: कण्टकस्य यन्त्रणां जानाति, न तु तदन्य:। सर्वेऽपि सुस्थं शरीरं पश्यन्ति। शरीराभ्यन्तरीणयन्त्रणां जानन्ति स्वानुभव:, चिन्ता, चेतना च। किन्तु, मातुरहं वेदनां सम्यगवगच्छामि। इच्छामि तस्या यन्त्रणाया: किञ्चिद् याचिष्ये, स्वीकरिष्यामि च तद्यन्त्रणां स्वकीयत्वेन। मातृदु:खमपनोदयिष्यामि। परन्तु अद्यापि माता मत्पुरस्तात् सत्यं प्रकाशयितुं कुण्ठते। कुमारीजीवनरतिरेव नारीजीवनस्य चरमा लज्जा कुण्ठा च, यद्यपि सा रतिरेवात्यन्तस्वाभाविकी। मनोऽस्ति चेदनुभवशक्तिरस्ति, अनुभवशक्तावावेगयोगेन प्रेमतरङ्ग: कूलं प्रहरति। स तरङ्ग: समाजभयाद् बेलाभूमौ मस्तकं पुन: पुन: प्रहरन् विवेकोच्छलत्स्रोतसि परावर्त्तितोऽपि कदाचिदज्ञातपथचारिचरणवाद्र्रीकुरुते। व्यपगते खलु जले तच्चरणौ निर्मलीभवत:। अथच तरङ्ग एकत्रीकृत्यापसारयति सकलं मलम्। सर्वं सज्जीकृत्य स्थापयति हृदयसागरस्यातलदेशे। उपरि निर्मलं सुनीलं च दृश्यते। अभ्यन्तरं किं कस्मैचिद् दर्शयितुं शक्नोति? मातुरवस्था तथैव।
मातुर्निकटेऽहं तच्छायेवास्मि। वक्तुमिच्छामि—''मात:! सर्वमहं जानामि। अहमप्येका नारी, जननी, पञ्चपतीनां पत्नी। भवत्या दु:खेनाहं स्वदु:खं योजयितुमिच्छामि। गुप्तदु:खस्य व्यथां का बत मदधिकतरं जानातु? निर्मलहृदयेनाहं पञ्चपतीन् गृह्णामि, स्वयं पूजापुष्पं मत्वा प्रतिप्रभातं नवीभूय विकसामि, देवताया: पदतले स्वच्छतयाऽत्मानं निवेदयामि। तथापि किं मे मनसि न काऽपि गोपनीयता, न काऽपि स्वीया च व्यर्थताऽस्ति? तथा त्वसम्भवम्। यद्वाऽस्ति तत्सर्वं प्रकाशयितुं किं सम्भवम्।’’
मातृचरणयो: स्वमस्तकं संन्यस्य प्रक्षालयामि तत्पदयुगलम्। वदामि च—''मात:! किं नाहमशंभाग् भवितुं शक्नोमि? भवत्या: कृते सर्वं कर्त्तुं समर्थाऽहम्। कृपया सर्वं वदतु। भवत्या वचनमङ्गीकृत्य पृथिव्यामचिन्तनीयमेकमध्यायं निर्मायाहं पञ्चपतीन् वृतवती। भवत्या: कृते किं किमप्यन्यद् दुरूहं कार्यं सम्पादयितुं नाहं शक्नुयाम्? कथं भवती अनुदिनमात्मानं दु:खेन क्षीणतरीकरोति? समरे पाण्डवानां विजयोऽवश्यम्भावीति मे निश्चय:। भवती मयि विश्वसितुमर्हति। श्रीकृष्णो यत्र पार्थसारथि: भवितुं सम्मत:, तत्र पुन: पराजय: कुत:?’’
माताकुन्ती अश्रूणि मुञ्चति। ब्रूते—''युद्धमनिवार्यमिति वीराणां मृत्युरनिवार्य:, क्षत्रियनाशनमनिवार्यं च। एतदेव मे दु:खम्। वीर: कर्ण एव मे परमं भयम्। स यदि पाण्डवपक्षे युध्येत्, तर्हि मे दु:खलेशोऽपि न स्यात्।’’
अहं तूष्णीं भवामि। यदसम्भवम्, तदाशायाश्चरमं फलं दु:खमेव। श्रीकृष्णस्य समस्तमवदानं यस्तिरश्चकार, को बत तं बोधयेत्?
एकदाऽपराह्णे माता गङ्गाकूले गन्तुमैच्छत्। तस्या: शरीरं दुर्बलं, ज्वरेण चिन्तया च क्षीणतरम्। अकाण्डे गङ्गातीरे तस्या: किं कार्यमापतितम्? पुत्रशोकवरणात् पूर्वं गङ्गागर्भे माता सलिलसमाधिं तु जिगमिषति कदाचित्?
अन्यस्मिन् रथे उपविश्याहं मातरमनुसृतवती। परस्तान्मह्यं क्रुध्यतु नाम, दशायामस्यां तस्या विसर्जितव्यमनुचितं किल।
रथं मे वृक्षराजिभिर्गोपयित्वाहं मातु: प्रतीक्षया रहसि प्रतिपालितवती। सा सम्प्रति मया स्पष्टं दृश्यते। दासीभि: सह तत्कथोपकथनं च स्पष्टं श्रूयते। पुष्पावचयाय दासी: दूरीकृत्य सा शनै: शनैर्गङ्गानद्यास्तटदेशं निर्जनमभित: ससार। गङ्गायां परमरूपवान् कर्ण: सान्ध्यस्नानं समाप्य वेदपाठं कुरुते। तदङ्गसौष्ठवमस्तसूर्यरश्मिभिरपूर्वं शोभामयं दृश्यते। समग्रशरीरे काचिन्निर्मला पवित्राऽऽभा विद्योतते। तत्पूतरूपदर्शनेऽहं विमुग्धाऽभूवम्। अहमेका परिणीतापूर्वा रमणीति क्षणाय व्यस्मरम्।
सूर्यप्रणामं समाप्य कर्णस्तटदेशे मुखं परावर्तयन् मातरं ददर्श, जलगर्भाच्चागत्य तच्चरणयुगलं स्पृष्ट्वा प्रणम्याह—''मात:, असमये भवती पुन: किमर्थम्? राधाधिरथतनय: कर्णो भवत्या: कां सेवां सम्पादयितुं शक्नुयात्?’’
माता निर्भीकतया कर्णं विलोक्य मुक्तकण्ठमवादीत्—''वत्स! सत्याश्रयो मानवो न दूयते। अतोऽहं तस्य प्रकाशनेन दु:खादात्मानं मोचयितुं त्वदन्तिके समागताऽस्मि पुत्र! त्वं सूर्यसुतो मम कुमारीगर्भादुत्पन्न:। न त्वं राधाधिरथयोस्तनय:। पुनस्तयोर्नामनी उच्चार्य मा मां दावयितुमर्हसि। पाण्डवास्ते सहोदरा:। यूयं भ्रातृर: परस्परं युध्यन्तो नाशं यास्यथेति नाहं सहिष्ये। अहमिच्छामि यत्त्वं पाण्डवपक्षे युद्धेऽवतरेति। कर्णार्जुनमिलनं विलोक्य संसारवासिनो धन्या: स्यु:। अहमपि धन्या स्याम्। जात कर्ण! पित्रो: सन्तोषकरणं नु पुत्रधर्म:। जानीहि, मम वचनं शिरसोररीकृत्य द्रौपदी मे पञ्चपुत्रानङ्गीचकार। त्वमपि मे वचनं पालयिष्यसीति विश्वासेनागतास्मि।’’
सूर्यदेवो निजस्वरूपं प्रकाश्य जगाद—''कर्ण! कुन्ती ते जननी। तद्वचनाङ्गीकारस्ते धर्म:। मम पुत्रो धर्मनिष्ठ एव स्यात्।’’
कर्ण: साक्षात् कुन्तीमुखमैक्षत। स्पष्टमवदत्—''पितरावेव पुत्रस्य धर्म:। परन्तु भवतोरादेशपालनेनापि मे धर्मो नङ्क्ष्यति। मम वास्तविकपितरौ तु राधाधिरथौ। सन्ततिजन्मदानं तु अनायत्तम्, परन्तु तत्पालनपोषणं मनुष्याधीनम्। भवत्या तु मातृकर्तव्यं नाचरितम्, मम पुन: पुत्रकर्तव्यं कुत आशास्यते? य: सूर्यदेव: समस्तान् पदार्थान् दृश्यमानान् सम्पादयति, स: पुनर्में पितृपरिचयं दर्शयितुं कथं कुण्ठितो बभूव? मम पौरुषम्, अहङ्कार:, सम्मानश्च यदाऽपमानिता बभूवुस्तदा क्वाऽऽस्तां भवन्तौ? शैशवादद्यावधि यावन्तमपमानमहं सहे, तावत: कारणमेव भवन्तौ। द्रौपदीस्वयंवरसभायां यदा धृष्टद्युम्नो मे पितृपरिचयं ज्ञातुमैच्छत्, तदा सूर्यदेव: किमाकाशे नासीत्? मयि गगनं विलोक्य पितृपरिचयमन्विषति स: किमप्यभाषमाण: पितृकर्त्तव्यमाचचार? कुन्तीपुत्ररूपेण भीमार्जुनौ यावत् सौविध्यं लेभाते, तावत् किमहमलभे? भवती किं तत् सर्वं न ज्ञातवती? मम समस्तमपमानं ग्लानिं च विलोक्यापि जीवने भवती तत्र तत्र मौनमाचचार। अद्यान्तिममुहूर्त्ते परिचयप्रदानेन किं मूल्यम्? अहं वचनभ्रष्टो भविष्यामि न कदाचिदिति श्रीकृष्णाय पूर्वं ज्ञापितवान्। समग्रपृथिवीद्रौपद्योरुपलब्धिप्रलोभनमपि तुच्छीकृतं मया। यशोदां रोदयन् कृष्णो मथुरापुरीं तत्याजेति तथाहं कुर्यामिति आशा वृथा। कौरवाणामहं बाहुल्येन ऋणयुक्त:। ते धर्मे सन्तु, अधर्मे वा, तेषामुपकार: प्रत्यर्पणीय:। विना दोषं भवत्या: साध्वी वधू: द्रौपदी अनेकशो मयाऽपमानिता लाञ्छिता च। एतस्मादेव कारणादहं दु:खेन स्वतस्त्रुट्यामि। अद्य तस्यै स्वार्थपरायै मात्रे क्रुध्यन् द्रौपदीमपमानितवानित्यवगच्छामि। जननि! भवत्या आदेशं पालयितुमसमर्थ इति क्षम्यतामयं दीन:। द्रौपद्या अपि क्षमां कामये। सा सौभाग्यवती स्यात्। पाण्डवानां विजयो भवतु।’’
अश्रूणि विमुञ्चन्ती माता कुन्ती बभाषे—''पुत्र! तवाभिमान: स्वाभाविक:। परन्तु त्वं यदि पाण्डवविपक्षमङ्गीकरोसि, तर्हि द्रौपद्या: सौभाग्यवतीत्वं कथं सम्भवेत्? पितृगृहत्यागात् परं सा दीना नो मन्दकर्मणा दु:खिता।’’
कर्ण: स्पष्टमवादीत् —''अम्ब! इदानीं भवत्या आगमनकारणमवगच्छामि। अहं प्रतिजानामि यदर्जुनं विहाय शिष्टानां चतुर्णां भ्रातृणां कृतेऽस्त्रं न चालयिष्यामि। यतोहि ममाचालनया ते विनाशं भजिष्यन्ति। अर्जुनो मत्समानो योद्धा। आबाल्यान्मे तेन सह प्रतिद्वन्द्व:। तत्कारणान्मे पौरुष: प्रतिपदं विपर्यस्त:। केवलं तेनैव सह युद्धं करिष्यामि। मम कवचकुण्डलानि तत्पित्रा याच्ञाच्छलेनापहृतानि। अत: प्रायेणार्जुनद्वारा मे वीरगति: स्यात्। जीवितोऽर्जुनो राज्यं भोक्ष्यति। अर्जुनो यदि मृत्युं लप्स्यते, अथवा स यदि वीरगतिमादौ यास्यति, तर्हि तेन सहाहमपि यास्यामि ताम्। भ्रात्रा सह प्रतिद्वन्द्वितया विजयलाभस्यानन्द उपभोक्तुं शक्यते, परन्तु रणे भ्रातृरं हत्वा भ्रातृशोकान्मुक्तिर्न लभ्यते। आजीवनमहं भ्रातृस्नेहाद् वञ्चित:, पुनस्तच्छोककष्टं न वरिष्यामि। अत उभयत्रावाञ्छितस्य, आजन्मन: मातृपितृपरित्यक्तस्य कर्णस्य मृत्युरेव श्रेयान्। कर्णो बिभेति दयाया:, करुणाया:, विश्वासघातकतायाश्च, न तु मृत्यो:। प्रस्थातुमादिशतु मात:! जन्मन्यस्मिन्निदं चरमं मिलनम्। अन्तिमसमये भवती मां स्वीकृतवतीति तदर्थमधमोऽयं राधासुत: कृतज्ञतां ज्ञापयति। कुन्तीपुत्रगौरवेण जीवनधारणसमयो व्यतीतपूर्व:। जन्मन्यस्मिन्नियमिच्छाऽवशिष्टा।’’
कर्णो मातु: पदधूलिं स्वीचकार। माता तमालिङ्ग्येदमुवाच—''पुत्र! यशस्वी भवेति मातुरयमाशीर्वाद:।’’
कर्णो हसन्नभाषत—''अहं जानामि यद् 'विजयी भव’ दीर्घजीवी भव वेत्याशीवादं भवती मह्यं प्रदातुं नार्हसि। कदाचिदनेन भवत्या: पञ्चपुत्राणां शुभं पथरुद्धं स्यादिति। एकपुत्रापेक्षया पञ्चपुत्रजीवनानि कस्या अपि जनन्या: काम्यतराणि। आशीर्वादं पाथेयीकृत्य यशस्वी भवितुं प्रयतिष्ये। रणभूमौ वीरोचितमृत्युवरणेन पुरुषो यशस्वी सम्पद्यते। भवत्या आशीर्वाद: सत्यतां यातु।’’
अन्तिममुहूर्त्तेऽपि कर्णोऽभिमानी जीवनस्य समस्तमभिमानमेकत्रीकृत्य मात्रे चरममाघातं प्रदायापससार। असहाया जननी कुन्ती गङ्गानदीस्रोतसि स्वाश्रूणि प्रवाहयन्त्यपि दु:खभारादात्मानं मोचयितुं न शशाक। आर्द्रसैकते कर्णपदचिह्नं द्वाभ्यां हस्ताभ्यामाश्लिष्य ''हा कर्ण! हा तनय! आदौ ममैव मृत्युर्भवतु’’ इति विललाप। कर्णपदचिह्नेन स्वयं लोटयन्ती सा धूलिधूसरिता बभूव।
पृष्ठत आगत्याहं तामुत्थापितवती। तस्या ज्वराक्रान्तं दुर्बलं शरीरमङ्के निधाय कोमलकण्ठेनावदम्—''मात:! गतोऽस्तमर्क:। हस्तिनापुरीराज्ञी पुरुवंशवधूर्भवती। एवं रुदतीमसहायां विलोक्य जना: किं चिन्तयेयु:?’’
माता कुन्ती क्षणेन बालिका बभूव। सर्वं दु:खं ममाञ्जलौ समर्प्याह—''युक्तम्। कापि तु ममान्तरव्यथां विज्ञातुमिहास्ति, यत्र तां सर्वां समर्पयितुं शक्ष्यामि। पञ्चपाण्डवा मम तनया अपि मद्वेदनां न ज्ञास्यन्ति। ते तु पुरुषा:। जननीव्यथां ते कथं जानीयु:? कृष्णे! मदनुग्रहा युधिष्ठिरस्य, अन्येषां च पुरस्तात् कर्णपरिचयं मा वक्तुमर्हसि त्वं कृपया।’’
''कथं न विज्ञापयामि? एतेन ते समरे कर्णं प्रति संवेदनशीला: स्यु:, तत्प्राणनाशाय न प्रयतेरन्।’’ अहं सोत्कण्ठमपृच्छम्।
शान्तस्वरा कुन्ती अवादीत्—''त्वं कर्णं न जानासि। कोऽपि दयया तं मरणमुखाज्जीवयत्विति स कदापि न सहते। अन्यच्च, सम्प्रति केवलं कर्णार्जुनयोर्युद्धं न, अपि तु इदं विश्वयुद्धरूपेण परिणतम्। एकस्मिन् पक्षे न्याय:, अन्यत्र त्वन्याय:। एकत्र दैवीं शक्तिं प्रति गभीरास्था, अन्यत्र तु स्वार्थपरता, अहङ्कारस्य विकटता च। तत्र कस्याप्येकस्य लाभक्षतिप्रश्न एव नास्ति। कर्णो विपन्नोऽस्तु नाम, धर्मो विपन्नो मा भूत्, पृथिवी च विपन्ना मा स्यात्। कर्णो यदि विजयं लभते, तर्हि राजा भविष्यति दुर्योधन:। पृथिव्या न्यायधर्मलोप: स्यात्। महासमरे आत्मबलिं प्रदाय जना: न्यायधर्मप्रतिष्ठां वाञ्छन्ति। समूहस्वार्थजगत्कल्याणयो: पन्थानमवरुध्य व्यष्टिस्वार्थप्राधान्यं नैव सम्भवेत्। अत: जगत्सुखायाहं दु:खं सहिष्ये। अत्र गत्यन्तरमेव नास्ति।’’
पुन: क्षणेनैवासहायबालिकायमाना कुन्ती विश्वजननीतां जगाम। तामहं प्रणम्य धन्या जाता।
अद्य प्रभाते पूजाया आयोजनं कथम्? नाना खाद्यानि पिष्टकमिष्टान्नानि च प्रस्तुतानि। शिवमन्दिरेऽर्चनां कृत्वा कुन्ती प्रत्यागता। पुरोहितो जन्मदिवसपूजायोजनं कुरुते। अद्य किमु कस्यचिज्जन्मदिवस: स्मर्तुं प्रायते। मम पतिषु पुत्रेषु वा कस्यचिदपि नाद्य जन्मदिनम्। तर्हि पूजेयं किमर्थम्? किमु मातु: कुन्त्या मतिभ्रमो बभूव! एवमस्थाने कस्य जन्मदिवसं साऽऽयोजयति?
मम चक्षुषो: सन्देहं वीक्ष्य माता कुन्ती धीरं जगाद—''अद्य मम ज्येष्ठपुत्रस्य कर्णस्य जन्मतिथि:। प्रतिवर्षं केवलं शिवमन्दिरे पूजां करोमि। कदाचित् कोऽपि विद्यादिति गृहे किमपि नायोजयामि। परन्तु अद्य तद् भयं नास्ति। त्वं तु सर्वं वेत्सि। अन्तत: पुत्रजन्मदिनं सकृदपि पालयेयम्! परन्तु विदुरो यथा सर्वमेतन्न शृणुयात्..........मातु: कण्ठश्चकम्पे।’’
मातरं प्रसादयितुमहं परमोत्साहेन जन्मदिनकार्ये संलग्ना। प्रसादवितरणमभूत्। पूजायां पुरोहिते कुन्तीज्येष्ठपुत्रदीर्घजीवनमुच्चरति सति माता कुन्ती अश्रुमोचनं चक्रे। पुरोहितोऽवगमितपूर्वो यत् कुन्ती पुत्राणां शुभकामनया पूजामायोजयतीति। पुरोहितो मातरं पप्रच्छ—''केन नाम्ना सङ्कल्पं कुर्यामिति।’’
मातोत्तरमदात्—''नामानावश्यकम्। 'कुन्तीज्येष्ठपुत्र’ इति उच्चार्य सङ्कल्प: क्रियताम्। ज्येष्ठपुत्रो गृहकर्त्ता। अतस्तेन सर्वेषां शुभसङ्कल्पो जात इति ज्ञेयम्।’’
पुरोहित: पुन: पुन: 'कुन्तीज्येष्ठपुत्र:’ इति समुच्चार्य शुभपूजनं चकार, माता च गोपयित्वेवाश्रूणि मुमोच।
पूजान्ते कुन्ती पितृव्यं विदुरमुवाच—''अद्य मे धर्मपुत्रं कर्णं निकटे उपावेश्य प्रसादं भोजयितुमिच्छामि, यतोहि मम पुत्रपौत्रा दूरे वर्त्तन्ते।’’
विदुरोऽवदत्—''एतदर्थं चिन्ता कथम्? भवत्या निमन्त्रणं कर्णान्तिके प्रेषयामि। मम गृह आगन्तुं तस्य तु कदाचिदापत्तिर्न स्यात्?’’
निमन्त्रणमाप्य कौरवै: सह परामृशति कर्णे दुष्टो दु:शासनो बभाषे—''मित्रवर! बहुपुरुषभोग्यासु नारीषु विश्वासो मा कर्त्तव्य:। अद्य पुनर्विदुरगृहे कुन्तीद्रौपद्यावुभौ स्त:। त्वं किलास्माकं समरकर्णधार:। युद्धाय त्रीणि दिनान्यवशिष्टानि। तव निमन्त्रणे किमपि कपटमन्तर्निहितमस्तीति मे मन आशङ्कतेे। त्वमेवार्जुनाय विपत्ति:। अतस्त्वां मार्गाद् दूरयितुमिदं किमु आचरितम्? भोजने विषं मेलयित्वा तद् भोजयिष्यति निश्चयेन कुन्ती। पुत्रजीवनरक्षणाय नारी किं किं कर्त्तुं न प्रभवेत्!’’
सर्वे दु:शासनोक्तिं समर्थयामासु:। कुन्तीनिमन्त्रणे न गन्तुं प्रबोधितवन्तश्च। परन्तु कर्णो दृढतयाऽवोचत्—''कुन्त्याऽहं धर्मपुत्ररूपेण स्वीकृत:। अत: सैवं निन्दनीयं करिष्यतीति नाहं विश्वसिमि। भवन्त एवमाशङ्कामुत्पाद्य कुन्त्या मातृत्वापमानं मा कर्तुमर्हन्ति। अहं तस्या: पुत्राणां शत्रुरिति सत्यम्, परन्तु अहमपि तत्पुत्र इत्येतदपि सत्यम्। सा धर्मद्रोहं नाचरिष्यतीति मे दृढो विश्वास:।’’
दु:शासन: पुनरुवाद—''कुन्ती तव जननी, न तु द्रौपदी। अर्जुन: प्रियतम: किल द्रौपद्या:। त्वमर्जुनशत्रु:। अत: सैव भोजने विषं दातुं शक्ष्यति।’’
कर्णो गम्भीरकण्ठेनावादीत्—कृष्णाऽऽर्यावर्तस्य श्रेष्ठा नारी। तस्या हृदये पशुपक्षिकीटपतङ्गादिषु स्नेहोऽप्यशेषो वर्त्तते। भवन्तो न जानन्ति यदेकदा द्वैतवने मे सर्पदंशनेनाकालमृत्युरभविष्यत्। कृष्णैव तदा तदलौकिकशक्त्या मामजीवयत्। मम कृतज्ञतां स्वीकर्तुमप्रतीक्ष्य सा प्रतिगताऽपि तत्सागरतरङ्गोपमै: मुक्तसुनीलकेशैरपूर्वाङ्गसौष्ठवेन च पृष्ठतो मया स्पष्टमभिज्ञाता। या जीवनदात्री सा जनन्यपरपर्याया। यो जीवनं रक्षति, स किं पुनस्तन्नाशयति?
निमन्त्रणं स्वीकृत्य कर्णो विदुरगृहे समागत:। माता कुन्ती परमादरेण खाद्यानि पर्यवेषयत्। आदौ तन्मस्तके तिलकं कृत्वा तन्मुखे प्रसादं प्रयच्छन्ती वाष्पाकुलाऽऽह—''वत्स! अद्य ते जन्मदिवस:।’’
कर्णश्चकितो जगाद—''जन्मदिवस:! मम जीवने जन्मदिवसो नैव कदाचित् पालितपूर्व:। यतोहि यस्मिन् दिने मे पितरौ मां जलस्रोतस उद्दध्रतु:, तदतिरिक्तस्य जन्मदिनान्तरस्य पालने याथार्थ्यं किमपि नास्ति। मत्प्राप्ते: स्मृतिदिवसं तौ तु प्रतिवर्षं पालयत:।’’
माता कुन्ती सवाष्पकण्ठमाह—''अहं किन्तु प्रतिवर्षं तव जन्मतिथौ शिवमन्दिरे पूजां करोमि, प्रदीपं च ज्वालयामि, ब्राह्मणभोजनदानादिकं च सम्पादयामि। परन्तु तत् सर्वं तुभ्यं विज्ञापयितुमुपायो नास्ति।’’
कर्णो मिष्टान्नमश्रन्नुवाद—''अस्त्वियं मे जीवने प्रथमा चरमा च जन्मदिवसपालनानुभूति:। को जानाति, युद्धात् परमहं स्याम्, न स्याम् वा..............।’’
माता कुन्ती अश्रूणि मुञ्चन्ती मौनमाचचार। जननीहृदयोच्छ्वासेन तस्मिन् दिने सा तमुपेक्षितमवहेलितमभिशप्तं च सुतमातृप्तेर्भोजितवती। कर्णोऽपि मौनेन खाद्यं स्वीकृत्य कुन्तीं मोदयितुं प्रायतत।
भोजनान्ते माता कर्णं निकट उपावेश्योवाच—''मम निमन्त्रणमाधारीकृत्य कौरवाणां कटुमन्तव्यं, तव च यथार्थमुत्तरमहं विदुराच्छ्रुतवती। त्वमेकदा जलस्रोतस: कृष्णामुद्धृतवान्, सा चैकदा द्वैतवने ते जीवनमरक्षदिति जाने यद् युवयो: कदापि परस्परं विद्वेषो नासीत्। यदप्रियं सङ्घटितमित: पूर्वं, तत्रान्येषां भूमिकाऽधिका। कौरवै: सह मित्रतया त्वमनुचितनिर्णयपतित:। समरारम्भात् पूर्वं युवयो: परस्परं भ्रान्तिर्दूरीकर्तव्या किल। कृष्णाऽत्रास्ति। सा त्वत्पुरस्तात् किमपि कथयितुमिच्छति।’’
कर्ण: सकुण्ठमवादीत्—''पूर्वं तु मया कृष्णात: क्षमायाचना कृता। अन्तिमसमयेऽनेन मिलनेन किं प्रयोजनम्? यत् सङ्घटितं तत्तु पुनर्न प्रत्यावर्त्तिष्यते!’’
कुन्ती कर्णोक्तिमप्रतीक्ष्य मदन्तिक आगत्य सानुरोधमुवाच—''पुत्रि कृष्णे! मम दु:खापनोदनाय त्वं किमपि कर्त्तुं प्रस्तुतेति निशम्य मे मनस्याशासूर्य उदित:। कर्णो मे उपदेशं न शृणोति, किन्तु त्वद्वचनमवश्यं स्वीकरिष्यतीति विश्वसिम्यहम्। आर्यावर्त्ते नैवं पुरुषोऽस्ति यस्त्वादृश्या वरनार्या अनुरोधमपाकरिष्यति। कर्णस्य त्वाकर्षणं त्वं। प्रति पूर्वमेव वर्त्तते। मत्कारणात् किं त्वमेकमनुरोधं करिष्यसि?’’
अहमेतदर्थं कदापि प्रस्तुता नासम्। किन्तु कर्ण: कुन्तीज्येष्ठपुत्र इति विज्ञाय मम मनसि तं प्रति समवेदनोदेति। तथापि, आत्मावमानेन यदि तन्निकटेऽनुरोध उपस्थापनीयस्तर्हि तथा कथमहं कर्त्तुं शक्नुयाम्?
मम द्वन्द्वं चिन्ताकुलितं मुखभावं च विलोक्य माता कोमलकण्ठेनाभाषत—''त्वं मम पुत्रवधू:। तव सम्मानो मत्सम्मानान्महत्तर:। तत्कर्तुमहं कदापि नादेक्ष्यामि, येन पुरुवंशकुलवधूमर्यादाऽपकृष्येत। त्वं कर्णाय मत्पक्षत एतावन्मात्रं वद यत् स पाण्डवपक्षसमर्थनं मा करोतु नाम, कौरवाणां पक्षे तु मा युध्यतु। केनापि व्याजेन स युद्धक्षेत्राद् दूरे तिष्ठतु। एवं कर्तव्ये गोविन्दोऽवश्यमुपायं वक्ष्यति। कदाचिन्मे हतभाग्योऽयं ज्येष्ठपुत्रो युद्धात् परं जीवेत्।’’
मातुरसहायतामहं मर्मणाऽन्वभवम्, कर्णं चानुरोद्धुं सममन्ये।
मत्प्रतीक्षयोपविष्ट आसीत् कुन्तीसुत: कर्ण:। अहं किं कथयितुमिच्छामीति विचिन्त्य तस्य हृत् स्पन्दत इव। मायया सहाहं तस्य प्रकोष्ठे प्रविश्य तं प्राणमम्। मम दर्शनमात्रेण कर्ण: सर्वमनुतापं पश्चात्तापं च विस्मृत्य प्रायेण स्वयंवरसभापराजयं स्मरन्नासीत्। स सव्यङ्ग्यमपृच्छत्—''समग्नार्यावर्तस्यागामिनी महासाम्राज्ञी केनानुरोधेन सूतपुत्रं कर्णमपराधिनं कर्तुमिच्छति?’’ अहं तु भूमिकां विना मायां माध्यमीकृत्य स्वानुरोधं ज्ञापितवती।
कर्ण: साट्टहासं बभाषे—''युद्धे मे मृत्यु: सुनिश्चित इति विज्ञाय कृष्णा मामात्महत्यार्थं प्रवर्तयति कथम्? मम जीवने तदर्थमेको महार्घ: सुयोग: समागतपूर्व:। तद् दिनमासीत् कृष्णाया: स्वयंवरस्य। कोऽप्यात्मसम्मानवान् पुरुषस्तदाऽऽत्महत्यामकृत्वा नास्थास्यत्। परन्तु, आत्महत्या कापुरुषकार्यमिति मत्वा तदा समस्तापमानेन, अमूल्यरत्नभूताया: कृष्णाया अनुपलब्धिदु:खेन चात्महत्यां नाकरवम्। अद्य जीवनापराह्णे वीरोचितमृत्युलाभसुयोगात् कृष्णा मां कस्मात् कारणात् निषेधयति?’’
अहमाहतस्वरेण मायामवोचम्—''माये! कुतोऽयं भ्रान्तो विचार:? संसारे दीर्घजीवनतापरपर्याया युद्धान्निवृत्ति:। इयमेव हि मातुरिच्छा। अस्मिन् भयङ्करसमरे कर्णजीवनं विपन्नमित्यनुभूय माता चिन्तिता। अत: मातृदु:खेन दु:खिताया: ममायमनुरोध:। युद्धं नैव सार्वकालिकम्। युद्धान्ते पृथिव्यां धर्मशान्तिप्रतिष्ठाऽनिवार्या। तदानीं कर्णस्य पाण्डवै: सह मिलित्वा राज्यशासने न काऽपि बाधाऽऽपतिष्यति। सुपुरुषाणां सम्मिलिततया राज्यशासनेन समग्रमानवजाते: कल्याणं सम्भविष्यति। अत: कर्ण इदमात्महननमिति कथं मन्यते?’’
कर्ण: सगाम्भीर्यमवादीत्—''कृष्णाऽऽर्यावर्त्तेऽन्यतमा विदुषी शास्त्रज्ञा च नारीति जानामि। परन्तु तदनुसारेण जीवनं नाम वय:सीमेति श्रुत्वाऽहमाश्चर्यान्वित:। कापुरुषो जीवनलोभेन नानाव्याजेन युद्धक्षेत्राद् दूरे तिष्ठति। तथा जीवनधारणं नाम मृत्युरेव। य: पुरुष: स्वयं ज्ञात्वा युद्धक्षेत्राद् दूरे तिष्ठति, स स्वयमात्महत्यां कुरुत इति विज्ञेयम्। कर्णस्तु न तथा कापुरुषो भीरुश्च। कर्ण: स्वेच्छया समग्रं पुरुवंशं हत्वा हस्तिनाराजो भवितुं शक्नोति। परन्तु राजसिंहासनमोह: कर्णस्य नास्ति। कर्णो वीरोचितं मृत्युवरणं जीवनादपि श्रेयस्तरं मन्यते। अत: माता कुन्ती एवमनुरोधं कारयन्ती मे पुरुषकारमपमानयति। मातुरयमनुरोधो मयाऽस्वीकार्य एव।’’
कर्णस्याहङ्कारोऽसहनीय: प्रतीयते। मातुर्दीनतामनुमाय मयाऽयमनुरोधस्तत्पुरस्तादुपस्थापित:। किमेतेन स: समग्रपुरुवंशनाशास्फालनं कुर्यात्? स: किमर्जुनवीरत्वं नैव वेत्ति? अहं क्षुण्णा मायां विलोक्य तमवदम्—''माये! वीरत्वशौर्यादिप्रदर्शनं पुरुषस्य गौरवमिति निश्चितम्। परन्तु मातृपितृगुरुजनभक्ति: सफलपुरुषत्वस्याविभाज्यमङ्गम्। अर्जुनो मात्राज्ञया स्वपत्नीं पञ्चधा विभाजयामास। किं स न वीरपुरुष:?’’
कर्ण उपाहसत्। उवाच—''भद्रे! तव पतिर्वीर इति स्वीकरोमि। परन्तु स: किम्भूत: पुरुष इति न जानामि। अहं यद्यर्जुनस्थानेऽभविष्यम्, स्वयंवरे विजित्यासादितां वरनारीं यदि भ्रातृभि: सह मिलित्वोपभोक्तुं माताऽऽदेक्ष्यत्, तर्हि अहं तदादेशमुल्लङ्घ्य प्राणप्रियया सहापि राज्यमत्यक्ष्यम्। सम्प्रति यदि माता कुन्ती तत्पुत्रत्वेन कृष्णां पत्नीरूपेणाङ्गीकर्त्तुं मामादिशेत्, तर्हि अहं तदादेशं न कदापि स्वीकरिष्यामि। मातुरुचितादेशेनाहं जीवनमुत्स्रष्टुं समर्थ:। मातृभक्तपुत्रो भवितुं मातुरनुचितादेशस्यान्धानुपालनं मद्दृष्ट्या न पौरुषपरिचायकम्। अयमेव प्रभेद: कर्णार्जुनयोर्मध्ये।’’
अहं स्थाणुवत् स्थिता चिन्तयामि यत् साहङ्कारस्य कर्णस्य पौरुष इयान् प्रचण्डो यत्तदग्नौ तस्य प्रज्वलनमेव सार:।
अहं पुन: प्रणम्य प्रत्यागच्छामि। कर्णो नम्रकण्ठेनाब्रवीत्—''भद्रे! त्वं सम्प्रति मेऽनुजानां धर्मपत्नीति पुत्रवधूरिव। अत: सौभाग्यवती भवेति ममाशीर्वाद:। त्वं पुनर्मां जीवयित्वा जननीस्थानाधिकारिणी जाता। त्वामभिशप्तो राधापुत्र: प्रणमति। अस्य जन्मन: समस्तानपराधान् क्षमस्व। परजन्मनि प्रायश्चित्तसुयोगं प्रतीक्षिष्ये।’’
कर्ण: साञ्जलि: प्रणम्याश्रुनेत्र: प्रस्थानमयाचत। नारीमन: कियद् विचित्रम्। मुहूर्त्तात् पूर्वं तस्याहङ्काराज्जुगुप्सितवती। अथ च सम्प्रति तस्यैव सजले नेत्रे, संविग्नोक्तिं च निशम्य मे दम्भदुर्गं ध्वंसते। इच्छामि, स्ववस्त्राञ्चलेनावृत्यैनं दुर्लभपुरुषं ध्वंसमुखाद्रक्षेयमिति!
अहं साश्रुकण्ठेनावदम्—''मम भ्रातु: कटूक्त्या भवता स्वयंवरसभायां योऽपमान आसादित:, तदर्थं पुत्रवधूत्वेनाहं क्षमां याचे।’’
''अस्मिंजन्मन्ययमन्तिम: साक्षात्कार:। सौभाग्यवती भव। पुत्रवधू: सर्वदा क्षमापात्री’’ इत्युक्त्वा कर्ण: कक्षान्निस्सृत्य रथ उपविवेश।
कृष्णचतुर्दश्या अन्धकाराच्छन्ना निशा। पञ्चयोजनव्याप्तं वृत्ताकारं विशालं प्रान्तरमेव कुरुक्षेत्रयुद्धभूमि:। हिरण्यवतीनदीमुभयत: कौरवपाण्डवानां सेनाशिविरौ। वात्यापूर्वाऽऽकाशशोभेव सर्वत्रैका तटस्था नीरवता।
प्रभाते कुरुक्षेत्रमहासमर:। कौरवाणां प्रधानसेनापति: पितामहभीष्म:, पाण्डवानां तु मम प्रियो भ्राता धृष्टद्युम्न:।
पाण्डवशिविरे ममोपस्थितिरेकान्तवाञ्छनीया। अहं तेषां धर्मपत्नी प्रेरणादायिनी। प्रतिदिनं मत्कृतविजयतिलकयुक्ता: सुलक्षणं सुश्रीकं च मे मुखमण्डलं विलोक्य ते युद्धक्षेत्रेऽवतरिष्यन्ति। प्रतिदिनं तिलकं कृत्वा नारीनिवासशिविरे युद्धविपद्रहिते गत्वा स्थास्यामि। अहं सती साध्वी पतिप्राणा पवित्रा च महिला। अत: मां विना पाण्डवा: शक्तिहीनतामनुभवेयु:। अवचेतनमनसि अहङ्कार उदियाय। कस्या अपि नार्या अहङ्कारो स्वाभाविक:। मम पतीनामनेका रूपवत्य: पत्न्य: सन्ति। मम प्रियपत्युरर्जुनस्यानेकपत्नीष्वन्यतमा महापुरुषश्रीकृष्णभगिनी सुभद्रा। तासामुपस्थितिस्त्वावश्यकी न बभूव! अस्यायमर्थो यदहं पत्नीषु श्रेष्ठा, पञ्चपतिकाऽपि सतीत्वेनानन्या। मनसोऽहङ्कारेण हृदयभारोऽनुवर्धते, तत्प्रतिफलनं च मन्मुखमण्डले प्रस्फुरति।
सखा मृदु हसन्नुवाद—''सखि! अद्य सायंकालात्त्वमतिप्रफुल्लिता दृश्यसे, भयस्य लेशमात्रमपि मनसि न प्रतीयते। किं युद्धान्न बिभेसि?’’
अहं सगर्वमभाषे—''अहं क्षत्रियनारी साध्वी च। मम पतीनामवश्यं मङ्गलं स्यादिति विश्वास: किमनुचित:? विश्वासो नु सफलताया: कुञ्चिका...........’’
सखा सस्मितमूचे—''श्व: किमु युद्धं निश्चितम्? यद्यपि पाण्डवानां पक्षतोऽर्जुनरथं चालयिष्यामीति वचनबद्ध आसम्, तथापि सम्प्रति न तत् करिष्यामीति चिन्तयामि। पाण्डवानां न किमप्यसौविध्यं भवेत्। एतेषां किं वा भयम्? अनेके वीरा एषां पक्षतो योत्स्यन्ते। एते स्वयमपि प्रबलपराक्रमा:। अपि च निकटेऽस्ति परमप्रेरणादायिनी सती साध्वी धर्मपत्नी कृष्णा।’’ श्रीकृष्णोक्ते: समाप्ते: पूर्वं पाण्डवशिविरे आतङ्कनैराश्ये व्याप्नुताम्।
पाण्डवा: श्रीकृष्णं परित: स्थिता म्लाना बभूवु:। अर्जुन: साञ्जलि: प्राह—''सखे! किमनेनाधमेनापराद्धम्? अन्तिममुहूर्त्ते इयं हताशावाणी किमर्थं श्राव्यते? त्वं युद्धं न करिष्यसीति विज्ञायापि वयं त्वामाश्रिता:। त्वं यदि न: पक्षे न भवसि, तर्हि युद्धं कुत:? अन्ते जना अस्मानुपहसिष्यन्ति। को मे दोष: सखे?’’
श्रीकृष्ण: सचिन्त इवोवाच—''नात्र तव कोऽपि दोष:। दोषस्तु मम नीते:। अहं सर्वदा सत्यधर्मपक्षपात:। असत्यविनाशो मे धर्म:। निर्मलहृदयमेव सत्यस्यासनम्। परन्त्वहमनुभवामि यद् वयमत्र ये समुपस्थिता युद्धाय प्रस्तुर्तिं कुर्म:, तेषामस्माकं काऽपि गोपनीयता मनसि वर्त्तते। सत्यनिकटे चिरादहं निष्ठुर:। अतोऽगत्या श्व: निष्ठुरतामवलम्ब्य प्रभाते मया द्वारकापुरी प्रस्थातव्या।’’
साञ्जलिर्युधिष्ठिर: सविनयं पप्रच्छ—''वासुदेव! किमिदं कपटम्? मध्येसमुद्रं विहायास्मान्निर्गमनं किं बन्धुत्वपरिचायकम्? वस्तुतस्त्वं किमिच्छसि?’’
श्रीकृष्णो मां तीर्यगवेक्ष्य हसति। माया च तेन सह स्मितं करोति। माया यदैवं हसति तदा मे भाग्यं हसतीति जानाम्यहम्। मायाया हास्यं नाम कपटताया भाण्डागारम्।
श्रीकृष्णो गम्भीरकण्ठेनावादीत्—''इदं धर्मयुद्धम्। अत: युद्धात् पूर्वं मनो निर्मलं पवित्रमुन्मुक्तं च करणीयं किल। तथा सति अहमर्जुनरथसारथिर्भवेयम्। अन्यथा मम द्वारकाप्रस्थानमनुज्ञायताम्।’’
भीमसेन ईषत्क्रुद्धोऽब्रवीत्—''एतन्मात्रस्य कृते इयान् चातुर्याडम्बर: कथम्? सम्प्रति वयं सर्वे स्वस्वदौर्बल्यं सर्वेषां पुरस्तात् प्रकाशयामो नु! अस्तु, अहं प्रकाशयाम्यादौ।’’
श्रीकृष्णस्तूवाच—''न तथा। अग्रजयुधिष्ठिरादिदमारभ्यताम्।’’
युधिष्ठिरोऽधोमुखो जगाद—''अद्यापीच्छाम्यहं युद्धं न भवत्विति। युद्धं विनापि यदि समस्याया: समाधानं सम्भवेत्, तर्हि अहं तत् सादरं स्वीकरिष्यामि। युद्धं निवारयितुं द्यूतक्रीडायां पत्नीं द्रौपदीमहं संत्यक्तुं प्रस्तुत आसम्। तदानीमस्माकं वनवासाऽगमनेन कौरवा युद्धेनेन्द्रप्रस्थमधिकर्त्तुं प्रायतिष्यन्त। क्षत्रियकुललब्धजन्माप्यहं युद्धं प्रति घोरवितृष्णावान् इति मे चरित्रस्य दुर्बलतेयम्।’’
अर्जुनोऽपि तथैवावादीत्—''मातृवचनमङ्गीकृत्य भ्रातृभि: सह कृष्णां परिणीय संसारमतिवाहयतो मम मध्ये मध्ये क्षोभो मनस्युत्पद्यते। कृष्णा केवलं मामकीनाऽभविष्यच्चेत्! एवं विचारो मे चरित्रस्य निश्चयेन दुर्बलता।’’
भीमसेन: साक्षान्मामेव विलोक्य बभाषे—''खाद्ये यथा भागो ममाधिकस्तथैव कृष्णामुपभोक्तुं ममाधिक: कथं न भागो निर्धारित इति। कृष्णायै कृष्णाय चाहमत्यन्तं क्रुद्ध:। अन्यच्च, किञ्चिदधिकमहं खादामीति सर्वदा समराय प्रेष्य इति मातरमग्रजं च प्रति मम घोरोऽभिमान:।’’
लज्जावनतो नकुल उवाच—''कृष्णा रूपेण मत्तोऽपि श्रेष्ठाऽनिन्द्यतरेति तस्यै ईर्ष्योत्पद्यते। अन्यथा प्रसन्नोऽभविष्यमहम्।’’
सहदेव उदासीन आह—''मम मातैव मे दुर्बलता। कुन्तीपुत्रपरिचयेन वयं गर्वमनुभवाम:। कुन्त्या: मातृस्नेहस्योपमैव नास्ति। परन्तु, आवयोर्जन्मदात्री पाण्डुपत्नी माता माद्री क्रमेण विस्मर्यते, एकदा चेतिहासात् तस्या नाम लुप्तं भवेदिति विचिन्त्य मनसि दु:खमुत्पद्यते। मातापितृस्मृतेरमरत्वप्रतिपादनं पुत्रस्य कर्त्तव्यम्। अत: दुर्बलता मे न किं स्वाभाविकी?’’
श्रीकृष्णो निर्मलं हसन्नुवाद—''भवन्त: सत्यं निस्सङ्कोचं प्रकाशितवन्त इति मुखानि प्रतीयन्ते भवतामुज्ज्वलानि। अहमत्यन्तं प्रीतोऽस्मि।’’
''अपि तेऽस्ति काप्यापत्ति: पार्थसारथिर्भवितुम्?’’ भीमसेन: पप्रच्छ।
श्रीकृष्ण: स्मितेन दृष्टिं मदुपरि निक्षिप्याभाषत—''तदिदानीं कथं कथयेयम्? अधुनाऽपि पतिप्राणा द्रौपदी यन्मौनवती!’’
मत्पक्षपाता मायाऽवादीत्—''राज्ञी कृष्णा किमर्थमाक्षिप्ताऽस्मिन्? सा महिलेति न किं भवाँजानाति? नारीमनसि भावना कदा किम्भूताऽऽयातीति तस्या: किं सङ्ख्याऽस्ति? सर्वान् विचारान् सर्वेषां समक्षं, विशेषत: पतीनां समक्षं काऽपि नारी किं समर्था प्रकाशयितुम्?’’
श्रीकृष्ण: सस्मितमवदत्—''माये! सर्वत्र ते हस्तक्षेप: कुत:? कृष्णाकृष्णयोर्मध्ये व्यवधानापादनं ते किं जन्मगतोऽभ्यास:? मम भगिनी सुभद्रेव, पाण्डवानामन्या: पत्न्य इव वा किं कृष्णा सामान्या महिला? सा यथा रूपवती, तथैव विदुषी, सती, साध्वी च। सतीनारीचित्तं सूर्यालोकवन्निर्मलम्। सतीनार्या मनोदर्पणे पतिं विनाऽन्यपुरुषस्य छायापि नायाति। उन्मुक्ततया प्रकाशयितुं कृष्णा कथं कुण्ठिता स्यात्? अपि तु तत्प्रकाशनेन तद्गौरवं वर्धिष्यते, अहमपि पाण्डवानां पक्षं समर्थयिष्ये।’’
नीरवद्वन्द्वपतिताऽहमचिन्तयम्, कृष्णोऽपि कदाचिदियान् विपज्जनकोऽपि सम्भवति? प्रभाते महासमर:। मम पतय: सम्प्रति अस्थिरचित्ता उद्विग्राश्च। इदानीं मे मनोगतकथनेन तेषामस्थिरतामकालवात्या स्प्रक्ष्यति। आन्दोलितमनसस्तान् केन प्रकारेण युद्धभूमौ प्रेषयिष्यामि? यद्यपि मम स्वमनसो दुर्बलताप्रकाशने नास्ति काऽपि कुण्ठा, तथापि सम्प्रति मया चातुर्येण कृष्णप्रश्नस्योत्तरं प्रदेयम्। एकत: कृष्ण आवश्यक:, अपरत: पतीनां मनसां प्रशान्तिर्मम परमं कर्त्तव्यम्। कस्मिन् विषमे सङ्कटे आपातिताऽहं वासुदेवेन!
वासुदेवो हसन् पृच्छति—''सखि! मौनं कुत:? किं ते मनसो दुर्बलताऽत्यन्तं गुरुतरा?’’
अहं स्वपतीन् निर्मलहृदयेन स्निग्धदृष्ट्या च वीक्ष्यावदम्—''कृष्ण: सर्वज्ञ इति मातु: सकाशाच्छ्रुतवत्यस्मि। सर्वेषां मनोगतं तस्य नखदर्पणे उद्भासते। पुनरपि जानामि—कृष्णो गर्वगञ्जन:। कस्यापि गर्वमहङ्कारं च न स सहते। अतोऽद्य कृष्णामनोदर्पं चूर्णीकर्त्तुं नाटकमिदं रचितवान्। कृष्णाया मन: कृष्णेन नाज्ञातम्। तथापि मन्मुखेन यदि स: स्वीकारयितुं तद् बद्धपरिकरस्तर्हि नाहं कुण्ठिता।’’
सर्वे मे मुखं सकुतूहलं पश्यन्ति। माया स्मितं कुरुते। कृष्ण: किमप्यजानन्निव बालसुलभसरलतया मयि भाषमाणायां कर्णं ददाति।
अहमुक्तवती—''मम मनस्यनेका दुर्बलता:। यतोहि अहं मानवी, न तु देवी। एकैकश: सर्वासां प्रकाशनेन महासमरस्य महार्घमुहूर्तमतिक्रमिष्यति। तथापि कतिपया: प्रधाना: दुर्बलता: प्रकाशयामि। मम हृदयस्य प्रथमा दुर्बलता तावन्मे प्रियबान्धवो मधुसूदन:। मम जन्मसमयस्य नामकरणमुहूर्त्तादहं जानामि यदलौकिकपुरुषेण कृष्णेन सह कृष्णाया अदृश्योऽपार्थिवोऽविच्छेद्यश्च सम्बन्ध:। तस्य सम्बन्धस्य संज्ञा न ज्ञायते मया। कदाचित् कृष्णो जानीयात्! यत्र मम हृदयस्य दुर्बलता, तत्रापि मातु: कुन्त्या:।’’
''सा पुन: का?’’—इति कृष्णो निर्बोधबाल इवाप्राक्षीत्।
अहं शान्त्योत्तरं दत्तवती—''कुन्तीपुत्र एव मे द्वितीया दुर्बलता। मम नारीहृदयसंवेदनशीलता कुन्तीपुत्रान्नातिक्रामति। मातु: कुन्त्या: परमं दौर्बल्यमेव तस्या: पुत्रा:। पुत्राणां कृते सा जीवने भृशं कष्टं सहते। ज्येष्ठकुन्तीपुत्रादारभ्य कनिष्ठं यावत् सर्वत्र ममाकर्षणमस्ति। प्रचण्डं पौरुषं प्रति का वा नारी क्षणेन दुर्बला न भवति! किन्तु तस्यां दुर्बलतायामाशाया:, प्रत्याशाया:, आविलताया वा स्पर्श एव नास्ति। एतत्तु कृष्णो निश्चयेन जानीयादेव।’’
मम तृतीयं दौर्बल्यं तृतीयपाण्डवोऽर्जुन:। स वीरो विनयवाँश्चेति पाण्डवसंसारस्य सर्वोऽपि गुरुभारस्तस्मिन् न्यस्यते। तद्गौरवेणापरे चत्वारोऽपि गौरवान्विता भवन्तीति कदाचिन्मे मनसि क्षोभ उत्पद्यते। यदा दिव्यास्त्रसङ्ग्रहभारोऽर्जुनाय प्रदत्त:, तदाऽहं साधारणनारीस्वार्थपरतयाऽचिन्तयम्—''पञ्चानां दिव्यास्त्राणां सङ्ग्रह: पञ्चभि: पाण्डवै: कथं पृथक् पृथक् नाङ्गीकृत:? एकस्य साधनाया: फलमन्यैश्चतुर्भिर्भुज्यते कस्मात् कारणात्? अयं हि ममात्यन्तसङ्कीर्णताया: परिचय:। पञ्चपाण्डवानेकत्र बद्धुं जीवनमुत्सृज्य, पुनरर्जुनप्रेम्णाऽन्धतां गता तेषां परस्परं भ्रातृविवादं मनसा कल्पितवती। परस्तात्तु अनुतापजलेन मनस: सङ्कीर्णतां प्रक्षाल्य स्वात्मानं धिक्कृतवती।’’
स्वसङ्कीर्णतां पतीनां पुरस्तात् प्रकाशयन्त्या मे नयने सजले बभूवतु:।
अपश्यम्—मम परमप्रियस्यार्जुनस्य दृष्टिरपि अश्रुपूर्णा। दुर्बलतां प्रकाश्य मे जीवनं धन्यं जातमिति कृष्णाय मनसा कृतज्ञतामज्ञापयम्।
कृष्ण: परमस्नेहसिक्तदृष्टिं निक्षिप्य मामुवाच—''कृष्णे! त्वं धन्या। तव कथनचातुरी कृष्णमप्यतिशेते। ज्येष्ठकुन्तीपुत्रादारभ्य कनिष्ठकुन्तीपुत्रं यावत्ते आकर्षणं परिव्याप्तम्—इति प्रकाश्य त्वया स्वनिर्मलहृदयत्वं प्रदर्शितम्। एतदुक्तिविषये युद्धात् परमेकदा व्याख्यास्याम:।’’
कृष्णो मृदु अहसत्। पाण्डवाश्च मे स्पष्टोक्त्या सन्तुष्टा: प्रसन्नाश्चादृश्यन्त।
अहमकस्मादब्रवम्—''परमपुरुषेण कृष्णेन किं सर्वेषां दुर्बलतासन्धानाय स्वजीवनं समर्पितम्? तस्य न काऽपि दुर्बलताऽस्ति? अद्य युद्धात् पूर्वं पवित्रेऽस्मिन् मुहूर्त्ते सोऽपि स्वमनो निर्मलीकरोतु।’’
श्रीकृष्णो लज्जामभिनीयाह—''मम दुर्बलता तु त्रिभुवने परिव्याप्ता। इदमनन्तं विश्वब्रह्माण्डमादाय क्रीडारचना मे दौर्बल्यम्। यस्याहमधिकप्रिय:, तमहमधिकमपमानितं कारयामि। यश्च ममाधिकप्रिय:, तमहं विपद्यापातयामि। यश्चिन्तयति 'कृष्णो मदीय:’ इति तदर्थमहं मायारूपतां यामि। यस्तु चिन्तयति 'अहं कृष्णस्य’ इति, तत्प्रेमपाशेनाहं बद्धो भवामि। अहं यद् रचयामि, तद् भनज्मि। अत्रैवानन्दो मे।’’
भीमसेनोऽञ्जलिबद्ध उवाच—''अस्तु, अस्तु, केशव! तव दुर्बलतासूचीं श्रावं श्रावमस्माकं हृदयं दुर्बलीभवति। त्वमस्माकं प्रियतम:, त्वामस्मदीयं च विद्म:। अस्माकं संसारस्त्वया प्रतिपदं रचित:। त्वं पुनर्यदि तं भनक्षि.............।’’
अपश्यम्—युधिष्ठिरार्जुनौ करबद्धौ श्रीकृष्णं प्रणमत:।
युद्धात् पूर्वमुहूर्त्ते श्रीकृष्णस्य मस्तकं परित एकं दैविकं ज्योतिर्वलयं स्पष्टमाभासते। नैसर्गिकसौन्दर्यप्रभया युक्तमपूर्वं रूपं सम्प्रति कृष्णस्य। सर्वेषामशान्तमस्थिरमुद्विग्नं च हृदयं तद्रूपदर्शनेन निमेषेणैव प्रशान्तिं भेजे।
युद्धात् पूर्वमिदं पाण्डवानामावश्यकमासीत्।
अनन्तोऽजेयश्च महाकाल:। तत्र पुनरष्टादशमात्रा दिवसा: कियन्तो नगण्या:! दृष्टिपाता इवाष्टादशदिवसा: क्षिप्रं भयावहतया कालस्रोतसि प्रवाहिता:।
समयसमुद्रस्य सोऽष्टादशदिनात्मक: क्षुद्र: प्रवाह: सर्वं समाप्तं कालसाच्च चक्रे। महाकालमहासमुद्रस्य कुरुक्षेत्रमहासमरक्षुद्रतरङ्ग: प्रवाहित:। समर: समाप्तिं गत:। एकतो दारुण: पराजय:, अन्यतस्तु विकटो विजय:।
विजय: पुनरियान् विकटो, भयङ्करो, हाहाकारमयश्च भवेत्! जनमानवशून्या वसुन्धरा। शत्रुं, मित्रं, पापात्मानं, पुण्यात्मानं, ज्ञानवन्तम्, अज्ञानं, वीरं, कापुरुषं, युवकं, वृद्धं, पितरं, भ्रातृरं, गुरुं, पतिं, सन्ततिं, सर्वं च महासमर: स्वकरालजिह्वां प्रसार्य कवलीचकार।
कै: सह रचयिष्यामि विजयमहोत्सवम्? येऽधिकं प्रिया आसन्, तान् मे हस्तान्महाकाल आचकर्ष। मम पिता द्रुपद:, भ्रातरौ शिखण्डिधृष्टद्युम्नौ, धृष्टद्युम्नस्य पुत्रा:, बन्धुर्विराट:, तस्य पुत्रा:, मम पुत्रो बालकोऽभिमन्यु:, वक्षसस्तिलबिन्दुरिव मम हृदयस्य गोपनीय: कोमलो भाव:—मातु: कुन्त्या: परमदौर्बल्यं महावीर: कर्ण:, आर्यावर्त्तस्यागणिता: राजभक्ता: प्रजा:, देशभक्ता योद्धार:, पुत्रो घटोत्कच:, वेलालसेन:, इरावान्, मम पञ्च बालकपुत्राश्चेत्यादयोऽगणिता निहता युद्धे। निष्पापा: कोमला: शिशवो विकासात् पूर्वं समरविलासिनोऽन्धमनुष्यस्य रुधिरपिपासां शमयितुं समरप्राङ्गणे निपतिता:। कौरवपाण्डवानामष्टादशाक्षौहिणी सेना युद्धभूमौ शोणितनद्यां चिरनिद्रां भजते। वीराणां मध्ये कौरवपक्षे कृतवर्मकृपाचार्याऽश्वत्थामान:, पाण्डवपक्षे तु पञ्चपाण्डवा:, कृष्ण:, सात्यकिश्च युद्धात् परं जीविता:।
नयननिमेषोपमा आशादु:खनिराशादय आयान्ति यान्ति च। युद्धस्य प्रत्येकं दिनं दु:खसुखाशानिराशादिभिरुत्तेजनामयं व्यतीतम्। प्रतिमुहूर्त्तं युद्धभूमेरायाति स्म सुखस्य समाचार:, अनुपदं च दु:खस्य। अहं सम्यगजानाम् यत् यत्र धर्मस्तत्र कृष्ण:, यत्र च कृष्णस्तत्र विजय:। विजयो मन्निलीयमानोऽपि ममैवान्ततो निश्चयेन स्यादित्यवेदम्। सुखम्, ऐश्वर्यं, राज्यं, सम्मानं च ममैव, यतोहि अहं धर्मवतां पञ्चपाण्डवानां धर्मपत्नी, धृष्टद्युम्नभगिनी, अभिमन्युजननी, श्रीकृष्णसखी चेति।
युद्धाय मया पाण्डवा: प्रोत्साहिता:, किन्तु, राज्यं वा, धनं वा, ऐश्वर्यं वा, मम लक्ष्यं कदापि नासीत्। केवलमपमानस्य प्रतिशोधोऽथवा दोषिणे दण्ड इति मे प्रमुखं लक्ष्यमासीत्। अपमानस्य प्रतिशोध: सम्पन्न:, दोषी दण्डितश्च। परन्तु, किं मयोपलब्धम्? धर्मयुद्धे दोषी दण्ड्यते, किन्तु निर्दोषो दण्डं न लभत इति कुत्रायं सिद्धान्त: सन्निहितोऽस्ति?
को दोष: कृत: पुत्रेण मे बालकेनाभिमन्युना? अर्जुनस्य रूपगुणवीरत्वादिनि समासाद्य जातं तं प्रति मम विशेषत आकर्षणम्। चक्रव्यूहे प्रवेशं जानाति, न तु निर्गमनम्। अथ च युधिष्ठिर एवं कोमलं शिशुमर्जुनानुपस्थितौ सप्तरथिभि: सह योद्धुं किमर्थं प्रेषयामास? प्रेषणात् पूर्वं किमिदं पप्रच्छ—प्रस्थानकौशलं जानासि न वेति? सर्वदा समस्यामुखं गच्छत्यर्जुन:। अन्यथा तदनुपस्थितौ तत्पुत्र:! युधिष्ठिर: कैरुपादानैर्निर्मित:? तस्य किं हृदयं नास्ति? विचारबुद्धिरपि नास्ति? धर्मवन्त: पुरुषा: किमु स्वभावेन निष्ठुरा:?
स्वपुत्रेभ्यो दूरे विराटनगराश्रिताऽहं विराटराजपुत्र उत्तरे, राजकन्यायामुत्तरायां च पुत्रकन्यावदस्निह्यम्। उत्तरां पुत्रवधूरूपेणाङ्गीकृतवती अनेकसुखगाथां श्रावयन्ती। उत्तरस्तद्भ्राता च समरे मृत:। अन्त:सत्त्वा किशोरीे उत्तरा सम्प्रति स्ववीरपत्यभिमन्युहीना। कथं धैर्यं धारयेयम्? सुभद्राऽऽचिराद् भाग्यवादिनी निरीहा। पुत्रमात्रस्याभिमन्योर्निधनात् परं सा वाक्शक्तिरहिता। उत्तरोन्मत्ता। अर्जुन: शोकाभिभूत:। युधिष्ठिरस्तु नीरवो निर्विकार:।
तनयस्याभिमन्योर्हत्याऽमानुषिकी नारकीयेति विज्ञेया। सप्तरथिनो मिलित्वा तं जघ्नु:। अस्य हत्याकाण्डस्य प्रधानो नायको ज्येष्ठ: कुन्तीपुत्र:, अभिमन्योर्ज्येष्ठपिता महावीर: कर्ण:।
अभिमन्युमृत्युशोकेन भग्नहृदयाऽहमचिन्तयम्—कर्णनिधनेन मे शोक: शममेष्यतीति। कर्णनाशसमाचार: समागत:। भूमौ प्रविष्टं रथचक्रमुत्तोलयन्तं निरस्त्रं कर्णं कृष्णनिर्देशेन हतवान् मम पतिरर्जुन:! अर्जुनेनैवं कथं कृतम्? निरस्त्रं ज्येष्ठकुन्तीपुत्रं धर्मक्षेत्रे व्यापादयामास! कर्णमृत्युसमाचारेणाभिमन्युविच्छेददु:खं नैव न्यूनीकृतं मम, अपि तु असहायकर्णमृत्युना मे दु:खभारो द्विगुणीकृत:।
हृदयं प्रस्तरीकृत्य कर्णमृत्युशोकं कथमप्यसहे। अचिन्तयम्—दु:शासनहत्या मे दु:खं न्यूनीकुर्यात्। मृतो दु:शासन:। दु:शासनरुधिरेण स्नास्यामीत्येकदाऽपमानजर्जरिताऽहं प्रतिज्ञातवती। भीमसेनो गदाप्रहारेण दु:शासनोरुं भङ्क्त्वा हस्ताञ्जलिना तस्योष्णरुधिरेण मे मुक्तकेशान् प्रक्षाल्य स्वप्नतिज्ञां पालयामास। अपमानजर्जरहृदयस्य ज्वाला प्रशमिता, किन्तु प्रशान्तिर्नाधिगता।
मम प्रत्येकं मुक्तकेशो दु:शासनस्योष्णघनरुधिरेण सिक्त:। स्कन्धमुखमार्गाभ्यां प्रवहति मानवरुधिरधारा मम समग्रशरीरे। सद्योनिस्सृतरुधिरस्यामिषगन्धेन मे रोमाण्युत्थितानि। एकेन बीभत्सोल्लासेन मे मनस: सकला कोमलता ध्वंसते। किन्तु हृदयस्य ज्वलनं न शाम्यति, अपितु उद्दीप्तं वर्धते।
पूर्वं चिन्तयामि स्म—असभ्यदु:शासनशोणितपानेन हृदयं प्रशान्तं भवेदिति। परन्त्वद्यानुभवामि—शोणितपानेन केवलं पशुहृदयमेव तृप्यते। यस्य हृदि कणिकामात्रमपि मनुष्यत्वं भवति, स कदापि मानवशोणितेन शान्तिं नैव लभते। यावती प्रतिहिंसापरायणा स्यामहं नाम, तथापि नारी। मानवरुधिरेण स्नात्वा कथं शान्तिमाप्नुयाम्? अहं तु विवशतया, वितृष्णया, जीवनं प्रति तुच्छतया, अवदमितपश्चात्तापेन, दु:खेन चावशाऽभवम्। भीमसेनस्य भीममूर्त्ति:, दु:शासनस्य रुधिरम्—उभे ममान्त:करणे भीतिं सञ्चारयत:, मनुष्यान्तर्वर्त्तिपशुत्वं प्रति शङ्कां चोत्पादयत:। अहं चिन्तयामि—एवमेव रक्तवर्णं स्यादवश्यं मम पुत्रस्याभिमन्यो:, मम पितु:, बन्धूनां च शोणितम्। एवमपि धरित्रीवक्षोदेशे च प्रवाहितमेव। धरित्री कदापि मानवशोणितं पीत्वा तुष्टा नैव स्यात्। सा जननी, जीवनदात्री, वीरप्रसविनी च।
वीररुधिरेण वारं वारं रज्यते धरित्री। मानवसङ्कीर्णस्वार्थपरतया मनुष्यरुधिरसिक्तं भवति तद्वक्ष:। परन्तु, तस्या: किं दु:खम्, कियती वेदना?—इति किमवगच्छति मनुष्य:? शोणितपात:, मृत्यु:, भयङ्करता च कस्मैचिदपि शान्तिं न प्रयच्छन्तीति दु:शासनरुधिरस्नाताऽहमद्यावगच्छामि। द्वितीयं रुधिराञ्जलिं मम केशपाशे सिञ्चति भीमसेनेऽहं चीत्कृतवती—''तिष्ठ, तिष्ठ, जीवय माम्, दूरे मामन्यत्र पृथिव्यामपसारय। वृकोदर! अत: परं नाधिकं सोढुमहं क्षमा। दु:शासनरुधिरेऽभिमन्युरुधिरगन्धो मया घ्रायते। समग्रसंसारस्य मनुष्यशोणितं समानमित्यनुभवामि। मां राक्षसीं मा कुरु—’’ अहं मूर्च्छिता।
शिविरे चेतनाप्रत्यागते: परमन्वभवम्—कोऽपि मे मस्तकसमीप उपविष्ट:। मम मस्तके कस्यचित् कोमल: करस्पर्श:। चक्षुषोरश्रुनिर्झरिणी प्रवाहिता। तदाऽपि रुधिरगन्धेनाऽहं विवशतामनुभवामि।
सख्यु: कण्ठस्वरो मयाऽश्रूयत। स वदति—''सखि! समाश्वसिहि। दुष्टनाशनं, पापमोचनम्, अन्यायखण्डनं च महाकालस्य धर्मा:। दु:शासनसमानां दुष्टानां नाशेन पृथिवी पापशून्या भवेत्। पृथिव्यां पुनर्धर्मसंस्थापनं स्यात् तदेव मम तव च जीवनलक्ष्यम्। नियतिनिर्देशेन महाकालो दुष्टान् संहरति। त्वादृश्या विदुष्या रमण्या धैर्यहीनता न शोभते।’’
अहं शोकेन त्रुटिता। अवदम्—''सखे! क्व मे पुत्रोऽभिमन्यु:? किं तेन पापं कृतम्? किमर्थं तं महाकाल: सञ्जहार? तन्नाशेन किं पृथिवी पापशून्याऽभवत्?’’
कृष्ण: सदीर्घनि:श्वासं प्रोवाच—''सखि! सैषा युद्धस्य दारुणा परिणति:। पृथिवीकल्याणाय दुष्टनाशनप्रयासे साधुसज्जनानां त्यागोऽप्यावश्यको भवति। विश्वमङ्गलाय व्यष्टिस्वार्थस्त्यज्यते। व्यष्टि: प्राणवलिं कुरुते। विश्वकल्याणकार्ये स्वप्नाणाहूतिरभिमन्युना समर्पिता। वीरोचितां गतिमासाद्य स स्वर्गलोकं प्राप्त:। पृथिवीतिहासे तन्नाम चिरभास्वरं स्थास्यति।’’
अहं साभियोगं विलपन्त्यवदम्—''इतिहासपृष्ठेषु पुत्रस्य स्थित्या मातृशोको न न्यूनीभवति। वीरोचितमृत्युनाऽमरत्वं यास्यतीति काऽपि जननी नैव कदापि पुत्रमृत्युं कामयते। त्वं तु पुरुष:। मातृहृदयं कथं ज्ञास्यसि?’’
कृष्ण: सम्लानस्मितमुवाच—''याज्ञसेनि! अहमभिमन्योर्मातुल:। युष्माकं वनवासदिवसात् स मन्निकटे आसीत्। तस्य पालनशिक्षायुद्धविद्यादिसकलभारान् स्वीकृत्य तं सख्युरर्जुनस्य सुयोग्यदायादरूपेण निर्मामि स्म। अहं केवलं तस्य न मातुल:, अपि तु पिता, माता, गुरु:, बन्धुश्चासम्। तन्मृत्युर्मे बहुदु:खायोचित:। परन्त्वहं कालस्य गतिविषये सर्वं जानामीति न शोचामि। त्वं तावत् समाश्वसिहि। त्वय्येवं सत्यां क: सखायमर्जुनं समाश्वासयेत्? तस्य सविषादं मुखं विलोक्य त्वं सर्वं तद् ज्ञातुं शक्ष्यसि।’’
अहं क्रुद्धकण्ठेनाभाषे—''सखे! तृतीयपाण्डवस्य त्वं प्राणेभ्योऽपि प्रियतर इत्येतावद् दु:खं तस्मै प्रदत्तम्? सेयं ते नीतिरिति त्वया पूर्वं स्वीकृता।’’
प्रशान्तमना: सखा जगाद—''युद्धक्षेत्रे मोहग्रस्तोऽर्जुनो यदाऽस्त्रं तत्याज, बन्धुसहोदरगुरुपितामहादीनां विरोधेऽस्त्रं नोत्तलयिष्यतीति च प्रकाशितवान्, तदा तन्मनसो मोहं जडतां च दूरयितुमात्मामरत्वजन्मपापपुण्यपरमात्मसंसारसम्बन्धिनि तत्त्वानि युद्धस्थल एव मया तत्पुरस्ताद् व्याख्यातानि। ततोऽर्जुन: क्रमशो दु:खमिदमतिक्रमिष्यति। तद्विषये किमपि मा चिन्तय।’’
मनस्यापतिताऽर्जुनमुखाच्छ्रुतपूर्वा समराङ्गणेऽभूतपूर्वा घटना। सखा कृष्णोऽर्जुनजडतामपसारयितुं स्वविश्वरूपं प्रादर्शयत्। समरभूमौ धनञ्जयेनावलोकिता: श्रीकृष्णस्यागणिता: करचरणा:, असङ्ख्येयानि मुखानि, अनेकानि दीप्तिमन्ति नेत्राणि, असङ्ख्याश्च दंष्ट्रा:। नभ:स्पृशं दीप्तं विशालं तस्य शरीरं हिरण्मयम्। वदनं तेजोमयम्। दंष्ट्राकरालेषु कालानलसन्निभेषु मुखेषु सन्दृश्यते आकाशम्, तद्देहे चागणितानि ज्वलन्ति चन्द्रसूर्यग्रहनक्षत्राणि। तस्मिन् मुखगह्वरे सर्वान् ददर्शार्जुन:। अनेन रूपदर्शनेन तस्य मनो भयेन प्रव्यथितम्। स प्रार्थयामास—''जगन्निवास! प्रसीद, रूपादस्मात् क्षान्तो भव।’’
तर्हि किं श्रीकृष्णो महाकाल:! स स्रष्टा, सोऽपि संहर्त्ता, स च स्वयं भगवान्!
माता कुन्ती तं सम्यग् जानाति। अत: सा मातृतुल्या पितृभगिन्यपि तं प्रणमति।
आत्मा यदि अमर:, शरीरे नष्टे आत्मा यदि परमात्मना सह मिलति, तर्हि शोक: कुतो मृताय?
अहमपि क्षणेन शोकं विहाय सखायं प्राणमम्।
मायाया: स्वरोऽश्रूयत—''उत्तरा मुहुर्मुहुर्मूर्च्छति। तामप्रबोध्य श्रीकृष्णं नन्तुं नायं काल: किल।’’
अहं पुन: शोकाभिभूता।