मुसर्रफः पाकपतिस्तदीयान् मुल्लाननेकानवहत्य भग्नः ।
पतित्वयोगे निजराष्ट्रकस्य मुल्ला विरोधे स्थितिमन्त एव ।। 1।।
पतित्वयोगे निजराष्ट्रकस्य मुल्ला विरोधे स्थितिमन्त एव ।। 1।।
यो राष्ट्रपस्तस्य गृहेऽपि वर्षन्त्यस्त्रैररातिप्रवरा यदि स्यात् ।
को वा समाधिः प्रशमाय सौस्थ्ययोगाय वापि द्विपदो धरायाम् ।। 2।।
को वा समाधिः प्रशमाय सौस्थ्ययोगाय वापि द्विपदो धरायाम् ।। 2।।
सुरक्षितो यैर्हि मुशर्रफोऽस्ति ते सन्ति यावन्न विरोधमग्नाः ।
तावद्धि तस्यास्ति शरीरयष्टिः प्राणैर्युता का नु कथा विरोधे ।। 3।।
तावद्धि तस्यास्ति शरीरयष्टिः प्राणैर्युता का नु कथा विरोधे ।। 3।।
ये रक्तपाः सन्ति चतुष्पदानां द्विपादरक्तस्य पिपासुतायाम् ।
तेषां स्वभावस्य हि कारणत्वे नास्त्येव तर्कस्य वकाशकोऽत्र ।। 4।।
तेषां स्वभावस्य हि कारणत्वे नास्त्येव तर्कस्य वकाशकोऽत्र ।। 4।।
छित्त्वा च भित्त्वा च परस्य कोषं हृत्वा च येषां सुखमस्ति धर्म्यम् ।
अहिंसकानां भरतौकसां किं तैः संकथा काचन सत्फला स्यात् ।। 5।।
अहिंसकानां भरतौकसां किं तैः संकथा काचन सत्फला स्यात् ।। 5।।
ये वै जना वारितवामतायां श्रद्धातिरेकेण युता लसन्ति ।
का वाऽनुकूलत्वकथा त्वमीषां विरोध-नीत्येकसमाश्रितानाम् ।। 6।।
का वाऽनुकूलत्वकथा त्वमीषां विरोध-नीत्येकसमाश्रितानाम् ।। 6।।
ये रक्तबीजाः पृथिवीं स्पृशन्ति रक्तेन ते हन्त भवन्त्यसंख्याः ।
तद्रक्तपा या शिवदूतिकास्ति साप्याशु जागर्त्तुमुपात्तरंहाः ।। 7।।
तद्रक्तपा या शिवदूतिकास्ति साप्याशु जागर्त्तुमुपात्तरंहाः ।। 7।।
श्रीमन् मुशर्रफ! भवानयनेन येन
प्राप्तः पदं स्वकमिदं तदपावृतं हि ।
तेनैव ये सफलतां गमितार एते
त्वन्मार्गगाः खलु भवन्ति न शत्रुताढ्याः ।। 8।।
प्राप्तः पदं स्वकमिदं तदपावृतं हि ।
तेनैव ये सफलतां गमितार एते
त्वन्मार्गगाः खलु भवन्ति न शत्रुताढ्याः ।। 8।।
लोको गतानुगतिकोऽस्ति मनुष्यसृष्टे-
रारम्भतो हि, नहि तस्य पथत्रिमार्गा ।
पश्चाद् गतिर्भवितुमर्हति साम्प्रतं त्वं
संभुक्तभोग इति जीवसि कस्य हेतोः ।। 9।।
रारम्भतो हि, नहि तस्य पथत्रिमार्गा ।
पश्चाद् गतिर्भवितुमर्हति साम्प्रतं त्वं
संभुक्तभोग इति जीवसि कस्य हेतोः ।। 9।।
त्वं जीवितो लससि संप्रति पाकराष्ट्रे
त्वं वै गतासुरपि सर्वमिदं प्रलब्धा ।
गर्तेऽपि यत्र शयिताऽसि ततो न हानिः
काचित् तवास्ति बत राष्ट्रपतेः स्वपाके ।। 10।।
त्वं वै गतासुरपि सर्वमिदं प्रलब्धा ।
गर्तेऽपि यत्र शयिताऽसि ततो न हानिः
काचित् तवास्ति बत राष्ट्रपतेः स्वपाके ।। 10।।
कीटा वपुर्यदि न भोक्तुमलं भवेयु-
रेषाऽस्ति चेत् तव हृदि स्थगिता तु शङ्का ।
तर्ह्यातनुध्वमिह कञ्चन सौषधस्य
सुस्थोपचारमयि कच्चरपूरणस्य ।। 11।।
रेषाऽस्ति चेत् तव हृदि स्थगिता तु शङ्का ।
तर्ह्यातनुध्वमिह कञ्चन सौषधस्य
सुस्थोपचारमयि कच्चरपूरणस्य ।। 11।।
तेनापि नैव भविता तव कोऽपि लाभो
यस्मै त्वमुछ्वसिषि तस्य कुटुम्बकस्य ।
त्वां वीक्ष्य नैव भविताऽणुमिताऽपि काचि-
दिच्छा तवाननरुचेरवलोकनस्य ।। 12।।
यस्मै त्वमुछ्वसिषि तस्य कुटुम्बकस्य ।
त्वां वीक्ष्य नैव भविताऽणुमिताऽपि काचि-
दिच्छा तवाननरुचेरवलोकनस्य ।। 12।।
भुक्तास्तु येन वनिताः सुरसुन्दरीवत्
सौभाग्यमेदुरित-कोमलगात्रयष्ट्याः ।
अन्तं गतस्तु स जवाहरलालनामा क्व
स्मर्यते, श्वसिति किं खलु कोऽ पि तस्य ।। 13।।
सौभाग्यमेदुरित-कोमलगात्रयष्ट्याः ।
अन्तं गतस्तु स जवाहरलालनामा क्व
स्मर्यते, श्वसिति किं खलु कोऽ पि तस्य ।। 13।।
या सोनियेति परदेशसमुद्भवा सा
हिन्दीमपि प्रगुणया क्षमया ब्रवीति ।
तस्याः सुतोऽपि ननु राहुल इत्यभिख्य-
स्तेनापि नापि खलु काचन धर्मवीथी ।। 14।।
हिन्दीमपि प्रगुणया क्षमया ब्रवीति ।
तस्याः सुतोऽपि ननु राहुल इत्यभिख्य-
स्तेनापि नापि खलु काचन धर्मवीथी ।। 14।।
यः सञ्जयस्य वरुणस्तनयः स चापि
नाद्यापि सत्परिणयं प्रतिपद्यते तत् ।
शून्योऽद्य तिष्ठति जवाहरलालवंशो
नैवाङ्कुरं भजति दग्धफलस्तरुर्हि ।। 15।।
नाद्यापि सत्परिणयं प्रतिपद्यते तत् ।
शून्योऽद्य तिष्ठति जवाहरलालवंशो
नैवाङ्कुरं भजति दग्धफलस्तरुर्हि ।। 15।।
वैधव्ययोग-शर-विष्टरशायिनीनामेते
त्वधिष्ठिततमौ तनयौ चकास्तः ।
या सञ्जयस्य दयिता दयिता च
तस्यैवाग्रेभवस्य तरुणं वय आश्रिते यत् ।। 16।।
त्वधिष्ठिततमौ तनयौ चकास्तः ।
या सञ्जयस्य दयिता दयिता च
तस्यैवाग्रेभवस्य तरुणं वय आश्रिते यत् ।। 16।।
या राहुलस्य जननी वरुणस्य किञ्च
श्रीसोनियेति मनकेति च ये उभे ते ।
काङ्ग्रेसगेति भजपादलगेति राजनीता-
वपि प्रचुरमुद्वहतः कलिं वै ।। 17।।
श्रीसोनियेति मनकेति च ये उभे ते ।
काङ्ग्रेसगेति भजपादलगेति राजनीता-
वपि प्रचुरमुद्वहतः कलिं वै ।। 17।।
वैधव्ययोगकलुषा अपरा अपीह
नेतृत्वमुद्वपितुमुग्रजवा लसन्ति ।
साध्व्यश्च काश्चन कुमारिकया समाश्च
राजन्ति काश्चन भयाद् रहिताः सुनेत्र्यः ।। 18।।
नेतृत्वमुद्वपितुमुग्रजवा लसन्ति ।
साध्व्यश्च काश्चन कुमारिकया समाश्च
राजन्ति काश्चन भयाद् रहिताः सुनेत्र्यः ।। 18।।
सर्वासु संप्रति विधानसभाविजेत्री
मायावती हि परमां गमिता प्रतिष्ठाम् ।
मैत्रीबलेन जननायकशक्तिभाजाऽ-
मग्रेसरीसरति या मतिपाटवेन ।। 19।।
मायावती हि परमां गमिता प्रतिष्ठाम् ।
मैत्रीबलेन जननायकशक्तिभाजाऽ-
मग्रेसरीसरति या मतिपाटवेन ।। 19।।
एषा भविष्यति कदाचिदवश्यमेव
राष्ट्रप्रधानपदवीं गमिता महिष्ठाम् ।
या वै लता दधति धन्यभविष्णुभावं
पत्राण्यपि प्रमसृणनि भवन्ति तासाम् ।। 20।।
राष्ट्रप्रधानपदवीं गमिता महिष्ठाम् ।
या वै लता दधति धन्यभविष्णुभावं
पत्राण्यपि प्रमसृणनि भवन्ति तासाम् ।। 20।।
यां प्राग्धुरं स्म दधते कमलापतिष्च
श्रीचन्द्रभानुसदृशा नृपनीतिधुर्याः ।
तां दोलितामिव बहूः शरदः पुनश्च
मायावती बहुमता स्थिरतामनैषीत् ।। 21।।
श्रीचन्द्रभानुसदृशा नृपनीतिधुर्याः ।
तां दोलितामिव बहूः शरदः पुनश्च
मायावती बहुमता स्थिरतामनैषीत् ।। 21।।
यां श्रीरपि प्रवरमाश्रयमाश्रितास्ति
भूम्ना युगैश्चपलता-परिनिन्दयार्त्ता ।
तां वै श्रयिष्यति कथं न परात्परत्व-
ऽमुग्धा प्रभुत्वमहिता ननु कापि शक्तिः ।। 22।।
भूम्ना युगैश्चपलता-परिनिन्दयार्त्ता ।
तां वै श्रयिष्यति कथं न परात्परत्व-
ऽमुग्धा प्रभुत्वमहिता ननु कापि शक्तिः ।। 22।।
या धिक्करोति मनुमप्यभिमन्त्रितेव
पुत्रीन्द्रजालिककरेण विना विरामम् ।
सैवाद्य विश्वसिति विप्रवरान्ववाय-
ऽसाह्यं प्रसन्नहृदया विदुषी तमेव ।। 23।।
पुत्रीन्द्रजालिककरेण विना विरामम् ।
सैवाद्य विश्वसिति विप्रवरान्ववाय-
ऽसाह्यं प्रसन्नहृदया विदुषी तमेव ।। 23।।
काशीति यस्य विरुदे प्रथमं परं तं
रामं स्वतातमिव योपचचार रुग्णम् ।
शिष्योत्तमागुणयुतां न कथं गुरूणां
प्राप्तामवापुरधुनाशिष उल्लसन्त्यः ।। 24।।
रामं स्वतातमिव योपचचार रुग्णम् ।
शिष्योत्तमागुणयुतां न कथं गुरूणां
प्राप्तामवापुरधुनाशिष उल्लसन्त्यः ।। 24।।
शेखावतः प्रतिभयाऽस्तु पराजितश्चे-
न्नैवोपराष्ट्रपतिताऽपि शुभा भवित्री ।
तस्मिन् पदे भवति वामदलस्य
कश्चिज्जेता यदि प्रतिभया जितमप्यहारि ।। 25।।
न्नैवोपराष्ट्रपतिताऽपि शुभा भवित्री ।
तस्मिन् पदे भवति वामदलस्य
कश्चिज्जेता यदि प्रतिभया जितमप्यहारि ।। 25।।
सेयं प्रवातनियतिर्ननु या प्रशुष्कं
पत्रं निपातयति च क्षिपतीह वाभ्रे ।
वात्यां कलत्रयति यः स बिभर्त्ति सत्ता-
मक्षय्यपादपगतां प्रलयेऽप्यकम्प्राम् ।। 26।।
पत्रं निपातयति च क्षिपतीह वाभ्रे ।
वात्यां कलत्रयति यः स बिभर्त्ति सत्ता-
मक्षय्यपादपगतां प्रलयेऽप्यकम्प्राम् ।। 26।।
संचिक्युरुग्रतपसस्तु तपांसि तेषां
देवाङ्गना अपि सुखं सुलभा अभूवन् ।
खर्जां स्मरस्य तु समाः प्रशम्य्य यातास्तेषां
क्व ता बत बत प्रशमोऽप्रियो नः ।। 27।।
देवाङ्गना अपि सुखं सुलभा अभूवन् ।
खर्जां स्मरस्य तु समाः प्रशम्य्य यातास्तेषां
क्व ता बत बत प्रशमोऽप्रियो नः ।। 27।।
नष्टं तपो यदपि किन्तु सुराङ्गनाख्यः
स्वर्गस्तपस्विभिरिहैव भुवि व्यभोगि ।
का तत्र हानिरथवाऽधिकलिप्सया ते
सक्त्याख्यया न्यववृतिरे सुरराजशक्त्या ।। 28।।
स्वर्गस्तपस्विभिरिहैव भुवि व्यभोगि ।
का तत्र हानिरथवाऽधिकलिप्सया ते
सक्त्याख्यया न्यववृतिरे सुरराजशक्त्या ।। 28।।
हानिर्भवत्यधिकलाभशताधिकाऽपि
याऽधीयतेऽधिकृतदिव्यतरस्विभावैः।
भङ्गस्तपस्युपदधाति तु राष्ट्रलाभा-
धिक्यस्य हानिरिति तत् परिरक्ष्यतेऽद्धा ।। 29।।
याऽधीयतेऽधिकृतदिव्यतरस्विभावैः।
भङ्गस्तपस्युपदधाति तु राष्ट्रलाभा-
धिक्यस्य हानिरिति तत् परिरक्ष्यतेऽद्धा ।। 29।।
गुप्तैरभीनवतया प्रथितैरभीद्धं
सौन्दर्यमप्यनुपदीनमुपासनासु ।
यद् गीयते न खलु तस्य तपोविरोधः
कृत्त्वं न सिद्धयति यतस्तदुपेक्षणीयम् ।। 30।।
सौन्दर्यमप्यनुपदीनमुपासनासु ।
यद् गीयते न खलु तस्य तपोविरोधः
कृत्त्वं न सिद्धयति यतस्तदुपेक्षणीयम् ।। 30।।
सिद्धान्त एष उपदीकुरुतेऽङ्गनासु
सामान्यभावमथ भोग्यगुणं परस्मै ।
पातिव्रतं न खलु तत्र परात्परत्वसिद्धयै
प्रकल्पत इति क्व नु वामताऽस्य ।। 31।।
सामान्यभावमथ भोग्यगुणं परस्मै ।
पातिव्रतं न खलु तत्र परात्परत्वसिद्धयै
प्रकल्पत इति क्व नु वामताऽस्य ।। 31।।
गोरक्षनाथमपि गोपरिरक्षकत्वा-
न्नाथं वदन्ति यतिनः परिसिद्धयोगाः ।
गावो भवन्ति करणानि तदीयरक्षा-
योगश्च योगति परात्परनाथतायै ।। 32।।
न्नाथं वदन्ति यतिनः परिसिद्धयोगाः ।
गावो भवन्ति करणानि तदीयरक्षा-
योगश्च योगति परात्परनाथतायै ।। 32।।
देहेऽस्त्यमर्त्यमिह किञ्चन तत्त्वमास्ते
यत्रास्ति मृत्युरवशो नियतिश्च भुग्ना ।
तत् पूजयन्ति यवना अपि भूमिगर्त्ते
सुप्तं मृतेः परमथ प्रलये प्रबुद्धम् ।। 33।।
यत्रास्ति मृत्युरवशो नियतिश्च भुग्ना ।
तत् पूजयन्ति यवना अपि भूमिगर्त्ते
सुप्तं मृतेः परमथ प्रलये प्रबुद्धम् ।। 33।।
भोक्ताऽस्ति किन्तु परमेण च तेन युक्तो
देहो हि मांसरुधिरत्वगिति प्रपुष्टः ।
एते तमेव परिपोषयितुं प्रवृताः
पुत्रात्मना परिणतौ विविधैर्विधानैः ।। 34।।
देहो हि मांसरुधिरत्वगिति प्रपुष्टः ।
एते तमेव परिपोषयितुं प्रवृताः
पुत्रात्मना परिणतौ विविधैर्विधानैः ।। 34।।
स्त्रीति चेत् परिणतं तदिदं वपुस्तत्
तद् भोज्यमेव पुरुषस्य समर्थधातोः ।
ते कृष्णशार इव तत् पृषतीषु, पत्स्त्यः
पस्त्यासु वा व्यहरन्ति तदेकयूथाः ।। 35।।
तद् भोज्यमेव पुरुषस्य समर्थधातोः ।
ते कृष्णशार इव तत् पृषतीषु, पत्स्त्यः
पस्त्यासु वा व्यहरन्ति तदेकयूथाः ।। 35।।
ते संत्यजन्ति निजसोदरभावयुक्तां
भोगे स्वसारमिह, न त्वपरां तु योषाम् ।
सन्तानमेव चरमं परिणाममात्म-
रूपं वदन्ति त इमे निगमानुगा नु ।। 36।।
भोगे स्वसारमिह, न त्वपरां तु योषाम् ।
सन्तानमेव चरमं परिणाममात्म-
रूपं वदन्ति त इमे निगमानुगा नु ।। 36।।
उच्छिष्टमस्ति नहि किञ्चन तेषु वस्तु
खादन्ति ते समतयैकतमस्थलीकाः ।
पात्रेण केनचन किञ्च मृदा कृतेन
सर्वे पिबन्ति सलिलं क्रमशः प्रमोदात् ।। 37।।
खादन्ति ते समतयैकतमस्थलीकाः ।
पात्रेण केनचन किञ्च मृदा कृतेन
सर्वे पिबन्ति सलिलं क्रमशः प्रमोदात् ।। 37।।
पश्यन्ति चेच्छरटमेत उदाचिकीर्षा-
बाध्या भवन्ति परिहत्य च तत् स्वकाये ।
रक्तप्रवृद्धिरधुना समजायतेति स्वे
चित्तकोष उपधाय चरन्ति धन्याः ।। 38।।
बाध्या भवन्ति परिहत्य च तत् स्वकाये ।
रक्तप्रवृद्धिरधुना समजायतेति स्वे
चित्तकोष उपधाय चरन्ति धन्याः ।। 38।।
गां बर्करीमिव पिकीं चटकां नु हत्वा
भुक्त्वा विपाच्य त इमे प्रमुदो भवन्ति ।
ताम्बूलपत्रपुटवीटिकया धृतान्त-
र्मद्याच्छया च मुखगह्नरमाभरन्ति ।। 39।।
भुक्त्वा विपाच्य त इमे प्रमुदो भवन्ति ।
ताम्बूलपत्रपुटवीटिकया धृतान्त-
र्मद्याच्छया च मुखगह्नरमाभरन्ति ।। 39।।
मल्लो य एषु भवति प्रगुणं तमेव
सर्वाः स्त्रियो मनसि भावयितुं स्वतन्त्राः ।
तत्ताभिराभिगमिकाभिरुपाययुक्ति-
पद्याभिरेतमभिसर्त्तुमुपक्रमन्ते ।। 40।।
सर्वाः स्त्रियो मनसि भावयितुं स्वतन्त्राः ।
तत्ताभिराभिगमिकाभिरुपाययुक्ति-
पद्याभिरेतमभिसर्त्तुमुपक्रमन्ते ।। 40।।
कृष्णेन पादपरिलम्बितदीर्घदीर्घे-
णाच्छादनेन वृतपूर्णशरीरगात्राः ।
छिद्रेण नेत्रपुरतः परिकारितेन
पश्यन्ति मार्गमथ च प्रचलन्ति धीराः ।। 41।।
णाच्छादनेन वृतपूर्णशरीरगात्राः ।
छिद्रेण नेत्रपुरतः परिकारितेन
पश्यन्ति मार्गमथ च प्रचलन्ति धीराः ।। 41।।
अल्लाह इत्यभिहितस्य च मानुषस्य
चैतस्य मध्य इतरो नहि कश्चिदस्ति ।
पूर्वो पिपर्त्ति परमेष परश्च यद् यत्
कार्यं करोति गणयत्यपरस्तदेतत् ।। 42।।
चैतस्य मध्य इतरो नहि कश्चिदस्ति ।
पूर्वो पिपर्त्ति परमेष परश्च यद् यत्
कार्यं करोति गणयत्यपरस्तदेतत् ।। 42।।
एकान्तवासनिभृतस्य मदोल्बणस्य
स्त्रीपुंसयोर्मिथुनकस्य तु या प्रवृत्तिः ।
सा सावकाशति ननु प्रभुरेव तस्मा-
देषा भवन्ति बनिता पुरुषेभ्य एभ्यः ।। 43।।
स्त्रीपुंसयोर्मिथुनकस्य तु या प्रवृत्तिः ।
सा सावकाशति ननु प्रभुरेव तस्मा-
देषा भवन्ति बनिता पुरुषेभ्य एभ्यः ।। 43।।
भोगो निरन्तरमसावनयोर्निरन्त-
रायं प्रवर्त्तत इमे न पराजयन्ते ।
स्त्रीत्वेऽबला न भवति प्रभुरेष एषां
पुंस्त्वे च नो लसति तत्र बलात्कृतत्वम् ।। 44।।
रायं प्रवर्त्तत इमे न पराजयन्ते ।
स्त्रीत्वेऽबला न भवति प्रभुरेष एषां
पुंस्त्वे च नो लसति तत्र बलात्कृतत्वम् ।। 44।।
सर्वेऽप्यमी परिचरन्ति च वीथिकासु
स्त्रीचूलिकादि-परिविक्रययानवन्तः।
मार्गेण तेन च सिषाधयिषन्त्यमीषां
स्त्रीचौर्यकार्यमपि भाषितिमाधुरीभिः ।। 45।।
स्त्रीचूलिकादि-परिविक्रययानवन्तः।
मार्गेण तेन च सिषाधयिषन्त्यमीषां
स्त्रीचौर्यकार्यमपि भाषितिमाधुरीभिः ।। 45।।
कौपीनहीनवसनावृतपादयुग्मा
एते लसन्ति परितः परिकृत्तशिश्नाः ।
वस्त्रस्पृगङ्गपरिमूर्च्छितनित्यकाम-
कामा इमे सततमेव हि कामुकन्ति ।। 46।।
एते लसन्ति परितः परिकृत्तशिश्नाः ।
वस्त्रस्पृगङ्गपरिमूर्च्छितनित्यकाम-
कामा इमे सततमेव हि कामुकन्ति ।। 46।।
ये त्वास्रपन्ति च भवन्ति च शस्त्रसंघैः
संवर्धिताः क्व नु कदाचरिणाममीषाम् ।
भूयान् न वै प्रसर इत्यधुना मनुष्य-
भूमिः परिभ्रमिमिवाश्रयते परार्धाम् ।। 47।।
संवर्धिताः क्व नु कदाचरिणाममीषाम् ।
भूयान् न वै प्रसर इत्यधुना मनुष्य-
भूमिः परिभ्रमिमिवाश्रयते परार्धाम् ।। 47।।
जिन्ना च यं स्वरमुदाहरदस्मि नेता
मोहम्मदेष्वहमहं हि न कोऽपि भिन्नः ।
गान्धी भवत्ययमहो बत हिन्दुकानां
नेतेति सा हि भिदिदंक्षण उग्रतीद्धा ।। 48।।
मोहम्मदेष्वहमहं हि न कोऽपि भिन्नः ।
गान्धी भवत्ययमहो बत हिन्दुकानां
नेतेति सा हि भिदिदंक्षण उग्रतीद्धा ।। 48।।
ये यावना, न खलु ते प्रतियन्ति हिन्दौ
हिन्दूश्च यः स खलु विश्वसितीह तस्मिन् ।
इत्थं द्रुमेण कदलीदलपत्रकाणां
सोत्कण्टकेन सह कश्चिदयं हि योगः ।। 49।।
हिन्दूश्च यः स खलु विश्वसितीह तस्मिन् ।
इत्थं द्रुमेण कदलीदलपत्रकाणां
सोत्कण्टकेन सह कश्चिदयं हि योगः ।। 49।।
विश्वम्भरोऽवति निजं जनमित्यभीद्धं
विश्वासमाप्य निभृताः खलु हिन्दुजात्याः ।
एषां बिडालशिशुवन्निभृतेक्षणानां
कोऽन्योऽविता भवति हन्त विहाय देवम् ।। 50।।
विश्वासमाप्य निभृताः खलु हिन्दुजात्याः ।
एषां बिडालशिशुवन्निभृतेक्षणानां
कोऽन्योऽविता भवति हन्त विहाय देवम् ।। 50।।
आयोध्यकं दशरथात्मज-जन्मभूमि-
स्थानं कृतं स्वकरगं खलु यैर्बलाद्धि ।
यैः काशिकापतिमहाप्रभुविश्वनाथ-
पिण्डोऽप्यपाति निकटस्थितबोधवाप्याम् ।। 51।।
स्थानं कृतं स्वकरगं खलु यैर्बलाद्धि ।
यैः काशिकापतिमहाप्रभुविश्वनाथ-
पिण्डोऽप्यपाति निकटस्थितबोधवाप्याम् ।। 51।।
बोधवापी = ज्ञानवापी।
यैः कृष्णजन्मभुवि मस्जिदमुत्तमं वै
निर्माय शान्तिरुपलब्धवती बभूवे ।
यैस्ताज एव धवलेश्वरमन्दिरस्य
स्थाने व्यधायि जगतीतलमुख्यचैत्यम् ।। 52।।
निर्माय शान्तिरुपलब्धवती बभूवे ।
यैस्ताज एव धवलेश्वरमन्दिरस्य
स्थाने व्यधायि जगतीतलमुख्यचैत्यम् ।। 52।।
या ज्ञानवापिगतमस्जिदभित्तिरस्ति
तस्यास्तु पृष्ठमधुनाप्यभिदृश्यते यत्।
तन्मन्दिरस्य ननु तस्य शिरस्यमीभि-
रिष्टीर्निधाय शिखरं विहितं निजस्य ।। 53।।
तस्यास्तु पृष्ठमधुनाप्यभिदृश्यते यत्।
तन्मन्दिरस्य ननु तस्य शिरस्यमीभि-
रिष्टीर्निधाय शिखरं विहितं निजस्य ।। 53।।
प्रत्यक्षमेतदिह किन्तु न शासनं त-
त्संशोधनं हृदि चिकीर्षति भिक्षयोत्कम् ।
नो लप्स्यते यवन-जाति-मतन्त्वियं भी-
रस्यास्ति शास्तृनिचयस्य रहस्यभीतिः ।। 54।।
त्संशोधनं हृदि चिकीर्षति भिक्षयोत्कम् ।
नो लप्स्यते यवन-जाति-मतन्त्वियं भी-
रस्यास्ति शास्तृनिचयस्य रहस्यभीतिः ।। 54।।
ये सन्ति साधुवसना बहवस्त्विदानीं
सानातनं रथमिमे हि विचालयन्ति ।
तेषां न संघटनमस्ति न भक्तियोग-
स्तेष्वस्तु वै कथमिदंक्षण आत्मरक्षा ।। 55।।
सानातनं रथमिमे हि विचालयन्ति ।
तेषां न संघटनमस्ति न भक्तियोग-
स्तेष्वस्तु वै कथमिदंक्षण आत्मरक्षा ।। 55।।
अस्माद्धि कश्चन सनातननामधारी
हेतोः कवित्वमुपदर्शयतेऽधिरामम् ।
यत्रास्ति देवनशतं परिपूर्वकं च
हेतुश्च तत्र निज-भक्ति-जुषामवीर्यम् ।। 56।।
हेतोः कवित्वमुपदर्शयतेऽधिरामम् ।
यत्रास्ति देवनशतं परिपूर्वकं च
हेतुश्च तत्र निज-भक्ति-जुषामवीर्यम् ।। 56।।
ईशोऽपि नेशति यदा खलु तस्य भक्ता
दौर्बल्यगर्त्तपतिताः परितो भषन्ते ।
आरावमेतमुपवेशयते न कर्ण-
पात्रे स कोऽपि परमेश्वर इत्यभिख्यः ।। 57।।
दौर्बल्यगर्त्तपतिताः परितो भषन्ते ।
आरावमेतमुपवेशयते न कर्ण-
पात्रे स कोऽपि परमेश्वर इत्यभिख्यः ।। 57।।
ये सन्ति केऽपि गुरुनानकपादशिष्या-
स्तेषां वपुष्षु बलवत्त्वमुपादधत्सु ।
नास्त्येव काचन भिदा यवनेभ्य एकं
हित्वा परं परहिताहितमानसत्वम् ।। 58।।
स्तेषां वपुष्षु बलवत्त्वमुपादधत्सु ।
नास्त्येव काचन भिदा यवनेभ्य एकं
हित्वा परं परहिताहितमानसत्वम् ।। 58।।
सर्वेऽपि मांसभुज एत उपाश्रयन्ते
नो जातिवर्गभिदमेव शरीरनिष्ठाम् ।
ते हिन्दवो हि भरतावनि-जात-जाति-
मन्तः समेऽपि परमद्य भिदं लभन्ते ।। 59।।
नो जातिवर्गभिदमेव शरीरनिष्ठाम् ।
ते हिन्दवो हि भरतावनि-जात-जाति-
मन्तः समेऽपि परमद्य भिदं लभन्ते ।। 59।।
ते गुर्जरा इव परेष्वपि राष्ट्रगात्रे-
ष्वाबद्धवाणिजककार्यधुरो भ्रमन्ति ।
तेषां न तत्र किमपि प्रतिबन्धकं वै
नो भोजनं न खलु पानमथो न वासः ।। 60।।
ष्वाबद्धवाणिजककार्यधुरो भ्रमन्ति ।
तेषां न तत्र किमपि प्रतिबन्धकं वै
नो भोजनं न खलु पानमथो न वासः ।। 60।।
रात्रिं कुतोऽपि गमयन्ति दिनं कुतोऽपि
रात्रिन्दिवं व्यवसितौ हि निमज्जितस्वाः ।
अर्थं हि धर्मयितुमुद्धुरकन्धरा ये
तेषां क्व भानुरथ को ननु चन्द्रमाश्च ।। 61।।
रात्रिन्दिवं व्यवसितौ हि निमज्जितस्वाः ।
अर्थं हि धर्मयितुमुद्धुरकन्धरा ये
तेषां क्व भानुरथ को ननु चन्द्रमाश्च ।। 61।।
सन्ध्यामुपासितुमिमे नहि संयतन्ते
कार्पाणिकाश्च शिरसा धृतचक्रकाश्च ।
पीताम्बरा बहलकूर्चवृतास्यकोषाः
कस्यापि वै नहि भवन्ति निजास्त एते ।। 62।।
कार्पाणिकाश्च शिरसा धृतचक्रकाश्च ।
पीताम्बरा बहलकूर्चवृतास्यकोषाः
कस्यापि वै नहि भवन्ति निजास्त एते ।। 62।।
ये यीशुधर्मनिरता विपुलार्थकास्ते
विद्यालयान् स्वमत-शिक्षण-नीति-बद्धान् ।
सर्वत्र निर्मिमत आङ्गलवाचि कृत्वा
बालान् प्रशिक्षिततमान् निजतां नयन्ते ।। 63।।
विद्यालयान् स्वमत-शिक्षण-नीति-बद्धान् ।
सर्वत्र निर्मिमत आङ्गलवाचि कृत्वा
बालान् प्रशिक्षिततमान् निजतां नयन्ते ।। 63।।
एष्वेव सन्ति नितरामसितत्वचोऽपि
कार्ष्णायसत्वसचिवा मनुजान्ववायाः ।
प्र-ध्वंसयन्ति भवनानि सितत्त्वचां ते
ते नाशयन्ति च गृहाण्यसितत्वचां धिक् ।। 64।।
कार्ष्णायसत्वसचिवा मनुजान्ववायाः ।
प्र-ध्वंसयन्ति भवनानि सितत्त्वचां ते
ते नाशयन्ति च गृहाण्यसितत्वचां धिक् ।। 64।।
एषां भवन्ति गिरिजागृहसंज्ञका ये
स्थानोत्तमाः प्रभुशुभाक्षरगानतीर्थम् ।
तान्यग्निसाददयमेव तृणानि यद्वत्
कर्त्तुं परस्पररुषा न न संकुचन्ति ।। 65।।
स्थानोत्तमाः प्रभुशुभाक्षरगानतीर्थम् ।
तान्यग्निसाददयमेव तृणानि यद्वत्
कर्त्तुं परस्पररुषा न न संकुचन्ति ।। 65।।
यः कश्चनास्ति पुरुषः स निजाभिमुख्य-
भाजं स्त्रियं भवति भोक्तुमलं, न तत्र ।
दोषं समामनति कश्चन, सुप्रकाश-
मेवान्यभोगनिरतानपि मार्गमार्गे ।। 66।।
भाजं स्त्रियं भवति भोक्तुमलं, न तत्र ।
दोषं समामनति कश्चन, सुप्रकाश-
मेवान्यभोगनिरतानपि मार्गमार्गे ।। 66।।
या कापि यौवनवती विरलोपवस्त्रा
सा रन्तुमर्हति युवद्वितयेन सार्धम् ।
सार्धं च पुष्टवपुषापि शुना विहीन-
लज्जं न तत्र नयनानि परे क्षिपेयुः ।। 67।।
सा रन्तुमर्हति युवद्वितयेन सार्धम् ।
सार्धं च पुष्टवपुषापि शुना विहीन-
लज्जं न तत्र नयनानि परे क्षिपेयुः ।। 67।।
ये सन्ति केचन सुमेर-सुमात्र-यावा-
बालि-प्रभृत्यवनि-देशभुवस्समेषाम्।
एषां स्मराग्नि-शमने परमं स्वतन्त्र-
भावं निरीक्ष्य चकिताः खलु बोभुवामः ।। 68।।
<बालि-प्रभृत्यवनि-देशभुवस्समेषाम्।
एषां स्मराग्नि-शमने परमं स्वतन्त्र-
भावं निरीक्ष्य चकिताः खलु बोभुवामः ।। 68।।
यत् साम्प्रतं बत बताक्रमणेन दिग्धं
द्वीपं त्विदं बत युतं ननु जम्बुवर्णैः ।
तस्यास्ति सैव गतिरन्वभवाम यां हि
नाट्या-प्रवर्त्तक-मुनेर्भरतस्य काले ।। 69।।
द्वीपं त्विदं बत युतं ननु जम्बुवर्णैः ।
तस्यास्ति सैव गतिरन्वभवाम यां हि
नाट्या-प्रवर्त्तक-मुनेर्भरतस्य काले ।। 69।।
भवतु भगवानस्याः क्षेमङ्करः पतलायुभि-
र्गगन-विवरादश्मव्रातै-र्विनश्वर-संपदः ।
यदि नहि नरः श्यैनंपातान्निवारयितुं क्षमो
भजति नु तदा को वा यत्नं विना परमेश्वरम् ।। 70।।
र्गगन-विवरादश्मव्रातै-र्विनश्वर-संपदः ।
यदि नहि नरः श्यैनंपातान्निवारयितुं क्षमो
भजति नु तदा को वा यत्नं विना परमेश्वरम् ।। 70।।
इति स्वातन्त्र्य सम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘अनियन्त्रितचारित्रो’ नाम एकचत्वारिंशः सर्गः ।। 41।।
अमृतसरसी पूर्वं या भिण्डरेण खिलीकृता-
ऽभजत हृदयं दीर्णं कर्त्तुं क्षमां स्थितिमीदृशीम् ।
स्थितिमुपगतं पाकस्थानस्य शासनमद्य ता-
मनुसरति धिक् किं नोऽम्रीकाऽस्ति तत्र विरोधकृत् ।। 1।।
ऽभजत हृदयं दीर्णं कर्त्तुं क्षमां स्थितिमीदृशीम् ।
स्थितिमुपगतं पाकस्थानस्य शासनमद्य ता-
मनुसरति धिक् किं नोऽम्रीकाऽस्ति तत्र विरोधकृत् ।। 1।।
करगतभुशुण्डीका मुल्लाजना ननु मस्जिदे
बलवदशनिप्रख्यैः सांघातकैः शकलीकृताः ।
बलसमुदयैः पाकस्थानस्य कूर्चकषायितं
निजमुखशतं व्योम्नि प्रोत्थाय मृत्युमुखं गताः ।। 2।।
बलवदशनिप्रख्यैः सांघातकैः शकलीकृताः ।
बलसमुदयैः पाकस्थानस्य कूर्चकषायितं
निजमुखशतं व्योम्नि प्रोत्थाय मृत्युमुखं गताः ।। 2।।
न खलु रुधिरं तेषां देहाद् विनिस्सृतमध्वनि
बलिभुगुदरे धातुं पीत्वा तदाऽक्षमतोष्णकम् ।
मरिचशतकं चूर्णैर्युक्तं तदा कपिकञ्छुका-
छुरणकटुकं कुक्षींस्तेषां भृशं खलु चिक्लिशे ।। 3।।
बलिभुगुदरे धातुं पीत्वा तदाऽक्षमतोष्णकम् ।
मरिचशतकं चूर्णैर्युक्तं तदा कपिकञ्छुका-
छुरणकटुकं कुक्षींस्तेषां भृशं खलु चिक्लिशे ।। 3।।
न खलु विपदा गीर्णामेतां द्विपादकलेवरां
यममुखमपि स्प्रष्टुं तस्मिन् क्षणे क्षमतामधात् ।
अथ महिषिकापुत्रस्यैषा खुरैः खुरलीकृता
विलुठितुमहो बाध्या तत्कन्दुकत्वमुपागमत् ।। 4।।
यममुखमपि स्प्रष्टुं तस्मिन् क्षणे क्षमतामधात् ।
अथ महिषिकापुत्रस्यैषा खुरैः खुरलीकृता
विलुठितुमहो बाध्या तत्कन्दुकत्वमुपागमत् ।। 4।।
तनुपरिमलस्त्वेषां यैः शिङ्घितो ननु तेऽप्यहो
मृतिमुपगतास्ते ते खे भूचराः सलिलौकसः ।
नभसि रजसा गीर्णे नाभस्वतेन तु रंहसा
न खलु भगवान् सूर्यो नो वा हिमांशुरलक्ष्यत ।। 5।।
मृतिमुपगतास्ते ते खे भूचराः सलिलौकसः ।
नभसि रजसा गीर्णे नाभस्वतेन तु रंहसा
न खलु भगवान् सूर्यो नो वा हिमांशुरलक्ष्यत ।। 5।।
दिशि दिशि भुशुण्डीभ्यो धूमावलिर्यदुदीरिता
विषविषमिता सा वै यानाप वृक्षवनस्पतीन् ।
विगतदलकास्ते वै सर्वेऽपि काण्डकलेवरा
दृशिमुपगतास्तेषु ध्वाङ्क्षोऽपि नो पदमादधे ।। 6।।
विषविषमिता सा वै यानाप वृक्षवनस्पतीन् ।
विगतदलकास्ते वै सर्वेऽपि काण्डकलेवरा
दृशिमुपगतास्तेषु ध्वाङ्क्षोऽपि नो पदमादधे ।। 6।।
इह हि विषमे काले कालच्छदा वनिताः शतं
स्तनकठिनतां मुष्ट्या घातैरवापयत द्रुतिम् ।
वदनकमलादासां या चीत्क्रिया निरगात् तया
गगनपटलीवक्षो ह हा व्यदीर्यत निर्भरम् ।। 7।।
स्तनकठिनतां मुष्ट्या घातैरवापयत द्रुतिम् ।
वदनकमलादासां या चीत्क्रिया निरगात् तया
गगनपटलीवक्षो ह हा व्यदीर्यत निर्भरम् ।। 7।।
बलवदबलं यद्वा संख्यातमल्पतरं गतं
दलयति दृढं, सोपानत्कैः पदैर्मनुजोऽधुना ।
फलमधिगतं किं वा तस्यास्य कर्मण ईक्ष्यते
यदि न निरयं मान्या काप्यस्ति हन्त गतिस्तदा ।। 8।।
दलयति दृढं, सोपानत्कैः पदैर्मनुजोऽधुना ।
फलमधिगतं किं वा तस्यास्य कर्मण ईक्ष्यते
यदि न निरयं मान्या काप्यस्ति हन्त गतिस्तदा ।। 8।।
कुटिलगतयः सर्पाः फूत्कृत्य यं हि दशन्ति चेद्
भवति तदिदं पाषाणः सर्प एव मृतस्तदा ।
अबलबलिनोर्भेदे नान्योऽस्ति कश्चन वै गुणः
कुशलतनुतां त्यक्त्वा, यादृच्छिकी च भवत्यसौ ।। 9।।
भवति तदिदं पाषाणः सर्प एव मृतस्तदा ।
अबलबलिनोर्भेदे नान्योऽस्ति कश्चन वै गुणः
कुशलतनुतां त्यक्त्वा, यादृच्छिकी च भवत्यसौ ।। 9।।
भवतु कुशली देहे स्वार्थप्लुतः किमतः क्षयी
भवति यदि चेद् देहः सर्वस्य निर्विचिकित्सकम् ।
अथ यदि यशो नास्ति प्रेयॉस्ततोऽप्ययशस्कता
त्यजतु शितितां श्वेतिम्नाऽसौ व्रियेत विधानतः ।। 10।।
भवति यदि चेद् देहः सर्वस्य निर्विचिकित्सकम् ।
अथ यदि यशो नास्ति प्रेयॉस्ततोऽप्ययशस्कता
त्यजतु शितितां श्वेतिम्नाऽसौ व्रियेत विधानतः ।। 10।।
उरुजवखरारोही मन्दाश्वगत्वरमुन्नता-
लिकफलकतायुक्तं पश्चात् करोति, करोत्वसौ ।
न खलु भविता काचिद् बालेयकस्य गजोच्चये
नृपतिभवनागारे संभाविते गणनाऽप्यणुः ।। 11।।
लिकफलकतायुक्तं पश्चात् करोति, करोत्वसौ ।
न खलु भविता काचिद् बालेयकस्य गजोच्चये
नृपतिभवनागारे संभाविते गणनाऽप्यणुः ।। 11।।
न हि खलु नृपो भोजो लब्धप्रवेश उरुक्रमे
भवति रुचिमान् ध्वन्यालोकेऽभिनूतनगोष्पदे ।
भजति भगवानष्टौ मूर्त्तीरुमापतिरेष वै
कनककमलैर्जातं शृङ्गारमेव प्रशंसति ।। 12।।
भवति रुचिमान् ध्वन्यालोकेऽभिनूतनगोष्पदे ।
भजति भगवानष्टौ मूर्त्तीरुमापतिरेष वै
कनककमलैर्जातं शृङ्गारमेव प्रशंसति ।। 12।।
उरुगुणमणुं त्यक्त्वा फल्गूत्तमान्न बृहत्तनून्
स्पृहयति बुधा शैलान् ग्रीष्मेण दग्धशिलातलान् ।
हृदयनिहितः श्रीमान् कश्चिद् महान् परमेश्वरः
प्रभवति न वै दातुं भक्ताय निर्ऋतिमाशिषम् ।। 13।।
स्पृहयति बुधा शैलान् ग्रीष्मेण दग्धशिलातलान् ।
हृदयनिहितः श्रीमान् कश्चिद् महान् परमेश्वरः
प्रभवति न वै दातुं भक्ताय निर्ऋतिमाशिषम् ।। 13।।
निगमनिपुणो यं वै लब्धुं क्षमो भृतिवेतनं
तदिह वितरन्त्येते नेतार उत्थितये परम् ।
न तु तमिह ते शास्त्राणामक्षराणि निरीक्षितुं
कथमपि दिशन्त्युच्चैस्तमबालिशत्वतिरस्कृतम् ।। 14।।
तदिह वितरन्त्येते नेतार उत्थितये परम् ।
न तु तमिह ते शास्त्राणामक्षराणि निरीक्षितुं
कथमपि दिशन्त्युच्चैस्तमबालिशत्वतिरस्कृतम् ।। 14।।
प्रभवतितरां यो वै कञ्चित् पदोत्तममर्जितुं
कथमपि लपन् यद्वा तद्वा पथा कुपथेन वा ।
अभिमतगिरि ग्राव्णामुच्चैस्तमे स्थितिमीयिवान्
शिरसि पतति स्वैरं स्वैरेव कश्मलकृत्यकैः ।। 15।।
कथमपि लपन् यद्वा तद्वा पथा कुपथेन वा ।
अभिमतगिरि ग्राव्णामुच्चैस्तमे स्थितिमीयिवान्
शिरसि पतति स्वैरं स्वैरेव कश्मलकृत्यकैः ।। 15।।
अहमिति महान् प्रत्याहारोऽस्ति यः खलु तस्य यः
प्रथममपि नो वै वेत्तीह वर्णमसौ यदि ।
प्रगुणवचसामग्रेसर्त्तुं क्षमेषु न शोभते
निरयकुहरे जागर्त्त्यस्य क्षयाय महोत्सवः ।। 16।।
प्रथममपि नो वै वेत्तीह वर्णमसौ यदि ।
प्रगुणवचसामग्रेसर्त्तुं क्षमेषु न शोभते
निरयकुहरे जागर्त्त्यस्य क्षयाय महोत्सवः ।। 16।।
अनुजतितरां यो वै दुर्योधनस्य सुवः स चेद् (गान्धार्याः)
वहति पदवीमुच्चामुच्चाधिकारगरीयसीम् ।
स खलु कुतुकी द्रष्टुं जायापती कुतुकालये
विधृतगरलक्षारास्त्रौ यौ परस्परनाशने ।। 17।।
वहति पदवीमुच्चामुच्चाधिकारगरीयसीम् ।
स खलु कुतुकी द्रष्टुं जायापती कुतुकालये
विधृतगरलक्षारास्त्रौ यौ परस्परनाशने ।। 17।।
आहिंसिकेन विधिना चलति प्रशास्ता
हिंसामयेन च जनो यदि तत्र किं वा ।
मार्गान्तरं भवति केवलदण्डशक्तिं
हित्वा विजित्वरकरश्रितसंविधानम् ।। 18।।
हिंसामयेन च जनो यदि तत्र किं वा ।
मार्गान्तरं भवति केवलदण्डशक्तिं
हित्वा विजित्वरकरश्रितसंविधानम् ।। 18।।
वारद्वयं विजितमुख्यपदः तृतीयं
वारं भजेत् किमिव तद्धि पदं, जनानाम् ।
ईर्ष्याजुषामयमभूद् गतिरोधमार्गो
यल्लालमस्जिदगतः खलु विद्रवः सः ।। 19।।
वारं भजेत् किमिव तद्धि पदं, जनानाम् ।
ईर्ष्याजुषामयमभूद् गतिरोधमार्गो
यल्लालमस्जिदगतः खलु विद्रवः सः ।। 19।।
धीमान् मुशर्रफ उदारतयाऽवकाशं
दत्त्वा रिपूनुपशमाय चकार बाध्यान् ।
दृष्ट्वा तथापि समुपद्रवमेव सैन्य-
सन्धानमत्र कुरुते क्षममेव तद् वै ।। 20।।
दत्त्वा रिपूनुपशमाय चकार बाध्यान् ।
दृष्ट्वा तथापि समुपद्रवमेव सैन्य-
सन्धानमत्र कुरुते क्षममेव तद् वै ।। 20।।
इस्लामधर्मनिरतावुभयेऽप्यमी ये
पारस्परीं विशसनां प्रतिसंश्रयन्ते ।
किं तत्र तन्त्रति मनागपि धर्मनामा
कश्चित् क्रमः, स खलु कश्चन योजकोऽर्थः ।। 21।।
पारस्परीं विशसनां प्रतिसंश्रयन्ते ।
किं तत्र तन्त्रति मनागपि धर्मनामा
कश्चित् क्रमः, स खलु कश्चन योजकोऽर्थः ।। 21।।
प्राणक्षयं परिजिहीर्षुभिरेव विद्वद्-
धर्माधिकारपुरुषैरुपदिष्ट आसीत् ।
आपन्नधर्म इति कश्चन मांसभक्षा
सा वैदिकैरपि पुरस्क्रियते न भेदः ।। 22।।
धर्माधिकारपुरुषैरुपदिष्ट आसीत् ।
आपन्नधर्म इति कश्चन मांसभक्षा
सा वैदिकैरपि पुरस्क्रियते न भेदः ।। 22।।
यैः कुक्कुटम्पचवरैरजकर्त्तनैश्च
गावोऽपि हिंसितुमुदारमधिक्रियन्ते ।
तैर्गर्भधारणमहोपकृतौ गरिष्ठाः
स्वा मातरोऽपि यदि चेदशिता भवेयुः ।। 23।।
गावोऽपि हिंसितुमुदारमधिक्रियन्ते ।
तैर्गर्भधारणमहोपकृतौ गरिष्ठाः
स्वा मातरोऽपि यदि चेदशिता भवेयुः ।। 23।।
कल्पोदये निखिलमेव पुमर्थजातं
कल्पद्रुमा हि ददति स्म सचेतनेभ्यः ।
ते वै द्रुमा युग इहापि भुवि प्रथन्ते
हित्वा परं वयमिमान् पृथगर्थयामः ।। 24।।
कल्पद्रुमा हि ददति स्म सचेतनेभ्यः ।
ते वै द्रुमा युग इहापि भुवि प्रथन्ते
हित्वा परं वयमिमान् पृथगर्थयामः ।। 24।।
यद्वाऽस्ति मारवमहीगुण एव कस्मात्
श्यामासु सस्यतरुभिस्तु भुवः स्थलीषु ।
रे रे जघन्य! नरजाङ्गल! तं मुधेव
हिंसाकषायितकटुं गुणमादिधित्सुः ।। 25।।
श्यामासु सस्यतरुभिस्तु भुवः स्थलीषु ।
रे रे जघन्य! नरजाङ्गल! तं मुधेव
हिंसाकषायितकटुं गुणमादिधित्सुः ।। 25।।
त्वं कुक्कुरेष्वपि बिभर्षि यदा प्रमातृ-
भावं प्रमाणपदवीं स्वयमुत्सिसृक्षुः ।
त्वं वर्त्तसे ननु कुतः किमु बुद्धियोगो
व्याजाय मानुषवपुष्युपपाद्यते धिक् ।। 26।।
भावं प्रमाणपदवीं स्वयमुत्सिसृक्षुः ।
त्वं वर्त्तसे ननु कुतः किमु बुद्धियोगो
व्याजाय मानुषवपुष्युपपाद्यते धिक् ।। 26।।
एवंविधेन विधिना निजमेव शीर्षं
त्वं किं चिकर्त्तिषसि मानव! यत्तु लोष्टम् ।
पाषाणखण्डमुपघातयितुं क्षिपामः
किं तत् प्रतीपमुपगत्य न हन्ति हिंस्रम् ।। 27।।
त्वं किं चिकर्त्तिषसि मानव! यत्तु लोष्टम् ।
पाषाणखण्डमुपघातयितुं क्षिपामः
किं तत् प्रतीपमुपगत्य न हन्ति हिंस्रम् ।। 27।।
ये वै भवन्ति पुरतः परिधाविताङ्घ्रि-
युग्मा जवेन ननु तेपि विरन्तुमिच्छाम् ।
किं बिभ्रतीह नहि कुत्रचनापि गत्वा
वैवस्वते महसि चान्द्रमसेऽथवाऽन्ते ।। 28।।
युग्मा जवेन ननु तेपि विरन्तुमिच्छाम् ।
किं बिभ्रतीह नहि कुत्रचनापि गत्वा
वैवस्वते महसि चान्द्रमसेऽथवाऽन्ते ।। 28।।
इह नहि परः कश्चिज्जन्तुः परिग्रहमिच्छति
भरति जठरव्योमन्येषोऽन्नवारिफलादिकम् ।
उषसि किमु वा भावीत्येतां बिभर्त्ति स नो व्यथां
स्वपिति च पदे भूमौ सम्यक् प्रसार्य शुचं विना ।। 29।।
भरति जठरव्योमन्येषोऽन्नवारिफलादिकम् ।
उषसि किमु वा भावीत्येतां बिभर्त्ति स नो व्यथां
स्वपिति च पदे भूमौ सम्यक् प्रसार्य शुचं विना ।। 29।।
भवति यदि चेत् सभ्यः श्रीमान्, सभासदि किं तदा
विशसनमतिं धत्ते विश्वासघात-शरीरिणीम् ।
भुवनसदसि प्राभातिक्यात् क्षणादहरत्यया-
वधि न हि चलत्येषा काचित् सजग्धि-मतिः किमु ।। 30।।
विशसनमतिं धत्ते विश्वासघात-शरीरिणीम् ।
भुवनसदसि प्राभातिक्यात् क्षणादहरत्यया-
वधि न हि चलत्येषा काचित् सजग्धि-मतिः किमु ।। 30।।
अयमिह रिपोः पुत्रो रथ्यां समाश्रयते जनै-
र्विरहिततनुं तस्मादस्मिन् क्षिपन्नपि गोलिकाम् ।
न खलु भवता सिद्धो हन्ताऽहमित्यसकौ हहा
भजति वृजिनं स्वस्मिन् द्रष्टर्यपि प्रमुखे स्थिते ।। 31।।
र्विरहिततनुं तस्मादस्मिन् क्षिपन्नपि गोलिकाम् ।
न खलु भवता सिद्धो हन्ताऽहमित्यसकौ हहा
भजति वृजिनं स्वस्मिन् द्रष्टर्यपि प्रमुखे स्थिते ।। 31।।
भवति न परः कश्चित्, साक्षी शुभाशुभकर्मणो-
र्भवति हृदये स्थेमानं प्राप्त एष निजः प्रभुः ।
यदि स न भजेन्मौखर्यं नो भजेत् परिणामभुङ्
न हि खलु परो भावी त्यक्त्वा भवन्तमिहैकलम् ।। 32।।
र्भवति हृदये स्थेमानं प्राप्त एष निजः प्रभुः ।
यदि स न भजेन्मौखर्यं नो भजेत् परिणामभुङ्
न हि खलु परो भावी त्यक्त्वा भवन्तमिहैकलम् ।। 32।।
भवति कविता सेयं सन्दर्भिणी भवते स्रजां
सुकृतिनिकृतिव्रातैः पुष्पैर्विनिर्मितवर्ष्मणाम् ।
धयतु यदि वा नो वा नास्त्येव काचन तत्क्षति-
र्यदि तु धयति श्रीमानेतां भविष्यति चेत् कृती ।। 33।।
सुकृतिनिकृतिव्रातैः पुष्पैर्विनिर्मितवर्ष्मणाम् ।
धयतु यदि वा नो वा नास्त्येव काचन तत्क्षति-
र्यदि तु धयति श्रीमानेतां भविष्यति चेत् कृती ।। 33।।
भवति कविता ताटस्थ्येनैकलेन समञ्चिता
स्वयमियमुपादत्ते पादक्रमं न कदाचन ।
न खलु सुरभिः काचित् क्षीरस्यते निजसूनवे
हरति तु कदाप्यूधः स्वं दुग्धराशिपरिप्लुतम् ।। 34।।
स्वयमियमुपादत्ते पादक्रमं न कदाचन ।
न खलु सुरभिः काचित् क्षीरस्यते निजसूनवे
हरति तु कदाप्यूधः स्वं दुग्धराशिपरिप्लुतम् ।। 34।।
भिषगपि भजन् वैशारद्यं चिकित्सितिकर्मणि
तदवधि रुजः शान्तिं कर्त्तुं कृतीयति न क्षितौ ।
यदवधि करं तस्मै द्रष्टुं ददाति न सामयो
न च भजति वै श्रद्धालुत्वं तदीयवचःक्रमे ।। 35।।
तदवधि रुजः शान्तिं कर्त्तुं कृतीयति न क्षितौ ।
यदवधि करं तस्मै द्रष्टुं ददाति न सामयो
न च भजति वै श्रद्धालुत्वं तदीयवचःक्रमे ।। 35।।
अयमिह परो योगः पुंसः पुमर्थपयःप्लुतौ
यदनुगुणता चित्ते स्वैरत्वदोषविवर्जिते ।
भवति हि तदेवैकं शुक्तिर्यदन्तरमागतं
विमलधवलं स्वातिक्षीरं भवेन्ननु मौक्तिकम् ।। 36।।
यदनुगुणता चित्ते स्वैरत्वदोषविवर्जिते ।
भवति हि तदेवैकं शुक्तिर्यदन्तरमागतं
विमलधवलं स्वातिक्षीरं भवेन्ननु मौक्तिकम् ।। 36।।
नहि परतमाद् भीषा प्रीतिर्न वै निज आत्मनि
प्रबलतमसे तस्मै पाषाणति प्रभुरप्यहो ।
अपि चिति चितो भिन्ने यद्वाऽपि नास्ति भिदस्य तं
जडमतितरां शून्यं चित्तेन वक्तुमिमे क्षमाः ।। 37।।
प्रबलतमसे तस्मै पाषाणति प्रभुरप्यहो ।
अपि चिति चितो भिन्ने यद्वाऽपि नास्ति भिदस्य तं
जडमतितरां शून्यं चित्तेन वक्तुमिमे क्षमाः ।। 37।।
यदपि नयनं ज्योतिर्हीनं कथञ्चन जायते
न हि पुनरिदं ज्योतिर्लब्धुं नवं कृति दृश्यते ।
इयमतितरां श्लक्ष्णे कापेयता पतनोन्मुखी
भवति सुदृढे स्थाणौ चातुर्यभाज उदित्वरात् ।। 38।।
न हि पुनरिदं ज्योतिर्लब्धुं नवं कृति दृश्यते ।
इयमतितरां श्लक्ष्णे कापेयता पतनोन्मुखी
भवति सुदृढे स्थाणौ चातुर्यभाज उदित्वरात् ।। 38।।
यदपि दशनद्वन्द्वं स्तम्बरेमस्य विभाव्यते
मुखविवरकद्वारे लम्बायमानमवस्थितम् ।
नहि खलु तयोरन्नं संपिष्यते, परिपिष्यते
खलु तदिह यैस्ते वै भिन्ना, न यान्ति दृशिं तु ते ।। 39।।
मुखविवरकद्वारे लम्बायमानमवस्थितम् ।
नहि खलु तयोरन्नं संपिष्यते, परिपिष्यते
खलु तदिह यैस्ते वै भिन्ना, न यान्ति दृशिं तु ते ।। 39।।
अहह कृपणः कालः कश्चित्त्विह प्रतिसर्पति
विरुजति बहिर्दन्ता आभ्यन्तरॉस्तु हठाद् यदा ।
अइउणमपि ज्ञातुं शक्तो न स प्रतिपद्यते
प्रथममपि धिग् द्रव्याधिक्याय पाणिनिपीठकम् ।। 40।।
विरुजति बहिर्दन्ता आभ्यन्तरॉस्तु हठाद् यदा ।
अइउणमपि ज्ञातुं शक्तो न स प्रतिपद्यते
प्रथममपि धिग् द्रव्याधिक्याय पाणिनिपीठकम् ।। 40।।
अथ खलु परीक्षासु प्रश्नोत्तरप्रविलेखने
भवति न यदा शक्तः शिष्यः स तैरनुमन्यते ।
अपि पथि गतैर्दृब्धं तास्कर्यपाटवशालिभिः
कथमपि कृती लब्ध्वा लेखोत्तरं प्रसमर्पितुम् ।। 41।।
भवति न यदा शक्तः शिष्यः स तैरनुमन्यते ।
अपि पथि गतैर्दृब्धं तास्कर्यपाटवशालिभिः
कथमपि कृती लब्ध्वा लेखोत्तरं प्रसमर्पितुम् ।। 41।।
अथ यदि महान् मन्त्री स्वान् बान्धवाननुशंसया
निभृतनिभृतं योग्यानङ्कान् प्रदापयते ततः ।
निपुणमतिभिर्दत्ता या कप्पिकाः प्रविलिख्यते
शिरसि खलु तत्तासां नामाक्षरं ह्यपरस्य धिक् ।। 42।।
निभृतनिभृतं योग्यानङ्कान् प्रदापयते ततः ।
निपुणमतिभिर्दत्ता या कप्पिकाः प्रविलिख्यते
शिरसि खलु तत्तासां नामाक्षरं ह्यपरस्य धिक् ।। 42।।
विविधविविधाः मर्त्त्ये लोके चरन्ति हि साधवो
विविधविविधाः सन्नद्धाङ्गाश्चरन्ति तथा वृषाः ।
परमभिनवाचार्यस्याध्वा प्रशस्ततमो यतो
भवति लगुडोऽभग्नो भोगी च हन्त विशस्यते ।। 43।।
विविधविविधाः सन्नद्धाङ्गाश्चरन्ति तथा वृषाः ।
परमभिनवाचार्यस्याध्वा प्रशस्ततमो यतो
भवति लगुडोऽभग्नो भोगी च हन्त विशस्यते ।। 43।।
करयुगलके यस्मिन् देदीप्यते, खलु मोदका
वलिरथ न वै मूल्यं स्वल्पं च यत्र विभाव्यते ।
स हि मृदुतमः पन्थाः कश्मीरधाममहात्मनां
‘शिवशिव शिवे’-त्याशंसामात्रपूर्णपरायणः ।। 44।।
वलिरथ न वै मूल्यं स्वल्पं च यत्र विभाव्यते ।
स हि मृदुतमः पन्थाः कश्मीरधाममहात्मनां
‘शिवशिव शिवे’-त्याशंसामात्रपूर्णपरायणः ।। 44।।
करणभुजगा जिह्नाद्वैतं प्रणर्त्तयितुं रता
यदपि गरलागारे स्वास्ये सुखं विनिवेशयेत् ।
तदखिलमहो मान्यं तत् स्विष्टकृत् तदु तं शिवं
परमचरमं भक्त्या संसेवितुं भजति क्षमाम् ।। 45।।
यदपि गरलागारे स्वास्ये सुखं विनिवेशयेत् ।
तदखिलमहो मान्यं तत् स्विष्टकृत् तदु तं शिवं
परमचरमं भक्त्या संसेवितुं भजति क्षमाम् ।। 45।।
नहि मधुमदो नो वा कल्माषपाकभुजिक्रिया
शिवमयहृदे तस्मै स्वप्नेऽपि दूषयितुं क्षमे ।
तुरगवृषभौ यां वा व्यावल्गनां श्रयतस्ततोऽ
पृथगिह मनुष्याख्यस्यैतस्य सा परिकथ्यते ।। 46।।
शिवमयहृदे तस्मै स्वप्नेऽपि दूषयितुं क्षमे ।
तुरगवृषभौ यां वा व्यावल्गनां श्रयतस्ततोऽ
पृथगिह मनुष्याख्यस्यैतस्य सा परिकथ्यते ।। 46।।
युवजनशती स्वैरं स्त्रीपुंसविस्मृतमानसा
विहरणपरा या याश्चेष्टा मुदे परितन्वते ।
ननु भवति वै सैषा सेवैव तस्य परात्मनो
मनुजहृदये यस्मात् तस्य स्थितिर्निगमोदिता ।। 47।।
विहरणपरा या याश्चेष्टा मुदे परितन्वते ।
ननु भवति वै सैषा सेवैव तस्य परात्मनो
मनुजहृदये यस्मात् तस्य स्थितिर्निगमोदिता ।। 47।।
कनकलतिकागौरी गौरे सुवर्णकलेवरे
विधृतिमितया कादम्बर्या पुटे परिपास्यताम् ।
भवति यतिनां साक्षात्कारं गता परमेश्वरी
न हि खलु तया देवः क्वापि क्षणे प्रविरिच्यते ।। 48।।
विधृतिमितया कादम्बर्या पुटे परिपास्यताम् ।
भवति यतिनां साक्षात्कारं गता परमेश्वरी
न हि खलु तया देवः क्वापि क्षणे प्रविरिच्यते ।। 48।।
भवति भवती साक्षाच्छक्तिः शिवश्च तवास्म्यहं
तव रतिकुटीमध्ये ब्रह्मात्मनस्तु दधानि चेत् ।
भवति तनयस्तस्माद् यः कश्चन प्रतिपाद्यते
सहि परशिवो योगी श्रीयोगिनीभवसंज्ञकः ।। 49।।
तव रतिकुटीमध्ये ब्रह्मात्मनस्तु दधानि चेत् ।
भवति तनयस्तस्माद् यः कश्चन प्रतिपाद्यते
सहि परशिवो योगी श्रीयोगिनीभवसंज्ञकः ।। 49।।
ब्रह्म वीर्यं कर्म।
चुखलक इति प्रख्यो गुप्तो नृसिंह उपेयिवान्
यमपि तनयं गौरीभावेन भावितचेतसि ।
विमलविमलाभिख्ये दारोत्तमे स शिवात्मना
परिणतिमितः साक्षाज्जातोऽभिनूतन ईश्वरः ।। 50।।
यमपि तनयं गौरीभावेन भावितचेतसि ।
विमलविमलाभिख्ये दारोत्तमे स शिवात्मना
परिणतिमितः साक्षाज्जातोऽभिनूतन ईश्वरः ।। 50।।
अभिनूतनः अभिनवः।
अभिनव इति ख्यातः सर्वज्ञ एष सदाशिवो
गुरुकुलगतस्त्रिंशद् वर्षाणि तन्त्रमधीतवान् ।
अविदितगृहश्चारीं तत्तेषु तीर्थकुलेष्वसौ
कथमपि चरञ् ज्ञातो नीतश्च मातुलभार्यया ।। 51।।
गुरुकुलगतस्त्रिंशद् वर्षाणि तन्त्रमधीतवान् ।
अविदितगृहश्चारीं तत्तेषु तीर्थकुलेष्वसौ
कथमपि चरञ् ज्ञातो नीतश्च मातुलभार्यया ।। 51।।
प्रवरपुरगे तस्तातीरे वसन्नयमात्मवान्
निखिलनिगमं ‘तन्त्रालोकं महान्तमरीरचत् ।
निजयुगकविर्वाचां देव्या स एष महेश्वरो
कृतकतनयो योगी तत्कच्छपीं हि श्रितस्सदा ।। 52।।
निखिलनिगमं ‘तन्त्रालोकं महान्तमरीरचत् ।
निजयुगकविर्वाचां देव्या स एष महेश्वरो
कृतकतनयो योगी तत्कच्छपीं हि श्रितस्सदा ।। 52।।
न खलु किमपि ज्ञेयं तज्ज्ञानराशिमशिश्रियत्
न च खलु यदा ज्ञानं ज्ञेयात् तदीयमरिच्यत ।
अभवदसकौ दक्षः स्वे कर्मकाण्डविधानकेऽ-
प्यनितरमतिप्राकाम्यो योगिराड् बृहदीश्वरः ।। 53।।
न च खलु यदा ज्ञानं ज्ञेयात् तदीयमरिच्यत ।
अभवदसकौ दक्षः स्वे कर्मकाण्डविधानकेऽ-
प्यनितरमतिप्राकाम्यो योगिराड् बृहदीश्वरः ।। 53।।
ध्वनिपथगतः सोऽयं नानन्दवर्धयिताऽभवत्
सहृदयहितं स्वैरं व्याख्यातुमुद्यतचेतनः ।
इह हि शतके जातस्तस्यैव शिष्यगणो न तं
प्रमितिपुरुषं कञ्चित् स्वीकर्त्तुमिद्धमतिर्बभौ (यथा क्षेमेन्द्रः) ।। 54।।
सहृदयहितं स्वैरं व्याख्यातुमुद्यतचेतनः ।
इह हि शतके जातस्तस्यैव शिष्यगणो न तं
प्रमितिपुरुषं कञ्चित् स्वीकर्त्तुमिद्धमतिर्बभौ (यथा क्षेमेन्द्रः) ।। 54।।
अभिनवति यो गुप्तः सन् न प्रकाश इमं ध्वनि-
प्रथितिविशदं दृष्ट्वा विज्ञा भवन्ति न विस्मिताः ।
ध्वनिधृतसृतिः पान्थः किन्तु प्रकाशपराङ्मुखो-
ऽप्युपनिषदिति स्वीचर्कुर्यात् तथागतभाषितम् ।। 55।।
प्रथितिविशदं दृष्ट्वा विज्ञा भवन्ति न विस्मिताः ।
ध्वनिधृतसृतिः पान्थः किन्तु प्रकाशपराङ्मुखो-
ऽप्युपनिषदिति स्वीचर्कुर्यात् तथागतभाषितम् ।। 55।।
योषाः समाः खलु शिवाः शिव एषकोऽह-
मेको गुरुर्मदितरे तु ममास्य शिष्याः ।
एषा हि तान्त्रिकमतिः श्रुतिवाममार्ग-
माविर्बुभूषति निषिद्धनिषेधरम्यम् ।। 56।।
मेको गुरुर्मदितरे तु ममास्य शिष्याः ।
एषा हि तान्त्रिकमतिः श्रुतिवाममार्ग-
माविर्बुभूषति निषिद्धनिषेधरम्यम् ।। 56।।
यदि भवति नो गर्भाधानं मतं तदपक्षयो-
ऽप्यभिभवति नो पाप्मासारेण तस्य विधायकम् ।
अथ भवति वा कावा वात्या निरोधमयी यतेर्
विचलति यती कामक्षोभोपशान्तिविधानतः ।। 57।।
ऽप्यभिभवति नो पाप्मासारेण तस्य विधायकम् ।
अथ भवति वा कावा वात्या निरोधमयी यतेर्
विचलति यती कामक्षोभोपशान्तिविधानतः ।। 57।।
यदि कटुतरं स्पृष्ट्वा पिष्टं मरीचकचूर्णकं
शमयितुमलं पीडां तज्जां भवन्ति न हि क्षमाः ।
किमु नहि मधु क्षीरं यद्वाऽऽज्यमेव तदौषधं
वरणविषयं कर्त्तुं नैवोत्सहन्त इमे जनाः ।। 58।।
शमयितुमलं पीडां तज्जां भवन्ति न हि क्षमाः ।
किमु नहि मधु क्षीरं यद्वाऽऽज्यमेव तदौषधं
वरणविषयं कर्त्तुं नैवोत्सहन्त इमे जनाः ।। 58।।
यदि भगवतो भक्तौ बाधायते स्मरचेष्टित-
मपि किमु शमस्तस्य स्वप्नेप्युपेक्षितुमिष्यते ।
रुधिरकणिका-दानं प्राणान् परस्य तु रक्षितुं
न हि चरति किं विद्वान् भूत्वा किमत्र तु पातकम् ।। 59।।
मपि किमु शमस्तस्य स्वप्नेप्युपेक्षितुमिष्यते ।
रुधिरकणिका-दानं प्राणान् परस्य तु रक्षितुं
न हि चरति किं विद्वान् भूत्वा किमत्र तु पातकम् ।। 59।।
विविधविविधानेतान् मन्त्रान् दिशन्नभिनूतनः
शिवयुगधृतां तान्त्रीं दीक्षां ददाति यदि क्वचित् ।
नहि परिणतौ देहस्यैतस्य तस्य महापथं
व्यभिचरणतस्त्रातुं कश्चित् क्षमो भवति क्रमः ।। 60।।
शिवयुगधृतां तान्त्रीं दीक्षां ददाति यदि क्वचित् ।
नहि परिणतौ देहस्यैतस्य तस्य महापथं
व्यभिचरणतस्त्रातुं कश्चित् क्षमो भवति क्रमः ।। 60।।
गिरिवरगुहां शिष्यैः सार्धं विवेश स तान्त्रिको-
त्तमयतिवरः कश्चित् गुप्ताभिधो यदि तत्र किम् ।
उदयमयते तात्पर्याख्यं महावचनं मुधा
न हि समयजां रज्जुं धर्म्यां निकृन्ततु कश्चन ।। 61।।
त्तमयतिवरः कश्चित् गुप्ताभिधो यदि तत्र किम् ।
उदयमयते तात्पर्याख्यं महावचनं मुधा
न हि समयजां रज्जुं धर्म्यां निकृन्ततु कश्चन ।। 61।।
इह हि समये रज्जुः सेयं परिष्कृतचेतसा-
मपि न रुचये भङ्गस्त्वस्याः प्रियः परिभाव्यते ।
बहुजनमतं राष्ट्रस्यैतस्य यत्तु विधानकं
भवति च जवात् तस्यैवाऽऽपोषणाय धृतव्रतम् ।। 62।।
मपि न रुचये भङ्गस्त्वस्याः प्रियः परिभाव्यते ।
बहुजनमतं राष्ट्रस्यैतस्य यत्तु विधानकं
भवति च जवात् तस्यैवाऽऽपोषणाय धृतव्रतम् ।। 62।।
कृपणमतयः केचिद् वाणिज्यमात्रपरायणा
यदि न हि निजान् दारान् तुष्टान् विधातुमिह क्षमाः ।
दृढतरतनुं गेहे कञ्चित् तदर्थमुपागतं
युववरमिमे दातुं स्थानं स्वयं ह्यनुमन्वते ।। 63।।
यदि न हि निजान् दारान् तुष्टान् विधातुमिह क्षमाः ।
दृढतरतनुं गेहे कञ्चित् तदर्थमुपागतं
युववरमिमे दातुं स्थानं स्वयं ह्यनुमन्वते ।। 63।।
नृपतिवनिताः काश्चिद् वैधव्ययोगनिरर्थकी-
कृततनुवरा दत्त्वा रत्नान्यपि स्वपुरोधसः ।
रमणविवशान् कृत्वा खर्जां सुदुःप्रशमां पृथग्-
जन इव रतिप्रेष्ठस्यासेवया शमयन्ति धिक् ।। 64।।
कृततनुवरा दत्त्वा रत्नान्यपि स्वपुरोधसः ।
रमणविवशान् कृत्वा खर्जां सुदुःप्रशमां पृथग्-
जन इव रतिप्रेष्ठस्यासेवया शमयन्ति धिक् ।। 64।।
विषमविषमाण्येतान्यस्यैव भूमितलस्य यच्
चरितकलुषाण्यग्रेसर्त्तुं क्षमन्त इह क्षणे ।
क्व खलु वसुधे! याता, पातालकुक्षिरपि त्वयि
न खलु भजते श्रद्धामात्यन्तिकाशुभविग्रहाम् ।। 65।।
चरितकलुषाण्यग्रेसर्त्तुं क्षमन्त इह क्षणे ।
क्व खलु वसुधे! याता, पातालकुक्षिरपि त्वयि
न खलु भजते श्रद्धामात्यन्तिकाशुभविग्रहाम् ।। 65।।
न हि मम कुले कश्चित् जातः पतिव्रतकश्मलः
कलुषकलुषः स्वात्मद्वेषी सुते! कुकलङ्ककः ।
इति खलु जनी पुत्रीः संशिक्षयत्यधुना क्व वा
त्वयि जनकजा काचिद् कुत्रापि हन्त भविष्यति ।। 66।।
कलुषकलुषः स्वात्मद्वेषी सुते! कुकलङ्ककः ।
इति खलु जनी पुत्रीः संशिक्षयत्यधुना क्व वा
त्वयि जनकजा काचिद् कुत्रापि हन्त भविष्यति ।। 66।।
विदधति बलात्कारान् कश्मीरभूमिविलेशयाः
प्रसभमनिशं पाणौ कृत्वा करालभुशुण्डिकाः ।
निभृतनिभृताः क्षिप्त्वा विषफोटकान् जनसंकुले
यमवदनगानेते कुर्वन्ति हन्त शतं जनान् ।। 67।।
प्रसभमनिशं पाणौ कृत्वा करालभुशुण्डिकाः ।
निभृतनिभृताः क्षिप्त्वा विषफोटकान् जनसंकुले
यमवदनगानेते कुर्वन्ति हन्त शतं जनान् ।। 67।।
अशनवसनं मूल्येनाल्पेन यत्र वितीर्यते
न च भवनभूर्यत्रान्यस्मै जनाय वितीर्यते ।
भवति भवने प्राशासिक्ये ध्वजद्वितयं, निजं
भरतभुवनस्यैकं यस्मिन् धिगत्र धरातले ।। 68।।
न च भवनभूर्यत्रान्यस्मै जनाय वितीर्यते ।
भवति भवने प्राशासिक्ये ध्वजद्वितयं, निजं
भरतभुवनस्यैकं यस्मिन् धिगत्र धरातले ।। 68।।
तुहिनगिरिगा गावो वै यास्तु पुष्पवतोः प्रिया-
प्रियगुणतया भान्ति क्षेत्रेऽत्र केसरजन्मदे ।
धयति ननु ता नो वै चक्रद्विजः परमात्मनि
श्रितपरमहःस्तोमः कौलोऽपि कश्चन वाक्पतिः ।। 69।।
प्रियगुणतया भान्ति क्षेत्रेऽत्र केसरजन्मदे ।
धयति ननु ता नो वै चक्रद्विजः परमात्मनि
श्रितपरमहःस्तोमः कौलोऽपि कश्चन वाक्पतिः ।। 69।।
अपि निगमिनां धुर्या मेधाञ्चिता इह पाणिनिं
सहशतफणोद्गारं बुद्ध्वा पिबन्ति पयो यथा ।
स्तिमितगतयस्तारा मुञ्चन्ति यत्र सरस्वती-
चरणजसुधाधारां धन्येषु वाक्पति-गीतिषु ।। 70।।
सहशतफणोद्गारं बुद्ध्वा पिबन्ति पयो यथा ।
स्तिमितगतयस्तारा मुञ्चन्ति यत्र सरस्वती-
चरणजसुधाधारां धन्येषु वाक्पति-गीतिषु ।। 70।।
प्रतिवसति वै यस्मिन् श्रीवैष्णवी जननी पुरः
सरति निखिला यां वै वाद्यान्विता सुरसन्ततिः ।
दधति च पुरः कृत्स्ना वाराङ्गनाः कमले यथा
भ्रमरदयिता यस्या नाट्यायितान्यखिलान्यपि ।। 71।।
सरति निखिला यां वै वाद्यान्विता सुरसन्ततिः ।
दधति च पुरः कृत्स्ना वाराङ्गनाः कमले यथा
भ्रमरदयिता यस्या नाट्यायितान्यखिलान्यपि ।। 71।।
निपतति मुखे यस्या गङ्गैव निर्झरवर्ष्मणा
भवति ननु ते सा काचिद् गुहा नितरां प्रिया ।
जननि! किमु ते जाता कालुष्यमेरुभयादियं
प्रतिपदथवा किञ्चित् तन्त्रायतेऽन्यमलीमसम् ।। 72।।
भवति ननु ते सा काचिद् गुहा नितरां प्रिया ।
जननि! किमु ते जाता कालुष्यमेरुभयादियं
प्रतिपदथवा किञ्चित् तन्त्रायतेऽन्यमलीमसम् ।। 72।।
जननि तव या स्फूर्त्तिर्दिव्या हिमाचलमूर्धनि
स्फुरति कविताभावं सैव ह्यसौ प्रतिपद्यते ।
अथ तव पदोर्यो वा दिव्योऽरुणः किरणव्रजो
व्रजति स हि वै तस्मिन् दिव्यं सुकेसरविग्रहम् ।। 73।।
स्फुरति कविताभावं सैव ह्यसौ प्रतिपद्यते ।
अथ तव पदोर्यो वा दिव्योऽरुणः किरणव्रजो
व्रजति स हि वै तस्मिन् दिव्यं सुकेसरविग्रहम् ।। 73।।
अयि परिमलः कश्चित् ते कायकोषसमुद्भवः
स्पृशतितरां यं वा सोऽयं समोऽपि पवित्रति ।
किमु जननि! स प्रत्यग्रत्वं विहाय कलाविह
व्यपगतगुणो जातः क्लिष्टां हि पर्युषितात्मताम् ।। 74।।
स्पृशतितरां यं वा सोऽयं समोऽपि पवित्रति ।
किमु जननि! स प्रत्यग्रत्वं विहाय कलाविह
व्यपगतगुणो जातः क्लिष्टां हि पर्युषितात्मताम् ।। 74।।
अथ स महिषो व्यस्य प्रत्यूषताम्रमुरःस्थलं
सकलजनता प्राणैराकर्षितैर्भरितं न वै ।
नरपशुरिदंकाले तस्यानुकर्त्तुमुदुत्सुक-
श्चरति भुवनाभोगे राभस्यतोऽसुबुभुक्षुताम् ।। 75।।
सकलजनता प्राणैराकर्षितैर्भरितं न वै ।
नरपशुरिदंकाले तस्यानुकर्त्तुमुदुत्सुक-
श्चरति भुवनाभोगे राभस्यतोऽसुबुभुक्षुताम् ।। 75।।
रचयतु शिवं विश्वम्भर्याः कृपामसृणोत्तमं
त्रिजगति परिष्कर्त्तुं व्याप्तं दृगंशुवितानकम् ।
अपि पुरुष इत्याख्यस्यापि भाग्यविपर्यय-
क्षण इह महामारीसाहस्रिकाभिरभिप्लुते ।। 76।।
त्रिजगति परिष्कर्त्तुं व्याप्तं दृगंशुवितानकम् ।
अपि पुरुष इत्याख्यस्यापि भाग्यविपर्यय-
क्षण इह महामारीसाहस्रिकाभिरभिप्लुते ।। 76।।
मनुज इति समाख्यां यो दधातीह लोके
स न भवतु मनुष्यस्यैव विद्वेषपात्रम् ।
इति मनसि समुत्कः कोऽपि सानातनीयो
लसति भुवनकोषे काव्यनामाऽभियोगः ।। 77।।
स न भवतु मनुष्यस्यैव विद्वेषपात्रम् ।
इति मनसि समुत्कः कोऽपि सानातनीयो
लसति भुवनकोषे काव्यनामाऽभियोगः ।। 77।।
इति स्वातन्त्र्य सम्भवे महाकाव्ये सनातनकवि-रेवाप्रसादकृतौ विपर्ययो नाम द्विचत्वारिंशः सर्गः ।। 42।।
पञ्जाबसिंह इति कश्चन विद्वरेण्यो
वर्षद्वयात् कुलपतिः किल विद्यतेऽत्र ।
यं प्राप्य विश्वपठनालय एष कैश्चि-
न्न्यासैर्गुणोपचयने द्विगुणत्वमाप्तः ।। 1।।
वर्षद्वयात् कुलपतिः किल विद्यतेऽत्र ।
यं प्राप्य विश्वपठनालय एष कैश्चि-
न्न्यासैर्गुणोपचयने द्विगुणत्वमाप्तः ।। 1।।
भक्तोऽस्ति यः कृषिकलेवरशङ्करस्य
प्रीणाति तं विविधयोगशुभैर्विधानैः ।
अन्येषु चापि सवनेषु कृती स सर्वं
सम्पन्नमेव कुरुतेऽर्थमुचा क्रमेण ।। 2।।
प्रीणाति तं विविधयोगशुभैर्विधानैः ।
अन्येषु चापि सवनेषु कृती स सर्वं
सम्पन्नमेव कुरुतेऽर्थमुचा क्रमेण ।। 2।।
राष्ट्रोपराष्ट्रपतियुग्ममथार्जुनं च
सिहं न्यमन्त्रयत तेऽपि समागताश्च ।
नो राजनीतिदलगां स्पृशति स्वभक्तिं
योगीव कर्मकरणैकपरायणो यः ।। 3।।
सिहं न्यमन्त्रयत तेऽपि समागताश्च ।
नो राजनीतिदलगां स्पृशति स्वभक्तिं
योगीव कर्मकरणैकपरायणो यः ।। 3।।
यस्याधिकारमसकौ परिपश्यतीह
न्यायोचितं तमिह तस्य कृतेऽनुशास्ति ।
रिक्तं च किञ्चिदपि पश्यति वै पदं तत्
तत्कालमेव परिपूरयते नियुक्त्या ।। 4।।
न्यायोचितं तमिह तस्य कृतेऽनुशास्ति ।
रिक्तं च किञ्चिदपि पश्यति वै पदं तत्
तत्कालमेव परिपूरयते नियुक्त्या ।। 4।।
प्रारम्भिकेऽध्ययनसत्रदिनेऽभिपूज्य
श्रीविश्वनाथमिह धाम्नि विराजमानम् ।
आजोहुवीति जननीं वचसोऽधिदेवीं
सत्रस्य कौशलमयाय समापनाय ।। 5।।
श्रीविश्वनाथमिह धाम्नि विराजमानम् ।
आजोहुवीति जननीं वचसोऽधिदेवीं
सत्रस्य कौशलमयाय समापनाय ।। 5।।
राष्ट्रेऽत्र नास्य गणनाऽस्ति कनिष्ठिकाया
भिन्नेऽङ्गुलेऽद्य न हि शिक्षणदीक्षणाभ्याम् ।
क्षेत्राय सौभगमयाय विशालकाय-
श्रेष्ठाय मन्दिरतया च विराजिताय ।। 6।।
भिन्नेऽङ्गुलेऽद्य न हि शिक्षणदीक्षणाभ्याम् ।
क्षेत्राय सौभगमयाय विशालकाय-
श्रेष्ठाय मन्दिरतया च विराजिताय ।। 6।।
रथ्याः समा अपि सुचिक्कणकूर्मपृष्ठ-
तुल्या लसन्ति निखिला अपि पादपाढ्याः ।
वर्षासु राजतितरामिह नूत्नपत्र-
श्यामायनातरुता नयनाभिरामा ।। 7।।
तुल्या लसन्ति निखिला अपि पादपाढ्याः ।
वर्षासु राजतितरामिह नूत्नपत्र-
श्यामायनातरुता नयनाभिरामा ।। 7।।
सम्मेलनानि विविधानि भवन्त्यजस्र-
मत्राव्रजन्ति बहवः प्रतिभागिनोऽपि ।
न ज्ञायते च कठिना ननु संव्यवस्था
तेषां सुखेन परिचालनसंपदोश्च ।। 8।।
मत्राव्रजन्ति बहवः प्रतिभागिनोऽपि ।
न ज्ञायते च कठिना ननु संव्यवस्था
तेषां सुखेन परिचालनसंपदोश्च ।। 8।।
नो भाजपादलगतेष्विह पक्षपातो
नो तद्विरुद्धदलगेषु च संव्युपेक्षा ।
ताटस्थ्यसौम्यसुभगः खलु कर्म्मयोगः
पञ्जाबसिंहविबुधस्य चकास्ति काले ।। 9।।
नो तद्विरुद्धदलगेषु च संव्युपेक्षा ।
ताटस्थ्यसौम्यसुभगः खलु कर्म्मयोगः
पञ्जाबसिंहविबुधस्य चकास्ति काले ।। 9।।
श्रीमान् सनातन इति प्रथिताभिमानो
धर्मोऽस्ति यः खलु चराचरसौस्थ्यसेतुः ।
आचार्यपीठबहुमानभृतोऽपि यस्मि-
न्नाचार्यवर्यचरणा खलु संवदन्ते ।। 10।।
धर्मोऽस्ति यः खलु चराचरसौस्थ्यसेतुः ।
आचार्यपीठबहुमानभृतोऽपि यस्मि-
न्नाचार्यवर्यचरणा खलु संवदन्ते ।। 10।।
यस्मिन् स्वरूपविरुदाः खलु शङ्करार्या-
चार्यद्वयीसमभिपूजितपादपद्माः।
सम्भाविता अथ पुरी-द्वयशङ्करार्या
चार्या अपि प्रतिपदं समभावयन्त ।। 11।।
चार्यद्वयीसमभिपूजितपादपद्माः।
सम्भाविता अथ पुरी-द्वयशङ्करार्या
चार्या अपि प्रतिपदं समभावयन्त ।। 11।।
अत्रैव संस्कृतकृते प्रथमाननामा
प्रोद्योतते विपुलपुस्तकसंग्रहाढ्याः ।
विद्यालयः पृथगसावपि साम्यसुस्थां
प्राप्नोति वृद्धिमथ दर्शनसौभगं च ।। 12।।
प्रोद्योतते विपुलपुस्तकसंग्रहाढ्याः ।
विद्यालयः पृथगसावपि साम्यसुस्थां
प्राप्नोति वृद्धिमथ दर्शनसौभगं च ।। 12।।
संस्थापकस्य मदनोत्तरमोहनस्य
श्रीमालवीयचरणस्य तु लालितोऽभूत् ।
स्वप्नः स्ववाङ्मयकृते स हि मूर्त्तिमद्य
पञ्जाबसिंहसमये बत लम्भितो हि ।। 13।।
श्रीमालवीयचरणस्य तु लालितोऽभूत् ।
स्वप्नः स्ववाङ्मयकृते स हि मूर्त्तिमद्य
पञ्जाबसिंहसमये बत लम्भितो हि ।। 13।।
यस्मिन् प्रशिक्षणपरीक्षणगः पुराणः
शान्तिं प्रयाति ननु संव्यभिचारदोषः ।
माता प्रसीदतितरां तदिदं निरीक्ष्य
श्रीशारदाऽपि ननु निश्चयतः समन्तात् ।। 14।।
शान्तिं प्रयाति ननु संव्यभिचारदोषः ।
माता प्रसीदतितरां तदिदं निरीक्ष्य
श्रीशारदाऽपि ननु निश्चयतः समन्तात् ।। 14।।
अन्योऽपि कश्चिदिह राजति संस्कृतस्य
तीरे परत्र दिशि यो वरणा-स्रवन्त्याः ।
ग्रन्थप्रकाशनपरीक्षणपत्रदान-
कार्याणि यत्र तु चलन्ति महोत्सवाश्च ।। 15।।
तीरे परत्र दिशि यो वरणा-स्रवन्त्याः ।
ग्रन्थप्रकाशनपरीक्षणपत्रदान-
कार्याणि यत्र तु चलन्ति महोत्सवाश्च ।। 15।।
विश्वप्रतिष्ठितमिहायतनं नवीनं
वाग्देवता खलु समाश्रितवत्युदारम् ।
काञ्चीजगद्गुरुजयन्तसरस्वतीन्द्रा
यस्योद्भवे खलु बभूवुरिवार्थ-मेघाः ।। 16।।
वाग्देवता खलु समाश्रितवत्युदारम् ।
काञ्चीजगद्गुरुजयन्तसरस्वतीन्द्रा
यस्योद्भवे खलु बभूवुरिवार्थ-मेघाः ।। 16।।
श्रीवेङ्कटाचल इति प्रथिताभिधानस्
तस्मिन्नराजत कुलस्य पतित्वमृच्छन् ।
यस्यानने सुरवचः ससुभाषितं वै
राराज्यते स्म लसदुच्चतरप्रवाहा ।। 17।।
तस्मिन्नराजत कुलस्य पतित्वमृच्छन् ।
यस्यानने सुरवचः ससुभाषितं वै
राराज्यते स्म लसदुच्चतरप्रवाहा ।। 17।।
काञ्चीश्वरैर्बत जयन्तसरस्वतीन्द्रैः
श्रीशारदाऽऽयतनमप्यधिशैलशृङ्गम् ।
कश्मीरभूमिषु पुनर्विहितप्रतिष्ठं
विभ्राजते यवनकश्मलितास्वपीह ।। 18।।
श्रीशारदाऽऽयतनमप्यधिशैलशृङ्गम् ।
कश्मीरभूमिषु पुनर्विहितप्रतिष्ठं
विभ्राजते यवनकश्मलितास्वपीह ।। 18।।
एतैर्महोदयवरैरधितीर्थराजं
वेणीत्रयी सुललितप्लवसन्निधाने ।
विश्वेश्वरस्य बृहदीश्वरबाणरत्न-
मस्थापि यत् स्वयमुपासददुच्चभूमिम् ।। 19।।
वेणीत्रयी सुललितप्लवसन्निधाने ।
विश्वेश्वरस्य बृहदीश्वरबाणरत्न-
मस्थापि यत् स्वयमुपासददुच्चभूमिम् ।। 19।।
तत्र यत् सुमहत्पाषाणशरीरं तस्य द्वितीयभूमिकाराहेणाय परमाचार्येपदिष्टो मन्त्र एको जपितः, ततः परं तद्, द्वितीयां भूमिमारोपयितुं प्राभवञ्छिल्पिन इति सम्यग् जानीमः।
ग्रीष्मेऽपि तत्र समुपस्थितदर्शनेच्छु
वृन्दे सहस्रशतिकामतिवर्त्तमाने ।
व्यातीर्यताशनमुदुत्तममुच्चकैश्च
जापो व्यधीयत जयेति च शङ्करेति ।। 20।।
वृन्दे सहस्रशतिकामतिवर्त्तमाने ।
व्यातीर्यताशनमुदुत्तममुच्चकैश्च
जापो व्यधीयत जयेति च शङ्करेति ।। 20।।
काश्यामपि प्रथममन्दिरसंप्रतिष्ठं
विश्वेश्वरं हि परिपूजयति स्वयं हि ।
मन्त्रैर्निराकृतनिषिद्धकृताभिमर्श-
दोषं च नूतनमनुप्रतिसंस्थितञ्च ।। 21।।
विश्वेश्वरं हि परिपूजयति स्वयं हि ।
मन्त्रैर्निराकृतनिषिद्धकृताभिमर्श-
दोषं च नूतनमनुप्रतिसंस्थितञ्च ।। 21।।
देवः स एष विजयेन्द्रसरस्वतीति
शिष्योत्तमेन निखिलागमविद्वरेण ।
युक्तो विभाति च सुरेश्वर पद्मपादा-
चार्येण शङ्कर इवादितमो महात्मा ।। 22।।
शिष्योत्तमेन निखिलागमविद्वरेण ।
युक्तो विभाति च सुरेश्वर पद्मपादा-
चार्येण शङ्कर इवादितमो महात्मा ।। 22।।
शिष्योऽप्यसौ पठति शङ्करभाष्यमास्याच्
श्रीचन्द्रशेखरयतीन्द्रवरस्य साक्षात् ।
शृङ्गारनैषधगतेऽपि च शब्दबन्धे
प्रश्नैश्चकार विबुधानपि विस्मितान् वै ।। 23।।
श्रीचन्द्रशेखरयतीन्द्रवरस्य साक्षात् ।
शृङ्गारनैषधगतेऽपि च शब्दबन्धे
प्रश्नैश्चकार विबुधानपि विस्मितान् वै ।। 23।।
पद्मां निरीक्ष्य नटनर्त्तन-शास्त्रशिक्षा-
सम्यक्प्रयोगनिपुणाञ्च यवीयसीञ्च ।
अष्टादशेऽपि वयसि स्थितिमानसौ स्वं
द्वारं पिधाय कुरुते स्म वचोविधानम् ।। 24।।
सम्यक्प्रयोगनिपुणाञ्च यवीयसीञ्च ।
अष्टादशेऽपि वयसि स्थितिमानसौ स्वं
द्वारं पिधाय कुरुते स्म वचोविधानम् ।। 24।।
पद्मा बभूव वत भक्तिमती नितान्त-
माद्येषु चन्द्रपदशेखरशेखरेषु ।
तेऽप्युच्चकैरिह शुभां ददति स्म तस्यै
संसिद्धयेऽतिशयिनेऽभ्युदयाय वाक्यम् ।। 25।।
माद्येषु चन्द्रपदशेखरशेखरेषु ।
तेऽप्युच्चकैरिह शुभां ददति स्म तस्यै
संसिद्धयेऽतिशयिनेऽभ्युदयाय वाक्यम् ।। 25।।
श्रीचन्द्रशेखरगुरोः शतहस्तदीर्घां
संस्थाप्य मूर्त्तिमपि चैकशिलां विशालाम् ।
काञ्चीपुरे खलु विशालतमे प्रदेशे
विश्वादिमं निरमितोत्तमबोधपीठम् ।। 26।।
संस्थाप्य मूर्त्तिमपि चैकशिलां विशालाम् ।
काञ्चीपुरे खलु विशालतमे प्रदेशे
विश्वादिमं निरमितोत्तमबोधपीठम् ।। 26।।
विश्वविद्यालय
हिन्दूपदेन विदिताय विकेन्द्रिताय
विश्वासघातनिपुणाय नृसञ्चयाय ।
यः क्लेशमुत्सहत आदरतस्तदस्मै
‘श्रीश्रीजयेन्द्र’-विरुदाय नमः शिवाय ।। 27।।
विश्वासघातनिपुणाय नृसञ्चयाय ।
यः क्लेशमुत्सहत आदरतस्तदस्मै
‘श्रीश्रीजयेन्द्र’-विरुदाय नमः शिवाय ।। 27।।
हत्याभियोगिनमिमं प्रतिपाद्य दत्त्वा
कारां च या खलु नितान्तमपीडयत् सा ।
मुख्यत्वयुक्तनिजमन्त्रिपदान्निपत्य
जाता जया परिभवस्य पदं जनानाम् ।। 28।।
कारां च या खलु नितान्तमपीडयत् सा ।
मुख्यत्वयुक्तनिजमन्त्रिपदान्निपत्य
जाता जया परिभवस्य पदं जनानाम् ।। 28।।
ईसायिधर्मपरिवर्त्तनचक्रजातं
जातं जयेन्द्रयतिनां महसा निरुद्धम् ।
काञ्चीश्वरीविपुलकोशगताधिकाराद्
द्रव्येऽपि नैव जयिनी तु जया बभूव ।। 29।।
जातं जयेन्द्रयतिनां महसा निरुद्धम् ।
काञ्चीश्वरीविपुलकोशगताधिकाराद्
द्रव्येऽपि नैव जयिनी तु जया बभूव ।। 29।।
एतं पराभवयुगं परिभाव्य शक्ता
दण्डे जया प्रतिचकार जयेन्द्रसूरेः ।
कारां गतोऽपि स यती प्रहसन्नवोच-
न्मायाकृतं विलसितं ननु तन्निरोधम् ।। 30।।
दण्डे जया प्रतिचकार जयेन्द्रसूरेः ।
कारां गतोऽपि स यती प्रहसन्नवोच-
न्मायाकृतं विलसितं ननु तन्निरोधम् ।। 30।।
तस्मै जमानतपदा सुविधाऽपि नासीद्
यस्मिन् क्षणे तु सुलभा, विजयेन्द्रपादे ।
शास्त्रे बृहस्पतिसमेऽपि पपात वज्रx
येनासकावपि जयेन्द्रसमं निरुद्धः ।। 31।।
यस्मिन् क्षणे तु सुलभा, विजयेन्द्रपादे ।
शास्त्रे बृहस्पतिसमेऽपि पपात वज्रx
येनासकावपि जयेन्द्रसमं निरुद्धः ।। 31।।
अस्याऽनुजोऽपि रघुरित्यभिधोऽधिकारं
न्यक्षेपि रक्षिभिरुदाहृतदोषयोगः ।
मीनाक्षिका भगवती स्वमठे तदानी-
मेकाकिनी हि समलक्ष्यत जातरोषा ।। 32।।
न्यक्षेपि रक्षिभिरुदाहृतदोषयोगः ।
मीनाक्षिका भगवती स्वमठे तदानी-
मेकाकिनी हि समलक्ष्यत जातरोषा ।। 32।।
यत् साधुकृत्यमभवज्जयसंज्ञकस्य
श्रीशङ्करस्य विजयस्य च तत् समग्रम् ।
दोषस्य कोटिषु निचिक्षिपुरात्तरोषा
दुश्चारिणीकथितरोपितवृत्तदोषाः।। 33।।
श्रीशङ्करस्य विजयस्य च तत् समग्रम् ।
दोषस्य कोटिषु निचिक्षिपुरात्तरोषा
दुश्चारिणीकथितरोपितवृत्तदोषाः।। 33।।
इत्थम्विधे निरतिशीतिविधिप्रपाके
शाकस्य मूल्यमपि हन्त चुचुम्ब शैलम् ।
अन्नस्य दोहदविषाभिषवप्रसूति-
भाजस्तु वारिण इवापि न सौस्थ्यकृत्त्वम् ।। 34।।
शाकस्य मूल्यमपि हन्त चुचुम्ब शैलम् ।
अन्नस्य दोहदविषाभिषवप्रसूति-
भाजस्तु वारिण इवापि न सौस्थ्यकृत्त्वम् ।। 34।।
संख्याधिका भवति चेन्नहि साधिकारः
हालाहलस्य परिवेषणकृत्ययोगः ।
तत्रापि वित्तमुपवर्धितुकामुकानां
नास्त्येव तत्र ननु दोषमतिः समेषाम् ।। 35।।
हालाहलस्य परिवेषणकृत्ययोगः ।
तत्रापि वित्तमुपवर्धितुकामुकानां
नास्त्येव तत्र ननु दोषमतिः समेषाम् ।। 35।।
सुदक्षिणायां हि कथं चकार दिलीपनामा रविवंशधुर्यः ।
गर्भाहितिञ्च प्रसवं च काम्यो न चेद् रघुः पुत्रतया तदस्य ।। 36।।
गर्भाहितिञ्च प्रसवं च काम्यो न चेद् रघुः पुत्रतया तदस्य ।। 36।।
कण्डूतिमुद्रुजति चेत् परिघर्षणानि
स्त्रीपुंसयुग्मकरणेषु समर्जितानि ।
किंवा फलं ननु तदा प्रथमानखेद-
स्याधानकृत्यकलुषस्य निषेककस्य ।। 37।।
स्त्रीपुंसयुग्मकरणेषु समर्जितानि ।
किंवा फलं ननु तदा प्रथमानखेद-
स्याधानकृत्यकलुषस्य निषेककस्य ।। 37।।
तिर्यग्योनिषु नास्ति काचन रतेः शिक्षा तथाप्यस्ति किं
तत्रोपद्रवगाथिकाऽप्यतितरां श्लक्ष्णापि संलक्षिता ।
विद्यामन्दिरपाठ्यायोगकलिता किंवा रतिः शिक्ष्यतां
चेत् प्रायोगिकता न तत्र सुलभा संजायते शिक्षणे ।। 38।।
तत्रोपद्रवगाथिकाऽप्यतितरां श्लक्ष्णापि संलक्षिता ।
विद्यामन्दिरपाठ्यायोगकलिता किंवा रतिः शिक्ष्यतां
चेत् प्रायोगिकता न तत्र सुलभा संजायते शिक्षणे ।। 38।।
निर्मर्यादमिमे समेऽपि पदवीमाप्ताः पटिष्ठाः जनाः
काले निर्णयमाश्रयन्ति च मुधा संप्रीणयन्तेतराम् ।
तं स्वीकर्त्तुमतित्वराभिरभितस्तत्खण्डने दण्डनां
दित्सन्तो च मनुष्यकाननगताः पञ्चाननाः केचन ।। 39।।
काले निर्णयमाश्रयन्ति च मुधा संप्रीणयन्तेतराम् ।
तं स्वीकर्त्तुमतित्वराभिरभितस्तत्खण्डने दण्डनां
दित्सन्तो च मनुष्यकाननगताः पञ्चाननाः केचन ।। 39।।
अद्यत्वे वृत्तपत्रं भवति परतरं साधनं वित्तहेतोश्
छिद्रं साधनसत्तमैरधिगतं कृत्वा भयं दर्शकाः ।
ये निर्वाचनिका भवन्ति विविधा नेतार एतत्समा-
चारं पुष्कलमाप्य वित्तनिचयं ते काशयन्तेतराम् ।। 40।।
छिद्रं साधनसत्तमैरधिगतं कृत्वा भयं दर्शकाः ।
ये निर्वाचनिका भवन्ति विविधा नेतार एतत्समा-
चारं पुष्कलमाप्य वित्तनिचयं ते काशयन्तेतराम् ।। 40।।
पत्रे चित्रमये भवन्ति विगताच्छादा विवस्त्रा यथा
योषा एव तथा तथा हि निहिता भूम्ना ततोऽनन्तरम् ।
नेतारो ननु तत्र च प्रमुखतामञ्चन्ति योषोत्तमाः
खेलाचित्ररथस्थिताश्च तदनु प्राधान्यमायान्त्यहो ।। 41।।
योषा एव तथा तथा हि निहिता भूम्ना ततोऽनन्तरम् ।
नेतारो ननु तत्र च प्रमुखतामञ्चन्ति योषोत्तमाः
खेलाचित्ररथस्थिताश्च तदनु प्राधान्यमायान्त्यहो ।। 41।।
ये केचिच्छरदामधीत्य विविधान् पक्षान् स्वपञ्चाशतं
वर्षाणि प्रविकाशयन्ति चरमं सिद्धान्तजातं बुधाः ।
तेषां लेखमयानपि क्व नु बुधाः क्रीणन्ति सद्ग्रन्थकान्
निर्मूल्यं समुपाहृतानपि हहा नो द्रष्टुमप्युत्सुकाः ।। 42।।
वर्षाणि प्रविकाशयन्ति चरमं सिद्धान्तजातं बुधाः ।
तेषां लेखमयानपि क्व नु बुधाः क्रीणन्ति सद्ग्रन्थकान्
निर्मूल्यं समुपाहृतानपि हहा नो द्रष्टुमप्युत्सुकाः ।। 42।।
अद्य श्रीप्रतिभाऽग्रहीत् पदमहो सर्वोच्चमेतद्भुवः
यां भाषा शपथाय सा श्रितवती सासीन्न हिन्दी, नवा ।
माहाराष्ट्रशुभा परन्त्वभवदाङ्ग्लीवागभूद् यत्पुर-
र्नेशो नापि शिवा न राष्ट्रधरणिर्नो संविधानं स्थितम् ।। 43।।
यां भाषा शपथाय सा श्रितवती सासीन्न हिन्दी, नवा ।
माहाराष्ट्रशुभा परन्त्वभवदाङ्ग्लीवागभूद् यत्पुर-
र्नेशो नापि शिवा न राष्ट्रधरणिर्नो संविधानं स्थितम् ।। 43।।
यो राष्ट्रेऽत्र शुभंकरः प्रतिभया स्वे भाषणे स्वीकृतः
सोऽभूद् भीम इति श्रुतः सुगततां प्राप्तोऽम्बुदाकारितः (अम्बेडकर)।
अन्येष्वेकल इन्दिराजनकतां प्राप्तोऽभवन्नेहरूः
सन्तेष्वेकल उद्धृतिं तु भजति स्मार्यस्तु का रामगीः ।। 44।।
सोऽभूद् भीम इति श्रुतः सुगततां प्राप्तोऽम्बुदाकारितः (अम्बेडकर)।
अन्येष्वेकल इन्दिराजनकतां प्राप्तोऽभवन्नेहरूः
सन्तेष्वेकल उद्धृतिं तु भजति स्मार्यस्तु का रामगीः ।। 44।।
अश्वा राष्ट्रपतेः कृते य उदयं लब्धुं तदाऽशक्नुवन्
तेषां पृष्ठगता भटा गगनगानन्वाहरन् कन्दुकान् ।
अस्मिन् द्वादशराष्ट्रपत्यभिषवे नोपस्थितौ विश्वना-
थाख्यो माण्डवभूपतिः स च महान् श्रीकर्णसिंहः प्रभुः ।। 45।।
तेषां पृष्ठगता भटा गगनगानन्वाहरन् कन्दुकान् ।
अस्मिन् द्वादशराष्ट्रपत्यभिषवे नोपस्थितौ विश्वना-
थाख्यो माण्डवभूपतिः स च महान् श्रीकर्णसिंहः प्रभुः ।। 45।।
आसन्दीपरिवर्त्तनं कृतवती श्रीपाटला भूतपू-
र्वेणाऽध्युषितां तु राष्ट्रपतिना तामग्रहीत् सौष्ठवात् ।
काले तत्र सभास्थलं करतलध्वानैः प्रपूर्णं ह्यभूत्
अब्दुलजेस्तु कलाम इत्यभवदा मद्रासयात्रां श्रितः ।। 46।।
र्वेणाऽध्युषितां तु राष्ट्रपतिना तामग्रहीत् सौष्ठवात् ।
काले तत्र सभास्थलं करतलध्वानैः प्रपूर्णं ह्यभूत्
अब्दुलजेस्तु कलाम इत्यभवदा मद्रासयात्रां श्रितः ।। 46।।
दिल्ल्यां तस्य कृते बभूव तु गृहं यन्निश्चितं तस्य वै
संस्कारः क्रियते स्म नैव तु परिष्कारोऽस्य पूर्त्तिं गतः ।
तस्मादेष न कुत्रचित् स्वनगरीमध्ये सुरक्षान्वितो
वस्तुं हन्त शशाक, न क्व सुरसावक्त्रायते शैथिली ।। 47।।
संस्कारः क्रियते स्म नैव तु परिष्कारोऽस्य पूर्त्तिं गतः ।
तस्मादेष न कुत्रचित् स्वनगरीमध्ये सुरक्षान्वितो
वस्तुं हन्त शशाक, न क्व सुरसावक्त्रायते शैथिली ।। 47।।
येनाकारि विभाजनं भरतभूमातुस्तदीयोंऽसरि-
नामालीगढविश्वशिक्षणपदस्याद्योऽधिकारी पुनः ।
प्रत्याशी विहितः शिखावतमहाभागेन रिक्तीकृतस्यो-
पापाश्रितराष्ट्रपत्यभिहितस्यान्वाचये संप्रगैः ।। 48।।
नामालीगढविश्वशिक्षणपदस्याद्योऽधिकारी पुनः ।
प्रत्याशी विहितः शिखावतमहाभागेन रिक्तीकृतस्यो-
पापाश्रितराष्ट्रपत्यभिहितस्यान्वाचये संप्रगैः ।। 48।।
एषा हैन्दवयावनी स्थितिरिदंकालेऽनुकूलायते
धिक् स्त्रीपुंसयुगे स्त्रियश्च चयने प्राथम्यसंवेष्टिताः ।
मन्ये हेपतुलापि तामुपसृता निर्वाचने साफलीं
धत्ते तन्मनमोहनस्य पदवीं लब्धुं क्षमः सोनिया ।। 49।।
धिक् स्त्रीपुंसयुगे स्त्रियश्च चयने प्राथम्यसंवेष्टिताः ।
मन्ये हेपतुलापि तामुपसृता निर्वाचने साफलीं
धत्ते तन्मनमोहनस्य पदवीं लब्धुं क्षमः सोनिया ।। 49।।
हिन्दूरेव युगे विदेशचरितैरत्यन्तमध्यासिते
शत्रुत्वं भजते निजस्य चयनादस्मादहिन्दोः स्फुटम् ।
यद् बाहुल्ययुतं तदेव जनताराज्ये/तन्त्रेऽद्य राजानति
बाहुल्येन युतोपि शास्तृसदने हिन्दूरहिन्दूयति ।। 50।।
शत्रुत्वं भजते निजस्य चयनादस्मादहिन्दोः स्फुटम् ।
यद् बाहुल्ययुतं तदेव जनताराज्ये/तन्त्रेऽद्य राजानति
बाहुल्येन युतोपि शास्तृसदने हिन्दूरहिन्दूयति ।। 50।।
विज्ञानेन धनेन चापि विपुलेनाद्यापितं हैमनं
कालं भूय इदं तु राष्ट्रमधुना, तामेव वृत्तिं श्रितम् ।
यस्यामत्र परप्रभुत्वमभवत्, सा द्वैतधी ह्यान्तरी
जातीयप्रभुता च, किन्तु भविता श्वः को नु नो लक्षयेत् ।। 51।।
कालं भूय इदं तु राष्ट्रमधुना, तामेव वृत्तिं श्रितम् ।
यस्यामत्र परप्रभुत्वमभवत्, सा द्वैतधी ह्यान्तरी
जातीयप्रभुता च, किन्तु भविता श्वः को नु नो लक्षयेत् ।। 51।।
यः श्रेष्ठः स हि सम्प्रतं प्रतिपदं न्यक्कारमासाद्यते
योऽश्रेष्ठत्वनिमज्जितः स सहसा सत्कारपात्रायते ।
वैद्यो न्यक्क्रियते रुजा परिगतेनाथेष्यते सौस्थ्यमि-
त्यद्यत्वे भगवान् हि रक्षतु भुवं कालानलात् प्रोन्मुखात् ।। 52।।
योऽश्रेष्ठत्वनिमज्जितः स सहसा सत्कारपात्रायते ।
वैद्यो न्यक्क्रियते रुजा परिगतेनाथेष्यते सौस्थ्यमि-
त्यद्यत्वे भगवान् हि रक्षतु भुवं कालानलात् प्रोन्मुखात् ।। 52।।
दस्युत्वं प्रतिपद्यतेऽप्यभिजनेनोच्चैःशिरा न्यक्क्रियां
सोढुं तु प्रभवत्यलं न विहितां निम्नेन कुत्रापि चेत् ।
सम्प्रत्युच्चकुला भवन्तु निखिला दार्ढ्याद् भुशुण्डीकराः
यद्वा गच्छत काननं पुनरपि स्वं तेज आप्तुं पुनः ।। 53।।
सोढुं तु प्रभवत्यलं न विहितां निम्नेन कुत्रापि चेत् ।
सम्प्रत्युच्चकुला भवन्तु निखिला दार्ढ्याद् भुशुण्डीकराः
यद्वा गच्छत काननं पुनरपि स्वं तेज आप्तुं पुनः ।। 53।।
एको दस्युपतिर्हतः प्रशासकशतैरावेष्ट्या यस्मिन् क्षणे
तस्मिन्नेव शतं प्रशास्तृपुरुषा अन्येन चेद् घातिताः ।
हन्तासौ विदितो बभूव, यदिवा नो, तच्चिकित्सा कथं
नाद्ये पक्ष उदारधीभिरधुना प्रागेव संकल्पिता ।। 54।।
तस्मिन्नेव शतं प्रशास्तृपुरुषा अन्येन चेद् घातिताः ।
हन्तासौ विदितो बभूव, यदिवा नो, तच्चिकित्सा कथं
नाद्ये पक्ष उदारधीभिरधुना प्रागेव संकल्पिता ।। 54।।
दस्युर्यो निहतस्तदीयमभवत् प्रोच्चैस्तमं वैभवं
कोटीनां शतकं चतुर्गुणमहो कस्मादिदं प्रार्जितम् ।
अर्जित्वा क्व च रक्षितं, कुत इदं क्षेमं विलेभे, क्व वा
तत्र क्षेमकृतो वसन्ति न हि ते सर्वेऽपि किं दस्यवः ।। 55।।
कोटीनां शतकं चतुर्गुणमहो कस्मादिदं प्रार्जितम् ।
अर्जित्वा क्व च रक्षितं, कुत इदं क्षेमं विलेभे, क्व वा
तत्र क्षेमकृतो वसन्ति न हि ते सर्वेऽपि किं दस्यवः ।। 55।।
यस्तावत् प्रसभं हतो बहुतिथे काले गते, तत्र वै
हेतुश्चेदभवत्तु रक्षकदलं, धिक् रक्षको भक्षकः ।
सेयं भूमिगतस्य पादयुगलीसंचारिणः सिंहता
व्योमाम्भोदकषायितं द्रवति वै वह्निं दहत्, प्लावितैः ।। 56।।
हेतुश्चेदभवत्तु रक्षकदलं, धिक् रक्षको भक्षकः ।
सेयं भूमिगतस्य पादयुगलीसंचारिणः सिंहता
व्योमाम्भोदकषायितं द्रवति वै वह्निं दहत्, प्लावितैः ।। 56।।
वङ्गीया वसुधा बभूव वणिजां राज्याय यत् कारणं
गौरुण्डोत्तमिनां पुनश्च ननु सा प्राप्तेति संभाव्यते ।
वामत्वं किमु, केवलं भरतभू-मानान्वितानां दृढं
वैमुख्येन विरोधकत्वमितरत् सर्वं त्वमीषामभित् ।। 57।।
गौरुण्डोत्तमिनां पुनश्च ननु सा प्राप्तेति संभाव्यते ।
वामत्वं किमु, केवलं भरतभू-मानान्वितानां दृढं
वैमुख्येन विरोधकत्वमितरत् सर्वं त्वमीषामभित् ।। 57।।
या वै केरलभूरभूत् परमतमग्रन्थोत्तमारक्षणे
दक्षा वैदिकवाङ्मयस्य च दृढं संरक्षणे सक्षणा ।
साऽप्यद्यत्व उदित्वरेश-मतिनां बाहुल्ययोगादहो (ईशमतिनः रव्रीष्टाः)
साम्यं द्वेषकषायितं भजति वै वादात्मना वामगम् ।। 58।।
दक्षा वैदिकवाङ्मयस्य च दृढं संरक्षणे सक्षणा ।
साऽप्यद्यत्व उदित्वरेश-मतिनां बाहुल्ययोगादहो (ईशमतिनः रव्रीष्टाः)
साम्यं द्वेषकषायितं भजति वै वादात्मना वामगम् ।। 58।।
ये कश्मीरगता त्वचा सिततया संभासमाना अपि
स्वान्तस्तत्त्वमतीव कृष्णिमकटु प्रच्छाद्य राजन्तकि ।
तेषां मुस्लिमवर्गवृत्तसुहितानां शासने मान्यतां
धत्तो द्वौ खलु शासनालयशिरोमालासु केतूत्तमौ ।। 59।।
स्वान्तस्तत्त्वमतीव कृष्णिमकटु प्रच्छाद्य राजन्तकि ।
तेषां मुस्लिमवर्गवृत्तसुहितानां शासने मान्यतां
धत्तो द्वौ खलु शासनालयशिरोमालासु केतूत्तमौ ।। 59।।
अर्धं स्वातन्त्र्य मेवं स्वयमपि विधृतं शारदाभूमिपालै-
रर्धं लब्धुं च यत्नो निभृतमथ सदैवादधद्भिः स्वयं हि ।
कालक्षेपप्रतीक्षां प्रतिपलनिरता हन्त कुर्वन्ति, किन्तु,
विश्वास्याँस्ताँस्तु मन्तुं दृढपरिकरकाः सर्व एते लसामः ।। 60।।
रर्धं लब्धुं च यत्नो निभृतमथ सदैवादधद्भिः स्वयं हि ।
कालक्षेपप्रतीक्षां प्रतिपलनिरता हन्त कुर्वन्ति, किन्तु,
विश्वास्याँस्ताँस्तु मन्तुं दृढपरिकरकाः सर्व एते लसामः ।। 60।।
वामत्वस्य बलं महत् क्षण इह प्रादुर्भवद् राजते
दक्षत्वं बहुलैः कषायितमहो संलक्ष्यते वादिभिः ।
तस्माद् वाम उदाचरत्युचितमप्यस्त्येव शीर्षस्थितं,
तत्राप्येतदहो विधेर्विलसितं गङ्गासरय्वोर्भुवि ।। 61।।
दक्षत्वं बहुलैः कषायितमहो संलक्ष्यते वादिभिः ।
तस्माद् वाम उदाचरत्युचितमप्यस्त्येव शीर्षस्थितं,
तत्राप्येतदहो विधेर्विलसितं गङ्गासरय्वोर्भुवि ।। 61।।
यद् राज्यं धृतराष्ट्रहस्तविधृतं तस्मिन्नुपद्रावणा-
मात्रं द्रष्टुमलं बलाऽबलभृतां मात्स्यं नयं धारिणाम् ।
न्यायः खञ्जति साम्प्रतं कुणिरसौ पूर्वं ह्यजेगीयत
देवानां भवनानि दैत्यनिलयायन्तेऽद्य चेत् तत् क्षमम् ।। 62।।
मात्रं द्रष्टुमलं बलाऽबलभृतां मात्स्यं नयं धारिणाम् ।
न्यायः खञ्जति साम्प्रतं कुणिरसौ पूर्वं ह्यजेगीयत
देवानां भवनानि दैत्यनिलयायन्तेऽद्य चेत् तत् क्षमम् ।। 62।।
देवे वर्षति राजधान्यवनिगाः सर्वेऽपि मार्गा भव-
न्त्यैकान्त्येन निमज्जिता, न सुलभा तत्राऽऽगमस्य प्रथा ।
सैवास्ते बत मुम्बईप्रभृतिषु श्रेष्ठेषु सत्पत्तने-
ष्वालोच्येत, तटस्थमेव निखिलं तन्त्रं दरीदृष्यते ।। 63।।
न्त्यैकान्त्येन निमज्जिता, न सुलभा तत्राऽऽगमस्य प्रथा ।
सैवास्ते बत मुम्बईप्रभृतिषु श्रेष्ठेषु सत्पत्तने-
ष्वालोच्येत, तटस्थमेव निखिलं तन्त्रं दरीदृष्यते ।। 63।।
नेपालोच्चभुवः सरिज्जलमभूद् धिक् पाटलीपुत्रिणां
पुंसां रन्धनकर्मनाषनिपुणं यद् वासरान् काँष्चन ।
यद्वा गुर्जरभूमिकम्पनकृते व्योमस्पृषां पातने
हर्म्याणां बत कां दषां मनुजता हंहो धयन्तीक्ष्यते ।। 64।।
पुंसां रन्धनकर्मनाषनिपुणं यद् वासरान् काँष्चन ।
यद्वा गुर्जरभूमिकम्पनकृते व्योमस्पृषां पातने
हर्म्याणां बत कां दषां मनुजता हंहो धयन्तीक्ष्यते ।। 64।।
ये प्राचीनतमा गृहाः कुषलिनस्ते तत्र तिष्ठन्ति त-
त्पार्ष्वे नूत्नतमास्तु ये गतिमितास्ते कन्दुकानामिव ।
ये तत्राऽऽगमिनो बभूवुरगमॅस्ते यान्त्रिकाः कुत्राचि-
ल्लोपं ये च मृता बभूवुरभवॅस्ते रौप्यकैष्छादिताः ।। 65।।
त्पार्ष्वे नूत्नतमास्तु ये गतिमितास्ते कन्दुकानामिव ।
ये तत्राऽऽगमिनो बभूवुरगमॅस्ते यान्त्रिकाः कुत्राचि-
ल्लोपं ये च मृता बभूवुरभवॅस्ते रौप्यकैष्छादिताः ।। 65।।
दृष्टिं ये दधतीह हेम्न उरुधा प्राणैर्विहीनेषु ते
नेतारो मतसाधनाय यतिता निर्वाचने भाविनि ।
ये याता यमधाम ते कणमपि द्रव्यस्य किं प्राप्नुयु-
स्तेषां बान्धवनेत्रबाष्पसरितां सेतुर्विरच्येत चेत् ।। 66।।
नेतारो मतसाधनाय यतिता निर्वाचने भाविनि ।
ये याता यमधाम ते कणमपि द्रव्यस्य किं प्राप्नुयु-
स्तेषां बान्धवनेत्रबाष्पसरितां सेतुर्विरच्येत चेत् ।। 66।।
दन्तेवाडाधरित्री सपदि गतदिने नक्सलैस्ताड्यामाना
हाहा मृत्योरपष्यद् यदपि सुमहत् ताण्डवं मानवेषु ।
तत् किं विस्मर्त्तुमीष्टे धरणिरियमहो यत्र सर्वस्वभूतं
द्रव्यं किञ्चिन्नराख्यं भवति हृतमहो षिष्यते तत्र किंवा ।। 67।।
हाहा मृत्योरपष्यद् यदपि सुमहत् ताण्डवं मानवेषु ।
तत् किं विस्मर्त्तुमीष्टे धरणिरियमहो यत्र सर्वस्वभूतं
द्रव्यं किञ्चिन्नराख्यं भवति हृतमहो षिष्यते तत्र किंवा ।। 67।।
नारी वा कापि कुत्राप्यतिविततमहीपृष्ठके केनचिद् वै
पुंसा धिक् प्रसभं प्रधर्ष्यत इदं राष्ट्रं न किं काननम् ।
कान्तारेषु वसन्ति केचन चतुष्पादा बलात्कारिणः
प्रेमा नाऽत्र रसोऽपि नात्र विकृतेर्वेगेषु संप्लाविनाम् ।। 68।।
पुंसा धिक् प्रसभं प्रधर्ष्यत इदं राष्ट्रं न किं काननम् ।
कान्तारेषु वसन्ति केचन चतुष्पादा बलात्कारिणः
प्रेमा नाऽत्र रसोऽपि नात्र विकृतेर्वेगेषु संप्लाविनाम् ।। 68।।
धिक्कारा अपि किम्मुखाः प्रणिपतन्त्वत्रान्धकाराञ्चिते
भूमेः सीमनि धीमतां प्रविरले क्षेत्रे चमत्कारिणाम् ।
यद्वा वक्तरि केवले विरहिते श्रोत्रा समा धिक्क्रिया
अस्तं यान्ति, पुरस्क्रियासुरपि किं धिक्कारितैरेव किम् ।। 69।।
भूमेः सीमनि धीमतां प्रविरले क्षेत्रे चमत्कारिणाम् ।
यद्वा वक्तरि केवले विरहिते श्रोत्रा समा धिक्क्रिया
अस्तं यान्ति, पुरस्क्रियासुरपि किं धिक्कारितैरेव किम् ।। 69।।
अन्धा रात्रिरियं समीपमधुना यढ् ढौकते या रवे-
र्दीप्तिः साऽस्तमुपैति, घर्घररवा घूका रुवन्त्यन्तिके ।
कल्याणस्य कथैव काऽत्र दुरितस्तोमैः परीते जग-
त्पृष्ठे हालहलस्य काऽपि कलना धिक् साम्प्रतं षिष्यते ।। 70।।
र्दीप्तिः साऽस्तमुपैति, घर्घररवा घूका रुवन्त्यन्तिके ।
कल्याणस्य कथैव काऽत्र दुरितस्तोमैः परीते जग-
त्पृष्ठे हालहलस्य काऽपि कलना धिक् साम्प्रतं षिष्यते ।। 70।।
इति स्वातन्त्र्य सम्भवे सनातनकविरेवाप्रसादद्विवेदिकृतौ महाकाव्ये वामत्वविडम्बनं नाम त्रिचत्वारिंशः सर्गः ।। 43।।
प्रतिभा राज्यपालत्वे राजस्थाने श्रिता यदा ।
सदा धर्मविपर्यासनिरोधे विमता ह्यभूत् ।। 1।।
सदा धर्मविपर्यासनिरोधे विमता ह्यभूत् ।। 1।।
विधानसभया भूयो विरोधः सूचितस्तदा ।
तमेनं राष्ट्रपतये प्रैषयत् दृढनिश्चया ।। 2।।
तमेनं राष्ट्रपतये प्रैषयत् दृढनिश्चया ।। 2।।
अद्य तस्मिन् पदेऽप्येषा संस्थिता हास्तिने पुरे ।
एषोऽद्य विजयो हिन्दूनाम्ने शात्रवमीयुषाम् ।। 3।।
एषोऽद्य विजयो हिन्दूनाम्ने शात्रवमीयुषाम् ।। 3।।
हिन्दवो हिन्दवः कस्मात् यस्माद् भिन्ना इमे समे ।
यीशामसीहभक्तेभ्यो मुस्लिमेभ्यश्च सिन्धुगाः ।। 4।।
यीशामसीहभक्तेभ्यो मुस्लिमेभ्यश्च सिन्धुगाः ।। 4।।
सस्य हत्वेन यत्कण्ठध्वनिः स्वैरं विवर्त्तते ।
तेषां सिन्धुतटीयानां कृते हिन्दुरिति श्रुतिः ।। 5।।
तेषां सिन्धुतटीयानां कृते हिन्दुरिति श्रुतिः ।। 5।।
मोहम्मदानां तद्भिन्ने भेदमुद्रेयमन्यथा ।
हिन्दुशब्दः कथं नास्ति प्राचीने वाङ्मयोत्तमे ।। 6।।
हिन्दुशब्दः कथं नास्ति प्राचीने वाङ्मयोत्तमे ।। 6।।
वेदा हिन्दुं न जानन्ति न जानन्ति कवीश्वराः ।
जोनराजात् पुराचीनाः बाणभट्टादयोऽपि वै ।। 7।।
जोनराजात् पुराचीनाः बाणभट्टादयोऽपि वै ।। 7।।
ये च साम्प्रतिका हिन्दुपदवाच्याः समेऽपि ते ।
यीशुधर्मावलम्बित्वकषायितधियो दृढम् ।। 8।।
यीशुधर्मावलम्बित्वकषायितधियो दृढम् ।। 8।।
एषां शिरसि नैवास्ति शिखा सूत्रं च वक्षसि ।
वेषे पैण्टधरत्वेन क एषां वेत्तु हिन्दुताम् ।। 9।।
वेषे पैण्टधरत्वेन क एषां वेत्तु हिन्दुताम् ।। 9।।
नाम्नि तीर्थादिनामत्वमुद्रयाऽपीक्षितुं क्षमाः ।
नैते साम्प्रतमेतेषां नाम्नां पुष्पादिराश्रयः ।। 10।।
नैते साम्प्रतमेतेषां नाम्नां पुष्पादिराश्रयः ।। 10।।
कोऽपि कुमारः पुष्पेन्द्रोऽमलपुष्पोऽपरोऽपरः ।
अभिपुष्प इति ख्यातो यीशुधर्मिसमाः समे ।। 11।।
अभिपुष्प इति ख्यातो यीशुधर्मिसमाः समे ।। 11।।
आङ्ग्लीं गिरं ब्रुवाणानामाधिपत्ये नियोजनम् ।
तद्भिन्नानां परेषां तु तत्र न स्मरणं शुभम् ।। 12।।
तद्भिन्नानां परेषां तु तत्र न स्मरणं शुभम् ।। 12।।
शङ्कराख्यो दयालुर्यो जातो राष्ट्रपतिः स वै ।
आङ्ग्लभाषाविदः सर्वान् संस्कृतज्ञानमानयत् ।। 13।।
आङ्ग्लभाषाविदः सर्वान् संस्कृतज्ञानमानयत् ।। 13।।
यश्च गोविन्दनामाभून्मालवीयः कुलाधिपः ।
स वै संस्कृतशास्त्राणां विद्यास्थानं निरासिषत् ।। 14।।
स वै संस्कृतशास्त्राणां विद्यास्थानं निरासिषत् ।। 14।।
शिखाचन्दनधौताङ्गवाससां विदुषां कृते ।
आसीन्न्यक्कारसम्मिश्रा तस्य बुद्धिरणीयसी ।। 15।।
आसीन्न्यक्कारसम्मिश्रा तस्य बुद्धिरणीयसी ।। 15।।
स हि वादित्रनृत्तादिकलाकौशलमुच्चकैः ।
समभावयदात्मीयाः पुत्रीर् नाट्योष्वनर्त्तयद् ।। 16।।
समभावयदात्मीयाः पुत्रीर् नाट्योष्वनर्त्तयद् ।। 16।।
कामायनीप्रयोगोऽभूदद्भुताद्भुतमञ्चनः ।
तत्र श्रद्धा बभूवास्य सुश्रीर्ज्येष्ठा सुता सती ।। 17।।
तत्र श्रद्धा बभूवास्य सुश्रीर्ज्येष्ठा सुता सती ।। 17।।
ओङ्कारनाथनामाऽऽसीद् ठाकुरस्तत्र वादकः ।
पुष्करद्वन्द्ववाद्यस्य स्वयमेव प्रसन्नधीः ।। 18।।
पुष्करद्वन्द्ववाद्यस्य स्वयमेव प्रसन्नधीः ।। 18।।
कलाभवनसंज्ञस्य संस्थानस्य कृते ददौ ।
स एव संस्कृतज्ञानामर्धां भूमिं निरङ्कुशः ।। 19।।
स एव संस्कृतज्ञानामर्धां भूमिं निरङ्कुशः ।। 19।।
कालूलालाभिधानस्य कौलपत्ये गता मही ।
संस्कृतस्यैव मूर्त्त्यादिशिल्पविद्यालयस्थितौ ।। 20।।
संस्कृतस्यैव मूर्त्त्यादिशिल्पविद्यालयस्थितौ ।। 20।।
यश्चाऽभूदाङ्ग्लभाषायां शिक्षितेभ्यः कलालये ।
विभागश्च्यावितः सोऽपि भारतीभवनाद्धठात् ।। 21।।
विभागश्च्यावितः सोऽपि भारतीभवनाद्धठात् ।। 21।।
काश्यां संस्कृतविद्यायाः कृते केन्द्रमभूत् तु यत् ।
विश्वविद्यालयत्वं सत् प्रापितं शुचितां जहौ ।। 22।।
विश्वविद्यालयत्वं सत् प्रापितं शुचितां जहौ ।। 22।।
शतमद्य व्यतीतायां विभावर्यां तु येऽभजन् ।
सहस्रं तन्मतिस्तत्र विपर्यासमजीग्रसत् ।। 23।।
सहस्रं तन्मतिस्तत्र विपर्यासमजीग्रसत् ।। 23।।
परीक्षाकेन्द्रचारित्र्यभ्रंशतश्च परीक्षितः ।
अयोग्य एव साफल्यमवाप्य विबुधायते ।। 24।।
अयोग्य एव साफल्यमवाप्य विबुधायते ।। 24।।
अयोग्यत्वेऽपि शिक्षायां नियोज्यन्तेऽपि बालिशाः ।
आरक्षणविधानेन क्व वा ग्रन्था व्रजन्तु नः ।। 25।।
आरक्षणविधानेन क्व वा ग्रन्था व्रजन्तु नः ।। 25।।
नव्यन्यायाक्षराली या दुरूहा गीष्पतेरपि ।
तामिमे संस्पृशेयुः किं किं कुर्युश्चाप्यधीतिनः ।। 26।।
तामिमे संस्पृशेयुः किं किं कुर्युश्चाप्यधीतिनः ।। 26।।
अथापि राभसीमेत्य शिक्षाक्षेत्रे प्रतिष्ठिताः ।
तर्पणानि विधातुं नुर्दृश्यन्ते नायकोत्तमाः ।। 27।।
तर्पणानि विधातुं नुर्दृश्यन्ते नायकोत्तमाः ।। 27।।
या वै राष्ट्रपतिर्जाता प्रतिभा पाटलोत्तमा ।
तस्याः पार्श्वे विराजन्ते शेयराणां च कोटयः ।। 28।।
तस्याः पार्श्वे विराजन्ते शेयराणां च कोटयः ।। 28।।
हिन्द्यभिज्ञापि सा देवी प्रत्यजानात् पुराङ्ग्लया ।
ततः परं च हिन्द्या ऽस्याः प्रवृत्तिस्तत ईक्ष्यताम् ।। 29।।
ततः परं च हिन्द्या ऽस्याः प्रवृत्तिस्तत ईक्ष्यताम् ।। 29।।
लेभे यदा प्रतिज्ञां सा देवी राष्ट्रपतिस्तदा ।
सोनियाया मुखज्योत्स्ना चातुर्गुण्यमिवापिता ।। 30।।
सोनियाया मुखज्योत्स्ना चातुर्गुण्यमिवापिता ।। 30।।
दयालुः शङ्करो जातो यदा राष्ट्रपतिस्तदा ।
मोदमाना अलक्ष्यन्त यवना प्रथमायिताः ।। 31।।
मोदमाना अलक्ष्यन्त यवना प्रथमायिताः ।। 31।।
श्रीमान् मनोहरो जातो मुरली जोश्युपाधिकः ।
यदा शिक्षापतिर्जाताः प्रयागीयास्तदाऽग्रिमाः ।। 32।।
यदा शिक्षापतिर्जाताः प्रयागीयास्तदाऽग्रिमाः ।। 32।।
प्रयागादेव किन्त्वेष निर्वाचनपराजयम् ।
विलेभे निर्घृणा हन्त मानुष्यकमतिः कलौ ।। 33।।
विलेभे निर्घृणा हन्त मानुष्यकमतिः कलौ ।। 33।।
अलावुद्दीनखिल्जी यं भोजपुत्रं पराजितम् ।
ममार तस्मिन् काले नो हिन्दूप्रज्ञोदबुध्यत ।। 34।।
ममार तस्मिन् काले नो हिन्दूप्रज्ञोदबुध्यत ।। 34।।
एवं वारङ्गलाधीशं प्रतापं जितवान् परः ।
न तदा हैन्दवं रक्तमुष्णतां प्रत्यपद्यत ।। 35।।
न तदा हैन्दवं रक्तमुष्णतां प्रत्यपद्यत ।। 35।।
कालेऽस्मिन् कर्णसिंहाय नाऽटलोऽबू्रत किञ्चन ।
योग्यायोग्यविवेकेषु किं मानं मित्रशत्रुता ।। 36।।
योग्यायोग्यविवेकेषु किं मानं मित्रशत्रुता ।। 36।।
अटलेन पुरा दत्तगलहस्तो मुरारजिः ।
नाऽभूत् प्रधानमन्त्रीति माया तं संव्यपोहयत् ।। 37।।
नाऽभूत् प्रधानमन्त्रीति माया तं संव्यपोहयत् ।। 37।।
एवं क्षुद्रतमाचारखिलीकारमवापिताः ।
विद्यामहे समेऽप्येते भारतीयाः स्वभारते ।। 38।।
विद्यामहे समेऽप्येते भारतीयाः स्वभारते ।। 38।।
यदा गान्धी महात्माऽभून्नेता सर्वेऽप्ययूयुधन् ।
स्वातन्त्र्ये" च ततस्तस्य गोल्या रक्तमवीवहन् ।। 39।।
स्वातन्त्र्ये" च ततस्तस्य गोल्या रक्तमवीवहन् ।। 39।।
कः कस्य स्वं चरित्रेण प्रच्युतो भुवि कृत्यवित् ।
स्वं धर्मं पालयन्नद्य यदि जायेत निर्वृतः ।। 40।।
स्वं धर्मं पालयन्नद्य यदि जायेत निर्वृतः ।। 40।।
मातुलेयस्तु मे भ्राता सुशीलः स्वां पितृस्वसुः ।
कन्यां जहार छन्नं च प्रयागे तामभुङ्क्त सः ।। 41।।
कन्यां जहार छन्नं च प्रयागे तामभुङ्क्त सः ।। 41।।
ततश्च क्षयरोगेण पीडितो जीवितं जहौ ।
कन्यास्तिस्रो विहाय स्वा अविवाहकदर्थिताः ।। 42।।
कन्यास्तिस्रो विहाय स्वा अविवाहकदर्थिताः ।। 42।।
यच्च चारित्र्यमेषा हि नौः प्रतर्त्तुं पुनर्नदीम् ।
तत्रच्छिद्रं परं पश्चात् प्रथमं स्वं निमज्जयेत् ।। 43।।
तत्रच्छिद्रं परं पश्चात् प्रथमं स्वं निमज्जयेत् ।। 43।।
प्रच्छन्नं स्वं गृणन्नात्मा वृणुते यं पृथक्पथम् ।
तत्रच्छन्नो न किं तिष्ठत्यन्तर्यामी जगत्पिता ।। 44।।
तत्रच्छन्नो न किं तिष्ठत्यन्तर्यामी जगत्पिता ।। 44।।
छलयन्नान्तरं चक्षुश्चक्षुषा चर्मणो नरः ।
अग्रिमं पादमाधत्ते किं न गर्त्ते तिरोहिते ।। 45।।
अग्रिमं पादमाधत्ते किं न गर्त्ते तिरोहिते ।। 45।।
मत्तो गजो वशां दृष्ट्वा गर्त्ते वंशादिनिर्मिताम् ।
स्प्रष्टुं पतत्यधः किञ्च वन्दितां याति शाश्वतीम् ।। 46।।
स्प्रष्टुं पतत्यधः किञ्च वन्दितां याति शाश्वतीम् ।। 46।।
मायावती च लालूश्च धनं प्रत्यक्षिकं गृहे ।
स्ञ्चियतुः परे किन्तु निगृहीता लयं गताः ।। 47।।
स्ञ्चियतुः परे किन्तु निगृहीता लयं गताः ।। 47।।
आत्मनो रक्षणे ये वै न भवन्ति क्षमा जनाः ।
त एवाद्यापराधानां कुक्कुराणां नु भोजनम् ।। 48।।
त एवाद्यापराधानां कुक्कुराणां नु भोजनम् ।। 48।।
अत एव वयं सर्वे पुराणेषु लभामहे ।
आयोधनशतं देवदानवद्वन्द्वसङ्गतम् ।। 49।।
आयोधनशतं देवदानवद्वन्द्वसङ्गतम् ।। 49।।
अन्यायो यत्र संयाति न्यायत्वं तत्र जायते ।
संघर्षो, रक्तपातेन विना तत्र गतिर्न नुः ।। 50।।
संघर्षो, रक्तपातेन विना तत्र गतिर्न नुः ।। 50।।
इन्द्रियाश्वेषु कुर्वन्ति कशाघातं प्रकाशकाः ।
ते त्वदोषा हि दुष्टास्तु हन्त तत्रोपवाहिताः ।। 51।।
ते त्वदोषा हि दुष्टास्तु हन्त तत्रोपवाहिताः ।। 51।।
विद्यालयेषु मूर्धन्याः कामक्रीडा-प्रशिक्षणाम् ।
समर्थयन्तो निर्माण एव ध्वंसं दिदृक्षवः ।। 52।।
समर्थयन्तो निर्माण एव ध्वंसं दिदृक्षवः ।। 52।।
एते सर्वे परस्कोटिरूपराशिपुरस्कृताः ।
सांसदा वेतनाधिक्यमूरीकारयितुं द्रुताः ।। 53।।
सांसदा वेतनाधिक्यमूरीकारयितुं द्रुताः ।। 53।।
ये केचिद् द्राक्तरास्तेषां दृष्टिरर्थार्जने हिता ।
न ते चिकित्सां कुर्वन्ति लाभश्चेन्नैव दृश्यते ।। 54।।
न ते चिकित्सां कुर्वन्ति लाभश्चेन्नैव दृश्यते ।। 54।।
क्लेशयन्त्यधिकं तास्ताः परीक्षा उपदिश्य यम् ।
तमेव धार्मिको वैद्यो नाडीं दृष्ट्वा चिकित्सते ।। 55।।
तमेव धार्मिको वैद्यो नाडीं दृष्ट्वा चिकित्सते ।। 55।।
उदानवायुरोगेण पीडितानद्य डाक्टराः ।
मिथ्याऽभिभाषिणः प्रोच्य कृतकार्या भवन्तकि ।। 56।।
मिथ्याऽभिभाषिणः प्रोच्य कृतकार्या भवन्तकि ।। 56।।
तानेव वैद्यास्तत्तैस्तु काष्ठौषधचिकित्सितैः ।
शमयन्ति मुधा मोह आतुराणां विदेशिषु ।। 57।।
शमयन्ति मुधा मोह आतुराणां विदेशिषु ।। 57।।
यद् वै चिकित्सितं शल्यक्रियया तत्र नोपमा ।
विद्यते, म्रियमाणॉस्ते जीवयन्ति विचक्षणाः ।। 58।।
विद्यते, म्रियमाणॉस्ते जीवयन्ति विचक्षणाः ।। 58।।
अहमेवात्र विद्ये वै प्रमाणं द्राक्तरैरहम् ।
शल्यक्रियाचिकित्साभिः सक्रियो विहितः पुनः ।। 59।।
शल्यक्रियाचिकित्साभिः सक्रियो विहितः पुनः ।। 59।।
श्वासरोगचिकित्सेव मधुमेहचिकित्सितम् ।
वैदेशिके तु भैषज्ये व्योमपुष्पायतेतराम् ।। 60।।
वैदेशिके तु भैषज्ये व्योमपुष्पायतेतराम् ।। 60।।
वातव्याधिचिकित्सापि वैदेशिकभिषग्गणे ।
कूर्मीपयस्विनीतीरे वन्ध्यापुत्रप्रगीतयः ।। 61।।
कूर्मीपयस्विनीतीरे वन्ध्यापुत्रप्रगीतयः ।। 61।।
व्योम्नि द्वाविंशतिं होरा व्यतीत्य यदिवा शतम् ।
योजनानि समुद्रेषु, यान्ति तत्रापि रोगिणः ।। 62।।
योजनानि समुद्रेषु, यान्ति तत्रापि रोगिणः ।। 62।।
व्यामोहमेवं न परित्यजन्ति जना इदानीन्तनता-परप्रियाः ।
व्यालुञ्चनां कारयितुं स्वकीयां प्रसन्नचित्ताश्च समुत्सहन्ते ।। 63।।
व्यालुञ्चनां कारयितुं स्वकीयां प्रसन्नचित्ताश्च समुत्सहन्ते ।। 63।।
पूर्वं धनं प्राप्य समेधयन्ते स्वर्णे परन्त्वद्य तु दर्शयन्ति ।
फर्नीचरैरेव समृद्धिमार्याः प्राप्ते च कालेऽश्रुषु संप्लवन्ते ।। 64।।
फर्नीचरैरेव समृद्धिमार्याः प्राप्ते च कालेऽश्रुषु संप्लवन्ते ।। 64।।
कन्या वृता केनचनोपभुज्य त्यक्ता च तेषां वसतौ स्थितेति ।
बाष्पौघवर्षैः सततं त एते दौर्विध्यमेघागमिनो भवन्ति ।। 65।।
बाष्पौघवर्षैः सततं त एते दौर्विध्यमेघागमिनो भवन्ति ।। 65।।
संयम्य येऽश्वानिव धारयन्ति गावः स्वकाः स्वस्य वशे त एते ।
क्षीरार्णवं शायिनमच्युतं स्वं लक्ष्म्या परीतं हि सदा धयन्ति ।। 66।।
क्षीरार्णवं शायिनमच्युतं स्वं लक्ष्म्या परीतं हि सदा धयन्ति ।। 66।।
अस्थैर्यमञ्चति धनं न पुनर्निजा श्रीः
सा मातृकाऽस्ति न हि तद्धृदयं करालम् ।
सा तं विनाशयति यो विषमिश्रमन्नं
जानन्नपि प्रविजहाति न, भुङ्क्त एव ।। 67।।
सा मातृकाऽस्ति न हि तद्धृदयं करालम् ।
सा तं विनाशयति यो विषमिश्रमन्नं
जानन्नपि प्रविजहाति न, भुङ्क्त एव ।। 67।।
वाणिज्यया चरति कस्य कृतेऽत्र कोऽपि
किं नात्मने, किमु परस्य कृते न तर्हि ।
लाभेन किं करणमात्रतृषा प्रशान्त्यै
तस्य क्षयं प्रकुरुते, न तनोति सेवाम् ।। 68।।
किं नात्मने, किमु परस्य कृते न तर्हि ।
लाभेन किं करणमात्रतृषा प्रशान्त्यै
तस्य क्षयं प्रकुरुते, न तनोति सेवाम् ।। 68।।
सेवाऽऽतुरस्य मनुजस्य भवत्ववश्यं
किन्त्वातुरस्य महतो मतिकोशकस्य ।
ग्रन्थात्मना निजगृहे निभृतस्य सेवाऽप्य-
स्त्येव हन्त महती खलु कापि सेवा ।। 69।।
किन्त्वातुरस्य महतो मतिकोशकस्य ।
ग्रन्थात्मना निजगृहे निभृतस्य सेवाऽप्य-
स्त्येव हन्त महती खलु कापि सेवा ।। 69।।
तत्राऽस्ति यस्य धनिकस्य दृगस्य मूर्ध्नि
देवाः स्वकाननसुरद्रुमपुष्पकाणि ।
वर्षन्ति मेदुरितपुष्करशब्द-शब्द-
ताताः प्रणर्त्तित-सुरप्रमदाः प्रमोदात् ।। 70।।
देवाः स्वकाननसुरद्रुमपुष्पकाणि ।
वर्षन्ति मेदुरितपुष्करशब्द-शब्द-
ताताः प्रणर्त्तित-सुरप्रमदाः प्रमोदात् ।। 70।।
भोजेन यो व्यरचि कश्चन बुद्धिकोष-
स्तं चेद् व्यनीनशदरिः, किमु सोऽस्ति नष्टः ।
किं वान्यथा मलयलेखवपुः स
सम्प्रत्यप्यस्ति लब्धतनुरत्र हि केरलेषु ।। 71।।
स्तं चेद् व्यनीनशदरिः, किमु सोऽस्ति नष्टः ।
किं वान्यथा मलयलेखवपुः स
सम्प्रत्यप्यस्ति लब्धतनुरत्र हि केरलेषु ।। 71।।
आलेख्यचित्रकलया परिमण्डिताय
तस्मै हि केरलभुवः श्रुतिमेदुराय ।
साहित्यकोषपरिवृद्धिकराय का वा
नो भारती दिगृणिनी रविवर्मणेऽस्ति ।। 72।।
तस्मै हि केरलभुवः श्रुतिमेदुराय ।
साहित्यकोषपरिवृद्धिकराय का वा
नो भारती दिगृणिनी रविवर्मणेऽस्ति ।। 72।।
काव्यप्रकाशविरुदं प्रतिपन्नगात्रं
कश्मीरकेषु नववर्षशती-पुरस्तात् ।
पूना न किन्तु परिरक्षितशुद्धमूलं
प्राकाशयन्न किमु केवलकेरला भूः ।। 73।।
कश्मीरकेषु नववर्षशती-पुरस्तात् ।
पूना न किन्तु परिरक्षितशुद्धमूलं
प्राकाशयन्न किमु केवलकेरला भूः ।। 73।।
यल्लोचनं किमपि यो ध्वनिवादमूला-
लोकश्च तावपि तयैव भुवाऽभिरक्षाम् ।
संप्राप्य संप्रति जगज्जनताक्षिकोष-
व्याकोशनक्षमतया भुवि संप्रथेते ।। 74।।
लोकश्च तावपि तयैव भुवाऽभिरक्षाम् ।
संप्राप्य संप्रति जगज्जनताक्षिकोष-
व्याकोशनक्षमतया भुवि संप्रथेते ।। 74।।
यं वल्लभः पठति पाठमुदारधिष्ण्यः
कश्मीरकेषु यदि तं हि सुदाक्षिणात्याः ।
संभावयन्ति ननु तस्य हि मूलभावो
विद्वद्वरेषु बहुमानमितो विभाति ।। 75।।
कश्मीरकेषु यदि तं हि सुदाक्षिणात्याः ।
संभावयन्ति ननु तस्य हि मूलभावो
विद्वद्वरेषु बहुमानमितो विभाति ।। 75।।
केयं स्थितिर्भरतभूर्यदि भारतीं स्वा-
मेकां न चेन्मनुत आद्रियते च मोदात् ।
रे राजनीतिवृषभाः प्रतियान्तु बोधं,
पश्यन्तु च क्व खलु मूलमिहैक्यरत्ने ।। 76।।
मेकां न चेन्मनुत आद्रियते च मोदात् ।
रे राजनीतिवृषभाः प्रतियान्तु बोधं,
पश्यन्तु च क्व खलु मूलमिहैक्यरत्ने ।। 76।।
एकैव भारतभुवश्चतुरन्तशुद्धे-
र्भाषाऽस्ति सा च खलु संस्कृतनामधेया ।
काले गते बहुतिथे भरतावनिः स्वां
यस्यां मनीषितशतानि बबन्ध दार्ढ्यात् ।। 77।।
र्भाषाऽस्ति सा च खलु संस्कृतनामधेया ।
काले गते बहुतिथे भरतावनिः स्वां
यस्यां मनीषितशतानि बबन्ध दार्ढ्यात् ।। 77।।
आसीदभीद्धतप एव निमित्तमत्र
प्राचीनकोषपरिरक्षण-यज्ञकृत्ये ।
तत्त्वद्य न प्रियमिति प्रतिवृत्तपत्र-
पाठं वयं बहुमतत्वमुदीरयामः ।। 78।।
प्राचीनकोषपरिरक्षण-यज्ञकृत्ये ।
तत्त्वद्य न प्रियमिति प्रतिवृत्तपत्र-
पाठं वयं बहुमतत्वमुदीरयामः ।। 78।।
द्यूतेन लब्धबहुकोटिधना अभीता
ये वै भवन्ति विविधाचरितेष्वभिज्ञाः ।
अद्योल्लसन्ति न तु गर्त्तगतार्यकोषा-
पोषाभिरक्षणरता विबुधाग्रगण्याः ।। 79।।
ये वै भवन्ति विविधाचरितेष्वभिज्ञाः ।
अद्योल्लसन्ति न तु गर्त्तगतार्यकोषा-
पोषाभिरक्षणरता विबुधाग्रगण्याः ।। 79।।
द्रोणा अटन्ति बहवोऽद्य न ते लभन्ते
भिक्षां पिबन्ति तनया ननु पिष्टमेषाम् ।
तोयेन मिश्रितमहो पय इत्यहो का
राष्ट्रैक्यभाषितिरियं प्रथमानरावा ।। 80।।
भिक्षां पिबन्ति तनया ननु पिष्टमेषाम् ।
तोयेन मिश्रितमहो पय इत्यहो का
राष्ट्रैक्यभाषितिरियं प्रथमानरावा ।। 80।।
व्रजतु पृथिवि! त्वं वै पातालकुक्षिमिदंयुगे
न खलु मनुजः संप्रत्यास्ते शुचिव्रतभास्वरः ।
शिरसि न युगं तस्य प्रादुर्भवत्यधुना नवं
निशितशिखरं शृङ्गोच्छ्रायस्य, किन्तु न सोऽपशुः ।। 81।।
न खलु मनुजः संप्रत्यास्ते शुचिव्रतभास्वरः ।
शिरसि न युगं तस्य प्रादुर्भवत्यधुना नवं
निशितशिखरं शृङ्गोच्छ्रायस्य, किन्तु न सोऽपशुः ।। 81।।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘अषुचिता’ नाम चतुष्चत्वारिंशः सर्गः ।। 44।।