पञ्चमः सर्गः
सौमित्री रघुकुलकेतुपट्टिकां तामुत्सृज्य स्थितमिव दण्डमात्रमेकम्।
रामाख्यं शुभमवदातमार्यधर्ममर्यादापरिघमियाय काननान्तात् ।। 1।।
अत्रैषा हिमकणसन्तते द्युनद्या सत्पात्रे पदजलजातमर्पयन्ती।
प्रत्यूषे चलनयनं मृगीभिरह्नो वैभाती द्युतिरिव जानकी लुलोके ।। 2।।
संकेतः-द्युनद्या गङ्गायाः। शोभनं च तत् पात्रं तटान्तर्भूः सत्पात्रम्।। 2।।
सात्यच्छं जलमिव सिन्धवे द्युसिन्धू रामाय प्रणयपरीतमेव सीता।
स्वं भावं विकचमिवाब्जमाश्रयन्ती वैभाती रुचिरिव भास्कराय रेजे ।। 3।।
संकेतः-भावोऽन्तःकरणम्। प्रकृतोभयनिष्ठोपमा।। 3।।
वैदेही त्रिभुवनरक्षकस्य भर्त्तुर्निष्ठ्यूतं ज्वलदिव बिभ्रती महौजः।
ऊषा च स्थगितदिवाकरा स्वगर्भे भ्रेजाते युगपदिलातलं स्पृशन्त्यौ ।। 4।।
माञ्जिष्ठीकृतमनुरागमात्मभर्त्रे प्रत्यूषेऽरुणरुचिभिर्विभासयन्ती।
जाह्नव्याः सितसिकते तटेऽत्र सीता चक्रस्त्रीसमसुखशीलतामवापत् ।। 5।।
संकेतः-चक्रस्य चक्रवाकस्य स्त्री चक्रवाकी।। 5।।
मुग्धाक्षी, क्व नु खलु यानि काननेस्मिन् किं तावच्छरणमवाप्स्यते हतायै।
इत्येषा रघुकुलभास्करस्य पत्नी ध्यायन्ती सुरसरितं पदैः पुपाव ।। 6।।
संकेतः-सुरसरितं पदैः पुपाव चलितुं प्रचक्रम इति यावत्।। 6।।
नृणामाः प्रविकचचेतनाशिखानामुत्सङ्गः प्रकृतिविनिर्मितोपि लौल्यात्।
सङ्कीर्णः समजनि पक्षिसन्ततीनां मुक्तानामिव बत पञ्जरप्रदेशः ।। 7।।
तेनासौ कतिपयभित्तिभिर्निबद्धे गेहाख्ये वियति निवासमेव वासम्।
मन्वानः श्रयति नु दासताममुष्य व्याकीर्णं भुवनमिदं करोति न स्वम् ।। 8।।
संकेतः-आदिमानवस्य कदाचिदियमेव भावना स्यात्।। 8।।
सन्त्येते जनपदसोदरेषु वन्या
दन्धन्या उटजतलेषु ये महान्तम् ।
सन्तोषं प्रतिपदमाप्नुवन्ति, दिव्यैः
संस्कारैः श्रमजनिते स्वतां श्रयन्ति ।। 9।।
संकेतः-धान्यार्थकाद् धनधातोर्यङि निष्पन्ने दन्धने ‘‘धनगणं लब्धे’’ (4.4.84)-तिपाणिनीयेन शासनेनापि यति सति दन्धन्यपदं साधु।। 9।।
धिक् कोयं निजरुचिनामको जनानां
विश्वस्मिन् मनसिशयोस्ति भेदहेतुः ।
येनेदं जगदखिलं समुद्रशैल-
नद्याद्यैः शकलितमेकतां न याति ।। 10।।
एते ये भुवनतले चितेर्विकासा
दृश्यन्ते निपुणतरं विभिद्यमानाः ।
सर्वैस्तैः सहचरसोदरैः समेता
भ्राम्यामः, किमिति वियोगमाप्नवाम ।। 11।।
तातो मे जनक उदाहृतो जगत्या
माता मे नृभुवनसूरियं धरित्री ।
भर्त्ता मे युगपुरुषोऽन्तरात्मभूतः,
किं तद् यद् भवतु ममापि कापि सीमा ।। 12।।
व्यूहोऽयं परिमितिगोचरोऽपि
सर्वो निस्सीमं ध्रुवमभिकाङ्क्षति प्रवेष्टुम् ।
वाहिन्या जलमिव सागरं, न लोके
सङ्कोचं विबुधजनाः समाश्रयन्ते ।। 13।।
मानुष्यं वपुरधिगम्य यस्तु तत्त्वं
निर्देष्टुं प्रभवति नापि वीक्षितुं स्वम् ।
मात्राभिर्विघटितचक्षुषस्तु तस्य
सर्वत्र प्रसरति नाग्रतो न रात्रिः ।। 14।।
संकेतः-मात्राभिः शब्दादिभिर्विषयैः।। 14।।
इत्येवं परिणतदोहदालसा सा
संन्यस्ता विपिनचरीव संभ्रमन्ती ।
आत्मानं कथमपि भावभूमिकाभी
रक्षन्ती परिसरभूमिमाजगाम ।। 15।।
तत्रैषा गहनलतास्वभावकीर्ण-
पुष्पौघक्षपितकठोरतं निकुञ्जम् ।
आवासं मनसि चकार पक्षिगीतैः
स्फीताक्षैर्मृगशिशुभिश्च हृष्टभावा ।। 16।।
तत्रास्याः शुचिमुखचन्द्रदिव्यकान्ति-
लुप्तान्धं किसलयपुञ्जमुत्प्रवालम् ।
सौभाग्यादवहत सप्रसूनपातं
वैतानीं शबलितभद्रपीठशोभाम् ।। 17।।
संकेतः-भद्रपीठं राजसिंहासनम्। तस्योपरि यद् वितानम् तस्य शोभामनेकवर्णत्वात् तल्लक्ष्मीम्, अवहत धारयामास। अत्यक्तरागं विकसितं पत्रं किसलयम्, तथाविधमेवोद्भिद्यमानमङ्कुरात्मकं तत् प्रवालमिति भेदः।। 17।।
यत् तस्या व्रततिवनाधिदेवताभि-
र्दौर्हृद्यं सकुसुमपातमालुलोके ।
तज्जातं च्युतमकरन्दरेणु पूर्वं
भावाघ्यं, तदनु च पुष्पतल्पमस्यै ।। 18।।
तां तस्मिन् मधुरसरूषितो लतानां
तन्वीनां प्रशिथिलवृन्ततः पतन्तम् ।
व्याकीर्य प्रसवमसेवत द्रुमाणां
मार्गे वै शिशुरिव तद्वनान्तवायुः ।। 19।।
वल्लर्यो मरुति चले मिलद्मिरस्यै
पत्राद्यैः करपुटमञ्जलिं बबन्धुः ।
कासाञ्चित् प्रकृतिरपि स्वतः सपर्यां
व्यक्तीनां जगति चिकीर्षति प्रभावैः ।। 20।।
संकेतः-करपुटमेवाञ्जलिं बबन्धुरित्यन्वयः।। 20।।
नैसर्गो नियम इति प्रकृष्टभावा-
प्येषाऽऽस प्रणयशमी हि तत्र भर्त्रे ।
येनास्याः सकृदपि सप्रकाशमार्यं
शोकाग्नेर्विकणिकयाप्यदूयतान्तः ।। 21।।
ज्ञानाख्ये मणिमयधाम्नि चित्तभूमौ
सस्नेहो मृदुतमभावनादशावान् ।
शोकाख्यां ज्वलनशिखामवाप्य दीप्रो
दीपो यः स हि जगतीह दुर्निवारः ।। 22।।
संकेतः-चित्तभूमिः भूमिकारूपा, तत्र ज्ञानं मणिमयसौधरूपम्, तत्र स्नेहमेव तैलादिरूपं स्नेहम्, भ्रदिष्ठभावनामेव दशां वर्त्तिकाम्, शोकरूपां च ज्वलनशिखामवाप्य यो दीपो दीप्यते स कुतो नु निर्वार्यतामिति हृदयम्।। 22।।
वैदेही कुवलयसोदरेऽक्षियुग्मे
शोकाम्भस्तुहिनकणं यथा श्रयन्ती ।
पार्श्वीयाश्चलदलवल्लरीः प्रसूनं
वर्षन्तीरनुशयतापतश्चकार।।23।।
या पूर्वं शशिविशदां तनुं श्रयन्ती
पीयूषद्रवमिव चक्षुषोरसिञ्चत् ।
तच्छोकोऽञ्चलचलनोहितस्तदानीं
सर्वेषां नयनजलैर्बभूव सिक्तः ।। 24।।
संकेतः-अञ्चलपदेन स्तनौ विवक्षितौ, ‘‘आँचरे’’-ति भाषायां तथा प्रचारात्। ऊहितस्तर्हितः। शोकस्य स्वशब्दवाच्यतात्र न दोषः, तस्यात्र स्थायितयाऽविवक्षणात्। यस्य चात्र तथा विवक्षा स हि प्रकृतिगतः कारुण्यात्मा भावः। न चासौ वाच्यः। अत एव भरतेन रससूत्रे स्थायी नोल्लिख्यते।। 4।।
वामोऽस्या विधिरपि मार्गितुं प्रवृत्त-
श्छिद्राणि, प्रसवनिकारमुत्प्रसूय ।
तत्कालं स्वनजनितव्यथां मरालीमु-
त्पाद्याशनिमिव वारिदोऽभ्यवर्षत् ।। 25।।
संकेतः-प्रसवनिकारमुत्प्रसूयाभ्यवर्षदिति मुख्योर्थः।। 25।।
कालेऽस्मिञ्छु तिसुखकूजितेष्वसक्तान्
विच्छायद्रुमतलराविणो विहङ्गान् ।
सम्पश्यन्नचटुलशावका मृगीश्च
वाल्मीकिः कविरतिविक्लवो बभूव ।। 26।।
संकेतः-द्रुमाणां विच्छायत्वमपि प्रकृतिसमदुःखताप्रयुक्तमुन्नेयम्।। 26।।
मानुष्ये वपुषि महात्मतां दुहान-
स्तत्कालं समुदयमाप कोऽपि रश्मिः ।
हृद्देशे सलिलनिधाविवोर्मिरार्षे
सत्त्वानामपकृतिसंशयं विवृण्वन् ।। 27।।
संकेतः-‘‘भङ्गस्तरङ्ग ऊर्मिर्वा स्त्रियामि’’-त्यमरः।। 27।।
भावानामनयनगोचरं रहस्यं
सम्पश्यन्नुटजमुखेऽर्धदत्तपादः।
वाल्मीकिः सवनविधिं समर्प्य शिष्ये
जाह्नव्यास्तटभुवमाप्तुमुच्चचाल।।28।।
साम्राज्यं समजसमाजगं सवित्री
मानुष्यं सहृदयसंज्ञिका प्रवृत्तिः ।
सङ्केतैस्तरुमृगपक्षिभिः प्रदत्तैः
साहस्रीमलभत मूर्तिमादिसूरौ ।। 29।।
सत्यं भो, नियतिरितीरिता श्रुतज्ञैः
काप्येका भ्रमयति देहिनो विपत्सु ।
यच्चक्रं विगलितपल्लवासु दोषा-
स्पृष्टासु व्रततिषु लक्ष्यते प्रकाशम् ।। 30।।
बोधाख्यज्वलनशिखैव कापि सूरिर्वेवेक्ति स्वपरमनोगतान् स भावान् ।
तद्दृष्टावजडजडात्मकः स्वभेदः कार्पण्यात् प्रकृतिकृतान्न सिद्धिमेति ।। 31।।
संकेतः-किं तावत् सूरित्वमिति प्रश्न उच्यते ‘‘कापि बोधाख्यज्वलनशिखैव सूरि’’-रिति। स सूरिः सर्वमनोगतान् भावान् वेवेक्ति भृशं विविनक्ति पृथक्तया वेत्तीत्यर्थः, विचिर् पृथग्भावे, ततो यङि लटि रूपम्। प्रकृतिकृतात् कार्पण्यात् योऽयं जडचेतनात्मा भेदः स सूरिदृशि न सिद्धयतीत्येका योजना, जडचेतनात्मा भेदः प्रकृतिकृतात् कार्पण्यात् सिद्धिं नैतीति द्वितीया। तत्र सूरिपक्षे कार्पण्यं भावकतातिशयः।। 31।।
वल्मीकं क्रिमिजनितं स्वसिद्धिहेतु-
माचार्यं स तु मनुते न भूतिमात्रम् ।
विश्वस्मिन् कविरिति संज्ञितः परां तां
वाग्रूरपां हृदयनदीं य उज्जिगीर्षुः ।। 32।।
आर्योऽसौ हृतहृदयस्ततस्तदानीं
वैक्लव्यात् स्खलितपदो यथाकथंचित् ।
आरण्यान् द्रुमतृणवल्लरीसमूहान्
संपृच्छन्नचलदनामयप्रवृत्तिम्।। 33।।
तेऽप्यस्मै स्वपरविभेदवर्जिताय शाखाभिः कलरवमञ्जुभिश्चलाभिः।
मर्यादां प्रकृतिकृतां प्रमाणयन्तः स्वोद्गारान् मुनिवदुदीरयाम्बभूवुः ।। 34।।
संकेतः-मुनयोऽपि मौनेनापि स्वोद्गारमुदीरयितुं क्रमन्ते, तरवोऽपि।
मुनिस्ततः स्वच्छजलाञ्जलाशयान् हृदः स्वकीयस्य सहोदरोपमान्।
विभूतिमाद्यां प्रकृतेर्विलोकयन्नुपागमत् तां सरितं जगच्छुभाम् ।। 35।।
संकेतः-प्रकृतेराद्या विभूतिर्जलमेव, ‘‘अप एव ससर्जादावि’’-ति।। 35।।
शतैः सहस्रैश्च युगैस्तपस्विनो भगीरथस्यार्यमतेर्जगत्त्रये।
जगच्छिवां कर्मठतां वितन्वतीं शरीरिणां दैवतभावभूमिकाम् ।। 36।।
निजाक्षिबिम्बैर्यमुनामलाम्भसा विमिश्रतोयामिव संविधित्सुभिः।
पिपासितैरेणचयैरुपासितां सुवं यथार्त्तैः पृथुकैरितस्ततः ।। 37।।
स हंसकारण्डवकेलिनिर्भरां प्रसन्नतोयां सितशर्करां च ताम्।
उपान्तवानीरनिकुञ्जनिर्गतैरुपास्यमानां पतगैरवैक्षत ।। 38।।
अवासयष्टिः पुलिने परिभ्रमञ्छिखिव्रजो बन्धुरगात्रयष्टिभिः।
अनाययद् यां परभागसौभगं स्थलीं वदातामिव रङ्गवल्लिभिः ।। 39।।
संकेतः-‘‘परभागो गुणोत्कर्षः’’ इति वचनात् वर्णान्तरव्यतिकराज्जायमानं वर्णान्तरं परभागः। स च रङ्गवल्ल्युपमया गतार्थः।। 39।।
प्रसन्नतोयां सरितं विलोक्य तां स शान्तचेताः स्थिरतामुपागतः।
भवन्ति तीर्थानि शुभाशुभं प्रति प्रसादसौम्या मुकुरा महात्मनाम् ।। 40।।
वनान्तवायुः पटुमर्मरैः स्वरैः प्रपूर्य वेणून् सुषिरेषु तत्क्षणे।
प्रवाद्य तालाँश्च चकार गीतिमन्मुनेः पदं काव्यरसैः स्वयं वृतम् ।। 41।।
वनस्थली-दैवत-गीतिरीतिभिर्यथोच्चवृक्ष-च्युत-पुष्पराशिभिः।
दिशां चयं भूमितलं च सर्वतः कविः स साक्षादकरोत् प्रपूरितम् ।। 42।।
व्यचारयत् सोऽथ नवं पुरातनं पुरातनं किं च नवं विभाव्यते।
अवश्यमेवात्र परोक्षविग्रहा प्रवर्त्तते क्रान्तिरुपात्तसंक्रमा ।। 43।।
किमित्ययं प्राकृतिकः क्रमो झटित्यपास्य वेषं प्रथमं शुचाञ्चितम्।
नवं ममैवात्र पुरः प्रपश्यतो बिभर्त्ति हर्षान्नटनो यथा, वने ।। 44।।
इदं विचारादपि वर्त्तते परं पटैः क एतास्तरुवल्लरीः स्थलीः।
पिशङ्गपीतैर्नवनीलमेदुरैरचित्रयत् कस्य कृते महात्मनः ।। 45।।
इतः प्रभालेपिषु केसरद्रुमेष्वहो वदातद्युतिपुष्पमौक्तिकैः।
स्थले स्थले यामुनगाङ्गसंगमप्रभङ्गिमा किं नु निशाम्यते वने ।। 46।।
संकेतः-केसरा बकुला मौलिश्रीबृक्षाः। यामुनं गाङ्गं-चेति तज्जलपरम्। ततो न तद्धितपौनरुक्त्वम्।। 46।।
द्रुमोत्पलैः काननदेवताशिरःसुशोभितैर्मेदुरिता वनस्थली।
कथं नु दृष्टिं भ्रमरावलीसखीं करोत्यकाण्डे मकरन्दनिर्भरैः ।। 47।।
संकेतः-द्रुमोत्पलः कर्णिकारः, अमलतासेतिनाम्ना व्यपदिश्यमानः। कर्णिकारेषु मकरन्दः शून्यप्राय एव भवति तथापि तन्निर्भरतात्र लोकोत्तरत्वाय साधुरेव।। 47।।
स्थले स्थलेऽशोकपलाशमल्लिकाप्रसूनपुञ्जैः सितरक्तपीतकैः।
चतुष्कभङ्ग्या पतितैः कथं स्थली सपत्रपङ्क्तिः प्रमदेव रोचते ।। 48।।
इमानि किं स्नानजलानि सैकतं विलङ्घ्य किंचित् प्रसृतानि पुष्पकैः।
परागगन्धैश्छुरितानि चाभितो विभान्ति पानानि यथा वनौकसाम् ।। 49।।
दिशस्सु किं कश्चन मङ्गलध्वनिर्ध्वनत्यपूर्वस्वरसाधुतामयः।
तृणानि कृत्स्नान्यपि केसरद्युतिं कुसुम्भगन्धांश्च किरन्ति किं मुदा ।। 50।।
वनान्तवायुर्द्रुमपर्णसंहतीर्विभेद्य पुष्पासवसेवनोन्मदः।
स्वयं नटत्यार्जवशालिनीस्तथा किमित्ययं नाटयते च वल्लरीः ।। 51।।
कथं च भृङ्गावलिमत्र संभ्रमात् सरस्वतीपाणिकुशेशयेरिताम्।
समन्त्रतन्त्रीमिव मूर्च्छयन्त्यमूर्दिशः पलाशप्रसवारुणाननाः ।। 52।।
इयं पिकानां सहकारमञ्जरीकषायकण्ठोद्मविनी कुतस्तराम्।
नवाङ्गनानामिव गीतिपद्धती रुतिः समुच्छ्वासयतीव काननम् ।। 53।।
कुरङ्गनाभीसुरभीकृता इमे दिशां कपोलाः कथमाश्चकासति।
प्रपूरितं कस्य कृते च कुङ्कुमद्रवैरिदं व्योमसरो महौजसः ।। 54।।
प्रियङ्गुरेषा सहकारकोऽप्यसौ प्ररूढपत्रौ च परागिणौ च किम्।
द्विजाङ्गना मङ्गलगीतिभिः परप्रमोदतः संगमयन्ति ताविमौ ।। 55।।
इयं च मे दन्तुरिता स्वकुड्मलैः प्रतिप्रतानं वनमल्लिका सितैः।
नवा वधूटीव नताङ्गगौरवा करोति दृष्टिं वशवर्तिनीं कथम् ।। 56।।
गतेद्युरेवेयमहो मृगी कुशं ममैव पाणिस्थितमाजिहीर्षति।
विहाय तच्चापलमुन्मदां गतिं मदातिरेकेण बिभर्त्ति साद्य किम् ।। 57।।
प्रसूनरेणुः किमु शक्रचापतामवाप्यते व्योम्नि लताप्रतानकैः।
अवश्यमस्मिन् पटमण्डपे क्वचित् क्लमच्छिदां कोपि महाभटोऽश्नुते।। 58।।
अरण्यमेवं श्रितभिन्नभूमिकं निशाम्य कृत्वा च मनस्तथाविधम्।
शरत्सरो हंस इव प्रसन्नधीर्निमीलिताक्षः स समाधिमाययौ ।। 59।।
संकेतः-तथाविधमरण्यसदृशं भिन्नभूमिकमित्यर्थः।। 59।।
कविः समाधिं गमितः स्वमानसे विवेकबीजाद् यमवापदङ्कुरम्।
दुदोह भूतार्थमहौषधिं ततो, न योगभूमौ प्रथमे परोक्षता ।। 60।।
संकेतः-तत इति द्वितीयार्थे तसिः, सार्वविभक्तिकत्वात्। अपरोक्षतेति छेदे नेति प्रश्ने।। 60।।
स खलु विमलमेधाः सूरिराद्यः समाधौ
जनहृदयविकारात् काननं सेवमानाम् ।
फलितसुतयुगां तां जानकीं भारतीयै-
र्व्रततिततिमरुद्मिः सेव्यमानामपश्यत् ।। 61।।
विलोक्य तं क्रौञ्चवधं तदक्षिणी तथा च सीतापरिरक्षणं वने।
बभूवतुर्मानुष-मानुषेतर-द्वये विवेकद्युतिभिर्विकस्वरे ।। 62।।
ततः स्वतो निश्चितिपीठमाश्रितः कविः स्वकर्त्तव्यपथे महामतिः।
अकम्पपादं चलितो मनस्विनीमुपेयिवांस्तां वनदेवतासखीम् ।। 63।।
संकेतः-स्वतो न तु परप्रेरणया। अकम्पादं यथा स्यात् तथा चलितः, दृढतया चलितः, न तु विचिकित्सयेति भावः। सेयं कवेः सक्रियता।। 63।।
स कैश्चिदाभास्वरसौम्यलोचनद्वयारविन्दारुणरश्मिभिः कविः।
स्थलेऽत्र पिष्टातकमुत्क्षिपन्निव व्यभासतास्यै च सुतद्वयाय च ।। 64।।
संकेतः - अन्यो∙पि प्रियजनस्य स्वागताय गुलालादिपदवाच्य-पट-वासपिष्टातकादीनि द्रव्याणि क्षिपति।
अभिनवजनिताभ्यामोजसा वेष्टिताभ्या-
मिह यमलसुताभ्यां सार्धमेतां स सूरिः ।
जगति निजमहिम्ना सूर्यवंशे प्रभात-
द्युतिमिव जनयन्तीं संप्रतिष्ठां ददर्श ।। 65।।
संकेतः-यमलौ सहजौ।। 65।।
जनकदुहितुरस्या मङ्गलां कायकान्तिं
प्रजननसमयेऽपि स्वर्णवर्णां पुरीव ।
विपिनपरिसरेऽपि प्रेक्ष्य तुष्टः स जातो
जयति हि निजराष्ट्रस्वास्थ्यमेवार्षदृष्टौ ।। 66।।
संकेतः- ‘स्वस्थे नारीदेहे नागाभूमौ यथा प्रसूतिभ्यः, भवति न कोऽपि विकारो राष्ट्रस्वास्थ्यं हि तेन लक्ष्येत’।। 66।।
मुनिरपि जगदम्बाज्योतिषि स्नातचेता
विमलमतितटीकस्तत्क्षणं हन्त जातः ।
न हि विघटनमूलं प्रातिभं ज्योतिरार्षे
प्रभवति शिवचित्ते प्रेतशूलं यथैव ।। 67।।
संकेतः-जगदम्बाज्योतिः मातृशक्तिप्रकाशः। सा च शक्तिः रचनात्मिका। तद्दर्शनमेवार्षप्रतिभाकर्म। तत्र प्रेतशूलं यथा विघटनात्मकं दर्शनं नोदेति, न च प्रसरति।। 67।।
रघुपतिदयितापि स्वान्तरात्मानुकारि-
विमलिमपरिवीतं तं विलोक्यादिसूरिम् ।
अतिधृतिभिररण्यस्याधिदेवीभिरर्चां
व्यधित कुसुममाध्वीं पत्रपात्रे निधाय ।। 68।।
संकेतः-अतिधृतिभिरिति तासां परविपदि सेवाधर्मित्वमागूरितम्। पत्रपात्रं द्रोणम्। मार्ध्वमिति मधुपर्कव्यञ्जकम्। वनदेवीभिरिति स्वाशुचित्वपैशुन्याय।। 68।।
व्रततिविटपिनश्च प्राच्यदेशस्य शिष्या
इव विनयपरीतास्तत्कवेरङ्घ्रितीर्थे ।
मृदुविपिनमरुद्मि पुष्पवृष्टिं विधाय
विदधुरिव सपर्यामन्तरात्मप्रवृत्ताम् ।। 69।।
संकेतः-अन्तरात्मप्रवृत्तां न तु बलादापादिताम्।। 69।।
पूजामेतां कविरपि महान् स प्रतीच्छ्या प्रसीद-
न्नन्तर्वाणीं बहिरुपगतामन्ववादीदितीव ।
पुत्रि! स्वस्ति स्पृशतु चरणस्ते भुवं नः सुताभ्यां
राष्ट्रपत्तिं क्षपयितुमिमे निर्मिता आश्रमा नः ।। 70।।
संकेतः-चरणपदेनाचारोपि, भूपदेन च भूमिकापि गम्यते। सुताभ्यामिति सहयोगे तृतीया।। 70।।
आज्ञामेतां जनकतनयाप्यादधानाशु मूर्घ्नि
वन्यद्वन्द्वैर्विधृततनया जाह्नवीं तां प्रणम्य ।
सिक्ते सूरेस्तरुणकरुणैः पावनैर्दृष्टिपातै-
र्मार्गे स्वीयं चरणकमलं संविधित्साञ्चकार ।। 71।।
संकेतः-आशुपदेन क्षणमात्रं विचारमग्नतापि आक्षिप्यते।। 71।।
इति सनातनोपाह्व-श्रीमद्-रेवाप्रसादद्विवेदिकृतौ ‘‘सीताचरितापर’’ नाम्नि उत्तरसीताचरिते सर्गबन्धे कुमारप्रसवो नाम पञ्चमः सर्गः।। 5।।
उत्तरसीताचरितम् (6-10)
By प्रो. रेवा प्रसाद द्विवेदी
षष्ठः सर्गः
सुतयुगसहिता विदेहपुत्री प्रसवनिकारमुदस्यतः प्रवातात्।
विपिनपरिसरान्मुनेः पदं सा पितुरिव धाम परं शनैरवापत् ।। 1।।
संकेतः-प्रवातस्य प्रसवप्रातिकूल्याभावविवक्षयात्र सीताया उत्तमं स्वास्थ्यं सूचितम्।। 1।।
पृषतचटुलिकासु दन्तुराभिः सितशबलाभिरसौ स्मितच्छटाभिः।
पुनरिव मुनिधाम रामजाया व्यधित पवित्रमपि स्वतः पवित्रम् ।। 2।।
परिणतफलभङ्गुराङ्गयष्टिं व्रततिततिं नयनैर्निपीय पाण्डुम्।
अशिशिरममुचद् दशां स्वकीयां प्रसवकृतामनुचिन्त्य बाष्पमेषा ।। 3।।
अकृत मनसि-‘हन्त हन्त नारी जगति समर्पितचेतना परार्थे।
न खलु न खलु विद्यतेऽत्र तस्या अणुपरिमाणमपि ‘स्व’-संज्ञितत्वम्।। 4।।
प्रणयसरसि वल्लभद्विपेन्द्रादसहमवाप्य करोपमर्द्दमेषा।
वहति कमलिनीव विश्लथं स्वं परिगतसौभगमात्मनो हि सर्वम् ।। 5।।
संकेतः-गजकमलिन्युपमया पुरुषं प्रत्यपरक्ततात्र व्यज्यते। तेन सीताया लोकतो वैराग्यमुत्प्रेक्ष्यते।। 5।।
अशिथिलचरणं पुरो व्रजन्ती मनुजनुषां ननु चेतनेतिहासे।
प्रणयपरवशे! पुरन्ध्रि! सत्यं त्वमिह परार्ध्यसमर्पणैकभावा’ ।। 6।।
रविकुलमहिषीति दिग्धचेता मनसि बभार विकल्पनाशतानि।
अपि सुरसरितस्तरङ्गमाला भवति जले पवमानजातपीडे ।। 7।।
मुनिजनवनिताभिरार्यधर्मे दृढमतिभिस्तपसि स्थिराभिरेषा।
तनयमिथुनशोभिता परार्घ्यैरुपकरणैः सदकारि तत्र हर्षात् ।। 8।।
ऋषिजनकृतमङ्गलोपचारामुटजकुटीमुपलभ्य तत्प्रदिष्टाम्।
इति मनसि चकार दिव्यभावा नरपतिसौख्यतृणेषु सा वितृष्णा ।। 9।।
नियतमतितमां भवामि धन्या सुरजनसंस्पृहणीयमाश्रमं या।
कृत-गृह-चरितार्थता प्रसूत्या प्रथमकवेः कृपयास्मि संप्रविष्टा ।। 10।।
कुशलव-जल-सीकरोक्षितानि दधिघृतमिश्रितमिष्ट-पायसानि।
मसृण-कट-पलाल-संस्तराणि शुभशयनानि भवन्ति यद्गृहाणि ।। 11।।
शुकमृगशिशुशावकैः परीता शतशतधेनुधना समृद्धसस्या।
विगतविभवविक्रिया च यस्मिन् मुनिजनता क्षितनागरा चकास्ति ।। 12।।
संकेतः-समृद्धा नागरा विक्रियाजुषः इमे पुनर्न तथेति तानिमे क्षयन्तीति व्यतिरेकः। क्षिक्षये भौवादिकः।। 12।।
मनुजवपुषि भुक्ति-मुक्ति-लक्ष्म्यौ विधृतविभक्तितयापि यत्र युक्ते।
भरतभुवनसंस्कृतौ स्वमर्थं ‘प्रतिजनजीवनमुक्ति’-मर्पयेते ।। 13।।
संकेतः-विधृता विभक्तिः विभागो याभ्यां तद्भावेनापि यत्राश्रमे युक्ते अविभक्ते। जीवनमुक्तिशब्दस्य मुख्योऽर्थो भुक्तिमुक्तियोग एवेति नवीनः पन्थाः। प्रतिजनं तत्प्रतिष्ठा चाश्रमस्य विशेषः।। 13।।
करणमिदमथेदमात्मतत्त्वं, द्वितयमपि प्रतिपूरुषं परस्य।
परमपुरुषसंज्ञकस्य यस्मिन् परमशिवस्य तनूयितं बिभर्त्ति ।। 14।।
संकेतः-करणम् इन्द्रियग्रामः शरीरं च। संसारोऽपि परमशिववपुरेवेति शैवागमिनः।। 14।।
‘इदमभिमतमेतदस्ति हेयं’ मतिरियमत्र जने जनेऽवदाता।
नरपतिनिरपेक्षमत्र हन्त प्रचलति येन नृरूप एव मेधः ।। 15।।
संकेतः-हेयोपादेयसंवर्गणमेव धर्मः, तत्सहितं यन्नृजीवनं स एव नृरूपो मेधः, न तु नरबलिसंपाद्यो मेधः। नरमेधशब्दस्येयमपूर्वा व्याख्या। निरपेक्षमिति क्रिया-विशेषणम्।। 15।।
विशसनमिह पोषणस्वरूपमिह यजनं भजनेन मिश्ररूपम्।
इह भजति महान्ति राष्ट्रलक्ष्मीः स्वयमुपगम्य फलानि शान्तिदानि ।। 16।।
संकेतः-विशसनम् छेदः लतादीनाम्। भजनम् सेवनं च राष्ट्रादीनाम्। इह राष्ट्रलक्ष्मीः शान्तिदानि फलानि स्वयमुपगम्य भजत इति लोकमङ्गलत्वमपि।। 16।।
इह वसति पुमान् द्विधा विभक्त इह खलु कामयते बहूः प्रजाः सः।
सृतिरिह नियतिं नियम्य सम्यक् प्रसरति मृत्युमपास्य दास्यकेऽपि ।। 17।।
संकेतः-स्त्रीपुंसौ हि सिसृक्षोः पुरुषस्य द्वौ भागौ। तेन ईदृशीरेव प्रजाः स्रष्टुमीश्वरः कामयत इति भावः। योगसिद्धिश्चात्र मृत्युजित्त्वम्।। 17।।
इदमखिलमपीशवास्यमेव त्यजनशुभैव हि तेन भुक्तिरार्या।
इति नियतिमुपास्य बोधयोगः प्रतिजनमत्र समश्नुते प्रतिष्ठाम् ।। 18।।
संकेतः-बोधयोगो ज्ञानयोग ‘ईशावास्यमिदमि’ति श्रुतिप्रतिपाद्यः।। 18।।
इह सनक-सनातना हि सर्वे मुनिशिशवो गिरिजारमाश्च कन्याः।
शुकभरतभगीरथा युवानो मम पितरः स्थविराश्च हन्त सर्वे ।। 19।।
संकेतः-पूर्णव्रह्मचर्यं हि सनकादीनां साधारण्यम्, निष्ठावत्त्वे गिरजारमयोः, शुकस्य परहंसतायां, भरतस्य वीरत्वपरिपालकत्वयोः भगीरथस्य च तपस्वित्वे। सर्वेषां स्वभूमिकासु पूर्णतैवात्र प्रतिपाद्या।। 19।।
इह निवसति भक्तिरष्टमूर्त्तौ रवि-शशि-दीक्षित-पञ्चभूत-मूर्त्तौ।
‘कुशल’ इति यतश्च यत्र शब्दः प्रतिमुनि हन्त सदान्वितार्थ एव ।। 20।।
संकेतः-‘रविशशिपञ्चभूतेषु यजमानत्वेन प्रतिष्ठित एव कुशल’’ इति सूत्रमित उन्नेयम्।। 20।।
अधि-तमसमथाधि-गङ्गमस्मिन्नृषिकुलमस्ति समाधिनाशिताधि।
‘क्व नु खलु कविना स्वधाम कार्यमि’.ति मतिरत्र हि निश्चितिं प्रयाति।। 21।।
संकेतः-तमसा तमःप्रतीकः, गङ्गा सत्त्वप्रतीकः। एतदन्यतरैकान्तिकेन कविना न भाव्यम्, अपितु ईश्वरवद् विश्वमपि कविना सेव्यमिति भावः।। 21।।
इति हृतहृदया नृपेन्द्रजाया मुनिपदसौभगमञ्जसा निरीक्ष्य।
अधिनगरजनं विपच्यमाने परिवदनेऽप्यकरोत् पुमर्थबुद्धिम् ।। 22।।
कतिचन दिवसानथार्यलक्ष्मीर्जनकसुता पृथुकौ लघू अपेक्ष्य।
मुनिजनविनिवारिता श्रमेभ्यः कथमपि कृच्छ्रगतेव सा निनाय ।। 23।।
तदनु कुशलवेतिसंज्ञया तन्मुनिजन-भूमिसदृक्षया कवीन्द्रात्।
तनय-युगल-मुत्प्रकाश्य सीता धृततरुचीरयुगा मुनित्वमापत् ।। 24।।
अभिनवजनिपेशलाङ्गयष्टी अपि तनयावपि तौ दृढत्वकान्त्योः।
नरपति-गृह-गर्भ-भर्म-कर्म-द्युमणिमणि-प्रतिमाङ्गकावभूताम् ।। 25।।
संकेतः-गर्भभर्माणि हि कौटल्यादिभिः सम्यक् प्रतिपादितानि। द्युमणिमणिः सूर्यकान्तमणिः।। 25।।
कविरभजतनैतयोरतोऽणुप्रतिममपि द्विजसंस्कृतौ न खेदम्।
भवति ननु कियान् स्वयंप्रभस्य श्रम इह संस्करणे मणिव्रजस्य ।। 26।।
जनकतनययापि वत्सलान्तःकरणतया सुतवन्मुनेः पदस्य।
तृण-तरु-मृग-पक्षि-धेनु-वत्स-द्विज-तनयेष्वपि मातृभाव आपे ।। 27।।
सितशबलितपृष्ठकान् मृगाणामतिलघुकान् पृथुकान् निजाङ्कय्याम्।
अनुदिनमधिरोप्य रामजाया किसलयदुग्ध-मधु-स्पृहानकार्षीत् ।। 28।।
प्रसवविकृतिमत्र मानवीनामिव मुनिधाम्नि गवां मृगाङ्गनानाम्।
इयमतिकरुणा स्वहस्तदत्तैरुपकरणैरुपशान्तिमानिनाय ।। 29।।
इयमिह मुनिबालिकाः स्वशिल्पे कुशलकरा असृजन्नितान्तसूक्ष्मे।
ऋषि-कुल-भुवि येन सभ्यताया अपि परमश्चरमो विकास आसीत्।। 30।।
संकेतः-स्वशिल्पम् नागरीसमुचितं कामशास्त्रादिप्रसिद्धं नृत्यसूचीकर्मादिरूपम्। सभ्यता हि बाह्यजीवनवृत्तिः।। 30।।
विपिनभुवि पुरत्वमत्र जज्ञे यदि किल केवलयैव रामपत्न्या।
किमिव पुरपुरन्ध्रयो न कुर्युर्जनपदसीम्नि, रुचिं यदि श्रयेयुः ।। 31।।
संकेतः-‘दाराः पुरन्ध्रय’ इति धनञ्जयः। जनपदा ग्रामक्षेत्राणि।। 31।।
सुभगरुचिषु संयमः क्रमेषु, यमनियमेषु च सौभगं रुचीनाम्।
इयमिह किल शिष्टताऽस्मदीया सहृदयता-सचिव-स्वभाव-सौम्या।। 32।।
संकेतः-अस्मदीया भारतीया। सहृदयता सचिवो यस्य तेन स्वभावेन सौम्या, न तु रूक्षताविषमा। यमा नियमाश्च योगशास्त्रादौ प्रसिद्धाः।। 32।।
स्वयमपि कलशीर्द्रुमेषु लघ्वीरियमसृजत् सलिलेन संभृतान्ताः।
कथमिव ननु सान्यथा लभेत प्रतिकणमुच्चतमां स्वदेशभक्तिम् ।। 33।।
अभिनवकवितारसेन पूर्वं स्फुटितशिखाँल्लघुभूरुहः सती सा।
अपि किसलयिताँश्च पुष्पिताँश्च व्यधित निजस्वरमाधुरीरसेन ।। 34।।
निजपरिसरतीर्थजातमेषा मुनिसहिता पदयात्रया ददर्श।
अयि बत कथमन्यथा ममत्वं निजभुवि कोपि भजेन्न तां स्पृशेच्चेत्।। 35।।
किसलयशिशुसोदरेण सीता कलमभुवः परिमृद्नती करेण।
कठिन-कर-कृतां स्वभूमिसेवां कृषकजनस्य सुदूरमत्यशेत ।। 36।।
तरुण-तरणि-सोदरं वसाना वसनयुगं क्षुमया स्वयं कृतं सा।
अतुषदतितरां महार्ह-राज्ञी-पट-परिधानसुखस्मृतेरभूमिः ।। 37।।
संकेतः-तरुणतरणिः पिङ्गरुचिः। क्षुमा अतसी। अतुषत् तोषमापत्।
स्वयमकृत कटं पटं घटं सा स्वयमसृजल्लघुपुत्तलाँश्च साघ्वी।
दिनकर-कुल-वर्धनौ ततस्तौ शिशुवयसावपि कर्मठावकार्षीत् ।। 38।।
तनयवदनशुक्तिदन्तमुक्ता-छविहृतचित्तशुका विदेहजा सा।
विरहदहनशोधितां स्वदेहे सु-कनकपञ्जरतां परामुवाह ।। 39।।
संकेतः-सुकनकं शोभनं पावकपाके निश्यामिकं हेमेत्यर्थः।। 39।।
सुतयुगतनुकान्तिरूपसाम्यादतिशयभर्तृगतान्तरापि सैषा ।
प्रतिदिननिजकृत्यनित्यलग्ना लघु तु कदाचन सालसेक्ष्यतां नु ।। 40।।
हृदयमधित सर्वभूतमूर्त्तौ भगवति रामपदाभिधानसौम्ये।
वपुरथ वनदेवतेव सौम्या धरणिसुता धरणौ श्रमारणौ च ।। 41।।
संकेत-हृदयेन रामं स्मरन्ती वपुषा कृषिकर्म चक्रे इति भावः।। 41।।
हिमगिरिगुरुशृङ्गतः पयोधेर्गहनतमावट-गह्वराणि यावत्।
निखिलमपि विदेहजा स्वराष्ट्रं मृदु शुचि तल्पममंस्त भूशयाना ।। 42।।
प्रणिहितिहितमानसा समाधिं पितृगृहशिक्षितमत्र साधयन्ती।
प्रशमित-परितापमात्मरूपं प्रियतममैक्षत सा सदा विरात्रे ।। 43।।
संकेतः-विरात्रे रात्रेरवसाने। सा ह्येव प्रबोधवेला प्रतीकस्तमोहानेः।। 43।।
वृषरवि-शिशिरेन्दु-तापशीतं घन-पवमान-शरत्कुशेशयाम्भः।
निरतिशयविशुद्धनाडिचक्रा जनकसुता सुखमत्युवाह सर्वम् ।। 44।।
संकेतः-वृषराशिस्थो रविः वृषरविः ज्येष्ठसूर्यः, शिशिरस्य ऋतोरिन्दुः सर्वाधिकं शीतः, तयोः तापशीतं तापशैत्यद्वन्द्वम्।। 44।।
निजवपुषि निजप्रभुत्वमेषाऽऽसननियमादिभिरार्यदेशजाता।
कथमिव न दधातु, संस्कृतिःस्वा भवति हि किं कथमप्युदस्तवृत्तिः।। 45।।
संकेतः-निजप्रभुत्वं न च मृत्युप्रभुत्वम्। संस्कृतिः संस्कारः। बाल्यात् प्रभृति योगविद्याया अभ्यास इति भावः।। 45।।
सुत-वपुषि ततः स्वदुग्धराशेरियमतनोदिव कामधुग् यथैव।
अमृतमयदृतित्वमात्मशुद्धिर्भवति हि मातृजनस्य राष्ट्रपुष्ट्यौ ।। 46।।
संकेतः-दृतिः कुतूः। ततः नाडीचक्रपरिशोधनात् स्वप्रभुत्वाच्च।। 46।।
रविधरणिसुताऽऽत्मजात-युग्मं प्रतिनिदधाविव रोदसीत्रिलोक्याः।
निरतिशय-महः-सहिष्णुभाव-द्वय-महितं जनुषः प्रभृत्यदोऽभूत् ।। 47।।
संकेतः-सुतश्च सुता चेत्येकशेषेण सुतौ रामसीते तयोरात्मजातत्वात् तादृशं महः प्रतापमूलमोजः सहिष्णुभावः सहिष्णुता च। रोदसी त्रिलोकी हि सूर्यलोकपृथिवीलोकाभ्यां निर्मीयते। तत एव सूर्यपृथिव्योर्नप्तारौ तत्प्रतिनिधि।। 47।।
स्व-सुत-महिमनि प्रदिष्टचित्ता जनकसुताप्यथ सा समग्ररूपे।
विकसति कुसुमव्रजे नु कल्पव्रततिरुवाह सदावधानशुद्धिम् ।। 48।।
भवतु विभवविस्तरो महीयान् ननु, यदि वास्तु वनेचरत्वमुग्रम्।
भवति बुधजनो न हि स्वदेशाङ्कुर इव बालजने कदाप्युदस्तः ।। 49।।
प्रभवति न हि सौरभं न वन्ये सरसिजनौ, न च मिष्टता फले नो।
नियतिमनुकरोति भावजाते जनकगुणान्न तु देशसंविभागात् ।। 50।।
संकेतः-वन्यत्वं फलेऽपि योज्यम्। भावः पदार्थः।। 50।।
निमि-रवि-कुल-लज्जयेति हर्षात् सुतयुगली विपिनेऽपि रक्तयेव।
प्रतिनव-परिकर्म-संविधाभिः प्रतिदिनमङ्गसमृद्धिमाप्यते स्म ।। 51।।
संकेतः-निमिरविकुललञ्जापदेन सीता विवक्षिता।। 51।।
प्रतिदिनमभिवृद्धिमश्नुवाना विरतिमिव स्वमतिः सुतद्वयी सा।
जनकदुहितुरन्तरात्मतत्त्वं प्रथमकवेरिव तोषयांबभूव ।। 52।।
संकेतः-स्वमतिः सीतामतिः। प्रथमकवेरन्तरात्मतत्त्वमिव जनकदुहितुरन्त-रात्मतत्त्वमिति योजना। तदत्रोपमेयमिवोपमानमपि प्राकरणिकमेव।। 52।।
अवयवपरिवृद्धिरात्मजन्मद्वितय उवाह गुणाभिवृद्धिलक्ष्मीम्।
इति जनकसुता बभूव तुष्टा, भवति न पिण्डविवृद्धिरेव वृद्धिः ।। 53।।
प्रणतिपरतया तयात्मजातावृषिचरणाम्बुरुहे मरालितौ च।
भरतभुवन-भारती-प्रयाग-स्नपनविधौ कृतिनौ विनिर्मितौ च ।। 54।।
संकेतः-मरालितौ मरालतां प्रापितौ। भरतभुवनं भारतम्।। 54।।
स्व-शरण-भुवि गोमयेन साध्व्या मकरततां, सुतयोर्द्वयी, गतायाम्।
स्खलित-पदतया सहस्रशः सा वपुषि बभार शिवां स्वदेशमृत्स्नाम्।। 55।।
संकेतः-शरणं कुटीरम् ‘शरणं गृहरक्षित्रो’-रितिवचनात्।। 55।।
निज-करनवनीत-जानु-याता सुतयुगली मुनिधाम संस्पृशन्ती।
अतनुत गतनिद्ररोमलक्ष्मीमिव नवसस्यमिषेण तां स्वभूमिम् ।। 56।।
विलुलित-शितिकाकपक्षलक्ष्मीर्मुनिजन-यज्ञविभूति-कान्त-भाला।
अरुणरुचि च वल्कलं वसाना सुतयुगली गुहयुग्मतां वितेने ।। 57।।
संकेतः-शितिः कृष्णवर्णः। गुहः स्वयमेक एव इमौ तु द्वाविति गुहस्य द्वित्वमुत्प्रेक्षितम्।। 57।।
नियमकृशवपुर्विदेहपुत्री धृतिसुभगेन परिश्रमेण पुत्रौ।
अपुषदपि च बाललालनं वै प्रथमतरं तप आर्यतापसेषु ।। 58।।
संकेतः-अपुषद् अपोषयत्, दैवादिकस्य पुष्यतेः लुङि रूपम्।। 58।।
हृदय उदयमाप रामपत्न्या अतितरवत्सलता तथा व्यथापि।
पतिहृदि निजवत्समाप्य नारी भवति हि तृप्ततमा स्वमातृभावे ।। 59।।
परमियमतिमात्रदान्तभावा विकृतिमिमां क्षणमर्धमेव भेजे।
वशिषु न हि विकारजातमम्भःस्वनल इव श्रयते प्रकाममायुः ।। 60।।
अथ कुलकम्
क्व नु खलु पृथिवीपतित्वमस्याः क्व नु वत पुत्रकयोर्वनित्वमेतत्।
सृजति विधिरहो विपाकमुग्रं विषमतमं च समस्त एव जन्तौ ।। 61।।
इयमिह शुच एव हन्त वार्ता मनुसदृशैरपि राजभिर्धृतापि।
नगर-जनपद-प्रजा विकासानधिभरतावनि सर्वथा न लेभे ।। 62।।
ध्रुवमिह, यदिवा, परान्, नराणां वपुषि विधिर्धृतजन्मनः करोति।
इह हि तदनु सर्वदैव तेषां शुभगतये प्रहिणोति च स्व-वप्रम् ।। 63।।
संकेतः-परान् नरेतरान्। वप्रम्, पितरम्, ‘‘वप्रः पितरि केदारे वप्रः प्राकाररोधसोरि’’ति धरणिरिति भरतसेनो मेघदूत (3-पद्य)-सुबोधायाम्। आक्रोशे नास्य ग्राम्यत्वम्।। 63।।
भवति तत इहैव मोक्षलक्ष्मीपतिरपि हन्त सनातनाभिधोऽध्वा।
प्लववपुरयमात्मनि स्थिताँस्तान् गमयति संसरणाम्बुधेः परस्तात् ।। 64।।
संकेतः-सनातनधर्मो हि मोक्षलक्ष्मीपतिः। आत्मनि निजे।। 64।।
भरतभुवनमस्ति तीर्थमार्यं ननु सततं हि चराचरोद्दिधीर्षु।
विविधमतिरतो विभिन्नभाषो विषमगतिश्च जनोऽत्र दृष्टिमेति ।। 65।।
इति मुनिजनता सुतद्वयीं तामथ च सतीमपि तां वने निरीक्ष्य।
हृदयमतिममत्वतोऽतिभूमिं गमयति हन्त विकल्पसंहतेः स्म ।। 66।।
परमियमुपलं विनाशहेतुमपि मसृणं सृजतेङ्गुदीफलेन।
अधिगतविनया विधित्सुरासीज्जगदखिलं निजसिद्धि-सिक्तमेव ।। 67।।
दशति दृढमपि स्तनं स्ववत्से विचलति वत्सलभावतो न धेनुः।
अपि शकलयति स्वपत्रशाखमवनिरुहो न खगे विरुद्धवृत्तिः ।। 68।।
असति सति, लघौ पृथौ च वृत्तिर्न विषमतामिह भारते प्रयाति।
सति सति सति, यद्, विरुद्धवृत्तिः सरिति शिलेव शिवत्वमेति कच्चित्।। 69।।
संकेतः-सति सत्पुरुषे सति सत्त्वनिष्ठे सति विद्यमाने। यद् येन हेतुना विरुद्धवृत्तिर्जनः। सरित् सलिलमयी, शिला च पाषाणवपुः एवं सापि सरितो विरुद्धवृत्तिरेव। यथा च सरित्तामत्यजन्त्यां शिलापि शिवपिण्डतामेति तथैव प्रकृते।। 69।।
रघुपतिदयितापि तेन काश्चिच्छरद उदस्य विषादमात्मजातौ।
निजभुवनविकासनेच्छुरेषा विधिवदपुष्यदतिप्रशान्तचेताः ।। 70।।
संकेतः-आत्मजातौ कुशलवावपुष्यत् दैवादिकस्य पुष्यतेर्लुङ्।। 70।।
तदनु च विशदात्मा सात्मनो ज्योतिषा, स्वं
तनयमिथुनमेतद् बोधवह्नौ विशोध्य ।
पुरुष-फल-चतुष्के जागरूकौ विधातुं
निरचिनुत गुरुत्वे दृष्टवेदं कविं तम् ।। 71।।
संकेतः-स्वयमेव दत्तशिक्षाविमौ। ततस्तयोः पुरुषार्थनिश्चयार्थमेव सा सीता तदुपयुक्तस्य गुरोर्निर्वाचनमकरोत्।। 71।।
इति सनातनोपाह्व-श्रीमद्-रेवाप्रसादद्विवेदि-कृतौ ‘सीताचरितापर’-नाम्नि उत्तरसीताचरिते सर्गबन्धे जानकीमुनिवृत्तिर्नाम षष्ठः सर्गः।। 6।।
सप्तमः सर्गः
अथ धृत-चतुरस्रवेद-पीठं कविमुपनीय सुतौ विदेहजा तौ।
शरवणभवतेजसौ सुयोगे विहितनतिर्विनिवेदयाम्बभूवे।।1।।
संकेतः-सुतौ कविं कवेर्वाल्मीकेः पार्श्वमुपनीयेत्यन्वयः शरवणभवः कार्त्तिकेयः। सुयोगे शोभने योगे।। 1।।
नियतमिह चराचरे प्रपञ्चे नयनगतश्च परोक्षतां श्रितश्च।
न खलु जगति कश्चनापि भावो भवति कवेर्विसिनोति यं न दृष्टिः ।। 2।।
ऋषि-मुनि-कवि-ता-त्रिवेणिरार्या प्रवहति मानसनाम्नि वः प्रयागे।
प्रभवति खलु विश्वदैवते वो हृदयमिदं ननु कार्मणे विधाने ।। 3।।
संकेतः-भाववचनस्य तलो द्वन्द्वात् परत्वात् त्रितयेनापि ऋषिप्रभृतिनाऽभिसंबन्धः। विश्वदैवतं विश्वमेव देवता यत्र तादृशं कार्मणं वशीकरणम्। कवित्वं हि मुनित्वं सोपानयति मुनित्वमिव ऋषित्वम्।। 3।।
शिशुहृदि शयिता च येन विद्याज्वलनशिखा स्पृशतीव वैश्वरूप्यम्।
शिवतममिदमस्ति कारणं सत्कुलपति-पावनशारदाऽनुभावः ।। 4।।
संकेतः-एतद्धि विश्वविद्यालयस्वरूपम्।। 4।।
पितरमिव भवन्तमाश्रिताहं भरतमहीलघुलेष्टुकाविमौ द्वौ।
निज-निजजनता-परिष्क्रियायै चरणयुगे भवतो निवेदयामि ।। 5।।
संकेतः-भरतमही भारतं वर्षम्। निजस्य पुत्रयोः स्वव्यक्तित्वस्य, निजजनतायाः, पुत्रयोरेव या जनता तयोः परिष्क्रियाया इत्यर्थः।। 5।।
ऋषि-मुनि-जनसंसदि प्रसादि प्रमति च हारि च तद्वचो निशम्य।
कविरभवदसौ समाहितात्मा क्षणमथ वाचमिमामुवाच गुर्व्वीम् ।। 6।।
संकेतः-तस्यास्तच्च वचस्तद्वचः।। 6।।
दुहित इह पुमान् स जातमात्रो भवति महान् स्वत एव, यः सतीनाम्।
प्रभवति शिवकुक्षितो महार्हो मणिरिह रत्नसुवो भुवः प्रसूतः ।। 7।।
संकेतः-जातमात्र एवेति विवक्षा। जातमात्र एव स पुमान् महान् भवति य इत्यन्वयः।। 7।।
रविकुलमहिषी विदेहपुत्री भरतमहीमुनिशोणितोद्भवा च।
त्वमिव जगति हन्त यस्य माता गुरुरपरः क इवास्य शिक्षणे स्यात् ।। 8।।
गुरुरपि खलु पुण्यभाक् स भूम्ना शिशव इमे ननु यत्कुले विनेयाः।
अनल इह महान्, स मन्त्रपूतं वहति यतो हविरोषधीमहिष्ठम् ।। 9।।
संकेतः-औषधीमहिष्ठम् मन्त्रपूतं हविर्वहतीत्यन्वयः।। 9।।
भगवति! विदिताखिलो मनुष्यो भवति निसर्गत एव जन्मशुद्धया।
न खलु बहिरुपाधिमाश्रयन्ते खनिजनुषो मणयः प्रकाशसिद्ध्यै ।। 10।।
संकेतः-जन्मशुद्धिर्हि ज्ञानलाभे भारतीयो मन्त्रः। स च साधितो दिलीपेन रघुप्राप्तौ रघुवंशे।। 10।।
अतिमहति सुजन्मनि स्वयं हि श्रुतिनिधयोऽप्युपचिन्वते वपूंषि।
शितमहसि कुतो नु रश्मिजालं प्रभवति, हन्त कुतश्च शीतरश्मौ ।। 11।।
संकेतः-शितं तीक्ष्णं महः प्रकाशो यस्य स सूर्यः।। 11।।
भगवति! भुवनान्तरालमेतन्निखिलमपि ज्वलितेऽनले यथार्चिः।
प्रकृतिपुरुषयज्ञसंविधानात् स्वयमुपतिष्ठति मानुषे निकाये ।। 12।।
संकेतः-प्रकृतिपुरुषौ भूतयजमानौ बहिः, चेतने शरीरे च संबद्धावेव भासेते। तयोः संबन्ध एवायं यज्ञः। निकायः शरीरम्।। 12।।
रघुपतिदयिते! विदेहपुत्रि! द्विजललने! शृणु भारतप्रतिष्ठे!।
क्वचिदपि, पुरतश्च कस्यचिद् वा नमयति शीर्षमतो न भारतीयः ।। 13।।
जननसमयतः स कल्पनानां तरुषु भवानि समश्नुते फलानि।
अथ सुपरमचिन्तनामणीभिर्भवति च तस्य विनोद-देवनानि ।। 14।।
पिबति तदनु सोऽयमार्यबालो मधुरसमुच्छ्रिति-कामनागवीनाम्।
मनसि वपुषि चायुषि त्रिलोक्यां व्रजति परात्परतां च दिव्यदिव्याम् ।। 15।।
संकेतः-कल्पनानां शिवतमसंकल्पानां तरुषु, राहोः शिर इवाभेदे षष्ठी, सुपरमपदमांग्लभाषायाः सुप्रीम-पदेन निष्काश्यम्। तादृशानि चिन्तनान्येन मण्यश्चिन्तामणयः। ईकारान्तोपि मणिशब्दो लभ्यते। उच्छ्रितिः समुच्छ्रय उदात्ततारूपः तस्याः कामनैव गौः कामधेनुः।। 14-15।।
भरतमनलमात्मसाद् विधाय प्रतिकलमभ्युदयैषिणो द्विजेन्द्राः।
अधिशुचि दृढशाद्वलप्रतिष्ठा भुवनमिदं स्थगयन्ति यागयोगैः ।। 16।।
संकेतः-भरताख्योनलो वेदेषु प्रसिद्धः। यागो रासायनिकं मिश्रणम्, योगश्च संयोगः। यज्ञा योगाशिचेति समुदारौ शब्दौ।। 16।।
कलुषरहितमात्मतत्त्वमार्यो रविकिरणेष्वनुसंदधाति सोऽयम्।
अविरलविशदं तथैव चेतोऽप्यमृतगभस्ति-गभस्तिषु प्रबुद्धः ।। 17।।
संकेतः-कलुषरहितमात्मतत्त्वमात्मनः कालुष्यराहित्यम् एवमेव चेतसोऽ-विरल-विशदत्वम्। अमृतगभस्तिः शशी।। 17।।
इदमिदमिदमस्ति नेदमित्थं स्वयमुपबुद्धविशुद्धबुद्धिरेषः।
अरुचिररुचिरे समानभावास्वनलशिखास्वनुवीक्षते विवेकम् ।। 18।।
जगदिदमखिलं महाविराटद्रढिम-परीगत-दंष्ट्रिकाऽग्रलग्नम्।
नियतमनृतमेव नास्ति सत्यमिति च कुहूं ब्रुवतीमसौ शृणोति ।। 19।।
संकेतः-महाविराटस्य द्रढिम्ना परीगताया द्रंष्ट्रिकाया अग्रभागे लग्नं परिणामि।। 19।।
अधिदिवसमथाधिरात्रि सन्ध्यास्वपि च पिनद्धमहोपदेशमाल्यः।
प्रकृतिमहति वर्त्मनि श्रुतीनां भवति महापथिकः स्वयं द्विजेन्द्रः ।। 20।।
पुनरपि निगदामि तेन नासौ क्वचिदपि मस्तकमात्मनीनमार्यः।
विनयपरिगतोऽपि शिक्षणाय श्लथयति कुत्रचनापि भारतीयः ।। 21।।
कुलपतिरथवा महोपदेष्टा शिशुषु परं सृजतीह संस्कृतिं स्वाम्।
इयमुपचिनुते लतासधर्मा फलयितुमेव च जन्मनः फलानि ।। 22।।
प्रतिहतगतिरस्तु मा मनुष्यः पठतु भगीरथसाहसस्य विद्याम्।
अभिजन-जनते सरस्वतीनाममृतसरांसि समर्प्य तोषयेच्च ।। 23।।
जनकदुहितएष ते नियोगः शिशुविनयाय ममास्ति मान्यमान्यः।
भवति हि भवती प्रजार्थतन्तुस्थितिविषये दृढमूलधर्मभित्तिः ।। 24।।
युगलमिदमतः परीक्ष्य शिक्षारुचिमनुरूपमहं प्रशिक्षयिष्ये।
व्रजति विफलतां सतां प्रयासो रुचिपयसां शिखिवर्त्मकर्षणेन ।। 25।।
संकेतः-पयो हि नीचैर्गमनशीलम्, शिखी चोर्ध्वगामी।। 25।।
प्रथममिदमहं निभालयामि क्षितिपरिपालनदक्षमार्यवीर्यम्।
स्फुरति कनकवद् विशुद्धिमुग्धं सुतयुगले तव वा नवेति पुत्रि! ।। 26।।
संकेतः-क्षत्रियो हि क्षितिं परिपालयितुमेव लब्धसंज्ञः।। 26।।
तदनु ललितसंविधानमार्गे ध्वनिमहिते सुजनान्तरात्मविद्ये।
गणितखनिजशिल्पभूप्रतिष्ठानिगमपथेऽप्यनयोः प्रकाशमीक्षे ।। 27।।
संकेतः-ध्वनिमहितः सुजनान्तरात्मविद्याभूतश्च ललितसंविधानमार्गः साहित्यतत्त्वमार्गः। खनिजं भूगर्भशास्त्रम्, शिल्पिमिति विज्ञानाभियान्त्रिकीशास्त्रम्, भूप्रतिष्ठा भूगोलशास्त्रम्। निगमः शास्त्रम् तच्च गणितादिभिः सर्वैरेव संबध्यते। ।। 27।।
इदमखिलमपि ब्रवीमि पूर्वं मतिपरिपाकविधानमेव देवि!।
जन-जन-हित-संविधानमन्यद् भवति यदेतदतः परं ब्रवीमि ।। 28।।
सुपठितमपि भूयसा वृथैव द्विजललने! भवतीह पण्डितानाम्।
यदि भवति न तत् प्रजाप्रतिष्ठापरमफलाय निवासिनां समाजे ।। 29।।
बत, बुधजन एव सूत्रधारो भवति यदा प्रकृतेरनुक्रियायाः।
जगति किमिति निष्क्रियत्ववज्रैरसमय एव हिनस्ति तां तदेषः ।। 30।।
संकेतः-प्रकृतेरनुक्रिया हि यज्ञः। तां नाविद्वान् प्रवर्त्तयेत।। 30।।
भवति कवयितुर्विपश्चितोऽदो व्रतमथवात्र महाव्रतं यदेषः।
जनजनहृदयं प्रकाशराशेर्विशदतया विशदीकरोतु कामम् ।। 31।।
स हि परमतमो निजार्थदर्शी भवति जनः परिशील्य यस्तु शास्त्रम्।
विपथगतिजुषां गतीर्निरोद्धुं विरततया यतते न लेशतोऽपि ।। 32।।
इति रघुकुलकीर्तिकेतुभूते मनुजसमाजनियन्तरि द्विजातौ।
तव कुश-लव-नाम्न्यपत्ययुग्मे प्रतिपदमस्मि समाजगां दिदृक्षुः ।। 33।।
भवति यदि न मे कथेयमच्छा वद तदभूत् किमु कारणं यदार्यः।
स्थितिषु परमपूरुषोऽपि रामोऽत्यजदमलां भवतीमभिन्नचेताः ।। 34।।
भगवति! परमेकमत्र तत्त्वं तव परिदेवनमूलमुन्नयामि।
रघुपतिजनता न शिक्षितास्ति, भवति च तन्त्रमितः सतां विरक्तिः ।। 35।।
अयि बत, यदि विद्यया सतीनां न हि परिपालनमस्ति किं तया नः।
सुरभिरपि वृथैव पायसैश्चेद् यदि न समेधयतेऽत्र विक्लवान् सा ।। 36।।
क्षणपरिमितमस्ति चेत् समस्तं चरमचरञ्च निरीक्ष्यमाणमेतत्।
तदिह तरलवीचिकासु सिन्धुर्नियतमुपास्यतमो हि विश्वमूर्त्तिः ।। 37।।
स च नरि नरि चेतनास्वरूपात् स्थितिमधिगम्य विभुश्चकासदास्ते।
यदि न निगमशालिभिर्मनुष्यैरपचितिरस्य विधीयते कृतं तैः ।। 38।।
संकेतः-अपचितिः पूजा।। 38।।
इयमिह मम वर्तते मनीषा तव तनयावथ तद्वदेव सर्वे।
द्विजकुलशिशवो जगन्ति विद्याविशदपथेन विवेकतो नयन्तु ।। 39।।
अथ च कमलपत्रतां दधाना विषयसरोऽम्भसि नीरजस्कभावात्।
हृदयगगन आविलाभ्रभावैरनिबिडतां समुपार्जयन्तु सर्वे ।। 40।।
इति सरलमना विवेकशीलो भुवनहितेच्छुरथान्तरे विरक्तः।
अलमलमिति संकथां समाप्य प्रतिजगृहे रविवंशशावकौ तौ ।। 41।।
दिनमपि कथयाऽनयैव सार्धं स्थविरदशामगमत् पदे महर्षेः।
गतवयसि विटे नु यत्र रागै रुचिचिकुराः सिततां निराचिकीर्षन् ।। 42।।
संकेतः-रागै रञ्जनद्रव्यैः खिजाबादिलोकपदवाच्यैः।। 42।।
वटुजन इव सान्ध्यिकः प्रणामस्वर उदियाय पतत्त्रिणां समूहे।
ऋषिजन इव किं च दिग्विभागादुटजभुवं समियाय गोसमूहः ।। 43।।
संकेतः-सान्ध्यिक इति ‘तत्र नियुक्त’ (4.4.69) इति ठक्।। 43।।
हविरुपशममानिनाय धूमैर्हरिति हरित्यघमग्नये विसृष्टम्।
श्रुतिसुभग ऋचां स्वरोऽन्तरीक्षं परिहृतपातकमातनोच्च पूर्णम् ।। 44।।
अवनिरुहशिखासु सान्ध्यमोजः शलभसमूह इवाश्रयं विलेभे।
उटजपरिसरे च दीपलक्ष्मीर्गृहहरिणीव रुचिं परां बभार ।। 45।।
संकेतः-रुचिः कान्तिः, प्रियत्वं चेति श्लेषः। प्रकृतोभयौपम्यम्।। 45।।
अधिनिजलघुगोष्ठकं निरुद्धा सुरभिमृगार्भकसंहतिस्तदानीम्।
प्रसुवमभि नितान्तमुत्सुकत्वात् प्लुतगतिरास विहङ्गतां गतेव ।। 46।।
संकेतः-प्रसुवं जननीमभि प्रति। विहगार्भका अपि तदा तथैव।। 46।।
चरमगिरितटेऽथ सान्ध्यमोजो दवदहनादिव शिक्षते स्म रागे।
सर इव खलु येन दिग्वधूटीघुसृणविवर्णमिवोर्ध्वमालुलोके ।। 47।।
संकेतः-चरमगिरिरस्ताचलः। तत्तटे दवदहनोपि विद्यमान एव। तत्र यथा रक्तिमा, तथा तदानीमोजस्यप्याविर्बभूव। घुसृणं कुंकुमम्।। 47।।
दिवसशतदलं दलानि कृत्स्नान्यपि करसंपुटभावमापयित्वा।
रविमभि हृदयेन यामयात्राप्रणतिपरं भुवनान्तरे व्यलोकि ।। 48।।
संकेतः-रविमभि प्रति। भुवनं जलमपि।। 48।।
चतसृषु हरितां वनीषु यस्मादवतरति स्म सिताऽसिता तदानीम्।
रजनिमुखतमःकपोतपाली निववृतिरे निलयाय तेन हंसाः ।। 49।।
संकेतः-रजनिमुखं निशामुखम्। तम एव कपोतपाली। हंसाः सूर्यरश्मयोपि।। 49।।
भवति विरलसंहतेः सदैव द्युतिमहतोपि जनस्य शत्रुशातः।
इति वदति नु दीपकस्तमांसि शिरसि विधृत्य रवौ गतेऽस्तगर्भे ।। 50।।
अथ विलुलिततारकं नभोऽभून्नयनमिव द्युतिशून्यमन्धकारे।
विरल-खग-रुतैश्चराचरस्य करुणतमां च दशां लता विवव्रुः ।। 51।।
संकेतः-तारकपदेन नयनपक्षे कनीनिका। निशामुखे तस्या अपि विलुलितत्वमानुभविकम्।। 51।।
तदनु कपिलधेनुतां दधाना विशदरुचामपदेशतः स्वदुग्धैः।
अधिगत-शशि-वत्सका निशा सा भुवनघटं परिपूरयांबभूव ।। 52।।
विरलमधुपबाधया तटाके निभृतपरागहृताऽनिलेन सार्धम्।
कुमुददयितया विभावरीशद्युतिषु च विभ्रमलास्यकं नु तेने ।। 53।।
संकेतः-हृता हरणशीलेन।। 53।।
निभृतहरिणसंचरासु रथ्यास्वमृतकरेण सुधाभिरुक्षितासु।
अभवदिव समीरणो वियोगी पथिक इयाय य उत्पथं वनान्ते ।। 54।।
संकेतः-अमृतकरः शशी। निभृतेत्यादिना जनरहितत्वमुद्भावितम्। सुधोक्षितत्वेन च पथिकं प्रति नितान्तदुःसहता एकमात्रधवलत्वेन च भ्रमसंभवः प्रकटः।। 54।।
कृतदिवसविरामधर्मकृत्यः कुलपतिराश्रमिभिः स संपरीतः।
कुशलवशिरसोः स्वपाणिपद्मं व्यधृत च तां विससर्ज ससदं च ।। 55।।
ऋषिमुनिसमितिर्निशामुखे सा कवयितुरस्य निदेशतो विसृष्टा।
अविशदुटजमुत्पलं दिनश्रीरिव यदिवा हृदयं चितः प्रवृत्तिः ।। 56।।
संकेतः-उपमानद्वयमप्यत्र प्राकरणिकम्। चितः प्रवृत्तेर्हृदयप्रवेशो मुनीनां योगनिद्रां गमयति।। 56।।
उपनयनविधिं विधाय सून्वोरिति दुहिता जनकस्य शुद्धबुद्धयोः।
निजमुटजमियाय तत्समेता मुनिवचनात्, प्रथमो गुरुः प्रसूर्हि ।। 57।।
संकेतः-सुतसमेतत्वे हेतुः मुनिवचनम्। तस्य च पोषकं मातुः प्रथमगुरुत्वम्।। 57।।
निगमविधिभिरेतौ सूरिराद्यः परेद्युर्
विधृतयजनसूत्रौ क्षौरभद्रोत्तमाङ्गौ।
धृत-चलदल-दण्डौ मुञ्जिनौ चापि कृत्वा
बलिनियमकृते हि प्रापयद् वामनत्वम् ।। 58।।
संकेतः-बले राक्षसविशेषस्य बलिनां च नियमकृते नियन्त्रणायेत्युभयत्राप्यनुगामि। चलदलोऽश्वत्थः।। 58।।
तदनु नियमशुद्धौ तौ परां चापरां च
प्रतिपदमुपदिश्य प्राच्यविद्यां कवीन्द्रः।
अगमयत् पटिष्ठामस्त्रविद्यां च दिव्यां
न हि भवति वृषात्मा धर्म उत्सृष्टशृङ्गः ।। 59।।
संकेतः-परा विद्या उपनिषदः। अपरास्तदतिरिक्ताः। वृषो हि धर्मप्रतीकः। स च प्रकृत्या हिंसारहितोपि रक्षणाय हिंसासाधनं शृङ्गं दधदेव पुराविद्भिरालेख्यते। हरप्पादिषु प्रियदर्शिस्तम्भेषु कालिदासादिषु च तथा तस्योपलब्धेः। तथा च कालिदासः-‘‘खे खेलगामी तमुवाहः00 धुन्वन्मुहुः प्रोतघने विषाणे’’ (कु0 7.49) इति।। 59।।
सकलमतिगुणौ तौ सार्धमन्यैश्च बालै-
र्गुरुजनवचनानां पालने दत्तचित्तौ।
स्मरणमिव सुबुद्धी सर्वमेवाध्यगार्ष्टां
भवति निगमलाभो गर्भ एवार्यजातौ ।। 60।।
संकेतः-‘शुश्रूषाश्रवणग्रहणधारणोहापोहार्थविज्ञानमत्त्वज्ञानानि धीगुणाः’।। 60।।
कविमतिरिव साध्वी दर्शने सत्पदस्य
नियतिरिव च धीरा कर्मयोगेषु सापि।
अलभत सति चित्ते स्वेऽक्षरं ज्योतिरेकं
प्रियविरहपतङ्गो यत्र शान्तिं प्रयातः ।। 61।।
संकेतः-सत्पदं कविपक्षे शोभनानि पदानि। कर्मयोगः फलासंगविवर्जितः कार्यविधिः, पक्षे अदृष्टरूपकर्मणां योगेषु विनियोगेषु। स्वे स्वकीये। ज्योतिरात्मज्योतिः।। 61।।
स्तनयुगपरिवेषे कुङ्कुमश्रीर्विभूत्या,
करयुगमणिबन्धे कौतुकश्रीः कुशैश्च।
वपुषि सितदुकूलश्रीः श्रिया वल्कलानां
विनिमयमिव लब्ध्वा चक्रुरस्यां तपांसि ।। 62।।
संकेतः-मणिबन्धः अङ्गविशेषः। कौतुकं हस्तसूत्रम्।। 62।।
इति सुतयुगली सा, सा च तस्याः सवित्री
ऋषि-मुनि-कवि-ताढ्यो धाम्नि तत्रात्मलाभम्।
अलभत हिमशैले भारतीया यथा भूः
सह निजतनयाभ्यां भोटनेपालकाभ्याम् ।। 63।।
संकेतः-भोटो भूटाननाम्ना प्रथितः प्रान्तः। तादृश एव च नेपालः। हिमाचले प्रसिद्धाभ्यां ताभ्यां युक्ता आर्यभूर्भारतभूमिः यथा आत्मलाभं लभते तथैव सीतापि तत्सुताभ्यां सहात्मलाभं सफलत्वमध्यात्मसिद्धिं चालभत।। 63।।
इति सनातनकवि-श्रीमद्रेवाप्रसादद्विवेदिकृतौ ‘सीताचरितापर’- नाम्नि उत्तरसीताचरिते सर्गबन्धे विद्याधिगमो नाम सप्तमः सर्गः।। 7।।