( 1 )
ममत्वाख्यां वल्गां यदि परिनिषेवेत मनुजा-
कृतिः पादौ हित्वा धृतपदयुगोऽश्वा दृढवपुः ।
पृथासूनुर्भूत्वा भवतु कृपणः किञ्च कशया
निपीड्येतैषोपि श्रितहरिवपुष्केण रथिना ।। 1।।
कृतिः पादौ हित्वा धृतपदयुगोऽश्वा दृढवपुः ।
पृथासूनुर्भूत्वा भवतु कृपणः किञ्च कशया
निपीड्येतैषोपि श्रितहरिवपुष्केण रथिना ।। 1।।
रथी सारथ्यं चेद् व्रजति बत योगास्त्रिचतुरा
अपि स्वैरं सोत्कन्त्युपनिषदुपबुद्धास्तु शयनात् ।
कवीन्द्राः शृण्वन्ति श्रुतिभिरतिसूक्ष्माभिरभितः
प्रसर्पन्मन्त्राभिः प्रतिपदमलं-ब्रह्म-रसिकाः ।। 2।।
अपि स्वैरं सोत्कन्त्युपनिषदुपबुद्धास्तु शयनात् ।
कवीन्द्राः शृण्वन्ति श्रुतिभिरतिसूक्ष्माभिरभितः
प्रसर्पन्मन्त्राभिः प्रतिपदमलं-ब्रह्म-रसिकाः ।। 2।।
चतुर्थो योगोष्टाङ्गयोग। उपबुद्धाः प्रबुद्धाः। अलमिति ब्रह्मण आगमिकी संज्ञा।
विपर्यासः सोयं भवति यदि वेदान्तकलनां
गतो लोकालोकोऽचल! समुदयं यातु तदयम् ।
क्षणस्ते निर्दोषो ग्रहयुतिचमत्कारमहितः,
विपर्यस्यन् स्वाख्यां तिमिरमुपरि स्थापितवतीम् ।। 3।।
गतो लोकालोकोऽचल! समुदयं यातु तदयम् ।
क्षणस्ते निर्दोषो ग्रहयुतिचमत्कारमहितः,
विपर्यस्यन् स्वाख्यां तिमिरमुपरि स्थापितवतीम् ।। 3।।
अलोकलोकेति लोकालोकविपर्यासे।
अलोकस्त्वालोको भवति यदयं किञ्चन दृशोः
पुरश्चीर्णो भूत्वा भजति परमां नर्त्तनकलाम् ।
निरालोके धाम्नि क्वचन भुजगः क्वापि शयनं
विधायैनं स्वापी पुरुष उपलक्ष्येत कृतिभिः ।। 4।।
अलोकस्त्वालोको भवति यदयं किञ्चन दृशोः
पुरश्चीर्णो भूत्वा भजति परमां नर्त्तनकलाम् ।
निरालोके धाम्नि क्वचन भुजगः क्वापि शयनं
विधायैनं स्वापी पुरुष उपलक्ष्येत कृतिभिः ।। 4।।
आ=ईषल्लोक आलोकः। तदेतद् व्याकृतमिहैव यदयममिति।
अथ श्रीः सामुद्रादुदर-पिठरादुत्थितवपुः
स्वकं स्वं वृण्वीत स्वकरगतविश्वस्रगबला ।
महाकालो ब्रूते द्वितयमपि, पूर्वं पुरुष इ-
त्यभिख्यं पश्चाच्चाव्ययपुरुष इत्यत्र शयितम् ।। 5।।
स्वकं स्वं वृण्वीत स्वकरगतविश्वस्रगबला ।
महाकालो ब्रूते द्वितयमपि, पूर्वं पुरुष इ-
त्यभिख्यं पश्चाच्चाव्ययपुरुष इत्यत्र शयितम् ।। 5।।
महाकालः=कालदासापरनामा कालिदासो महाकविः। पुरुषो भुजगश्च पुरुरवाश्च।
न वै सा स्रग् भिन्ना न च वरणयोग्योऽपि पुरुषः
परस्तस्मिन् सुप्ताद् विदितपरपुंसाव्ययतनोः ।
कथं, श्रीर्नान्येयं न च वरणसंवरणक्रिया-
मुहूर्त्तोऽन्यः कश्चिन्मुकुरविवरेयं भिदुदयः ।। 6।।
परस्तस्मिन् सुप्ताद् विदितपरपुंसाव्ययतनोः ।
कथं, श्रीर्नान्येयं न च वरणसंवरणक्रिया-
मुहूर्त्तोऽन्यः कश्चिन्मुकुरविवरेयं भिदुदयः ।। 6।।
महत्यां चेद् भायां रतिमुपगताः स्मोऽद्य निखिला
मनोर्वंश्या भूत्वा बत कुरुनृपस्यान्वयभुवः ।
इयं सा पर्व्वाणि श्रयति नवयुग्मान्य(18)थ कथां
विरामे वैरस्यं सुगतपरिभुक्तं विभुजति ।। 7।।
मनोर्वंश्या भूत्वा बत कुरुनृपस्यान्वयभुवः ।
इयं सा पर्व्वाणि श्रयति नवयुग्मान्य(18)थ कथां
विरामे वैरस्यं सुगतपरिभुक्तं विभुजति ।। 7।।
( 2 )
असौ भग्नोरुः सन् विरचितवपुष्कोऽशनिशतै-
र्महासत्या दृष्ट्या परिणतिमितैर्हन्त नृपतिः ।
शृगालीभिर्दृष्टे पथि धृतपदेनाऽन्ध-नयने
न संप्राप्तः पुत्रः पितृवनभुवि ध्वान्तशयितः ।। 8।।
र्महासत्या दृष्ट्या परिणतिमितैर्हन्त नृपतिः ।
शृगालीभिर्दृष्टे पथि धृतपदेनाऽन्ध-नयने
न संप्राप्तः पुत्रः पितृवनभुवि ध्वान्तशयितः ।। 8।।
अन्धनयनेन धृतराष्ट्रेण। तथा च भासः अद्यास्म्यहमन्धो योऽहं द्रष्टव्येपि काले पुत्रं न पश्यामि इति।
पिता ब्रूते पुत्र! त्वमसि भुवि यत्रात्र गमितो
भवाम्याभिः स्त्रीभिर्ज्वलितवदनाभिर्वृकपशोः ।
अहो त्वं त्वेवं वै सततमभवो वञ्चकवृतः
शृगालीभिः स्वार्थोपवन.परमाभिश्च कुषितः ।। 9।।
भवाम्याभिः स्त्रीभिर्ज्वलितवदनाभिर्वृकपशोः ।
अहो त्वं त्वेवं वै सततमभवो वञ्चकवृतः
शृगालीभिः स्वार्थोपवन.परमाभिश्च कुषितः ।। 9।।
वञ्चको वृकोऽपि।
श्रितो गङ्गासूनुः निशितशरशय्यां क्वचिदिह
त्वमत्रैवं पुत्र! श्वसिषि पितृभूमौ निपतितः ।
इयं गान्धारी त्वां स्पृहयति करेणातुरतमा
जनन्येषोऽहं ते जनक इति च स्प्रष्टुमलिके ।। 10।।
त्वमत्रैवं पुत्र! श्वसिषि पितृभूमौ निपतितः ।
इयं गान्धारी त्वां स्पृहयति करेणातुरतमा
जनन्येषोऽहं ते जनक इति च स्प्रष्टुमलिके ।। 10।।
अहो मातस्तात त्वमिह किमु मां प्राप्य रुदितौ
रुदद्भ्यामेवान्धा नयनयुगली वां समजनि ।
सचक्षुस्त्वेषोऽहं तिमिरपरिवीतो नहि धया-
म्यपीमौ वां किन्तु श्वसनलतिका मन्न पतति ।। 11।।
रुदद्भ्यामेवान्धा नयनयुगली वां समजनि ।
सचक्षुस्त्वेषोऽहं तिमिरपरिवीतो नहि धया-
म्यपीमौ वां किन्तु श्वसनलतिका मन्न पतति ।। 11।।
अनन्धश्चक्षुष्मानपि न हि भवाम्यद्य पितरौ
पदद्वन्द्वे स्प्रष्टुं प्रभुरपगतः पाणियुगलात् ।
अयं वादो मृत्योः परमपि मदीयोऽस्तु विवृतो
विधीनां वेतॄणां प्रमुख इति मेऽन्त्यस्तु विनयः ।। 12।।
पदद्वन्द्वे स्प्रष्टुं प्रभुरपगतः पाणियुगलात् ।
अयं वादो मृत्योः परमपि मदीयोऽस्तु विवृतो
विधीनां वेतॄणां प्रमुख इति मेऽन्त्यस्तु विनयः ।। 12।।
अथो मात्रा दृष्टं मम वपुरिदं दृक्पटिकया
विमुक्ताभ्यां दृग्भ्यामशनिदृढगात्रं भवति यत् ।
न तद् दग्धुं भावी प्रभुरपि कृशानुर्न सलिलं
क्षितिर्मां स्वे गर्त्ते स्पृहयतितरां नाद्य शयितम् ।। 13।।
विमुक्ताभ्यां दृग्भ्यामशनिदृढगात्रं भवति यत् ।
न तद् दग्धुं भावी प्रभुरपि कृशानुर्न सलिलं
क्षितिर्मां स्वे गर्त्ते स्पृहयतितरां नाद्य शयितम् ।। 13।।
समीरा मद्गात्रादपि बहिरिताः का नु कलना
पदे विष्णोर्झञ्झावपुरुपगतानां तु मरुताम् ।
इदं चाकाशं मां क्षिपति ननु विद्युद्भिरभितः
स्फुरन्तीभिस्तैस्तैः शबलशबलैः पर्णतनुभिः ।। 14।।
पदे विष्णोर्झञ्झावपुरुपगतानां तु मरुताम् ।
इदं चाकाशं मां क्षिपति ननु विद्युद्भिरभितः
स्फुरन्तीभिस्तैस्तैः शबलशबलैः पर्णतनुभिः ।। 14।।
शतं मे प्रागेवान्तकपुरमुपेता धिगनुजाः
महावीराः कर्णप्रभृतयो नाद्य सुलभाः ।
समे पुत्रास्तद्वत् पितृवनमहीलीनवपुषः
पितस्त्वं वै कर्तुं निवपनविधिं प्रश्वसिषि तत् ।। 15।।
महावीराः कर्णप्रभृतयो नाद्य सुलभाः ।
समे पुत्रास्तद्वत् पितृवनमहीलीनवपुषः
पितस्त्वं वै कर्तुं निवपनविधिं प्रश्वसिषि तत् ।। 15।।
यदा सा पाञ्चाली विवृतजघना नाभवदहं
मृतिं तस्मिन्नेव क्षण उपगतस्तात ननु! किम् ।
मम श्राद्धं तस्मिन् खलु समय एवात्रभवतां
शतैश्चीर्णं पुत्रैरभवमहमप्यात्तकबलः ।। 16।।
मृतिं तस्मिन्नेव क्षण उपगतस्तात ननु! किम् ।
मम श्राद्धं तस्मिन् खलु समय एवात्रभवतां
शतैश्चीर्णं पुत्रैरभवमहमप्यात्तकबलः ।। 16।।
इमाः पाञ्चाल्योऽपि क्षण इह मुदां काञ्चनमहो-
दधौ मग्ना भूत्वा प्रगुणपरितोषा अचलकन् ।
वयं लोका-धिक्या-ञ्चित-शतमुपेता यमगृहं
पृथापुत्राः पञ्चाप्यहह पृथिवीशाश्च सुखिताः ।। 17।।
दधौ मग्ना भूत्वा प्रगुणपरितोषा अचलकन् ।
वयं लोका-धिक्या-ञ्चित-शतमुपेता यमगृहं
पृथापुत्राः पञ्चाप्यहह पृथिवीशाश्च सुखिताः ।। 17।।
अयं मे दौर्भाग्यादजनि परिपाकातिशयिता-
समग्रोदग्रो वै परिभव उदावर्त-पवनः ।
इहास्मिन् भूत्वाहं तृणमुपरि काष्ठासु विशदा-
स्वमूषु स्वं स्थानं क्वचिदपि न लब्ध्वास्मि पतितः ।। 18।।
समग्रोदग्रो वै परिभव उदावर्त-पवनः ।
इहास्मिन् भूत्वाहं तृणमुपरि काष्ठासु विशदा-
स्वमूषु स्वं स्थानं क्वचिदपि न लब्ध्वास्मि पतितः ।। 18।।
समुद्रा अप्येते न खलु समुदाराः परतरै-
र्महीकुक्षिश्वभ्रैर्भरितकुहराः सत्त्वशतकैः ।
ममेदं भुक्तं भूपतितमयि सत्त्वैर्वृकनृगैः
शरीरं स्वीकर्तुं विगतरुधिरं रेचितपलम् ।। 19।।
र्महीकुक्षिश्वभ्रैर्भरितकुहराः सत्त्वशतकैः ।
ममेदं भुक्तं भूपतितमयि सत्त्वैर्वृकनृगैः
शरीरं स्वीकर्तुं विगतरुधिरं रेचितपलम् ।। 19।।
अमी काका वृक्षे स्थितिमुपगता द्रष्टुमपि मां
न वाञ्छन्ति क्षुद्रा बत मयि पतन्त्युग्रदशनाः ।
न मे पाणी अद्य क्वचन वपुषि प्रेक्षितिमितौ
महायामौ दीर्घावपि किमु तदेतान् क्षपयतः ।। 20।।
न वाञ्छन्ति क्षुद्रा बत मयि पतन्त्युग्रदशनाः ।
न मे पाणी अद्य क्वचन वपुषि प्रेक्षितिमितौ
महायामौ दीर्घावपि किमु तदेतान् क्षपयतः ।। 20।।
क्षुद्रा मधुमक्षिका।
मदीया अन्याया बत बत पलेऽस्मिन् मयि महा-
महावर्त्ता भूत्वा ननु परिपतन्त्यद्य परुषाः ।
परीपाकानेषामहमिह हि जीवन् हि रसया-
म्यहो हालाहल्ये परिचयमुपेतोऽस्मि कदने ।। 21।।
महावर्त्ता भूत्वा ननु परिपतन्त्यद्य परुषाः ।
परीपाकानेषामहमिह हि जीवन् हि रसया-
म्यहो हालाहल्ये परिचयमुपेतोऽस्मि कदने ।। 21।।
क्षणेन्त्येस्मिन् प्राणाः किमु नहि विमुञ्चन्ति बत मां
किमेते वाञ्छन्तो गतिमुपगताश्चा-गतिमपि ।
इह त्वन्धे संध्यासमय इदमेकं स्फुरति म-
न्मतौ धेयात् पादं मम शिरसि साध्वी द्रुपदजा ।। 22।।
किमेते वाञ्छन्तो गतिमुपगताश्चा-गतिमपि ।
इह त्वन्धे संध्यासमय इदमेकं स्फुरति म-
न्मतौ धेयात् पादं मम शिरसि साध्वी द्रुपदजा ।। 22।।
प्रसूः प्रणानां वा भवति ननु पापैर्मम मृषो-
दरी, भूयाद् भूयो न हि खलु सुतः पापनिलयः ।
तदीयो यस्तातः स च विधिसमक्षं निरुरुधे
स्वकां नाडीं शुक्रं क्षरति खलु या योषिति मिथः ।। 23।।
दरी, भूयाद् भूयो न हि खलु सुतः पापनिलयः ।
तदीयो यस्तातः स च विधिसमक्षं निरुरुधे
स्वकां नाडीं शुक्रं क्षरति खलु या योषिति मिथः ।। 23।।
न पश्चात्तापैर्नश्चिति समुदितैः कापि कलना
क्रियेत क्षोभाणां विषविषमितानां मतितटे ।
यदिष्टं यन्नेष्टं तदुभयमिहोद्वास्य तिमिरे
शृगालानां दंष्ट्रा अहमिदमुपास्यास्मि शयितः ।। 24।।
क्रियेत क्षोभाणां विषविषमितानां मतितटे ।
यदिष्टं यन्नेष्टं तदुभयमिहोद्वास्य तिमिरे
शृगालानां दंष्ट्रा अहमिदमुपास्यास्मि शयितः ।। 24।।
स्वपिति भगवान् भीष्मः शय्यातले शरनिर्मिते
स्वपिमि यदि वाप्येषोहं वञ्चकावलिदंष्ट्रके ।
ननु सफलतामेतां स्वीयामहं कलयामि नो
श्वसिति मयि नो यत् ते राज्यं गता न पृथासुताः ।। 25।।
स्वपिमि यदि वाप्येषोहं वञ्चकावलिदंष्ट्रके ।
ननु सफलतामेतां स्वीयामहं कलयामि नो
श्वसिति मयि नो यत् ते राज्यं गता न पृथासुताः ।। 25।।
विदधतु समेप्येते राज्यं भुवो व्यभिचारजा-
स्तनयविरुदाः पाण्डोः केचित् सुता इह हि क्षणे ।
इह हि चलिताः शैलाः स्वर्णैर्विनिर्मितशृङ्गकाः
जलधिकुहराल्लक्ष्मीजानिश्च हन्त पलायितः ।। 26।।
स्तनयविरुदाः पाण्डोः केचित् सुता इह हि क्षणे ।
इह हि चलिताः शैलाः स्वर्णैर्विनिर्मितशृङ्गकाः
जलधिकुहराल्लक्ष्मीजानिश्च हन्त पलायितः ।। 26।।
को वा दुन्दुभिरद्य राज्यतिलके मुञ्चीत दीर्घान् ध्वनीन्
को वा शङ्ख उदारतारमुपदीकुर्वीत संरावणाम् ।
लोकेस्मिन् पितृभूमितामुपगते को वास्तु सामाजिको
व्यायोगस्य डिमस्य वाभिनयने मृत्योर्गणैर्भूतले।। 27।।
को वा शङ्ख उदारतारमुपदीकुर्वीत संरावणाम् ।
लोकेस्मिन् पितृभूमितामुपगते को वास्तु सामाजिको
व्यायोगस्य डिमस्य वाभिनयने मृत्योर्गणैर्भूतले।। 27।।
जीवन् कष्टमभुङ्क्त वन्यपशुवञ्छत्रुस्त्वहं राजतां
प्राप्य स्वैरमयापयं मम वयोदायं समग्रं सुखैः ।
को वास्मिन् गृहसङ्गरे परिभवं प्राप्तोस्ति को जित्वरः
प्रश्नेस्मिन् कुरु काल! निर्णयमिमे यामो लयं वादिनः ।। 28।।
प्राप्य स्वैरमयापयं मम वयोदायं समग्रं सुखैः ।
को वास्मिन् गृहसङ्गरे परिभवं प्राप्तोस्ति को जित्वरः
प्रश्नेस्मिन् कुरु काल! निर्णयमिमे यामो लयं वादिनः ।। 28।।
रे रे साङ्गरिकाः महर्षिनिचयाश्चीयेत वः फूत्कृतं
मूर्खैर्दर्शनमित्युपासितमथोच्छ्वासान् भजन्तान्तमाम् ।
दत्तं यैस्तु नियन्त्रणं करतले तस्यास्ति यो वै पटी-
पृष्ठे तिष्ठति यश्च संमुख इमं संपात्य गर्त्ते मुधा ।। 29।।
मूर्खैर्दर्शनमित्युपासितमथोच्छ्वासान् भजन्तान्तमाम् ।
दत्तं यैस्तु नियन्त्रणं करतले तस्यास्ति यो वै पटी-
पृष्ठे तिष्ठति यश्च संमुख इमं संपात्य गर्त्ते मुधा ।। 29।।
देहत्वं यदि नास्ति किं त्वयि तदा ब्रूहि द्रुतं विद्यते
वक्तास्मिन् कथमस्ति चेदुपगतो नो वक्त्र-देहं सुधीः ।
मौनं संशृणुयुस्तदुत्तरमिमे शब्दं विना सृत्वरं
ब्रह्मैतच्च समस्ति नास्ति कवलीकारक्रियाकर्मकम् ।। 30।।
वक्तास्मिन् कथमस्ति चेदुपगतो नो वक्त्र-देहं सुधीः ।
मौनं संशृणुयुस्तदुत्तरमिमे शब्दं विना सृत्वरं
ब्रह्मैतच्च समस्ति नास्ति कवलीकारक्रियाकर्मकम् ।। 30।।
पिशाच्येषा भङ्गैर्भ्रुकुटिललितायाः कथयते
पिशाचोयं कृत्वा विगतवसनां भ्रातृगृहिणीम् ।
अकाङ्क्षद् रन्तुं तां सदसि जरतां हन्त पुरतः
समेषां निर्लज्जः पदयुगविहीनः पशुतमः ।। 31।।
पिशाचोयं कृत्वा विगतवसनां भ्रातृगृहिणीम् ।
अकाङ्क्षद् रन्तुं तां सदसि जरतां हन्त पुरतः
समेषां निर्लज्जः पदयुगविहीनः पशुतमः ।। 31।।
परा ब्रूते कष्टः पुरुषवपुरेषोस्ति वडवा-
सुतः कोऽन्यो भ्रातुर्दयितदयितायामतिचरेत् ।
मनुष्यत्वे द्वेष्टा न हि भवति पात्रं मनुजता-
पदव्याः को भ्राता गरलमनुजेषु प्रकिरति ।। 32।।
सुतः कोऽन्यो भ्रातुर्दयितदयितायामतिचरेत् ।
मनुष्यत्वे द्वेष्टा न हि भवति पात्रं मनुजता-
पदव्याः को भ्राता गरलमनुजेषु प्रकिरति ।। 32।।
तृतीयेयं काचित् सुरभुवनकण्ठाभरणतां
प्रयाता थूत्कृत्वा शपति खलु मां पापनिलयः ।
असौ द्यूतव्याजे वनवसतये बाध्यमकरोत्
पितृव्यस्यात्मीयान् विनयगुणिनो हन्त तनयान् ।। 33।।
प्रयाता थूत्कृत्वा शपति खलु मां पापनिलयः ।
असौ द्यूतव्याजे वनवसतये बाध्यमकरोत्
पितृव्यस्यात्मीयान् विनयगुणिनो हन्त तनयान् ।। 33।।
असौ निस्सादृश्यो बत परुषचित्तो नरखरो
निरुध्यात्मीयान् यो दहनमददाद् धिग् जतुगृहे ।
असौ भीष्मद्रोणौ कृपणमथ राधासुतमदा-
न्मृधाख्यस्यास्ये वै मरणयमराजस्य रभसात् ।। 34।।
निरुध्यात्मीयान् यो दहनमददाद् धिग् जतुगृहे ।
असौ भीष्मद्रोणौ कृपणमथ राधासुतमदा-
न्मृधाख्यस्यास्ये वै मरणयमराजस्य रभसात् ।। 34।।
अमू योषास्तत्तद्भट-परिगृहीता गतधवा
धुनानाङ्गान् रूढा गरुडसमुदायान् मृगयितुम् ।
प्रदेशं तं यस्मिन् प्रसरति न कामस्य निशिता
शराली यस्मिन् वा ध्वनति नहि वर्षर्तुजलदः ।। 35।।
धुनानाङ्गान् रूढा गरुडसमुदायान् मृगयितुम् ।
प्रदेशं तं यस्मिन् प्रसरति न कामस्य निशिता
शराली यस्मिन् वा ध्वनति नहि वर्षर्तुजलदः ।। 35।।
भविष्यद्वाण्यो याः खलु समरतो-कारिषत वै
पृथापत्येनाग्रे भगवदुपवीतेन किमु ताः ।
न वै सत्या जाता, अथ स भगवांस्ता न कृतवान्
मृषोद्यत्वं याताः, भवसि नर एव त्वमृतगीः ।। 36।।
पृथापत्येनाग्रे भगवदुपवीतेन किमु ताः ।
न वै सत्या जाता, अथ स भगवांस्ता न कृतवान्
मृषोद्यत्वं याताः, भवसि नर एव त्वमृतगीः ।। 36।।
वाद्य परमः। वाद्य तु परः।
भवसि निरयात्वं हि नियतः।
भवसि निरयात्वं हि नियतः।
विपाकः पापानां भवति जगदीशस्य वशगो
न, तत्रास्ते नाशो विनशनधुरं प्रत्युत गतः ।
इदानीं रक्षा किं नहि मतिमुपेतास्य मनुजा-
कृतेर्धर्मंत्रातुं विधृतवपुषस्तस्य महसः ।। 37।।
न, तत्रास्ते नाशो विनशनधुरं प्रत्युत गतः ।
इदानीं रक्षा किं नहि मतिमुपेतास्य मनुजा-
कृतेर्धर्मंत्रातुं विधृतवपुषस्तस्य महसः ।। 37।।
हृता सीता, हर्तुस्तदनु सकुलस्यास्तु विलयो
वृथा सोयं, सेयं बत मलजुषो वारिशुचिता ।
मलाभिष्वङ्गी यः कृपणमतिकस्यास्य कुशलं
विधातुं धातापि प्रभवति न सर्वंसहकलः ।। 38।।
वृथा सोयं, सेयं बत मलजुषो वारिशुचिता ।
मलाभिष्वङ्गी यः कृपणमतिकस्यास्य कुशलं
विधातुं धातापि प्रभवति न सर्वंसहकलः ।। 38।।
तदाहं जागर्मि व्रजति परिहृत्याखिलमपि
श्रियां कोषं चौरो बहिरपि सुखेनैव सरति ।
प्रबोधो यः काले, स खलु रघुतां यच्छति, गतिं
न तस्याकाशेशः क्षपयति न पातालगबलिः ।। 39।।
श्रियां कोषं चौरो बहिरपि सुखेनैव सरति ।
प्रबोधो यः काले, स खलु रघुतां यच्छति, गतिं
न तस्याकाशेशः क्षपयति न पातालगबलिः ।। 39।।
मतिर्ज्ञातुं शक्ता रिपुमपि हितं वापि विविधै-
रभिज्ञानैः किन्तु प्रसरणमरेर्नैव विरतम् ।
मतिः किं वा कुर्याद् बत शकुनिका सा गतगरुद्
रथे भग्ने कुर्यात् किमु हरिरपि प्राजनकरः ।। 40।।
रभिज्ञानैः किन्तु प्रसरणमरेर्नैव विरतम् ।
मतिः किं वा कुर्याद् बत शकुनिका सा गतगरुद्
रथे भग्ने कुर्यात् किमु हरिरपि प्राजनकरः ।। 40।।
( 3 )
समे तालीवानाः स्वजनगुलिकाभिः कबलिता
विसृष्टा देहेभ्यः क्वचन मरुभूमौ निखनिताः ।
अमीषां ये दारा अथच शिशवस्तेषु जनिता
विसंख्यास्ते मातुः स्तनमपि लभन्ते न धयितुम् ।। 41।।
विसृष्टा देहेभ्यः क्वचन मरुभूमौ निखनिताः ।
अमीषां ये दारा अथच शिशवस्तेषु जनिता
विसंख्यास्ते मातुः स्तनमपि लभन्ते न धयितुम् ।। 41।।
भटैः पाकस्थीयैर्गुणमितसहस्रेभ्य इह हि
क्षणे नाशं नीता मुनिशतमिता एव यवनाः ।
क्व वै शिष्टा याता इति न खलु बोद्धुं प्रभुरहो
चमूः पाकीया नाप्यपर इह कश्चिच्चरवरः ।। 42।।
क्षणे नाशं नीता मुनिशतमिता एव यवनाः ।
क्व वै शिष्टा याता इति न खलु बोद्धुं प्रभुरहो
चमूः पाकीया नाप्यपर इह कश्चिच्चरवरः ।। 42।।
विलीनास्ते शैले क्वचन मरुभूमौ स्थितिमिते
सरन्ध्रे जीवन्तोऽप्यवनिकुहरे वा क्वचिदपि ।
गते वारे यः स्म ध्वनति पविवत् तस्य स रवः
परिक्षीणेऽप्यस्मिन् न खलु दिवसेऽप्येति विलयम् ।। 43।।
सरन्ध्रे जीवन्तोऽप्यवनिकुहरे वा क्वचिदपि ।
गते वारे यः स्म ध्वनति पविवत् तस्य स रवः
परिक्षीणेऽप्यस्मिन् न खलु दिवसेऽप्येति विलयम् ।। 43।।
जरीदारः पाकप्रमुख उदिताश्चर्यवचनो
गतेद्युर्रूt1रते यन्नहि भयमिदानीं भरततः ।
स्वसीमास्थं सैन्यं स खलु विमुखं भारतभुव-
श्चकार प्रध्वंसं व्यधित च रिपोस्तालिवनिनः ।। 44।।
गतेद्युर्रूt1रते यन्नहि भयमिदानीं भरततः ।
स्वसीमास्थं सैन्यं स खलु विमुखं भारतभुव-
श्चकार प्रध्वंसं व्यधित च रिपोस्तालिवनिनः ।। 44।।
( 4 )
को वा पराजयमुपैष्यति कश्च जेते-
त्यात्यन्तिकी खलु समुत्सुकतास्ति लोके ।
निर्वाचनस्य परिणाम इहैव वारे
प्राकाश्यमेष्यति जनिष्यति शासनं च ।। 45।।
त्यात्यन्तिकी खलु समुत्सुकतास्ति लोके ।
निर्वाचनस्य परिणाम इहैव वारे
प्राकाश्यमेष्यति जनिष्यति शासनं च ।। 45।।
सेयं स्वयम्वरसभेव पुरातनानां
यस्यामभज्यत न कस्यचनापि रंहः ।
सर्वोऽपि जिष्णुरिति तद्दलनेतृभावं
प्राप्तेति चित्तपिठरेऽस्ति विपच्यमानः ।। 46।।
यस्यामभज्यत न कस्यचनापि रंहः ।
सर्वोऽपि जिष्णुरिति तद्दलनेतृभावं
प्राप्तेति चित्तपिठरेऽस्ति विपच्यमानः ।। 46।।
ये सांसदत्वगुरुगौरवमाप्य धन्या-
स्ते कोटिमाप्य धनमुत्सविनो भवेयुः ।
वैफल्यनागतल-सन्तमसाऽन्धवे यैः
कीर्णाः श्रियो नयनवारि हि तत्र लाभः ।। 47।।
स्ते कोटिमाप्य धनमुत्सविनो भवेयुः ।
वैफल्यनागतल-सन्तमसाऽन्धवे यैः
कीर्णाः श्रियो नयनवारि हि तत्र लाभः ।। 47।।
माताऽपि मे भवति सांसदिनी सुतोऽपि
तत्सेविताहमपि संसदि तां भजिष्ये ।
कस्याश्चनापि जनको यदि सांसदः सा
कन्याऽपि पार्श्वमुपसर्पति सुप्रकाशम् ।। 48।।
तत्सेविताहमपि संसदि तां भजिष्ये ।
कस्याश्चनापि जनको यदि सांसदः सा
कन्याऽपि पार्श्वमुपसर्पति सुप्रकाशम् ।। 48।।
लालूः पवारमभिवर्षति वाक्यपुष्पैर्
नीतीशकः समुपसर्पति मोदिपार्श्वे ।
काचिज्जयाख्यललिताऽपि च काङ्गरेस-
सेवारतेव वरिवस्यति राजधान्याम् ।। 49।।
नीतीशकः समुपसर्पति मोदिपार्श्वे ।
काचिज्जयाख्यललिताऽपि च काङ्गरेस-
सेवारतेव वरिवस्यति राजधान्याम् ।। 49।।
मन्त्रिप्रधान-पदमाप्तुममीषु सर्वे-
प्यौत्सुक्यसाहसिकताकलिता दिपन्ति ।
यद्वाऽस्ति धन्य इह कश्चन सोमशर्मा
यः साम्प्रतं स्मृतिपथं प्रतिपद्यते नः ।। 50।।
प्यौत्सुक्यसाहसिकताकलिता दिपन्ति ।
यद्वाऽस्ति धन्य इह कश्चन सोमशर्मा
यः साम्प्रतं स्मृतिपथं प्रतिपद्यते नः ।। 50।।
ते बर्बरा विहितवन्त इह प्रकाशं
ये बर्बरस्य खलु मस्जिदमात्तनाशम् ।
ते बर्बरा किमु न येऽक्षपयन् स्वकीयां
श्रीशारदाभुवमुदारतरां शिवाढ्याम् ।। 51।।
ये बर्बरस्य खलु मस्जिदमात्तनाशम् ।
ते बर्बरा किमु न येऽक्षपयन् स्वकीयां
श्रीशारदाभुवमुदारतरां शिवाढ्याम् ।। 51।।
देशार्ध-नाश-रसिकेषु कनिष्ठिकां ये
मुञ्चन्ति नो कथमपि क्वचिदप्यनर्हाः ।
राष्ट्राधिपत्यमिह सन्ति समुत्सुकास्ते
लब्धुं हहा त्वमपि देव! गमिष्यसि क्व? ।। 52।।
मुञ्चन्ति नो कथमपि क्वचिदप्यनर्हाः ।
राष्ट्राधिपत्यमिह सन्ति समुत्सुकास्ते
लब्धुं हहा त्वमपि देव! गमिष्यसि क्व? ।। 52।।
अर्धार्धमस्ति मतपत्रमथाऽहमेव,
लब्ध्वा भवामि विजयी खलु तेषु भूयः ।
निर्लज्जमेव च विशामि विधायिकायां
राष्ट्रस्य संसदि जनप्रतिभूत्वमाप्तः ।। 53।।
लब्ध्वा भवामि विजयी खलु तेषु भूयः ।
निर्लज्जमेव च विशामि विधायिकायां
राष्ट्रस्य संसदि जनप्रतिभूत्वमाप्तः ।। 53।।
सोयं कदाचन परेण गृहीतसत्त्वो
द्रव्यादिना पृथुतरेण तु साधनेन ।
स्वीकर्तुमस्ति निपुणो परराष्ट्रहस्ते
राष्ट्रं स्वकं खलु निधातुमपि स्वशक्त्या ।। 54।।
द्रव्यादिना पृथुतरेण तु साधनेन ।
स्वीकर्तुमस्ति निपुणो परराष्ट्रहस्ते
राष्ट्रं स्वकं खलु निधातुमपि स्वशक्त्या ।। 54।।
सर्वे भवेम वसुधापतयः सुमेरु-
नुत्पिष्य भूमि-कुहरे विनिवेशयेम ।
स्वर्णं फलिष्यति तदैव मही नभस्तो
वर्षापि चापि ननु हेममयी भवित्री ।। 55।।
नुत्पिष्य भूमि-कुहरे विनिवेशयेम ।
स्वर्णं फलिष्यति तदैव मही नभस्तो
वर्षापि चापि ननु हेममयी भवित्री ।। 55।।
गावो न दोग्धुमधुना दधदौचितीका,
मांसैस्तु तर्पितुमिमा निखिलाः क्षमाः स्मः ।
का वा कृषिः, क्व पचनं च फलादिकं च
कुत्रेति येऽभ्युदयमात्मनि भावयन्ति ।। 56।।
मांसैस्तु तर्पितुमिमा निखिलाः क्षमाः स्मः ।
का वा कृषिः, क्व पचनं च फलादिकं च
कुत्रेति येऽभ्युदयमात्मनि भावयन्ति ।। 56।।
को वेश्वरः स खलु देहविहीन, एता-
नस्मान् कथं नु विनिवारयितुं क्षमेत ।
देहोत्तमैश्च परमैर्भवनोत्तमैश्च
शस्त्रोत्तमैश्च दृढबाहुबला लसामः ।। 57।।
नस्मान् कथं नु विनिवारयितुं क्षमेत ।
देहोत्तमैश्च परमैर्भवनोत्तमैश्च
शस्त्रोत्तमैश्च दृढबाहुबला लसामः ।। 57।।
कोटीश्वरं यदि तु लुण्ठति दत्तलक्ष-
द्रव्यः स वै कुशलिनां कृतिनां वरिष्ठः ।
एतावती क्व नु भवेद् व्यवसायसिद्धि-
रेकत्र जन्मनि विना खलु कूटनीतिम् ।। 58।।
द्रव्यः स वै कुशलिनां कृतिनां वरिष्ठः ।
एतावती क्व नु भवेद् व्यवसायसिद्धि-
रेकत्र जन्मनि विना खलु कूटनीतिम् ।। 58।।
एकेन यन्त्रिपदवीमधिगत्य लब्धं
द्रव्यं तु यावदधुना न तु तावदेते ।
शास्त्रोत्तमोत्तमधुरन्धरिणोपि पूर्णं
दत्त्वायुराप्तुमखिलेष्वखिला भवामः ।। 59।।
द्रव्यं तु यावदधुना न तु तावदेते ।
शास्त्रोत्तमोत्तमधुरन्धरिणोपि पूर्णं
दत्त्वायुराप्तुमखिलेष्वखिला भवामः ।। 59।।
ग्रन्थोत्तमा यदि भवन्ति समृद्धये वै
विक्रेतुरेव, न तु कर्तुरिह क्षणे तत् ।
ग्रन्थश्च कश्चन यमश्च समानमानौ
द्वावप्यमू रचयितृष्वहहा न चित्रम् ।। 60।।
विक्रेतुरेव, न तु कर्तुरिह क्षणे तत् ।
ग्रन्थश्च कश्चन यमश्च समानमानौ
द्वावप्यमू रचयितृष्वहहा न चित्रम् ।। 60।।
आयोधनं यदभवन्मत-संग्रहाख्यं
निर्वाचनं भरतराष्ट्रतनौ तदीयः ।
उष्ट्रो न्यसीसददवाप्य विरुद्धपार्श्व-
स्तस्मात् क्षता मलिनतां च गता अनेके ।। 61।।
निर्वाचनं भरतराष्ट्रतनौ तदीयः ।
उष्ट्रो न्यसीसददवाप्य विरुद्धपार्श्व-
स्तस्मात् क्षता मलिनतां च गता अनेके ।। 61।।
अड्वानिरस्ति ननु तेषु समेषु तीव्रं
दूनः स नाप परमं पदमद्य लभ्यम् ।
पञ्चाशतैव गमितो लघुतां मतैर्यो
नो भाजपादलमुदारतमत्वमापत् ।। 62।।
दूनः स नाप परमं पदमद्य लभ्यम् ।
पञ्चाशतैव गमितो लघुतां मतैर्यो
नो भाजपादलमुदारतमत्वमापत् ।। 62।।
ये सि(हि)न्धुषु प्रहरिणोऽद्य त एव धन्याः
प्राहर्तुमाप्तशपथाः प्रलसन्ति वङ्गे ।
आन्ध्रे विहारकुहरे च समध्यदेशे
सर्वत्र दक्षिणपथे च लसन्ति वामाः ।। 63।।
प्राहर्तुमाप्तशपथाः प्रलसन्ति वङ्गे ।
आन्ध्रे विहारकुहरे च समध्यदेशे
सर्वत्र दक्षिणपथे च लसन्ति वामाः ।। 63।।
रामः प्रयातु विलयं स हि कृष्णगोपो
वंशीं विहाय कुहचिद् रमतां स्वराष्ट्रे ।
अल्ला इहास्ति कुशली नितरां न वामा-
चार्येपि यस्य कलनां विषमां वदन्ति ।। 64।।
वंशीं विहाय कुहचिद् रमतां स्वराष्ट्रे ।
अल्ला इहास्ति कुशली नितरां न वामा-
चार्येपि यस्य कलनां विषमां वदन्ति ।। 64।।
मयावती भगवती निजसूतजाल-
बद्धा नु षट्पदवधूरिव निस्सहाया ।
काङ्ग्रेस-वात-कृतघातलतेव साध्वी
निष्पत्रतामिव गता प्रविराजतेऽद्य ।। 65।।
बद्धा नु षट्पदवधूरिव निस्सहाया ।
काङ्ग्रेस-वात-कृतघातलतेव साध्वी
निष्पत्रतामिव गता प्रविराजतेऽद्य ।। 65।।
वङ्गेषु किन्तु ममता प्रचकास्ति भूम्ना
काङ्ग्रेससङ्गतिमवाप्य विजित्वरी सा ।
वैदेशिकान् परमनैपुणिकान् महार्हान्
नेतॄनुदस्तपदकानकरोत् तु याऽद्य ।। 66।।
काङ्ग्रेससङ्गतिमवाप्य विजित्वरी सा ।
वैदेशिकान् परमनैपुणिकान् महार्हान्
नेतॄनुदस्तपदकानकरोत् तु याऽद्य ।। 66।।
वैदेशिका इह भवन्ति तु साम्यवादे
वैदेशिकेऽनुसृतिभक्तिभृता य एते ।
रामः कियानभवदत्र तु साम्यवादी
कृष्णः कियांश्च न हि ते विमृशन्ति सन्तः ।। 67।।
वैदेशिकेऽनुसृतिभक्तिभृता य एते ।
रामः कियानभवदत्र तु साम्यवादी
कृष्णः कियांश्च न हि ते विमृशन्ति सन्तः ।। 67।।
साम्यं हि शिक्षयति कश्चन धर्मनामा
विश्वेश्वरो विषमतैव हि तस्य हेया ।
नो चन्दनं स गणयत्यथ पत्रपुष्प-
पूजामपि प्रगुणयन् ननु साम्यमेषः ।। 68।।
विश्वेश्वरो विषमतैव हि तस्य हेया ।
नो चन्दनं स गणयत्यथ पत्रपुष्प-
पूजामपि प्रगुणयन् ननु साम्यमेषः ।। 68।।
एतैर्हि भारतमहीपरमेऽपि नीति-
मार्गे-स्त्यघोषि ननु धर्मपरायणत्वम् ।
तेऽधार्मिकाश्च तत एव विमान्यभावं
प्राप्ताः स्वयं स्ववचसैव न तद् विचित्रम् ।। 69।।
मार्गे-स्त्यघोषि ननु धर्मपरायणत्वम् ।
तेऽधार्मिकाश्च तत एव विमान्यभावं
प्राप्ताः स्वयं स्ववचसैव न तद् विचित्रम् ।। 69।।
टाटाप्रसूत-लघु-कार-विधानहेतो-
रन्नप्रदाऽवनिमवाच्छिददातुरेभ्यः ।
यो रक्तकेतुरसकौ यदि नेति भूमिं
भूमावसौ बत न वस्तुमधिक्रियेत ।। 70।।
रन्नप्रदाऽवनिमवाच्छिददातुरेभ्यः ।
यो रक्तकेतुरसकौ यदि नेति भूमिं
भूमावसौ बत न वस्तुमधिक्रियेत ।। 70।।
येषां ध्वजे लसति हन्त लवित्रमेव
कुद्दालकं स्ववपुषि प्रतिसन्दधानम् ।
ते वै भषन्ति शिवराजपुरस्कृतेऽपि
काषायके ध्वजपटे नितरामिदानीम् ।। 71।।
कुद्दालकं स्ववपुषि प्रतिसन्दधानम् ।
ते वै भषन्ति शिवराजपुरस्कृतेऽपि
काषायके ध्वजपटे नितरामिदानीम् ।। 71।।
देव्यानया ममतया निखिला अपीमे
कालाननाः क्षण इहोन्मथिता विभान्ति ।
वात्याजवेन विनिपातितकाण्डशाखा
न्यग्रोधशाखिन इवायनरोधदक्षाः ।। 72।।
कालाननाः क्षण इहोन्मथिता विभान्ति ।
वात्याजवेन विनिपातितकाण्डशाखा
न्यग्रोधशाखिन इवायनरोधदक्षाः ।। 72।।
वाराणसी-नगर-दक्षिण-पार्श्ववर्त्ति-
क्षेत्रे जिगाय मुरली च मनोहरश्च ।
सोऽयं बभूव खलु भारतराष्ट्रशिक्षा-
मन्त्री यशस्विषु कनिष्ठिकया श्रितश्च ।। 73।।
क्षेत्रे जिगाय मुरली च मनोहरश्च ।
सोऽयं बभूव खलु भारतराष्ट्रशिक्षा-
मन्त्री यशस्विषु कनिष्ठिकया श्रितश्च ।। 73।।
तस्मै सनातन इदंकविरद्य पद्यं
संप्रेष्य फेक्सविधिना प्रतुतोष भूम्ना ।
आम्रीकभूमिगत एष निजस्य राष्ट्र-
स्यास्ते लिखन् नवतमं नु विचित्रचित्रम् ।। 74।।
संप्रेष्य फेक्सविधिना प्रतुतोष भूम्ना ।
आम्रीकभूमिगत एष निजस्य राष्ट्र-
स्यास्ते लिखन् नवतमं नु विचित्रचित्रम् ।। 74।।
श्रीसोनिया स-मनमोहनसिंहसार्था
लक्षाधिकैरधिजिगाय सुतेन सार्धम् ।
निर्वाचनं, भजति नूतनमेव सर्वं
वध्वा विभूषणमनाकलितालकाऽपि ।। 75।।
लक्षाधिकैरधिजिगाय सुतेन सार्धम् ।
निर्वाचनं, भजति नूतनमेव सर्वं
वध्वा विभूषणमनाकलितालकाऽपि ।। 75।।
सौभाग्यमेव लुलुपे ननु सोनियाया
राजीवगान्धिनि गते सहसाऽन्यलोकम् ।
भाग्यं तु सन्ततमिव प्रतिमार्गमेव
नूत्नोन्नतिव्रततिकाभ्यभिनन्दितं हि ।। 76।।
राजीवगान्धिनि गते सहसाऽन्यलोकम् ।
भाग्यं तु सन्ततमिव प्रतिमार्गमेव
नूत्नोन्नतिव्रततिकाभ्यभिनन्दितं हि ।। 76।।
पुत्रोपि राहुल इति प्रथितोऽदसीयः
कीर्त्तिं हि दारयति वीतवयोऽधिकोऽपि ।
तस्यानुजश्च वरुणोपि तमेव मार्ग-
मासाद्य साधयति भाजपनीतिमार्गम् ।। 77।।
कीर्त्तिं हि दारयति वीतवयोऽधिकोऽपि ।
तस्यानुजश्च वरुणोपि तमेव मार्ग-
मासाद्य साधयति भाजपनीतिमार्गम् ।। 77।।
पुत्री तथैव ननु कौशलमण्डिताऽस्मि-
न्नन्तश्चकास्ति भरिता पितृगौरवेण ।
तस्या अपि प्रथित एव चकास्ति सर्वो
मार्गः प्रियङ्क इति नामभृतो वधूट्याः ।। 78।।
न्नन्तश्चकास्ति भरिता पितृगौरवेण ।
तस्या अपि प्रथित एव चकास्ति सर्वो
मार्गः प्रियङ्क इति नामभृतो वधूट्याः ।। 78।।
श्रीमान् मनोमोहनसिंह एव प्रधानमन्त्रित्वधुरं यथावत् ।
वोढेति गान्धिप्रवरैरुदारमुदारतारः समघोषि घोषः ।। 79।।
वोढेति गान्धिप्रवरैरुदारमुदारतारः समघोषि घोषः ।। 79।।
लक्ष्म्याः पतिर्भवति यस्तु न लिप्सते तां
यो लिप्सते न खलु सात्र तनोति दृष्टिम् ।
सत्यं त्विदंक्षण इदं ननु सत्यसत्य-
सत्योत्तमोत्तमतया प्रतिभाति भूम्ना ।। 80।।
यो लिप्सते न खलु सात्र तनोति दृष्टिम् ।
सत्यं त्विदंक्षण इदं ननु सत्यसत्य-
सत्योत्तमोत्तमतया प्रतिभाति भूम्ना ।। 80।।
लिप्सोर्मुखं मलिनितं, प्रविकस्वरं च
जातं मुखं बत तटस्थतया स्थितस्य ।
हानिर्विदारयति यस्य हृदस्य लिप्सो-
र्वीतस्पृहस्य च हृदोर्ननु किं नु साम्यम् ।। 81।।
जातं मुखं बत तटस्थतया स्थितस्य ।
हानिर्विदारयति यस्य हृदस्य लिप्सो-
र्वीतस्पृहस्य च हृदोर्ननु किं नु साम्यम् ।। 81।।
यो भाजपायी हृदि मुस्लिमानान्
संमानभाजो मनुते स मान्यः ।
धिक् पाजभेयीति पदस्य वाच्यो
विपर्ययैकाश्रितदृक्पथीनः ।। 82।।
संमानभाजो मनुते स मान्यः ।
धिक् पाजभेयीति पदस्य वाच्यो
विपर्ययैकाश्रितदृक्पथीनः ।। 82।।
यः पश्चिमां भजति दीधितिमादरेण
पूर्वां च यः क इव हन्त तयोः समाजः ।
सम्यक्त्वमात्ररहितोऽजति चेदजायाः
सूनुत्वमात्मनि वहत्यथ स द्विपादः ।। 83।।
पूर्वां च यः क इव हन्त तयोः समाजः ।
सम्यक्त्वमात्ररहितोऽजति चेदजायाः
सूनुत्वमात्मनि वहत्यथ स द्विपादः ।। 83।।
भर्तुर्मृतस्य शबगर्त्तमुपाददाना
या सेवते व्यजनकं, ननु तत्र हेतुः ।
ईष्टे न कर्त्तुमपरं शबगर्त्तशोषात्
पूर्वं विवाहमिति शोषयितुं त्वरास्याः ।। 84।।
या सेवते व्यजनकं, ननु तत्र हेतुः ।
ईष्टे न कर्त्तुमपरं शबगर्त्तशोषात्
पूर्वं विवाहमिति शोषयितुं त्वरास्याः ।। 84।।
ये भाजपादलगता खलु सांसदास्ते
सर्वे समुत्कहृदया मुखलालिकन्तः ।
आप्तुं विरोधिदलनेतृपदं यदेतत्
त्यक्तं डवानिविरुदेन विषादहेतोः ।। 85।।
सर्वे समुत्कहृदया मुखलालिकन्तः ।
आप्तुं विरोधिदलनेतृपदं यदेतत्
त्यक्तं डवानिविरुदेन विषादहेतोः ।। 85।।
प्रेतः पलायित इदं खलु तस्य शिष्टं
कौपीनमात्रमपि कार्यसहं परं नः ।
एषा तु येषु मतिराद्रियते ततो नो
संख्याधिका भुवि भवन्तकि सारमेयाः ।। 86।।
कौपीनमात्रमपि कार्यसहं परं नः ।
एषा तु येषु मतिराद्रियते ततो नो
संख्याधिका भुवि भवन्तकि सारमेयाः ।। 86।।
इति श्रीस्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविश्रीरेवाप्रसादद्विवेदिकृतौ
‘भूयःप्रधानमन्त्रिनिर्वाचनो’ नाम सप्तषष्टिः सर्गः ।। 67।।
( 1 )
गाश्चारयन्ति महिषीरपि बर्करीश्च
क्षेत्रेषु कस्यचन मुष्टिविपाकभाक्षु ।
ये तेष्वमीषु न च सांसदिकेषु कश्चिद् भेदो
विभाति मम साम्प्रतिके दिनान्ते ।। 1।।
क्षेत्रेषु कस्यचन मुष्टिविपाकभाक्षु ।
ये तेष्वमीषु न च सांसदिकेषु कश्चिद् भेदो
विभाति मम साम्प्रतिके दिनान्ते ।। 1।।
ये वै भवन्ति मधुसंग्रहिणो बलीय-
श्चातुर्यधुर्यहृदयाः खलु ते भवन्ति ।
तत्तुल्यकौशलजुषो जननायकास्तु
मध्वेव साधयितुमात्मकृते यतन्ते ।। 2।।
श्चातुर्यधुर्यहृदयाः खलु ते भवन्ति ।
तत्तुल्यकौशलजुषो जननायकास्तु
मध्वेव साधयितुमात्मकृते यतन्ते ।। 2।।
दंशाश्च ये खलु भवन्ति भवन्ति किञ्च
सिक्थानि तत्र तु प्रजाहितमुद्गिरन्ते ।
वल्गूनि नः खलु परस्य तु फल्गुमात्रं
काले कलौ मनुमिमं हि समे जपन्ति ।। 3।।
सिक्थानि तत्र तु प्रजाहितमुद्गिरन्ते ।
वल्गूनि नः खलु परस्य तु फल्गुमात्रं
काले कलौ मनुमिमं हि समे जपन्ति ।। 3।।
ये सांसदत्वमथवापि विधायकत्व-
निर्वाचनार्थभरितार्थनपत्रकास्ते ।
स्वार्थैकबद्धहृदया इति दूरदृष्टि-
प्रोद्घोषका निपुणमेव सदोल्लपन्ति ।। 4।।
निर्वाचनार्थभरितार्थनपत्रकास्ते ।
स्वार्थैकबद्धहृदया इति दूरदृष्टि-
प्रोद्घोषका निपुणमेव सदोल्लपन्ति ।। 4।।
जाते मतस्य परिसंग्रहणे वदन्ति
प्रत्याशिनां नियतिरत्र समस्ति रुद्धा ।
प्रत्याशिनश्च तदिदं निजमानभूतं
मत्वा प्रसादपरमा हि समुल्लसन्ति।। 5।।
प्रत्याशिनां नियतिरत्र समस्ति रुद्धा ।
प्रत्याशिनश्च तदिदं निजमानभूतं
मत्वा प्रसादपरमा हि समुल्लसन्ति।। 5।।
प्रोद्घोषकाः खलु भषन्त इदंक्षणे यत्
तन्मान्यमेव हि चकास्ति दलाधिपेषु ।
याता लयं बत नरस्य तु शिष्टताऽद्य
सभ्यां गिरं विमनुतेऽपि महाजनोऽद्य ।। 6।।
तन्मान्यमेव हि चकास्ति दलाधिपेषु ।
याता लयं बत नरस्य तु शिष्टताऽद्य
सभ्यां गिरं विमनुतेऽपि महाजनोऽद्य ।। 6।।
दिनद्वयानन्तरमस्ति मन्त्रिप्रधान-शापथ्यमहोत्सवोऽत्र ।
तस्मिन्ननाप्तावसरास्तु तृष्णातुरा मुखं व्याददतेतरां हि ।। 7।।
तस्मिन्ननाप्तावसरास्तु तृष्णातुरा मुखं व्याददतेतरां हि ।। 7।।
यदद्य यावद् विहितं विभागोत्तमोत्तमेष्वेभिरधीश्वरत्वम् ।
तत् संशयं प्राप्नुत एव सत्याऽनृत-द्वयी-क्रीडनकेऽत्र देशे ।। 8।।
तत् संशयं प्राप्नुत एव सत्याऽनृत-द्वयी-क्रीडनकेऽत्र देशे ।। 8।।
एकेन किञ्चन पुरं निखिलं हि हस्ते
स्वीये कृतं भवति तत्र नृपः स एकः ।
अन्येन हेमगिरयो निभृतं निगूढा
गर्भे भुवः सुमतिना नहि कल्यचिन्ता ।। 9।।
स्वीये कृतं भवति तत्र नृपः स एकः ।
अन्येन हेमगिरयो निभृतं निगूढा
गर्भे भुवः सुमतिना नहि कल्यचिन्ता ।। 9।।
आदान-मात्र-परमा ननु नेतृवर्याः
क्षम्या समेऽपि ननु कस्य नहि प्रिया श्रीः ।
दातार एव ननु तत्र तु दोषिणस्ते
दत्ताद् दशाधिकगुणं धनमाप्नुवन्ति ।। 10।।
क्षम्या समेऽपि ननु कस्य नहि प्रिया श्रीः ।
दातार एव ननु तत्र तु दोषिणस्ते
दत्ताद् दशाधिकगुणं धनमाप्नुवन्ति ।। 10।।
तद्भारमावहति सा जनता वराकी
दत्वा मतानि कुरुतेऽधिकृतानिमान् या ।
ब्रह्मैव सृष्टिविहितानि हि पातकानि
भुङ्क्तेतरां विपरिवर्त्य मुखानि तानि ।। 11।।
दत्वा मतानि कुरुतेऽधिकृतानिमान् या ।
ब्रह्मैव सृष्टिविहितानि हि पातकानि
भुङ्क्तेतरां विपरिवर्त्य मुखानि तानि ।। 11।।
श्रीमान् मनोमोहनसिंहदेवः प्रधानमन्त्रीति वृतः पुनश्च ।
मुलायमं लालुमथ न्यषेधीत् साह्याय दत्तप्रणयाशिषौ सः ।। 12।।
मुलायमं लालुमथ न्यषेधीत् साह्याय दत्तप्रणयाशिषौ सः ।। 12।।
मायावतीमपि हिरण्यमयीं नु पुत्रीं
मायाविनः प्रणिपपात कृती स दूरात् ।
अन्ये च ये किमपि वामदलं जुषाणा-
स्तानप्यचीकृषदसौ न निजस्य पार्श्वे ।। 13।।
मायाविनः प्रणिपपात कृती स दूरात् ।
अन्ये च ये किमपि वामदलं जुषाणा-
स्तानप्यचीकृषदसौ न निजस्य पार्श्वे ।। 13।।
योऽड्वानिनामा प्रतिपक्षनेता स भाजपायाः प्रथमत्वहानेः ।
नेतृत्वमूरीकृतमप्यनूरीचिकीर्षया खिन्नमनीषिकोऽभूत् ।। 14।।
नेतृत्वमूरीकृतमप्यनूरीचिकीर्षया खिन्नमनीषिकोऽभूत् ।। 14।।
लालूप्रसादश्च मुलायमश्च मायावती चैव स-पासवाना ।
प्रधानमन्त्रित्वनिगीर्णचित्ताः काङ्ग्रेसवैमुख्यमवाश्रयन्त ।। 15।।
प्रधानमन्त्रित्वनिगीर्णचित्ताः काङ्ग्रेसवैमुख्यमवाश्रयन्त ।। 15।।
यश्चार्जुनः सिंहति सोऽपि नाद्य प्रज्ञावतां मन्त्रिधुरं जिघृक्षुः ।
पुत्रीपराभूतिविषेण दग्धो मौनं वरीतुं बत बाधितोऽभूत् ।। 16।।
पुत्रीपराभूतिविषेण दग्धो मौनं वरीतुं बत बाधितोऽभूत् ।। 16।।
स भग्नपादः सुतया सुतैश्च तिरस्कृतो मित्रदयाश्रितं हि।
धत्ते जनुः संप्रति साऽपि हन्त क्षीणाऽस्ति वामो ह्यधुनास्य धाता ।। 17।।
धत्ते जनुः संप्रति साऽपि हन्त क्षीणाऽस्ति वामो ह्यधुनास्य धाता ।। 17।।
निर्वाचनाख्येऽत्र महारणेऽसौ न क्वापि दृष्टो न च पुत्रपुत्र्यौ ।
कुतश्चनाऽप्यापतुरात्मनीन-दलाधिकारं ननु सांसदत्वे ।। 18।।
कुतश्चनाऽप्यापतुरात्मनीन-दलाधिकारं ननु सांसदत्वे ।। 18।।
पुत्री स्वतन्त्रैव मताधिकार-प्रत्याशयाऽभूत् भृत-काङ्क्षिपत्रा ।
पित्रा निषिद्धा न च नापि चापन्मतानि निर्वाचन-जित्वराणि ।। 19।।
पित्रा निषिद्धा न च नापि चापन्मतानि निर्वाचन-जित्वराणि ।। 19।।
न चार्जुनोऽभूत् स्वयमेव कस्माच्चनापि निर्वाचनभूविभागात् ।
प्रत्याशितालीढ उवाह राज्यसभा-सदस्यत्वमिति प्रशान्तः।। 20।।
प्रत्याशितालीढ उवाह राज्यसभा-सदस्यत्वमिति प्रशान्तः।। 20।।
यस्त्वेकदा लोकसभार्थमेव भोपालतो हन्त पराजितोऽभूत् ।
वितीर्णभूयोद्रविणोऽपि तत्तदुपायनाद्यैर्जनतर्पणैश्च ।। 21।।
वितीर्णभूयोद्रविणोऽपि तत्तदुपायनाद्यैर्जनतर्पणैश्च ।। 21।।
राजीवगान्धी किल सिंहमेनममंस्त भूयो यदि सोनियाऽपि ।
सूनू तदीयावपि शिष्टमिष्टौ ददत्यहङ्कारिण आदरं हि ।। 22।।
सूनू तदीयावपि शिष्टमिष्टौ ददत्यहङ्कारिण आदरं हि ।। 22।।
मध्याभिधेऽस्यैव वनान्तरेऽस्ति महान् प्रभावस्तदितः स एव ।
विधायकै राज्यसभासदस्यो व्यधायि मन्त्रित्वमवाप तस्मात् ।। 23।।
विधायकै राज्यसभासदस्यो व्यधायि मन्त्रित्वमवाप तस्मात् ।। 23।।
शपथग्रहणं बभूव दिल्ल्यामिह वारे हि निशामुखेऽभिरामे ।
अपि पञ्चदशस्य लोकसंसद्वपुषो मन्त्रिपदं परं गतानाम् ।। 24।।
अपि पञ्चदशस्य लोकसंसद्वपुषो मन्त्रिपदं परं गतानाम् ।। 24।।
इह नार्जुनसिंह आप दृष्टिं कुहचित् सोऽच्युतमानिनां वरोऽपि ।
च्युतिमापदमुष्य तद्धि रौक्ष्यं वचसस्तत्र तु कारणं बभूव ।। 25।।
च्युतिमापदमुष्य तद्धि रौक्ष्यं वचसस्तत्र तु कारणं बभूव ।। 25।।
विदुषामधिकारिणां वराणामवमानेन स तुष्यति स्म मानी ।
न च तुष्यति तस्य वीक्ष्य कार्यं महदप्यान्तरिकोऽस्य कोऽपि सत्वः ।। 26।।
न च तुष्यति तस्य वीक्ष्य कार्यं महदप्यान्तरिकोऽस्य कोऽपि सत्वः ।। 26।।
चिकलौद इति श्रुते महार्हे भवनं क्षेत्रवरे किमप्यमुष्य ।
जनचर्चितमस्ति यादृशो हि न हि कस्यापि तु मन्त्रिणोऽस्ति वासः ।। 27।।
जनचर्चितमस्ति यादृशो हि न हि कस्यापि तु मन्त्रिणोऽस्ति वासः ।। 27।।
भगवान् विदधीत साफलीं वै नवनूत्नस्य तु केन्द्रशासनस्य ।
इह भारतवासिनां समाजः सकलोऽप्यस्ति गतः समादरं यत् ।। 28।।
इह भारतवासिनां समाजः सकलोऽप्यस्ति गतः समादरं यत् ।। 28।।
करुणानिधिरस्ति रोषदग्धो मदरासं प्रति दिल्लितः प्रतस्थे ।
न हि मन्त्रिपदानि तादृशानि सुफलान्यस्य बभूवुरित्यतुष्टः ।। 29।।
न हि मन्त्रिपदानि तादृशानि सुफलान्यस्य बभूवुरित्यतुष्टः ।। 29।।
शपथग्रहणे मुलायमो नो ददृशे नापि च लालुको विहारी ।
न च कापि परात्परस्य मायावतिकापि क्षितिखण्डकस्य राज्ञी ।। 30।।
न च कापि परात्परस्य मायावतिकापि क्षितिखण्डकस्य राज्ञी ।। 30।।
निखिलैः स्वभुवो व्यधायि हानिश्चरितं केन्द्रविरुद्धमेव यत् तैः ।
अपि शासनतो वहेलिताश्च जनतातश्च हहोभयत्र नष्टाः ।। 31।।
अपि शासनतो वहेलिताश्च जनतातश्च हहोभयत्र नष्टाः ।। 31।।
यदि चेन्मिलिताः सपासवाना न ततोप्याप्तुमिमे क्षमाः प्रतिष्ठाम् ।
स हि राहुरिमान् ग्रसत्यभीष्टानपि तीक्ष्णान्, न गले ज्वलन्नमीभिः ।। 32।।
स हि राहुरिमान् ग्रसत्यभीष्टानपि तीक्ष्णान्, न गले ज्वलन्नमीभिः ।। 32।।
शपथग्रहणे न कर्णसिंहोऽप्यभवद् दृष्टिपथं गतो य एषः ।
निजदेशगतस्य मन्दिराणां निचयस्यास्ति धनोच्चयं धयानः ।। 33।।
निजदेशगतस्य मन्दिराणां निचयस्यास्ति धनोच्चयं धयानः ।। 33।।
अपि संस्कृतमस्य नास्ति हार्द्दी प्रियभाषा, स हि तां परस्य हेतोः ।
जगतः परिदोग्धि भाषते च परवाचैव लिखत्यथो तयैव ।। 34।।
जगतः परिदोग्धि भाषते च परवाचैव लिखत्यथो तयैव ।। 34।।
इह नूत्नतमे तु पर्ययेऽत्र गमितौ द्वावपि लौकिकीं प्रतिष्ठाम् ।
अथ विश्वसनीयताढ्यातां च जनताया, जननी च राहुलश्च ।। 35।।
अथ विश्वसनीयताढ्यातां च जनताया, जननी च राहुलश्च ।। 35।।
न हि राहुल ऐच्छदात्मलाभं सुलभे मन्त्रिपदेऽपि केन्द्रनिष्ठे ।
न च तस्य च सोनियापि गान्धिदयिता काचन काङ्गरेसमुख्या ।। 36।।
न च तस्य च सोनियापि गान्धिदयिता काचन काङ्गरेसमुख्या ।। 36।।
मनमोहनसिंह एव सर्वप्रमुखो मन्त्रिवरोऽस्ति भारतानाम् ।
शतकं शपथोत्तरक्षणेऽद्य दिवसानां प्रजुघोष राष्ट्रसौस्थ्ये ।। 37।।
शतकं शपथोत्तरक्षणेऽद्य दिवसानां प्रजुघोष राष्ट्रसौस्थ्ये ।। 37।।
स हि लालबहादुरो द्वितीयो यदिवा वल्लभभायिरित्युदाराम् ।
छविमद्य बिभर्त्ति कार्यमात्रं प्रियतायै भवति प्रजाजनेषु ।। 38।।
छविमद्य बिभर्त्ति कार्यमात्रं प्रियतायै भवति प्रजाजनेषु ।। 38।।
विनयः प्रगुणोऽथ विश्वभाषा-परवक्तृत्वमथार्थशास्त्रमार्गाः ।
अथ निस्स्पृहतेति मोहनोऽयं कुरुते मोहनवेणुमार्तहृद्याम् ।। 39।।
अथ निस्स्पृहतेति मोहनोऽयं कुरुते मोहनवेणुमार्तहृद्याम् ।। 39।।
अमुना निपुणेन राहुलः स्वोऽवृत एवोत्तरगः प्रधानमन्त्री ।
निपुणान् युवकान् हि राज्यमन्त्रिपदवीं प्रापयताद्य राहुलीयान् ।। 40।।
निपुणान् युवकान् हि राज्यमन्त्रिपदवीं प्रापयताद्य राहुलीयान् ।। 40।।
निपुणातितरां हि सोनियास्ति जनतासंघटनाय बद्धभावा ।
वृणुते खलु याऽद्य वीतरागा प्रभुतां निष्पदवी सपुत्ररत्ना ।। 41।।
वृणुते खलु याऽद्य वीतरागा प्रभुतां निष्पदवी सपुत्ररत्ना ।। 41।।
जनतादलतां हि काङ्गरेसदलमप्यत्र बिभर्ति सांसदीयाम् ।
नियमान् गणयन् नियन्तृभावे जनबाहुल्यमतत्वमात्रमिच्छत् ।। 42।।
नियमान् गणयन् नियन्तृभावे जनबाहुल्यमतत्वमात्रमिच्छत् ।। 42।।
यतयः खलु भारतेऽत्र हीनाः प्रभुभावान्निजभक्तिमादधत्सु ।
जनतापि च हीनवर्गहस्तैः परितस्ताडयते च वर्गमुच्चम् ।। 43।।
जनतापि च हीनवर्गहस्तैः परितस्ताडयते च वर्गमुच्चम् ।। 43।।
निगमा अवहेलिताः समन्तान्निखिला आगमसंहिता विमान्याः ।
जनतन्त्रमिदं द्विपादजन्तुप्रकृतिप्रीतिभृदेव निःसमाजम् ।। 44।।
जनतन्त्रमिदं द्विपादजन्तुप्रकृतिप्रीतिभृदेव निःसमाजम् ।। 44।।
यदि पश्यति पार्श्वगो न चिन्ता यशसा कार्यमिदंक्षणे न किञ्चित् ।
निजतापरमेषु भारतानां जनसंघेष्वधुना न कापि लज्जा ।। 45।।
निजतापरमेषु भारतानां जनसंघेष्वधुना न कापि लज्जा ।। 45।।
अयि दाशरथे! सुखस्य कालो भवते संप्रति वर्त्तते समन्तात् ।
अधुना जनकात्मजा-विसर्गो न समाजाय चिकीर्षितव्य आस्ते ।। 46।।
अधुना जनकात्मजा-विसर्गो न समाजाय चिकीर्षितव्य आस्ते ।। 46।।
स हि ते निज एव कोऽपि पक्षः परतन्त्रत्वकथास्ति नात्र काचित् ।
अहमस्मि सुरां पिबन् स्वगेहे यदि नैवास्मि परैर् निषेधनीयः ।। 47।।
अहमस्मि सुरां पिबन् स्वगेहे यदि नैवास्मि परैर् निषेधनीयः ।। 47।।
अथ राजसुतो हि राजतन्त्रे यदि चेद् भावि-नृपो, नृपात्मजत्वम् ।
प्रमिणोतु कथं जनो न राजा जनसाक्ष्ये यदि गर्भमादधाति ।। 48।।
प्रमिणोतु कथं जनो न राजा जनसाक्ष्ये यदि गर्भमादधाति ।। 48।।
अतिचारमिमं विहातुमिच्छुर्जनता चेद् दयते वचःप्रमाणे ।
अधिकारवतैव लभ्यते श्रीरिति तस्येप्सुरिमां तनोति भिक्षाम् ।। 49।।
अधिकारवतैव लभ्यते श्रीरिति तस्येप्सुरिमां तनोति भिक्षाम् ।। 49।।
स हि खेदयितुं क्षमोऽधिकारेऽधिकृतानित्यधिकारिणोऽस्य वाचम् ।
अवहेलयितुं न शक्नुवन्तो दधतेऽकार्यपथेपि हन्त पादम् ।। 50।।
अवहेलयितुं न शक्नुवन्तो दधतेऽकार्यपथेपि हन्त पादम् ।। 50।।
( 2 )
तालिवाना बलैरत्र पाकीयैर्धावनामिताः ।
पर्वतेषु परं तत्र प्रापुस्ते भूमिगां श्रियम् ।। 51।।
पर्वतेषु परं तत्र प्रापुस्ते भूमिगां श्रियम् ।। 51।।
लब्धस्तत्र शिलागर्भे गोपितः पूर्वशास्तृभिः ।
महान् मारकतो राशिरहिफेनं यथा भुवि ।। 52।।
महान् मारकतो राशिरहिफेनं यथा भुवि ।। 52।।
अहिफेनं सुवर्णं हि कृष्णं वर्णेन केवलम् ।
शीतदेश्या हिमं तस्य लेपेन क्षपयन्तकि ।। 53।।
शीतदेश्या हिमं तस्य लेपेन क्षपयन्तकि ।। 53।।
अहिफेनसुवर्णेन श्रेष्ठी जैनो नृपाय वै ।
ऋणं दत्वोत्तमर्णत्वं लेभे होलकरावनौ ।। 54।।
ऋणं दत्वोत्तमर्णत्वं लेभे होलकरावनौ ।। 54।।
वपुर्वज्रदृढं बाह्नोरस्त्रशस्त्राणि कोषगा ।
श्रीश्चापि विपुला हिंसा प्रियैव किमतः परम् ।। 55।।
श्रीश्चापि विपुला हिंसा प्रियैव किमतः परम् ।। 55।।
महिषोपि यमस्यास्यां वेलायां तु निरन्तरम् ।
व्यापृतोऽतिष्ठदित्यादादस्मा एव मृतिर्मुखम् ।। 56।।
व्यापृतोऽतिष्ठदित्यादादस्मा एव मृतिर्मुखम् ।। 56।।
अहिफेनमदे मग्नाः कुक्कुरा अपि दंष्ट्रिणः ।
महावराहा विक्रान्तौ विनाशे च वनौकसाम् ।। 57।।
महावराहा विक्रान्तौ विनाशे च वनौकसाम् ।। 57।।
अहिफेनसमाधौ ये विलयं यान्ति भावकाः ।
त्रैलोक्यमेव तेषां तु कृते शष्पायते परम् ।। 58।।
त्रैलोक्यमेव तेषां तु कृते शष्पायते परम् ।। 58।।
विध्वस्य बुद्धान् यैर्दत्तो महान् हन्त बलिर्गवाम् ।
हिंसैकदर्शनाः किन्नु तालिवाना न रक्तपाः ।। 59।।
हिंसैकदर्शनाः किन्नु तालिवाना न रक्तपाः ।। 59।।
हाहाकारं विधते मनुजवसुमती तालिवानाभियोगान्
दृष्ट्वा लाहौरभूमावथ च पुरि पुरि व्यश्नुवानान् प्रतीच्याम् ।
पाकस्तानस्य टैङ्कैरनल-वममुखैरुद्गिरद्भिर् विनाशान्
ध्वस्तस्वस्वाश्रयास्ते परगृहमभितः सञ्चरन्तो विभान्ति ।। 60।।
दृष्ट्वा लाहौरभूमावथ च पुरि पुरि व्यश्नुवानान् प्रतीच्याम् ।
पाकस्तानस्य टैङ्कैरनल-वममुखैरुद्गिरद्भिर् विनाशान्
ध्वस्तस्वस्वाश्रयास्ते परगृहमभितः सञ्चरन्तो विभान्ति ।। 60।।
एषां सन्ति दशाधिकास्तु तनयास्तानात्मनाशप्रिया-
नस्त्रैश्शस्त्रशतैश्च सार्धमरिषु प्रत्यग्रमावर्षितुम् ।
कृत्वा दीक्षितदीक्षितान् परगृहे वह्निं प्रधातुं रहः
स्वं चापि प्रविनाश्य देहमनिशं संसाधयन्तेतराम् ।। 61।।
नस्त्रैश्शस्त्रशतैश्च सार्धमरिषु प्रत्यग्रमावर्षितुम् ।
कृत्वा दीक्षितदीक्षितान् परगृहे वह्निं प्रधातुं रहः
स्वं चापि प्रविनाश्य देहमनिशं संसाधयन्तेतराम् ।। 61।।
एकश्चेन्म्रियते सुतो नव सुताः स्वं वंशमावर्धितुं
स्वायत्ता निजधाम्नि मारवमहीशा रक्तबीजास्त्वमी ।
सेयं साम्प्रतिके क्षणे स्थितिरथो विस्फोटकास्त्राण्यमी
स्वैरं हन्त कुतश्चनापि निभृतं लब्धुं क्षमन्तेतमाम् ।। 62।।
स्वायत्ता निजधाम्नि मारवमहीशा रक्तबीजास्त्वमी ।
सेयं साम्प्रतिके क्षणे स्थितिरथो विस्फोटकास्त्राण्यमी
स्वैरं हन्त कुतश्चनापि निभृतं लब्धुं क्षमन्तेतमाम् ।। 62।।
एतैराणवशक्तिरप्यधिगतेत्यासीद् गतेद्युः समा-
चारो दूरदृशा प्रसारित इदंदेशेपि कर्णेशयः ।
सत्यश्चेदसकौ सृते! भव झटित्येवाद्य सज्जाऽचिरा-
न्मोक्षस्ते भविता समापि कलना ध्वंसं वरं लम्भिता ।। 63।।
चारो दूरदृशा प्रसारित इदंदेशेपि कर्णेशयः ।
सत्यश्चेदसकौ सृते! भव झटित्येवाद्य सज्जाऽचिरा-
न्मोक्षस्ते भविता समापि कलना ध्वंसं वरं लम्भिता ।। 63।।
सङ्ग्रामो बत धार्मिकोऽयमिति तैः संस्मार्यते भारतं
युद्धं यत्र परात्परोऽपि पुरुषो रोधक्षमो नाभवत् ।
ध्वंसो नो मुखमीक्षते निजमसौ व्यात्तं मुखं पूरय-
त्यौदर्यानलभक्षितं परवपुःपिण्डोत्तमैर्भक्षितैः ।। 64।।
युद्धं यत्र परात्परोऽपि पुरुषो रोधक्षमो नाभवत् ।
ध्वंसो नो मुखमीक्षते निजमसौ व्यात्तं मुखं पूरय-
त्यौदर्यानलभक्षितं परवपुःपिण्डोत्तमैर्भक्षितैः ।। 64।।
( 3 )
अस्मिन्नास्ति महीतले क्वचिदपि क्षुद्रापि वै मक्षिका
नो वा मत्सरकीटका जलमहो शुद्धं हि संसेव्यते ।
निर्माणानि समानि सन्ति सृदृढान्यल्पोपि दोषो जनैः
कुत्रापीक्षितुमस्ति नैव सुलभः, सेयं मही स्वर्मही ।। 65।।
नो वा मत्सरकीटका जलमहो शुद्धं हि संसेव्यते ।
निर्माणानि समानि सन्ति सृदृढान्यल्पोपि दोषो जनैः
कुत्रापीक्षितुमस्ति नैव सुलभः, सेयं मही स्वर्मही ।। 65।।
ओबामेति य एष राष्ट्रपतिरस्त्यस्यापि बुद्धिः शुचि-
र्विश्वस्यावनकर्मणेस्ति सुदृढाऽसौ तालिवानानिमान् ।
विध्वस्यैव सुखं श्वसिष्यति, कृता तेन प्रतिज्ञा स्थिर-
स्तस्यास्ते समयावधिश्च, रिपवे सोऽयं परश्चर्वकः ।। 66।।
र्विश्वस्यावनकर्मणेस्ति सुदृढाऽसौ तालिवानानिमान् ।
विध्वस्यैव सुखं श्वसिष्यति, कृता तेन प्रतिज्ञा स्थिर-
स्तस्यास्ते समयावधिश्च, रिपवे सोऽयं परश्चर्वकः ।। 66।।
विश्वं ध्वंसयितुं स्थिरा मरुभुवामेतेऽशनेः सोदराः
गात्रैरस्त्रसमेधितैश्च तनयाः प्राणान् पणीकृत्य चेत् ।
को वा शिक्षयिता भवेदिह, चमत्कारं तु कञ्चित् प्रभो-
स्त्यक्त्या, हन्त महि! स्वयं भवसि किं त्वं नो तनुः शाम्भवी ।। 67।।
गात्रैरस्त्रसमेधितैश्च तनयाः प्राणान् पणीकृत्य चेत् ।
को वा शिक्षयिता भवेदिह, चमत्कारं तु कञ्चित् प्रभो-
स्त्यक्त्या, हन्त महि! स्वयं भवसि किं त्वं नो तनुः शाम्भवी ।। 67।।
दैव! त्वं द्वितयेष्वपि प्रतिपदं साम्येन जुष्टां दधद्
दृष्टिं हन्त दशाननेष्वपि समं रामेष्वपि त्वं स्थिरम् ।
तुभ्यं किं क्रियतां तवैव नियतिर्दासीङ्गितज्ञा पटु-
र्लङ्का स्वर्णपुरी तु सैव, दशधा भुञ्जीत साहङ्कृतिः ।। 68।।
दृष्टिं हन्त दशाननेष्वपि समं रामेष्वपि त्वं स्थिरम् ।
तुभ्यं किं क्रियतां तवैव नियतिर्दासीङ्गितज्ञा पटु-
र्लङ्का स्वर्णपुरी तु सैव, दशधा भुञ्जीत साहङ्कृतिः ।। 68।।
शृङ्गं नैव विनिर्मितं भगवता स्तम्बेरमाणां शिर-
स्युग्राणामथ पक्षती च बलिनां सिंहात्मजानामपि ।
नो माधुर्यममोचि वाक्षु च वने यद् वञ्चकानामपि
ब्रूमो धातुरमी वयं हि सरलाः सर्वे ममत्वं गताः ।। 69।।
स्युग्राणामथ पक्षती च बलिनां सिंहात्मजानामपि ।
नो माधुर्यममोचि वाक्षु च वने यद् वञ्चकानामपि
ब्रूमो धातुरमी वयं हि सरलाः सर्वे ममत्वं गताः ।। 69।।
( 4 )
यस्मिन् वासं व्यधित भगवान् वासुदेवोऽस्य शक्ती
रुक्मिण्यासीदथ च सजनुर्यत्र तद्-गुर्जरेषु ।
किं मानुष्यं चरति हहहा वीक्ष्य तं लज्जिताः स्मो-(अ)
धर्मो यस्मिञ्जयति परमस्तापसानां हि धर्मम् ।। 70।।
रुक्मिण्यासीदथ च सजनुर्यत्र तद्-गुर्जरेषु ।
किं मानुष्यं चरति हहहा वीक्ष्य तं लज्जिताः स्मो-(अ)
धर्मो यस्मिञ्जयति परमस्तापसानां हि धर्मम् ।। 70।।
मिष्टा वाणी, वपुषि विभवो। वेषगं देवभूयं
प्राप्तैश्वर्यैरथ जनजने पूजितत्वं प्रपद्य ।
एकं रूप्यं त्रिगुणितमहं कर्तुमस्मि प्रभुस्त-
ल्लिप्सुर्लिप्सूनिह शतमहं वञ्चितुं सक्षमोस्मि ।। 71।।
प्राप्तैश्वर्यैरथ जनजने पूजितत्वं प्रपद्य ।
एकं रूप्यं त्रिगुणितमहं कर्तुमस्मि प्रभुस्त-
ल्लिप्सुर्लिप्सूनिह शतमहं वञ्चितुं सक्षमोस्मि ।। 71।।
येऽम्रीकीया धनबलमदाध्मात-शौवापदीन-
क्षुद्दिग्भ्रान्ता इह नरमहीभोगसर्वंसहास्तान् ।
वञ्चित्वा ये मुहुरभिनवै राशिभिर्डालराणा-
माढ्यंभूष्णव उच्चकैरलममीषां प्रत्ययैः पाकिनाम् ।। 72।।
क्षुद्दिग्भ्रान्ता इह नरमहीभोगसर्वंसहास्तान् ।
वञ्चित्वा ये मुहुरभिनवै राशिभिर्डालराणा-
माढ्यंभूष्णव उच्चकैरलममीषां प्रत्ययैः पाकिनाम् ।। 72।।
अपरिग्रहयोगमुद्व्युपेक्ष्य धनलिप्सापिशिताशनीगृहीताः ।
न विडम्बनजातमीदृशं न प्रतिपद्यात्र तु बम्भ्रमन्त्यधन्याः ।। 73।।
न विडम्बनजातमीदृशं न प्रतिपद्यात्र तु बम्भ्रमन्त्यधन्याः ।। 73।।
स्मरमार्गणमूर्छिता अमी वै हृदयेन द्रुतिमीयुषा भवन्ति ।
बहुभिः शिशुभिश्च संपरीता धनराशींश्च कृते प्रदोग्धुमेषाम् ।। 74।।
बहुभिः शिशुभिश्च संपरीता धनराशींश्च कृते प्रदोग्धुमेषाम् ।। 74।।
एकं फलं यदि भवन्ति शतं कपीन्द्रा
लब्धुं, भवन्ति कलहेन कषायितास्ते ।
देवो हि रक्षितुमलं भवति क्षणेऽस्मिन्
नूनं स भारतभुवं परिरक्षिता नः ।। 75।।
लब्धुं, भवन्ति कलहेन कषायितास्ते ।
देवो हि रक्षितुमलं भवति क्षणेऽस्मिन्
नूनं स भारतभुवं परिरक्षिता नः ।। 75।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविश्रीरेवाप्रसादद्विवेदिकृतौ
नियतिताण्डवो नाम अष्टषष्टिः सर्गः ।। 68।।
( 1 )
गुणेन यदि मण्डिता भुवि भवन्ति केचिज्जनाः
गुणाश्च धनवर्षणे यदि न सन्ति तेषां क्षमाः ।
न कोऽपि पृथिवीतले भवति तस्य, सर्वैर्गुणैः
स भार इति मन्यते कलियुगेऽद्य धिक् सर्वशः ।। 1।।
गुणाश्च धनवर्षणे यदि न सन्ति तेषां क्षमाः ।
न कोऽपि पृथिवीतले भवति तस्य, सर्वैर्गुणैः
स भार इति मन्यते कलियुगेऽद्य धिक् सर्वशः ।। 1।।
उदीरयति योऽस्फुटं वचनमाङ्ग्लभाषामयं
चिनोति हृदि चोच्चकं तदनु गर्वभूमीधरम् ।
न तस्य पुरतो महान्, भवति कोऽपि विद्वान् कवि-
र्गुणी च, परमः परं भवति खेलकृन्नाट्यकृत् ।। 2।।
चिनोति हृदि चोच्चकं तदनु गर्वभूमीधरम् ।
न तस्य पुरतो महान्, भवति कोऽपि विद्वान् कवि-
र्गुणी च, परमः परं भवति खेलकृन्नाट्यकृत् ।। 2।।
य एव मम बान्धवः स हि महान् स सर्वैः पदैः
पुरस्कृतिभिरप्यथो समभिनन्दनेऽग्रे स्थितः ।
इयं दृगधुनातने कृतिवरे विजृम्भामिता
प्रशास्तरि परात्परे व्रजतु नागलोकं मही ।। 3।।
पुरस्कृतिभिरप्यथो समभिनन्दनेऽग्रे स्थितः ।
इयं दृगधुनातने कृतिवरे विजृम्भामिता
प्रशास्तरि परात्परे व्रजतु नागलोकं मही ।। 3।।
धनैस्तु परिपूरितं भवति मामकीनं कुलं
कथां प्रति रुचिर्न मे परकुलस्थितेः साम्प्रतम् ।
अहो स्वमधुना भवस्युदरविस्तृतिं यां गतं
न तत्र परिपूरणे भवति भूर्भुवःस्वः क्षमम् ।। 4।।
कथां प्रति रुचिर्न मे परकुलस्थितेः साम्प्रतम् ।
अहो स्वमधुना भवस्युदरविस्तृतिं यां गतं
न तत्र परिपूरणे भवति भूर्भुवःस्वः क्षमम् ।। 4।।
अभूदियमहो दशा न हि कदाऽपि काले पुरा
सुरासुर-चराचरो-च्चरित-चारु-चारित्रके ।
मनः प्रियतमं परिस्पृशति कुत्र नानेहसि
स्पृशच्च रिपुतां गतं भवति वा कदा मारकम् ।। 5।।
सुरासुर-चराचरो-च्चरित-चारु-चारित्रके ।
मनः प्रियतमं परिस्पृशति कुत्र नानेहसि
स्पृशच्च रिपुतां गतं भवति वा कदा मारकम् ।। 5।।
चमूरपि च पाकगा विमुखतां गता भागशो
न शस्त्रपरिमोक्षणं किमपि काङ्क्षति स्मारिषु ।
त एव खलु बन्धवो विपदि पाकसंरक्षणे
भवन्ति, वध एष वै भवति घातुकस्यात्मनः ।। 6।।
न शस्त्रपरिमोक्षणं किमपि काङ्क्षति स्मारिषु ।
त एव खलु बन्धवो विपदि पाकसंरक्षणे
भवन्ति, वध एष वै भवति घातुकस्यात्मनः ।। 6।।
स्पृशन्ति न हि पाणयः स्वजन-तालिवानेऽस्त्रकं
कथेयमुचिता कुरोः कुल इहास्मदीये स्थले ।
पितृव्यकुलनाशनेर्जुन उदास आसीत् तदा
परात्पर इति श्रुतो बत बभूव कृष्णो रिपुः ।। 7।।
कथेयमुचिता कुरोः कुल इहास्मदीये स्थले ।
पितृव्यकुलनाशनेर्जुन उदास आसीत् तदा
परात्पर इति श्रुतो बत बभूव कृष्णो रिपुः ।। 7।।
क्व भीष्म इव शूरतामसदृशीं दधज् ज्ञानवान्
अथ क्व खलु कर्ण इत्यतिबलो महान् विक्रमी ।
समेपि कथमप्युपाश्रयितुमेव मृत्योः पदं
व्यधायिषत बाधिताः भगवतैव कृष्णेन धिक् ।। 8।।
अथ क्व खलु कर्ण इत्यतिबलो महान् विक्रमी ।
समेपि कथमप्युपाश्रयितुमेव मृत्योः पदं
व्यधायिषत बाधिताः भगवतैव कृष्णेन धिक् ।। 8।।
युधिष्ठिर उदारधीर्बत मुहम्मदाख्यः प्रभु-
र्दधौ निजतनुं स वै न हि चकाङ्क्ष बन्धुक्षयम् ।
गजो नु परमो महानकृत बाहुमानप्यहोऽ-
र्जुनाग्रज इह क्षणे निगडितो नु भीमो बली ।। 9।।
र्दधौ निजतनुं स वै न हि चकाङ्क्ष बन्धुक्षयम् ।
गजो नु परमो महानकृत बाहुमानप्यहोऽ-
र्जुनाग्रज इह क्षणे निगडितो नु भीमो बली ।। 9।।
मृतोऽपि धृतराष्ट्रजोऽशनिवपुष्क उच्चैस्तरा-
मजूघुषदरीन्निजान्, न खलु पाण्डुवीर्योद्भवान् ।
बभूव खलु पाण्डवे दलवरे तु कुन्ती यथा
बभूव न कुरोर्दले पतिपरा नु गान्धारिका ।। 10।।
मजूघुषदरीन्निजान्, न खलु पाण्डुवीर्योद्भवान् ।
बभूव खलु पाण्डवे दलवरे तु कुन्ती यथा
बभूव न कुरोर्दले पतिपरा नु गान्धारिका ।। 10।।
द्वयोः खलु तुलैव का कलह एतयोर्जागृयात्
परन्त्वसदृशी स्थितिर्मुसिलमानवंशस्य नः ।
कथं परनिदेशतो वयमिमे समे मानिनो
विमानबमवह्निभिः क्षपयितुं निजान् न क्षमाः ।। 11।।
परन्त्वसदृशी स्थितिर्मुसिलमानवंशस्य नः ।
कथं परनिदेशतो वयमिमे समे मानिनो
विमानबमवह्निभिः क्षपयितुं निजान् न क्षमाः ।। 11।।
भवन्ति खलु ये दशाननरिपौ प्रशंसापरा
भवन्ति च ततः परे कतिपये च कृष्णप्रियाः ।
परस्परमिमे क्व वा कलहपाप्मगर्ते पत-
न्त्यपि क्व नु मुहम्मदः प्रभुरजिग्लपद् बान्धवान् ।। 12।।
भवन्ति च ततः परे कतिपये च कृष्णप्रियाः ।
परस्परमिमे क्व वा कलहपाप्मगर्ते पत-
न्त्यपि क्व नु मुहम्मदः प्रभुरजिग्लपद् बान्धवान् ।। 12।।
स्मरन्ति न समेप्यमी भवति वत्सला सर्पिणी
जिघत्सति बुभुक्षया कलुषिता तु सा कुक्षिजान् ।
इमे स्व इति बुद्धिगा न खलु तालिवानाः समे
भविष्यति भवन्ति वै करुणचित्तकाः पाकिने ।। 13।।
जिघत्सति बुभुक्षया कलुषिता तु सा कुक्षिजान् ।
इमे स्व इति बुद्धिगा न खलु तालिवानाः समे
भविष्यति भवन्ति वै करुणचित्तकाः पाकिने ।। 13।।
पिता तनयघातितो यवनशासकानामभूत्
सुतश्च पितृघातको बहुश आगतो नः श्रुतिम् ।
इयं खलु नृशंसता भवति यत्र सर्वंसहा
क्व तत्र सुहृदित्यथो क्व च ममेति बुद्धिः शुभा ।। 14।।
सुतश्च पितृघातको बहुश आगतो नः श्रुतिम् ।
इयं खलु नृशंसता भवति यत्र सर्वंसहा
क्व तत्र सुहृदित्यथो क्व च ममेति बुद्धिः शुभा ।। 14।।
समेऽपि कुरुवंशगा द्रुपदजाऽपहारप्रिया
बभूवुरधृतत्रपा भुजबलोन्मदाः संसदि ।
कृतं यदपि तैरिदं दृशि चकार भीष्मो यदा
तदावृत महीतलं परिजिहासुता-वात्यया ।। 15।।
बभूवुरधृतत्रपा भुजबलोन्मदाः संसदि ।
कृतं यदपि तैरिदं दृशि चकार भीष्मो यदा
तदावृत महीतलं परिजिहासुता-वात्यया ।। 15।।
रिपोरभिभवो यदि प्रगुणितोऽस्ति चित्ते तदा
कथं नु खलु विस्मृतः सुजनशिष्टमार्गोत्तमः ।
रिपोरियमिति स्त्रियं पशुसमानमानायितुं
भवन्ति कुशलाश्चतुष्पदकुलाङ्कुरा एव हि ।। 16।।
कथं नु खलु विस्मृतः सुजनशिष्टमार्गोत्तमः ।
रिपोरियमिति स्त्रियं पशुसमानमानायितुं
भवन्ति कुशलाश्चतुष्पदकुलाङ्कुरा एव हि ।। 16।।
धनस्य खलु पुष्कराम्बुदसमानवर्षा इदं-
क्षणे कुरुत निर्णयं ननु कृतं नु किं प्राक् तु तैः ।
अवर्षि पय उल्बणोन्मदसरीसृपाणां मुखे-
ष्वदायि विपुलं धनं यदधुनाऽऽस्रपेभ्यो मुधा ।। 17।।
क्षणे कुरुत निर्णयं ननु कृतं नु किं प्राक् तु तैः ।
अवर्षि पय उल्बणोन्मदसरीसृपाणां मुखे-
ष्वदायि विपुलं धनं यदधुनाऽऽस्रपेभ्यो मुधा ।। 17।।
अदायि कपिपाणये सुशितखङ्ग एषोऽधुना
निकृन्तति स कन्धरां यमपि कञ्चन प्राप्नुते ।
द्रुमाद् द्रुममथ प्लुतिं विदधदेष वीनां कुलं
विभीषयति पक्षती क्षपयितुं हठादुद्यतः ।। 18।।
निकृन्तति स कन्धरां यमपि कञ्चन प्राप्नुते ।
द्रुमाद् द्रुममथ प्लुतिं विदधदेष वीनां कुलं
विभीषयति पक्षती क्षपयितुं हठादुद्यतः ।। 18।।
दशाननदशाननीं क्रथयितुं स रामः प्रभु-
र्न साम्प्रतमुदारधीः किमपि दृश्यते सस्पृहः ।
अमुष्य पुरतः सती जनकजा कपोतं शिर-
स्युपाश्रयति रक्षितुं सविनयं नु लङ्काधिपम् ।। 19।।
र्न साम्प्रतमुदारधीः किमपि दृश्यते सस्पृहः ।
अमुष्य पुरतः सती जनकजा कपोतं शिर-
स्युपाश्रयति रक्षितुं सविनयं नु लङ्काधिपम् ।। 19।।
विपर्यययुगेधुना कलियुगं हि सत्यायितुं
समुत्सुकति लक्षणा भवति तस्य शक्तिः प्रिया ।
दिवाऽपि यदि भानुमत्पदमधिश्रितं शर्वरी-
कृता, बत वयं समे न न निशाचरायामहे ।। 20।।
समुत्सुकति लक्षणा भवति तस्य शक्तिः प्रिया ।
दिवाऽपि यदि भानुमत्पदमधिश्रितं शर्वरी-
कृता, बत वयं समे न न निशाचरायामहे ।। 20।।
समुद्रमपसार्य यैर्लवणजन्मदात्री मही
व्यधायि भृशमुर्वरा पवनसौरभैश्चाञ्चिता ।
विचित्ररुचिकक्षुपैः प्रतिगृहाङ्गनं भूषिता
कृता च नगरी नरैर्मसृणरम्यरथ्या नवा ।। 21।।
व्यधायि भृशमुर्वरा पवनसौरभैश्चाञ्चिता ।
विचित्ररुचिकक्षुपैः प्रतिगृहाङ्गनं भूषिता
कृता च नगरी नरैर्मसृणरम्यरथ्या नवा ।। 21।।
भवन्ति भवनोत्तमा गगनचुम्बिनो निर्मिता
परं मसृणविस्तृतैर्विशद-काच-कुङ्यैर्वृताः ।
परस्पर-दृढान्वयौपयिक-काष्ठ-पट्टीधृता
अपि स्फटिकनिर्मलोदरवितानकाः सर्वशः ।। 22।।
परं मसृणविस्तृतैर्विशद-काच-कुङ्यैर्वृताः ।
परस्पर-दृढान्वयौपयिक-काष्ठ-पट्टीधृता
अपि स्फटिकनिर्मलोदरवितानकाः सर्वशः ।। 22।।
दलानि मसृणान्यथो विविधवर्णकानि स्खल-
न्मरुन्ति च हसन्ति च प्रकटयौवनान्यंशुभिः ।
क्वचिच्च कुसुमोच्चयावृतवपूंषि गाढं दद-
त्यनोकहगतानपि क्वचन विक्षितुं वै करान् ।। 23।।
न्मरुन्ति च हसन्ति च प्रकटयौवनान्यंशुभिः ।
क्वचिच्च कुसुमोच्चयावृतवपूंषि गाढं दद-
त्यनोकहगतानपि क्वचन विक्षितुं वै करान् ।। 23।।
प्रशान्तजलधेर्जलैः शुचियुगेऽपि संपूरिता
बृहत्परिसरा अथो विमलवारिकाः कुल्यकाः ।
लसन्ति नवनूतनैर्द्विजकुलैः समुच्छ्वासिता-
स्तटा विविधपाटलैः, सुरभितैश्च पुष्पैर्वृताः ।। 24।।
बृहत्परिसरा अथो विमलवारिकाः कुल्यकाः ।
लसन्ति नवनूतनैर्द्विजकुलैः समुच्छ्वासिता-
स्तटा विविधपाटलैः, सुरभितैश्च पुष्पैर्वृताः ।। 24।।
शुचिर्निदाघः।
इह क्वचिदपि स्फुरत्यहह नैव चातुष्पदी
शुनीतनय.सूकरीसुत.बिडाल.गो.रासभी ।
न चाऽपि चटका-शुकी-वक-कपोत-कादम्बका
अथो न खलु मक्षिका न हि च दंशका मत्कुणाः ।। 25।।
शुनीतनय.सूकरीसुत.बिडाल.गो.रासभी ।
न चाऽपि चटका-शुकी-वक-कपोत-कादम्बका
अथो न खलु मक्षिका न हि च दंशका मत्कुणाः ।। 25।।
इमे जलनिधेस्तटाद् भरतभूमिभागं गता
इव, प्रशमिताशया इव गताश्च वास्तव्यताम् ।
ततश्च जनविप्लवो भवति भारते सर्वतः
शमश्च सततं नृणामिह विभाव्यते सर्वशः ।। 26।।
इव, प्रशमिताशया इव गताश्च वास्तव्यताम् ।
ततश्च जनविप्लवो भवति भारते सर्वतः
शमश्च सततं नृणामिह विभाव्यते सर्वशः ।। 26।।
सरीसृपति मानुषः प्रतिपथं हि कारैरितो
विचित्र-रचनाऽञ्चितैर्विविधवर्णकैर्धावितः ।
समोऽपि खलु मांसलो भवति देहतो व्याहृते-
र्मधूच्चय इव प्रियो व्यवहृतेश्च हारी हृदः ।। 27।।
विचित्र-रचनाऽञ्चितैर्विविधवर्णकैर्धावितः ।
समोऽपि खलु मांसलो भवति देहतो व्याहृते-
र्मधूच्चय इव प्रियो व्यवहृतेश्च हारी हृदः ।। 27।।
न यत्र परिकर्मणे गृहवरस्य गेही स्वयं
निरीक्षणपरीक्षणे व्यवसितः क्वचिल्लक्ष्यते ।
करोति खलु कर्म यः स हि समस्तदायित्ववान्
परिश्रमधनेन वै भवति तस्य तोषः शुचेः ।। 28।।
निरीक्षणपरीक्षणे व्यवसितः क्वचिल्लक्ष्यते ।
करोति खलु कर्म यः स हि समस्तदायित्ववान्
परिश्रमधनेन वै भवति तस्य तोषः शुचेः ।। 28।।
गृहेषु गृहमेधिनां भवति कुट्टिमं दारुजं
सुचिक्कण.सुलेपनं विवधवर्णकं चोत्तमम् ।
सदैव ननु कम्बलं विततमेकवर्णं पदं
न हि स्पृशतु येन वै वसुमतीं गृहे गच्छताम् ।। 29।।
सुचिक्कण.सुलेपनं विवधवर्णकं चोत्तमम् ।
सदैव ननु कम्बलं विततमेकवर्णं पदं
न हि स्पृशतु येन वै वसुमतीं गृहे गच्छताम् ।। 29।।
निदाघदिवसेष्वपि स्फुरति यत्र चन्द्रो यथा
रविस्तपति नो खरं किरणभासुरत्वाधिकः ।
प्रवाति हिमशीतलः प्रतिदिनं मरुत्वानथो
स्फुरन्ति भृशमेदुराः प्रतिनिशामुखं वारिदाः ।। 30।।
रविस्तपति नो खरं किरणभासुरत्वाधिकः ।
प्रवाति हिमशीतलः प्रतिदिनं मरुत्वानथो
स्फुरन्ति भृशमेदुराः प्रतिनिशामुखं वारिदाः ।। 30।।
भवन्ति दिशि दक्षिणाञ्चलजुषि त्वरामेदुरा
जलं तु न किरन्ति ते प्रकटितान्धकारा अधः ।
इह क्षण उमाशिवौ प्रकटसङ्गतौ चित्तटी-
पटीपरिवृतौ यथा गगनविष्टरे राजतः ।। 31।।
जलं तु न किरन्ति ते प्रकटितान्धकारा अधः ।
इह क्षण उमाशिवौ प्रकटसङ्गतौ चित्तटी-
पटीपरिवृतौ यथा गगनविष्टरे राजतः ।। 31।।
सदैव खलु पश्चिमा इह सरन्ति सौगन्धिका
जवेन मरुतो हिमा अविषहाङ्गसङ्गाः क्वचित् ।
क्वचिच्च दिवसे मनागशिशिरास्त्वरन्ते चला-
स्समास्वपि विकल्पनास्वपि विधातृकल्पानुजाः ।। 32।।
जवेन मरुतो हिमा अविषहाङ्गसङ्गाः क्वचित् ।
क्वचिच्च दिवसे मनागशिशिरास्त्वरन्ते चला-
स्समास्वपि विकल्पनास्वपि विधातृकल्पानुजाः ।। 32।।
भवन्ति शयिता यदा भरतभूतधात्र्यां जनाः
प्रबोधपरिवारिता इह लसन्ति तस्मिन् क्षणे ।
प्रभातघटिकाऽस्ति या भरतभूतले सैव ही
घटी भवति सान्ध्यिकी रवितिरस्कृताभ्युद्यता ।। 33।।
प्रबोधपरिवारिता इह लसन्ति तस्मिन् क्षणे ।
प्रभातघटिकाऽस्ति या भरतभूतले सैव ही
घटी भवति सान्ध्यिकी रवितिरस्कृताभ्युद्यता ।। 33।।
लसन्ति बहला नवा विविधविग्रहा योषितः
परन्तु मुखमण्डलं दधति शोभनं ताः समाः ।
भवन्ति निखिला अमू विपुलदीर्घभावा नवा
भवन्ति खलु वामना अपि न वा, न वा मध्यमाः ।। 34।।
परन्तु मुखमण्डलं दधति शोभनं ताः समाः ।
भवन्ति निखिला अमू विपुलदीर्घभावा नवा
भवन्ति खलु वामना अपि न वा, न वा मध्यमाः ।। 34।।
( 2 )
न तालिवनवासिनो बत गृहेऽपि संरक्षिता
भवन्ति समयेऽधुनातन उदाकृता लश्करैः ।
इयं करभुशुण्डिका विमुखतां गतैषां वम-
त्यमीषु हि विदारिकाः स्वगुलिकाः भृशं भीषणाः ।। 35।।
भवन्ति समयेऽधुनातन उदाकृता लश्करैः ।
इयं करभुशुण्डिका विमुखतां गतैषां वम-
त्यमीषु हि विदारिकाः स्वगुलिकाः भृशं भीषणाः ।। 35।।
गवेषयति लश्करो जनपदे निजे तालिनः
प्रभर्जयति वै समागतमिमं द्रुतं गोलिभिः ।
चमूश्च पटु पाकिनां सहकरोति शस्त्रास्त्रकैः
समर्थनपरायणा सपदि लश्कराणां मुदा ।। 36।।
प्रभर्जयति वै समागतमिमं द्रुतं गोलिभिः ।
चमूश्च पटु पाकिनां सहकरोति शस्त्रास्त्रकैः
समर्थनपरायणा सपदि लश्कराणां मुदा ।। 36।।
अयं खलु दशाननेऽनुजविभीषणो मारुतीन्
प्रवर्त्तयति संख्यया विरहितान् सपुच्छानलान् ।
दशाननदशाननी-नयनविंशतिः साम्प्रतं
तमिस्रपरिवारिता भ्रमति कान्दिशीकन्त्यलम् ।। 37।।
प्रवर्त्तयति संख्यया विरहितान् सपुच्छानलान् ।
दशाननदशाननी-नयनविंशतिः साम्प्रतं
तमिस्रपरिवारिता भ्रमति कान्दिशीकन्त्यलम् ।। 37।।
विचिन्तयति मत्कुणो मम मुखेस्ति या दंष्ट्रिका
तयाहमखिलं जगद् विपरिणामयिष्ये बलात् ।
यया तु मम खट्वया त्वमसि पालितस्तत्तनौ
मयैव खलु दीयतेऽनल उमापतेर्नेत्रगः ।। 38।।
तयाहमखिलं जगद् विपरिणामयिष्ये बलात् ।
यया तु मम खट्वया त्वमसि पालितस्तत्तनौ
मयैव खलु दीयतेऽनल उमापतेर्नेत्रगः ।। 38।।
स्मरानन उदञ्चति स्मरति नैव कञ्चिज्जनो
न याति च शरण्यतां स्मरमृते तदा कश्चन ।
कपालनयनानलस्तमपि भस्म कृत्वा रतेः
प्रमार्जयति भालगं तिलकमत्रुटिं पातयन् ।। 39।।
न याति च शरण्यतां स्मरमृते तदा कश्चन ।
कपालनयनानलस्तमपि भस्म कृत्वा रतेः
प्रमार्जयति भालगं तिलकमत्रुटिं पातयन् ।। 39।।
बलाबलविचारणां न खलु सन्तनोत्यस्त्रकं
तदेकनियति क्षणोत्युपगतं तदीये मुखे ।
न लश्करकरा इमे प्रभुषु तालिवानेष्वमी-
ष्वनुष्णशतहन्त्रिका, न च तथागताः पुत्तलाः ।। 40।।
तदेकनियति क्षणोत्युपगतं तदीये मुखे ।
न लश्करकरा इमे प्रभुषु तालिवानेष्वमी-
ष्वनुष्णशतहन्त्रिका, न च तथागताः पुत्तलाः ।। 40।।
न किञ्चिदपि मारवाः सुगतपुत्तला ऊचिरे
गताश्च लघु चूर्णतां शतकसप्तवंशायुषः ।
त एव बत लश्करा अनुगता विलोमां दिशं
गिरन्त्युरगवल्लभामुपगताः वधूटं सुताः ।। 41।।
गताश्च लघु चूर्णतां शतकसप्तवंशायुषः ।
त एव बत लश्करा अनुगता विलोमां दिशं
गिरन्त्युरगवल्लभामुपगताः वधूटं सुताः ।। 41।।
य एव वटधानिकाकण उपारुरोहोच्चकै-
स्तरेऽपि ननु भित्तिकावपुषि दुर्गदुर्गस्य सः ।
विदारयति वज्रतामपि गतं तदीयं वपु-
र्न पश्यति च जन्मने तदुपकारजातं विराट् ।। 42।।
स्तरेऽपि ननु भित्तिकावपुषि दुर्गदुर्गस्य सः ।
विदारयति वज्रतामपि गतं तदीयं वपु-
र्न पश्यति च जन्मने तदुपकारजातं विराट् ।। 42।।
हिरण्यकशिपु-क्षयानल-नृसिंहशान्त्यै भव-
त्यलं क इव पुत्रकोत्तममपास्य कायाधवम् ।
परोऽपि बत पक्षिराड् भवति शालुराजः स चा-
प्यभिस्फुरति निष्टपत्यथ च नारसिंहीं रुषम् ।। 43।।
त्यलं क इव पुत्रकोत्तममपास्य कायाधवम् ।
परोऽपि बत पक्षिराड् भवति शालुराजः स चा-
प्यभिस्फुरति निष्टपत्यथ च नारसिंहीं रुषम् ।। 43।।
कायाधवः - मातुः कयाधोः पुत्रः प्रह्लादः।
स चापि सनृसिंहकः पतति चन्द्रसूर्याञ्चिते
महाप्रथिमनि क्वचिद् वियति पारमेष्ठ्योऽव्यये ।
तदा स्वपिति सिन्धुजामुरसि धारयित्वा हरि-
र्हरश्च गिरिजां वृषे स्थितिमतीं श्रयन् भ्राम्यति ।। 44।।
स चापि सनृसिंहकः पतति चन्द्रसूर्याञ्चिते
महाप्रथिमनि क्वचिद् वियति पारमेष्ठ्योऽव्यये ।
तदा स्वपिति सिन्धुजामुरसि धारयित्वा हरि-
र्हरश्च गिरिजां वृषे स्थितिमतीं श्रयन् भ्राम्यति ।। 44।।
विनाशक! विनश्वरो भवति चेद् भवान् नाशतः
पुरैव किमु जायसे न खलु सावधानस्तदा ।
गतः शवगुहागृहे निखिलजित्वरोऽप्येषको
महाप्रभुरपि क्षितौ किमु न वामलूरिष्यसि ।। 45।।
पुरैव किमु जायसे न खलु सावधानस्तदा ।
गतः शवगुहागृहे निखिलजित्वरोऽप्येषको
महाप्रभुरपि क्षितौ किमु न वामलूरिष्यसि ।। 45।।
इमे क्वचन मृत्तिकाशिखरिणः परे शेखरे
विचित्य रजसः कणान् दधति वामलूरं महत्।
निलीय च तदन्तरे शयितुमिच्छवो बोभुव-
त्यहो गगनवारिदैः सलिलवर्षिभिर्भूयते ।। 46।।
विचित्य रजसः कणान् दधति वामलूरं महत्।
निलीय च तदन्तरे शयितुमिच्छवो बोभुव-
त्यहो गगनवारिदैः सलिलवर्षिभिर्भूयते ।। 46।।
अहो क्षरणसन्तताः किमिति भूतसंघा इमे
समेऽपि समरोद्धतोद्धतरसा हि तिष्ठन्तकि।
परस्य यदि मुष्टिका फलवती भृशं तत्र किं
परो निभृतमग्निदो भवति तुष्टचेताः क्षयात् ।। 47।।
समेऽपि समरोद्धतोद्धतरसा हि तिष्ठन्तकि।
परस्य यदि मुष्टिका फलवती भृशं तत्र किं
परो निभृतमग्निदो भवति तुष्टचेताः क्षयात् ।। 47।।
विनिर्मितिपरायणा धरणिगर्भगा काप्यहो
परैव जननी कणान् दशगुणान् विदधती सदा ।
समुल्लसति सर्वदा रसभुजाममीषां स्फुर-
ल्ललाटसलिलोत्तमैरभिषवान् निजानर्जितुम् ।। 48।।
परैव जननी कणान् दशगुणान् विदधती सदा ।
समुल्लसति सर्वदा रसभुजाममीषां स्फुर-
ल्ललाटसलिलोत्तमैरभिषवान् निजानर्जितुम् ।। 48।।
क्वचिज्जलनिधेरुरः स्फुटति, वारिपूरो यतः
प्रचुम्बति नभस्तलं धरणिमण्डलं प्लावयन् ।
सुखेन शयने श्रिता निशि विभातनेऽनेहसि
तथैव शयिताः परैरवलुलोकिरे कोटिशः ।। 49।।
प्रचुम्बति नभस्तलं धरणिमण्डलं प्लावयन् ।
सुखेन शयने श्रिता निशि विभातनेऽनेहसि
तथैव शयिताः परैरवलुलोकिरे कोटिशः ।। 49।।
पुनश्च जगतीतले जनकजाशती त्याजिता
गृहाङगणमयाचतावनिमिमां ग्रहीतुं पुनः ।
पुनश्च धरणीतलं परिविदीर्णतां लम्भितं
शतानि भवनान्यथो गततनून्यदृश्यन्त धिक् ।। 50।।
गृहाङगणमयाचतावनिमिमां ग्रहीतुं पुनः ।
पुनश्च धरणीतलं परिविदीर्णतां लम्भितं
शतानि भवनान्यथो गततनून्यदृश्यन्त धिक् ।। 50।।
असौ प्रलय एव नुर्निखिल-भूमिपृष्ठेऽधुना
प्रभात उपदीकृते पठति वृत्तपत्रे जगत् ।
विमानमपि निस्तले गगनतोऽतले वारिधौ
पतत् पठति विश्वमप्यहह यात्रिणां जीवितैः ।। 51।।
प्रभात उपदीकृते पठति वृत्तपत्रे जगत् ।
विमानमपि निस्तले गगनतोऽतले वारिधौ
पतत् पठति विश्वमप्यहह यात्रिणां जीवितैः ।। 51।।
भवन्ति नवनूतना भुवनमण्डले व्याधयः
सरीसृपति मानुषेऽन्तक-लुलाय-घण्टारवः ।
उपस्पृशति वारि यद् यदपि चान्नमश्नाति तद्-
द्वयं विषकषायितं भवति मारकं केवलम् ।। 52।।
सरीसृपति मानुषेऽन्तक-लुलाय-घण्टारवः ।
उपस्पृशति वारि यद् यदपि चान्नमश्नाति तद्-
द्वयं विषकषायितं भवति मारकं केवलम् ।। 52।।
मनुष्य! कुशलं भवान् दिवि भुवि द्वयोरेतयो-
र्नवापि परतोऽभितः क्वचन नान्तरे वीक्षसे ।
सदा च कटुसाहसान्यधिकृतानि यादृच्छिकीं
दिनप्रतिदिनं गतिप्रतिगतिद्वयीं सेवसे ।। 53।।
र्नवापि परतोऽभितः क्वचन नान्तरे वीक्षसे ।
सदा च कटुसाहसान्यधिकृतानि यादृच्छिकीं
दिनप्रतिदिनं गतिप्रतिगतिद्वयीं सेवसे ।। 53।।
क्व सत्यपरमेश्वरो भवसि मानव! त्वं, छलं
क्व चाद्य, तव वाणिजं क्व च धनस्य वात्याक्षयः ।
धनं विरहितं श्रिया तव, न सा पतिं पश्यति
सुदर्शनकरं चतुर्भुजमथाब्धिशेषासनम् ।। 54।।
क्व चाद्य, तव वाणिजं क्व च धनस्य वात्याक्षयः ।
धनं विरहितं श्रिया तव, न सा पतिं पश्यति
सुदर्शनकरं चतुर्भुजमथाब्धिशेषासनम् ।। 54।।
दिशि क्वचन विद्यते किमपि यानरत्नं स्थितं
विहायसि य ईक्षते निभृतचेष्टितं ते नर! ।
ददाति तव शत्रवे निखिल.सूचनां चित्रकैः
समं निशि दिवेव रे त्वमसि किं स्वतन्त्रोऽधुना ।। 55।।
विहायसि य ईक्षते निभृतचेष्टितं ते नर! ।
ददाति तव शत्रवे निखिल.सूचनां चित्रकैः
समं निशि दिवेव रे त्वमसि किं स्वतन्त्रोऽधुना ।। 55।।
बलं स्वमधुनातनं भवति, तस्य तन्त्रेऽधुना
भवान् समुपतस्थिवान् धनजनश्रियां मण्डलैः ।
बलं कथयते दृशौ करयुगेन संछाद्य रे मनुष्य!
विहितस्थितिर्भव न तेऽन्धता चेत् प्रिया ।। 56।।
भवान् समुपतस्थिवान् धनजनश्रियां मण्डलैः ।
बलं कथयते दृशौ करयुगेन संछाद्य रे मनुष्य!
विहितस्थितिर्भव न तेऽन्धता चेत् प्रिया ।। 56।।
पुरा नृपतयस्तपोवनगतानपि प्रेक्षितुं
सनातनपथस्थितान् नियमितान् यतन्तेतराम् ।
इदंक्षण उपस्थिता अपि सरस्वतीसेवका
भवन्ति कृपणा न चेन्नहि भजन्ति काणं पणम् ।। 57।।
सनातनपथस्थितान् नियमितान् यतन्तेतराम् ।
इदंक्षण उपस्थिता अपि सरस्वतीसेवका
भवन्ति कृपणा न चेन्नहि भजन्ति काणं पणम् ।। 57।।
ममास्ति तनुजः परं नहि शृणोति वाक्यं मम
सुताऽस्ति मम नूतने पथि विदां स्फुटं नायिका ।
यदि द्वितयमप्यदो समभिभुज्य राज्यश्रियं
कथञ्चिदपि चेष्टते न खलु तत्र दोषोऽस्ति मे ।। 58।।
सुताऽस्ति मम नूतने पथि विदां स्फुटं नायिका ।
यदि द्वितयमप्यदो समभिभुज्य राज्यश्रियं
कथञ्चिदपि चेष्टते न खलु तत्र दोषोऽस्ति मे ।। 58।।
असौ कुलपतेः पदे नवदशाऽपि वर्षाणि चे-
दनारतमवस्थितः कुशलताऽस्ति तस्यैव सा ।
प्रशासनकरेऽर्थिताननतिलाघवान् राशिकान्
समर्पयितुमस्त्यसौ सुरतरुः, स किं त्यज्यताम् ।। 59।।
दनारतमवस्थितः कुशलताऽस्ति तस्यैव सा ।
प्रशासनकरेऽर्थिताननतिलाघवान् राशिकान्
समर्पयितुमस्त्यसौ सुरतरुः, स किं त्यज्यताम् ।। 59।।
परीक्षण-विधानके निभृतचौर्य-संरक्षका
भवन्ति खलु ये जनाः कृतिवरास्त एवाधुना ।
भवन्ति तु विरोधिनो व्यभिचरन्ति ये संविधां
कथञ्चिदपि नैव, ते ददति मन्त्रिणे जागराम् ।। 60।।
भवन्ति खलु ये जनाः कृतिवरास्त एवाधुना ।
भवन्ति तु विरोधिनो व्यभिचरन्ति ये संविधां
कथञ्चिदपि नैव, ते ददति मन्त्रिणे जागराम् ।। 60।।
अहं चलितुमक्षमश्चलितसन्दिकामाश्रित-
श्चलामि कथमप्यथो परिपठामि वै भाषणम् ।
त्यजामि न तथाप्यहं पदवरं प्रतिष्ठाऽस्ति मे
प्रिया सततमेव या सृजति कामधेनूः शतम् ।। 61।।
श्चलामि कथमप्यथो परिपठामि वै भाषणम् ।
त्यजामि न तथाप्यहं पदवरं प्रतिष्ठाऽस्ति मे
प्रिया सततमेव या सृजति कामधेनूः शतम् ।। 61।।
पटैलसरदारतो विपदमाप्य मुक्तस्ततो
जवाहरसुताकृपामृतनिषेचनैर्मे पिता ।
तमेव कृतिनां वरं कुलवरं निषेव्याहम-
प्यवाप्तपरमास्पदो न खलु तत्र धूर्ताम्यहम् ।। 62।।
जवाहरसुताकृपामृतनिषेचनैर्मे पिता ।
तमेव कृतिनां वरं कुलवरं निषेव्याहम-
प्यवाप्तपरमास्पदो न खलु तत्र धूर्ताम्यहम् ।। 62।।
इमां हि परमन्त्रणां जपति नः समा पण्डिता-
वलिः कृतिवराऽभवत् सफलतां प्रयाता सदा ।
निजं कुलमुपेक्ष्य यश्चरति राजनीतिक्षितौ
न तेष्वहमहं त्वहो स खलु मध्यमः पाण्डवः ।। 63।।
वलिः कृतिवराऽभवत् सफलतां प्रयाता सदा ।
निजं कुलमुपेक्ष्य यश्चरति राजनीतिक्षितौ
न तेष्वहमहं त्वहो स खलु मध्यमः पाण्डवः ।। 63।।
मध्यमपाण्डवौ भीमार्जुनौ। कौन्तेयत्रिके भीमः, पाण्डवपञ्चके त्वर्जुनः। द्वावपि प्रतिज्ञातप्रतिशोधौ। द्रौपदीतिरस्कारे भीमः, अभिमन्युवधे चार्जुनः।
न खलु निपुणः कश्चिन्नेतास्ति सर्वमतोऽधुना
भरतभुवने चक्रीवन्तो हि सन्ति वि-बन्धनाः ।
अथ च सरमापुत्रा एते समेऽपि तदुन्मुखा
भषितुमभिकाः कुक्षीन् भर्तुं सुखेन समे द्रुताः ।। 64।।
भरतभुवने चक्रीवन्तो हि सन्ति वि-बन्धनाः ।
अथ च सरमापुत्रा एते समेऽपि तदुन्मुखा
भषितुमभिकाः कुक्षीन् भर्तुं सुखेन समे द्रुताः ।। 64।।
समुत्सुकाः।।64।। समुद्धुराः।।64।।
शिक्षाकेन्द्रशतानि यन्त्रविधये शिक्षोन्नताः केवलं
चित्तक्षालनमत्र नास्ति विनयाभिख्यं तु लक्ष्यं क्वचित् ।
आयुश्चाश्रमपद्धतिश्च विकृतिं प्राप्ते धनार्थं विदां-
वर्याणामभितो विभाति रभसः, यो रासभत्वप्रियः ।। 65।।
चित्तक्षालनमत्र नास्ति विनयाभिख्यं तु लक्ष्यं क्वचित् ।
आयुश्चाश्रमपद्धतिश्च विकृतिं प्राप्ते धनार्थं विदां-
वर्याणामभितो विभाति रभसः, यो रासभत्वप्रियः ।। 65।।
न खलु जनपदः सुखाञ्चितोऽद्य भवति सुखेन युता च नीवृदेव ।
अथ युवतिजनः समः स्वतन्त्रस्फुरण उपाश्रयते न पाकविद्याम् ।। 66।।
अथ युवतिजनः समः स्वतन्त्रस्फुरण उपाश्रयते न पाकविद्याम् ।। 66।।
वसति नगरे तत्तन्नग्नत्वदोषपरीवृते
क्षपयति निजं स्वत्वं विक्रीय पञ्चशराय तत् ।
न खलु निजकं सभ्यैर्वंशस्य गौरवमीक्ष्यते
क्वचिदपि, कथं भावी भूयोऽपि मानुषतोन्नता ।। 67।।
क्षपयति निजं स्वत्वं विक्रीय पञ्चशराय तत् ।
न खलु निजकं सभ्यैर्वंशस्य गौरवमीक्ष्यते
क्वचिदपि, कथं भावी भूयोऽपि मानुषतोन्नता ।। 67।।
स्वतन्त्रता येन पथाऽपि सोऽयं सर्वस्य जन्तोर्विवृतोऽस्ति लोके ।
जात्याश्रितैः संघटनैरिदानीं साम्राज्यवादो हि समाश्रितोऽस्ति ।। 68।।
जात्याश्रितैः संघटनैरिदानीं साम्राज्यवादो हि समाश्रितोऽस्ति ।। 68।।
राष्ट्रेऽत्र सेनात्रितयेऽस्ति शान्तिः सेनापतीनां त्रितये पतित्वम् ।
बिभर्ति यो राष्ट्रपतित्वमेति, मार्गोऽयमास्ते भयमात्रजन्मा ।। 69।।
बिभर्ति यो राष्ट्रपतित्वमेति, मार्गोऽयमास्ते भयमात्रजन्मा ।। 69।।
अनीतिगर्ते परिवर्धमाने समेऽपि मग्ना अधुना वयं स्मः ।
न्यायालयानामुदरेऽस्ति कश्चिद् विवर्धमानोऽद्य तु वातरोगः ।। 70।।
न्यायालयानामुदरेऽस्ति कश्चिद् विवर्धमानोऽद्य तु वातरोगः ।। 70।।
प्रत्येति न प्रत्ययनीयमेष न्यायालयानां सुमहान् समूहः ।
कृपां घृणां वा हृदये दधाना नैयायिका निर्णयमाश्रयन्ते ।। 71।।
कृपां घृणां वा हृदये दधाना नैयायिका निर्णयमाश्रयन्ते ।। 71।।
न्यायालयानामुदरे पिशाची प्रभञ्जनानि त्वरितुं सचेष्टा ।
प्रशासकानां हृदये स्वनिष्ठा मारी महत्यादरमाप्नुतेऽद्य ।। 72।।
प्रशासकानां हृदये स्वनिष्ठा मारी महत्यादरमाप्नुतेऽद्य ।। 72।।
मारीत्रमहामारी
स एव शूद्रस्य युगेऽपचारो न्यायाधिकारेषु प्रवर्त्तते स्म ।
द्वेष्येऽपराधाशनिपातहेतोर्न्यायालया बर्बरपक्षनिष्ठाः ।। 73।।
द्वेष्येऽपराधाशनिपातहेतोर्न्यायालया बर्बरपक्षनिष्ठाः ।। 73।।
किमपि कुरुतां कश्चिन्नास्त्यत्र कश्चन रोधकः
व्रजति न चिरादेव स्वत्वं गतेषु गृहं कुटी ।
मधुरमधुरो मार्गस्तत्रास्ति नाट्यकलैकला
सजनुरथवा तस्याः संगीतकं सह-खेलनम् ।। 74।।
व्रजति न चिरादेव स्वत्वं गतेषु गृहं कुटी ।
मधुरमधुरो मार्गस्तत्रास्ति नाट्यकलैकला
सजनुरथवा तस्याः संगीतकं सह-खेलनम् ।। 74।।
प्रत्येकमुत्कोचसखं हि कार्यं न्यायालये जायत इत्यवेक्ष्य ।
खिद्येत राष्ट्रस्य महानिधानं विधानमप्यद्य मतं बहूनाम् ।। 75।।
खिद्येत राष्ट्रस्य महानिधानं विधानमप्यद्य मतं बहूनाम् ।। 75।।
ये प्राड्विवाका नितरां तटस्थास्तर्कैकनिष्ठा, न हि तेषु वित्तम् ।
विशुद्धिमुग्धं, बत लाभनिष्ठं प्रमाणमुद्वीक्ष्य चलं तदेषाम् ।। 76।।
विशुद्धिमुग्धं, बत लाभनिष्ठं प्रमाणमुद्वीक्ष्य चलं तदेषाम् ।। 76।।
स खलु न वरो मार्गो यत्रास्ति बुद्धिरपेक्षिता
यदपि ललितं सर्वं तन्मात्रमस्तु तु साधितम् ।
इति खलु यदा काचित् प्रज्ञावतां मतिरद्य किं
श्वसितु विदुषां कश्चिन्मार्गः पुरातन उज्ज्वलः ।। 77।।
यदपि ललितं सर्वं तन्मात्रमस्तु तु साधितम् ।
इति खलु यदा काचित् प्रज्ञावतां मतिरद्य किं
श्वसितु विदुषां कश्चिन्मार्गः पुरातन उज्ज्वलः ।। 77।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविश्रीरेवाप्रसादद्विवेदिकृतौ
नियतिविपर्ययो नामैकोनसप्ततिः सर्गः ।। 69।।
यस्मिन् दलेहं प्रमुखोस्मि तस्मिन्नान्योस्तु कश्चिन्मम तुल्यवीर्यः ।
प्रवृत्त-सर्वंसह-याग-योगा भावे-त्र केचिद् रभसेन गीर्णाः ।। 1।।
प्रवृत्त-सर्वंसह-याग-योगा भावे-त्र केचिद् रभसेन गीर्णाः ।। 1।।
गतेद्युरासीन्नहि दर्शनार्थं क्षणोपि पार्श्वे ननु यस्य सो-यम् ।
रथ्यासु रथ्यासु परिभ्रमीभिरद्यातनोति स्वमुदारचित्तम् ।। 2।।
रथ्यासु रथ्यासु परिभ्रमीभिरद्यातनोति स्वमुदारचित्तम् ।। 2।।
यं राहुलं रायबरेलिभूमिर्मात्रा समं दत्तजया तदीयाः ।
युवान उच्चैरभिनन्दनानि स्वनायकाभ्यां दृढमाहरन्ति ।। 3।।
युवान उच्चैरभिनन्दनानि स्वनायकाभ्यां दृढमाहरन्ति ।। 3।।
पराजये कारणमीक्षमाणास्तथा तथा भाषितुमुद्धुरन्ति ।
विजातिविश्वास-तिरस्कृतानां स्वजातिवैरं प्रथमं हि तेषाम् ।। 4।।
विजातिविश्वास-तिरस्कृतानां स्वजातिवैरं प्रथमं हि तेषाम् ।। 4।।
लब्धेऽवकाशे महति स्वकीयान् योग्यानिवायोग्यतमान् महार्हैः ।
पदैः समायोजयितुं यतानामेषामलज्जत्व-ममी स्मरामः ।। 5।।
पदैः समायोजयितुं यतानामेषामलज्जत्व-ममी स्मरामः ।। 5।।
योग्यं विहायैकमयोग्यजाते भूम्नि प्रचेष्टेत यदि प्रधानः ।
विशेषकेणात्र नितान्तमेव गूढेन भाव्यं, न तदृच्छयेदम् ।। 6।।
विशेषकेणात्र नितान्तमेव गूढेन भाव्यं, न तदृच्छयेदम् ।। 6।।
हिन्दुत्वमद्यास्ति तु हीनतायाः प्रदेयदुःखस्य जनस्य चात्मा ।
चत्वार एषां चतुरो विरुद्धान् कोणान् गृणान्तीति क एषु संघः ।। 7।।
चत्वार एषां चतुरो विरुद्धान् कोणान् गृणान्तीति क एषु संघः ।। 7।।
शिखा शिरस्यस्ति विशेषकं च ललाटमध्ये प्रपुराणवेषः ।
आङ्ग्लीं न वक्तीति न तस्य पार्श्वे भ्रमादपि प्रैति चतुष्पदोपि ।। 8।।
आङ्ग्लीं न वक्तीति न तस्य पार्श्वे भ्रमादपि प्रैति चतुष्पदोपि ।। 8।।
यु-मिश्रणामिश्रणयोः समानो धातुस्तदर्थावुभयौ हि तत्र ।
अपि प्रसिद्धावितिहासपृष्ठे विश्वस्य तत्रैव तु धिग् व्रजामः ।। 9।।
अपि प्रसिद्धावितिहासपृष्ठे विश्वस्य तत्रैव तु धिग् व्रजामः ।। 9।।
आतङ्किनः केवलमत्र भूमौ भवन्ति सर्वे यदि मुस्लिमानाः ।
हिंसा ततस्तेषु न वै जुगुप्सापात्रायते क्वापि ततोस्ति तर्क्यम् ।। 10।।
हिंसा ततस्तेषु न वै जुगुप्सापात्रायते क्वापि ततोस्ति तर्क्यम् ।। 10।।
स्वपन्ति गर्त्ते भुव एतदीयाः सर्वे मृतास्तेन सुराः समेपि ।
अशङ्किताः सन्ति, न राक्षसेभ्यो यथा विभीषां दधते त्वमीभ्यः ।। 11।।
अशङ्किताः सन्ति, न राक्षसेभ्यो यथा विभीषां दधते त्वमीभ्यः ।। 11।।
ये राक्षसास्ते स्वकुलप्रधानाः प्रवत्सला ह्येषु विभान्ति भूमौ ।
पातालगास्तेन हि बन्धुभावं दधत्यमीषु क्षयमाश्रयत्सु ।। 12।।
पातालगास्तेन हि बन्धुभावं दधत्यमीषु क्षयमाश्रयत्सु ।। 12।।
ये वै द्रुमं नन्दनकाननीयं तक्षृत्वभावेन निकृत्य तुष्टाः ।
तदङ्गशाखाः गृहकुट्टिमेषु नियोज्य तुष्यन्ति गवामभक्ताः ।। 13।।
तदङ्गशाखाः गृहकुट्टिमेषु नियोज्य तुष्यन्ति गवामभक्ताः ।। 13।।
तेषाममीषां कृकलासकानां बन्धुत्वयोगेन कषायितानाम् ।
वन्याः स्त्रियः पर्शुकराः कराल्यो यद्युत्तरं स्यादथवा शतघ्न्यः ।। 14।।
वन्याः स्त्रियः पर्शुकराः कराल्यो यद्युत्तरं स्यादथवा शतघ्न्यः ।। 14।।
यैर्ध्वंसितं शासक-वास-जातं घन-प्रहारैर्दिन एव धृष्टैः ।
ये तालिवानादपि भीषणा वै सन्त्यद्य सर्वे मनुजा विरुद्धाः ।। 15।।
ये तालिवानादपि भीषणा वै सन्त्यद्य सर्वे मनुजा विरुद्धाः ।। 15।।
नेपालभूमिः क्षपिता तु साम्यवादादृतैस्तत्र वसद्भिरुग्रैः ।
महेन्द्रराज्ञोनुज आशु राजा विधानतो राजगृहान्न्यवारि ।। 16।।
महेन्द्रराज्ञोनुज आशु राजा विधानतो राजगृहान्न्यवारि ।। 16।।
नेपालभूमिः क्षपिता तमिल्गैर्लङ्कास्थलीव प्रसभं प्रहारैः ।
तत्पाशबद्धा जनता चकास्ति व्याघ्रानने कापि मृगी निराशा ।। 17।।
तत्पाशबद्धा जनता चकास्ति व्याघ्रानने कापि मृगी निराशा ।। 17।।
न नक्सला दक्षिणभूमिभागमात्रेधुना सक्रियतां व्रजन्ति ।
त एव धिग् दक्षिणकोसलेपि कश्मीरदेशेपि च भान्ति सृष्टाः ।। 18।।
त एव धिग् दक्षिणकोसलेपि कश्मीरदेशेपि च भान्ति सृष्टाः ।। 18।।
सृष्टा उद्युक्ताः ।
पुरोत्कलीयेपि वनप्रदेशे त एव शस्त्रास्त्रसमृद्धगात्राः ।
मेघालयेपि प्रथितप्रभावा आसन् सदोपद्रवमात्रलग्नाः ।। 19।।
मेघालयेपि प्रथितप्रभावा आसन् सदोपद्रवमात्रलग्नाः ।। 19।।
न नक्सलाः शासनतन्त्रमानं कुर्वन्ति ते शासनमात्मनो हि ।
स्वयंविधानं प्रविधाय नूत्नं धित्सन्ति सर्वत्र वसुन्धरायाम् ।। 20।।
स्वयंविधानं प्रविधाय नूत्नं धित्सन्ति सर्वत्र वसुन्धरायाम् ।। 20।।
समुद्रवद् भाति तु भारतं नो देशोऽयमद्योद्धतवृत्तिकानाम् ।
दुश्चेष्टितैर्वेष्टितमुद्ध्य.भिद्यप्रवाहिभिर्वारिभिरद्य यद्वत् ।। 21।।
दुश्चेष्टितैर्वेष्टितमुद्ध्य.भिद्यप्रवाहिभिर्वारिभिरद्य यद्वत् ।। 21।।
उद्ध्यभिद्यौ रामायणरघुवंशयोः प्रसिद्धौ नदौ।
चीना इदानीं यतिता निरोद्धुं लौहित्यसंज्ञं नदमस्मदीयम् ।
प्राग्ज्यौतिषस्य क्षितिमात्रमध्ये प्राणायितस्यास्ति नदः स वित्तम् ।। 22।।
प्राग्ज्यौतिषस्य क्षितिमात्रमध्ये प्राणायितस्यास्ति नदः स वित्तम् ।। 22।।
उत्तीर्य तं राजति कामरूपक्षेत्रेश्वरी पर्वतमस्तकेऽम्बा ।
तत्पूर्वशृङ्गाश्रयिणस्तु तन्त्रमन्त्रोल्बणाः केऽपि नराश्चरन्ति ।। 23।।
तत्पूर्वशृङ्गाश्रयिणस्तु तन्त्रमन्त्रोल्बणाः केऽपि नराश्चरन्ति ।। 23।।
ते दृष्टिमात्रस्य निपातनाभिर्नरं शरीरान्तरसन्निविष्टम् ।
विधाय निर्यन्त्रणमस्य भोगं कर्त्तुं क्षमन्तेऽद्य कलौ युगेऽपि ।। 24।।
विधाय निर्यन्त्रणमस्य भोगं कर्त्तुं क्षमन्तेऽद्य कलौ युगेऽपि ।। 24।।
तत्र स्थिता या कदलीमहार्हस्तम्भोरुजङ्घाजविनीः सुयोषाः ।
पश्यन्ति ते स्वर्गघृताचिकाभिः संप्रार्थितास्ता अणुमामनन्ति ।। 25।।
पश्यन्ति ते स्वर्गघृताचिकाभिः संप्रार्थितास्ता अणुमामनन्ति ।। 25।।
प्रपूर्णगर्भा अपि ता वनान्ते स्थितान् गिरींल्लङ्घयितुं क्षमन्ते ।
अस्मिन् क्रमे चेत् प्रसवोऽपि धत्ते पदं न दूना ननु ता भवन्ति ।। 26।।
अस्मिन् क्रमे चेत् प्रसवोऽपि धत्ते पदं न दूना ननु ता भवन्ति ।। 26।।
ताः संप्रसूतं निजजातकं वै वस्त्रेण पृष्ठेष्ववदानयन्ति ।
आरोहणाभिक्रममन्तरायं विनैव किन्तु प्रतिपूरयन्ति ।। 27।।
आरोहणाभिक्रममन्तरायं विनैव किन्तु प्रतिपूरयन्ति ।। 27।।
नास्त्येव तासामशनस्य चिन्ता काकादिभिः क्षुत्परिशामिकानाम् ।
न स्वादचिन्ता, न रसस्य काङ्क्षा, वैश्वानरस्य प्रशमे स्थिराणाम् ।। 28।।
न स्वादचिन्ता, न रसस्य काङ्क्षा, वैश्वानरस्य प्रशमे स्थिराणाम् ।। 28।।
मनुष्ययात्राप्यमनुष्ययात्रैवासां समासां त्रपयोज्झितानाम् ।
प्रशान्तकामाः कथमप्यनिष्टाभीष्टद्वयीवर्जितशान्तखर्जाः ।। 29।।
प्रशान्तकामाः कथमप्यनिष्टाभीष्टद्वयीवर्जितशान्तखर्जाः ।। 29।।
व्याधिर्न वाऽऽधिः क्षणुते शरीरमाभ्यन्तरं बाह्यमिवैव तासु ।
मृगीसगन्धास्वभिमानशून्यास्वद्यत्वचिन्ता.निभृतान्तरासु ।। 30।।
मृगीसगन्धास्वभिमानशून्यास्वद्यत्वचिन्ता.निभृतान्तरासु ।। 30।।
न कोऽपि शापस्य करोति पातं न चापि तस्माद् भयमेव तासाम् ।
उन्मुक्तचिन्ता न च ता बलाढ्या न चाबलात्वप्रतिकीलिताश्च ।। 31।।
उन्मुक्तचिन्ता न च ता बलाढ्या न चाबलात्वप्रतिकीलिताश्च ।। 31।।
रे सर्वविद्यालयशासकेन्द्रास्तस्मै मनुष्याय तु किं तवार्घ्यम् ।
न यत्र बन्धो न च कोऽपि मोक्षो न दर्शनं नापि च तस्य चिन्ता ।। 32।।
न यत्र बन्धो न च कोऽपि मोक्षो न दर्शनं नापि च तस्य चिन्ता ।। 32।।
यद् ब्रह्मविज्ञानममुष्य कार्यं संपाद्यतेऽज्ञानविवर्जनाभिः ।
रोगो न कायेऽस्ति ततः क्रियेत किं भेषजानां समुपार्जनाभिः ।। 33।।
रोगो न कायेऽस्ति ततः क्रियेत किं भेषजानां समुपार्जनाभिः ।। 33।।
न कुक्कुरी कापि पतिव्रताऽस्ति न पुंश्चली वाऽपि विधानमुक्ता ।
यद्वै विधानं ननु तस्य वैधी संपालना धर्म इतीर्यतेऽत्र ।। 34।।
यद्वै विधानं ननु तस्य वैधी संपालना धर्म इतीर्यतेऽत्र ।। 34।।
न चेद् विधानं किमपि प्रसिद्धं नोल्लङ्घनस्यापि ततोऽस्ति गाथा ।
अतः समा स्वर्गमही सदैव निःसंकटा तिष्ठतु निर्नवीना ।। 35।।
अतः समा स्वर्गमही सदैव निःसंकटा तिष्ठतु निर्नवीना ।। 35।।
मुखे क्षिपामो जठरे गिलामो जीर्णं मलीकृत्य समुत्सृजामः ।
रक्तात्मनात्मन्युपधाय, किन्तु सर्वेऽसुमन्तो बत निश्श्वसामः ।। 36।।
रक्तात्मनात्मन्युपधाय, किन्तु सर्वेऽसुमन्तो बत निश्श्वसामः ।। 36।।
सा रक्तनिर्माणसृतिर्विधात्राऽध्युष्टाऽस्ति यावत् प्रलयो न तावत् ।
तस्या निरोधे महिषा यमस्य नीरन्ध्रनृत्याः क्व नु नो नटन्ति ।। 37।।
तस्या निरोधे महिषा यमस्य नीरन्ध्रनृत्याः क्व नु नो नटन्ति ।। 37।।
सा रक्तधारा विकृता बभूव श्रीकृष्ण-कालेऽजनि भारतं यत् ।
अनीनटंस्तां परिपीय युद्धस्थले पिशाचा इव वञ्चकाश्च ।। 38।।
अनीनटंस्तां परिपीय युद्धस्थले पिशाचा इव वञ्चकाश्च ।। 38।।
तयैव सर्वा अपि ताटकाश्च हृष्टाश्च पुष्टाश्च दरीद्रवन्ति ।
रामाभिधानेन च मन्मथेन विद्धा शरैरात्मगतं श्रयन्ति ।। 39।।
रामाभिधानेन च मन्मथेन विद्धा शरैरात्मगतं श्रयन्ति ।। 39।।
अय्यद्यमानुष्यक! किं विनिद्रः पिपासितस्तिष्ठसि, तेऽशनाया ।
प्रवर्धमानैव निरन्तरं हि क्लिश्नाति तेऽन्तस्तटिनीं रसस्य ।। 40।।
प्रवर्धमानैव निरन्तरं हि क्लिश्नाति तेऽन्तस्तटिनीं रसस्य ।। 40।।
मुण्डेष्वमीषां चिकुरा इदानीमपि प्रवृद्धिं दधतेऽभ्रधूम्राम् ।
क्षुरस्य धारैव तु तेस्ति कुण्ठां गता महानापित! किं न्वमीषु ।। 41।।
क्षुरस्य धारैव तु तेस्ति कुण्ठां गता महानापित! किं न्वमीषु ।। 41।।
प्रलम्बकूर्चाः किमु तलिवानाः लसन्ति सर्वेपि दिशां विताने ।
अये महानापित! तिग्मतां त्वं क्षुरस्य धारां नयसि न्विदानीम् ।। 42।।
अये महानापित! तिग्मतां त्वं क्षुरस्य धारां नयसि न्विदानीम् ।। 42।।
येषां महान्तोजगरा बिलानि प्रवेष्टुमिच्छन्ति सफूत्कृतास्ते ।
द्वाराणि पक्षैः पिहितानि दर्शं दर्शं समुत्प्लावयितुं यतन्ते ।। 43।।
द्वाराणि पक्षैः पिहितानि दर्शं दर्शं समुत्प्लावयितुं यतन्ते ।। 43।।
ये रान्ति तान् ये न च रान्ति तांश्च भुशुण्डिकाभिः परितर्पयन्तः ।
प्रभञ्जनानां तनया भवन्ति सर्वेऽप्यमी दारुषु तालिवानाः ।। 44।।
प्रभञ्जनानां तनया भवन्ति सर्वेऽप्यमी दारुषु तालिवानाः ।। 44।।
रे मारवा दारुसुताः कुतो वै यूयं समे तालिवनोपतापैः ।
प्रतापिता अप्यपराधदीक्षाव्रतानरातीन् नहि विद्रवध्वम् ।। 45।।
प्रतापिता अप्यपराधदीक्षाव्रतानरातीन् नहि विद्रवध्वम् ।। 45।।
द्रुता अपीमे यदि रक्तबीजीभूताः सहस्राणि सहस्रशः स्युः ।
प्रवर्धमानाः, न भयं ततोपि दधीमहि द्रावितकालिकाः स्मः ।। 46।।
प्रवर्धमानाः, न भयं ततोपि दधीमहि द्रावितकालिकाः स्मः ।। 46।।
घण्टाध्वनिर्धावति यासु दिक्षु तस्याः सवित्र्याः शिवतातिसूतेः ।
न तत्र भूयासुरिमे समेपि संकल्पभाजः स्फुरितुं कृतघ्नाः ।। 47।।
न तत्र भूयासुरिमे समेपि संकल्पभाजः स्फुरितुं कृतघ्नाः ।। 47।।
तस्याः सवित्र्याः स्तनयोः स्रवन्त्यो याः सन्ति पीयूषरसस्य धाराः ।
परिप्लुतास्ताभिरमी समेपि प्रणामपुण्याञ्जलयो लसामः ।। 48।।
परिप्लुतास्ताभिरमी समेपि प्रणामपुण्याञ्जलयो लसामः ।। 48।।
रसस्य तृप्तास्तनयास्तदीयान् स्तन्योदधीन् प्राश्य समाप्ततर्षाः ।
हर्षाञ्चिता ये ननु तृप्तियोग-निद्रालवः सन्ततमानटामः ।। 49।।
हर्षाञ्चिता ये ननु तृप्तियोग-निद्रालवः सन्ततमानटामः ।। 49।।
सा मां महादेवतृतीयनेत्रे हविष्यदोग्ध्यां शशिनः कलायाम् ।
दोलायितायां विनिधाय मुग्धं मुग्धानना दोलयते त्रिसन्ध्यम् ।। 50।।
दोलायितायां विनिधाय मुग्धं मुग्धानना दोलयते त्रिसन्ध्यम् ।। 50।।
तस्यां तदीयाननचन्द्रिकायां दृशं स्वकीयामुपधाय तिष्ठन् ।
समस्तकृत्याभिरुचेर्विरामारामेषु निष्पन्दनतां भजामः ।। 51।।
समस्तकृत्याभिरुचेर्विरामारामेषु निष्पन्दनतां भजामः ।। 51।।
तदेकतन्त्राः स्म इमे स्वतन्त्राः न पारतन्त्र्यै कपरायणा नो ।
तत्पारतन्त्र्या वधि-जीवितानामस्माकमेषैव गतिर्महार्हा ।। 52।।
तत्पारतन्त्र्या वधि-जीवितानामस्माकमेषैव गतिर्महार्हा ।। 52।।
अम्ब त्वरस्व करुणां दृशमात्मनस्त्वं
निष्पत्रपुत्रक इवाण्डजिनी दधीहि ।
स्वातन्त्र्यसंभवमिदं निजरूपकाव्यं
दत्वाशिषां शतशतीं परिवर्वृधीहि ।। 53।।
निष्पत्रपुत्रक इवाण्डजिनी दधीहि ।
स्वातन्त्र्यसंभवमिदं निजरूपकाव्यं
दत्वाशिषां शतशतीं परिवर्वृधीहि ।। 53।।
साहस्रिकां पञ्चगुणां विचित्रवर्णाममूषां शिशुपद्यकानाम् ।
सौरभ्यगर्भां स्रजमङ्घ्रितीर्थे तवाम्ब नत्वा प्रतिपादयामि ।। 54।।
सौरभ्यगर्भां स्रजमङ्घ्रितीर्थे तवाम्ब नत्वा प्रतिपादयामि ।। 54।।
एकैकमत्र सुमनस्सु तवाङ्घ्रितीर्थं
स्पृष्ट्वा चिनोतु परमात् परमं बलं तत् ।
यद् विश्वमङ्गलमयं मुकुरत्वमेत्य
द्यावाभुवोः प्रतिकणं प्रतिबिम्बयेत ।। 55।।
स्पृष्ट्वा चिनोतु परमात् परमं बलं तत् ।
यद् विश्वमङ्गलमयं मुकुरत्वमेत्य
द्यावाभुवोः प्रतिकणं प्रतिबिम्बयेत ।। 55।।
स्वस्त्यस्तु मानवकुलस्य समुद्रगर्भ-
द्वीपेषु वासमहितस्य परात् परस्य ।
षण्मासवासरमतीत्य च तत्प्रमाणां
रात्रिं प्रविश्य परितः प्रतिमूर्छितस्य ।। 56।।
द्वीपेषु वासमहितस्य परात् परस्य ।
षण्मासवासरमतीत्य च तत्प्रमाणां
रात्रिं प्रविश्य परितः प्रतिमूर्छितस्य ।। 56।।
कुक्षिर्विमानपदवीमहितस्तु भूया-
न्निष्कालुषीक-किरणोत्किरणोऽखिलानाम् ।
जीवात्मनां कुशल-वर्षणकृत्यनिष्ठे
यस्मिन् निवासमुपयात्यपि सौरभेयी ।। 57।।
न्निष्कालुषीक-किरणोत्किरणोऽखिलानाम् ।
जीवात्मनां कुशल-वर्षणकृत्यनिष्ठे
यस्मिन् निवासमुपयात्यपि सौरभेयी ।। 57।।
नन्दिनी सा।।56।।
रेऽशोकपादप तव श्रियमस्तु पूर्णं
विश्वं प्रणम्य च विलिप्य च राजमानम् ।
तत्पुष्पगुच्छकशते प्रचकास्ति रक्तं
पीतं च किञ्चन महः स्मरशायिके नु ।। 58।।
विश्वं प्रणम्य च विलिप्य च राजमानम् ।
तत्पुष्पगुच्छकशते प्रचकास्ति रक्तं
पीतं च किञ्चन महः स्मरशायिके नु ।। 58।।
हे शान्तसागर तवातितरां सुषीमे
तीरेस्ति पौरुषधनो रुचिरः पुमान् यः ।
स्यात् स्वस्तिकामुक इहामृतवारिदाली
सान्तत्ययोगसुभगा परिवर्षणासु ।। 59।।
तीरेस्ति पौरुषधनो रुचिरः पुमान् यः ।
स्यात् स्वस्तिकामुक इहामृतवारिदाली
सान्तत्ययोगसुभगा परिवर्षणासु ।। 59।।
दुग्धं कदाचिदमृतं भवतः शरीरं
निर्मथ्य तस्य समयो ननु यातयामः ।
पुत्रीं तवाद्य पुनरप्युपयन्तुकामो
विष्णुश्चकास्ति ननु विश्वमयः पुनश्च ।। 60।।
निर्मथ्य तस्य समयो ननु यातयामः ।
पुत्रीं तवाद्य पुनरप्युपयन्तुकामो
विष्णुश्चकास्ति ननु विश्वमयः पुनश्च ।। 60।।
वृन्दावनेषु रमते यदि गोपिकाभि-
स्तत्रास्ति कापि यमुनैव हि हेतुभूता ।
अस्मिन् सुगन्धिनि पुरे विविधास्तु कुल्या
राजन्ति पश्य यमुना सिकता न यासु ।। 61।।
स्तत्रास्ति कापि यमुनैव हि हेतुभूता ।
अस्मिन् सुगन्धिनि पुरे विविधास्तु कुल्या
राजन्ति पश्य यमुना सिकता न यासु ।। 61।।
वृन्दावने भवति कश्चन दीर्घदीर्घो
ग्रीष्मः प्रयाति यमुनापि हि यत्र कार्श्यम् ।
पश्यात्र देव न हि वह्निमुगस्ति वातः
शीतं हि वर्षमिह राजति वह्निशातः ।। 62।।
ग्रीष्मः प्रयाति यमुनापि हि यत्र कार्श्यम् ।
पश्यात्र देव न हि वह्निमुगस्ति वातः
शीतं हि वर्षमिह राजति वह्निशातः ।। 62।।
तुभ्यं नमः परमपूरुष भारतेभ्यो
यात्रां तनुष्व च भजस्व च भूमिमेताम् ।
अत्राप्स्यसि त्वमधुनातनदिव्यगात्री-
र्गोपाङ्गनाश्च यमुनाशतकं च रम्यम् ।। 63।।
यात्रां तनुष्व च भजस्व च भूमिमेताम् ।
अत्राप्स्यसि त्वमधुनातनदिव्यगात्री-
र्गोपाङ्गनाश्च यमुनाशतकं च रम्यम् ।। 63।।
निर्दंशमक्षिकमिदं ननु धाम सूर्यः
प्राकाम्यतस्तपति किन्तु न चण्डरश्मिः ।
यच्चन्द्रबिम्बमिह तच्च महीतले हि
काचायनेषु परितः परिवर्तते हि ।। 64।।
प्राकाम्यतस्तपति किन्तु न चण्डरश्मिः ।
यच्चन्द्रबिम्बमिह तच्च महीतले हि
काचायनेषु परितः परिवर्तते हि ।। 64।।
वर्णेन गौर-वपुषामबलाजनानां
केशा भवन्ति भरते भुवने तु कृष्णाः ।
अत्रापि सैव भगवन् स्थितिरस्ति शिक्षां
लास्यस्य दास्यसि परं भगवान् हि ताभ्यः ।। 65।।
केशा भवन्ति भरते भुवने तु कृष्णाः ।
अत्रापि सैव भगवन् स्थितिरस्ति शिक्षां
लास्यस्य दास्यसि परं भगवान् हि ताभ्यः ।। 65।।
गोल्फं च खेलमिह खेलितुमर्हसि त्वं
यत्रास्ति कन्दुकमयी ननु कापि लीला ।
अत्रापि चेत् पतति पाथसि कन्दुकं तद्
ग्राहान्वितं भवति तेषु नटिष्यसि त्वम् ।। 66।।
यत्रास्ति कन्दुकमयी ननु कापि लीला ।
अत्रापि चेत् पतति पाथसि कन्दुकं तद्
ग्राहान्वितं भवति तेषु नटिष्यसि त्वम् ।। 66।।
गोवर्धनानि च शिरांसि लसन्त्यनेका-
न्यत्रापि वर्षति भृशं च महेन्द्रकोपि ।
उत्थाप्य तानि शमयिष्यसि खर्जनां च
बाह्नोर्युगस्य गिरिधारणया समुत्थाम् ।। 67।।
न्यत्रापि वर्षति भृशं च महेन्द्रकोपि ।
उत्थाप्य तानि शमयिष्यसि खर्जनां च
बाह्नोर्युगस्य गिरिधारणया समुत्थाम् ।। 67।।
गर्त्ता न सन्ति पथि यत्र, नितान्तमेव
मासृण्ययोगसुभगे क्वचिदप्यणीयान् ।
नो दृश्यतेऽवकरबिन्दुरपि त्वरन्ते
स्वर्गादिहैव भुवि देवजना वतर्तुम् ।। 68।।
मासृण्ययोगसुभगे क्वचिदप्यणीयान् ।
नो दृश्यतेऽवकरबिन्दुरपि त्वरन्ते
स्वर्गादिहैव भुवि देवजना वतर्तुम् ।। 68।।
स्वातन्त्र्यसंभवगतं शिवतातिकाव्यं
कण्ठस्थितं तदिदमादरतः पराम्बा ।
स्वां कच्छपीं मुखरयन्त्यभिगातुकामा
नूनं भविष्यति, शमं भवति प्रियं हि ।। 69।।
कण्ठस्थितं तदिदमादरतः पराम्बा ।
स्वां कच्छपीं मुखरयन्त्यभिगातुकामा
नूनं भविष्यति, शमं भवति प्रियं हि ।। 69।।
काशीश्वरावपि तदेतदवश्यमेव
पृष्ठे स्थितौ रसगुरोर्ननु नन्दिकस्य ।
श्रुत्वा प्रहर्षभरनिर्भरचित्तकोषौ
तुष्टौ भविष्यत इयं स्तुतिरेतयोर्हि ।। 70।।
पृष्ठे स्थितौ रसगुरोर्ननु नन्दिकस्य ।
श्रुत्वा प्रहर्षभरनिर्भरचित्तकोषौ
तुष्टौ भविष्यत इयं स्तुतिरेतयोर्हि ।। 70।।
धारापतिश्च भगवान् हरसिद्धिमात्रा
प्रोद्बोधितः स खलु कालविभुर्महात्मा ।
भावी प्रसन्न इह काव्यगुरुः स एव
श्रेष्ठः स एव च महान् कवितोपदेष्टा ।। 71।।
प्रोद्बोधितः स खलु कालविभुर्महात्मा ।
भावी प्रसन्न इह काव्यगुरुः स एव
श्रेष्ठः स एव च महान् कवितोपदेष्टा ।। 71।।
कृष्णेनार्जुनवत्सलेन यदिदं युद्धे महाभारते
रूपं किञ्चन दर्शितं भवतु वै तच्चापि संतोषितम् ।
यत् किञ्चिन्निरवद्यमत्र यदपि स्वस्थं परं सुन्दरं
यत्, तस्यार्चनमेव कापि कविता सानातनी मङ्गला ।। 72।।
रूपं किञ्चन दर्शितं भवतु वै तच्चापि संतोषितम् ।
यत् किञ्चिन्निरवद्यमत्र यदपि स्वस्थं परं सुन्दरं
यत्, तस्यार्चनमेव कापि कविता सानातनी मङ्गला ।। 72।।
इति श्रीस्वातन्त्र्य सम्भवे महाकाव्ये सनातनकविश्रीरेवाप्रसादद्विवेदिकृतौ
विश्वस्वस्तिवचो नाम सप्ततिः सर्गः ।। 70।।