स्वातन्त्र्य मस्ति यदि चेच्चिति नो न चिन्ता
कस्यापि किञ्चिदपि भाषितुमुत्सुकस्य ।
यत् तन्त्रणं तदिह कामधुगस्ति लोके
स्वस्मादुदित्वरपदक्रमणस्य शश्वत् ।। 1।।
कस्यापि किञ्चिदपि भाषितुमुत्सुकस्य ।
यत् तन्त्रणं तदिह कामधुगस्ति लोके
स्वस्मादुदित्वरपदक्रमणस्य शश्वत् ।। 1।।
यन्नो नियन्त्रणगुणे भजति प्रियत्वं
तस्य स्वयंवरसभां गमितस्य कण्ठे ।
वध्वाः स्रगापतति, हन्त तदीयशीर्षे
मृत्योर्लुलायखुर एव किरन् विभाति ।। 2।।
तस्य स्वयंवरसभां गमितस्य कण्ठे ।
वध्वाः स्रगापतति, हन्त तदीयशीर्षे
मृत्योर्लुलायखुर एव किरन् विभाति ।। 2।।
निर्यन्त्रणस्य निखिलेषु सपत्नकस्य
कस्यापि कापि किमु संभवति प्रतिष्ठा ।
नो वानरस्य हृदि वासितविग्रहस्य
पाणी कपोलफलके पततः स्वभर्त्तुः ।। 3।।
कस्यापि कापि किमु संभवति प्रतिष्ठा ।
नो वानरस्य हृदि वासितविग्रहस्य
पाणी कपोलफलके पततः स्वभर्त्तुः ।। 3।।
संसत्सभासु नहि किञ्चिदवाच्यमेव
वाक्यं समस्ति तु समस्य सुसांसदस्य ।
एतां स्वहस्तविधृतां रशनां विसृज्य
केचित् विशृङ्खलगुणाः प्रभवो रटन्ति ।। 4।।
वाक्यं समस्ति तु समस्य सुसांसदस्य ।
एतां स्वहस्तविधृतां रशनां विसृज्य
केचित् विशृङ्खलगुणाः प्रभवो रटन्ति ।। 4।।
एतां तु सांसददशां प्रसृतां करोति
साक्षात् समस्तजगतः प्रमुखे तु दर्शी (दूरदर्शी) ।
यन्त्रोत्तमो जनहितैकधनाश्च धन्याः
शीर्षाणि हन्त परिधुन्वत एतदीक्षाः ।। 5।।
साक्षात् समस्तजगतः प्रमुखे तु दर्शी (दूरदर्शी) ।
यन्त्रोत्तमो जनहितैकधनाश्च धन्याः
शीर्षाणि हन्त परिधुन्वत एतदीक्षाः ।। 5।।
या वै दशा भवति मार्गचतुष्टयस्य
सायन्तने जनसमाकुलितस्य कार्ये ।
तामेव लोकसभया विधृतां धयाम-
स्त्वन्त्वन्त्वजामहमहत्वकलिं स्वराढ्याम् ।। 6।।
सायन्तने जनसमाकुलितस्य कार्ये ।
तामेव लोकसभया विधृतां धयाम-
स्त्वन्त्वन्त्वजामहमहत्वकलिं स्वराढ्याम् ।। 6।।
ततस्तत उदित्वरास्त्वतिविशालराष्ट्रस्य ये
भवन्ति खलु नायकाः सपदि सांसदत्वं गताः ।
कथं नु भरतावनेर्वपुरिदं समग्रं तु तैः
क्रियेत खलु संसदि त्वरितविग्रहैः प्रस्तुतम् ।। 7।।
भवन्ति खलु नायकाः सपदि सांसदत्वं गताः ।
कथं नु भरतावनेर्वपुरिदं समग्रं तु तैः
क्रियेत खलु संसदि त्वरितविग्रहैः प्रस्तुतम् ।। 7।।
अहं यवनकन्यका पठितवत्यहं संस्कृतं
ततो निखिलमप्यदो धनमिहास्ति वै मामकम् ।
इति प्रियशतैर्बुधान् समभिकृष्य निर्माप्य तै-
रुदारतरभाषया कृतिमियं ममेति प्रथाः ।। 8।।
ततो निखिलमप्यदो धनमिहास्ति वै मामकम् ।
इति प्रियशतैर्बुधान् समभिकृष्य निर्माप्य तै-
रुदारतरभाषया कृतिमियं ममेति प्रथाः ।। 8।।
राज्ये यो वै कोऽपि पालः स चापि दृष्ट्वा तत्तन्नाम विद्वद्वराणाम् ।
तास्वेतासु प्रत्ययं प्राप्य तत्ताः दातुं दीर्घा दक्षिणाः संत्वरन्ते ।। 9।।
तास्वेतासु प्रत्ययं प्राप्य तत्ताः दातुं दीर्घा दक्षिणाः संत्वरन्ते ।। 9।।
मह्यं न कश्चित् समयोऽस्ति दातुं नेतुः समीपे परमस्य मे हि ।
प्रमाणपत्रं खलु यस्य पार्श्वे समस्ति तं मूर्ध्नि निवेशयेत ।। 10।।
प्रमाणपत्रं खलु यस्य पार्श्वे समस्ति तं मूर्ध्नि निवेशयेत ।। 10।।
अत्रास्ति हेतुः खलु यावनत्वं स्त्रीत्वं च सत्पूरुषनामकञ्च ।
प्रचारहेतोः प्रथमानकायस्यात्यायतस्याध्वशतार्जनं च ।। 11।।
प्रचारहेतोः प्रथमानकायस्यात्यायतस्याध्वशतार्जनं च ।। 11।।
यस्यास्ति साहित्यपथाय नाममात्रात्मिका शक्तिरसौ महीयान् ।
यस्मिँश्च साहित्यसुरद्रुरास्ते मधुश्रियाऽलङ्कृत एष हेयः ।। 12।।
यस्मिँश्च साहित्यसुरद्रुरास्ते मधुश्रियाऽलङ्कृत एष हेयः ।। 12।।
एषास्ति हेतोः खलु यस्य नीतिः सा क्षुद्रता बुद्धिगताऽस्मदीया ।
यस्मिन् गुणस्तत्र हृदोऽभियोगो जागर्त्तये मूर्च्छति मातृभूमेः ।। 13।।
यस्मिन् गुणस्तत्र हृदोऽभियोगो जागर्त्तये मूर्च्छति मातृभूमेः ।। 13।।
पूज्योऽन्यथाऽन्यत्र च पूज्यतेऽसौ तज्ज्ञो न योऽसौ स हि सर्वविज्ञः ।
स्वधर्मतस्तेन युगेऽत्र सर्वै प्रवर्त्तनीयं निजकृत्यमार्गे ।। 14।।
स्वधर्मतस्तेन युगेऽत्र सर्वै प्रवर्त्तनीयं निजकृत्यमार्गे ।। 14।।
यद् वृत्तपत्रं तदिहास्ति नेतृधुरं दधानं, परमेतदास्ते ।
स्वशक्तिगर्वाऽचलतुङ्गशीर्षे प्रोत्तानपादं श्रवसी पिधाय ।। 15।।
स्वशक्तिगर्वाऽचलतुङ्गशीर्षे प्रोत्तानपादं श्रवसी पिधाय ।। 15।।
अष्टौ व्यतीता बत विश्वभारती-पुरस्क्रियाया खलु घोषणायाः ।
द्रव्यं तु नाद्याप्युपलम्भि शास्तुः, न नायकानामवकाश आस्ते ।। 16।।
द्रव्यं तु नाद्याप्युपलम्भि शास्तुः, न नायकानामवकाश आस्ते ।। 16।।
येभ्यो मतं लभ्यत एषु काचिद् विपत्तिरास्ते ननु सा प्रशम्या ।
विपद्गते द्रव्यशतायुतानि वितीर्य तुष्यन्ति गृहस्य पोषात् ।। 17।।
विपद्गते द्रव्यशतायुतानि वितीर्य तुष्यन्ति गृहस्य पोषात् ।। 17।।
परिश्रमस्यास्ति न मूल्यमस्मिन् देशे निजत्वं प्रगुणायते धिक् ।
महार्घता वेतनवृद्धिरास्ते वाणिज्यपोषाय परं, न भोक्त्रे ।। 18।।
महार्घता वेतनवृद्धिरास्ते वाणिज्यपोषाय परं, न भोक्त्रे ।। 18।।
भूमिस्तु तावत्यधिका न तस्यामन्नानि नोत्पादयितुं सयत्नाः ।
सोयाविनादींस्तु समुल्लसामः प्रोत्पादनायार्थकृतोऽतिभूय ।। 19।।
सोयाविनादींस्तु समुल्लसामः प्रोत्पादनायार्थकृतोऽतिभूय ।। 19।।
वृक्षॉश्च तॉस्तानधिरोपयामो मार्गस्य पार्श्वेषु परन्तु तान् हि ।
येभ्यः प्रसूनान्यपि नैव लभ्यान्यन्यद्रुमाणां खलु नैव चर्चा ।। 20।।
येभ्यः प्रसूनान्यपि नैव लभ्यान्यन्यद्रुमाणां खलु नैव चर्चा ।। 20।।
न बिल्बवृक्षा न च मिष्टगन्धा आम्रा न वा केसरका अशोकाः ।
दृश्यन्त, एते हि महौषधीत्वगुणं दधाना बत किंशुका नु ।। 21।।
दृश्यन्त, एते हि महौषधीत्वगुणं दधाना बत किंशुका नु ।। 21।।
यत्रास्ति लक्षायुतनागराणां वासः पुरेभ्यो ननु योऽपवाह्यः ।
पदार्थ उद्गच्छति तं सरित्सु पुण्यासु धिक् पातयितुं लषामः ।। 22।।
पदार्थ उद्गच्छति तं सरित्सु पुण्यासु धिक् पातयितुं लषामः ।। 22।।
भागीरथीवारिमहाप्रवाहो न्यपाति सेतौ परिपूरणाय ।
गङ्गाप्रवाहोऽद्य तु तीर्थराजेऽप्यदृश्यतां याति, न तत्र चिन्ता ।। 23।।
गङ्गाप्रवाहोऽद्य तु तीर्थराजेऽप्यदृश्यतां याति, न तत्र चिन्ता ।। 23।।
श्रीनर्मदाया जलसेतुहेतोर्निरुद्धधाराम्भस एष पूरः ।
ग्रामा अनेके तटवर्त्तिनोऽस्मिन् मग्नाश्च जाताश्च कृषेर्विहीनाः ।। 24।।
ग्रामा अनेके तटवर्त्तिनोऽस्मिन् मग्नाश्च जाताश्च कृषेर्विहीनाः ।। 24।।
एभ्यः कुतश्चित् क्रियते व्यवस्था तत्रापि ये स्वा अधिकारिवर्ग्याः ।
तेऽपूर्वमेवोपलभन्त उच्चैस्तरं तु सौविध्यमृते विकल्पम् ।। 25।।
तेऽपूर्वमेवोपलभन्त उच्चैस्तरं तु सौविध्यमृते विकल्पम् ।। 25।।
उज्जास्यते चेद् भवनाय किञ्चित् कुटीरकं का ननु शास्तृताऽद्य ।
असौ महामीन मुखेन गीर्णः क्षुद्रः शरीरेण तु मीनबन्धुः ।। 26।।
असौ महामीन मुखेन गीर्णः क्षुद्रः शरीरेण तु मीनबन्धुः ।। 26।।
वृक्षो विशालो विततप्रकाण्डो यत्राधिकं वर्धत एषका भूः ।
वृक्षान्तरं पोषयितुं न शक्ता भवत्यथो शोधनमत्र कार्यम् ।। 27।।
वृक्षान्तरं पोषयितुं न शक्ता भवत्यथो शोधनमत्र कार्यम् ।। 27।।
संशोधनं नास्ति महत्तरस्यच्छित् सा हि चिच्छक्तिविमाननैव ।
अपुष्टसंपोषणसिद्धिहेतोर्हेतुर्निवार्यो भवतीह रोधे ।। 28।।
अपुष्टसंपोषणसिद्धिहेतोर्हेतुर्निवार्यो भवतीह रोधे ।। 28।।
हेतुश्च कुक्षिः, परिवर्धमाननिकायकायोदरकं विहायाः ।
निरोधहेतुश्च तदीय एको यमोऽप्रियः, का नियमस्य वार्त्ता ।। 29।।
निरोधहेतुश्च तदीय एको यमोऽप्रियः, का नियमस्य वार्त्ता ।। 29।।
देहस्य विद्युज्ज्वलनाऽनिवार्या न जायते, चेदियमार्यभूमिः ।
द्रुमेण रिक्ता च शबार्थगर्तनिकायरुद्धा च भवेदवश्यम् ।। 30।।
द्रुमेण रिक्ता च शबार्थगर्तनिकायरुद्धा च भवेदवश्यम् ।। 30।।
यत्राधिकं द्रव्यममुष्य सेवाकार्यस्य हेतोर्वयमात्मगेहम् ।
विक्रीय दातुं प्रभविष्णवः स्म उत्कोचमुच्चैरिह हन्त काले ।। 31।।
विक्रीय दातुं प्रभविष्णवः स्म उत्कोचमुच्चैरिह हन्त काले ।। 31।।
एषाऽस्ति काचित् परिदौर्बली नो नान्यस्य दोषोऽयमिति ब्रुवाणाः ।
सानातनीया वयमत्र चक्रद्वयं श्रिताः, नो परकारयानम् ।। 32।।
सानातनीया वयमत्र चक्रद्वयं श्रिताः, नो परकारयानम् ।। 32।।
उत्कोचराशिं पुनरर्जयाम उत्कोचकैरेव कुतोऽत्र रोधः ।
यद्युच्चकैरात्मनि नैव काचिदाश्रीयते स्वस्थतमा प्रतुष्टिः ।। 33।।
यद्युच्चकैरात्मनि नैव काचिदाश्रीयते स्वस्थतमा प्रतुष्टिः ।। 33।।
अन्यायलभ्योऽर्थ उपास्यते नो पूजाधिकारे परमेश्वरस्य ।
नान्नं च तेनाधिगतं भजामो बुद्धिस्ततो विक्रियते तु भोक्तुः ।। 34।।
नान्नं च तेनाधिगतं भजामो बुद्धिस्ततो विक्रियते तु भोक्तुः ।। 34।।
या दूषिता भूस्तत उत्पतद्भ्यो यवादिकेभ्योऽपि विभीषिताः स्मः ।
किं भक्षणीयं किमु चापि पेयमित्यप्यहो नाद्य विभावयामः ।। 35।।
किं भक्षणीयं किमु चापि पेयमित्यप्यहो नाद्य विभावयामः ।। 35।।
आकाशकुक्षावधुना विमानभूमिष्वहो हन्त निवासिनः स्मः ।
का नाम गोपालनयोगकृच्छ्रसाध्याभ्युपायाधिगमस्य वार्त्ता ।। 36।।
का नाम गोपालनयोगकृच्छ्रसाध्याभ्युपायाधिगमस्य वार्त्ता ।। 36।।
अन्याश्रिताः स्मो न हि विद्युतो वै विना दिनं वा यदिवाऽपि रात्रिम् ।
कीरा यथा पञ्जरगा वयं न क्षमामहे यापयितुं सुखेन ।। 37।।
कीरा यथा पञ्जरगा वयं न क्षमामहे यापयितुं सुखेन ।। 37।।
गङ्गाजलस्नानकषायितानां गृहे पुनः सांप्रतिकोऽभिषेकः ।
धर्मोऽश्रु मुञ्चेन्न विना तमेते मलं शरीराद् विनिवारयामः ।। 38।।
धर्मोऽश्रु मुञ्चेन्न विना तमेते मलं शरीराद् विनिवारयामः ।। 38।।
कलिन्दकन्याजलवेणिकायां पतन्ति ये नाम मला नगर्याः ।
दूरं प्रपूतिक्षतनासिकास्ते ह्रदं तदीयं नरकापयन्ते ।। 39।।
दूरं प्रपूतिक्षतनासिकास्ते ह्रदं तदीयं नरकापयन्ते ।। 39।।
वृन्दावने यास्ति कलिन्दकन्या तस्या अपि स्नातुमनर्हकाणि ।
नीराणि तीराणि विमुञ्चदम्भःस्रुतीनि बाभान्ति कषायितानि ।। 40।।
नीराणि तीराणि विमुञ्चदम्भःस्रुतीनि बाभान्ति कषायितानि ।। 40।।
वंशीवटास्तत्र लसन्त्यनेके सर्वेषु चैतेषु विलम्बितानि ।
विभान्ति वासांसि तु वल्लवीनामाराच्च ताः हन्त मलप्रणालाः ।। 41।।
विभान्ति वासांसि तु वल्लवीनामाराच्च ताः हन्त मलप्रणालाः ।। 41।।
मयूरवृन्दानि चरन्ति यत्र सर्वत्र केकाध्वनिमुद्गिरन्ति ।
तेषां तु यच्चन्द्रकचित्रमङ्गं तच्छायया तुष्यति किन्तु भेकः ।। 42।।
तेषां तु यच्चन्द्रकचित्रमङ्गं तच्छायया तुष्यति किन्तु भेकः ।। 42।।
गङ्गाजलं पाटलिपुत्रपार्श्वे वृन्दावनान्ते यमुनाजलं च ।
समानमानं मलदूषणायां तीर्थत्वधीश्चाप्युभयत्र कष्टा ।। 43।।
समानमानं मलदूषणायां तीर्थत्वधीश्चाप्युभयत्र कष्टा ।। 43।।
कृष्णो यदा वाञ्छति वेणुवादं श्वासं यमापूर्य वनीष्वमूषु ।
पूत्या क्षतेष्वेषु ‘कल’-त्व योगो न जायते हन्त कदाचनापि ।। 44।।
पूत्या क्षतेष्वेषु ‘कल’-त्व योगो न जायते हन्त कदाचनापि ।। 44।।
विस्मारिता रासरसान् वराक्यो गोप्यः क्व यान्त्वद्य विलोपमाप्ते ।
कृष्णे कदाचारकषायितेभ्यो वृन्दावनेभ्यः शरदोऽपि रात्रौ ।। 45।।
कृष्णे कदाचारकषायितेभ्यो वृन्दावनेभ्यः शरदोऽपि रात्रौ ।। 45।।
हम्भारवो नास्ति पयस्विनीनां गवां श्रुतौ प्राप्त इदंक्षणे नुः ।
क्षमस्तु चेतोद्रुतये धनस्य घातो नु सोऽयं हृदयेषु भाति ।। 46।।
क्षमस्तु चेतोद्रुतये धनस्य घातो नु सोऽयं हृदयेषु भाति ।। 46।।
पेडेति नाम्नः पयसां गवां हि क्वाथेन जन्यस्य पदं जुषन्ते ।
क्वाथा महिष्याः पयसस्तथैव क्वाथा अजायाश्च समेषिकायाः ।। 47।।
क्वाथा महिष्याः पयसस्तथैव क्वाथा अजायाश्च समेषिकायाः ।। 47।।
अद्यापि तस्मिन् निवसन्ति भक्ताः केचिद् वने वालुकया परीताः ।
तद्गर्त्तमध्याद् बहिरास्थितास्याः शैत्येन तापेन च रक्षिताङ्गाः ।। 48।।
तद्गर्त्तमध्याद् बहिरास्थितास्याः शैत्येन तापेन च रक्षिताङ्गाः ।। 48।।
ये पक्षिणः सन्ति च ये च शाखामृगाश्चरन्तो वनमध्यभागे ।
ते तेन रूपेण वने वसन्तो भक्ता हि सर्वेऽपि भवन्ति धन्याः ।। 49।।
ते तेन रूपेण वने वसन्तो भक्ता हि सर्वेऽपि भवन्ति धन्याः ।। 49।।
याश्चाऽत्र कन्या द्रुतहेमवर्णाः सर्वाः प्रगल्भा विकसन्मुखाब्जाः ।
क्ष्वेडक्रियायां निपुणा विशङ्का राधायिता एव वसन्ति मुग्धाः ।। 50।।
क्ष्वेडक्रियायां निपुणा विशङ्का राधायिता एव वसन्ति मुग्धाः ।। 50।।
कृष्णस्य भक्ता बलरामवर्णा गात्रेण गोत्रेण च मुग्धमुग्धाः ।
वचांस्यहो मुग्धिममज्जितानि ब्रुवन्ति हृष्यन्ति च शुद्धचित्ताः ।। 51।।
वचांस्यहो मुग्धिममज्जितानि ब्रुवन्ति हृष्यन्ति च शुद्धचित्ताः ।। 51।।
पार्श्वे च तस्यैव चकास्ति भूमिर्यत्रास्ति खाता ननु ताजबीबी ।
पार्श्वे च यस्या जगतामधीश इत्याख्य आस्ते खनितस्तदीशः ।। 52।।v
पार्श्वे च यस्या जगतामधीश इत्याख्य आस्ते खनितस्तदीशः ।। 52।।v
एषाऽस्ति भूमिस्सरसा स्मरेण सरासरागा मुरलीधरेण ।
सा चाऽस्ति निष्प्राणवपुर्युगस्य श्मशानखातानधिका वराकी ।। 53।।
सा चाऽस्ति निष्प्राणवपुर्युगस्य श्मशानखातानधिका वराकी ।। 53।।
विश्वस्य सर्वाधिकमान्यमान्या ताजश्मशानावनिरेषकाऽद्य ।
उद्घोषिता पश्चिमदेशवासिस्थापत्यदीक्षागुरुभिर्महार्हैः ।। 54।।
उद्घोषिता पश्चिमदेशवासिस्थापत्यदीक्षागुरुभिर्महार्हैः ।। 54।।
तस्यैव पार्श्वेऽस्ति जयाभिधस्य राज्ञः पुरं स्वर्णिमभित्तिगेहम् ।
यामाश्रिता पण्डितसत्कवीन्द्राः संस्कृत्रिमां वाचमवीवृधन् वै ।। 55।।
यामाश्रिता पण्डितसत्कवीन्द्राः संस्कृत्रिमां वाचमवीवृधन् वै ।। 55।।
आसीत् तु तत्रैव हि पण्डितेन्द्रः श्रीमाञ्जगन्नाथ इति प्रतीतः ।
पश्चाच्च तत्रावसदन्नपूर्णावात्सल्यभाक् श्रीमधुसूदनोऽपि ।। 56।।
पश्चाच्च तत्रावसदन्नपूर्णावात्सल्यभाक् श्रीमधुसूदनोऽपि ।। 56।।
तत्रैव काश्चिच्छरदोऽध्युवास नरेन्द्रनामा स विवेक एकः ।
यो वै शिकागोसदसि प्रवक्ता ब्रह्मैक्यवादस्य जगत्प्रसिद्धः ।। 57।।
यो वै शिकागोसदसि प्रवक्ता ब्रह्मैक्यवादस्य जगत्प्रसिद्धः ।। 57।।
तस्यैव पार्श्वेस्ति च सापि दिल्ली या राजधानी भरतावनीनाम् ।
यस्यां कुटुम्बाध्युषिताऽस्ति संस्था गीर्वाणवाणी-सकलप्रतिष्ठा ।। 58।।
यस्यां कुटुम्बाध्युषिताऽस्ति संस्था गीर्वाणवाणी-सकलप्रतिष्ठा ।। 58।।
तत्राभवन् मण्डनमिश्रसंज्ञा पट्टाभिरामस्य बुधस्य शिष्याः ।
यैः सव्यसाचित्वधुरं वहद्भिर्गीर्वाणवाणी गमिता प्रतिष्ठाम् ।। 59।।
यैः सव्यसाचित्वधुरं वहद्भिर्गीर्वाणवाणी गमिता प्रतिष्ठाम् ।। 59।।
स्वातन्त्र्य-संग्राम-महाब्धिमन्थमन्थाचलानां भगतादिनाम्नाम् ।
स्मेरैर्मुखैः स्वर्गत एव शश्वन्निरीक्ष्यमाणाऽस्ति पुरी महार्हा ।। 60।।
स्मेरैर्मुखैः स्वर्गत एव शश्वन्निरीक्ष्यमाणाऽस्ति पुरी महार्हा ।। 60।।
अगस्तमासस्य पुरा च पञ्चदशाहनि प्रापि सुतन्त्रता या ।
स्वातन्त्र्य"युक्ता प्रतिवर्षमेषा यस्मिन् दिने प्रोत्सविनी हि दृष्टा ।। 61।।
स्वातन्त्र्य"युक्ता प्रतिवर्षमेषा यस्मिन् दिने प्रोत्सविनी हि दृष्टा ।। 61।।
तस्मिन् दिने लालकिलाङ्गने नः प्रधानमन्त्री कुरुते त्रिरङ्गम् ।
ध्वजं स्फुरत्पट्टकमार्यवर्यैः प्रणम्यमानं सजयध्वनिञ्च ।। 62।।
ध्वजं स्फुरत्पट्टकमार्यवर्यैः प्रणम्यमानं सजयध्वनिञ्च ।। 62।।
षड्विंशके जन्वरिमासके च राष्ट्रस्य धन्याः पतिरत्र तॉस्तान् ।
दृश्योत्तमान् सैन्यपराक्रमाँश्च पश्यत्यवस्तार्य निजं त्रिरङ्गम् ।। 63।।
दृश्योत्तमान् सैन्यपराक्रमाँश्च पश्यत्यवस्तार्य निजं त्रिरङ्गम् ।। 63।।
यस्मिन् दिने पञ्चदश प्रकृष्टा विद्वद्वराः संस्कृतवाक्प्रधानाः ।
प्रशस्तिपत्रं प्रतिपाद्य सम्यक् पूज्यन्त एव प्रतिवर्षमेव ।। 64।।
प्रशस्तिपत्रं प्रतिपाद्य सम्यक् पूज्यन्त एव प्रतिवर्षमेव ।। 64।।
क्रमेऽत्र कश्चित् स सनातनश्च त्रिंशत् पुरस्कारवरानवाप्य ।
विराजते तत्परमेकमन्यं पुरस्कृतेः पर्ययमाप्तुमीशः ।। 65।।
विराजते तत्परमेकमन्यं पुरस्कृतेः पर्ययमाप्तुमीशः ।। 65।।
पुरस्कृतीनां करकाभिवर्षैर्यस्यास्ति विच्छिन्नमतिप्रवाहा ।
संवित् स नोत्कृष्टतमानि कर्त्तुं क्षमेत काव्यानि रसायनानि ।। 66।।
संवित् स नोत्कृष्टतमानि कर्त्तुं क्षमेत काव्यानि रसायनानि ।। 66।।
पुरस्कृतिं मूर्धनि नैव दध्मः सरस्वतीपादसरोरुहाणाम् ।
रजोभिरालिप्तललाटपट्टास्तस्यैव सौरभ्यमिमे पिबामः ।। 67।।
रजोभिरालिप्तललाटपट्टास्तस्यैव सौरभ्यमिमे पिबामः ।। 67।।
यद्वा पुरस्कारशतानि लब्ध्वाऽप्येतैरलङ्कर्त्तुमिमे लषामः ।
जगत्सवित्र्यास्त्रिजगत्पवित्र्या गिरां धवित्र्याः पदपङ्कजानि ।। 68।।
जगत्सवित्र्यास्त्रिजगत्पवित्र्या गिरां धवित्र्याः पदपङ्कजानि ।। 68।।
श्रीशारदा-सख्य-सुरद्रुमाणां छाया उपासीनतया त्रिलोकी ।
त्रैलोक्यसेव्यत्वमुपाश्रयन्ती शम्भौ शिरश्चन्द्रकलात्वमेति ।। 69।।
त्रैलोक्यसेव्यत्वमुपाश्रयन्ती शम्भौ शिरश्चन्द्रकलात्वमेति ।। 69।।
वैदर्भीसुषमातिरेकशतकान्येषां पुरः शेरते
माकन्दम्रदिमातिशय्य नियुतान्येषां तनौ तन्वते ।
सौभाग्योदयशैलदिव्यशिखराण्येषां पदं बिभ्रति
येषां चेतसि चिन्मयी मधुमयी कादम्बिनी काशते ।। 70।।
माकन्दम्रदिमातिशय्य नियुतान्येषां तनौ तन्वते ।
सौभाग्योदयशैलदिव्यशिखराण्येषां पदं बिभ्रति
येषां चेतसि चिन्मयी मधुमयी कादम्बिनी काशते ।। 70।।
नत्वा तां निजहृदयस्थितां पराम्बां
स्वातन्त्र्यं विषयतया विभाव्य गीताम् ।
गीतां मे समुपहृतां स्वकाव्यरूपे
संहर्त्तुं कथमपि यत्नवान् भवामि ।। 71।।
स्वातन्त्र्यं विषयतया विभाव्य गीताम् ।
गीतां मे समुपहृतां स्वकाव्यरूपे
संहर्त्तुं कथमपि यत्नवान् भवामि ।। 71।।
मुशर्रफस्तृतीयं तु वारं राष्ट्रपतेः पदम् ।
अजयत् पञ्चपञ्चाशन्मतान्याप्य तु सङ्गरे (निवचिनसङ्गरे) ।। 72।।
अजयत् पञ्चपञ्चाशन्मतान्याप्य तु सङ्गरे (निवचिनसङ्गरे) ।। 72।।
मते द्वे तद्विरोध्रा तु लब्धे हेतोः कुतश्चन ।
प्राण-भीतिस्तु सर्वेषां विद्यते मतदायिनाम् ।। 73।।
प्राण-भीतिस्तु सर्वेषां विद्यते मतदायिनाम् ।। 73।।
भारतेऽम्रीकया सार्धं जायमानस्तु यः पणः ।
परमाणुविकासार्थः स संप्रत्युपरोधितः ।। 74।।
परमाणुविकासार्थः स संप्रत्युपरोधितः ।। 74।।
बुशो राष्ट्रपतिः श्रीमन्मोहने नाद्यवारणाम् ।
सूचितः सन्धि-योगेऽत्र विपक्षेण खिलीकृताम् ।। 75।।
सूचितः सन्धि-योगेऽत्र विपक्षेण खिलीकृताम् ।। 75।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ स्वरूपदर्शनो नाम सप्तपञ्चाशः सर्गः ।। 57।।
नरेन्द्रमोदी गुजरातराज्यनिर्वाचने बाहुमतं जिगाय ।
स एष काङ्ग्रेसदलाधिपत्यभाजाभ्यघोष्यन्तकघातुकात्मा ।। 1।।
स एष काङ्ग्रेसदलाधिपत्यभाजाभ्यघोष्यन्तकघातुकात्मा ।। 1।।
एतेन कश्चित् प्रबलो जघन्यकर्माततायी यवनोऽस्त्यघाति ।
तस्यास्य कृत्यस्य कृते प्रियङ्कामाता तमेतं शपथं चकार ।। 2।।
तस्यास्य कृत्यस्य कृते प्रियङ्कामाता तमेतं शपथं चकार ।। 2।।
कृतप्रयत्नाऽपि न सोनियाऽमुं मोदीनरेन्द्रं क्षपयाञ्चकार ।
जनस्य चित्ते गमितं प्रतिष्ठां कार्यैरयाता ननु तां वराकी ।। 3।।
जनस्य चित्ते गमितं प्रतिष्ठां कार्यैरयाता ननु तां वराकी ।। 3।।
काङ्ग्रेसिनोऽस्मिन् विजये ब्रुवन्ति जयं नरेन्द्रस्य न भाजपायाः ।
तैर्वाच्यमन्यत्र पराजयोऽयं श्रीसोनियाया न तु तद्दलस्य ।। 4।।
तैर्वाच्यमन्यत्र पराजयोऽयं श्रीसोनियाया न तु तद्दलस्य ।। 4।।
यद्येवमेषा परिहाय काङ्गरेसं दलं तिष्ठतु लोकबाह्या ।
यद्वा दलं स्वं परिहृत्य देशे दलान्तरं स्थापयितुं क्रमेत ।। 5।।
यद्वा दलं स्वं परिहृत्य देशे दलान्तरं स्थापयितुं क्रमेत ।। 5।।
राजीवगान्धीदयिता वराकी प्रजाभिरेतस्य बृहत्तमस्य ।
राष्ट्रस्य नैवादरभाजनत्वं नीता गतासुर्नु विरोचतेऽद्य ।। 6।।
राष्ट्रस्य नैवादरभाजनत्वं नीता गतासुर्नु विरोचतेऽद्य ।। 6।।
निर्वाचनायोगनियोगमेषा नैवोदतार्षीत् स नरेन्द्रकश्च ।
प्रमाणपूर्णोत्तरदानदक्षो नियोगिनो मौनमुखांश्चकार ।। 7।।
प्रमाणपूर्णोत्तरदानदक्षो नियोगिनो मौनमुखांश्चकार ।। 7।।
नरेन्द्रमोदी ह्यडवानिनेऽद्य प्रधानमन्त्रित्वकृते विकल्पः ।
जातस्ततः श्रीजटली जहर्ष सर्वोच्चसन्न्यायगृहाधिवक्ता ।। 8।।
जातस्ततः श्रीजटली जहर्ष सर्वोच्चसन्न्यायगृहाधिवक्ता ।। 8।।
इन्द्रस्य वृत्रासुरघातुकस्य शस्त्राण्यभूवन् मुनिसक्थिकानि ।
मोदीनरेन्द्रस्य जयेऽपि तद्वद्धेतुत्वमापुर्जनशोणितानि ।। 9।।
मोदीनरेन्द्रस्य जयेऽपि तद्वद्धेतुत्वमापुर्जनशोणितानि ।। 9।।
गतोऽस्तमस्मिन् भरतस्य राष्ट्रे स्वयं महात्मा भरताग्रजो हि ।
तत्रास्ति हेतुर्ननु नान्य एकं विहाय भक्तेषु नपुंसकत्वम् ।। 10।।
तत्रास्ति हेतुर्ननु नान्य एकं विहाय भक्तेषु नपुंसकत्वम् ।। 10।।
रामोऽपि जातोऽद्य नपुंसको हि दशाननारित्वयशोऽवदातः ।
दशाननत्वं स्वयमप्यवाप्तो यद्वाऽद्य यातः स विपर्ययं स्वम् ।। 11।।
दशाननत्वं स्वयमप्यवाप्तो यद्वाऽद्य यातः स विपर्ययं स्वम् ।। 11।।
लोकद्वयं साधयितुं समर्था या चातुरी सा हि पुराणगाथा ।
या साधयेदद्यतनं कथञ्चित् तां चातुरीमद्य तु पूजयामः ।। 12।।
या साधयेदद्यतनं कथञ्चित् तां चातुरीमद्य तु पूजयामः ।। 12।।
यद् दुर्बलं मनसि संघटनं न तद्धि
दीर्घं प्रवर्त्तत इहाऽवनिगे मनुष्ये ।
यावन्ति सन्ति तु रजांसि महीतलेऽस्मिं-
स्तावन्ति सन्ति तु मनुष्यमतानि यस्मात् ।। 13।।
दीर्घं प्रवर्त्तत इहाऽवनिगे मनुष्ये ।
यावन्ति सन्ति तु रजांसि महीतलेऽस्मिं-
स्तावन्ति सन्ति तु मनुष्यमतानि यस्मात् ।। 13।।
यद् भुज्यते भुवि मनुष्यगणेन तस्मा-
दाधिक्यमेव खलु भोक्तुमसौ समुत्कः ।
सीम्नां शतानि खलु लङ्घितुमुद्यतः
सन्नन्याधिकारमुपहन्ति बुभुक्षते च ।। 14।।
दाधिक्यमेव खलु भोक्तुमसौ समुत्कः ।
सीम्नां शतानि खलु लङ्घितुमुद्यतः
सन्नन्याधिकारमुपहन्ति बुभुक्षते च ।। 14।।
सैषा परस्परकलिः कलिकालशुक्रा-
चार्यस्य कापि दुहिता ननु देवयानी ।
शर्मिष्ठया बत खिलीकृतभोगवर्त्मा काले
शुनी भवति किञ्च गवी च काले ।। 15।।
चार्यस्य कापि दुहिता ननु देवयानी ।
शर्मिष्ठया बत खिलीकृतभोगवर्त्मा काले
शुनी भवति किञ्च गवी च काले ।। 15।।
शुक्रस्य सैव दुहिता कचचूर्णपेषं
सञ्जीवयत्यथ च कामयते प्रियत्वे ।
तस्यां कचः स्वसृमतिं कुरुते तयाऽसौ
भ्रातुः परस्परमजर्यकलापमेव ।। 16।।
सञ्जीवयत्यथ च कामयते प्रियत्वे ।
तस्यां कचः स्वसृमतिं कुरुते तयाऽसौ
भ्रातुः परस्परमजर्यकलापमेव ।। 16।।
एकोदर-प्रभवता द्वितयं तदेत-
दावेष्टते क्व नु ततः पृथगस्तु वृत्तिः ।
नारायणोरुजनितां प्रति नोर्वशीं किं
मातृत्वबुद्धिमवहन्न महेन्द्रसूनुः ।। 17।।
दावेष्टते क्व नु ततः पृथगस्तु वृत्तिः ।
नारायणोरुजनितां प्रति नोर्वशीं किं
मातृत्वबुद्धिमवहन्न महेन्द्रसूनुः ।। 17।।
सैषा चितः स्वगतसीमपरीवृतिस्ता-
मार्या जना न खलु लङ्घयितुं क्रमन्ते ।
ये वा क्रमन्त इह ते स्वयमेव मुक्ता-
चारा अनार्यमतिकाः किल संभवन्ति ।। 18।।
मार्या जना न खलु लङ्घयितुं क्रमन्ते ।
ये वा क्रमन्त इह ते स्वयमेव मुक्ता-
चारा अनार्यमतिकाः किल संभवन्ति ।। 18।।
आर्या भवन्ति रघवोऽलघवो महान्तो
योगेन मुक्तवपुषः खलु यन्त्रतां ते ।
धर्मस्य हन्त विलसन्ति ततश्च भुक्तेः
पारे स्थितां परममुक्तिमुपाश्रयन्ते ।। 19।।
योगेन मुक्तवपुषः खलु यन्त्रतां ते ।
धर्मस्य हन्त विलसन्ति ततश्च भुक्तेः
पारे स्थितां परममुक्तिमुपाश्रयन्ते ।। 19।।
सैषास्ति संयममयी मनुजप्रवृत्ति-
रस्या हि धर्म इति कापि शुभास्ति संज्ञा ।
धर्मध्रुगत्र ननु कश्चन दुश्चिकित्स्यः
स्वैरी हि संभवति नित्यबुभुक्षुताढ्याः ।। 20।।
रस्या हि धर्म इति कापि शुभास्ति संज्ञा ।
धर्मध्रुगत्र ननु कश्चन दुश्चिकित्स्यः
स्वैरी हि संभवति नित्यबुभुक्षुताढ्याः ।। 20।।
धर्मस्य यानि खलु लिङ्गशतानि तेषां
भेदेन धर्मगत-भेदमुदीरयन्तः ।
ये स्वार्थिनो न खलु बिभ्यति ते परस्माद्
देवादपि स्वहृदि वासमुपेयुषोऽपि ।। 21।।
भेदेन धर्मगत-भेदमुदीरयन्तः ।
ये स्वार्थिनो न खलु बिभ्यति ते परस्माद्
देवादपि स्वहृदि वासमुपेयुषोऽपि ।। 21।।
सत्ता च संयम इति प्रथितश्च तद्गं
सौभाग्ययोगमुपयन्ति तु ये शुभेच्छाः ।
शृङ्गारिणः खलु हसन्ति त एव शिष्ट-
मिष्टा मुदा सहृदया भुवि ते भवन्ति ।। 22।।
सौभाग्ययोगमुपयन्ति तु ये शुभेच्छाः ।
शृङ्गारिणः खलु हसन्ति त एव शिष्ट-
मिष्टा मुदा सहृदया भुवि ते भवन्ति ।। 22।।
नो मुस्लिमा यदि ददुर्निजकं मतं वै
मोदीदलाय कथमेष विजित्वरोऽस्ति ।
एवं समेऽपि यदि चेदपरे तटस्था
ईसायिनश्च यदि चेदहुरस्य भक्ताः ।। 23।।
मोदीदलाय कथमेष विजित्वरोऽस्ति ।
एवं समेऽपि यदि चेदपरे तटस्था
ईसायिनश्च यदि चेदहुरस्य भक्ताः ।। 23।।
सर्वस्य संग्रहि दलं यदि काङ्गरेस-
नाम्ना प्रसिद्धमिह तज्जनसंघशब्दम् ।
किं वा दलं विमतिभाजनमास योऽसौ
त्यक्तः सतां प्रथमपङ्क्तिगतैर्वरिष्ठैः ।। 24।।
नाम्ना प्रसिद्धमिह तज्जनसंघशब्दम् ।
किं वा दलं विमतिभाजनमास योऽसौ
त्यक्तः सतां प्रथमपङ्क्तिगतैर्वरिष्ठैः ।। 24।।
नूनं परस्परमिमे प्रतियोगिनो हि
भूत्वा स्वदेशपरिचालनकाङ्क्षिणो वै ।
प्राप्ताधिकारकुलिशाश्च भवन्ति दिव्य-
दिव्याः महेन्द्रसदृशास्त्रिदिवौकसो नु ।। 25।।
भूत्वा स्वदेशपरिचालनकाङ्क्षिणो वै ।
प्राप्ताधिकारकुलिशाश्च भवन्ति दिव्य-
दिव्याः महेन्द्रसदृशास्त्रिदिवौकसो नु ।। 25।।
यातोऽद्य विस्मृतितमः-कुहरे महात्मा
गांधी य एष कणमप्युदरे न चक्रे ।
यस्मिन् कणे न हि बभूव तदा तदीयं
सत्यं प्रभुत्वमथ राष्ट्रधनं यदासीत् ।। 26।।
गांधी य एष कणमप्युदरे न चक्रे ।
यस्मिन् कणे न हि बभूव तदा तदीयं
सत्यं प्रभुत्वमथ राष्ट्रधनं यदासीत् ।। 26।।
श्रीमालवीयचरणो निजगेहहेतो-
र्दत्तं तु जोधपुरभूपतिना धनं यत् ।
विद्यालयस्य हि निधौ कृतवान् निविष्टं
नो तस्य हन्त कणिकामपि चास्पृशत् सः ।। 27।।
र्दत्तं तु जोधपुरभूपतिना धनं यत् ।
विद्यालयस्य हि निधौ कृतवान् निविष्टं
नो तस्य हन्त कणिकामपि चास्पृशत् सः ।। 27।।
स्वामी महान् प्रवचनव्रतसिद्धयोगी
सम्पूर्ण एव भरतावनिमण्डलेऽभूत् ।
दीर्घं प्रतिष्ठित उवाह च कोटि कोटि
द्रव्यं परन्तु करपात्रतयैव तस्थौ ।। 28।।
सम्पूर्ण एव भरतावनिमण्डलेऽभूत् ।
दीर्घं प्रतिष्ठित उवाह च कोटि कोटि
द्रव्यं परन्तु करपात्रतयैव तस्थौ ।। 28।।
स्वीयो न यस्य खलु कश्चन कोष आसीत्
कुत्रापि राष्ट्रककुभि, प्रजहौ तु देहम् ।
तच्छ्राद्धकर्म विहितं ननु तस्य भक्तै-
र्निष्किञ्चनत्वमहितस्य मुदा महार्हैः ।। 29।।
कुत्रापि राष्ट्रककुभि, प्रजहौ तु देहम् ।
तच्छ्राद्धकर्म विहितं ननु तस्य भक्तै-
र्निष्किञ्चनत्वमहितस्य मुदा महार्हैः ।। 29।।
तस्याऽऽस वाचि निहिता ननु सत्यतैव
सोऽब्रूत यन्ननु बभूव तु तद्धि सत्यम् ।
अर्थोऽनुधावति गिरं ननु तस्य साधो-
र्मिष्टां च भागवत-सार-मनोरमां च ।। 30।।
सोऽब्रूत यन्ननु बभूव तु तद्धि सत्यम् ।
अर्थोऽनुधावति गिरं ननु तस्य साधो-
र्मिष्टां च भागवत-सार-मनोरमां च ।। 30।।
वाणी विभूषणति यस्य मुखारविन्दे
वैवर्त्तिकं जगदिदं समुपाहरन्ती ।
नो वा स्वरो, न च समुच्चरणं, न
वापि प्रासादिकत्वमणिमानमिहाश्नुवन्ति ।। 31।।
वैवर्त्तिकं जगदिदं समुपाहरन्ती ।
नो वा स्वरो, न च समुच्चरणं, न
वापि प्रासादिकत्वमणिमानमिहाश्नुवन्ति ।। 31।।
तस्योन्ममाथ ननु कश्चन गेहमन्त्री
कारागृहे लगुडताडनया ललाटम् ।
सुस्राव यत्तु रुधिरं तत आप्य भूमिं
तद् वाडवोऽनल इवाचमदाश्वरातीन् ।। 32।।
कारागृहे लगुडताडनया ललाटम् ।
सुस्राव यत्तु रुधिरं तत आप्य भूमिं
तद् वाडवोऽनल इवाचमदाश्वरातीन् ।। 32।।
काङ्ग्रेसनाम्नि बहुजातिदले बभूव
भेदोद्भवः, प्रमुखनेतृगणो विरक्तिम् ।
त्स्मिन्नुवाह निपपात च तत् प्रतिष्ठा-
भ्रंशेन शासनपदादधिकेन्द्रमाशु ।। 33।।
भेदोद्भवः, प्रमुखनेतृगणो विरक्तिम् ।
त्स्मिन्नुवाह निपपात च तत् प्रतिष्ठा-
भ्रंशेन शासनपदादधिकेन्द्रमाशु ।। 33।।
अद्यत्व आप यदि शासनसूत्रमेतत्
काङ्ग्रेसनामकदलं भरतावनेर्नः ।
तत्रास्ति कारणमिहैकमलं मलत्वा-
वच्छिन्नता ननु पुरातनशासनस्य ।। 34।।
काङ्ग्रेसनामकदलं भरतावनेर्नः ।
तत्रास्ति कारणमिहैकमलं मलत्वा-
वच्छिन्नता ननु पुरातनशासनस्य ।। 34।।
यो मुस्लिमानपरितोषबलोपभोगः
काङ्ग्रेसशासनगतैर् निपुणैरभोजि ।
तत्रान्वरज्यत चतुर्द्दशसंघशक्ति-
शास्ताऽटलश्च निपपात च केन्द्रपीठात् ।। 35।।
काङ्ग्रेसशासनगतैर् निपुणैरभोजि ।
तत्रान्वरज्यत चतुर्द्दशसंघशक्ति-
शास्ताऽटलश्च निपपात च केन्द्रपीठात् ।। 35।।
ये हिन्दवो बहुमता भरतावनौ ते
नो संघशक्तिसहितास्तत एव तेषाम् ।
अल्पत्वमेव नहि ते मतदानलाभं
दातुं क्षमा इति मता न दले क्वचिद् वै ।। 36।।
नो संघशक्तिसहितास्तत एव तेषाम् ।
अल्पत्वमेव नहि ते मतदानलाभं
दातुं क्षमा इति मता न दले क्वचिद् वै ।। 36।।
हिन्दुत्वमस्ति किमिति क्रियतेऽनुयोग-
ष्चेदुत्तरं भवति केवलमेकमेव ।
‘नो मुस्लिमान’ इति मुस्लिमजातिकेभ्यः
‘से’ ‘ह’-श्रुतिं प्रति समेधितवाचिकेभ्यः ।। 37।।
ष्चेदुत्तरं भवति केवलमेकमेव ।
‘नो मुस्लिमान’ इति मुस्लिमजातिकेभ्यः
‘से’ ‘ह’-श्रुतिं प्रति समेधितवाचिकेभ्यः ।। 37।।
हप्तां वदन्ति ननु ते यवनाः सदैव
सप्ताहमन्यमनुजैरभिमन्यमानम् ।
तद्वद् वदन्त्यहुरमित्यसुरं ह-कारं
‘स’-स्थानकं रसनया प्रविकीर्यमाणम् ।। 38।।
सप्ताहमन्यमनुजैरभिमन्यमानम् ।
तद्वद् वदन्त्यहुरमित्यसुरं ह-कारं
‘स’-स्थानकं रसनया प्रविकीर्यमाणम् ।। 38।।
ये सिन्धवः खलु समे त इमे सदैव
हिन्दुध्वनौ धृतसमादरमेरुशृङ्गाः ।
व्यक्तिप्रियोद्यमभृतोऽप्रियमात्मबन्धु-
ष्वाबिभ्रति स्वगतमर्थमुपार्जयन्तः ।। 39।।
हिन्दुध्वनौ धृतसमादरमेरुशृङ्गाः ।
व्यक्तिप्रियोद्यमभृतोऽप्रियमात्मबन्धु-
ष्वाबिभ्रति स्वगतमर्थमुपार्जयन्तः ।। 39।।
हिन्दुं ब्रवीतु यवनो न हि यः सकारं
शुद्धं समुच्चरति किन्तु न यत्र दोषः ।
ते सिन्धुमेव नहि हिन्दुमुदीरयन्ते
किन्नाम, सा हि परिदुर्बलतैव नान्यत् ।। 40।।
शुद्धं समुच्चरति किन्तु न यत्र दोषः ।
ते सिन्धुमेव नहि हिन्दुमुदीरयन्ते
किन्नाम, सा हि परिदुर्बलतैव नान्यत् ।। 40।।
ये सिन्धवः खलु सदैव शिरः-शिखाढ्या
नो साम्प्रतं त इह हन्त भवन्ति सर्व्वे ।
नेपथ्यमप्यपरता-परिदिग्धमेव
बिभ्रत्यमी शिशिरदेशसमौचितीमत् ।। 41।।
नो साम्प्रतं त इह हन्त भवन्ति सर्व्वे ।
नेपथ्यमप्यपरता-परिदिग्धमेव
बिभ्रत्यमी शिशिरदेशसमौचितीमत् ।। 41।।
नामापि ‘देव’-‘कुल’-तीर्थ’-परिष्कृतं नो
ते बिभ्रति, स्वमतिकल्पितशब्दमेतत् ।
सामान्यमन्यजनतापरिकल्पितेभ्यो
नामभ्य एतदपि नो परिचायकं नुः ।। 42।।
ते बिभ्रति, स्वमतिकल्पितशब्दमेतत् ।
सामान्यमन्यजनतापरिकल्पितेभ्यो
नामभ्य एतदपि नो परिचायकं नुः ।। 42।।
अङ्ग्रेजवाचमविनिश्चितवाच्यजाता-
माश्रित्य केचन निजं परिचाययन्तः ।
संभुञ्जते द्रविणराशिमुपांशु तांस्तान्
पत्रोत्तमांस्तदुपयोगगतं निवेद्य ।। 43।।
माश्रित्य केचन निजं परिचाययन्तः ।
संभुञ्जते द्रविणराशिमुपांशु तांस्तान्
पत्रोत्तमांस्तदुपयोगगतं निवेद्य ।। 43।।
येषां तनौ वहति शुद्धिममुग्धरक्तं
संभासुरेऽलिकतटे च तृतीयमक्षि ।
ते मण्डलाग्रमपहाय दृशैव शत्रु-
गर्त्तान्धकारमपहस्तयितुं क्षमन्ते ।। 44।।
संभासुरेऽलिकतटे च तृतीयमक्षि ।
ते मण्डलाग्रमपहाय दृशैव शत्रु-
गर्त्तान्धकारमपहस्तयितुं क्षमन्ते ।। 44।।
रे सिन्धवो ददतु दृष्टिमुदारतारा-
मात्मन्यथो निजसमीक्षणमाचरन्तु ।
को नाम तिष्ठति चितौ निभृतो भवत्सु
पापाऽनलो निखिलदाहकृदुग्रताढ्याः ।। 45।।
मात्मन्यथो निजसमीक्षणमाचरन्तु ।
को नाम तिष्ठति चितौ निभृतो भवत्सु
पापाऽनलो निखिलदाहकृदुग्रताढ्याः ।। 45।।
दौर्बल्यमेकमपहाय तदस्ति नान्यत्
तन्त्रं परस्परभिदा जनितं समाजे ।
सत्यं च संयमरतिश्च परिग्रहाब्धे-
र्व्यावल्गनासु विरतिश्च भिषक् तदीयम् ।। 46।।
तन्त्रं परस्परभिदा जनितं समाजे ।
सत्यं च संयमरतिश्च परिग्रहाब्धे-
र्व्यावल्गनासु विरतिश्च भिषक् तदीयम् ।। 46।।
उच्चावचत्वकलुषा नृसमाजयात्रा
त्रैलोक्यमेव परिवेष्टयते विषं नु ।
पीयूषतां तदिदमेव गमिष्यतीह
त्यागोत्तरा भवति चेज् जगतां प्रवृत्तिः ।। 47।।
त्रैलोक्यमेव परिवेष्टयते विषं नु ।
पीयूषतां तदिदमेव गमिष्यतीह
त्यागोत्तरा भवति चेज् जगतां प्रवृत्तिः ।। 47।।
उत्सर्ग एव नृसमाजहृदिप्रतिष्ठो
ब्रह्मोपमो भवति कश्चन देवदेवः ।
पात्रेषु स व्रजति मौक्तिकतां परत्र
किन्त्वेष एव गरलज्वलनायते धिक् ।। 48।।
ब्रह्मोपमो भवति कश्चन देवदेवः ।
पात्रेषु स व्रजति मौक्तिकतां परत्र
किन्त्वेष एव गरलज्वलनायते धिक् ।। 48।।
यो मूर्ध्नि नैव शिखया सहितः स
सर्वो वाच्यो न हिन्दुरथवा शिखया समेताः ।
सर्वेऽपि सिन्धुपदमादधतु स्वबोधे
हिन्दूनहिन्दुरिति साधयितुं व्रतिष्ठाः ।। 49।।
सर्वो वाच्यो न हिन्दुरथवा शिखया समेताः ।
सर्वेऽपि सिन्धुपदमादधतु स्वबोधे
हिन्दूनहिन्दुरिति साधयितुं व्रतिष्ठाः ।। 49।।
प्राप्ताधिकार इह राष्ट्रतनौ य एव
गेहं स्वकं भरति धान्यधनान्युपार्ज्य ।
तस्यावमानमखिलैरपि सिन्धुवर्ग्यैः
स्पष्टं क्रियेत न च तैः क्रियतां विवाहः ।। 50।।
गेहं स्वकं भरति धान्यधनान्युपार्ज्य ।
तस्यावमानमखिलैरपि सिन्धुवर्ग्यैः
स्पष्टं क्रियेत न च तैः क्रियतां विवाहः ।। 50।।
यो ब्राह्मणोऽपि न हि धारयते स्वकीय-
स्कन्धे तु यज्ञकलनोत्थितयज्ञसूत्रम् ।
साकं न तेन कुरुतामशनं न तस्य
गेहे पिबेच्च सलिलं बत सिन्धुवर्ग्यः ।। 51।।
स्कन्धे तु यज्ञकलनोत्थितयज्ञसूत्रम् ।
साकं न तेन कुरुतामशनं न तस्य
गेहे पिबेच्च सलिलं बत सिन्धुवर्ग्यः ।। 51।।
यः सिन्धुवर्गिषु भवेत् प्रचुरार्थ एष
कुर्यान्नवस्य मनुजस्य विकासहेतोः ।
अर्थस्य दानमभिवीक्ष्य रतिं स्वसिन्धु-
शब्दे विनीतहृदयस्य यमादिधर्मैः ।। 52।।
कुर्यान्नवस्य मनुजस्य विकासहेतोः ।
अर्थस्य दानमभिवीक्ष्य रतिं स्वसिन्धु-
शब्दे विनीतहृदयस्य यमादिधर्मैः ।। 52।।
यो ब्राह्मणः स खलु वेदमवश्यमेव
कण्ठस्थितं च विदधीत पुरोहितश्च ।
भूत्वा स्वकर्म्मपरिकाण्डमवापयेत
बन्धून् स्वयं च विदधीत तदार्यचित्तः ।। 53।।
कण्ठस्थितं च विदधीत पुरोहितश्च ।
भूत्वा स्वकर्म्मपरिकाण्डमवापयेत
बन्धून् स्वयं च विदधीत तदार्यचित्तः ।। 53।।
भोज्यं परं स परमात्मसमर्पितं स्वं
भुञ्जीत मेध्यमथ शाकसमुत्थितं च ।
मार्गान्तरेण खलु यो निभृतं प्रयाति
तस्मै बहिष्कृतिपराः खलु सिन्धवः स्युः ।। 54।।
भुञ्जीत मेध्यमथ शाकसमुत्थितं च ।
मार्गान्तरेण खलु यो निभृतं प्रयाति
तस्मै बहिष्कृतिपराः खलु सिन्धवः स्युः ।। 54।।
रामं स्वराष्ट्रपुरुषं मनुतां स सिन्धुः
कृष्णं च राष्ट्रपरिरक्षणदक्षमेकम् ।
ये तज्जपेषु दधते बत संप्रदाय-
बुद्धिं तु ते नमनपात्रितुमप्यनर्हाः ।। 55।।
कृष्णं च राष्ट्रपरिरक्षणदक्षमेकम् ।
ये तज्जपेषु दधते बत संप्रदाय-
बुद्धिं तु ते नमनपात्रितुमप्यनर्हाः ।। 55।।
गङ्गोदकं मलजलानि निपातयन्तो
बीभत्सयन्ति च हसन्ति च ये जघन्याः ।
आत्मानमेव ननु ते परिपातयन्ते
दुर्गन्धितासु नलिकास्वधिपूतिकासु ।। 56।।
बीभत्सयन्ति च हसन्ति च ये जघन्याः ।
आत्मानमेव ननु ते परिपातयन्ते
दुर्गन्धितासु नलिकास्वधिपूतिकासु ।। 56।।
येषां वपुष्युदयते न हि दीर्घदीर्घा-
न्यस्थीनि धारयदुदारतरं तु वीर्यम् ।
ते पुत्तला न हि वरा भवितुं क्षमन्ते
श्यामायमाननवयौवनकन्यकाभ्यः ।। 57।।
न्यस्थीनि धारयदुदारतरं तु वीर्यम् ।
ते पुत्तला न हि वरा भवितुं क्षमन्ते
श्यामायमाननवयौवनकन्यकाभ्यः ।। 57।।
अश्लीलचित्रपरिदर्शनतत्पराणां
त्यागः क्रियेत ननु दूरदृशां समासाम् ।
नो चेद् भविष्यति निजे हि गृहे पुरीव
खर्जूरवाह इव वा निखिलं हि दृश्यम् ।। 58।।
त्यागः क्रियेत ननु दूरदृशां समासाम् ।
नो चेद् भविष्यति निजे हि गृहे पुरीव
खर्जूरवाह इव वा निखिलं हि दृश्यम् ।। 58।।
ये वृत्तपत्रविरुदाः खलु सन्तिदैत्या-
श्चित्रैर्मलीमसतमैः परिपूरितान्ताः ।
तेषामपि प्रतिपदि प्रतिपद्यतां वै
क्लिष्टं नियन्त्रणमिदंक्षणशासनेन ।। 59।।
श्चित्रैर्मलीमसतमैः परिपूरितान्ताः ।
तेषामपि प्रतिपदि प्रतिपद्यतां वै
क्लिष्टं नियन्त्रणमिदंक्षणशासनेन ।। 59।।
ये सन्ति केचन मतप्रदतां दधाना-
स्तांस्तोषयन्ति यदि चेद् विजयस्य हेतोः ।
राष्ट्रं निपातितुमिमे बत मीलिताक्षा
उद्युञ्जते स्वगृहदाह इव प्रवृत्ताः ।। 60।।
स्तांस्तोषयन्ति यदि चेद् विजयस्य हेतोः ।
राष्ट्रं निपातितुमिमे बत मीलिताक्षा
उद्युञ्जते स्वगृहदाह इव प्रवृत्ताः ।। 60।।
अर्थेन केचन पदानि समर्जयन्तो
दुष्यन्त एव निखिलास्वपि दिक्षु देशे ।
लब्ध्वा पदं कथमिमे कनकीभवेयु-
र्ये लौहमात्रघटिताः परिदुर्बलाश्च ।। 61।।
दुष्यन्त एव निखिलास्वपि दिक्षु देशे ।
लब्ध्वा पदं कथमिमे कनकीभवेयु-
र्ये लौहमात्रघटिताः परिदुर्बलाश्च ।। 61।।
देशस्य कापि भवतु क्षतिरस्य मे यद्
गेहं तदस्तु भरितं कनकैः सरत्नैः ।
एतां मतिं बत भजन्ति तु ते समाजाद्
धिक्कृत्य कूपकुहरेषु निपातनीयाः ।। 62।।
गेहं तदस्तु भरितं कनकैः सरत्नैः ।
एतां मतिं बत भजन्ति तु ते समाजाद्
धिक्कृत्य कूपकुहरेषु निपातनीयाः ।। 62।।
यद्वा मुखानि खलु कज्जललेपितानि
कृत्वाऽधिरोप्य च समेऽपि तु गर्दभेषु ।
मध्याह्न एव तपनप्रखरे पुराणां
मार्गेषु दुन्दुभिरवैः परिसर्पणीयाः ।। 63।।
कृत्वाऽधिरोप्य च समेऽपि तु गर्दभेषु ।
मध्याह्न एव तपनप्रखरे पुराणां
मार्गेषु दुन्दुभिरवैः परिसर्पणीयाः ।। 63।।
चित्तानुशासनमृते तु मनुष्यजाति-
र्धर्मेण वाहयति जीवनमात्मनो नो ।
तस्मै तु शासनमपेक्ष्यत एव सृष्टेः
प्रारम्भतस्तदिदमद्य तु विस्मृताः स्मः ।। 64।।
र्धर्मेण वाहयति जीवनमात्मनो नो ।
तस्मै तु शासनमपेक्ष्यत एव सृष्टेः
प्रारम्भतस्तदिदमद्य तु विस्मृताः स्मः ।। 64।।
उष्ट्रस्य कण्टकमयैस्तरुसंप्रतानै-
स्तृप्येत कुक्षिरिति किं कलभोत्तमोऽपि ।
तैरेव तर्पयितुमिष्यत ईक्षणान्धैः
प्रद्वेषवह्निकलुषैर्ननु नेतृवर्गैः ।। 65।।
स्तृप्येत कुक्षिरिति किं कलभोत्तमोऽपि ।
तैरेव तर्पयितुमिष्यत ईक्षणान्धैः
प्रद्वेषवह्निकलुषैर्ननु नेतृवर्गैः ।। 65।।
रोगा भवन्ति विविधा विवधान्यथैषां
वैद्या भवन्ति च भवन्ति च भेषजानि ।
नो साम्यवादसमयेऽपि समेऽपि रोगा
एकेन भेषजवरेण चिकित्सनीयाः ।। 66।।
वैद्या भवन्ति च भवन्ति च भेषजानि ।
नो साम्यवादसमयेऽपि समेऽपि रोगा
एकेन भेषजवरेण चिकित्सनीयाः ।। 66।।
न्यायालयाः खलु भवन्तु समेऽपि रुद्धा-
स्तेषां न मान्य इह चेत् कटुको निदेशः ।
न्यायोऽथवाऽनुगुणतां हि समादधानः
संसद्गतैरधिकृतैरुपलालनीयः ।। 67।।
स्तेषां न मान्य इह चेत् कटुको निदेशः ।
न्यायोऽथवाऽनुगुणतां हि समादधानः
संसद्गतैरधिकृतैरुपलालनीयः ।। 67।।
अन्याय एव यदि लोकसभानिदेशान्
न्यायत्वमद्य भजते ननु किं क्रियेत ।
नो प्रातिवेशिकजनप्रविनाशमार्गो
गेहाय वृद्धिकलनास्वभिषेचनीयः ।। 68।।
न्यायत्वमद्य भजते ननु किं क्रियेत ।
नो प्रातिवेशिकजनप्रविनाशमार्गो
गेहाय वृद्धिकलनास्वभिषेचनीयः ।। 68।।
शिष्टत्वमेकमुपलालयितुं यतन्ते
सर्वेऽपि धार्मिकवरा विविधे निकाये ।
अद्यास्ति किन्तु विपरीततमा स्थितिर्य-
च्छिष्टत्वमीक्ष्यत इदंक्षण ऊनभावः ।। 69।।
सर्वेऽपि धार्मिकवरा विविधे निकाये ।
अद्यास्ति किन्तु विपरीततमा स्थितिर्य-
च्छिष्टत्वमीक्ष्यत इदंक्षण ऊनभावः ।। 69।।
सर्वेऽपि हन्त भगवन्त इदंक्षणे न-
स्तूष्णीं स्थिताः किमपि नो समुदाहरन्ति ।
मायैव तर्हि समयेऽत्र बलीयसी नो
राष्ट्रे न कोऽपि भगवान् स परात्पराढ्याः ।। 70।।
स्तूष्णीं स्थिताः किमपि नो समुदाहरन्ति ।
मायैव तर्हि समयेऽत्र बलीयसी नो
राष्ट्रे न कोऽपि भगवान् स परात्पराढ्याः ।। 70।।
येषां गृहे कलहमाचरितुं पटिष्ठाः
सर्वेऽपि नो निभृततां खलु कोऽप्युपास्ते ।
सुन्दोपसुन्दकलना नियताऽत्र देशे
सा वृष्णिवंशकलना यदिवाऽचिरेण ।। 71।।
सर्वेऽपि नो निभृततां खलु कोऽप्युपास्ते ।
सुन्दोपसुन्दकलना नियताऽत्र देशे
सा वृष्णिवंशकलना यदिवाऽचिरेण ।। 71।।
रे रे सिन्धुतटस्थिताः शृणुत वै सर्वे भवन्तः क्षणे-
नैकेनैव विशेयुरत्र विवरे मृत्योर्मुखे जाग्रति ।
यां रज्जुं समुपाश्रिता वयमिमे तत्सूत्रजातं क्रमाद्
विश्लेषेण कषायितं बत बताद्यत्वे समालोक्यते ।। 72।।
नैकेनैव विशेयुरत्र विवरे मृत्योर्मुखे जाग्रति ।
यां रज्जुं समुपाश्रिता वयमिमे तत्सूत्रजातं क्रमाद्
विश्लेषेण कषायितं बत बताद्यत्वे समालोक्यते ।। 72।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ मृत्युजृम्भोदयो नाम अष्टपञ्चाशः सर्गः ।। 58।।
पाकिस्ताने वेनजीराऽद्य जाता कालग्रासः पञ्च संप्राप्य गोलीः ।
ग्रीवारन्ध्रे भग्नभुग्ना स्वकारान्नीता वैद्यांस्तत्र नो रक्षिता तु ।। 1।।
ग्रीवारन्ध्रे भग्नभुग्ना स्वकारान्नीता वैद्यांस्तत्र नो रक्षिता तु ।। 1।।
विश्वं स्तब्धं विद्यतेऽद्यातिमात्रं दौर्जन्येनामूर्च्छि तेनाविकल्प्यम् ।
सार्धं त्रिंशत्संख्यकैर्मृत्युमाप्तैः पाकस्तानस्यावनिर्दूषिताऽभूत् ।। 2।।
सार्धं त्रिंशत्संख्यकैर्मृत्युमाप्तैः पाकस्तानस्यावनिर्दूषिताऽभूत् ।। 2।।
सा गौराङ्गी गौरवस्त्रा च मूर्घ्नि धृत्वा नीलं हन्त किञ्चिन्निचोलम् ।
प्राप्ता कारं स्वं वदातं च सार्धं विस्फोटश्च प्रोच्चकैरुद्बभूव ।। 3।।
प्राप्ता कारं स्वं वदातं च सार्धं विस्फोटश्च प्रोच्चकैरुद्बभूव ।। 3।।
गौरेण वर्णेन सितेन वस्त्रेणावीतमूर्धा च निचोलमेकम् ।
नीलप्रभं स्निग्धतमं च धृत्वा चकास नीलाम्बरसोदरा सा ।। 4।।
नीलप्रभं स्निग्धतमं च धृत्वा चकास नीलाम्बरसोदरा सा ।। 4।।
यदुद्गतं तद्वपुषः प्रणाल्या प्रवाहितं नु क्षतजं जपाभम् ।
तन्नीलवर्णे तु निचोलरत्ने व्यभासता वीरवधूटिकेव ।। 5।।
तन्नीलवर्णे तु निचोलरत्ने व्यभासता वीरवधूटिकेव ।। 5।।
अद्य क्षणे ये विरुवन्ति तस्यै नेतार उच्चैः पदवीं श्रितास्ते ।
अमित्रचित्तामपि तां लपन्ति मित्रं महद् भारतवार्षिकाणाम् ।। 6।।
अमित्रचित्तामपि तां लपन्ति मित्रं महद् भारतवार्षिकाणाम् ।। 6।।
प्रियं न मिथ्यात्वकषायितं चेद् विवर्जितं वक्तुमिलातलेस्मिन् ।
या वेनजीराऽनुपमैव साऽऽसीच्छत्रुत्वयोगे प्रतिवेशिनां नः ।। 7।।
या वेनजीराऽनुपमैव साऽऽसीच्छत्रुत्वयोगे प्रतिवेशिनां नः ।। 7।।
सा वै यदाऽभून्निजराष्ट्रपृष्ठे प्रधानमन्त्री निखिलान् ययाचे ।
पार्श्वस्थितान् मुस्लिमराष्ट्रनेतॄन् साहाय्यमर्थस्य विजेतुमस्मान् ।। 8।।
पार्श्वस्थितान् मुस्लिमराष्ट्रनेतॄन् साहाय्यमर्थस्य विजेतुमस्मान् ।। 8।।
ददौ न कञ्चिन्मरुभूमिराष्ट्राधिपस्तदीये प्रणये वधानम् ।
सा भग्नदन्तेव तु सर्पजांया व्याहिण्डताऽस्थैर्यनदीं श्रयाणा ।। 9।।
सा भग्नदन्तेव तु सर्पजांया व्याहिण्डताऽस्थैर्यनदीं श्रयाणा ।। 9।।
दन्ता अजायन्त पुनर्यदा सा निर्वाचनं जेतुमियेष शीघ्रम् ।
प्रद्वेषवह्निः खलु तद्धृदिस्थस्तदैव तां वै निजिगाल नान्यत् ।। 10।।
प्रद्वेषवह्निः खलु तद्धृदिस्थस्तदैव तां वै निजिगाल नान्यत् ।। 10।।
पिता मृतः पाशितकन्धरः सन् घाताभियोगे नियते विधानात् ।
पुत्री मृता भीषणनाडिकाया विस्फोटनाद् गोलकपञ्चकैश्च ।। 11।।
पुत्री मृता भीषणनाडिकाया विस्फोटनाद् गोलकपञ्चकैश्च ।। 11।।
यः साम्प्रतं राष्ट्रेपतिश्च पाकस्ताने चकास्ते तु मुशर्रफाख्यः ।
स एव कस्माच्छ्वसितीति लोकञ्चित्तेन धत्ते ननु विस्मयं स्वम् ।। 12।।
स एव कस्माच्छ्वसितीति लोकञ्चित्तेन धत्ते ननु विस्मयं स्वम् ।। 12।।
अद्य प्रसारणपरा निखिलाश्च यन्त्र-
राजाः भवन्ति बत केवलवेनजीराः ।
नो दूरदर्शनमथो न हि रेडियोऽपि
नो वृत्तपत्रमपि तामतिवृत्य लभ्यम् ।। 13।।
राजाः भवन्ति बत केवलवेनजीराः ।
नो दूरदर्शनमथो न हि रेडियोऽपि
नो वृत्तपत्रमपि तामतिवृत्य लभ्यम् ।। 13।।
विश्वेन सैनिकमयेन च शस्र्<पूर्णे-
नैवाद्य हन्त भवितव्यमिलातलेऽस्मिन् ।
नान्या सृतिर्भवति काचन मानवात्म-
दुर्दानवादवितुमस्ति मनुष्य! तुभ्यम् ।। 14।।
नैवाद्य हन्त भवितव्यमिलातलेऽस्मिन् ।
नान्या सृतिर्भवति काचन मानवात्म-
दुर्दानवादवितुमस्ति मनुष्य! तुभ्यम् ।। 14।।
अन्तःपुराणि यदि वा निखिलस्य जन्तो-
र्भूयासुरस्त्रभरितानि सशिक्षणानि ।
शय्यासु शस्त्ररचितासु च कामनामा
वामक्रियासु निपुणः सफलत्वमृच्छेत् ।। 15।।
र्भूयासुरस्त्रभरितानि सशिक्षणानि ।
शय्यासु शस्त्ररचितासु च कामनामा
वामक्रियासु निपुणः सफलत्वमृच्छेत् ।। 15।।
प्रत्येकमेव नु रजःकणमग्निगर्भं
वीक्षामहे निखिल एव महीतलेऽद्य ।
दक्षः करः प्रहरति प्रसभं स्वमेव
वामं करं धृतकरालकृपाणवृन्तः ।। 16।।
वीक्षामहे निखिल एव महीतलेऽद्य ।
दक्षः करः प्रहरति प्रसभं स्वमेव
वामं करं धृतकरालकृपाणवृन्तः ।। 16।।
किं वा हलाहलमिलावलयेऽतितीव्र-
वेगं प्रवृष्टमधुना निभृतं कुतश्चित् ।
हा हन्त हन्त निखिला अपि मानवाः किं
दैत्यत्वमाप्य बत ताण्डवितुं प्रवृत्ताः ।। 17।।
वेगं प्रवृष्टमधुना निभृतं कुतश्चित् ।
हा हन्त हन्त निखिला अपि मानवाः किं
दैत्यत्वमाप्य बत ताण्डवितुं प्रवृत्ताः ।। 17।।
कौक्षेयकेण परुषे बत पाणिदण्डे
नाशः फलत्यतितरां मनुजान्वयस्य ।
वैवस्वताननगताजिरगा इमे वै
मुग्धाः स्वकौशलमुदित्वरयन्ति शत्रौ ।। 18।।
नाशः फलत्यतितरां मनुजान्वयस्य ।
वैवस्वताननगताजिरगा इमे वै
मुग्धाः स्वकौशलमुदित्वरयन्ति शत्रौ ।। 18।।
भैक्ष्येण सञ्चितबला मनुजा नटन्ति
धिग् विस्मृता नियतिमात्मन एव कृच्छ्राम् ।
एतेषु बालधिमृते पशुषु क्रियेत
किं वा शमाय बत दुर्विधदुर्विधेषु ।। 19।।
धिग् विस्मृता नियतिमात्मन एव कृच्छ्राम् ।
एतेषु बालधिमृते पशुषु क्रियेत
किं वा शमाय बत दुर्विधदुर्विधेषु ।। 19।।
श्रीमान् मुशर्रफ इति प्रथमः स्वदेशे
किं नाम जीवतितरां शरदां दशाद्य ।
पाके महोरगबिले विहितप्रवेशोऽ-
प्यस्मिन् स्थितिं भजति कष्चन सर्पमन्त्रः ।। 20।।
किं नाम जीवतितरां शरदां दशाद्य ।
पाके महोरगबिले विहितप्रवेशोऽ-
प्यस्मिन् स्थितिं भजति कष्चन सर्पमन्त्रः ।। 20।।
यद्वा यमस्य महिषः प्रतिगामिताया-
माद्योऽद्य यः खलु मुशर्रफदर्शनेन ।
पस्चात्दः क्वचिदपि श्रयते विरामं
नो किन्न संस्पृषतु वै यमराज एनम् ।। 21।।
माद्योऽद्य यः खलु मुशर्रफदर्शनेन ।
पस्चात्दः क्वचिदपि श्रयते विरामं
नो किन्न संस्पृषतु वै यमराज एनम् ।। 21।।
पाकेऽपि नास्ति गणशासनमस्ति
तत्राप्यत्रेव कश्चन पुरातन एव मार्गः ।
यस्मिन्नपत्यमुपयाति पितुः स्वतो हि
सर्वाधिकारमिदमेव तु राजतन्त्रम् ।। 22।।
तत्राप्यत्रेव कश्चन पुरातन एव मार्गः ।
यस्मिन्नपत्यमुपयाति पितुः स्वतो हि
सर्वाधिकारमिदमेव तु राजतन्त्रम् ।। 22।।
भुट्टो यदाऽभवदिलातलगर्भलीना
तद्राजनीतिदलनेतृधुरं तदीयः ।
पुत्रो हि वक्ष्यति विलिख्य तयेदमेव
संस्थापितं बत समीहितपत्रमेकम् ।। 23।।
तद्राजनीतिदलनेतृधुरं तदीयः ।
पुत्रो हि वक्ष्यति विलिख्य तयेदमेव
संस्थापितं बत समीहितपत्रमेकम् ।। 23।।
भर्ता चतुर्षु नृपनीतिविनायकेषु
जर्दारिसंज्ञक उदित्वर एक आसीत् ।
तद् वेनजीरकुलमेव मुशर्रफस्य
स्थानाय सक्षममिति प्रमितिस्तदीया ।। 24।।
जर्दारिसंज्ञक उदित्वर एक आसीत् ।
तद् वेनजीरकुलमेव मुशर्रफस्य
स्थानाय सक्षममिति प्रमितिस्तदीया ।। 24।।
अत्रापि नेहरुकुलाङ्कुरकत्रिकेण
शास्तृत्वमापि ननु साम्प्रतिकेऽपि राज्ये ।
तद्वंश्य एव बत राहुलगान्धिनामा
राजीवगान्धितनयोऽस्ति समुद्धुराङ्गः ।। 25।।
शास्तृत्वमापि ननु साम्प्रतिकेऽपि राज्ये ।
तद्वंश्य एव बत राहुलगान्धिनामा
राजीवगान्धितनयोऽस्ति समुद्धुराङ्गः ।। 25।।
पाके मुशर्रफ इवास्ति नवाजनामा
कञ्चिच्छरीफ इतरः प्रथमत्वकाङ्क्षी ।
उत्सार्य यं प्रसभमापदमुष्य पाक-
प्राधान्यशालि पदमाप च सैन्यपत्वम् ।। 26।।
कञ्चिच्छरीफ इतरः प्रथमत्वकाङ्क्षी ।
उत्सार्य यं प्रसभमापदमुष्य पाक-
प्राधान्यशालि पदमाप च सैन्यपत्वम् ।। 26।।
निर्वाचनं यदपि संप्रति पाकदेशे
जातं ततोऽलभत नैव तु मुख्यतां सः ।
राष्ट्रधिपत्यपदवीं त्वसकौ जहौ नो
पाके ततोऽस्ति स मुशर्रफ एव शास्ता ।। 27।।
जातं ततोऽलभत नैव तु मुख्यतां सः ।
राष्ट्रधिपत्यपदवीं त्वसकौ जहौ नो
पाके ततोऽस्ति स मुशर्रफ एव शास्ता ।। 27।।
यस्मिन्नयो भवति दुर्बल एष देश
इच्छां स्वनायकगतां प्रमुखां मिनोति ।
नेपाल आपदिह हानिमुवाह पाकः
स्वामभ्युदीतिमभयां स्वमुशर्रफाय ।। 28।।
इच्छां स्वनायकगतां प्रमुखां मिनोति ।
नेपाल आपदिह हानिमुवाह पाकः
स्वामभ्युदीतिमभयां स्वमुशर्रफाय ।। 28।।
यद् भारतेषु नृपनीतिगते प्रधाने धाम्नि
स्थितास्ति ननु काचन सोनियाख्या ।
तत्सूनुरस्ति तनया च समर्थगात्रौ
निर्वाचनेषु पदमाप्तुमुपात्तधैर्यौ ।। 29।।
स्थितास्ति ननु काचन सोनियाख्या ।
तत्सूनुरस्ति तनया च समर्थगात्रौ
निर्वाचनेषु पदमाप्तुमुपात्तधैर्यौ ।। 29।।
मिश्रो जवाहरसुतां वृतवान् प्रधान-
मन्त्रित्व आपदनु तत्तनयः पदं तत् ।
पुत्रोऽद्य तस्य स इवास्ति महाप्रभावः
सत्सांसदश्च नृपनीतिविशारदश्च ।। 30।।
मन्त्रित्व आपदनु तत्तनयः पदं तत् ।
पुत्रोऽद्य तस्य स इवास्ति महाप्रभावः
सत्सांसदश्च नृपनीतिविशारदश्च ।। 30।।
संसद्द्वयं विवशतामुपसन्दधाति
संरक्षणानि विविधानि विधान यद् यद् ।
तत्साफलीं यदि भजिष्यति तद्दलं तत्
तद्राज्यमेव भविताऽत्र भुवि स्वयं हि ।। 31।।
संरक्षणानि विविधानि विधान यद् यद् ।
तत्साफलीं यदि भजिष्यति तद्दलं तत्
तद्राज्यमेव भविताऽत्र भुवि स्वयं हि ।। 31।।
साम्यं वैषम्यबीजं वपति भरतभूमण्डले साम्प्रतं यद्
यद् वै निर्लज्जमुच्चैः-पदचय उररीचर्करीत्येष दुष्टम् ।
बीजं तत् स्वैरतायाः भवति बत यदा स्वैरतामात्रराज्यं
मात्स्यन्यायः प्रवृत्तिं भजति बत तदा विश्वनाथोऽत्र साक्षी ।। 32।।
यद् वै निर्लज्जमुच्चैः-पदचय उररीचर्करीत्येष दुष्टम् ।
बीजं तत् स्वैरतायाः भवति बत यदा स्वैरतामात्रराज्यं
मात्स्यन्यायः प्रवृत्तिं भजति बत तदा विश्वनाथोऽत्र साक्षी ।। 32।।
यद्वा विधिः किमिति तत्त्वकपञ्चसृष्टि-
कष्टं सदैव सहते; स सृजेत्तु वह्निम् ।
सर्व निगीर्य परिशेषयितुं तु भस्म
भस्मावधूननकृते परमेश्वरस्य ।। 33।।
कष्टं सदैव सहते; स सृजेत्तु वह्निम् ।
सर्व निगीर्य परिशेषयितुं तु भस्म
भस्मावधूननकृते परमेश्वरस्य ।। 33।।
विश्वेश! वह्निरसि केवल एक आर्यो;
देहस्तव स्थगयते खलु यस्तु भेदान् ।
यद् भस्म शिष्यत इह क्व नु हस्तपाद-
शीर्षोदरादिकलना ननु तत्र काचिद् ।। 34।।
देहस्तव स्थगयते खलु यस्तु भेदान् ।
यद् भस्म शिष्यत इह क्व नु हस्तपाद-
शीर्षोदरादिकलना ननु तत्र काचिद् ।। 34।।
मृत्पिण्डतक्षणकृती विविधानि यानि
रूपाणि हन्त विदधासि विधातृकस्त्वम् ।
वैविध्यतो ननु फलं किमिहान्यदेकं
भस्मैव चेदवसितौ परिशिष्यते नः ।। 35।।
रूपाणि हन्त विदधासि विधातृकस्त्वम् ।
वैविध्यतो ननु फलं किमिहान्यदेकं
भस्मैव चेदवसितौ परिशिष्यते नः ।। 35।।
कालोऽस्य कोऽपि परिणाम ऋतुत्वदिग्ध-
स्तस्याऽस्य कापि परुषा ललिता च भुक्तिः ।
सुप्तिस्ततश्च परिबोध इति क्रमेण
श्वासावसानमुपयन्ति समेऽपि मर्त्याः ।। 36।।
स्तस्याऽस्य कापि परुषा ललिता च भुक्तिः ।
सुप्तिस्ततश्च परिबोध इति क्रमेण
श्वासावसानमुपयन्ति समेऽपि मर्त्याः ।। 36।।
मृत्वा भवामि खनितो यदि भूमिगर्भे
शानत्वमेष्यति समाऽपि मही क्रमेण ।
दग्धो भवामि यदि चेत् तरुकाननानि
रिक्तत्वमेव निखिलानि भवेयुरेव ।। 37।।
शानत्वमेष्यति समाऽपि मही क्रमेण ।
दग्धो भवामि यदि चेत् तरुकाननानि
रिक्तत्वमेव निखिलानि भवेयुरेव ।। 37।।
विद्युद्गृहं परित एव पतन्तु सर्वे
प्रेताः भवन्तु च रजः कणभस्मगात्राः ।
वायुर्विवास्यति हरिष्यति तानिमॉश्च
संश्लेषयिष्यतितमां प्रतिपर्णकञ्च ।। 38।।
प्रेताः भवन्तु च रजः कणभस्मगात्राः ।
वायुर्विवास्यति हरिष्यति तानिमॉश्च
संश्लेषयिष्यतितमां प्रतिपर्णकञ्च ।। 38।।
चित् कुत्र वा मम गता न तु वेत्तुमीशे
द्रष्टुं भवामि तु कृती मम देहदाहम् ।
सीदामि नैव च षपामि च नैव जाग्रत्
पश्यामि केवलममुष्य परात्परेष्टिम् ।। 39।।
द्रष्टुं भवामि तु कृती मम देहदाहम् ।
सीदामि नैव च षपामि च नैव जाग्रत्
पश्यामि केवलममुष्य परात्परेष्टिम् ।। 39।।
लीलामिमां श्लथयितुं विधृतादराणां
सद्योगिनां तदिदमस्ति तु दृश्यमेव ।
प्रामाण्यबुद्धिरिह सन्ति तु ये धयन्त-
स्तेषामपि श्लथयते स्वत एष बन्धः ।। 40।।
सद्योगिनां तदिदमस्ति तु दृश्यमेव ।
प्रामाण्यबुद्धिरिह सन्ति तु ये धयन्त-
स्तेषामपि श्लथयते स्वत एष बन्धः ।। 40।।
भुट्टोसुताऽप्यनुपमा लरकानयाऽङ्के
लिल्ये व्यलीयत यया जनकोऽपि पूर्वम् ।
नष्टात्मनां क्व नु सुतात्वपितृत्वयोग-
व्यामोहमात्रपरमार्थतया मतानाम् ।। 41।।
लिल्ये व्यलीयत यया जनकोऽपि पूर्वम् ।
नष्टात्मनां क्व नु सुतात्वपितृत्वयोग-
व्यामोहमात्रपरमार्थतया मतानाम् ।। 41।।
यस्मिन् राष्ट्रपतौ मुशर्रफ इति ख्याते गलश्छिद्रितो-
ऽनौपम्ये प्रथितात्मनोऽपि भुट्टोपुत्र्याः रवौ पश्यति ।
सोऽयं किं स्वयमेव जीवति; कथं शेते; कथं जागरं
प्राप्तो निश्श्वसितीति विस्मयरसः सानातनान् सेवते ।। 42।।
ऽनौपम्ये प्रथितात्मनोऽपि भुट्टोपुत्र्याः रवौ पश्यति ।
सोऽयं किं स्वयमेव जीवति; कथं शेते; कथं जागरं
प्राप्तो निश्श्वसितीति विस्मयरसः सानातनान् सेवते ।। 42।।
सिन्धूनुन्मथयत्यतीव कुशलः पाथःकणो यो कथं
सोऽभिज्ञेय इति स्थितिं विषमयीं प्राप्तेऽधुना मानव!
आत्माब्धिं नयनाञ्चलेन मथयेत् कल्लोलमालाभृत-
माप्येताऽत्र हि दूषितः स हि कणो निष्कासितः स्वैर्गणैः ।। 43।।
सोऽभिज्ञेय इति स्थितिं विषमयीं प्राप्तेऽधुना मानव!
आत्माब्धिं नयनाञ्चलेन मथयेत् कल्लोलमालाभृत-
माप्येताऽत्र हि दूषितः स हि कणो निष्कासितः स्वैर्गणैः ।। 43।।
भगवन् भवता स्वदक्षिणार्धे परमार्थो यदि कल्पितो भवानी ।
यदि सा वृषपृष्ठमश्नुते किं न भवान् संश्रयते तया मृगेन्द्रम् ।। 44।।
यदि सा वृषपृष्ठमश्नुते किं न भवान् संश्रयते तया मृगेन्द्रम् ।। 44।।
अहहा विदितं रहस्यमेष वृषभः वोढुमलं भवन्तमात्मा ।
असकौ च मृगादनं स्वयं हि प्रविशीर्येत भवत्पदाभिमर्शात् ।। 45।।
असकौ च मृगादनं स्वयं हि प्रविशीर्येत भवत्पदाभिमर्शात् ।। 45।।
ननु हिंसनमेव दुर्बलस्वं
भवतीह त्रिविधेऽपि भूतसर्गे ।
सहते ननु तत्त्वहिंसनं हि
तदिदं यत्र स एव तेऽधिवासः/ऽस्तु वोढा ।। 46।।
भवतीह त्रिविधेऽपि भूतसर्गे ।
सहते ननु तत्त्वहिंसनं हि
तदिदं यत्र स एव तेऽधिवासः/ऽस्तु वोढा ।। 46।।
‘आतङ्कवाद’-इति या रुतिरत्र वादः
सिद्धान्तवाचकतया न जरीजृभीति ।
सिद्धोऽन्त एष यदि का नु रुतिर्भवित्री
पैशाचिकत्वमुपलालयतां पशूनाम् ।। 47।।
सिद्धान्तवाचकतया न जरीजृभीति ।
सिद्धोऽन्त एष यदि का नु रुतिर्भवित्री
पैशाचिकत्वमुपलालयतां पशूनाम् ।। 47।।
वैकारिकी सृतिरियं न विकारजात-
मुन्मृद्य वर्धितुमलं क्वचनापि मार्गे ।
युक्तिस्त्वियं भवतु वो हि मुखस्य भूषा
नैवेदृशीषु कलनासु वयं ललामः ।। 48।।
मुन्मृद्य वर्धितुमलं क्वचनापि मार्गे ।
युक्तिस्त्वियं भवतु वो हि मुखस्य भूषा
नैवेदृशीषु कलनासु वयं ललामः ।। 48।।
भुट्टो मृता; धृतवती स्वपदे सुतं सा
यत्साह्यके पतिमसावचिनोत् स्वपत्रे ।
एवं निजान्वयपरम्परयैव पाकिस्तानं
निगीर्यत इहावनिरेषकेव ।। 49।।
यत्साह्यके पतिमसावचिनोत् स्वपत्रे ।
एवं निजान्वयपरम्परयैव पाकिस्तानं
निगीर्यत इहावनिरेषकेव ।। 49।।
एषका=भारतीया
साम्राज्यवादभृशसोन्मदशिंशुमार-
गीर्णं कथञ्चन जगन्निजमुज्जिगीर्षु ।
भङ्ग्यन्तरेण तु पुनः प्रविविक्षतीव
तद् द्वारमेव; हहहा क्व नु याति लोकः ।। 50।।
गीर्णं कथञ्चन जगन्निजमुज्जिगीर्षु ।
भङ्ग्यन्तरेण तु पुनः प्रविविक्षतीव
तद् द्वारमेव; हहहा क्व नु याति लोकः ।। 50।।
अन्धे तमस्युदयमेति तु नेत्ररश्मिः
कस्यापि वर्त्तुलमुखस्य खगस्य रात्रौ ।
सूर्ये तपत्यथ निमीलति नेत्ररश्मिस्तस्यैव
किन्नु मनुजोऽद्य तमभ्युपैति ।। 51।।
कस्यापि वर्त्तुलमुखस्य खगस्य रात्रौ ।
सूर्ये तपत्यथ निमीलति नेत्ररश्मिस्तस्यैव
किन्नु मनुजोऽद्य तमभ्युपैति ।। 51।।
इह हि विषमे काले पादद्वयी करयोर्युगीं
विरुजति; मतिः सङ्गं दत्ते न हि द्वितयस्य तु ।
अपवरकतां काचस्यैते गता भवनाभिधा
अपि बत समे नीडा भग्नच्छदा नु गिरिद्रुमाः ।। 52।।
विरुजति; मतिः सङ्गं दत्ते न हि द्वितयस्य तु ।
अपवरकतां काचस्यैते गता भवनाभिधा
अपि बत समे नीडा भग्नच्छदा नु गिरिद्रुमाः ।। 52।।
याऽऽसीत् सूर्पणखा निकृत्तविकृतघ्राणा बभूवैषका
नेत्री दुश्चरिता युगे तु गमितं तत् कां दशां पश्य रे ।
रे रे मानव मानवाश्च कुरवो याता दशां कां हहा
निश्चक्षुष्क-गुहान्धकार-निभृता देवेऽपि संजाग्रति ।। 53।।
नेत्री दुश्चरिता युगे तु गमितं तत् कां दशां पश्य रे ।
रे रे मानव मानवाश्च कुरवो याता दशां कां हहा
निश्चक्षुष्क-गुहान्धकार-निभृता देवेऽपि संजाग्रति ।। 53।।
कर्त्तुं शक्यत इत्यहो विशसनं कर्त्तुं निजस्यैव किं
सृष्टाः संप्रति रोदसीविवरगा धिक् सोदराणामिमे ।
दाता दस्युकरद्वयं सुखमहो रक्तेन यद् रञ्जितं
स्वस्यैवात्र हहा प्रवृत्तिरथवा प्रीतिर्विरुद्धायते ।। 54।।
सृष्टाः संप्रति रोदसीविवरगा धिक् सोदराणामिमे ।
दाता दस्युकरद्वयं सुखमहो रक्तेन यद् रञ्जितं
स्वस्यैवात्र हहा प्रवृत्तिरथवा प्रीतिर्विरुद्धायते ।। 54।।
यद्वा कोऽपि दशाननो न हतवान् कश्चित्तु कुम्भाभिधं
कर्णं कर्णतया श्रुतश्च हतवान् किं वा न दुर्योधनम् ।
किं सुग्रीवमुपाहनद् दशरथापत्यं न चेतोगृहं
प्रीत्या दीपितमेषु चेदभजत स्निग्धां सजग्धिस्पृहाम् ।। 55।।
कर्णं कर्णतया श्रुतश्च हतवान् किं वा न दुर्योधनम् ।
किं सुग्रीवमुपाहनद् दशरथापत्यं न चेतोगृहं
प्रीत्या दीपितमेषु चेदभजत स्निग्धां सजग्धिस्पृहाम् ।। 55।।
याताः किन्नु कबन्धतां हि निखिलाः सर्व्वे वयं; बाहवो
भूयांसश्च महत्तमाश्च बहुशोऽस्माकं प्रथन्तेतमाम् ।
त्वक्त्वा राममथो सलक्ष्मणमिमे तन्मध्यगां मैथलीं
हर्त्तुं चेष्टितमाचराम उदित-क्षामेतरेच्छा-द्रुताः ।। 56।।
भूयांसश्च महत्तमाश्च बहुशोऽस्माकं प्रथन्तेतमाम् ।
त्वक्त्वा राममथो सलक्ष्मणमिमे तन्मध्यगां मैथलीं
हर्त्तुं चेष्टितमाचराम उदित-क्षामेतरेच्छा-द्रुताः ।। 56।।
यद्वा किं हृदयेषु नः पुनरपि प्राप्तोदयाः शुम्भकाः
सौन्दर्येऽधिकृतिं निजैकनिभृतां निर्घोषयन्तः स्फुटम् ।
भ्राता तस्य निशुम्भ एव यदिवा; यद्वोभयं; साम्प्रतं
निर्लज्जं स्मरचर्वितञ्च भुजयोर्वीर्यं प्रतुष्टूषति ।। 57।।
सौन्दर्येऽधिकृतिं निजैकनिभृतां निर्घोषयन्तः स्फुटम् ।
भ्राता तस्य निशुम्भ एव यदिवा; यद्वोभयं; साम्प्रतं
निर्लज्जं स्मरचर्वितञ्च भुजयोर्वीर्यं प्रतुष्टूषति ।। 57।।
किं वा भावि तवैकलस्य तव चेद् भोग्याऽस्तु कृत्स्ना मही
नायुष्यं च मुखं क्षयस्य धयति, स्वान्तं च प्रत्यग्रति ।
नित्यं खर्जनमेव घर्षणमथो नित्यं निषेवामहे
मात्रास्पर्शिन एव किञ्च सततं स्थित्वा विलेष्यामहे ।। 58।।
नायुष्यं च मुखं क्षयस्य धयति, स्वान्तं च प्रत्यग्रति ।
नित्यं खर्जनमेव घर्षणमथो नित्यं निषेवामहे
मात्रास्पर्शिन एव किञ्च सततं स्थित्वा विलेष्यामहे ।। 58।।
तृप्तिस्तर्ष उदीतहर्ष इह का; कालस्य कुक्षावणी-
यस्यस्मिञ् निश्वसिताभियोगविषये नक्तन्दिवं जाग्रतः ।
प्रत्यग्रीभवने सदैव निपुणस्तिष्ठन्ति रासोत्तमाः
कृष्णोऽप्येतमपास्य धावति तिरोधातुं रहस्तिष्ठति ।। 59।।
यस्यस्मिञ् निश्वसिताभियोगविषये नक्तन्दिवं जाग्रतः ।
प्रत्यग्रीभवने सदैव निपुणस्तिष्ठन्ति रासोत्तमाः
कृष्णोऽप्येतमपास्य धावति तिरोधातुं रहस्तिष्ठति ।। 59।।
रे रे कौरव बाहुमत्यमवनौ त्वन्मात्रहस्ते स्थितं
तर्को नीतिवधूटिकाप्रियतमोऽप्यास्ते तवैवान्तिके ।
किं तस्माद्धठ एव ते नय उदाकर्त्तुं परान् पाण्डवान्
सच्चारित्र्यशुभान् वनेचरतयैव स्थापयिष्यन् महान् ।। 60।।
तर्को नीतिवधूटिकाप्रियतमोऽप्यास्ते तवैवान्तिके ।
किं तस्माद्धठ एव ते नय उदाकर्त्तुं परान् पाण्डवान्
सच्चारित्र्यशुभान् वनेचरतयैव स्थापयिष्यन् महान् ।। 60।।
व्याख्याता श्वपचः प्रभातसमये श्वो जायते पश्यता-
मन्येषां विदुषां निरक्षरतया ख्यातोऽपि आचार्यताम् ।
कोऽयं न्याय इहावनौ यदपरे योग्या विपञ्चित्तमा
धिक्कारैरभिभावनां प्रतिपदं सोढुं द्विजत्वात् स्थिराः ।। 61।।
मन्येषां विदुषां निरक्षरतया ख्यातोऽपि आचार्यताम् ।
कोऽयं न्याय इहावनौ यदपरे योग्या विपञ्चित्तमा
धिक्कारैरभिभावनां प्रतिपदं सोढुं द्विजत्वात् स्थिराः ।। 61।।
साहित्यं ननु कः पठत्ययि पठन्त्येते समेऽप्याधुनि-
क्याचार्यत्वमितास्तदात्वरसिकाः कर्त्तारमेवास्य वै ।
यद्वा ग्रन्थसमीक्षकान् पटुगिरः संमन्वते भूयसा
मूलं ग्रन्थकरं विहाय; कृतिमप्युद्वास्य वा पाठकाः ।। 62।।
क्याचार्यत्वमितास्तदात्वरसिकाः कर्त्तारमेवास्य वै ।
यद्वा ग्रन्थसमीक्षकान् पटुगिरः संमन्वते भूयसा
मूलं ग्रन्थकरं विहाय; कृतिमप्युद्वास्य वा पाठकाः ।। 62।।
को वाऽऽसीन्ननु मुद्रिताक्षरचमत्कारात्मनां पुस्तका-
नां कर्त्तेति विचाराणासु विषयो मुख्यो; न तस्यान्तरम् ।
जातः कुत्र कुले च कस्य कतिधा सोऽशान भोगानिति
ग्रन्थस्य प्रसवे जने हि दधति प्रामुख्यमद्योद्भटाः ।। 63।।
नां कर्त्तेति विचाराणासु विषयो मुख्यो; न तस्यान्तरम् ।
जातः कुत्र कुले च कस्य कतिधा सोऽशान भोगानिति
ग्रन्थस्य प्रसवे जने हि दधति प्रामुख्यमद्योद्भटाः ।। 63।।
माता शब्दतनुः कृताऽद्य नितरां क्लिष्टं विवासा यथा
या तत्राऽर्थविभूतिरस्ति ननु तां त्याज्यामिवेक्षामहे ।
अद्यत्वे ननु वृत्तपत्रनिहितां चित्रोत्तरामक्षरा-
लीमात्रैकगतां तु वाक्यरचनां कृत्वैव तुष्टाः समे ।। 64।।
या तत्राऽर्थविभूतिरस्ति ननु तां त्याज्यामिवेक्षामहे ।
अद्यत्वे ननु वृत्तपत्रनिहितां चित्रोत्तरामक्षरा-
लीमात्रैकगतां तु वाक्यरचनां कृत्वैव तुष्टाः समे ।। 64।।
यद् वै विह्लणसूरिणाऽस्ति गदितं काव्यं च कश्मीरजा-
सोदर्यं तदिदं यथार्थमिह नास्त्यत्राऽणुमात्रं मृषा ।
यत्तूक्तं क्वचिदप्यवीक्षि परतो नास्याङ्कुरस्तन्मृषा
धाराधामनि किं च दक्षिणदिशि श्लिष्टास्तु काव्योत्तमाः ।। 65।।
सोदर्यं तदिदं यथार्थमिह नास्त्यत्राऽणुमात्रं मृषा ।
यत्तूक्तं क्वचिदप्यवीक्षि परतो नास्याङ्कुरस्तन्मृषा
धाराधामनि किं च दक्षिणदिशि श्लिष्टास्तु काव्योत्तमाः ।। 65।।
नानन्दं खलु वर्धयन्ति कृतिनः कश्मीरगाः शाब्दिकीं
छायां बाह्यतया व्युदस्य निभृतं हृष्यन्ति ये सौगताः ।
काञ्ची-कौशलमन्यदेव रचना-चातुर्य-मुग्धं तथा
धारा-धाम-गतं पृथक् सुचतुरै-रर्थैर्वदातीकृतम् ।। 66।।
छायां बाह्यतया व्युदस्य निभृतं हृष्यन्ति ये सौगताः ।
काञ्ची-कौशलमन्यदेव रचना-चातुर्य-मुग्धं तथा
धारा-धाम-गतं पृथक् सुचतुरै-रर्थैर्वदातीकृतम् ।। 66।।
शिवस्वामी रत्नाकर इति महान्तौ क्व नु कवी
क्व वानन्दाचार्योऽभिनवमहितो वा ध्वनिवशः।
महीमेकामेव श्रयितुमभवन्नेकसमयाः
पृथक्सत्त्वाः येषां विलसतितरां काव्यकलना ।। 67।।
क्व वानन्दाचार्योऽभिनवमहितो वा ध्वनिवशः।
महीमेकामेव श्रयितुमभवन्नेकसमयाः
पृथक्सत्त्वाः येषां विलसतितरां काव्यकलना ।। 67।।
अद्यत्वे यदि पत्रकाररचना प्रत्येकसूर्योदये
साहित्यं परिभाव्यते सुमतिभिः का वा तदा सा कथा ।
यस्यामस्तसमस्तदोषसुरसालङ्कारसौभाग्यभू-
रासीद् वन्दितवन्दिता भगवती वाग्देवता धीमताम् ।। 68।।
साहित्यं परिभाव्यते सुमतिभिः का वा तदा सा कथा ।
यस्यामस्तसमस्तदोषसुरसालङ्कारसौभाग्यभू-
रासीद् वन्दितवन्दिता भगवती वाग्देवता धीमताम् ।। 68।।
साहित्यं कविपाठकद्वयगता या हार्दिकी संविदा
तत्राप्यस्ति सनातनस्य कविताचार्यस्य दृग् वञ्जुला ।
तामुद्वास्य नटन्ति ये बुधवरास्तेषाममीषां भवे
प्रातः पत्रषते प्रकाषनमिदं नो कल्पते धीमते ।। 69।।
तत्राप्यस्ति सनातनस्य कविताचार्यस्य दृग् वञ्जुला ।
तामुद्वास्य नटन्ति ये बुधवरास्तेषाममीषां भवे
प्रातः पत्रषते प्रकाषनमिदं नो कल्पते धीमते ।। 69।।
गौरीशङ्करशैलराजशिरसि स्थित्वा वयं ब्रूमहे
शृण्वन्त्वब्धिजलावधि प्रसृमराः कृत्स्ना अमी प्राणिनः ।
खर्जोत्तेजनया कृतं सुरसया तुल्यैव सा स्वाननं
द्वैगुण्येन युतं करोति; न ततो निर्वेदमापद्यते ।। 70।।
शृण्वन्त्वब्धिजलावधि प्रसृमराः कृत्स्ना अमी प्राणिनः ।
खर्जोत्तेजनया कृतं सुरसया तुल्यैव सा स्वाननं
द्वैगुण्येन युतं करोति; न ततो निर्वेदमापद्यते ।। 70।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘चक्षुरुन्मीलनं’ नाम एकोनषष्टिः सर्गः ।। 59।।
नयपाल इति प्रसिद्धिमाप्तो हिमशैले ननु योऽस्ति देश एकः ।
स हि हिन्दुजनप्रधान आस्ते सुरवाणी ननु तत्र सुप्रतिष्ठा ।। 1।।
स हि हिन्दुजनप्रधान आस्ते सुरवाणी ननु तत्र सुप्रतिष्ठा ।। 1।।
पशुपत्यभिधः शिवोऽस्ति यत्र ननु भद्रावतिकातटे विराजन् ।
सुमहान् खलु यस्य नन्दिकेशः प्रविराजत्यधिकाऽऽरकूटमूर्त्तिः ।। 2।।
सुमहान् खलु यस्य नन्दिकेशः प्रविराजत्यधिकाऽऽरकूटमूर्त्तिः ।। 2।।
प्रविराजति यस्य वामभागे भगवान् भैरव एकलो विवस्त्रः ।
पुरुषेन्द्रियमस्य पूजयन्ते कतिचित् सौभगलेपनेन भक्ताः ।। 3।।
पुरुषेन्द्रियमस्य पूजयन्ते कतिचित् सौभगलेपनेन भक्ताः ।। 3।।
ननु तस्य समीप एव काचित् पितृवन्यास्ति शवाग्निधूमपूर्णा ।
भगवान् खलु विश्वनाथ आस्ते ननु काश्यामपि तादृशः श्मशानी ।। 4।।
भगवान् खलु विश्वनाथ आस्ते ननु काश्यामपि तादृशः श्मशानी ।। 4।।
ननु यः खलु विद्यते विशालानगरीधाम्नि विराजमानमूर्तिः ।
स महान् भगवानपि प्रभाते लभते भस्म चिताप्रसूतमेव ।। 5।।
स महान् भगवानपि प्रभाते लभते भस्म चिताप्रसूतमेव ।। 5।।
तदिदं त्रिपुराभिधं हि धाम भजते यत् खलु भूमिकात्रयं हि ।
अधराधरतां गतं तृतीयस्तरपुच्छे खलु राजते महान् सः ।। 6।।
अधराधरतां गतं तृतीयस्तरपुच्छे खलु राजते महान् सः ।। 6।।
अभवत् खलु कोऽपि कालिदासः कवितामेरुमहाशिरः कवीन्द्रः ।
स न कश्चन भिन्न एतमेव प्रविहायाऽपर-कालदास-संज्ञम् ।। 7।।
स न कश्चन भिन्न एतमेव प्रविहायाऽपर-कालदास-संज्ञम् ।। 7।।
अपि संस्मरणेन देवदेवस्य तु तस्यास्य चितौ स्फुरत्यपूर्वः ।
प्रविकासितबुद्धिकोष एकः स्थिरधामा खलु कोऽप्यहो प्रकाशः ।। 8।।
प्रविकासितबुद्धिकोष एकः स्थिरधामा खलु कोऽप्यहो प्रकाशः ।। 8।।
तमिमं प्रणिपत्य चेतनायां प्रविरूढं जगदीश्वरं महान्तम् ।
कलयामि चरित्रगां स्वकीयां नयपाले त्रुटिमुग्रलिप्सयेद्धाम् ।। 9।।
कलयामि चरित्रगां स्वकीयां नयपाले त्रुटिमुग्रलिप्सयेद्धाम् ।। 9।।
प्रथमं स महेन्द्रविक्रमाख्यो नयपालाधिपतिर्बभूव कञ्चित् ।
प्रणिनाय स तत्र रामगाथाकविनाम्ना खलु विश्वपाठकेन्द्रम् ।। 10।।
प्रणिनाय स तत्र रामगाथाकविनाम्ना खलु विश्वपाठकेन्द्रम् ।। 10।।
विश्वपाठकेन्द्रं वाल्मीकिविश्वविद्यालयम्।
सुत एव तु तस्य विक्रमाख्यः सुभगाया दयितो युवाऽधिकारी ।
नयपालनृपत्वमापदापन् बहवः काशिकपण्डिताश्च भागम् ।। 11।।
नयपालनृपत्वमापदापन् बहवः काशिकपण्डिताश्च भागम् ।। 11।।
ननु तस्य महोत्सवस्य हेतोर्मयकाऽप्येकमरच्यपूर्वकाव्यम् ।
अनुदेशमवाप्य काशिराजादधुना नाकमिताद् विभूतिसिंहात् ।। 12।।
अनुदेशमवाप्य काशिराजादधुना नाकमिताद् विभूतिसिंहात् ।। 12।।
तदिदं खलु वाचितार्धमेव ह्यवशिष्टं परिपूर्य दीयतेऽत्र ।
कविता परिपूर्णतां दधानादविखण्डैव तु शोभते निबन्धात् ।। 13।।
कविता परिपूर्णतां दधानादविखण्डैव तु शोभते निबन्धात् ।। 13।।
।। श्रीः।।
।। स्वस्ति ।। इतः श्रीकाशीपतिपादमूलादाखण्डलार्धासनाधिरूढश्रीमद्- वीरविक्रमशाहमहेन्द्रनरेन्द्राऽनुध्यातेभ्यो निखिलात्मसंपद्सम्पन्नेभ्यः प्रकृति- मण्डलानुरक्तिसत्पात्रेभ्यः दैवज्ञानामिव पश्चाङ्गनयनिपुणानां कुमाराणामिव शक्तिमतां; तान्त्रिकाणामिव ससिद्धिकानां; विवस्वतामिवोदयभाजां; प्रकृति- गुणाधिकगुणविवेकिनां च संख्यावतां विनयानधिगन्तुं शमदमाभ्यां सततं प्रबोधोत्थानशीलेभ्यश्चात्रभवद्भयः श्रीमद्वीरविक्रमवीरेन्द्रनरेन्द्रेभ्यः सुरगवी- सेवकसमाजः निवेदयति योऽयमार्यस्य माङ्गलिको राज्याभिषेकसमारम्भ- स्तेनानेन सुप्रीणिता भगवन्तो वेदाः ककुभां मुखेष्वेवं नु साम्प्रतिकम- भिलिखन्तः समेधयन्त्यायुष्मतः प्रशस्तिभिराभिः ।। 14।।
उत्सङ्गे गिरिजागुरोः शुचितमे लब्धतिष्ठो मही-
पृष्ठे धर्म्मतरोः सनातन इति ख्यातस्य मुख्यं पदम् ।
जीयात् कोऽपि महेन्द्रविक्रममहीपालैः समभ्यर्चितो
नेपालाभिधया श्रुतस्त्रिभुवने देशो गणेशोऽथवा ।। 15।।
पृष्ठे धर्म्मतरोः सनातन इति ख्यातस्य मुख्यं पदम् ।
जीयात् कोऽपि महेन्द्रविक्रममहीपालैः समभ्यर्चितो
नेपालाभिधया श्रुतस्त्रिभुवने देशो गणेशोऽथवा ।। 15।।
शैत्यं यत्प्रकृतिः परन्तु न जडं यस्मिन् पशूनां पतिः
पूज्यः; किन्तु नरोत्तमाञ्चितवपुः, श्रीमञ्च धीमञ्च यत् ।
तस्मै भारतवर्षभूमिरुपदीकर्तुं सदा चेष्टते
नेपालाय शुभाशिषां शतशतीं राष्ट्राय तीर्थाय वा ।। 16।।
पूज्यः; किन्तु नरोत्तमाञ्चितवपुः, श्रीमञ्च धीमञ्च यत् ।
तस्मै भारतवर्षभूमिरुपदीकर्तुं सदा चेष्टते
नेपालाय शुभाशिषां शतशतीं राष्ट्राय तीर्थाय वा ।। 16।।
शैलावेष्टितकाष्ठमण्डपतलं श्रित्वाप्यरण्यान्तरं
सेवित्वाऽपि, निपीय चापि गरलं रक्षश्चमूचेष्टितम् ।
विद्यास्थान-नवद्वयीमपहृतां वैदेशिकैः शासकै-
र्मर्यादापुरुषोत्मो जनकजां रामो नु यस् त्रायते ।। 17।।
सेवित्वाऽपि, निपीय चापि गरलं रक्षश्चमूचेष्टितम् ।
विद्यास्थान-नवद्वयीमपहृतां वैदेशिकैः शासकै-
र्मर्यादापुरुषोत्मो जनकजां रामो नु यस् त्रायते ।। 17।।
आत्मा शाश्वतचिन्मयस्तनुरियं मायाविवर्त्तः; परो
लोकः कर्म्मफलं; श्रुतिस्मृतिवचःस्तोमः प्रमाणोत्तमः ।v
वर्ण्णा जन्मत एव भिन्नवपुषो योगश्च मार्गो महा-
नेषा यस्य दृगर्थचत्वरनटीं नीतिं सदाप्यायते ।। 18।।
लोकः कर्म्मफलं; श्रुतिस्मृतिवचःस्तोमः प्रमाणोत्तमः ।v
वर्ण्णा जन्मत एव भिन्नवपुषो योगश्च मार्गो महा-
नेषा यस्य दृगर्थचत्वरनटीं नीतिं सदाप्यायते ।। 18।।
नेपालक्षितिपस्य तस्य निटिले राज्याभिषेकश्रियाः
कर्णाभ्यर्णचरिष्णुनोर्नयनयोः स्यूताः कटाक्षच्छटाः ।
पीयूषाम्बुमुचन्तु धर्म्मसरलारण्ये विमार्गाब्जिनी-
वेशन्ते च मतङ्गजन्तु निगमैर्दिव्याञ्जनैरञ्चिताः ।। 19।।
कर्णाभ्यर्णचरिष्णुनोर्नयनयोः स्यूताः कटाक्षच्छटाः ।
पीयूषाम्बुमुचन्तु धर्म्मसरलारण्ये विमार्गाब्जिनी-
वेशन्ते च मतङ्गजन्तु निगमैर्दिव्याञ्जनैरञ्चिताः ।। 19।।
श्रीगङ्गास्नपितोत्तमाङ्गसुभगः श्रीविश्वनाथः प्रभु-
श्रीकाशीगृहगेहिनी च परमा माताऽन्नपूर्णा सदा ।
कुर्य्यास्तां भवतां स्वधर्म्ममवतां माङ्गल्यमेवंविधं
येनार्याऽस्त्वकुतोभया वसुमती धन्याश्च सर्वा दिशः ।। 20।।
श्रीकाशीगृहगेहिनी च परमा माताऽन्नपूर्णा सदा ।
कुर्य्यास्तां भवतां स्वधर्म्ममवतां माङ्गल्यमेवंविधं
येनार्याऽस्त्वकुतोभया वसुमती धन्याश्च सर्वा दिशः ।। 20।।
कपूर्रस्तबकन्ति वक्षसि दिशां येषां यशःश्रेणय-
स्तप्तस्वर्णकरम्बकन्ति च शुभा येषां प्रतापोच्चयाः ।
स्वर्गौकः-सहयुध्वनां महिमभिर्नेपालभूमीभृतां
तेषां सन्तु विभूतयः स्थिरतया श्रीगर्वसर्वङ्कषाः ।। 21।।
स्तप्तस्वर्णकरम्बकन्ति च शुभा येषां प्रतापोच्चयाः ।
स्वर्गौकः-सहयुध्वनां महिमभिर्नेपालभूमीभृतां
तेषां सन्तु विभूतयः स्थिरतया श्रीगर्वसर्वङ्कषाः ।। 21।।
वामाङ्गे गिरिजेव खण्डपरशोर्लक्ष्मीरिव श्रीपतेः
पौलोमीव पुरन्दरस्य भवतो वीरेन्द्रभूमीपतेः ।
या काचिज्जगदीश्वरी कृतपदा सीमन्तिनीनां धुरि
स्थेमानं दधती पतिव्रततया साऽप्यस्तु सन्मङ्गला ।। 22।।
पौलोमीव पुरन्दरस्य भवतो वीरेन्द्रभूमीपतेः ।
या काचिज्जगदीश्वरी कृतपदा सीमन्तिनीनां धुरि
स्थेमानं दधती पतिव्रततया साऽप्यस्तु सन्मङ्गला ।। 22।।
शास्त्राम्भोनिधिमन्दराः सहृदयाः सूक्ष्मेक्षणाः संयता
नीरक्षीरविवेकिनः सुवपुषो मेधाविनो वाग्ग्मिनः ।
तुष्टान्तःकरणा भयेन रहिताः सत्ये रताः मन्त्रिणः
शक्रादेर्नु बृहस्पतिप्रभृतयो भूयासुरार्य्यस्य ते ।। 23।।
नीरक्षीरविवेकिनः सुवपुषो मेधाविनो वाग्ग्मिनः ।
तुष्टान्तःकरणा भयेन रहिताः सत्ये रताः मन्त्रिणः
शक्रादेर्नु बृहस्पतिप्रभृतयो भूयासुरार्य्यस्य ते ।। 23।।
सीमानो निखिला भवन्तु भवतां देशस्य निष्कण्टकाः
वश्यस्वच्छनिवासिनो जनपदाः कुल्यादिभिर्मण्डिताः ।
काले वारिमुचो भवन्तु जलदाः क्षेत्राणि सस्योत्तमैः
श्यामानि प्रवमन्तु किञ्च खनयो हेमोत्करं भास्वरम् ।। 24।।
वश्यस्वच्छनिवासिनो जनपदाः कुल्यादिभिर्मण्डिताः ।
काले वारिमुचो भवन्तु जलदाः क्षेत्राणि सस्योत्तमैः
श्यामानि प्रवमन्तु किञ्च खनयो हेमोत्करं भास्वरम् ।। 24।।
योद्धारो भवतां भवन्त्वरितृणे कालानलभ्रातरः
शान्ताः किन्तु सदा समुद्धुरहृदो युद्धोद्धवाध्वर्यवे ।
कोषाः सन्तु कुबेरकोषमपि वै न्यक्कृत्य वर्धिष्णवो
शास्त्रार्था इव शिष्यरत्ननिहिता भूरिव्ययेऽप्यव्ययाः ।। 25।।
शान्ताः किन्तु सदा समुद्धुरहृदो युद्धोद्धवाध्वर्यवे ।
कोषाः सन्तु कुबेरकोषमपि वै न्यक्कृत्य वर्धिष्णवो
शास्त्रार्था इव शिष्यरत्ननिहिता भूरिव्ययेऽप्यव्ययाः ।। 25।।
विस्रम्भामृतनित्यतृप्तहृदया अन्योन्यबद्धादराः
कर्माध्यक्षगणाः स्वधर्मसवनानुष्ठानहेवाकिनः ।
यन्त्रव्रातविधानके च कुशलाः खं भूतलं वारि च
स्वायत्तानि विधाय जाग्रतुतरां राष्ट्रोन्नतौ वः सदा ।। 26।।
कर्माध्यक्षगणाः स्वधर्मसवनानुष्ठानहेवाकिनः ।
यन्त्रव्रातविधानके च कुशलाः खं भूतलं वारि च
स्वायत्तानि विधाय जाग्रतुतरां राष्ट्रोन्नतौ वः सदा ।। 26।।
प्रध्वंसप्रतियोगिता मनुजतावच्छिन्नतां मा स्म गा-
च्छस्त्राणां महतां युगेऽत्र सुमतिः सैषा यतः प्रस्रवेत् ।
स्वातन्त्यं" तदिदं द्वयोः कृतपदं प्रत्येकपर्याप्तितो
नीहाराचलवासिनि त्वयि दृढे यद्वा भवानीपतौ ।। 27।।
च्छस्त्राणां महतां युगेऽत्र सुमतिः सैषा यतः प्रस्रवेत् ।
स्वातन्त्यं" तदिदं द्वयोः कृतपदं प्रत्येकपर्याप्तितो
नीहाराचलवासिनि त्वयि दृढे यद्वा भवानीपतौ ।। 27।।
यस्मिन्नाकाशगङ्गास्नपितपृथुशिखोत्तालभाला विशालाः
शैलाः पद्माग्रकोटीघटितलघुकणन्त्यब्धयो गोष्पदन्ति ।
तस्मिन् विज्ञानकोषे प्रकटमहिमनि प्रत्यहं देवतात्वा-
वच्छिन्नत्वं यतः स्यात् पुनरपि पदवी सा गवेष्या भवद्भिः ।। 28।।
शैलाः पद्माग्रकोटीघटितलघुकणन्त्यब्धयो गोष्पदन्ति ।
तस्मिन् विज्ञानकोषे प्रकटमहिमनि प्रत्यहं देवतात्वा-
वच्छिन्नत्वं यतः स्यात् पुनरपि पदवी सा गवेष्या भवद्भिः ।। 28।।
आशीराशीनिमान् वः प्रणयशबलितान् मङ्गलायाभ्युदीर्य
प्रत्यग्राशाङ्कुरं नः स्पृशति मतिलता यद् भवद्धर्म्मराज्ये ।
एतन्निश्चप्रचं यन्महिमपरिगतो मानवात्मा विवस्वान्
भूयः प्राचीललाटात् त्रिभुवनविवरे द्योतिताऽऽत्मप्रकाशैः ।। 29।।
प्रत्यग्राशाङ्कुरं नः स्पृशति मतिलता यद् भवद्धर्म्मराज्ये ।
एतन्निश्चप्रचं यन्महिमपरिगतो मानवात्मा विवस्वान्
भूयः प्राचीललाटात् त्रिभुवनविवरे द्योतिताऽऽत्मप्रकाशैः ।। 29।।
किमधिकेन भवन्मुकुटाजिरे रतिमती परिखेलतु हेलया ।
यमकुबेरजलेश्वरवज्रिणामखिलसिद्धिमयी प्रभविष्णुता ।। 30।।
यमकुबेरजलेश्वरवज्रिणामखिलसिद्धिमयी प्रभविष्णुता ।। 30।।
ताश्चैताः सुप्रीतये स्युः श्रीमतां
द्विजराजकाशिराजमहाराजश्रीलश्रीविभूतिनारायणसिंहदेव-तत्पादानुध्यात- वेदवेदाङ्गपरिष्क्रियाविलक्षणाऽभ्यासतत्कुमारश्रीमदनन्तनारायणदेवसमुदार- पाणिपुण्डरीकमुखेन समस्तसामुद्रिकलक्षणोपेतकरतलाऽभ्याशमुपगताः। मितिः माघशुद्धत्रयोदशी सोमवारः तिष्यः।2031वि.सं.।। श्री।। स्वस्तिश्रीः ।। 31।।
तदिदं प्रविभज्य मुद्रितं वै नयपाले प्रविमिश्र्य च भिन्नकाव्यम् ।
परमत्रतु काशिराजगोष्ठ्यां परिपूर्णं हि ममैव पर्यपाठि ।। 32।।
परमत्रतु काशिराजगोष्ठ्यां परिपूर्णं हि ममैव पर्यपाठि ।। 32।।
तदिदं दलमेकमेव पूर्णं मयकाऽमुद्रि तु संस्कृतस्य हेतोः ।
शतके मम हीरकाभिधाने मम विद्यालयहीरकोत्सवीये ।। 33।।
शतके मम हीरकाभिधाने मम विद्यालयहीरकोत्सवीये ।। 33।।
हीरकं संस्कृतहीरकम्।
नयपालमहीतले पुराणभवने काचन मातृकाऽस्ति नग्ना ।
स्नपिता खलु या पयोऽभिषेकैः सततं तिष्ठति दुग्धमज्जितैव ।। 34।।
स्नपिता खलु या पयोऽभिषेकैः सततं तिष्ठति दुग्धमज्जितैव ।। 34।।
बहवः खलु तत्र मन्दिरे वै विदधत्यम्बिकया कृतानि भूम्नः ।
चरितान्यसुराग्रगण्यघातानधिकृत्यात्र ससंपुटान् सुपाठान् ।। 35।।
चरितान्यसुराग्रगण्यघातानधिकृत्यात्र ससंपुटान् सुपाठान् ।। 35।।
इह पर्व्वतमस्तकेस्ति बौद्धप्रविहारोऽपि लसन्ति यत्र बौद्धाः ।
तत ऊर्ध्वमपि प्रभास्वरं वै जगदम्बायतनं विराजतेऽद्धा ।। 36।।
तत ऊर्ध्वमपि प्रभास्वरं वै जगदम्बायतनं विराजतेऽद्धा ।। 36।।
इह सन्ति विदेशजानि वस्तून्यपि मूल्येन लघीयसा स्थितानि ।
पुरमध्यगतं महद् विशालं सर एकं च चकास्ति नक्रपूर्णम् ।। 37।।
पुरमध्यगतं महद् विशालं सर एकं च चकास्ति नक्रपूर्णम् ।। 37।।
निखिला अपि मांसभोजिनोऽत्र निवसन्त्यासवपायिनश्च लोकाः ।
अतिशीतलवायुवेपथूनामिह तन्मात्रकमेव भेषजं यत् ।। 38।।
अतिशीतलवायुवेपथूनामिह तन्मात्रकमेव भेषजं यत् ।। 38।।
इह या जनतास्ति सा परेभ्यः स्थलगेभ्यः खलु राज्यकेभ्य एव ।
समुपागतसन्ततिश्च कास्ति नृपनीतिश्च तथैव साम्यवादः ।। 39।।
समुपागतसन्ततिश्च कास्ति नृपनीतिश्च तथैव साम्यवादः ।। 39।।
समुपद्रविणोऽपि सक्रिया वै बहवस्तत्र बभूवुरर्थकामाः ।
ननु तेषु हि राजवंशजानामपि केचिन्निभृतस्थिता अभूवन् ।। 40।।
ननु तेषु हि राजवंशजानामपि केचिन्निभृतस्थिता अभूवन् ।। 40।।
तनयोऽप्यभवन्नृपस्य कञ्चित् स जितेन्द्रो न हि यस्य बुद्धिकोशम् ।
विकृतिर्लघुगात्रिकापि काचित् क्षमते स्म स्पृशिकर्म संविधातुम् ।। 41।।
विकृतिर्लघुगात्रिकापि काचित् क्षमते स्म स्पृशिकर्म संविधातुम् ।। 41।।
प्रतिमासमसौ महान् महेन्द्रतनयः सग्धिमहोत्सवं तनोति ।
अथ यत्र स्वबान्धवानशेषान् समुपामन्त्रयते सहाऽवधानैः ।। 42।।
अथ यत्र स्वबान्धवानशेषान् समुपामन्त्रयते सहाऽवधानैः ।। 42।।
अथ हिन्दुपदाभिधानभाजां वदने कज्जललेपकाल आप्तः ।
ननु यत्र समेऽपि बन्धवोऽमी रिपवो विक्रमभूपतेरभूवन् ।। 43।।
ननु यत्र समेऽपि बन्धवोऽमी रिपवो विक्रमभूपतेरभूवन् ।। 43।।
तदिदं बुबुधे नृपो दशभ्यः क्षणिकाभ्यः प्रथमं स वै जुहाव ।
सुतमात्मन एषकस्ततश्च सहसा धावितुमादिशत् तमेतम् ।। 44।।
सुतमात्मन एषकस्ततश्च सहसा धावितुमादिशत् तमेतम् ।। 44।।
इह मृत्युरुपस्थितः समेषामपि राज्ञा सह तस्य बान्धवानाम् ।
सुत धाव च रक्ष चात्मनस्त्वं वपुराश्वेव पिता जगाद पुत्रम् ।। 45।।
सुत धाव च रक्ष चात्मनस्त्वं वपुराश्वेव पिता जगाद पुत्रम् ।। 45।।
अथ केचन धारिणो जितेन्द्रमुखमुद्राः समुपाविशन् सशस्त्राः ।
ववृषुश्च नृपे च तस्य पत्न्यादिषु चोग्राण्यथ गोलिकाशतानि ।। 46।।
ववृषुश्च नृपे च तस्य पत्न्यादिषु चोग्राण्यथ गोलिकाशतानि ।। 46।।
अभवंश्च गतासवः समेऽपि सनृपा ये किल सन्निपातिनोऽत्र ।
सममेव सुदूरगानपि स्वानहनत् कोऽपि जितेन्द्र एव दिष्टया ।। 47।।
सममेव सुदूरगानपि स्वानहनत् कोऽपि जितेन्द्र एव दिष्टया ।। 47।।
जितेन्द्रमुखधारिणामथ कृतक्रियैः कैश्चन
पलायनपरायणः स च जितेन्द्रको घातितः ।
स एव तु यथार्थतो नृपकुमार आसीद् वधे
न तस्य कुलमंशतोऽप्यभवदत्र शिष्टं तु तत् ।। 48।।
पलायनपरायणः स च जितेन्द्रको घातितः ।
स एव तु यथार्थतो नृपकुमार आसीद् वधे
न तस्य कुलमंशतोऽप्यभवदत्र शिष्टं तु तत् ।। 48।।
इदं तु खलु वैशसं व्यधित कोऽपि नेपालगः
पितृव्यतनयोऽभवत् स हि विधानतः शासकः ।
उवास नृपमन्दिरे कतिपयान् स मासांस्ततः
परं खलु बहिष्कृतः प्रतिविवेश गेहान्तरम् ।। 49।।
पितृव्यतनयोऽभवत् स हि विधानतः शासकः ।
उवास नृपमन्दिरे कतिपयान् स मासांस्ततः
परं खलु बहिष्कृतः प्रतिविवेश गेहान्तरम् ।। 49।।
महेन्द्रनृपवल्लभा न हि बहिष्कृता शासकै-
रुवास खलु सा स्वके भवन एव वृद्धा सती ।
महेन्द्रनृपतिर्जहौ वपुरवाप्तहृद्घातनो
विनैव भिषजां मुखं समवलोक्य कारे बहिः ।। 50।।
रुवास खलु सा स्वके भवन एव वृद्धा सती ।
महेन्द्रनृपतिर्जहौ वपुरवाप्तहृद्घातनो
विनैव भिषजां मुखं समवलोक्य कारे बहिः ।। 50।।
तदीयमिह दुःक्षणे तनयरत्नमैश्वर्यया
समं हि निजभार्यया गतिमिमां गतः साम्प्रतम् ।
जितेन्द्र इति संज्ञकोऽकृतविवाहदीक्षः सुधी-
ररातिगुलिकाः क्षणादलभतान्तकेन क्षिताः ।। 51।।
समं हि निजभार्यया गतिमिमां गतः साम्प्रतम् ।
जितेन्द्र इति संज्ञकोऽकृतविवाहदीक्षः सुधी-
ररातिगुलिकाः क्षणादलभतान्तकेन क्षिताः ।। 51।।
अन्ये ब्रुवन्ति गृहकर्मकरीसुतां स
वोढुं हठी जनकयोरनवाप्त आज्ञाम् ।
तत् साहसं विहितवान् नहि कामदग्धे
रोढुं पुनः प्रभवति प्रविवेचिका धीः ।। 52।।
वोढुं हठी जनकयोरनवाप्त आज्ञाम् ।
तत् साहसं विहितवान् नहि कामदग्धे
रोढुं पुनः प्रभवति प्रविवेचिका धीः ।। 52।।
मानोन्नतेषु नहि मानविमाननानां
स्पर्शोऽपि सह्य इव संप्रति बोभुवीति ।
दासीसुतां कथमिमौ नृपती स्वगेह-
लक्ष्मीपदाय वृणुतां हठतः सुतस्य ।। 53।।
स्पर्शोऽपि सह्य इव संप्रति बोभुवीति ।
दासीसुतां कथमिमौ नृपती स्वगेह-
लक्ष्मीपदाय वृणुतां हठतः सुतस्य ।। 53।।
तेन स्मरान्धमतिना प्रथमं सताता
माता भुशुण्डिगतगोलिकया निजघ्ने ।
पश्चाच्च तत्र समुपस्थिबन्धुवर्याः
संप्रेषिता यमगृहं क्षणमात्रतो हि ।। 54।।
माता भुशुण्डिगतगोलिकया निजघ्ने ।
पश्चाच्च तत्र समुपस्थिबन्धुवर्याः
संप्रेषिता यमगृहं क्षणमात्रतो हि ।। 54।।
अन्ते स्वमप्यभिनिहत्य स एष पुत्रो
यातो दिवं निजकरेण हि पिस्टलेन ।
एवं स्मरो मरणकारणतामवापन्
नेपालराजभवने बत हैन्दवीये ।। 55।।
यातो दिवं निजकरेण हि पिस्टलेन ।
एवं स्मरो मरणकारणतामवापन्
नेपालराजभवने बत हैन्दवीये ।। 55।।
नेपालराजनियमे निजबान्धवोऽपि
राज्ञो निवासभवने न शशाक गन्तुम् ।
तं वै स्वतो बत जितेन्द्रपिता हि हातुं
प्राचेष्टताऽथ परिणामिमं विलेभे ।। 56।।
राज्ञो निवासभवने न शशाक गन्तुम् ।
तं वै स्वतो बत जितेन्द्रपिता हि हातुं
प्राचेष्टताऽथ परिणामिमं विलेभे ।। 56।।
नेपालराज्यमभवन्निभृतं हि मित्रं
चीनस्य मूर्धनि कृतस्थितिकस्य किञ्च ।
विक्रीय भारतविनिर्मितवस्तुजातं
चीनाय कोषमभिपूरितवानतीव ।। 57।।
चीनस्य मूर्धनि कृतस्थितिकस्य किञ्च ।
विक्रीय भारतविनिर्मितवस्तुजातं
चीनाय कोषमभिपूरितवानतीव ।। 57।।
साहाय्यमिच्छति स एव दरिद्रराज्य-
राजः समृद्धतरभारतदेशतश्च ।
तेनोपकारमकरोच्च बुभुक्षितस्य
चीनस्य शात्रवभुवः परिशासकस्य ।। 58।।
राजः समृद्धतरभारतदेशतश्च ।
तेनोपकारमकरोच्च बुभुक्षितस्य
चीनस्य शात्रवभुवः परिशासकस्य ।। 58।।
नेपालराज्यजनतासु समुच्छ्रिता वै
नासा भवन्ति खलु येष्वरयस्त एते ।
ये वै भवन्ति चिपटा नसि ते च सर्वे
मान्या भवन्ति सुहृदो नृपशासकानाम् ।। 59।।
नासा भवन्ति खलु येष्वरयस्त एते ।
ये वै भवन्ति चिपटा नसि ते च सर्वे
मान्या भवन्ति सुहृदो नृपशासकानाम् ।। 59।।
काशीमुपेत्य नयपालनरेश्वराश्च
विश्वेश्वरं प्रति भवन्ति कृतप्रणामाः ।
गङ्गोदकं च परिपान्ति भवन्ति किञ्च
विद्वेषिणो भरतभूप्रभविष्णुसार्थे ।। 60।।
विश्वेश्वरं प्रति भवन्ति कृतप्रणामाः ।
गङ्गोदकं च परिपान्ति भवन्ति किञ्च
विद्वेषिणो भरतभूप्रभविष्णुसार्थे ।। 60।।
नीतिस्त्वियं नृपतिमण्डलचक्रनाम्नां
कामन्दकादिषु भवत्यतिमात्रसिद्धा ।
बाध्या जना नहि भवन्ति विवेकिनस्तद्
यत् तत्क्षणं हितकरं तदुपाश्रयन्ते ।। 61।।
कामन्दकादिषु भवत्यतिमात्रसिद्धा ।
बाध्या जना नहि भवन्ति विवेकिनस्तद्
यत् तत्क्षणं हितकरं तदुपाश्रयन्ते ।। 61।।
कार्यं प्रसिद्धयतु यथाकथमप्यमुं
ते मन्त्रं जपन्ति सततं ध्रियमाणकायाः ।
औचित्यजन्यकृतवेदितृभावधर्मः
पङ्गुत्वमेति नृपनीतिकषायितेषु ।। 62।।
ते मन्त्रं जपन्ति सततं ध्रियमाणकायाः ।
औचित्यजन्यकृतवेदितृभावधर्मः
पङ्गुत्वमेति नृपनीतिकषायितेषु ।। 62।।
कारागृहेषु बहुशोऽधिवसन्ति सन्तो
देहे नितान्तमसमर्थतयापि गीर्णाः ।
एते नृपा भरतभूमिगता इदानीम-
प्यर्जुनन्ति च भवन्ति च मन्त्रिणोऽपि ।। 63।।
देहे नितान्तमसमर्थतयापि गीर्णाः ।
एते नृपा भरतभूमिगता इदानीम-
प्यर्जुनन्ति च भवन्ति च मन्त्रिणोऽपि ।। 63।।
लालूप्रसादतु समा जनता यदीयां
शक्तिं विना न खलु केन्द्रगतं नृपत्वम् ।
नो वै ध्रियेत दिनमेकमपि प्रधान-
मन्त्रिण्यपि प्रभुतया प्रतिभासमानाम् ।। 64।।
शक्तिं विना न खलु केन्द्रगतं नृपत्वम् ।
नो वै ध्रियेत दिनमेकमपि प्रधान-
मन्त्रिण्यपि प्रभुतया प्रतिभासमानाम् ।। 64।।
कुर्वीत कोऽपि खलु किञ्चन तस्य दोषे
दृष्टिर्न याति नृपनीतिकषायितानाम् ।
एतां विसङ्गतिकथामुपजीव्य लोका
हेत्वन्तराणि सुबहूनि विकल्पयन्ते ।। 65।।
दृष्टिर्न याति नृपनीतिकषायितानाम् ।
एतां विसङ्गतिकथामुपजीव्य लोका
हेत्वन्तराणि सुबहूनि विकल्पयन्ते ।। 65।।
नो भीस्ततो यदि धनानि करस्थितानि
तेष्वेव किञ्च पदमस्ति सुरक्षितं तत् ।
नौकामिमां तरलितेऽम्भसि लोकगङ्गामातुः
समुत्तरणकर्म्मणि मन्वते ते ।। 66।।
तेष्वेव किञ्च पदमस्ति सुरक्षितं तत् ।
नौकामिमां तरलितेऽम्भसि लोकगङ्गामातुः
समुत्तरणकर्म्मणि मन्वते ते ।। 66।।
आन्यायिकेषु यदि वर्त्मसु लभ्यते श्री-
र्नैयायिकेड्ढु च दशा विड्ढमा ततः किम् ।
मार्गान्तरं भवति कस्यचनापि लोके
सेवारतस्य विपरीतसृतिं विहाय ।। 67।।
र्नैयायिकेड्ढु च दशा विड्ढमा ततः किम् ।
मार्गान्तरं भवति कस्यचनापि लोके
सेवारतस्य विपरीतसृतिं विहाय ।। 67।।
सोऽयं विपर्ययविपर्ययपर्ययाणां
नैरन्तरीशबलितः क्रम आशुवृद्धिः ।
एतं तु विन्ध्यमचलं ननु कस्त्वगस्त्यो
रोधं नयेत भुवि संप्रथमानशीर्षम् ।। 68।।
नैरन्तरीशबलितः क्रम आशुवृद्धिः ।
एतं तु विन्ध्यमचलं ननु कस्त्वगस्त्यो
रोधं नयेत भुवि संप्रथमानशीर्षम् ।। 68।।
न्यायालये धनमृते न चलन्ति वादा
वादेषु नास्ति बत वादिनि शुद्धिबुद्धिः ।
पीठं यथा भवति तादृश एव वादे
संदृश्यते खलु विनिर्णय एष मान्यः ।। 69।।
वादेषु नास्ति बत वादिनि शुद्धिबुद्धिः ।
पीठं यथा भवति तादृश एव वादे
संदृश्यते खलु विनिर्णय एष मान्यः ।। 69।।
मायावती भवति या खलु मुख्यमन्त्री
तामद्भुताद्भुतबलां कलयन्ति सन्तः ।
या ग्राहपालनसरोऽपि निगीर्य तस्य
स्वाम्यं वहत्यभियुयोज निरुद्धय दार्ढ्यात् ।। 70।।
तामद्भुताद्भुतबलां कलयन्ति सन्तः ।
या ग्राहपालनसरोऽपि निगीर्य तस्य
स्वाम्यं वहत्यभियुयोज निरुद्धय दार्ढ्यात् ।। 70।।
किं श्वो भविष्यति फलं गतरात्रकृत्यस्ये-
त्येतदस्ति न हि यस्य चितौ भयं सः ।
एतां तु शासकधुरं वहतु क्षमोऽस्ति
स ह्येव शान्तिमयदान्तिफलानि भोक्तुम् ।। 71।।
त्येतदस्ति न हि यस्य चितौ भयं सः ।
एतां तु शासकधुरं वहतु क्षमोऽस्ति
स ह्येव शान्तिमयदान्तिफलानि भोक्तुम् ।। 71।।
अद्यास्मि शक्तियुत एष न हि प्रतीक्षे
श्वः कृत्यकर्मकरणाय भविष्यकुक्षौ ।
लीयेत कश्च कुरुतां पदचारणां च
कः को नु वेद विबुधेष्वपि तथ्यमेतत् ।। 72।।
श्वः कृत्यकर्मकरणाय भविष्यकुक्षौ ।
लीयेत कश्च कुरुतां पदचारणां च
कः को नु वेद विबुधेष्वपि तथ्यमेतत् ।। 72।।
नेपालभूमिगतशोणितपातजन्यो
घातो यथा विशसनामकरोन्निजस्य ।
पाकेऽपि सैव घटना निकटे भविष्ये
संभाविनीति मतिरस्ति सनातनानाम् ।। 73।।
घातो यथा विशसनामकरोन्निजस्य ।
पाकेऽपि सैव घटना निकटे भविष्ये
संभाविनीति मतिरस्ति सनातनानाम् ।। 73।।
एषा हि भारतमहीं परिपेषयित्री
बाहुल्यकश्मलितसर्वजनान्तरङ्गाम् ।
धर्मोऽपि कृत्तकर एव विराजते धिक्
यश्चैधते स खलु कश्चिदधर्म एव ।। 74।।
बाहुल्यकश्मलितसर्वजनान्तरङ्गाम् ।
धर्मोऽपि कृत्तकर एव विराजते धिक्
यश्चैधते स खलु कश्चिदधर्म एव ।। 74।।
विहाय नयपालको नृपतिशासनं हैन्दवं
बभूव जनतान्त्रिकं किमपि धर्मतो निःस्पृहम् ।
इदंक्षण इमं गतो गृहविकारमासेदिवान्
मताधिकनिरुक्तिकृत्पथिक आप्तवान् संसदम् ।। 75।।
बभूव जनतान्त्रिकं किमपि धर्मतो निःस्पृहम् ।
इदंक्षण इमं गतो गृहविकारमासेदिवान्
मताधिकनिरुक्तिकृत्पथिक आप्तवान् संसदम् ।। 75।।
हिन्दुत्वस्य किमस्ति रूपमिति नः प्रत्यक्षमास्ते न वै
केनाप्यस्ति न लक्षणेन यवनत्वात् संविभिन्नं त्विदम् ।
हिंसा; वैभवलिप्सुता; नृपतिता, शास्तृत्वयोगो; घृणा-
व्याकोपः पशुवन्नरेऽपि निभृतं जाग्रत्यहो निर्भिदम् ।। 76।।
केनाप्यस्ति न लक्षणेन यवनत्वात् संविभिन्नं त्विदम् ।
हिंसा; वैभवलिप्सुता; नृपतिता, शास्तृत्वयोगो; घृणा-
व्याकोपः पशुवन्नरेऽपि निभृतं जाग्रत्यहो निर्भिदम् ।। 76।।
येषामिन्द्रियवाजिनो न वशगा येषु स्पृहा जाग्रति
पौलस्त्यस्य निरङ्कुशेव भगिनी निर्लज्जमुच्छृङ्खला ।
तेषां स्वर्णमयी सती न हि पुरी कालेन सर्वङ्कषा-
भोगेनाग्निखिलीकृता विजयते कस्मै गुणाय क्षितौ ।। 77।।
पौलस्त्यस्य निरङ्कुशेव भगिनी निर्लज्जमुच्छृङ्खला ।
तेषां स्वर्णमयी सती न हि पुरी कालेन सर्वङ्कषा-
भोगेनाग्निखिलीकृता विजयते कस्मै गुणाय क्षितौ ।। 77।।
क्षुद्रेयं हरिणी वने मृगपतेर्जायीभवन्ती क्रमान्
पादानां नभसि क्षिपत्यतितरां राभस्ययोगेन चेत् ।
चन्द्रान्तःस्थितमाप्स्यते न हरिणं; लब्ध्वापि सत्यापितं
तं वाऽनङ्गकमेव किं न हि शिरः संधूनयिष्यत्यहो ।। 78।।
पादानां नभसि क्षिपत्यतितरां राभस्ययोगेन चेत् ।
चन्द्रान्तःस्थितमाप्स्यते न हरिणं; लब्ध्वापि सत्यापितं
तं वाऽनङ्गकमेव किं न हि शिरः संधूनयिष्यत्यहो ।। 78।।
शार्दूलं खलु वञ्चयत्यतितरां क्षुद्रः शृगालः; पिकी
ध्वाङ्क्षाणां निचयानहो नरवपुर्धूर्त्तो न कं वञ्चयेत् ।
वञ्चित्वा क्व गमिष्यतीह मनुजो भोक्ता फलं वञ्चना-
लब्धं कुत्र; न तत्र तिष्ठति परा सत्ताऽऽत्मपश्यन्तिका ।। 79।।
ध्वाङ्क्षाणां निचयानहो नरवपुर्धूर्त्तो न कं वञ्चयेत् ।
वञ्चित्वा क्व गमिष्यतीह मनुजो भोक्ता फलं वञ्चना-
लब्धं कुत्र; न तत्र तिष्ठति परा सत्ताऽऽत्मपश्यन्तिका ।। 79।।
या गङ्गा हिमशैलतो धृतवती धारां समुद्रोदरा-
पूर्त्तिं कुर्त्तुमुदित्वरां प्रदधतीं मोक्षं मनुष्येष्वपि ।
तां वै वारितवारिकां कृतवतो मर्त्त्यस्य कुक्षिः कदा
पूर्णो हन्त भविष्यतीति कलयेत् कश् चित्रगुप्तं विना ।। 80।।
पूर्त्तिं कुर्त्तुमुदित्वरां प्रदधतीं मोक्षं मनुष्येष्वपि ।
तां वै वारितवारिकां कृतवतो मर्त्त्यस्य कुक्षिः कदा
पूर्णो हन्त भविष्यतीति कलयेत् कश् चित्रगुप्तं विना ।। 80।।
हे श्रीकृष्ण! यदा पुनश्च धरणीं संप्राप्य वृन्दावनं
गन्ता स्थास्यसि साश्रुरेव भगवान् भूत्वापि सर्वङ्कषः ।
लुप्ता संप्रति तत्र कापि यमुना; वंशीवटो नैकतां
प्राप्तः श्रीहरिदासधाम्नि कपयो राजन्ति रात्रिन्दिवम् ।। 81।।
गन्ता स्थास्यसि साश्रुरेव भगवान् भूत्वापि सर्वङ्कषः ।
लुप्ता संप्रति तत्र कापि यमुना; वंशीवटो नैकतां
प्राप्तः श्रीहरिदासधाम्नि कपयो राजन्ति रात्रिन्दिवम् ।। 81।।
पुरीं कोणार्कं वा यदि गतवतां भुक्तिलतिका
सरीसर्तुं बाध्या भ.वति ननु तत् तर्कविशदम् ।
अहो प्रस्थानं ये दधति ननु भक्तेरिह समे
वराकास्ते मूर्ध्नाऽवनितलगतेन प्रणमिताः ।। 82।।
सरीसर्तुं बाध्या भ.वति ननु तत् तर्कविशदम् ।
अहो प्रस्थानं ये दधति ननु भक्तेरिह समे
वराकास्ते मूर्ध्नाऽवनितलगतेन प्रणमिताः ।। 82।।
मनोऽनड्वांसं वै विदधतु बलादेव वृषणौ
वृथाकृत्वाऽनङ्गव्रतविरहितं केचन बुधाः ।
अथोऽसौ सर्वं वः कृषिविधिविधानं क्षमतया
करिष्यन्निष्टं वः सफलयति भोक्ताऽपि च बुसम् ।। 83।।
वृथाकृत्वाऽनङ्गव्रतविरहितं केचन बुधाः ।
अथोऽसौ सर्वं वः कृषिविधिविधानं क्षमतया
करिष्यन्निष्टं वः सफलयति भोक्ताऽपि च बुसम् ।। 83।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘कर्मविनिमयो’ नाम षष्टिः सर्गः ।। 60।।