लवकुशपिता सद्दामाख्यो बभूव विदेहजा-
प्रिय इव मरावीराकाख्ये य एव चमूपतिः ।
स हि निगरणापात्रं चक्रे कुवेतभुवं बला-
दुदरकुहरात् तस्या लब्धुं तु तैलमहोदधिम् ।। 1।।
प्रिय इव मरावीराकाख्ये य एव चमूपतिः ।
स हि निगरणापात्रं चक्रे कुवेतभुवं बला-
दुदरकुहरात् तस्या लब्धुं तु तैलमहोदधिम् ।। 1।।
असहत न तद् योरोपाख्योऽप्यमीरिकया समं
त्वचि धवलिमस्निग्धो देशस्तयोरनयोर्युगी ।
गगनचलितैर्यानैर् यीराकभूमिमजीगृभत्
स च तदधिपः सद्दामाख्यो बिलेशयतामितः ।। 2।।
त्वचि धवलिमस्निग्धो देशस्तयोरनयोर्युगी ।
गगनचलितैर्यानैर् यीराकभूमिमजीगृभत्
स च तदधिपः सद्दामाख्यो बिलेशयतामितः ।। 2।।
कथमपि चरा अम्रीकीयाः कुतश्चिदपि व्यधुः
स्थितिममुममुष्यैतां ज्ञातां तथाच ततो बलात् ।
निगडितवपुः कृत्वा चानाययन्नुपरि स्मयो
दधिनिपतितं यद्वत् कुर्वन्त आवनिकं जगत् ।। 3।।
स्थितिममुममुष्यैतां ज्ञातां तथाच ततो बलात् ।
निगडितवपुः कृत्वा चानाययन्नुपरि स्मयो
दधिनिपतितं यद्वत् कुर्वन्त आवनिकं जगत् ।। 3।।
अथ बहुविधं युद्धं प्रज्वालनादिभिरञ्चितं
बहुतिथमभूत् तत्रैवेराकभूमितले नृणाम् ।
अमरनगरीतुल्यं वग्दादपत्तनमीक्ष्यते
क्षण इह ततः स्मोग्रं वेतालपत्तनसन्निभम् ।। 4।।
बहुतिथमभूत् तत्रैवेराकभूमितले नृणाम् ।
अमरनगरीतुल्यं वग्दादपत्तनमीक्ष्यते
क्षण इह ततः स्मोग्रं वेतालपत्तनसन्निभम् ।। 4।।
तनययुगली यत्राप्यासीत् तदा भुवनेऽस्य सा
प्रसभमुपलभ्याम्रीकीयैर् जनैर्हहहा हता ।
नव-भवनगां सर्वा हृत्वा च संपदमाचरं-
श्चरितमनृताऽऽचारप्रातीपिकोचितकश्मलम् ।। 5।।
प्रसभमुपलभ्याम्रीकीयैर् जनैर्हहहा हता ।
नव-भवनगां सर्वा हृत्वा च संपदमाचरं-
श्चरितमनृताऽऽचारप्रातीपिकोचितकश्मलम् ।। 5।।
अथ स बली सद्दामाख्यः स्व एव महीतले
प्रचलिततरे न्याय्ये वादेऽपराधितया स्थितः ।
अलभत गले पाशं विश्वेन दूरतमस्थिते-
न नयनगतं धिग्धिक् प्रस्वापितश्चिरमीलने ।। 6।।
प्रचलिततरे न्याय्ये वादेऽपराधितया स्थितः ।
अलभत गले पाशं विश्वेन दूरतमस्थिते-
न नयनगतं धिग्धिक् प्रस्वापितश्चिरमीलने ।। 6।।
वदति स तदा निर्भीको मेऽस्ति नैव मतोऽसकौ
भवदधिकृतो न्याये पीठस्ततश्च स निर्णयः ।
न खलु विहितस्तेन स्वीकार्य एव ममेत्यहो
श्रवसि न कृतः केनाप्युच्चैस्तरां स्थितिमीयुषा ।। 7।।
भवदधिकृतो न्याये पीठस्ततश्च स निर्णयः ।
न खलु विहितस्तेन स्वीकार्य एव ममेत्यहो
श्रवसि न कृतः केनाप्युच्चैस्तरां स्थितिमीयुषा ।। 7।।
इह बुश इति ख्यातोऽम्रीकाधिपः पुनराप्तवान्
बहुजनमतो भूत्वा पूर्वं स्वराष्ट्रपतेः पदम् ।
न च गणनया दूरे त्यक्तं निजार्थमहाक्षयं
स्मृतिमपि गतं तादृग् राष्ट्रप्रजाऽद्य चिकीर्षते ।। 8।।
बहुजनमतो भूत्वा पूर्वं स्वराष्ट्रपतेः पदम् ।
न च गणनया दूरे त्यक्तं निजार्थमहाक्षयं
स्मृतिमपि गतं तादृग् राष्ट्रप्रजाऽद्य चिकीर्षते ।। 8।।
श्वसिति जनता पूर्णा विश्वस्य हालहलाचिते
गगन उरुधा सोढं सोढं रुजः सलिलं विना ।
पलभुज इमे नान्नं शुद्धं समुत्सुकिनोऽवितुं
गरलविषमांस्तांस्तान् निर्मित्सवो बत दोहदान् ।। 9।।
गगन उरुधा सोढं सोढं रुजः सलिलं विना ।
पलभुज इमे नान्नं शुद्धं समुत्सुकिनोऽवितुं
गरलविषमांस्तांस्तान् निर्मित्सवो बत दोहदान् ।। 9।।
धनमधिकतां यातं प्राप्तुं क्षमा इति पार्थिवी-
मपि विषमयीं कर्त्तुं नो वै कृषिं विचिकित्सवः ।
वरुणककुभो राष्ट्राध्यक्षाः समेऽपि चिकीर्षवोऽ-
भिनवतमं किञ्चिन् नूत्नं समुत्सुकिनोऽन्वहम् ।। 10।।
मपि विषमयीं कर्त्तुं नो वै कृषिं विचिकित्सवः ।
वरुणककुभो राष्ट्राध्यक्षाः समेऽपि चिकीर्षवोऽ-
भिनवतमं किञ्चिन् नूत्नं समुत्सुकिनोऽन्वहम् ।। 10।।
नयनयुगले भूत्वा तैमीरिका अमरीकिणः
करतलगतद्रव्योच्छ्राया अमी परिधाविताः ।
निपतनभयाद् दूरे त्यक्ता इमे विषमामपि
नियतिलतिकां पार्श्वे स्थास्नुं न वै दृशि कुर्वते ।। 11।।
करतलगतद्रव्योच्छ्राया अमी परिधाविताः ।
निपतनभयाद् दूरे त्यक्ता इमे विषमामपि
नियतिलतिकां पार्श्वे स्थास्नुं न वै दृशि कुर्वते ।। 11।।
परमपि युगं शत्रोः सद्दामपक्षगतं गतिं
कतिपयदिनादूर्ध्व तामेव धिग्धिगवापितम् ।
अभवदनयोरेकं मूर्ध्ना पृथक्कृतमञ्जसा
रुधिरभरितक्षेत्रं चाप्यत्र घातितपातितम् ।। 12।।
कतिपयदिनादूर्ध्व तामेव धिग्धिगवापितम् ।
अभवदनयोरेकं मूर्ध्ना पृथक्कृतमञ्जसा
रुधिरभरितक्षेत्रं चाप्यत्र घातितपातितम् ।। 12।।
सद्दामादिभिरात्मनस्तु रिपवः प्राग्घातिताः संख्यया
याता ये शतिकामतीत्य बहवस्तेषां कृते दोषभाक् ।
सद्दामोऽप्यभवत् तथैव च परे तत्साह्यकृत्सत्तमा-
स्ते सर्वे ननु मृत्युदण्डमभवन् योग्यास्तु भोक्तुं क्षमाः ।। 13।।
याता ये शतिकामतीत्य बहवस्तेषां कृते दोषभाक् ।
सद्दामोऽप्यभवत् तथैव च परे तत्साह्यकृत्सत्तमा-
स्ते सर्वे ननु मृत्युदण्डमभवन् योग्यास्तु भोक्तुं क्षमाः ।। 13।।
एषा या प्रतिपत्तिरस्ति विदुषामेषा वराकी मतौ
प्रादुर्भावमवापदद्य सहसा वन्दीकृते शात्रवे ।
अस्याः संशयदिग्धता स्वयमतो प्रादुर्भवत्यञ्जसा
यस्मान् न्यायकृतां दलं स्वयमहो संस्थापितं शत्रुभिः ।। 14।।
प्रादुर्भावमवापदद्य सहसा वन्दीकृते शात्रवे ।
अस्याः संशयदिग्धता स्वयमतो प्रादुर्भवत्यञ्जसा
यस्मान् न्यायकृतां दलं स्वयमहो संस्थापितं शत्रुभिः ।। 14।।
शतं वारान् प्राणान् दशतु रिपुरास्ते न तु मना-
गिहापत्तिः शुद्धो भवति यदि मार्गोऽस्य रिपवे ।
अशुद्धौ मार्गस्य प्रभवति जनः संशयशता-
न्युपस्थातुं दण्डं प्रददति महत्यप्यभिजने ।। 15।।
गिहापत्तिः शुद्धो भवति यदि मार्गोऽस्य रिपवे ।
अशुद्धौ मार्गस्य प्रभवति जनः संशयशता-
न्युपस्थातुं दण्डं प्रददति महत्यप्यभिजने ।। 15।।
पाकस्थानगतो मुशर्रफ इति ख्यातोऽभियोगाय किं
नास्ते पात्रमथो बुशोऽपि सुमहानास्ते तथा नो कथम् ।
श्वश्चेद् राष्ट्रपतेः पदे प्रभवति स्थातुं विपक्षस्तदा
तस्मात् सर्वमवेक्ष्य शास्तृनिवहैर् न्याय्या सृतिः श्रीयते ।। 16।।
नास्ते पात्रमथो बुशोऽपि सुमहानास्ते तथा नो कथम् ।
श्वश्चेद् राष्ट्रपतेः पदे प्रभवति स्थातुं विपक्षस्तदा
तस्मात् सर्वमवेक्ष्य शास्तृनिवहैर् न्याय्या सृतिः श्रीयते ।। 16।।
विश्वं ध्वंसितुमाणवं खलु बलं सद्दाम आसीसदत्
तस्मादेव तु तं वशे प्रचकमे कर्त्तुं बुशः शुद्धधीः ।
इत्येतस्य कृतेऽभियुक्तिपृथिवीधर्तुः प्रमाणं किम-
प्याप्तं तत्र न तेन संशयितता तस्य क्रमेऽभ्युत्थिता ।। 17।।
तस्मादेव तु तं वशे प्रचकमे कर्त्तुं बुशः शुद्धधीः ।
इत्येतस्य कृतेऽभियुक्तिपृथिवीधर्तुः प्रमाणं किम-
प्याप्तं तत्र न तेन संशयितता तस्य क्रमेऽभ्युत्थिता ।। 17।।
क्लिण्टन्नामकराष्ट्रपस्य शिरसि प्रापाति दोषो महान्
दास्या यौवनदोहनस्य सहसा सोऽप्यापदुच्चैः स्थितिम् ।
किन्त्वासीन्ननु तस्य बाहुमतता प्रान्ते सदस्यास्पदं
मुक्तेस्तेन स जात आपुरपरे घातं हि राष्ट्राधिपाः ।। 18।।
दास्या यौवनदोहनस्य सहसा सोऽप्यापदुच्चैः स्थितिम् ।
किन्त्वासीन्ननु तस्य बाहुमतता प्रान्ते सदस्यास्पदं
मुक्तेस्तेन स जात आपुरपरे घातं हि राष्ट्राधिपाः ।। 18।।
गान्धीन्दिरापि चरणेन निगृह्य कारां
संप्रापिता कतिपयानथ तत्र वारान् ।
सोवास किञ्च नरसिंह इति प्रतीतो
विद्वानपि प्रपतितो बत निग्रहेषु ।। 19।।
संप्रापिता कतिपयानथ तत्र वारान् ।
सोवास किञ्च नरसिंह इति प्रतीतो
विद्वानपि प्रपतितो बत निग्रहेषु ।। 19।।
राजीवगान्धिनि शुचावपि कश्चिदासी-
दुत्थापितो बत बुफोर्सधनापदेशः ।
तस्योपशान्तिमकरोन्ननु तस्य घातः
पोरुम्बुदूरुनगरे खलु यस्तु जातः ।। 20।।
दुत्थापितो बत बुफोर्सधनापदेशः ।
तस्योपशान्तिमकरोन्ननु तस्य घातः
पोरुम्बुदूरुनगरे खलु यस्तु जातः ।। 20।।
अड्वानी गतवान् मुशर्रफभुवं दृष्ट्वा च तस्मिन् जिना-
कब्रं कीर्त्तिमगायतास्य नितरां राष्ट्रेऽत्र खेदावहम् ।
सोऽयं संप्रति राजते भरतभूप्राधान्यभाग् भाविनि
स्वे निर्वाचनसङ्गरे बहुमतं लब्धं यदि स्पष्टतः ।। 21।।
कब्रं कीर्त्तिमगायतास्य नितरां राष्ट्रेऽत्र खेदावहम् ।
सोऽयं संप्रति राजते भरतभूप्राधान्यभाग् भाविनि
स्वे निर्वाचनसङ्गरे बहुमतं लब्धं यदि स्पष्टतः ।। 21।।
ईराकभूमिरभवत् खलु सस्यरम्या
वारिप्रपूर्तिमहिताऽथ च तैलगर्भा ।
तस्या अधिग्रहिरभून्महतेऽधिकर्तु-
र्लाभाय तत्र ननु गर्जति स स्म दामः ।। 22।।
वारिप्रपूर्तिमहिताऽथ च तैलगर्भा ।
तस्या अधिग्रहिरभून्महतेऽधिकर्तु-
र्लाभाय तत्र ननु गर्जति स स्म दामः ।। 22।।
अम्रीकदेशभवनोत्तमयुग्मनाश-
तन्त्रेऽप्यभून् निभृत साह्यकृदेष दामा ।
तातं बुशस्य गतराष्ट्रपतिं जिघांसु-
रासीदसावथ च तत्र बुशो जिघांसुः ।। 23।।
तन्त्रेऽप्यभून् निभृत साह्यकृदेष दामा ।
तातं बुशस्य गतराष्ट्रपतिं जिघांसु-
रासीदसावथ च तत्र बुशो जिघांसुः ।। 23।।
आसीच्च नास्य सुहृदेषु महीतलेषु
मोहम्मदैरधिकृतेषु; ततो हि शत्रुः ।
प्राबीभवन्निह पराक्रमणाय जातः
कार्तार्थ्यभाक् च; भजते क्व नु वृद्धिमेकः ।। 24।।
मोहम्मदैरधिकृतेषु; ततो हि शत्रुः ।
प्राबीभवन्निह पराक्रमणाय जातः
कार्तार्थ्यभाक् च; भजते क्व नु वृद्धिमेकः ।। 24।।
ईराणराज्यमभवत् प्रविशालमृद्धं
भूम्ना च तैलधनतश्च तथापि दामः।
तेनारिभावमभजन् निजमुच्चभावं
चैवाभ्यमंस्त भयमोचितचित्तकोषः ।। 25।।
भूम्ना च तैलधनतश्च तथापि दामः।
तेनारिभावमभजन् निजमुच्चभावं
चैवाभ्यमंस्त भयमोचितचित्तकोषः ।। 25।।
स्वीयं वधं स समघोषयदन्तकाले
देशाय हन्त बलिदानमतश्च स स्वम् ।
पङ्क्तौ हुतात्मजनुषिस्थितिमाप्तुमैच्छत्
सर्वप्रभुं च सकुराणकरोऽस्मरच्च ।। 26।।
देशाय हन्त बलिदानमतश्च स स्वम् ।
पङ्क्तौ हुतात्मजनुषिस्थितिमाप्तुमैच्छत्
सर्वप्रभुं च सकुराणकरोऽस्मरच्च ।। 26।।
कालं स कोटवसनं परिधाय शुभ्रे
वासस्युवाह कदलीदलगर्भगौरः ।
काञ्चिच्छ्रियं हृदयहारिविधानभूतां
निर्भीकताञ्च युवभावयुतं वपुश्च ।। 27।।
वासस्युवाह कदलीदलगर्भगौरः ।
काञ्चिच्छ्रियं हृदयहारिविधानभूतां
निर्भीकताञ्च युवभावयुतं वपुश्च ।। 27।।
पश्चाच्च हन्त ददृशे स हि शुभ्रवस्त्र-
संवेष्टितः शिरसि किञ्चन लक्ष्यगात्रः ।
निश्चेष्टतां दधदतीव विरामहीनां
भूगर्भमात्रशयनाय विनिश्चिताञ्च ।। 28।।
संवेष्टितः शिरसि किञ्चन लक्ष्यगात्रः ।
निश्चेष्टतां दधदतीव विरामहीनां
भूगर्भमात्रशयनाय विनिश्चिताञ्च ।। 28।।
खर्वं वपुः स शिरसि श्रितसैनिकाङ्ग-
वस्त्रो यमप्यरिषु भर्त्सयति स्म शूरः ।
निद्रा न तस्य नयने परिरिप्सति स्म
हृत्कोष आश्रयति च स्म विकम्पवात्याः ।। 29।।
वस्त्रो यमप्यरिषु भर्त्सयति स्म शूरः ।
निद्रा न तस्य नयने परिरिप्सति स्म
हृत्कोष आश्रयति च स्म विकम्पवात्याः ।। 29।।
शत्रोः करे निपतितस्य भयानकस्य
वन्यस्य सिंहयुवकस्य गतिस्त्वियं धिक् ।
सिंहत्वमस्य कुह यातमहो क्व चास्य
यातानि तानि बत भीषणगर्जितानि ।। 30।।
वन्यस्य सिंहयुवकस्य गतिस्त्वियं धिक् ।
सिंहत्वमस्य कुह यातमहो क्व चास्य
यातानि तानि बत भीषणगर्जितानि ।। 30।।
घातोपघातशतकैरवनिर्विदीर्णा
तस्या उदारतर-गह्नरतः सरन्त्यः ।
दृश्यन्त आस्रपजनप्रियतां वहन्त्यः
काश्चिल्लहर्य उपदीकृतहृद्विघाताः ।। 31।।
तस्या उदारतर-गह्नरतः सरन्त्यः ।
दृश्यन्त आस्रपजनप्रियतां वहन्त्यः
काश्चिल्लहर्य उपदीकृतहृद्विघाताः ।। 31।।
जीवतुरस्ति यदवध्यधिकारलिप्सा
प्राणायते विरतिरेव मृतित्वमेति ।
जीवन्मृताः खलु न ये मृतजीवना वा
कालानलन्ति ननु कालवपूंषि तेभ्यः ।। 32।।
प्राणायते विरतिरेव मृतित्वमेति ।
जीवन्मृताः खलु न ये मृतजीवना वा
कालानलन्ति ननु कालवपूंषि तेभ्यः ।। 32।।
दुर्योधना अपि रणक्षितिबन्धुराङ्गीं
शय्यां यदा हृतमहोरव आश्रयन्ते ।
आगत्य तान् बत शृगालसुताः स्वनद्भि-
रास्यैः सुखं श्वसत एव विचर्वयन्ते ।। 33।।
शय्यां यदा हृतमहोरव आश्रयन्ते ।
आगत्य तान् बत शृगालसुताः स्वनद्भि-
रास्यैः सुखं श्वसत एव विचर्वयन्ते ।। 33।।
पृथ्वीराज उवाह कान् न विषमान् दुर्यातनानां व्रजान्
मुञ्जः किं रिपुधाम्नि नैव बुभुजे दौर्गत्यजातं हहा ।
येऽद्य प्रच्छदशोभनानि शयनान्याशेरते ते हि धिक्
कारायां परिरूक्षनग्नमवनेर्वक्षः श्रयन्तेतराम् ।। 34।।
मुञ्जः किं रिपुधाम्नि नैव बुभुजे दौर्गत्यजातं हहा ।
येऽद्य प्रच्छदशोभनानि शयनान्याशेरते ते हि धिक्
कारायां परिरूक्षनग्नमवनेर्वक्षः श्रयन्तेतराम् ।। 34।।
वन्दीकृतेषु ननु तेषु कशाभिघाता-
नापातयन्ति रिपुदासभटाः करालान् ।
ते तान् विनापि परिपीडनदुःखशब्दं
मूकाः सहन्त उदराग्निविपच्यमानाः ।। 35।।
नापातयन्ति रिपुदासभटाः करालान् ।
ते तान् विनापि परिपीडनदुःखशब्दं
मूकाः सहन्त उदराग्निविपच्यमानाः ।। 35।।
कृच्छ्रं गतेन रिपुणा रिपवे स्वकीया-
यानन्दकोष उपदीक्रियतां कथं नु ।
एषोऽस्त्यभावविषयो ह्यपरो ह्यभावो
नो भावतां स खलु तर्कसहां जुषेत ।। 36।।
यानन्दकोष उपदीक्रियतां कथं नु ।
एषोऽस्त्यभावविषयो ह्यपरो ह्यभावो
नो भावतां स खलु तर्कसहां जुषेत ।। 36।।
चित्ते स्थितानि भयजानि तु कण्टकानि
तान् शोधयन्ति रिपवो रिपुनाशनाभिः ।
पश्यन्ति नैव च निजं परिणाममन्ते
गर्त्ते स्वपन्ति यदिवा दहने ज्वलन्ति ।। 37।।
तान् शोधयन्ति रिपवो रिपुनाशनाभिः ।
पश्यन्ति नैव च निजं परिणाममन्ते
गर्त्ते स्वपन्ति यदिवा दहने ज्वलन्ति ।। 37।।
यज् जीवनञ्च मरणं च यदस्ति जन्तो-
स्तद्द्वन्द्वगास्ति च सतः श्वसनक्रिया या ।
तस्याः कुतश्चन परीमललाभहेतो-
र्हा हन्त हन्त विषमां सृतिमाश्रयामः ।। 38।।
स्तद्द्वन्द्वगास्ति च सतः श्वसनक्रिया या ।
तस्याः कुतश्चन परीमललाभहेतो-
र्हा हन्त हन्त विषमां सृतिमाश्रयामः ।। 38।।
तां राजनीतिरिति चेन्निगदाम एते
का वा भविष्यति ततो बत कालनीतिः ।
कालः परस्य हि कृतेऽस्ति स एष
एषोऽकालस्तु मह्यमिति चापि परिच्छिदिर्मे ।। 39।।
का वा भविष्यति ततो बत कालनीतिः ।
कालः परस्य हि कृतेऽस्ति स एष
एषोऽकालस्तु मह्यमिति चापि परिच्छिदिर्मे ।। 39।।
पृथ्वीतलेऽस्ति न नु नास्त्यपरोऽत्र काश्चि-
न्मादृग्विधो बत महान् मतिहीनताढ्याः ।
यो नैव पश्यति निजस्य शरस्य काञ्चित्
तीक्ष्णाननस्य गतिमात्मदिशं श्रयन्तीम् ।। 40।।
न्मादृग्विधो बत महान् मतिहीनताढ्याः ।
यो नैव पश्यति निजस्य शरस्य काञ्चित्
तीक्ष्णाननस्य गतिमात्मदिशं श्रयन्तीम् ।। 40।।
सर्वे शरा ननु भवन्ति मुखद्वयेन
युक्ता ययोभर्वति किञ्चन शत्रवे हि ।
किञ्चिञ्च घातयति चालकमेव भूत्वा
कालानलो नयनयोरगतस्तु मार्गे ।। 41।।
युक्ता ययोभर्वति किञ्चन शत्रवे हि ।
किञ्चिञ्च घातयति चालकमेव भूत्वा
कालानलो नयनयोरगतस्तु मार्गे ।। 41।।
रे रे महाबल निबोध शरं यमेतं
वेत्सीह सोऽस्ति भुजगो द्विमुखः करालः ।
पुच्छेऽपि तस्य मुखमस्ति न फूत्क्रियैव
तस्मिन् प्रकाशमुपयाति विषाग्निदिग्धा ।। 42।।
वेत्सीह सोऽस्ति भुजगो द्विमुखः करालः ।
पुच्छेऽपि तस्य मुखमस्ति न फूत्क्रियैव
तस्मिन् प्रकाशमुपयाति विषाग्निदिग्धा ।। 42।।
हन्ता त्वमस्यथ रिपुस्तव शातनीय
एतां मतिं प्रतिनिवर्तय मित्र! यस्मात् ।
हन्तव्यवर्ष्मणि न राजति कोऽपि भिन्नः
स त्वं हि घातयति हन्त भवान् भवन्तम् ।। 43।।
एतां मतिं प्रतिनिवर्तय मित्र! यस्मात् ।
हन्तव्यवर्ष्मणि न राजति कोऽपि भिन्नः
स त्वं हि घातयति हन्त भवान् भवन्तम् ।। 43।।
दुःशासनस्य रुधिरं न निगीर्णमेतं
हत्वा वृकोदरमहाबलिना स मूढः ।
तच्छोणितेन सह दोषचयोऽपि तस्य
पातुः शरीरमविशद् गरलायमानः ।। 44।।
हत्वा वृकोदरमहाबलिना स मूढः ।
तच्छोणितेन सह दोषचयोऽपि तस्य
पातुः शरीरमविशद् गरलायमानः ।। 44।।
चण्डीबभूव पतिपञ्चकरक्षितापि
द्यूतेन केनचन हारितसर्ववस्त्रा ।
पाञ्चालराजतनया यदि पातनीयं द्यूतं
दुरोदरतया प्रथितं महत्सु ।। 45।।
द्यूतेन केनचन हारितसर्ववस्त्रा ।
पाञ्चालराजतनया यदि पातनीयं द्यूतं
दुरोदरतया प्रथितं महत्सु ।। 45।।
आतङ्क एव ननु यस्य कृतेऽस्ति वाद-
स्तस्मै युगाय महतेऽद्यतनाय नौमि ।
हिंसैव तर्हि परमो मनुजस्य धर्म
आहिंसिकत्वमथ कश्चिदधर्म एव ।। 46।।
स्तस्मै युगाय महतेऽद्यतनाय नौमि ।
हिंसैव तर्हि परमो मनुजस्य धर्म
आहिंसिकत्वमथ कश्चिदधर्म एव ।। 46।।
संपातिदग्धगरुदद्य मृगाङ्कसंज्ञं
लब्धुं समुत्सुकति रामकथामहर्षिम् ।
येनाङ्कुरेयुरिह भूय इहास्य पक्षाः
सूर्याभिमुख्यडयनागसि ये न दक्षाः ।। 47।।
लब्धुं समुत्सुकति रामकथामहर्षिम् ।
येनाङ्कुरेयुरिह भूय इहास्य पक्षाः
सूर्याभिमुख्यडयनागसि ये न दक्षाः ।। 47।।
या वै स्वयंप्रभ-तयाऽस्ति महर्षिकाव्ये
वृद्धा तपोवनगुहाविवरे प्रदीप्रा ।
तां वानराक्षिपरिमीलनमन्त्रसिद्धि-
सामर्थ्य शालिहृदयां प्रति सादराः स्मः ।। 48।।
वृद्धा तपोवनगुहाविवरे प्रदीप्रा ।
तां वानराक्षिपरिमीलनमन्त्रसिद्धि-
सामर्थ्य शालिहृदयां प्रति सादराः स्मः ।। 48।।
हे वानरा भवथ हन्त नरा इदानीं
राज्ये स्वराज्यमिति नामभृति; त्वरध्वम् ।
आरक्षणं नियतमेव भविष्यतीह
वित्तस्य वः श्रममृतेऽपि गृहागतस्य ।। 49।।
राज्ये स्वराज्यमिति नामभृति; त्वरध्वम् ।
आरक्षणं नियतमेव भविष्यतीह
वित्तस्य वः श्रममृतेऽपि गृहागतस्य ।। 49।।
किं वोल्बणां गिरमुदाहरतु त्वदीयः
कश्चित् सुहृद् यदि स वेत्ति गतिं स्वकीयाम् ।
सा मायिकीति वदतु प्रवरः प्रकामं
द्रष्टा परन्तु न हि तत्र मृषात्वमीक्षे ।। 50।।
कश्चित् सुहृद् यदि स वेत्ति गतिं स्वकीयाम् ।
सा मायिकीति वदतु प्रवरः प्रकामं
द्रष्टा परन्तु न हि तत्र मृषात्वमीक्षे ।। 50।।
ये वै विदन्ति न हि तं हृदये शयालुं
तेष्वेव पातमुपयाति महेन्र् वज्रम् ।
तेषां शतान्ययुतयन्ति विनाशलीला-
गर्त्तेषु पातमुपयातुमिलातलेऽस्मिन् ।। 51।।
तेष्वेव पातमुपयाति महेन्र् वज्रम् ।
तेषां शतान्ययुतयन्ति विनाशलीला-
गर्त्तेषु पातमुपयातुमिलातलेऽस्मिन् ।। 51।।
स्वातन्त्र्यसंभवकथेयमुदारतार-
शान्तिप्रिया क्षरितुमुद्धरति प्रवेका ।
तां ये श्रयन्ति हृदि तेषु समेऽपि देवाः
स्थेमानमञ्चितुमुदित्वरितुं त्वरन्ते ।। 52।।
शान्तिप्रिया क्षरितुमुद्धरति प्रवेका ।
तां ये श्रयन्ति हृदि तेषु समेऽपि देवाः
स्थेमानमञ्चितुमुदित्वरितुं त्वरन्ते ।। 52।।
नेपालचीनपाकानां वाङ्ग्लानां वर्मिणामपि ।
सीमानो भारतीयं नः सीमानं परिवृण्वते ।। 53।।
सीमानो भारतीयं नः सीमानं परिवृण्वते ।। 53।।
हिन्दवो हिन्दुभिः सार्धं यवनाः यवनैः समम् ।
मसीहिनो मसीहिभ्यः कलहायन्ति साम्प्रतम् ।। 54।।
मसीहिनो मसीहिभ्यः कलहायन्ति साम्प्रतम् ।। 54।।
एवं हि कौरवैः पाण्डुतनयास्तैश्च कौरवाः ।
पितृव्यपुत्रा अन्योन्यं जिघांसन्तेऽद्य दुर्हृदः ।। 55।।
पितृव्यपुत्रा अन्योन्यं जिघांसन्तेऽद्य दुर्हृदः ।। 55।।
सैषां दशाऽद्य राष्ट्राणां सर्वेषां दृश्यतेतराम् ।
यत्र कश्चन कस्यापि न स्वो नो वा परो हृदा ।। 56।।
यत्र कश्चन कस्यापि न स्वो नो वा परो हृदा ।। 56।।
तत्रापि पाकयुद्धे यच्छास्त्रिणा रूसदेशना ।
सममानि ततो रूसा भारतेषु प्रसादिनः ।। 57।।
सममानि ततो रूसा भारतेषु प्रसादिनः ।। 57।।
भारता अपि रूसेषु मानसीं प्रीतिमीर्यृति ।
चीनास्ततो हि जित्वापि भारतान् विमुखायिताः ।। 58।।
चीनास्ततो हि जित्वापि भारतान् विमुखायिताः ।। 58।।
राष्ट्राध्यक्षस्तु चीनानां यदा देहमतीत्यजत् ।
तदा तस्य निवासेऽभूत् पणं नैकमपि क्वचित् ।। 59।।
तदा तस्य निवासेऽभूत् पणं नैकमपि क्वचित् ।। 59।।
मनसा ये न वाञ्छन्ति परिग्रहपरिग्रहम् ।
ते ह्येव भूतले दण्डं विना संन्यासिनः शुभाः ।। 60।।
ते ह्येव भूतले दण्डं विना संन्यासिनः शुभाः ।। 60।।
अपरिग्रहयोग! जायसे त्वं प्रतिनूत्नस्य नरस्य पोषकर्त्ता ।
विरमत्यथ लेखनी कथं वाऽऽचरितादद्यतनात् सनातनानाम् ।। 61।।
विरमत्यथ लेखनी कथं वाऽऽचरितादद्यतनात् सनातनानाम् ।। 61।।
न हि चित्तदरी प्रपूर्त्तिमाप्ता जगती द्रव्यमपि प्रगीर्य नॄणाम् ।
परिवर्धत एव नित्यनूत्ना क्षुधहो भक्षितुमर्थषेषजातम् ।। 62।।
परिवर्धत एव नित्यनूत्ना क्षुधहो भक्षितुमर्थषेषजातम् ।। 62।।
अयि मानुष! वर्त्तसे त्वमात्मा न तु कुक्षिम्भरिरस्ति देहकस्त्वम् ।
अपि कुक्षिरपि त्वया धृतैषा भगिनी नास्ति तु कुम्भकर्णकुक्षेः ।। 63।।
अपि कुक्षिरपि त्वया धृतैषा भगिनी नास्ति तु कुम्भकर्णकुक्षेः ।। 63।।
बहवस्त्वपि कुक्षयो निगूढा करणेभ्यः पृथगस्मिता-महार्हाः ।
नहि तेषु लवोऽपि विद्यते धिक् परितृप्तेरलमित्युदाहरन्त्याः ।। 64।।
नहि तेषु लवोऽपि विद्यते धिक् परितृप्तेरलमित्युदाहरन्त्याः ।। 64।।
प्रतिकुक्षि महामहामहाब्धिव्रज आस्ते श्रितभङ्ग-सङ्ग-रंहाः ।
गृहकुक्कुरतां गतेऽषनाया-व्रततीभिः परिमूर्च्छिताभिरिद्धः ।। 65।।
गृहकुक्कुरतां गतेऽषनाया-व्रततीभिः परिमूर्च्छिताभिरिद्धः ।। 65।।
अनियन्त्रणभक्षित! त्वमेष प्रतिरात्रं बत गृघ्नुतापिषाच्या ।
नहि पष्यसि नारकीयतायाः परिवेषस्त्वयि मूर्च्छितो निरन्तः ।। 66।।
नहि पष्यसि नारकीयतायाः परिवेषस्त्वयि मूर्च्छितो निरन्तः ।। 66।।
नहि पश्यति धर्ममेव, भीरुर्न भवत्येष भवानधर्मतोऽपि ।
द्रविणेन्धनमूर्च्छितेन दीर्घं कवलीकारमितो विवेकषून्यः ।। 67।।
द्रविणेन्धनमूर्च्छितेन दीर्घं कवलीकारमितो विवेकषून्यः ।। 67।।
त्वं चेन्नेक्षितुमिच्छसि स्वपरतासीमानमुच्चैस्तमां
वैधं कञ्चन मूर्च्छितुं तु जगतीपृष्ठे विधानस्थिरम् ।
त्वन्नेत्रे कतमेन दीर्घतमसेन ब्रूहि बुद्धिम्लुचे-
नासाते ननु संवृते, हृदि न ते किं वै तृतीयाऽस्ति दृक् ।। 68।।
वैधं कञ्चन मूर्च्छितुं तु जगतीपृष्ठे विधानस्थिरम् ।
त्वन्नेत्रे कतमेन दीर्घतमसेन ब्रूहि बुद्धिम्लुचे-
नासाते ननु संवृते, हृदि न ते किं वै तृतीयाऽस्ति दृक् ।। 68।।
आस्ते चेन्ननु सा दृगस्ति तु ततस्त्वं वै पिषाचः कथं
कारस्कारपरागतो यदसि रे कण्डूव्यथां खण्डितुम् ।
अन्तर्नेत्रगतोऽपि कश्चन समस्तोत्तीर्णदेहः प्रभु-
स्तिष्ठत्यत्र समेषु देहिषु न किं तस्या शृणोषि श्रुतिम् ।। 69।।
कारस्कारपरागतो यदसि रे कण्डूव्यथां खण्डितुम् ।
अन्तर्नेत्रगतोऽपि कश्चन समस्तोत्तीर्णदेहः प्रभु-
स्तिष्ठत्यत्र समेषु देहिषु न किं तस्या शृणोषि श्रुतिम् ।। 69।।
अयि बत भवतो विपर्ययोऽयं
मतिमुकुरेऽस्ति समागतः कथञ्चित् ।
न हि तव वपुरेव तत्र तुभ्यं
प्रतिफलितं न हि दृश्यमस्ति चित्रम् ।। 70।।
मतिमुकुरेऽस्ति समागतः कथञ्चित् ।
न हि तव वपुरेव तत्र तुभ्यं
प्रतिफलितं न हि दृश्यमस्ति चित्रम् ।। 70।।
यमा न नियमान् विना शृणु भवन्ति धर्मोत्तमः
सनातन इति श्रुतो मनुजभूतधात्री-प्रभुः ।
श्रयस्व ननु शीघ्रतां तदवलम्बने मानुष!
त्वमेव भविता जगत्त्रयमहाप्रभुर्निर्भयः ।। 71।।
सनातन इति श्रुतो मनुजभूतधात्री-प्रभुः ।
श्रयस्व ननु शीघ्रतां तदवलम्बने मानुष!
त्वमेव भविता जगत्त्रयमहाप्रभुर्निर्भयः ।। 71।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ
‘परिपोषमार्गो’ नाम एकषष्टिः सर्गः ।। 61।।
प्रशासकः पाक इति श्रुतस्य देशस्य कश्चित् स मुशर्रफोऽपि ।
तत्याज वै राष्ट्रपतित्वमुच्चैस्तमं यदेतत् पदमस्ति भूम्याम् ।। 1।।
तत्याज वै राष्ट्रपतित्वमुच्चैस्तमं यदेतत् पदमस्ति भूम्याम् ।। 1।।
पुरा तमेतं प्रतिवेशिराष्ट्रे पलायितं घोड्ढयतिस्म लोकः ।
पष्चादमुं वक्ति जनः स्वकीये गेहे निरुद्धं च सुरक्षितं च ।। 2।।
पष्चादमुं वक्ति जनः स्वकीये गेहे निरुद्धं च सुरक्षितं च ।। 2।।
तस्यास्य दिव्यं भवनं यदासीत् तत्रादिषच्छासनमस्य वासम् ।
नो, निर्मितं तन्निजराष्ट्रपत्वे बलात्कृतैरर्थचयैर्दुरापैः ।। 3।।
नो, निर्मितं तन्निजराष्ट्रपत्वे बलात्कृतैरर्थचयैर्दुरापैः ।। 3।।
भुट्टो गतो गतवती च सुता तदीया
मार्गेण येन धरणीखनितेषु सोऽयम् ।
नास्ते मुशर्रफकृतेऽप्यनुपोपलभ्यं
तत्रापि जीवति स पाकगतं हि चित्रम् ।। 4।।
मार्गेण येन धरणीखनितेषु सोऽयम् ।
नास्ते मुशर्रफकृतेऽप्यनुपोपलभ्यं
तत्रापि जीवति स पाकगतं हि चित्रम् ।। 4।।
भुट्टोपमाविरहितापतिजारदारी राष्ट्राधिपत्वमुपलभ्य पतिस्तु पाके ।
भावीति नीतिविबुधैश्च सवृत्तपत्रैष्चाप्यद्य शंसितमुदारतरान्तरङ्गः ।। 5।।
भावीति नीतिविबुधैश्च सवृत्तपत्रैष्चाप्यद्य शंसितमुदारतरान्तरङ्गः ।। 5।।
महाभियोगस्तु मुशर्रफाय विनिश्चितोऽभूत् प्रथमं तदीयम् ।
फलं भवेदेव तदेव यद् वै भुक्तं सदाम्ना निकटे ह्यतीते ।। 6।।
फलं भवेदेव तदेव यद् वै भुक्तं सदाम्ना निकटे ह्यतीते ।। 6।।
यद्वाऽधिकार्थग्रहदोषहेतोरस्मै प्रदीयेत निरन्तमद्धा ।
कारागृहं सा खलु जीवितस्य मृतिर्हि सोच्छ्वासकषायितस्य ।। 7।।
कारागृहं सा खलु जीवितस्य मृतिर्हि सोच्छ्वासकषायितस्य ।। 7।।
एकत्र पाकाय पराणुशक्तिसमृद्धिरन्यत्र महार्थवर्षा ।
अमेरिकाभिः क्रियते तदीयं फलं प्रभोक्ता तु नवः प्रशस्ता ।। 8।।
अमेरिकाभिः क्रियते तदीयं फलं प्रभोक्ता तु नवः प्रशस्ता ।। 8।।
अहं त्वहं शास्तृपदेऽप्यहं हि न्यायाधिकारी च निरङ्कुशश्च ।
अद्यत्वमात्रेक्षणनिर्भयश्च पश्यामि न श्वस्तनहानिलाभम् ।। 9।।
अद्यत्वमात्रेक्षणनिर्भयश्च पश्यामि न श्वस्तनहानिलाभम् ।। 9।।
एषाऽस्ति येषां दृगिमे हि पाकाः पाकप्रियाः केचन सन्ति धन्याः ।
एषां हि केचित् प्रतिवेशराज्यबुभुक्षवः सन्ति सशस्त्रहस्ताः ।। 10।।
एषां हि केचित् प्रतिवेशराज्यबुभुक्षवः सन्ति सशस्त्रहस्ताः ।। 10।।
यैश्छम्ब-भूमिर्विजिता कृता च स्वसैन्यशक्तेः प्रबलो निवेशः ।
आनर्ज तां वीरसहस्रकाणां प्राणैर्महीयानटलोऽचिरेण ।। 11।।
आनर्ज तां वीरसहस्रकाणां प्राणैर्महीयानटलोऽचिरेण ।। 11।।
पाकस्थिताः शासनसूत्रहस्ता भूयोऽपि हर्त्तुं यतिता इदानीम् ।
एतेन हार्दं परिकल्पितुं वै शक्यं त्वमीषां भरतस्य भूम्यै ।। 12।।
एतेन हार्दं परिकल्पितुं वै शक्यं त्वमीषां भरतस्य भूम्यै ।। 12।।
नेतार एते निखिलाः प्रजानां तन्त्रस्य कुर्वन्तु तु घोषणानि ।
चित्तेन किन्त्वेषु समेषु कश्चित् साम्राज्यवादो हि निविष्ट आस्ते ।। 13।।
चित्तेन किन्त्वेषु समेषु कश्चित् साम्राज्यवादो हि निविष्ट आस्ते ।। 13।।
अतो हि पाकेऽपि च भारतेऽपि स्वापत्यवादः पदमादधाति ।
अमेरिकास्वप्ययमेव दोषः पदं करोति स्म बुसाधिराज्ये ।। 14।।
अमेरिकास्वप्ययमेव दोषः पदं करोति स्म बुसाधिराज्ये ।। 14।।
काङ्ग्रेससंघः प्रविलापनीयः स्वाराज्ययुद्धे विजितैः स्वराष्ट्रे ।
इत्येष आसीत् स्वर आदिमो हि महात्मनो गान्धिवरस्य कस्मात् ।। 15।।
इत्येष आसीत् स्वर आदिमो हि महात्मनो गान्धिवरस्य कस्मात् ।। 15।।
वहेलितोऽसौ विहितः प्रशस्तो मार्गश्च पश्चान्निजराज्यहेतोः ।
भुट्टोसुता स्वं हि सुतं स्वकीयं पदाधिकारे नियुयोज किं नो ।। 16।।
भुट्टोसुता स्वं हि सुतं स्वकीयं पदाधिकारे नियुयोज किं नो ।। 16।।
न्यायाधिपास्ते पदतो विमुक्ताः पाकेऽक्रियन्ताद्य स चापि मार्गः ।
एकाधिपत्यस्य, पराधिकारो नास्त्येव युक्तोऽर्थसमेधितेभ्यः ।। 17।।
एकाधिपत्यस्य, पराधिकारो नास्त्येव युक्तोऽर्थसमेधितेभ्यः ।। 17।।
अहंकृतिं तां हृदि लालयन्ते निर्वाचनं चापि समर्थयन्ते ।
येनापि केनापि पथा पदानि सामर्थ्यवन्त्याप्तुमथो यतन्ते ।। 18।।
येनापि केनापि पथा पदानि सामर्थ्यवन्त्याप्तुमथो यतन्ते ।। 18।।
तत् कस्य हेतोर्यदि नार्थलिप्सा स्वाहङ्कृतेर्वा परितुष्टिरिष्टा ।
ऋणेन वा दस्युपथेन वापि द्रव्यं समाकृष्य कृतार्थितेषु ।। 19।।
ऋणेन वा दस्युपथेन वापि द्रव्यं समाकृष्य कृतार्थितेषु ।। 19।।
प्राध्यापकेभ्यो बहुमूल्यशोधग्रन्थोत्तमानां परिरक्षणेभ्यः ।
दारिद्र्ययोगं परमं प्रदर्श्य विरज्यदन्तःकरणा भवामः ।। 20।।
दारिद्र्ययोगं परमं प्रदर्श्य विरज्यदन्तःकरणा भवामः ।। 20।।
तत्रापि केनापि पथा कथञ्चिद् ये सिद्धिमाप्तुं प्रभवो भवन्ति ।
तेषां प्रसारस्य निरोधनाय प्राप्ताधिकारा यतिता भवन्ति ।। 21।।
तेषां प्रसारस्य निरोधनाय प्राप्ताधिकारा यतिता भवन्ति ।। 21।।
कार्यं महार्हं प्रविधेयमित्थं सान्तत्ययोगेन जपत्स्वमीषु ।
लाभाधिकारे स्वजनस्य योग्येतरस्य कुर्वन्ति नियुक्तिमेते ।। 22।।
लाभाधिकारे स्वजनस्य योग्येतरस्य कुर्वन्ति नियुक्तिमेते ।। 22।।
सा ब्रह्महत्यैव विनाऽस्रपातं विनापि घातं च विधेर्विधाने ।
कर्त्तुं तु तामेत उदारधिष्ण्या दारिद्र्यमन्तःकरणे श्रयन्ते ।। 23।।
कर्त्तुं तु तामेत उदारधिष्ण्या दारिद्र्यमन्तःकरणे श्रयन्ते ।। 23।।
सर्वत्र निर्वाचनमेव हेतुं कृत्वाङ्कलाभेन खिलीकृता ये ।
तेषां न दृष्टिः परिणाम-संघे, स्वं ते परीपाकमलं श्रयन्ते ।। 24।।
तेषां न दृष्टिः परिणाम-संघे, स्वं ते परीपाकमलं श्रयन्ते ।। 24।।
खेलासु ये पुष्करमेघवंश्या भवन्ति वैदुष्यकृते च कृच्छ्राः ।
एषां स्वमाराधयितुं व्रतानि चिकीर्षतां किं खलु राष्ट्रमेतत् ।। 25।।
एषां स्वमाराधयितुं व्रतानि चिकीर्षतां किं खलु राष्ट्रमेतत् ।। 25।।
महर्षिणा व्यासमहोदयेन वाल्मीकिना वानुसृतो य एव ।
स एव मार्गो मनुजस्य वृद्ध्यै विद्वद्वरेण्यैरवमन्यतेऽद्य ।। 26।।
स एव मार्गो मनुजस्य वृद्ध्यै विद्वद्वरेण्यैरवमन्यतेऽद्य ।। 26।।
परिग्रहाधिक्यममीभिरार्षे वर्त्मन्यधिष्ठापितसुस्थचित्तैः ।
विगर्हितं,किन्तु न तत्र दोषं पश्यन्ति वै सांप्रतिका महेच्छाः ।। 27।।
विगर्हितं,किन्तु न तत्र दोषं पश्यन्ति वै सांप्रतिका महेच्छाः ।। 27।।
त्यजन्ति येऽन्यस्य कृते स्वमर्थं मूर्खं तमन्ये स्वयमामनन्ति ।
प्राप्तेऽवकाशे च कृतज्ञभावं त्यक्त्वा तमेतं हि विगर्हयन्ति ।। 28।।
प्राप्तेऽवकाशे च कृतज्ञभावं त्यक्त्वा तमेतं हि विगर्हयन्ति ।। 28।।
कृतघ्नतामेव गुणं ब्रुवन्तः कृतज्ञतां चावगुणं य एते ।
तेषां क एवास्ति निजः क एव परः स्वयं ते हि परात्परन्ति ।। 29।।
तेषां क एवास्ति निजः क एव परः स्वयं ते हि परात्परन्ति ।। 29।।
हे भूतधात्रि! वसुधे! भवती वराहेणाद्येन वारिधितलादुदधारि मिथ्या ।
त्वामाश्रयन्ति कृकलासकुलानि वर्णांस्ताँस्ताननुक्षणमिमान् परिवर्त्तयन्ति।। 30।।
त्वामाश्रयन्ति कृकलासकुलानि वर्णांस्ताँस्ताननुक्षणमिमान् परिवर्त्तयन्ति।। 30।।
त्वं विष्णुपत्नीति मृषैव, विष्णुर्लक्ष्मीपतिस्त्वामथ सैव लक्ष्मीः ।
विहाय सत्यं त्विदमाश्रयाय बम्भ्रम्यमाणा प्रचकास्त्यधन्या ।। 31।।
विहाय सत्यं त्विदमाश्रयाय बम्भ्रम्यमाणा प्रचकास्त्यधन्या ।। 31।।
लक्ष्मीर्वपुः स्वस्थतमं बलिष्ठं शीतातपाधिक्यसहिष्णु, तस्मै ।
ये क्षुत्पिपासे अपि ते भवेतामपाकृते लब्धुमशेषलभ्यम् ।। 32।।
ये क्षुत्पिपासे अपि ते भवेतामपाकृते लब्धुमशेषलभ्यम् ।। 32।।
सौन्दर्यमस्मिन् वपुषि प्रशान्तं चेतः, प्रिया वाक् पर-तर्पणं च ।
मार्गः प्रियस्, तस्य कृते समस्तं विश्वं स्वसद्मायितुमिच्छतीव ।। 33।।
मार्गः प्रियस्, तस्य कृते समस्तं विश्वं स्वसद्मायितुमिच्छतीव ।। 33।।
रे पाक! किं पाकति किं भवान् नः सुहृद् भवन्नैष सुनीतिमार्गः ।
रे भारताः पाकति पाकदेशे विपाकमुच्चैः कटुमाप्नुवन्तु ।। 34।।
रे भारताः पाकति पाकदेशे विपाकमुच्चैः कटुमाप्नुवन्तु ।। 34।।
सर्वा दिशः संप्रति तारमेतं ब्रुवन्ति कर्णौ तव संवृतौ किम् ।
रे भारताः श्रोतुमिमं भवन्तोऽप्युत्साहिनः किं न भवन्ति शीघ्रम् ।। 35।।
रे भारताः श्रोतुमिमं भवन्तोऽप्युत्साहिनः किं न भवन्ति शीघ्रम् ।। 35।।
न द्विश्म एते वयमस्ति मन्त्रस्तादृग्विधो ह्येव परम्पराप्तः ।
किन्तु द्विषत्सु प्रतिबोधिनोऽपि काले भवन्तो भवितुं यतन्ताम् ।। 36।।
किन्तु द्विषत्सु प्रतिबोधिनोऽपि काले भवन्तो भवितुं यतन्ताम् ।। 36।।
उल्कामुखेषु सलिलानि निपातयन्ति
ये प्राग् त एव ससुखं परितो लसन्ति ।
दग्धे गृहे तपनशान्तिकृतां न साह्यं
वेधा अपि प्रयतते समये विधातुम् ।। 37।।
ये प्राग् त एव ससुखं परितो लसन्ति ।
दग्धे गृहे तपनशान्तिकृतां न साह्यं
वेधा अपि प्रयतते समये विधातुम् ।। 37।।
वंगेषु दृष्टपरिविप्लवका अमी स्म
एषां सृतिर्हि ननु पञ्चनदेषु दृष्टा ।
किं नो भवाम निबिडां परिहाय निद्रां
काले प्रबुद्धहृदयाश्च सुरक्षिताश्च ।। 38।।
एषां सृतिर्हि ननु पञ्चनदेषु दृष्टा ।
किं नो भवाम निबिडां परिहाय निद्रां
काले प्रबुद्धहृदयाश्च सुरक्षिताश्च ।। 38।।
विज्ञो भवान् वयममी भवतः पदाब्जे
मूर्ध्नानताः स्म, भवतां वयमेव शोधान् ।
धन्यानमून् प्रयतिताः खलु मुद्रणाय
दातुं क्षमास्तु न वयं द्रविडं परन्तु ।। 39।।
मूर्ध्नानताः स्म, भवतां वयमेव शोधान् ।
धन्यानमून् प्रयतिताः खलु मुद्रणाय
दातुं क्षमास्तु न वयं द्रविडं परन्तु ।। 39।।
एवंविधानि वचनानि भवन्त्यमीषां
विद्वत्सु तापसगुणेषु कृतक्रियेषु ।
द्रव्यं विहाय मतमेव निजं परेभ्य-
श्चक्षुः प्रदाननिपुणं प्रतिपादयत्सु ।। 40।।
विद्वत्सु तापसगुणेषु कृतक्रियेषु ।
द्रव्यं विहाय मतमेव निजं परेभ्य-
श्चक्षुः प्रदाननिपुणं प्रतिपादयत्सु ।। 40।।
केचिद् भवन्ति निपुणाः परिशोषणाय
केचिद् भवन्ति च पणे लिखितेऽपि मूकाः ।
ते स्वं गृहं धनचयैः परिपूरयन्ति
यो ग्रन्थकृत् तमिह लुञ्चितुमात्तधार्ष्ट्याः ।। 41।।
केचिद् भवन्ति च पणे लिखितेऽपि मूकाः ।
ते स्वं गृहं धनचयैः परिपूरयन्ति
यो ग्रन्थकृत् तमिह लुञ्चितुमात्तधार्ष्ट्याः ।। 41।।
चमूपतिपदे स्थितो निजबलेन योऽजायत
प्रधानपुरुषोत्तमः शरमितैर्नदीवारिभिः ।
परिप्लुतिमवापिते भुवनचक्रशक्रायिते
स्वके क्षितितलेऽभयोऽनुपमे तु पाकाभिधे ।। 42।।
प्रधानपुरुषोत्तमः शरमितैर्नदीवारिभिः ।
परिप्लुतिमवापिते भुवनचक्रशक्रायिते
स्वके क्षितितलेऽभयोऽनुपमे तु पाकाभिधे ।। 42।।
स एष तु मुशर्रफो भवति कान्दिशीकः, क्व वा
व्रजानि परितो वृतः पर-दलीयसेना-नरैः ।
इति स्थितिमवापितो हृदयकन्दरे यत्र वै
विराजति खुदा भृते निभृतनक्रचक्रैरहो ।। 43।।
व्रजानि परितो वृतः पर-दलीयसेना-नरैः ।
इति स्थितिमवापितो हृदयकन्दरे यत्र वै
विराजति खुदा भृते निभृतनक्रचक्रैरहो ।। 43।।
क्व वा प्रतिदिनं नवाऽनुपमसुन्दरी सुन्दरी
क्व वा ‘क्व खलु यामिता’-मदिरया निगीर्णा चितिः ।
तदेतदुपदीकृतं प्रभुतया निराशङ्कया
मुशर्रफमहोदयः क्षणिकतां कथं विस्मृतः ।। 44।।
क्व वा ‘क्व खलु यामिता’-मदिरया निगीर्णा चितिः ।
तदेतदुपदीकृतं प्रभुतया निराशङ्कया
मुशर्रफमहोदयः क्षणिकतां कथं विस्मृतः ।। 44।।
इहापि ननु भारते प्रभुपदे स्थितापीन्दिरा
न्यरोधि खलु चौधरीचरणसिंहनाम्ना ततः ।
स कोऽपि विदुषां वरो बत नृसिंहरावाभिधो
प्रधानपदमोचितः स्थितिमवाप कारागृहे ।। 45।।
न्यरोधि खलु चौधरीचरणसिंहनाम्ना ततः ।
स कोऽपि विदुषां वरो बत नृसिंहरावाभिधो
प्रधानपदमोचितः स्थितिमवाप कारागृहे ।। 45।।
बूटासिंहो बिहारे व्यधित ननु महान् राज्यपालो य एव
विद्वद्वर्यं नृसिंहं निरचिनुत महामन्त्रितायै स्वशक्त्या ।
तेनैवाद्याध्वना चेद् व्यधित स विबुधो मोहनः शासनाग्रयः
का वा हानिः परेषां द्रविणपथकृतां तत्सृतीराश्रयत्सु ।। 46।।
विद्वद्वर्यं नृसिंहं निरचिनुत महामन्त्रितायै स्वशक्त्या ।
तेनैवाद्याध्वना चेद् व्यधित स विबुधो मोहनः शासनाग्रयः
का वा हानिः परेषां द्रविणपथकृतां तत्सृतीराश्रयत्सु ।। 46।।
अद्यैव श्रीसोरिनो झारखण्डे लालूयत्नैराप मुख्यत्त्वमद्धा ।
लीला तत्राप्यस्ति काचिन्नितान्तं गुप्ता हेतुर्विस्मयं तन्वती नः ।। 47।।
लीला तत्राप्यस्ति काचिन्नितान्तं गुप्ता हेतुर्विस्मयं तन्वती नः ।। 47।।
मध्यो यो वै प्रदेशो भवति खलु नवं तत्र निर्वाचनं यत्
तत्रोच्चैर्मञ्चसंस्था पतति खलु महामोहिनी भारती द्विः ।
भारोऽस्त्यस्या अमुष्याः कथमभवदियान् यन्न सेहेऽपि मञ्चः
सार्धं भूयोभिरग्र्यैः समपतदथवा नेतृतैवातिभारा ।। 48।।
तत्रोच्चैर्मञ्चसंस्था पतति खलु महामोहिनी भारती द्विः ।
भारोऽस्त्यस्या अमुष्याः कथमभवदियान् यन्न सेहेऽपि मञ्चः
सार्धं भूयोभिरग्र्यैः समपतदथवा नेतृतैवातिभारा ।। 48।।
लालूराज्येऽपि लक्षाधिकगुणितमभूद् भक्षयन्ती वराकी
पत्नी कुक्कूटकानां प्रतिदिनमथ तद् भोजनं न स्मयाय ।
सोऽयं नो रेलमन्त्री भवति कथमियं लोकयात्राऽस्मदीया
भूयान् माङ्गल्ययुक्ता भरतभुवनकेऽध्यासिते नेहरूभिः ।। 49।।
पत्नी कुक्कूटकानां प्रतिदिनमथ तद् भोजनं न स्मयाय ।
सोऽयं नो रेलमन्त्री भवति कथमियं लोकयात्राऽस्मदीया
भूयान् माङ्गल्ययुक्ता भरतभुवनकेऽध्यासिते नेहरूभिः ।। 49।।
कूटकुक्कुटिकाऽप्यत्र राज्ये भुङ्क्तेऽन्वहं कणान् ।
प्रत्यहं लक्षकैर्लभ्यानत्र को न समुच्छ्रयः ।। 50।।
प्रत्यहं लक्षकैर्लभ्यानत्र को न समुच्छ्रयः ।। 50।।
द्रव्यं यस्याधिकारे भवति स हि कृती सर्वसंपद्विधाने
माया मायावतीनां भवति सफलतामश्नुवानाऽत्र सम्यक् ।
गाण्डीवी गाण्डिवं स्वं गणयति न परं किन्तुतन्मात्रमेव
तत्रैवास्ते जयो वै कुलपतिशतकं क्रीडनां तत्र धत्ते ।। 51।।
माया मायावतीनां भवति सफलतामश्नुवानाऽत्र सम्यक् ।
गाण्डीवी गाण्डिवं स्वं गणयति न परं किन्तुतन्मात्रमेव
तत्रैवास्ते जयो वै कुलपतिशतकं क्रीडनां तत्र धत्ते ।। 51।।
काङ्ग्रेस! नष्यसि हहा, भवती हि राष्ट्रे
स्वातन्त्र्यमानयत सर्वसमृद्धिमूलम् ।
नान्यत्र हेतुरपहाय भवन्निकाया-
नाविश्य दंशनिकरान् चरतोऽतितीव्रान् ।। 52।।
स्वातन्त्र्यमानयत सर्वसमृद्धिमूलम् ।
नान्यत्र हेतुरपहाय भवन्निकाया-
नाविश्य दंशनिकरान् चरतोऽतितीव्रान् ।। 52।।
ऊतञ्चापि कृतं च खण्डितमिदं स्वातन्त्र्यसंज्ञं महा-
वस्त्रं रक्षणनीतिभिः पणकणाभ्यालुञ्चनाध्वर्युभिः ।
अत्रास्ते मम केवलं न भवतः सत्त्वाधिकारोऽस्त्यसौ
मद्गेहो भवतो न ही’ ति खिलिता पद्याः,स्वतन्त्राः कथम् ।। 53।।
वस्त्रं रक्षणनीतिभिः पणकणाभ्यालुञ्चनाध्वर्युभिः ।
अत्रास्ते मम केवलं न भवतः सत्त्वाधिकारोऽस्त्यसौ
मद्गेहो भवतो न ही’ ति खिलिता पद्याः,स्वतन्त्राः कथम् ।। 53।।
नवाज इति नामकः स ननु पाकनेताऽशपत्
पृथक्त्वमधिशासनान्निजदलस्य निर्वाचने ।
स एव जरदारितः पृथगमुष्य राष्ट्राय क-
ञ्चनापि विधिवित्तमं पतिपदे प्रतूष्टूषति ।। 54।।
पृथक्त्वमधिशासनान्निजदलस्य निर्वाचने ।
स एव जरदारितः पृथगमुष्य राष्ट्राय क-
ञ्चनापि विधिवित्तमं पतिपदे प्रतूष्टूषति ।। 54।।
अथाल्पमतगर्त्तके न्यपतदद्य निर्वाचितं
नवीनमपि शासनं बहुमतत्वसिद्धिं विना ।
करोति ननु राष्ट्रपं स्थिरनियुक्तिकं कञ्चना-
प्यलोकसभया चितं विधिविधानतो वै कथम् ।। 55।।
नवीनमपि शासनं बहुमतत्वसिद्धिं विना ।
करोति ननु राष्ट्रपं स्थिरनियुक्तिकं कञ्चना-
प्यलोकसभया चितं विधिविधानतो वै कथम् ।। 55।।
पराजयकलङ्कितं यदि च शासनं भञ्जनं
स्वकीयमुररीकरोत्यथ भवेद्धि निर्वाचनम् ।
न तत्र च सुनिश्चितं बहुमतं दलस्यैकल-
स्य चक्रपरितापितं परिणतिं लभेतैव धिक् ।। 56।।
स्वकीयमुररीकरोत्यथ भवेद्धि निर्वाचनम् ।
न तत्र च सुनिश्चितं बहुमतं दलस्यैकल-
स्य चक्रपरितापितं परिणतिं लभेतैव धिक् ।। 56।।
निर्वाचनं ब्रह्मकृतोऽभिलेखः शिरस्यहो नः स च पञ्चवर्षी ।
पूर्वं ततस्तस्य तु योजना या सत्वात्मनाशप्रविधिर्बलीयान् ।। 57।।
पूर्वं ततस्तस्य तु योजना या सत्वात्मनाशप्रविधिर्बलीयान् ।। 57।।
निर्वाचनं चाप्यभिपातनञ्च निर्वाचितानां यदि सम्भवेताम् ।
ततोऽभिपातप्रविभीषितानां निरङ्कुशत्वं प्रविरेचितं स्यात् ।। 58।।
ततोऽभिपातप्रविभीषितानां निरङ्कुशत्वं प्रविरेचितं स्यात् ।। 58।।
निर्वाचितानां यदियं निरङ्कुशत्वाभिधाऽत्र प्रचकास्ति यष्टिः ।
तामेव मायामयपिञ्छकाढ्यां लोकेन्द्रजालस्य बलं मनामः ।। 59।।
तामेव मायामयपिञ्छकाढ्यां लोकेन्द्रजालस्य बलं मनामः ।। 59।।
मायामयीं तां खलु मायिकानां प्रवृत्तिमिष्टामपि दुर्बलां ये ।
पश्यन्ति तृप्यन्ति कथं न्विवास्याः साफल्ययोगेन च ते वरिष्ठाः ।। 60।।
पश्यन्ति तृप्यन्ति कथं न्विवास्याः साफल्ययोगेन च ते वरिष्ठाः ।। 60।।
मुशर्रफोऽत्याजयदेव देशं नवाजसंज्ञस्य शरीफकस्य ।
सर्वस्वकं चापजहार मुक्त्वा प्राणानसूयापर उग्रदण्डः ।। 61।।
सर्वस्वकं चापजहार मुक्त्वा प्राणानसूयापर उग्रदण्डः ।। 61।।
सा वेनजीराप्यभुनक् स्वगात्रमन्यत्र कुत्रापि कृताधिवासा ।
पाकप्रवेशक्षण एषकापि मार्गान्तरेणान्यदनीयतान्तम् ।। 62।।
पाकप्रवेशक्षण एषकापि मार्गान्तरेणान्यदनीयतान्तम् ।। 62।।
निर्वाचनस्यापि कृतेऽधिकारमेतद्द्वयस्यापजहार पूर्वम् ।
पश्चात् स्वकीयं प्रतिबन्धमेषोऽग्रहीद् विमुक्तावकरोत् तथेमौ ।। 63।।
पश्चात् स्वकीयं प्रतिबन्धमेषोऽग्रहीद् विमुक्तावकरोत् तथेमौ ।। 63।।
मुशर्रफो गच्छति सिंहलेभ्यः पाकान् विमानेन तु येन तस्य ।
शरीफ आदेशयदध्वभेदं मुशर्रफोऽमंस्त जिघांसया तम् ।। 64।।
शरीफ आदेशयदध्वभेदं मुशर्रफोऽमंस्त जिघांसया तम् ।। 64।।
तस्यैव दोषस्य कृते कृतोऽसावनेन पाकाद् बहिरात्तदण्डः ।
न प्राणदण्डोऽधित तत्र सोयं दयालुभावो हि मुशर्रफस्य ।। 65।।
न प्राणदण्डोऽधित तत्र सोयं दयालुभावो हि मुशर्रफस्य ।। 65।।
यौपम्यधिक्कारमतीत्य तस्थौ भुट्टोसुता तां च मुशर्रफोऽसौ ।
अमोचयन्नैव शरीरमेषा तितिक्षुताऽप्यस्य महाशयस्य ।। 66।
अमोचयन्नैव शरीरमेषा तितिक्षुताऽप्यस्य महाशयस्य ।। 66।
निर्वाचनाख्यं प्रधनं ददौ स स्वीकारमार्गं च तटस्थतां च ।
अवाप राज्यस्य निजस्य कञ्चिद् विपर्ययं सापि कृपैव तस्य ।। 67।।
अवाप राज्यस्य निजस्य कञ्चिद् विपर्ययं सापि कृपैव तस्य ।। 67।।
विस्रम्भमात्मन्युपमामतीता नितान्तमुच्चैस्तरमध्यकार्षीत् ।
फलं तदीयं हि शरीरपातमेषान्वभुङ्क्ताऽपरिरक्षिताङ्गी ।। 68।।
फलं तदीयं हि शरीरपातमेषान्वभुङ्क्ताऽपरिरक्षिताङ्गी ।। 68।।
न जारदारी कलयाञ्चकार तमन्यथा घातमथापराधम् ।
तमेतमापातयदस्य शीर्षे मुशर्रफस्यास्ति स वै विवेकः ।। 69।।
तमेतमापातयदस्य शीर्षे मुशर्रफस्यास्ति स वै विवेकः ।। 69।।
निर्वाचनं प्राचलदेव तस्मिन् काले तदेष स्थगयाञ्चकार ।
लाभोऽस्य लब्धो जरदारिणापि न बाहुमत्यं तु गतस्तथापि ।। 70।।
लाभोऽस्य लब्धो जरदारिणापि न बाहुमत्यं तु गतस्तथापि ।। 70।।
मुशर्रफश्चापि नवाजकश्च भुट्टोसुताजानिवरश्च तस्मिन् ।
पाकस्थ-निर्वाचकविग्रहस्य त्रिशीर्षदैत्यस्य तदानुचक्रुः ।। 71।।
पाकस्थ-निर्वाचकविग्रहस्य त्रिशीर्षदैत्यस्य तदानुचक्रुः ।। 71।।
न कोऽपि लेभे मतमेषु भूम्ना युतं त्रयी संहतिरेव तेषाम् ।
शास्तृत्वमाप्तुं खलु चेष्टते स्म मुशर्रफे राष्ट्रपतौ स्थितेऽपि ।। 72।।
शास्तृत्वमाप्तुं खलु चेष्टते स्म मुशर्रफे राष्ट्रपतौ स्थितेऽपि ।। 72।।
न कोऽपि लेभे न चकार तस्य देशस्य निर्वाचनमेषकाऽपि ।
सुबुद्धिरेतस्य हनूमतीव दशाननस्यारिकृतान्तकस्य ।। 73।।
सुबुद्धिरेतस्य हनूमतीव दशाननस्यारिकृतान्तकस्य ।। 73।।
क्व नु खलु तिलतोयदानवार्त्ता
प्रचलति यत्र मुखाग्निगो विवादः ।
न खलु करपरिग्रहोऽपि यस्मिन्
नियतवपुर्मधुयामिनी क्व तत्र ।। 74।।
प्रचलति यत्र मुखाग्निगो विवादः ।
न खलु करपरिग्रहोऽपि यस्मिन्
नियतवपुर्मधुयामिनी क्व तत्र ।। 74।।
इति विषमपदीयच्छन्दसां भेदभूमिः
प्रभवति गणभेदे किन्तु पार्यन्तिकस्तु ।
भवति खलु समात्मा काऽपि चित्तापहारी
परमिह खलु पाके वैषमीष्वेव वीर्यम् ।। 75।।
प्रभवति गणभेदे किन्तु पार्यन्तिकस्तु ।
भवति खलु समात्मा काऽपि चित्तापहारी
परमिह खलु पाके वैषमीष्वेव वीर्यम् ।। 75।।
अवनिकुक्षिमिमे कुणपैश्शतैर्विषयुतं व्यदधुस्तु नभस्तले ।
दहनमुग्रविपाकमणूत्थितं विसृमरं तु विधातुमिवोत्सुकाः ।। 76।।
दहनमुग्रविपाकमणूत्थितं विसृमरं तु विधातुमिवोत्सुकाः ।। 76।।
भूयासुर्जलजन्तवो नु पृथिवीजाताः सवृक्षाः समे
वीतासुत्वगतास्तथैव च नभोमार्ग-स्थिताः जन्तवः ।
एतेषां मतिरीदृशी हि, वदत क्वामी भवन्तस्तदा
भूयासुर्भवदीयकश्च भविता क्वासुव्रजो ब्रूथ धिक् ।। 77।।
वीतासुत्वगतास्तथैव च नभोमार्ग-स्थिताः जन्तवः ।
एतेषां मतिरीदृशी हि, वदत क्वामी भवन्तस्तदा
भूयासुर्भवदीयकश्च भविता क्वासुव्रजो ब्रूथ धिक् ।। 77।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ
‘महाविभीषाधिक्कारो’ नाम द्वाषष्टिः सर्गः ।। 62।।
मुशर्रफः पाकभुवः प्रधानात् पदात् परिच्यावित ईक्ष्यते स्म ।
उपत्यकातो महतस्तु शृङ्गाद् शैलस्य कस्यापि यथा महाद्रुः ।। 1।।
उपत्यकातो महतस्तु शृङ्गाद् शैलस्य कस्यापि यथा महाद्रुः ।। 1।।
औपम्यतीर्णा-पतिराप तस्य पदं स जर्दारिवरो रफस्य ।
रेजे यथा भैरवकुक्कुरस्य पृष्ठे स्थितः काकवरो विभाति ।। 2।।
रेजे यथा भैरवकुक्कुरस्य पृष्ठे स्थितः काकवरो विभाति ।। 2।।
रफो मुशर्रफः।
एकादशाब्दानवसत् स कारागृहेऽपराद्धो विषमेषु सिद्धः ।
अद्यासकौ लालुवदत्र देशे लेभेतमां पीठमतद्द्वितीयम् ।। 3।।
अद्यासकौ लालुवदत्र देशे लेभेतमां पीठमतद्द्वितीयम् ।। 3।।
भयं भयाद् रेचितमेव नित्यं विभीषिकात्वं भजतेऽद्वितीयम् ।
या वै विभीषा ननु कालिका सा तस्याः कुतो हन्त भयं विभाव्यम्।। 4।।
या वै विभीषा ननु कालिका सा तस्याः कुतो हन्त भयं विभाव्यम्।। 4।।
यो वै समर्थो नहि सोऽसमर्थो न्यायालयेऽपीति विडम्बनैव ।
सा ह्येव देशेऽत्र चकास्ति, सैव पाकेऽपि नूनं नय एव पङ्गुः ।। 5।।
सा ह्येव देशेऽत्र चकास्ति, सैव पाकेऽपि नूनं नय एव पङ्गुः ।। 5।।
नयो हि धर्मः स हि गौः शिवो यं समाश्रितो गत्वर आविभाति ।
नो चेत् स निष्पन्दशुचिश्ममानद्रुमायतां स्थाणुतया प्रशुष्कः ।। 6।।
नो चेत् स निष्पन्दशुचिश्ममानद्रुमायतां स्थाणुतया प्रशुष्कः ।। 6।।
नयोऽस्ति पङ्गुर्यदि कोऽपि देशो विपत्समुद्रेण निगीर्ण एव ।
न तस्य रक्षार्थमुपाददाति सन्नाहमुच्चैरपि सूकरेशः ।। 7।।
न तस्य रक्षार्थमुपाददाति सन्नाहमुच्चैरपि सूकरेशः ।। 7।।
नाहङ्कृतेर्नापि बुभुक्षुतायाः सीमास्ति काचित् हविराददानः ।
वह्निर्नु वर्धिष्णुतयैव शश्वच्चकास्त्यसौ हन्त वृकाग्नितुल्यः ।। 8।।
वह्निर्नु वर्धिष्णुतयैव शश्वच्चकास्त्यसौ हन्त वृकाग्नितुल्यः ।। 8।।
यस्यास्ति पाणौ लगुडः स एव स्वामी महिष्या ननु निर्विकम्पः ।
बलं प्रधानं बत कान्दिशीकेऽनुजे मुरारौ बलरामतुल्यम् ।। 9।।
बलं प्रधानं बत कान्दिशीकेऽनुजे मुरारौ बलरामतुल्यम् ।। 9।।
अमेरिकाभिर्वत दत्तसाह्ये कृतः प्रहारो बत पाकदेशे ।
देशः स तस्याः प्रतिरोधनाय संकल्पते हुङ्कृतिभिर्नदीष्णः ।। 10।।
देशः स तस्याः प्रतिरोधनाय संकल्पते हुङ्कृतिभिर्नदीष्णः ।। 10।।
अत्रापि दिल्लीनगरे वमानि तत्तत्प्रधानस्थलरोपितानि ।
विस्फोटनामापुरवापुरन्तं येन द्वियुक्तं दशकं नराणाम् ।। 11।।
विस्फोटनामापुरवापुरन्तं येन द्वियुक्तं दशकं नराणाम् ।। 11।।
भूयांस आघातमवापुरेभ्यो लक्षाष्टकं दास्यति रूप्यकाणाम् ।
केन्द्रं परः कारुणिकत्वयोग एषोऽर्थनाशः खलु शत्रुणेष्टः ।। 12।।
केन्द्रं परः कारुणिकत्वयोग एषोऽर्थनाशः खलु शत्रुणेष्टः ।। 12।।
येषां जना मृत्युमुखं प्रविष्टास्तेषां कृते कः खलु रौप्यराशिः ।
सौभाग्यमेषां ननु किञ्चिदेकममूल्यमेवास्ति धनं जगत्याम् ।। 13।।
सौभाग्यमेषां ननु किञ्चिदेकममूल्यमेवास्ति धनं जगत्याम् ।। 13।।
उपद्रवी द्रावयते महायःस्तम्भानपि क्रूरकरालकर्मा ।
प्राप्तो विपाकं तदुपद्रवो हि महाट्टहासो नियतेः क्षयात्मा ।। 14।।
प्राप्तो विपाकं तदुपद्रवो हि महाट्टहासो नियतेः क्षयात्मा ।। 14।।
उपद्रविष्णोरभिबोध-हेतोरपेक्ष्यते वै प्रतिभा पुरारेः ।
यस्यामनायातमपि प्रभूष्णु कीटं परिस्फूर्त्तिमुपैति मृत्योः ।। 15।।
यस्यामनायातमपि प्रभूष्णु कीटं परिस्फूर्त्तिमुपैति मृत्योः ।। 15।।
तस्यामसत्यां न मनुष्यलोके सौख्येन तिष्ठासतु कोऽपि जन्तुः ।
वध्यस्थलीं गच्छति वर्करे नु दृगस्य कक्षेषु हि दोद्रवीति ।। 16।।
वध्यस्थलीं गच्छति वर्करे नु दृगस्य कक्षेषु हि दोद्रवीति ।। 16।।
आगामि नस्तारयति प्लवात्म नौरत्नमित्याश्वसितुं पटिष्ठाः ।
ये निष्क्रियास्तेषु नभस्तलाद् वै पतन्ति वज्राणि परिध्वनन्ति ।। 17।।
ये निष्क्रियास्तेषु नभस्तलाद् वै पतन्ति वज्राणि परिध्वनन्ति ।। 17।।
पूर्वं नवीनो न हि कोऽपि जन्तु-र्ग्रामे प्रवेष्टुं क्षमते स्म धीरम् ।
तस्मै प्रवुक्कन्तितरां स्म धृष्टा रथ्यास्वटन्तो निशि सारमेयाः ।। 18।।
तस्मै प्रवुक्कन्तितरां स्म धृष्टा रथ्यास्वटन्तो निशि सारमेयाः ।। 18।।
अद्य प्रकाशं वमपेटकानि संस्थाप्य तत्तत्र परिद्रवन्ति ।
प्रस्फोटनान्येव तु तत्र हन्त प्रमाणतां यन्ति शतं विनाश्य ।। 19।।
प्रस्फोटनान्येव तु तत्र हन्त प्रमाणतां यन्ति शतं विनाश्य ।। 19।।
इमे भवन्त्यत्र परिस्फुटं वै पापात्मनां दुःसहविप्लवास्तु ।
तत्राणुशक्तिप्रबलत्वहेतुधातुप्रदानाय बुशोऽनुकूलः ।। 20।।
तत्राणुशक्तिप्रबलत्वहेतुधातुप्रदानाय बुशोऽनुकूलः ।। 20।।
निर्वाचनाख्याध्वर एति पार्श्वे ततश्च सर्वे बत भारतीयाः ।
यद् बाहुमत्याय समर्थमेवंविधं निजं भाषणमाचरन्ति ।। 21।।
यद् बाहुमत्याय समर्थमेवंविधं निजं भाषणमाचरन्ति ।। 21।।
सारस्वतं क्षेत्रमभून्नितान्तं पवित्रमध्वर्युवितानिताणु ।
तदद्य धिग्धिङ्नितरामशान्तं व्यावल्गदुन्मादशतं चकास्ति ।। 22।।
तदद्य धिग्धिङ्नितरामशान्तं व्यावल्गदुन्मादशतं चकास्ति ।। 22।।
द्विधा विभागो विहितः पृथिव्याः सरित्प्रवाहास्त्वभिदां हि पात्रम् ।
अचेतनाच्चेतन एष भेदमहङ्कृतेरेव सुतं जुषन्ते ।। 23।।
अचेतनाच्चेतन एष भेदमहङ्कृतेरेव सुतं जुषन्ते ।। 23।।
एके गवां पायसमाजुषन्ते परे समासं रुधिरं त्वियं हि ।
भित्तिर्भिदां या जनिका स्वयं तां प्रवृत्तिरेषां क्षमते निरोद्धुम् ।। 24।।
भित्तिर्भिदां या जनिका स्वयं तां प्रवृत्तिरेषां क्षमते निरोद्धुम् ।। 24।।
अहिंसया हिंसनमस्ति शाम्यं न वैपरीत्येन तु वर्त्तनीयम् ।
याऽभूदियं काचन वर्त्तनी तां धिग्विस्मृताः स्मः, कलहे पतामः ।। 25।।
याऽभूदियं काचन वर्त्तनी तां धिग्विस्मृताः स्मः, कलहे पतामः ।। 25।।
राष्ट्रस्य सेवार्थमिमे दलानि निर्मातुमेते पुरतश्चरामः ।
परन्तु पश्चात्पदताभियोगातिशीतिमग्ना हि समुल्लसामः ।। 26।।
परन्तु पश्चात्पदताभियोगातिशीतिमग्ना हि समुल्लसामः ।। 26।।
केयं सृतिर्देव! परस्परं ये पितृव्यपुत्राः कुरवो भवन्ति ।
ते पाण्डुपुत्रान् विधिसम्मताँश्च विनाशयन्तेऽप्यधुनाऽत्र भूमौ ।। 27।।
ते पाण्डुपुत्रान् विधिसम्मताँश्च विनाशयन्तेऽप्यधुनाऽत्र भूमौ ।। 27।।
शतं बभूवुस्तनया मुराया गोत्रे य एतेष्वभवत् प्रचण्डः ।
अशोक एकः स पराञ्जिहिंस वैमातृकान् निर्घृण आत्मनिष्ठः ।। 28।।
अशोक एकः स पराञ्जिहिंस वैमातृकान् निर्घृण आत्मनिष्ठः ।। 28।।
स उज्जयिन्या उपराज आसीद् वृतः कयाचिद् विदिशास्थितस्य ।
विप्रस्य पुत्र्या जनयाञ्चकार पुत्रौ महेन्द्रं च स संघमित्राम् ।। 29।।
विप्रस्य पुत्र्या जनयाञ्चकार पुत्रौ महेन्द्रं च स संघमित्राम् ।। 29।।
एतावुभौ सौगतसंप्रदायदीक्षारतौ शिश्रियतुः समुद्रे ।
श्रीसिंहलाख्यं यददोऽन्तरीपं तत्रैव देहौ जहतुश्च बौद्धौ ।। 30।।
श्रीसिंहलाख्यं यददोऽन्तरीपं तत्रैव देहौ जहतुश्च बौद्धौ ।। 30।।
अस्मिन् युगे लालबहादुरोऽभूत् प्रधानमन्त्री स च ताशकन्दे ।
जहौ शरीरं परमस्मरत् स स्वीयां भुवं सप्रणतिः स धन्यः ।। 31।।
जहौ शरीरं परमस्मरत् स स्वीयां भुवं सप्रणतिः स धन्यः ।। 31।।
न मातृभूमिं न च तस्य मृत्स्नामन्नं जलं वा प्रति ये कृतज्ञाः ।
तेषां कथं सार्थकमस्ति जन्म नराधमानामधुनातनानाम् ।। 32।।
तेषां कथं सार्थकमस्ति जन्म नराधमानामधुनातनानाम् ।। 32।।
एकस्य कक्षद्वितयीयुतस्य गेहस्य कक्षे प्रथमे निवासी ।
द्वितीयकक्षे वसतोऽतिमात्रं कथं वितृष्णो, यदि चेत् पशुर्नो ।। 33।।
द्वितीयकक्षे वसतोऽतिमात्रं कथं वितृष्णो, यदि चेत् पशुर्नो ।। 33।।
यस्मिन् कपिर्यापयते तरौ स्वां निशं प्रभाते कथमत्र लब्धे ।
फले द्वितीयं परिहृत्य भोक्तुं प्रवर्त्तते भोक्तुमिह प्रवृत्तम् ।। 34।।
फले द्वितीयं परिहृत्य भोक्तुं प्रवर्त्तते भोक्तुमिह प्रवृत्तम् ।। 34।।
ये सूकरा ये च महागजेन्द्रास्तयोर्द्वयोरस्ति भिदा करेण ।
कायेन मानाधिकतां गतेन कथं तयोर्नैव समोऽधिकारः ।। 35।।
कायेन मानाधिकतां गतेन कथं तयोर्नैव समोऽधिकारः ।। 35।।
आरक्षणं स्यादथवा वराहजातेः कृते यत्र न साधिकाराः ।
स्तम्बेरमाः स्युः सह शूकरीभिर्विवाहिताः स्युश्च गजेन्द्रजात्याः ।। 36।।
स्तम्बेरमाः स्युः सह शूकरीभिर्विवाहिताः स्युश्च गजेन्द्रजात्याः ।। 36।।
एषा यदीया प्रतिपत्तिरेषां लोकायतानां जननेतृकाणाम् ।
साम्राज्ययोगे धरणि! त्वदीया तनुः क्व वै स्थातुमलं भवित्री ।। 37।।
साम्राज्ययोगे धरणि! त्वदीया तनुः क्व वै स्थातुमलं भवित्री ।। 37।।
न कोऽपि मां पश्यति चेन्मयाऽपि, न वै विधानं परिपालनीयम् ।
यः पालनीयः स तु भूष्णुताख्यो महापिशाचः स हि दुर्निवारः ।। 38।।
यः पालनीयः स तु भूष्णुताख्यो महापिशाचः स हि दुर्निवारः ।। 38।।
तस्मिन् कथञ्चिन्मयि सिद्धिमाप्ते किं तन्न यत् सेत्स्यति लाभशृङ्गम् ।
शृङ्गारिणस्तेन समे वयं वै साम्राज्य-योगेन धृता भवेम ।। 39।।
शृङ्गारिणस्तेन समे वयं वै साम्राज्य-योगेन धृता भवेम ।। 39।।
अलाबुदीनो यदि वापि शाहेजहाँ भवत्यस्य ममात्मदर्शः ।
उच्छिष्टिदोषं परिहाय यत्र सापत्यभोक्त्र्यां प्रथमोऽभिलाषः ।। 40।।
उच्छिष्टिदोषं परिहाय यत्र सापत्यभोक्त्र्यां प्रथमोऽभिलाषः ।। 40।।
पद्मिनी द्वादशपुत्रमाता, ताजबीबी च परस्त्रीः। सापत्यायां सपतिकायाम्।
एतां मतिं केचन विप्रवंश्या अपि श्रयन्तः प्रभवन्ति राष्ट्रे ।
प्राणापहारेष्वपि सक्रियेषु तेषु क्षमं नैव विधानकं नः ।। 41।।
एतां मतिं केचन विप्रवंश्या अपि श्रयन्तः प्रभवन्ति राष्ट्रे ।
प्राणापहारेष्वपि सक्रियेषु तेषु क्षमं नैव विधानकं नः ।। 41।।
यमाः प्रसिद्धा अनिवार्यचर्याश्चर्या च तेषां नियमाभिधाना ।
सैषा चतुष्पाद् यदि वाऽस्ति पादत्रयीयुता कार्यसहा नृलोके ।। 42।।
सैषा चतुष्पाद् यदि वाऽस्ति पादत्रयीयुता कार्यसहा नृलोके ।। 42।।
यश्चेश्वरीयप्रणिधानयोगः स एक एवाद्य-समग्रकल्पः ।
यल्लब्धुमर्हं निखिलैरमीभिस्तत् केवलेशप्रणिधानलभ्यम् ।। 43।।
यल्लब्धुमर्हं निखिलैरमीभिस्तत् केवलेशप्रणिधानलभ्यम् ।। 43।।
तद्वाचकत्वं प्रणवेऽस्ति तस्मिंस्त्रयोऽप्यमी हन्त लसन्ति लोकाः ।
यद्भावनातः सकला विहाय वृत्तीर्हृदेकाग्रमलं विभाति ।। 44।।
यद्भावनातः सकला विहाय वृत्तीर्हृदेकाग्रमलं विभाति ।। 44।।
पञ्चापदेशे निगमागमानामध्येतृभावेन परिप्लुतेऽभूत् ।
को वा न यागः परमर्षि-शिष्टाचार्यैर्यथावत् परिपूर्त्तिमाप्तः ।। 45।।
को वा न यागः परमर्षि-शिष्टाचार्यैर्यथावत् परिपूर्त्तिमाप्तः ।। 45।।
सरस्वती चैव दृषद्वती च सिन्धुश्च सा कापि पयोष्णिका च ।
सरस्वतः प्रान्तभुवं पयोभिः पवित्रयन्त्यः प्रवहन्तकि स्म ।। 46।।
सरस्वतः प्रान्तभुवं पयोभिः पवित्रयन्त्यः प्रवहन्तकि स्म ।। 46।।
पयांस्यमूषां नितरां पवित्राण्यादास्यमानास्त्रिदशालयाश्च ।
विमानमारुह्य तटेष्वटन्तोऽदृश्यन्त भीष्मादिशरीरतश्च ।। 47।।
विमानमारुह्य तटेष्वटन्तोऽदृश्यन्त भीष्मादिशरीरतश्च ।। 47।।
युधिष्ठिराद्या धृतराष्ट्रपुत्रशतैरयुध्यन्त तु यत्र भूमौ ।
साप्यस्ति पञ्चापमही हि तत्र पार्थो विराजं पुरुषं लुलोके ।। 48।।
साप्यस्ति पञ्चापमही हि तत्र पार्थो विराजं पुरुषं लुलोके ।। 48।।
तस्यैक-पार्श्वे वसुदेवसूनोर्गोपाङ्गनासङ्गविहारभूमिः ।
वृन्दावनं गोकुलधामगोवर्धनादयोऽद्यापि समुल्लसन्ति ।। 49।।
वृन्दावनं गोकुलधामगोवर्धनादयोऽद्यापि समुल्लसन्ति ।। 49।।
कृष्णोऽच्युतात्मा भगवान् जिगाय यत्रैव रत्याः पतिमादिरासैः ।
कृष्णाह्रदे कालियभोगनृत्यलीलादिभिर्यश्च जिगाय कोपम् ।। 50।।
कृष्णाह्रदे कालियभोगनृत्यलीलादिभिर्यश्च जिगाय कोपम् ।। 50।।
अत्रैव भीष्मो भुवमुत्सिसृक्षुः शराग्रशय्याशयनी बभूव ।
मृत्युञ्जयः सन्नपि मृत्युकुक्षिं प्रवेष्टुमार्त्तश्चकमेऽपरक्तः ।। 51।।
मृत्युञ्जयः सन्नपि मृत्युकुक्षिं प्रवेष्टुमार्त्तश्चकमेऽपरक्तः ।। 51।।
यस्योर्वरा भूरपि दोहदेन विनाऽन्नरत्नानि बहूनि सृष्ट्वा ।
विश्वस्य कुक्षिम्भरिरादिकालादिदंक्षणं यावदलं विभाति ।। 52।।
विश्वस्य कुक्षिम्भरिरादिकालादिदंक्षणं यावदलं विभाति ।। 52।।
तस्या हि पञ्चापभुवोऽद्य सूनुः प्रधानमन्त्री भवति प्रवेकः ।
श्रीमोहनो यस्य चरित्र-शुद्ध-वस्त्रे विशुद्धिर्हि विभात्यनङ्का ।। 53।।
श्रीमोहनो यस्य चरित्र-शुद्ध-वस्त्रे विशुद्धिर्हि विभात्यनङ्का ।। 53।।
यो वै परो लालबहादुरोऽस्ति योऽभावतो भावभुवं प्रपन्नः ।
प्राध्यापनाकार्यधुरन्धरत्वे विश्वप्रतिष्ठः प्रथमोऽर्थशास्त्री ।। 54।।
प्राध्यापनाकार्यधुरन्धरत्वे विश्वप्रतिष्ठः प्रथमोऽर्थशास्त्री ।। 54।।
यं न स्मयः स्प्रष्टुमियेष लब्धेऽप्यनन्यतुल्ये निजराष्ट्रमाने ।
मिष्टं च यः सूनृतमेव वाक्यं ब्रूते विपत्तावपि धीरवीरः ।। 55।।
मिष्टं च यः सूनृतमेव वाक्यं ब्रूते विपत्तावपि धीरवीरः ।। 55।।
यो विश्वविद्यालयदानसंस्थाध्यक्ष्यं वहन्नस्ति पुरा फलेधुक् ।
यस्मादसावर्थविभागमन्त्रिधुरि स्थितिं प्रापयदुच्चचित्तैः ।। 56।।
यस्मादसावर्थविभागमन्त्रिधुरि स्थितिं प्रापयदुच्चचित्तैः ।। 56।।
उर्दूं गिरं योऽधिकृतोऽनुवक्ति वक्त्याङ्ग्लवाचं च यथात्मभाषाम् ।
हिन्दीं गिरं वक्ति परन्त्ववद्यरिक्तां हि वामाय पथेऽधिलेखाम् ।। 57।।
हिन्दीं गिरं वक्ति परन्त्ववद्यरिक्तां हि वामाय पथेऽधिलेखाम् ।। 57।।
उर्दूलिपौ हिन्दिवचांसि यो वै विलिख्य मञ्चे पठतीति लोकः ।
शक्नोति तर्केण विपर्ययं वै दृष्ट्वाऽभिलेखस्य विवर्त्तनेषु ।। 58।।
शक्नोति तर्केण विपर्ययं वै दृष्ट्वाऽभिलेखस्य विवर्त्तनेषु ।। 58।।
न भारते नाप्यकृतः स्वहस्तः तत्राभिसन्धिः नितरां स्फुटास्ति ।
उदायुधे पार्श्वगते न शत्रावस्त्रं विना कापि गतिः स्वभूमेः ।। 59।।
उदायुधे पार्श्वगते न शत्रावस्त्रं विना कापि गतिः स्वभूमेः ।। 59।।
अमेरिकाभिः सह सन्धिपत्रेऽणुशक्तिलाभाय कृतस्वहस्तः ।
बुशस्वहस्तं समवाप्य विश्वं चमत्कृतौ मज्जयितुं क्षमोऽभूत् ।। 60।।
बुशस्वहस्तं समवाप्य विश्वं चमत्कृतौ मज्जयितुं क्षमोऽभूत् ।। 60।।
येऽन्वर्थयन्ते निजनाम तेषां मध्येऽप्यभूदग्रिम एष नूत्नः ।
पाकाधिपः कश्चन जारदारी जारप्रियो दारगतश्च जारः ।। 61।।
पाकाधिपः कश्चन जारदारी जारप्रियो दारगतश्च जारः ।। 61।।
जाबालिपुर्यां रविनन्दनाख्यो विराजते कश्चन वाक्यकीलः ।
परन्तु नासौ यम एव नापि शनैश्चरो हन्त दयालुरेषः ।। 62।।
परन्तु नासौ यम एव नापि शनैश्चरो हन्त दयालुरेषः ।। 62।।
नाम्नो विरुद्धा अपि केचिदस्यां भवन्ति भूमाविति संविदानाः ।
वयं जरीदार-इति प्रसिद्धे राष्ट्राधिपे पाकगतेऽपि भक्ताः ।। 63।।
वयं जरीदार-इति प्रसिद्धे राष्ट्राधिपे पाकगतेऽपि भक्ताः ।। 63।।
यद्वा जरो वक्ति धनं, धनाढ्या जरी, तथैवास्ति दरी पदं च ।
स्वामित्ववाचि प्रथितस्ततश्च धनी महान् जारदरी क्षमं तत् ।। 64।।
स्वामित्ववाचि प्रथितस्ततश्च धनी महान् जारदरी क्षमं तत् ।। 64।।
भाषाद्वयश्लेषकविर्बभूव नूनं स जर्दारिकुलादि-तातः ।
अर्थः पदं चेदनुयाति यस्य स पूरुषस्त्वाप्तमहर्षिरुक्तः ।। 65।।
अर्थः पदं चेदनुयाति यस्य स पूरुषस्त्वाप्तमहर्षिरुक्तः ।। 65।।
यो वा महर्षिः परमं हि तस्य चित्सद्म भातीह परप्रकाशम् ।
परः स्वतः प्राक् परशब्दवाच्यः स एव धन्यः पुरुषोत्तमोऽस्ति ।। 66।।
परः स्वतः प्राक् परशब्दवाच्यः स एव धन्यः पुरुषोत्तमोऽस्ति ।। 66।।
अर्थः पटस्तस्य परे विभाति रङ्गस्ततश्चापि स पूर्वरङ्गः ।
यस्यास्ति वै पुष्करवाद्यनान्दीनादः समारम्भपदं प्रधानम् ।। 67।।
यस्यास्ति वै पुष्करवाद्यनान्दीनादः समारम्भपदं प्रधानम् ।। 67।।
सा यत्र नास्ति द्वितयं हि तत्र द्रष्टा च दृश्यं च न भिन्नरूपे ।
दृश्यं यदा द्रष्टृगतायते तन्न नाटकं तन्न च लौकिकं तत् ।। 68।।
दृश्यं यदा द्रष्टृगतायते तन्न नाटकं तन्न च लौकिकं तत् ।। 68।।
दृश्ये यदारम्भिक एव भिन्नं विभाति पार्यन्तिक एष एकः ।
नाट्यायमानो ननु भारतीय-पाकीय-भेदावधुनातनौ यौ ।। 69।।
नाट्यायमानो ननु भारतीय-पाकीय-भेदावधुनातनौ यौ ।। 69।।
पूर्वं हिमाद्रेरुपमानबाह्य उभावपीमौ जुषते स्म वातः ।
जलं शुतुद्र्या इव जाह्नवीयस्रोतस्विनीजं पिबतः स्म तौ द्वौ ।। 70।।
जलं शुतुद्र्या इव जाह्नवीयस्रोतस्विनीजं पिबतः स्म तौ द्वौ ।। 70।।
न पावमानिर्जलधिं विलङ्घ्य श्रीसिंहलानामवनेः फलानि ।
व्यकम्पतास्वादनिमज्जितानि भोक्तुं बुभुक्षापरिपीडितात्मा ।। 71।।
व्यकम्पतास्वादनिमज्जितानि भोक्तुं बुभुक्षापरिपीडितात्मा ।। 71।।
विधेर्विधानानि तु सीमितानि भवन्त्यसीम्नि प्रथिते प्रविष्टाः ।
सीमातिपाताय भवन्ति तेऽलं परं निजं तेषु निजं परं वै ।। 72।।
सीमातिपाताय भवन्ति तेऽलं परं निजं तेषु निजं परं वै ।। 72।।
को वेद कः कस्य भवत्यरातिर्मित्रं च को लोक इहातुराणाम् ।
या चाऽऽतुरी सा ननु चातुरीणां शतानि दुग्धे नरपुङ्गवेषु ।। 73।।
या चाऽऽतुरी सा ननु चातुरीणां शतानि दुग्धे नरपुङ्गवेषु ।। 73।।
सारल्य-चातुर्य-युगी विरुन्धेऽन्योन्यं रहस्यात्तसहस्ररन्ध्रः ।
रन्ध्रप्रहारी विजयं स्वहस्तगतं सदैवातनुते न शङ्का ।। 74।।
रन्ध्रप्रहारी विजयं स्वहस्तगतं सदैवातनुते न शङ्का ।। 74।।
यद् बान्धवत्वं तदु बन्धुरत्वसुवर्ण-वर्णां शुभिकां प्रविष्टम् ।
विषप्रियं किञ्चन शत्रुसैन्यं तस्यापहारो हि महान् पुमर्थः ।। 75।।
विषप्रियं किञ्चन शत्रुसैन्यं तस्यापहारो हि महान् पुमर्थः ।। 75।।
राजीवगान्धी यमवाप लोकप्रतिष्ठमात्मप्रियमप्यमुं सः ।
पदान्तरं प्रापयतेऽथवा स्वपार्श्वे निनीषत्यमुया हि बुद्धया ।। 76।।
पदान्तरं प्रापयतेऽथवा स्वपार्श्वे निनीषत्यमुया हि बुद्धया ।। 76।।
नो नेहरूर्नापि च शास्त्रिवर्यः पन्थानमेनं प्रतिपद्यते स्म ।
ये निःस्पृहा निर्भयताममी हि दारीविदध्युर्नतु संदिहानाः ।। 77।।
ये निःस्पृहा निर्भयताममी हि दारीविदध्युर्नतु संदिहानाः ।। 77।।
निष्कम्पनं स्तम्भमुपाश्रिता ये भवन्ति गेहा ननु ते हि गेहाः ।
भवन्ति लक्ष्म्याश्च वचोधिदेव्याश्च नैव ये कम्पिनमाश्रयन्ते ।। 78।।
भवन्ति लक्ष्म्याश्च वचोधिदेव्याश्च नैव ये कम्पिनमाश्रयन्ते ।। 78।।
अथापि लक्ष्मीर्दयतेऽस्मदीये राष्ट्रे कथञ्चिद् यदि सा कृपाऽस्ति ।
माधुर्यकोषस्य परात्परस्य सर्वस्य चित्ते सततं स्थितस्य ।। 79।।
माधुर्यकोषस्य परात्परस्य सर्वस्य चित्ते सततं स्थितस्य ।। 79।।
विरोधचेष्टामधिकुर्वते ये ते राष्ट्रकायं क्षपयन्त्यभीक्ष्णम् ।
परन्तु तेषामपि घोषणासु हितं हि राष्ट्रस्य चकास्ति वाक्षु ।। 80।।
परन्तु तेषामपि घोषणासु हितं हि राष्ट्रस्य चकास्ति वाक्षु ।। 80।।
एवंविधे सन्तमसाभिलीढे राष्ट्रे नयं ये न नयन्ति मार्गे ।
तेषां निपातो नियतोऽतिमात्रगभीरगर्त्तेऽन्धुनि नक्रगर्भे ।। 81।।
तेषां निपातो नियतोऽतिमात्रगभीरगर्त्तेऽन्धुनि नक्रगर्भे ।। 81।।
दैवं सदा रक्षति तं न यो वै नेत्रद्वयीज्योतिरुपेतगात्रः ।
ददाति न द्रष्टुमिदं, निरोधं कुर्वन् कराभ्यां स्वत एव मूढः ।। 82।।
ददाति न द्रष्टुमिदं, निरोधं कुर्वन् कराभ्यां स्वत एव मूढः ।। 82।।
निमङ्क्ष्यमाणोऽपि तृणस्य भक्तो भवन्नवाप्तुं तटमक्षिलक्ष्यम् ।
वात्यासु किन्तु प्रसृतासु नासौ लेशं तु सिद्धेर्लभते सदैव ।। 83।।
वात्यासु किन्तु प्रसृतासु नासौ लेशं तु सिद्धेर्लभते सदैव ।। 83।।
ग्राहः कपिं वञ्चयते स्वपृष्ठे संरोप्य पत्न्या हठतो नयन् यः ।
चातुर्ययोगेन हि रक्षितुं स्वं कपिस्तु सिद्धिं लभतेऽन्यथा नो ।। 84।।
चातुर्ययोगेन हि रक्षितुं स्वं कपिस्तु सिद्धिं लभतेऽन्यथा नो ।। 84।।
सनातनो वक्ति य एव भूत्वा महाधिकारी व्यभिचारयोगम् ।
अशिश्रियाणो भवति स्वयं स गर्त्ते पतन् पातयतेऽधिकारम् ।। 85।।
अशिश्रियाणो भवति स्वयं स गर्त्ते पतन् पातयतेऽधिकारम् ।। 85।।
पदं स्वम्।
महापराधी स महाभियोगाभिघातयोग्यो, न हि दुर्बलः सः ।
नातो दयापात्रमतः स दण्ड्यो न रक्षणीयः कथमप्युदारैः ।। 86।।
नातो दयापात्रमतः स दण्ड्यो न रक्षणीयः कथमप्युदारैः ।। 86।।
यद्वाऽभिशापान् सहतां जनानामेवंविधेऽतिक्रमणे क्षतानाम् ।
न निस्सहायस्य निजाधिकाराद् विच्यावितस्यास्ति मृषाऽभिशापः ।। 87।।
न निस्सहायस्य निजाधिकाराद् विच्यावितस्यास्ति मृषाऽभिशापः ।। 87।।
श्वा क्षीरमत्तु द्विजदेवतानां नृणां परीहारनिपातितानाम् ।
पुरो विहाय त्रपया कदुष्णां सृतिं स्वतन्त्रेषु विधेः क्रमेषु ।। 88।।
पुरो विहाय त्रपया कदुष्णां सृतिं स्वतन्त्रेषु विधेः क्रमेषु ।। 88।।
प्रचारमार्गे प्रबलास्तपस्यामार्गस्थितान् ये परिहेलयन्ति ।
तेषां गृहे वर्षति हेममेघे श्वानोऽपि दृष्टिं न खलु क्षिपन्ति ।। 89।।
तेषां गृहे वर्षति हेममेघे श्वानोऽपि दृष्टिं न खलु क्षिपन्ति ।। 89।।
विषस्य कीटं विषमेव भुक्त्वा जीवत्ययं कोऽपि निसर्ग एव ।
निम्नाभिमुख्ये निरतं जलं कः प्रतीपयेन्निष्फलबुद्धियोगः ।। 90।।
निम्नाभिमुख्ये निरतं जलं कः प्रतीपयेन्निष्फलबुद्धियोगः ।। 90।।
नाकेऽमृतं केवलमस्ति नास्ति विषं न किन्तु स्थितिमीदृशीं कः ।
विपर्ययेद् यो न भगीरथः स्यात् स्याद् वा दधीचिर्निजदानशौण्डः ।। 91।।
विपर्ययेद् यो न भगीरथः स्यात् स्याद् वा दधीचिर्निजदानशौण्डः ।। 91।।
माहिष्मतीं गच्छति योज्जयिन्याः सायं प्रभातेऽपि न वीक्षते सा ।
उदीतिशैलं विदिशां गताऽपि व्यक्तिर्विलम्बे पतितैस्तु यानैः ।। 92।।
उदीतिशैलं विदिशां गताऽपि व्यक्तिर्विलम्बे पतितैस्तु यानैः ।। 92।।
सोऽयं विलम्बः सहते समग्रैर्मार्गैस्तु वृद्धिं प्रति चालितेषु ।
क्रमेषु, सर्वत्र हि हानिगर्त्तो विवर्धमानोदर एव दृश्यः ।। 93।।
क्रमेषु, सर्वत्र हि हानिगर्त्तो विवर्धमानोदर एव दृश्यः ।। 93।।
मनुष्यमेधा कृपणायते चेद् विस्मृत्य पारम्परिकं विधानम् ।
तस्याश्चिकित्सां सहते विधातुं विभूतियोगः परमेश्वरस्य ।। 94।।
तस्याश्चिकित्सां सहते विधातुं विभूतियोगः परमेश्वरस्य ।। 94।।
सनातनो वाञ्छति काङ्क्षितं नुः प्रसिध्यतु क्लेशलवं विनापि ।
नृत्वं तु रक्ष्यं प्रथमं यदेकं सर्वाधिकं प्रीतमुमेश्वरस्य ।। 95।।
नृत्वं तु रक्ष्यं प्रथमं यदेकं सर्वाधिकं प्रीतमुमेश्वरस्य ।। 95।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ
‘मनुष्यमतिसंशोधनो’ नाम त्रिषष्टिः सर्गः ।। 63।।