Home     !     Rashtriya Sanskrit Sansthan    !    Muktasvadhyayapeetham
कपिलसिब्बलः
कपिलसिब्बलः दिल्लीविश्वविद्यालये प्राध्यापकचरः प्रखर-प्रतिभासम्पन्नः कपिल-सिब्बलः हारवर्ड-ला-स्कूल इत्यस्मात् एल.एल.एम. इत्युपाधिं सम्प्राप्य वालस्ट्रीट इत्यत्र अधिवक्तृत्वेन कार्यं निरवहत्, अथ च 1980तमे वर्षे स्वदेशं प्रत्यागतः भारतीयसर्वोच्चन्यायालयस्य अधिवक्तृत्वेन कामपि प्रतिष्ठां प्राप्तवान्, त्रिश्च तस्यैव न्यायालयस्य बार-एसोशियेशन इत्यस्याः संस्थाया अध्यक्षो निर्वाचितः। 1991तमे वर्षे अयं जेनेवायां स्थिते मानवाधिकारायोगे भारतीय- प्रतिनिधिमण्डलस्य आध्यक्ष्यं कृतवान्, तत्र चैकस्य कार्यसमूहस्यापि अध्यक्षो वृतः। अयं प्रथमो भारतीयसांसदो योऽन्तार्कतिकां गतवान्, तत्र च मैत्रीति संज्ञप्तं भारतीयं स्टेशनं पर्यवेक्ष्य अनुसन्धानाय तत्र एकं स्टेशनं स्थापितवान्। संवैधानिकविधिविषये विशेषज्ञः अयं 1994तमे वर्षे अधिवक्तृत्वेन भारतीयसंसदं समबोधयत्। द्विः (2004 – 2009) लोकसभासदस्यत्वेन निर्वाचितः कपिलसिब्बलः 1998तमाद् वर्षात् सांसदो वर्तते, सम्प्रति भारतशासनस्य मानवसंसाधन-विकासमन्त्री विज्ञानप्रौद्योगिकीमन्त्री चास्ति।
आइ विटनेस - पार्शियल आब्जर्वेशंस (2008) तथा च माइ वर्ल्ड विदिन (2012) इति शीर्षकाभ्यां आङ्ग्लभाषया अस्य काव्यसङ्कलनद्वयं प्रकाशितम्।