श्रीवाजपेयी परिपूर्य सम्यक् प्रधानमन्त्रित्वधुरोऽवधिं स्वम् ।
निर्वाचनेनाऽल्पमतः स्वकीयं तत्याज हास्येन पदाधिकारम् ।। 1।।
निर्वाचनेनाऽल्पमतः स्वकीयं तत्याज हास्येन पदाधिकारम् ।। 1।।
प्रधानमन्त्रित्वमवापदेष त्रयोदशेनैव दिनेन सोऽयम् ।
त्रयोदशेनैव मताधिकारनिर्वाचनेनास्तमितो नियत्या ।। 2।।
त्रयोदशेनैव मताधिकारनिर्वाचनेनास्तमितो नियत्या ।। 2।।
तत् त्यागपत्रं स कमालनामा वैज्ञानिको राष्ट्रपतिर्ददर्श ।
अस्तङ्गतिं राहुकषायितस्य विवस्वतो भूय उदित्वरस्य ।। 3।।
अस्तङ्गतिं राहुकषायितस्य विवस्वतो भूय उदित्वरस्य ।। 3।।
ये वाममार्गे ननु विश्वसन्ति तेषामभूत् प्रीतिभृदन्तरं स्वम् ।
भित्तिर्विनाशं गमिता यदा तु किमन्तरायं तु तदा परेभ्यः ।। 4।।
भित्तिर्विनाशं गमिता यदा तु किमन्तरायं तु तदा परेभ्यः ।। 4।।
श्रीसोनिया विश्वसिति स्वसाह्ये येष्वद्य तेषामपि धिग् दलानाम् ।
नेतार उच्चैरवदन्ननङ्गीकारं पदानां च समर्थनं च ।। 5।।
नेतार उच्चैरवदन्ननङ्गीकारं पदानां च समर्थनं च ।। 5।।
स्वयंवरायाव्रजितेषु सोऽयं वरेषु पाणिग्रहणं विनैव ।
विवाहकामो, यदि वाभिलाषः पञ्चालपुत्रीकरपीडनेभ्यः ।। 6।।
विवाहकामो, यदि वाभिलाषः पञ्चालपुत्रीकरपीडनेभ्यः ।। 6।।
सेयं सकम्पस्थिरता च काचित् स्थितिः फलं धिङ् निजतन्त्रतायाः ।
यद्वा दरिद्रत्वपराजितायाश्चितेर् जनस्याधिकृतिं गतायाः ।। 7।।
यद्वा दरिद्रत्वपराजितायाश्चितेर् जनस्याधिकृतिं गतायाः ।। 7।।
ददुर्लिखित्वा तु समर्थनं स्वं दलानि तत्तानि च सोनियायै ।
मनःसु ताटस्थ्यविषेण दिग्धास्तस्थुः परं स्वावसरप्रतीक्षाः ।। 8।।
मनःसु ताटस्थ्यविषेण दिग्धास्तस्थुः परं स्वावसरप्रतीक्षाः ।। 8।।
या प्रोच्चकैर् घोषयितुं प्रवृत्तिरासीद् ‘‘दलं शास्तृ तु संप्रदायि’’।
तन्मूलमेकं ननु भारतीयपदं निजे नाम्नि धृतप्रतिष्ठम् ।। 9।।
तन्मूलमेकं ननु भारतीयपदं निजे नाम्नि धृतप्रतिष्ठम् ।। 9।।
भारतीयजनतापार्टी-ति शास्तृदलस्य नाम ।
ब्रूमस्ततोऽन्ये किमभारतीया येषां दले नास्ति तु भारताख्या ।
अभारतीया यदि नाम किं नु ते भारतीयाः बत सांसदाः स्युः ।। 10।।
अभारतीया यदि नाम किं नु ते भारतीयाः बत सांसदाः स्युः ।। 10।।
अभारतीया यदि भारतीयान् क्षिण्वन्ति निर्वाचनभाषणेषु ।
काष्ठा! भवत्यः किमु तत् सहध्वे तेऽङ्गचरवर्षैः किमु नैव दाह्याः ।। 11।।
काष्ठा! भवत्यः किमु तत् सहध्वे तेऽङ्गचरवर्षैः किमु नैव दाह्याः ।। 11।।
गान्धीति यः कोऽपि बभूव नेता सिक्ताऽवनिर्येन तु शोणितैः स्वैः ।
तस्यैव शिक्षाऽद्य विपाकमुग्रं दोग्धीति काष्ठासु चरन्ति रावाः ।। 12।।
तस्यैव शिक्षाऽद्य विपाकमुग्रं दोग्धीति काष्ठासु चरन्ति रावाः ।। 12।।
यो बाजपेय्यस्त्यटलाभिलानो विप्रः कुमारः खलु सोऽद्य यद् यत्।
चकार कालेन लघीयसापि बंहीयसाऽकारि न तत् पुराणैः ।। 13।।
चकार कालेन लघीयसापि बंहीयसाऽकारि न तत् पुराणैः ।। 13।।
एतेन शत्रुः प्रतिवेशवासी भुशुण्डिकाभिः क्षपितो बलीयः ।
समृद्धिवृद्धया च कृता वराकाश्चाश्चर्यसिन्धावमरीकिणोऽन्धाः ।। 14।।
समृद्धिवृद्धया च कृता वराकाश्चाश्चर्यसिन्धावमरीकिणोऽन्धाः ।। 14।।
संस्मारयत्येष कविः पुराणं प्रधानमन्त्रिप्रवरं कृतासीत् ।
येन स्वहस्ते प्रतिवेशभूमिर् लाहौरसीमामधिगत्य युद्धे ।। 15।।
येन स्वहस्ते प्रतिवेशभूमिर् लाहौरसीमामधिगत्य युद्धे ।। 15।।
श्रीवाजपेयी रणसीम्नि जित्वा पाकानहार्षीन्निजभागमेभ्यः ।
मुखे गतं पिण्डमिवात्मनो दुर्धर्षाऽऽस्यनक्रस्य बलाद् बलस्य ।। 16।।
मुखे गतं पिण्डमिवात्मनो दुर्धर्षाऽऽस्यनक्रस्य बलाद् बलस्य ।। 16।।
स्वीयामिमां भारतवर्षभूमिं ग्रामान् समानध्वभिरेकयित्वा ।
चकार यो दूरदृगेकरूपामन्नेन तोयेन च विद्युता च ।। 17।।
चकार यो दूरदृगेकरूपामन्नेन तोयेन च विद्युता च ।। 17।।
अङ्ग्रेजवाचाऽपि च यो महीयान् पूर्णं हि विश्वं चमदुच्चकार ।
हिन्दीकविर्यश्च सदुक्तिमुक्ताकलापमद्यापि किरन्निवासीत् ।। 18।।
हिन्दीकविर्यश्च सदुक्तिमुक्ताकलापमद्यापि किरन्निवासीत् ।। 18।।
यो राष्ट्रसङ्घेऽपि जहौ न हिन्दीमङ्ग्रेजभाषामिव सव्यसाची ।
तस्याणुशक्तिः प्रथिताऽणुमद्भयो बिभीषिकां संसुषुवे गरिष्ठाम् ।। 19।।
तस्याणुशक्तिः प्रथिताऽणुमद्भयो बिभीषिकां संसुषुवे गरिष्ठाम् ।। 19।।
वीरो हि शत्रुष्वनुकम्पतेऽत्र वीरो हि भीषाऽरिषु विक्रमेत ।
वीरेषु नो माध्यमतेऽस्त्रजातं वीरत्वमस्त्राणि तु पूजयेरन् ।। 20।।
वीरेषु नो माध्यमतेऽस्त्रजातं वीरत्वमस्त्राणि तु पूजयेरन् ।। 20।।
भीष्मादिभिर्भीष्मबलैर्मिलित्वाऽभिमन्युरासीत् क्षपितः परन्तु । .
तत्याज सोऽसून् न पुनर्जगर्ज, गर्जत्यलं किन्त्वटलो महात्मा ।। 21।।
तत्याज सोऽसून् न पुनर्जगर्ज, गर्जत्यलं किन्त्वटलो महात्मा ।। 21।।
अद्यापि युद्धं चलतीति सत्यं, सत्यं न शान्तिं लभते तदेतत् ।
जितं जितं यद् विजहाति हीनं हीनं च वीरो विजिगीषते स्वम् ।। 22।।
जितं जितं यद् विजहाति हीनं हीनं च वीरो विजिगीषते स्वम् ।। 22।।
श्रीसोनिया नाद्य करे प्रधानमन्त्रित्वमायातमुरीचकार ।
यस्तत्र हेतुर्विधिरेव तं वै विदाङ्करोति स्म न कोऽपि भिन्नः ।। 23।।
यस्तत्र हेतुर्विधिरेव तं वै विदाङ्करोति स्म न कोऽपि भिन्नः ।। 23।।
ततस्तदा श्रीसुषमास्वराजः श्रीसोनियायाः शपथक्षणे हि ।
स्वं त्यागपत्रं बत राज्यसंसत्सदस्यतायाः सहसोदघोषत् ।। 24।।
स्वं त्यागपत्रं बत राज्यसंसत्सदस्यतायाः सहसोदघोषत् ।। 24।।
पतिश्च तस्याः खलु राज्यसंसत्सभासदस्योऽभवदेषकोऽपि ।
स्वंत्यागपत्रं शपथक्षणे हि श्रीसोनियाया अभवत् प्रदित्सुः ।। 25।।
स्वंत्यागपत्रं शपथक्षणे हि श्रीसोनियाया अभवत् प्रदित्सुः ।। 25।।
चक्रे प्रतिज्ञां सुषमा विधातुं मौण्ड्यां सितं वस्त्रमधश्च शय्याम् ।
श्रीसोनियाया अधिपत्वकाले यावच्छरीरं ध्रयतेऽदसीयम् ।। 26।।
श्रीसोनियाया अधिपत्वकाले यावच्छरीरं ध्रयतेऽदसीयम् ।। 26।।
सैभाग्यवत्याः कचशातना च भूमावधः सुप्तिरथोऽम्बरस्य ।
श्वेतस्य यद् धारणमेतदस्ति वैधव्यचिह्नं ननु भारतेषु ।। 27।।
श्वेतस्य यद् धारणमेतदस्ति वैधव्यचिह्नं ननु भारतेषु ।। 27।।
मध्यप्रदेशस्य च मुख्यमन्त्री श्रीभारती मुख्यपदं क्षणेन ।
तेनैव हातुं प्रजिघाय पत्रं श्रीनायडूं प्रत्यविलम्बमेव ।। 28।।
तेनैव हातुं प्रजिघाय पत्रं श्रीनायडूं प्रत्यविलम्बमेव ।। 28।।
उभे इमे के अपि वक्तृतायां द्वे ये प्रसिद्धे स्त्रितमे तृतीयः ।
पुंरत्नभूतो व्यरुणत् स्वरेण तारेण गोविन्द इति प्रतीतः ।। 29।।
पुंरत्नभूतो व्यरुणत् स्वरेण तारेण गोविन्द इति प्रतीतः ।। 29।।
विधानभाषाऽनुगुणास्ति किन्तु तात्पर्यमस्यास्ति विरोध एव ।
इत्याममौ स्पष्टमुदारशब्दः आचार्यगोविन्द इति प्रसिद्धः ।। 30।।
इत्याममौ स्पष्टमुदारशब्दः आचार्यगोविन्द इति प्रसिद्धः ।। 30।।
आन्दोलनं कर्त्तुमिमे प्रतिज्ञां चक्रुः समस्तैः सह भाजपायाः ।
सदस्यभूतैः स्वजनैः समग्रे राष्ट्रे विरोधाय तु सोनियायाः ।। 31।।
सदस्यभूतैः स्वजनैः समग्रे राष्ट्रे विरोधाय तु सोनियायाः ।। 31।।
श्रीशङ्कराचार्यवरः स्वरूपानन्दाभिधानस्तु जुघोष तारम् ।
श्रीसोनियाप्यस्ति हि भारतीयैवाऽद्येह राजीववधूत्वयोगात् ।। 32।।
श्रीसोनियाप्यस्ति हि भारतीयैवाऽद्येह राजीववधूत्वयोगात् ।। 32।।
अस्यां विपद्वज्रनिपातनायां देशे पतन्त्यामकुतोमुखीनाः ।
स्तब्धा बभूवुः ककुभः समस्ताः श्रीवाजपेयी जगृहे तु मौनम् ।। 33।।
स्तब्धा बभूवुः ककुभः समस्ताः श्रीवाजपेयी जगृहे तु मौनम् ।। 33।।
सर्व्वोच्चकैर्यः खलु कोऽपि दिल्लयां न्यायालयोऽस्ति प्रथितप्रभावः ।
श्रीसोनियायाः परदेशतायां तत्राप्यराराजत कोऽपि वादः ।। 34।।
श्रीसोनियायाः परदेशतायां तत्राप्यराराजत कोऽपि वादः ।। 34।।
तं साम्प्रतं यः खलु राष्ट्रशीर्षस्थितः कमालः स दिदृक्षुरासीत् ।
न्यायालयः प्रार्थित एष तेन क्षणेऽत्र तं प्रेषयितुं तदानीम् ।। 35।।
न्यायालयः प्रार्थित एष तेन क्षणेऽत्र तं प्रेषयितुं तदानीम् ।। 35।।
अस्यां स्थितौ विषमतापरिपूरितायां
श्रीसोनिया न चकमे भवितुं प्रधानम् ।
तद् युक्तमेव निपुणा क्व पदं दधीरञ्
श्वभ्रे निपातविषमे धरिणीतले स्वम् ।। 36।।
श्रीसोनिया न चकमे भवितुं प्रधानम् ।
तद् युक्तमेव निपुणा क्व पदं दधीरञ्
श्वभ्रे निपातविषमे धरिणीतले स्वम् ।। 36।।
सर्वाणि हन्त नृपनीतिदलान्यकाङ्क्षन्
पातं परं बत फलेग्रहिभाजपायाः ।
तान्येकदा प्रमुखतामुपजापरूपां
स्वीकर्त्तुमैक्यमभजन् विषमे क्षणेस्मिन् ।। 37।।
पातं परं बत फलेग्रहिभाजपायाः ।
तान्येकदा प्रमुखतामुपजापरूपां
स्वीकर्त्तुमैक्यमभजन् विषमे क्षणेस्मिन् ।। 37।।
तैरप्यघोषि बहिरेव वयं स्थितानि
श्रीसोनियाप्रमुखतां सममर्थयामः ।
अर्धं समर्थनमिदं परपातहेतोः
श्रीचन्द्रशेखरमुखैर्विदितं पुरापि ।। 38।।
श्रीसोनियाप्रमुखतां सममर्थयामः ।
अर्धं समर्थनमिदं परपातहेतोः
श्रीचन्द्रशेखरमुखैर्विदितं पुरापि ।। 38।।
तूष्णीमतिष्ठदिह सङ्कटकाल उच्चैः
श्रीविश्वनाथसदृशः प्रथमप्रधानः ।
श्रीचन्द्रशेखरमुखा अपरेऽपि तं हि
मौनेन विस्मयकृताऽन्वसरन् वरिष्ठाः ।। 39।।
श्रीविश्वनाथसदृशः प्रथमप्रधानः ।
श्रीचन्द्रशेखरमुखा अपरेऽपि तं हि
मौनेन विस्मयकृताऽन्वसरन् वरिष्ठाः ।। 39।।
यद् दूरदर्शनमिति प्रतिगेहमुद्य-
न्मैथुन्यचित्रणपटु प्रथते ऽद्य तन्त्रम् ।
तन्नग्नतां प्रकटयद् दिवसत्रयस्य
कोलाहलेन कटु नैव बभूव पूर्णम् ।। 40।।
न्मैथुन्यचित्रणपटु प्रथते ऽद्य तन्त्रम् ।
तन्नग्नतां प्रकटयद् दिवसत्रयस्य
कोलाहलेन कटु नैव बभूव पूर्णम् ।। 40।।
श्रीसोनिया कथयति स्म तु संप्रदाय-
वादेन दूषिततनुं ननु भाजपां याम् ।
तस्या न कोऽपि कुरुते स्म विरोधमुच्चै-
र्नेतृत्वमाप्य कुशलोऽपि जनाधिनेता ।। 41।।
वादेन दूषिततनुं ननु भाजपां याम् ।
तस्या न कोऽपि कुरुते स्म विरोधमुच्चै-
र्नेतृत्वमाप्य कुशलोऽपि जनाधिनेता ।। 41।।
लालूविदूषक इदंक्षण आविरासीन्
मध्यन्दिने ननु दिवाकरतां दधानः ।
तूष्णीमतिष्ठदिह कोऽपि मुलायमाख्यो
मन्त्रीश्वरः किमपि वक्ति न भाजपारिः ।। 42।।
मध्यन्दिने ननु दिवाकरतां दधानः ।
तूष्णीमतिष्ठदिह कोऽपि मुलायमाख्यो
मन्त्रीश्वरः किमपि वक्ति न भाजपारिः ।। 42।।
दत्तं मतं बत समैरपि सोनियायाः
प्राधान्यकाय न तु गान्धिकुलाभिधायै ।
आरावमेतमुदवोढ विशालमेत-
दाकाशरन्ध्रमपि रायबरेलिधाम्नः ।। 43।।
प्राधान्यकाय न तु गान्धिकुलाभिधायै ।
आरावमेतमुदवोढ विशालमेत-
दाकाशरन्ध्रमपि रायबरेलिधाम्नः ।। 43।।
पूर्वं यतोऽभवदतीव दलान्तरेभ्य
आधिक्यमाप्य जयिनी मत इन्दिरेव ।
राजीवगान्धिरपि हन्त तथैव तत्रै-
वैषापि तस्य दयितापि सुतश्च कश्चित् ।। 44।।
आधिक्यमाप्य जयिनी मत इन्दिरेव ।
राजीवगान्धिरपि हन्त तथैव तत्रै-
वैषापि तस्य दयितापि सुतश्च कश्चित् ।। 44।।
एषास्ति बुद्धिरिह तन्त्रमतीव तुच्छा
स्वार्थैकसाधनसमादरिणां जनानाम् ।
भक्तिः क्व, नेतरि? न, तेन वितीर्यमाणे
स्वर्गे हि सा, न खलु सा जनतन्त्रसिद्धिः ।। 45।।
स्वार्थैकसाधनसमादरिणां जनानाम् ।
भक्तिः क्व, नेतरि? न, तेन वितीर्यमाणे
स्वर्गे हि सा, न खलु सा जनतन्त्रसिद्धिः ।। 45।।
रात्रिर्गता बत गता च विलम्ब्य देवी
श्रीसोनिया तदनु राष्ट्रपतिं कलामम् ।
लब्ध्वानुमोदनमियं भविता प्रधान-
मन्त्रीत्यचिन्ति निखिलैरपि राष्ट्ररत्नैः ।। 46।।
श्रीसोनिया तदनु राष्ट्रपतिं कलामम् ।
लब्ध्वानुमोदनमियं भविता प्रधान-
मन्त्रीत्यचिन्ति निखिलैरपि राष्ट्ररत्नैः ।। 46।।
श्रीसोनियाजन्ममहीटलीति ख्यातास्ति या काचन रत्नभूमिः ।
तत्रोत्सविन्यो जनता प्रहर्षपूरेण पूर्णा ननृतुस्तदानीम् ।। 47।।
तत्रोत्सविन्यो जनता प्रहर्षपूरेण पूर्णा ननृतुस्तदानीम् ।। 47।।
श्रीराहुलो रायबरेलिपार्श्वे स्थिते पितृव्यस्य तु सञ्जयस्य ।
निर्वाचनक्षेत्र उवाह शश्वन्निर्वाचनस्यास्य फलेग्रहित्वम् ।। 48।।
निर्वाचनक्षेत्र उवाह शश्वन्निर्वाचनस्यास्य फलेग्रहित्वम् ।। 48।।
देशस्य सर्वोऽपि जनो व्यचारन्न नेहरूवंशमृतेऽत्र कोऽपि ।
प्रशासने योग्यतरोऽस्ति नैव त एव तस्मिन्नितरां नदीष्णाः ।। 49।।
प्रशासने योग्यतरोऽस्ति नैव त एव तस्मिन्नितरां नदीष्णाः ।। 49।।
मत्ता अभूवन्ननृतुः समेऽपि काङ्ग्रेसिनो भर्त्सितभाजपाकाः ।
आलोकशब्दैर्नभसो विशालं कुक्षिं तदा दारयितुं प्रवृत्ताः ।। 50।।
आलोकशब्दैर्नभसो विशालं कुक्षिं तदा दारयितुं प्रवृत्ताः ।। 50।।
काङ्ग्रेसिनो नाशयितुं प्रवृत्ता कार्यालयान् भाजपकेन्द्रभूतान् ।
असम्प्रदाया इति घोषयन्तो निजान् पराँश्चापि ससम्प्रदायान् ।। 51।।
असम्प्रदाया इति घोषयन्तो निजान् पराँश्चापि ससम्प्रदायान् ।। 51।।
न सम्प्रदायत्वमिमेऽधिजग्मुस्तत् कृत्यवर्त्मास्ति धृतव्रतस्य ।
ये निष्क्रियाः केवलमेत एव व्याहर्तुमेवं बत पारयेयुः ।। 52।।
ये निष्क्रियाः केवलमेत एव व्याहर्तुमेवं बत पारयेयुः ।। 52।।
पराजिताः कस्यचनापि हेतोर्यद् भाजपामन्त्रिवरा अनेके ।
तत्रापि हेतुर्ननु घोषणानां व्रातः परेषां परितोषणार्थः ।। 53।।
तत्रापि हेतुर्ननु घोषणानां व्रातः परेषां परितोषणार्थः ।। 53।।
कार्यं कृतं यन्नहि तत् स्मरन्ति जनाः स्मरन्त्येकमपूरि यन्नो ।
तद् बाहुमत्यं प्रतिपत्तुमन्यः क्षमेत किं भावनयाऽभिभूतः ।। 54।।
तद् बाहुमत्यं प्रतिपत्तुमन्यः क्षमेत किं भावनयाऽभिभूतः ।। 54।।
काङ्ग्रेसिभिर्मुस्लिमतोषणायै व्यधायि किं किं न परन्तु सर्वम् ।
पानं मधुक्षीरयुतस्य गव्यस्याऽभूत् तदा कृष्णमहोरगेभ्यः ।। 55।।
पानं मधुक्षीरयुतस्य गव्यस्याऽभूत् तदा कृष्णमहोरगेभ्यः ।। 55।।
राज्यं कृपाणेन हि चालितेन शीर्षं परेषां परिपातनेन ।
समर्जिजीषन्ति तु ये पृथिव्यां ते कस्य मित्राणि कदा भवेयुः ।। 56।।
समर्जिजीषन्ति तु ये पृथिव्यां ते कस्य मित्राणि कदा भवेयुः ।। 56।।
विस्मृत्य सर्व त्वितिहासमेतं श्रीवाजपेयी मतलाभहेतोः ।
अन्वभ्यसर्पद् बत नेहरूणां वंशं च पातं च समं न शङ्कच ।। 57।।
अन्वभ्यसर्पद् बत नेहरूणां वंशं च पातं च समं न शङ्कच ।। 57।।
देसायिनं यः परिपात्य नीत्या प्रधानमन्त्रित्वमवाप वाग्ग्मी ।
स एव धीमानटलः क्रियायाः प्रपाककाले परिपातितो धिक् ।। 58।।
स एव धीमानटलः क्रियायाः प्रपाककाले परिपातितो धिक् ।। 58।।
विश्वं क्षणेस्मिन्नितरां गरिष्ठां प्रतीक्षणां वह्निमिवान्तरेव ।
बभार प्रोन्मादसुमेरुशृङ्गं रूढो दलानामनुयायिवर्गः ।। 59।।
बभार प्रोन्मादसुमेरुशृङ्गं रूढो दलानामनुयायिवर्गः ।। 59।।
आकाशगर्भ परिपूर्य जातस्तेषां स्वरो ब्रह्मभुवि प्रसृप्तम् ।
श्रीब्रह्मदेवोऽपि ततश्चचाल पद्मं तु तस्योदचलद् बलीयः ।। 60।।
श्रीब्रह्मदेवोऽपि ततश्चचाल पद्मं तु तस्योदचलद् बलीयः ।। 60।।
पत्नी तदीया तदिदं निरीक्ष्य ब्राह्मेऽपि लोके समुपद्रवं स्वे ।
ब्राह्मी पुराणी वचसां सवित्री सरस्वती किञ्चन चिन्तिताऽभूत् ।। 61।।
ब्राह्मी पुराणी वचसां सवित्री सरस्वती किञ्चन चिन्तिताऽभूत् ।। 61।।
सा सोनियाया निज आत्मनि स्वं स्पन्दं कथञ्चिद् विदधे सचेष्टम् ।
दूरध्वनिस्तन्निभृतं क्षणेन प्राचीकटद् विस्मितविश्वदृष्टम् ।। 62।।
दूरध्वनिस्तन्निभृतं क्षणेन प्राचीकटद् विस्मितविश्वदृष्टम् ।। 62।।
श्रीसोनिया स्वात्मगिरं चरन्तीमन्तश्चितो व्याहृतये ददौ च ।
प्रधानमन्त्रित्वमहं न शक्ता स्वीकर्त्तुमेषा दिदिपे लिपिश्च ।। 63।।
प्रधानमन्त्रित्वमहं न शक्ता स्वीकर्त्तुमेषा दिदिपे लिपिश्च ।। 63।।
तां वीक्ष्य तुष्टास्त्रिदिवौकसोऽपि हर्षाश्रुवृष्टिं विदधुर्दिवोऽपि ।
भुवोऽपि सन्तप्ततमे निदाघे शीता समुच्छ्वासततिः ससार ।। 64।।
भुवोऽपि सन्तप्ततमे निदाघे शीता समुच्छ्वासततिः ससार ।। 64।।
यैः सोनियाया ददृशे न राष्ट्रपतेः कलामस्य च सङ्गतिस्तैः ।
प्रहर्षचिह्लान्यधिकस्मितानि क्षणेऽत्र तुष्टैर्दधिरे मुखेषु ।। 65।।
प्रहर्षचिह्लान्यधिकस्मितानि क्षणेऽत्र तुष्टैर्दधिरे मुखेषु ।। 65।।
कोलाहलोऽजायत दिक्षु दिक्षु शिरांस्यधुन्वन् व्यथिता अनेके ।
केचित् स्वदाहप्रतिपत्तितो वै बलान्निरुद्धाः परिरक्षकैः स्वैः ।। 66।।
केचित् स्वदाहप्रतिपत्तितो वै बलान्निरुद्धाः परिरक्षकैः स्वैः ।। 66।।
विश्वासघातोऽयमिमान् प्रति स्वान् सर्वान् ददुर्ये स्वमतानि तस्यै ।
प्रधानमन्त्रित्वमिहेक्षमाणैर्न ते क्रमं सोढुमशक्नुवंस्तम् ।। 67।।
प्रधानमन्त्रित्वमिहेक्षमाणैर्न ते क्रमं सोढुमशक्नुवंस्तम् ।। 67।।
विपक्षिणः संप्रति पक्षिणश्च सभ्याः सभां चक्रुरिमे मिलित्वा ।
साश्रूणि तद्भाषितशंसितानि श्रुतानि वै दूरदृशा जनौघैः ।। 68।।
साश्रूणि तद्भाषितशंसितानि श्रुतानि वै दूरदृशा जनौघैः ।। 68।।
सर्वैरवोचि प्रथमानखेदैः पुनर्विचारं निजनिश्चयेऽसौ ।
कुर्यादिति श्रीर्भरतावनिश्च व्यकम्पतोच्चैर् विफलत्वतर्कैः ।। 69।।
कुर्यादिति श्रीर्भरतावनिश्च व्यकम्पतोच्चैर् विफलत्वतर्कैः ।। 69।।
होराचतुष्कं तदिदं तदानीं प्रासारयद् दूरदृगप्युदारम् ।
अथोपतस्थेऽन्तिमभाषितान्ते श्रीसोनियापि ध्वनियन्त्रमुच्चैः ।। 70।।
अथोपतस्थेऽन्तिमभाषितान्ते श्रीसोनियापि ध्वनियन्त्रमुच्चैः ।। 70।।
अश्रूयतास्या वचनं ‘‘कृतज्ञा भवामि सर्वान् भवतः प्रतीयम् ।
किन्त्वस्मि शक्ता नहि निश्चयं स्वं विपर्य्ययायोपपदं प्रदातुम् ।। 71।।
किन्त्वस्मि शक्ता नहि निश्चयं स्वं विपर्य्ययायोपपदं प्रदातुम् ।। 71।।
एतावदुक्त्वोपविशन्त्यसौ श्रीश्रीसोनियोत्थापयति स्म चित्ते ।
नैकान् वितर्कानपरस्य कस्याप्यभीष्टशिष्टस्य विचिन्तनाय’’।। 72।।
नैकान् वितर्कानपरस्य कस्याप्यभीष्टशिष्टस्य विचिन्तनाय’’।। 72।।
दृष्ट्वा ‘‘मनोमोहनसिंह’’ धाम्नि रक्षाव्यवस्थां महतीं तदैव ।
तन्नाममालामजपन् वराका दूरध्वनिध्वानकृतः प्रवाचः ।। 73।।
तन्नाममालामजपन् वराका दूरध्वनिध्वानकृतः प्रवाचः ।। 73।।
सायन्तनं यावदिमं महान्तमर्थस्य शास्त्रेऽथ च मन्त्रिणं च ।
नेतृत्वमुद्वासितभिन्ननामा श्रीसोनिया प्रापयदेव धन्या ।। 74।।
नेतृत्वमुद्वासितभिन्ननामा श्रीसोनिया प्रापयदेव धन्या ।। 74।।
श्रीमान् मनोमोहनसिंहनामा प्रधानमन्त्री भवतीति वीक्ष्य ।
पञ्चापभूमिः प्रमदा ननर्त्त प्रहर्षनृत्यानि च दिक्षु चक्रे ।। 75।।
पञ्चापभूमिः प्रमदा ननर्त्त प्रहर्षनृत्यानि च दिक्षु चक्रे ।। 75।।
सर्वे गुरुद्वारतया प्रसिद्धाः शिष्यान्वयोपास्तिगृहोत्तमाश्च ।
प्रहर्षपूर्णा मधुमिष्टमुच्चैर् व्यतीतरंल्लङ्गरकं च चक्रुः ।। 76।।
प्रहर्षपूर्णा मधुमिष्टमुच्चैर् व्यतीतरंल्लङ्गरकं च चक्रुः ।। 76।।
यः पूर्वमासीन्ननु विश्वविद्यालयाऽनुदानाधिपतिस्ततोऽपि ।
पूर्वं स्वशास्त्रे शरदां दशभ्योऽधिकानि चाध्यापनकर्म्मलग्नः ।। 77।।
पूर्वं स्वशास्त्रे शरदां दशभ्योऽधिकानि चाध्यापनकर्म्मलग्नः ।। 77।।
सोऽद्य ग्रहीता शपथं प्रधानमन्त्रिप्रतिष्ठां गमितः सुमेधाः ।
इदं विचार्यास्ति सनातनोऽपि प्रसन्नचित्तोऽद्य गुणानुरागात् ।। 78।।
इदं विचार्यास्ति सनातनोऽपि प्रसन्नचित्तोऽद्य गुणानुरागात् ।। 78।।
प्रधानमन्त्रित्वतिरस्क्रियायां पर्य्याय एषोऽस्ति तृतीयकश्च ।
इतश्च पूर्व्वं ननु देविलालः श्रीविश्वनाथाय ददौ पदं तत् ।। 79।।
इतश्च पूर्व्वं ननु देविलालः श्रीविश्वनाथाय ददौ पदं तत् ।। 79।।
मध्यप्रदेशेषु बभूव माता श्रीसिन्धिया किन्तु ददौ पदं स्वम् ।
गोविन्दनारायणसिंहनाम्ने सुधीवराणां प्रवराय पूर्व्वम् ।। 80।।
गोविन्दनारायणसिंहनाम्ने सुधीवराणां प्रवराय पूर्व्वम् ।। 80।।
सिंहोऽर्जुनः किञ्च शरत्पवारः स्वं स्वं प्रधानत्वमुदीक्षमाणौ ।
तूष्णीं हि कालेऽत्र तु तस्थतुः सः साहाय्ययोगैकरसो महार्हः ।। 81।।
तूष्णीं हि कालेऽत्र तु तस्थतुः सः साहाय्ययोगैकरसो महार्हः ।। 81।।
श्रीवाजपेयी ननु काष्ठजिह्नो भूत्वेव मौनं न जहाविदानीम् ।
मौनं जहौ यत् क्वचनाऽडवानी तदप्यभूत् सत्यधुरं दधानम् ।। 82।।
मौनं जहौ यत् क्वचनाऽडवानी तदप्यभूत् सत्यधुरं दधानम् ।। 82।।
अब्रूत सोऽयं प्रवरो मनीषी ‘जनो न वै भाजपयाऽस्ति तुष्टः ।
परन्तु काङ्ग्रेसदलेऽपि तस्य नास्तेऽतिमानस्तंदिदं न मिथ्या’ ।। 83।।
परन्तु काङ्ग्रेसदलेऽपि तस्य नास्तेऽतिमानस्तंदिदं न मिथ्या’ ।। 83।।
श्रीराहुलस्तद्भगिनी च मात्रे श्रीसोनियायै वदतः स्म धीरौ ।
पित्रा वियुक्तौ न हि साम्प्रतं तु मातुर्वियोगं बत सोढुमुत्कौ ।। 84।।
पित्रा वियुक्तौ न हि साम्प्रतं तु मातुर्वियोगं बत सोढुमुत्कौ ।। 84।।
श्रीराहुलो मन्त्रिपदं न लब्धेत्यजूघुषत् काल इहास्ति सा तु ।
मातुः पदस्यानुसृतिर्महार्हा पित्रोः पदं प्राप्स्यति सोऽप्यवश्यम् ।। 85।।
मातुः पदस्यानुसृतिर्महार्हा पित्रोः पदं प्राप्स्यति सोऽप्यवश्यम् ।। 85।।
या वै प्रियङ्कच तनयास्ति तस्याः श्रीसोनियाया ननु सापि नोत्का ।
यः सञ्जयस्यास्ति सुतः स सभ्यो माता च तस्यास्ति तथैव शिष्टा ।। 86।।
यः सञ्जयस्यास्ति सुतः स सभ्यो माता च तस्यास्ति तथैव शिष्टा ।। 86।।
परं द्वयं भाजपया गृहीतं विरुद्धवाक् किन्तु न सोनियायाम् ।
दूरङ्गमं ज्योतिरिदंयुगेऽपि कृतास्पदं तिष्ठति जागरूके ।। 87।।
दूरङ्गमं ज्योतिरिदंयुगेऽपि कृतास्पदं तिष्ठति जागरूके ।। 87।।
इदंक्षणे तिष्ठति जागरूकः सर्वोऽपि वै सांसदतां य आप्तः ।
किं कस्य भावि क्षितिपत्वमद्यतनं प्रजागर्ति यतोऽभिमानः ।। 88।।
किं कस्य भावि क्षितिपत्वमद्यतनं प्रजागर्ति यतोऽभिमानः ।। 88।।
प्राध्यापकः सन्नपि केन्द्रमन्त्री भूत्वा जहौ यः प्रतिपत्तिमुच्चाम् ।
स तीर्थराजेऽवनिसाद् यदद्य संदृश्यते क्वास्य मनोहरत्वम् ।। 89।।
स तीर्थराजेऽवनिसाद् यदद्य संदृश्यते क्वास्य मनोहरत्वम् ।। 89।।
मानवसंसाधनविकासमन्त्री डॉ मुरलीमनोहरजोशी प्रयागतो निर्वाचयितुं नाक्षमत। स हि सममेव कार्यधुरं बभार इलाहाबादविश्वविद्यालये विज्ञानविषये प्रोफेसरपदम् अपरं च केन्द्रीयं मन्त्रिपदम्।
पत्रोत्तरं यो न ददौ समाने प्राध्यापकत्वेऽपि च तस्थिवद्भयः ।
तस्य स्मयेनोन्मथितत्वमस्ति न चेदशिष्टत्वमिहास्य शिष्टम् ।। 90।।
तस्य स्मयेनोन्मथितत्वमस्ति न चेदशिष्टत्वमिहास्य शिष्टम् ।। 90।।
यस्त्रैपुरं सुन्दरतातिशीतिपदं जनन्याः खनति स्वभक्त्या ।
तस्योत्खनित्रस्य कृपाम्बुवर्षं क्व वा तनूजस्य जगज्जनन्याः ।। 91।।
तस्योत्खनित्रस्य कृपाम्बुवर्षं क्व वा तनूजस्य जगज्जनन्याः ।। 91।।
अर्धोरुकं यो वहति स्म शाखाचरः स एवाद्य गुरुर्गरीयान् ।
येषां कृते प्रोन्मथितात्मनां का त्वन्या गतिः स्यात् प्रविहाय पातम् ।। 92।।
येषां कृते प्रोन्मथितात्मनां का त्वन्या गतिः स्यात् प्रविहाय पातम् ।। 92।।
सप्तर्षिकाङ्ग्रेसमिति प्रसिद्धं किञ्चिन्महानाटकमस्मदीयम् ।
अद्य प्रवृत्ता पुनरुक्तिरस्य नूत्ने पटाक्षेप इह प्रवृत्ते ।। 93।।
अद्य प्रवृत्ता पुनरुक्तिरस्य नूत्ने पटाक्षेप इह प्रवृत्ते ।। 93।।
दलान्तराणामनुशास्तिहीनं न शासनं चेद् दशकत्रयं नः ।
चचाल, काङ्ग्रेसदलानुशास्तिं दधच्चलच्चेदधिकं कथं नु ।। 94।।
चचाल, काङ्ग्रेसदलानुशास्तिं दधच्चलच्चेदधिकं कथं नु ।। 94।।
रामेण सार्धं यदि विद्यते वो द्वेषो भवन्तो ननु तालिवानाः ।
गवां सहस्रं विनिहिंस्य चक्रुर्ये स्वस्य धर्मस्य विशुद्धिमुच्चैः ।। 95।।
गवां सहस्रं विनिहिंस्य चक्रुर्ये स्वस्य धर्मस्य विशुद्धिमुच्चैः ।। 95।।
रामश्च कृष्णश्च न संप्रदायदीक्षाश्रयत्वं श्रयितुं क्षमेते ।
असंप्रदायी यदि कोऽपि गान्धीजवाहरौ चेद् वदितुं क्षमेत ।। 96।।
असंप्रदायी यदि कोऽपि गान्धीजवाहरौ चेद् वदितुं क्षमेत ।। 96।।
रामस्य कृष्णस्य मुहम्मदस्य यीशामसीहस्य च सम्प्रदायान् ।
अतिक्रमन्ते न हि सम्प्रदाया ये गान्धिनाम्नाऽभिमतास्त एव ।। 97।।
अतिक्रमन्ते न हि सम्प्रदाया ये गान्धिनाम्नाऽभिमतास्त एव ।। 97।।
श्रीमाँस्त्रिपाठी कमलापतिर्नो कृच्छ्रेऽपि काले परितः प्रवृत्ते ।
नैवात्यजच्चेत् प्रियदर्शिनीं तां जवाहरस्यार्यमतेस्तनूजाम् ।। 98।।
नैवात्यजच्चेत् प्रियदर्शिनीं तां जवाहरस्यार्यमतेस्तनूजाम् ।। 98।।
कथन्नु तत्पुत्रवधूं जहीत श्रीमान् मनोमोहनसिंह एषः ।
विश्वास एषोऽद्य फलेग्रहित्वं दधाविदानीं नृपनीतिमार्गे ।। 99।।
विश्वास एषोऽद्य फलेग्रहित्वं दधाविदानीं नृपनीतिमार्गे ।। 99।।
भवति नहि जनः सदैकशुद्धो
भवति न चापि सदैव शुद्धिहीनः ।
जलमिव स हि भूमिमात्रभेदा-
दधिगुणतामधिदोषतां च धत्ते ।। 100।।
भवति न चापि सदैव शुद्धिहीनः ।
जलमिव स हि भूमिमात्रभेदा-
दधिगुणतामधिदोषतां च धत्ते ।। 100।।
नाम्ना कलामोऽर्थगतं कमालं दधन्महान् राष्ट्रपतिर्नवीनम् ।
नेतारमद्यैव गृहीत-राष्ट्र-प्रधानमन्त्रित्वधुरं व्यधत्त ।। 101।।
नेतारमद्यैव गृहीत-राष्ट्र-प्रधानमन्त्रित्वधुरं व्यधत्त ।। 101।।
कमालपदमुर्दूभाषायाः। आश्चर्यमस्यार्थः।
इति स्वातन्त्र्यसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ मनमोहनसिंहस्याद्यं प्रधानमन्त्रित्वं नाम चतुस्त्रिंशः सर्गः ।। 34।।
12 अप्रैल, 2005
अशोककक्षे महति प्रधानमन्त्रित्वमाप्यापगताः समेऽपि ।
श्रीविश्वनाथप्रमुखास्तदानीमुपस्थिता हर्षभृतो व्यराजन् ।। 1।।
श्रीविश्वनाथप्रमुखास्तदानीमुपस्थिता हर्षभृतो व्यराजन् ।। 1।।
श्रीसोनियापि प्रथितप्रभावेष्वेषु प्रसन्ना तु तथा चकासे ।
यथा कला चन्द्रमसो द्वितीयातिथौ ग्रहैर्हन्त वृता चकास्ति ।। 2।।
यथा कला चन्द्रमसो द्वितीयातिथौ ग्रहैर्हन्त वृता चकास्ति ।। 2।।
प्रणवः प्रथमस्ततोऽर्जुनश्च जगृहाते शपथं प्रहृष्टचित्तौ ।
अनयोर्हि बभूव राजनीतिर्वशिनी काश्चन वै समा इदानीम् ।। 3।।
अनयोर्हि बभूव राजनीतिर्वशिनी काश्चन वै समा इदानीम् ।। 3।।
न हि सोनिययोत्तरप्रदेशमुखमन्त्रिप्रवरौ कृतौ तदानीम् ।
स्मृतिमल्पतमाणुमात्रिकामप्यधिरूढौ स यमश्च सा च माया ।। 4।।
स्मृतिमल्पतमाणुमात्रिकामप्यधिरूढौ स यमश्च सा च माया ।। 4।।
यमो मुलायमः। माया मायावती।
अनुकूलयति स्म सोनियां या विविधैः सम्भृतमन्त्रकैः पदैस्ताम् ।
स्मरति स्म न सोनिया स्वमायामिव मायावतिकामिदंक्षणे किम् ।। 5।।
स्मरति स्म न सोनिया स्वमायामिव मायावतिकामिदंक्षणे किम् ।। 5।।
अधिकश्चतुरो हि वञ्च्यते वै चतुरैर्मायिकजालिकैः क्षणेन ।
अभिरक्षति तं सनातनाख्यो भगवानप्यभिमानिनं तदा नो ।। 6।।
अभिरक्षति तं सनातनाख्यो भगवानप्यभिमानिनं तदा नो ।। 6।।
अपि सुन्दरगात्रयष्टिकायामपि धेन्वां नहि बालिशोपि धत्ते ।
मतिसीम्नि मनागपि स्वभक्तिं न पयो या प्रददाति सेवकेभ्यः ।। 7।।
मतिसीम्नि मनागपि स्वभक्तिं न पयो या प्रददाति सेवकेभ्यः ।। 7।।
भगवानपि रामचन्द्र उच्चै रटति स्माऽटलवाजपेयिनाम ।
नहि यः स्मरति स्म संविधाने यवनध्वंसविरोधमध्ययोध्यम् ।। 8।।
नहि यः स्मरति स्म संविधाने यवनध्वंसविरोधमध्ययोध्यम् ।। 8।।
अधिदिल्लि महत्तमार्घ्यलभ्येऽतिथिगेहे गतचिन्तमावसन्ती ।
विविधैर्बहुमूल्यवस्तुदानैः सुहृदो या स्म वशीकरोति साऽपि ।। 9।।
विविधैर्बहुमूल्यवस्तुदानैः सुहृदो या स्म वशीकरोति साऽपि ।। 9।।
मदरासगताऽभिनीतिविद्यानिपुणा हन्त जयाऽपि न स्मृताऽत्र ।
ललितां ललितेतरां नु दूनो हृदये ध्यायति चेन्न, दूषिता सा ।। 10।।
ललितां ललितेतरां नु दूनो हृदये ध्यायति चेन्न, दूषिता सा ।। 10।।
कृकवाकुकणैरुपार्ज्य लक्ष्मीमधिकारागृहमध्युवास यो वै ।
न विहारगृहः स राबड़ीशः कुरुते सम्प्रति रोधमाप्य लाभम् ।। 11।।
न विहारगृहः स राबड़ीशः कुरुते सम्प्रति रोधमाप्य लाभम् ।। 11।।
अटलस्य विपर्ययं गता धीर्यदि नो हेतुरिहास्ति को यदस्य ।
प्रवरा अपि मन्त्रिणो न लब्धा जननिर्वाचनसाफलीमिदानीम् ।। 12।।
प्रवरा अपि मन्त्रिणो न लब्धा जननिर्वाचनसाफलीमिदानीम् ।। 12।।
ननु यो मम तस्य मूषकोऽपि प्रियतां मे भजते, परस्य किन्तु ।
बहु वाङ्मयकृद् विदाम्वरोऽपि तृणकल्पो हि, ततोऽधिको न मह्यम् ।। 13।।
बहु वाङ्मयकृद् विदाम्वरोऽपि तृणकल्पो हि, ततोऽधिको न मह्यम् ।। 13।।
इति या प्रतिपत्तिरस्ति सापि प्रतिकोणं खलु तेषु भाव्यमाना ।
फलमेतदहो कटुत्वदिग्धं ननु तस्या अपि शल्यकल्पगात्र्याः ।। 14।।
फलमेतदहो कटुत्वदिग्धं ननु तस्या अपि शल्यकल्पगात्र्याः ।। 14।।
मम ये मतदानतत्परास्तद्गृहमार्गाः सुपथा दृढं भवेयुः ।
अपरे मतदातृसूचिकायामपि न स्थानमवाप्नुयुः कुतोऽपि ।। 15।।
अपरे मतदातृसूचिकायामपि न स्थानमवाप्नुयुः कुतोऽपि ।। 15।।
इति यत् खलु चिन्तितं ततश्च द्रुतचित्ताः शतशः सहस्रशश्च ।
जनतान्त्रिकशासनप्रतिष्ठा अपि ताटस्थ्यमवाप्नुवन् सदुःखम् ।। 16।।
जनतान्त्रिकशासनप्रतिष्ठा अपि ताटस्थ्यमवाप्नुवन् सदुःखम् ।। 16।।
अटलो यदुदाजहार पश्चात्तपनं तस्य निजे दले व्यभावि ।
यदकारि दलेन नाकरिष्यद् यदि नामैतदवाप्स्यदात्मलाभम् ।। 17।।
यदकारि दलेन नाकरिष्यद् यदि नामैतदवाप्स्यदात्मलाभम् ।। 17।।
गुजरातभुवि प्रकामवामघटनाऽभूत् तु यदा तदाऽकरिष्यत् ।
यदि कञ्चन मोदिनामधारिजननेतारमिदं दलं बहिष्ठम् ।। 18।।
यदि कञ्चन मोदिनामधारिजननेतारमिदं दलं बहिष्ठम् ।। 18।।
अभविष्यदथो जयोऽस्मदीयो नियतं तद् यदकारि नो ततो हि ।
गमिता नियतं पराभवं वै वयमेतच्च जगाद वाजपेयी ।। 19।।
गमिता नियतं पराभवं वै वयमेतच्च जगाद वाजपेयी ।। 19।।
तदिदं परिपठ्या वृत्तपत्रेष्वखिला भाजपनायका विरुद्धाः ।
व्यरुणन्नटलं विहाय शिक्षाधिकृतं जोषिणमेकलं ततश्च ।। 20।।
व्यरुणन्नटलं विहाय शिक्षाधिकृतं जोषिणमेकलं ततश्च ।। 20।।
यदकारि तदेव युक्तमासीदवदन्नैनदमुष्य हन्त पक्ष्याः ।
मतिरेव विपर्ययं प्रयाति प्रथमं सङ्कट आगते समीपम् ।। 21।।
मतिरेव विपर्ययं प्रयाति प्रथमं सङ्कट आगते समीपम् ।। 21।।
अटलोऽप्यथ वक्ति नाशयो मे वचनस्यावगतः सुहृद्भिरद्धा ।
स हि मोदिविरोधलेशमात्रेऽप्यभवन्नानुगुणो कथञ्चनापि ।। 22।।
स हि मोदिविरोधलेशमात्रेऽप्यभवन्नानुगुणो कथञ्चनापि ।। 22।।
गुजरातगतेषु विद्रवेषु मयका मोदिमहाशयस्तदानीम् ।
अनुपालयतु स्वराजधर्ममिति वर्णैरुपदिष्ट एष आसीत् ।। 23।।
अनुपालयतु स्वराजधर्ममिति वर्णैरुपदिष्ट एष आसीत् ।। 23।।
वचनं त्विदमस्ति तान्त्रिकत्वं दधदाम्नायविदां समाज उच्चैः ।
उचितं यदकारि मोदिनाऽऽसीदिति तात्पर्यमगृह्यतास्य पत्रैः ।। 24।।
उचितं यदकारि मोदिनाऽऽसीदिति तात्पर्यमगृह्यतास्य पत्रैः ।। 24।।
न हि वाक्पटुतास्ति सङ्गतार्था यदि सा दोग्धि न निश्चितार्थदुग्धम् ।
इह भुङ्क्ष्व विषं च भुङ्क्ष्व मित्रेत्यदसीयोऽनुकृतोऽस्ति हन्त पन्थाः ।। 25।।
इह भुङ्क्ष्व विषं च भुङ्क्ष्व मित्रेत्यदसीयोऽनुकृतोऽस्ति हन्त पन्थाः ।। 25।।
यदकारि विना विचारमेतत् परिणामेऽस्ति विपर्ययेण जुष्टम् ।
यदि तस्य तु मार्ज्जनं क्रियेत वचसां हन्त तथाविधप्रवृत्त्या ।। 26।।
यदि तस्य तु मार्ज्जनं क्रियेत वचसां हन्त तथाविधप्रवृत्त्या ।। 26।।
अधुना बत संकटं प्रपन्ना निखिला भाजपनायकाः गतेद्युः ।
अभवन् प्रभवः स्वमन्त्रिभावादिह ते हन्त भवन्ति कान्दिशीकाः ।। 27।।
अभवन् प्रभवः स्वमन्त्रिभावादिह ते हन्त भवन्ति कान्दिशीकाः ।। 27।।
मुरली च मनोहरश्च जोशी समभूद् राज्यसभासदस्य उच्चैः ।
अटलश्च समर्थनाय हिन्दूजनताया उदजूघुषद् बलीयः ।। 28।।
अटलश्च समर्थनाय हिन्दूजनताया उदजूघुषद् बलीयः ।। 28।।
बहुसंख्यकतां गता अपीमे विशरारुत्वविषेण दिग्धगात्राः ।
क्व नु हिन्दव आप्नुयुः प्रभुत्वं किमु वा शात्रवमन्यथाक्रियासुः ।। 29।।
क्व नु हिन्दव आप्नुयुः प्रभुत्वं किमु वा शात्रवमन्यथाक्रियासुः ।। 29।।
अपि दाशरथौ निरुद्धजिह्नाः कृपणा एत इदंक्षणेऽत्र देशे ।
क्रमणां क्व नु पादयोः श्रयेरन् भ्रमिमात्मन्यपि ये धयन्ति तीव्राम् ।। 30।।
क्रमणां क्व नु पादयोः श्रयेरन् भ्रमिमात्मन्यपि ये धयन्ति तीव्राम् ।। 30।।
अपि सोदर उच्चकैरिदानीं क्षपयत्यात्तबलः स्वसोदरं चेत् ।
क्व नु मानवभूरियं निशान्ते क्षपयित्री स्वपितिं नितान्तदीर्घाम् ।। 31।।
क्व नु मानवभूरियं निशान्ते क्षपयित्री स्वपितिं नितान्तदीर्घाम् ।। 31।।
वरटां निजगेहिनीं चिकीर्षन् करटः कोऽपि कदाऽपि सिद्धिमाप्तः ।
करटं प्रति दृश्यतेऽनुरक्ता वरटा क्वापि कदापि किञ्च लोके ।। 32।।
करटं प्रति दृश्यतेऽनुरक्ता वरटा क्वापि कदापि किञ्च लोके ।। 32।।
करटं वरटा जिहिंस गेहमुपयातं रहसि स्वमित्रशस्त्रैः ।
अभियोगमिमं निरीक्ष्य भोगोऽप्यभवद् हन्त नताननोधिलज्जः ।। 33।।
अभियोगमिमं निरीक्ष्य भोगोऽप्यभवद् हन्त नताननोधिलज्जः ।। 33।।
वरटां करटस्य धर्मपत्नी पतिभुक्तामथ गर्भिणीं च हत्वा ।
निभृतैव वितिष्ठते स्म मासान् सुबहून् याति च वन्दितां स्वयं हि ।। 34।।
निभृतैव वितिष्ठते स्म मासान् सुबहून् याति च वन्दितां स्वयं हि ।। 34।।
स्मरणीयमत्र उत्तरप्रदेशराज्यस्य मन्त्रिपदेऽभिषिक्तस्यामरमणित्रिपाठिनः पत्नी मधुमणिः स्वपत्यैव गर्भिणीं योषित्कविं मधुमतीशुक्लां घातयामास।
रमणोऽप्यथ कोऽपि गेहिनीं स्वां प्रसभं मारयितुं बभूव सृष्टः ।
निभृतं शवमग्निनैतदीयं शकलीकृत्य बभर्ज तन्दुराग्नौ ।। 35।।
निभृतं शवमग्निनैतदीयं शकलीकृत्य बभर्ज तन्दुराग्नौ ।। 35।।
तंदूरमिति लोकभाषापदं तन्दूर इति पाचनी तस्यार्थः।
न कियान् ननु मानुषे निकाये ज्वलिति क्रूरकथाचिताग्निरद्य ।
मनुजो दनुजायते परन्तु क्वचिदप्यस्य न दृश्यते चिकित्सा ।। 36।।
मनुजो दनुजायते परन्तु क्वचिदप्यस्य न दृश्यते चिकित्सा ।। 36।।
व्यभिचारकथामिमामिदानीं प्रमुखत्वं बत लम्भयन्ति तज्ज्ञाः ।
निजवृत्तदले लभन्त एते जनतन्त्रप्रियतां च देशकेऽस्मिन् ।। 37।।
निजवृत्तदले लभन्त एते जनतन्त्रप्रियतां च देशकेऽस्मिन् ।। 37।।
अपि ताजमहीं निखातगर्भां विदधे काचन रुक्मिणी च जाता ।
अथ भर्त्सयति स्म कापि मायाऽप्यटलं दर्शयति स्म च स्वलक्ष्मीम् ।। 38।।
अथ भर्त्सयति स्म कापि मायाऽप्यटलं दर्शयति स्म च स्वलक्ष्मीम् ।। 38।।
इयमद्यतनी निशास्ति कृष्णा सरवाप्यस्ति नितान्तनीरवेयम् ।
कविताऽत्र विरौति झिल्लिकेव न तु तां कोऽपि शृणोति दुन्दुभिघ्नः ।। 39।।
कविताऽत्र विरौति झिल्लिकेव न तु तां कोऽपि शृणोति दुन्दुभिघ्नः ।। 39।।
मनमोहनसिहंशासनेस्मिन् दलमुख्या अपि भाजपासदस्याः ।
इह सन्ति गवेषणीयवृत्ता अथ सर्वे निगडैर्निरोध्यपादाः ।। 40।।
इह सन्ति गवेषणीयवृत्ता अथ सर्वे निगडैर्निरोध्यपादाः ।। 40।।
उमया ननु मध्यमुख्यमन्त्रिपदमुत्सृज्य वृता स्वयं हि कारा ।
हुवलीदगृहे त्रिरङ्गकेतुप्रसरागस्कृदिति प्ररूढदुष्ट्याच ।। 41।।
हुवलीदगृहे त्रिरङ्गकेतुप्रसरागस्कृदिति प्ररूढदुष्ट्याच ।। 41।।
हुवलीति नगरनाम। तत्र ईदनाम्नि यवनपर्व्वणि।
उमया विधिसम्मतापि याच्चातत न कृता हन्त जमानतस्य हेतोः ।
तदिदं भविता त्रिरङ्ग-राष्ट्रध्वज-परिभावनमेव भूय एव ।। 42।।
जमानतमिति कारागृहबन्धनमुक्तिसमादेशः।तदिदं भविता त्रिरङ्ग-राष्ट्रध्वज-परिभावनमेव भूय एव ।। 42।।
स्वयमेव तु रेलयानतोऽसौ महतीमप्यकरोत् तु तां स्वयात्राम् ।
जनता प्रतिरेलयानरोधं जयघोषैर्दिवमापुपूर तस्यै ।। 43।।
जनता प्रतिरेलयानरोधं जयघोषैर्दिवमापुपूर तस्यै ।। 43।।
हिमशैलत एषका समुद्रावधि चेद् भूर्भरतस्य नास्ति भिन्ना ।
किमु तन्निजराष्ट्रकेतुरस्यां क्वचिदप्यस्ति निरुद्धसंप्रसारः ।। 44।।
किमु तन्निजराष्ट्रकेतुरस्यां क्वचिदप्यस्ति निरुद्धसंप्रसारः ।। 44।।
हुवलीति समुद्रसीम्नि काचिन्नगरी दक्षिणपश्चिमे स्थलेऽस्ति ।
न हि तत्र निषेधवेषकैषा निजराष्ट्रध्वजवर्जनास्ति वर्ज्या ।। 45।।
न हि तत्र निषेधवेषकैषा निजराष्ट्रध्वजवर्जनास्ति वर्ज्या ।। 45।।
उमया पुनरेव भाजपाख्यं दलमूरीकृतमाशु, यत् स्वयं ताम् ।
निरकासयदात्मनो विरुद्धां गिरमस्या असहिष्णु रोषणं च ।। 46।।
निरकासयदात्मनो विरुद्धां गिरमस्या असहिष्णु रोषणं च ।। 46।।
दुरवापमवाप मुख्यमन्त्रिपदमस्याः परमेष यश्च गौरः ।
सहसा सुतमृत्युदुःखदावानलमुच्चैः स विवेश राजधान्याम् ।। 47।।
सहसा सुतमृत्युदुःखदावानलमुच्चैः स विवेश राजधान्याम् ।। 47।।
परमाणुबलं बलं च सीमामभितः संस्थितमेषु वासरेषु ।
मनमोहनसंज्ञकः प्रधानपुरुषस्तद्द्वितयं चकार सौम्यम् ।। 48।।
मनमोहनसंज्ञकः प्रधानपुरुषस्तद्द्वितयं चकार सौम्यम् ।। 48।।
अथ सम्प्रति सेवते निशां वै तिमिरावेष्टितवग्रहां हि देशः ।
जनता नहि हिन्दुतां पृणीते न च भूम्ना यवनत्वमेव धृष्टम् ।। 49।।
जनता नहि हिन्दुतां पृणीते न च भूम्ना यवनत्वमेव धृष्टम् ।। 49।।
अथ साम्प्रतिकेषु वासरेषु सहसा भूमिरकम्पतैषकोच्चैः ।
क्षणमात्रसमुद्रभङ्गनिघ्ना जनता येन विलोपयाम्बभूवे ।। 50।।
क्षणमात्रसमुद्रभङ्गनिघ्ना जनता येन विलोपयाम्बभूवे ।। 50।।
पतिमृत्युसुदुःखिता युवत्यो युवकाश्चापि वियोजिताः प्रियाभ्यः ।
क्व नु न स्म विलेपुरुच्चमुच्चं दिवसेष्वेषु करालतां गतेषु ।। 51।।
क्व नु न स्म विलेपुरुच्चमुच्चं दिवसेष्वेषु करालतां गतेषु ।। 51।।
जलधेर्ननु योऽस्ति भूमिभागस्तलभागेऽधिकृतः स एव भग्नः ।
तत एव समुद्रजास्तरङ्गचः शिखराण्यारुरुहस्तु पर्व्वतानाम् ।। 52।।
तत एव समुद्रजास्तरङ्गचः शिखराण्यारुरुहस्तु पर्व्वतानाम् ।। 52।।
प्रलयः खलु दृश्यतामवापत् सहसा भीषणभीषणो जनानाम् ।
न हि तत्र समृद्धिराप रक्षाकवचत्वं मनुजस्य नाशकाले ।। 53।।
न हि तत्र समृद्धिराप रक्षाकवचत्वं मनुजस्य नाशकाले ।। 53।।
मलयैशिभुवस्तु राजपुत्रः कवलोऽभूदुदधेस्तरङ्गितानाम् ।
अथ सिंहलगश्च कान्दिशीकव्रतमुच्चैर्वरयाञ्चकार सर्वः ।। 54।।
अथ सिंहलगश्च कान्दिशीकव्रतमुच्चैर्वरयाञ्चकार सर्वः ।। 54।।
कृषिरप्यभवत् कृशा न होच्चैःफलिनी वर्षकृषौ ददर्श लाभम् ।
भगवान् खलु यत्र वैपरीत्यं भजते तत्र तु निश्चितो हि नाशः ।। 55।।
भगवान् खलु यत्र वैपरीत्यं भजते तत्र तु निश्चितो हि नाशः ।। 55।।
उमया विदधे विरोध उच्चैर्निजराष्ट्रध्वजमानहेतवे यत् ।
निदधे खलु सा निरुद्धदेहा प्रसभं प्रान्तगतेन शासनेन ।। 56।।
निदधे खलु सा निरुद्धदेहा प्रसभं प्रान्तगतेन शासनेन ।। 56।।
परमत्र निरुद्धमानरक्षास्ववधानं दधता व्यधायि कारा ।
अतिथिक्षय एव कोऽपि तस्यै निखिलैराधुनिकैः सुखोपचारैः ।। 57।।
अतिथिक्षय एव कोऽपि तस्यै निखिलैराधुनिकैः सुखोपचारैः ।। 57।।
अथ गच्छति काल उद्बभूवे सहसान्दोलनमुच्चकैर्जनानाम् ।
अभवन् खलु यत्र धार्मिकाणां गुरवोऽप्यग्रिमपङ्क्तिगा महार्हाः ।। 58।।
अभवन् खलु यत्र धार्मिकाणां गुरवोऽप्यग्रिमपङ्क्तिगा महार्हाः ।। 58।।
इह दाशरथेर्हि जन्मभूमिर्विषयोऽभूदथ राममन्दिरस्य ।
सुविशालकलेवरस्य तत्र विधिवत् स्थापनमप्यभूदभीष्टम् ।। 59।।
सुविशालकलेवरस्य तत्र विधिवत् स्थापनमप्यभूदभीष्टम् ।। 59।।
अथ योऽद्य मठद्वयाधिकारी बदरीस्थस्त्वथ पश्चिमाब्धिगश्च ।
न्यरुणत् खलु तं मुलायमाख्यः प्रददौ किञ्च गृहाय तस्कराणाम् ।। 60।।
पश्चमोत्तरगतयोः शङ्कराचार्यपीठयोः शङ्कराचार्याः स्वाचमिश्रीस्वरूपानन्दसरस्वतीपादाः।न्यरुणत् खलु तं मुलायमाख्यः प्रददौ किञ्च गृहाय तस्कराणाम् ।। 60।।
अपरः खलु काञ्चिधामधर्मगुरुरास्ते बत यो महाञ्जयेन्द्रः ।
न्यरुणत् तमिमं तु काञ्चिपुर्या अधिपस्तस्करधाम्न्यपातयच्च ।। 61।।
न्यरुणत् तमिमं तु काञ्चिपुर्या अधिपस्तस्करधाम्न्यपातयच्च ।। 61।।
जगतीगुरुरस्त्यसौ महीयान् यमिनां मूर्ध्न्यपि विद्यमानपादः ।
इति नो ददृशुश्च तस्य मानं रुरुधुश्चापि बहिश्चरं तमेतम् ।। 62।।
इति नो ददृशुश्च तस्य मानं रुरुधुश्चापि बहिश्चरं तमेतम् ।। 62।।
तमसौ निदधेऽधिवन्दिगेहं जनसामान्यगृहे न वै विशिष्टे ।
अभवच्च तदा जमानतोऽपि नितरां दुर्लभ एव सर्व्वतोऽपि ।। 63।।
अभवच्च तदा जमानतोऽपि नितरां दुर्लभ एव सर्व्वतोऽपि ।। 63।।
अथ तत्र ददौ यदा तु सर्वोच्च उदारत्वमवाप्य सौविधं तत् ।
अरुणत्तु तदीयमुत्तराधिकृतशिष्यं विजयेन्द्रशङ्करेन्द्रम् ।। 64।।
अरुणत्तु तदीयमुत्तराधिकृतशिष्यं विजयेन्द्रशङ्करेन्द्रम् ।। 64।।
विजयेन्द्रसरस्वतीति नाम्ना प्रथितो योऽस्ति जगद्गुरुर् लघीयान् ।
शिशुरेव स सर्व्वशास्त्रविद्वान् विदुषो ह्रेपयति स्म शास्त्रवादे ।। 65।।
शिशुरेव स सर्व्वशास्त्रविद्वान् विदुषो ह्रेपयति स्म शास्त्रवादे ।। 65।।
वयसि प्रथमे हि विद्यमानो न चतुस्त्रिंशसमाधिको बभूव ।
वपुषा गुरुताङ्गतोऽपि पार्श्वे गुरुपादस्य शिशुः स लक्ष्यते स्म ।। 66।।
वपुषा गुरुताङ्गतोऽपि पार्श्वे गुरुपादस्य शिशुः स लक्ष्यते स्म ।। 66।।
अनुजं रघुनामकं तदीयं प्रथमं शासनचक्रमग्रहीष्ट ।
परिपृच्छ्रय च तं सहस्रपृच्छा व्यसृजच्चाभ्यरुणच्च भूय एव ।। 67।।
परिपृच्छ्रय च तं सहस्रपृच्छा व्यसृजच्चाभ्यरुणच्च भूय एव ।। 67।।
मठमध्य उदाचकार कश्चित् प्रमुखं शङ्करनामकं तदीयम् ।
अभियोगमपातयत्तु शास्ता यमिनोरिन्द्रसरस्वतीति गुर्वोः ।। 68।।
अभियोगमपातयत्तु शास्ता यमिनोरिन्द्रसरस्वतीति गुर्वोः ।। 68।।
महिला बहवश्च वृत्तपत्रेष्वलिखन् भुक्तचरा वयं जयेन्द्रैः ।
विविधाः पुरुषाश्च तत्र यत्नं निजमृत्योः विहितं व्यभावयन्त ।। 69।।
विविधाः पुरुषाश्च तत्र यत्नं निजमृत्योः विहितं व्यभावयन्त ।। 69।।
मठकेऽत्र तु वैभवातिशीतेरभवद् सा खलु कापि हन्त मात्रा ।
अधिकार्बुदयुग्मरूप्यराशिः प्रचकास्ति स्म यथास्य कोषगेहे ।। 70।।
अधिकार्बुदयुग्मरूप्यराशिः प्रचकास्ति स्म यथास्य कोषगेहे ।। 70।।
कनकं च तथा महाप्रमाणप्रचयं तत्र बभूव यत् तदीयः ।
जगृहे च कयाचिदात्मभक्तिप्रथया नो जगृहे च नाम तस्याः ।। 71।।
जगृहे च कयाचिदात्मभक्तिप्रथया नो जगृहे च नाम तस्याः ।। 71।।
अपि पण्डितमण्डलीं पुपूज स्मरशत्रोर्नगरेऽत्र यः सुवर्णैः ।
चलति स्म च तेन सार्धमेकं कटकं सैन्यदलायमानमानम् ।। 72।।
चलति स्म च तेन सार्धमेकं कटकं सैन्यदलायमानमानम् ।। 72।।
अधिकाञ्चिपुरं च मन्दिरं यद् भगवत्या विरराज तत्र चापि ।
कलभद्वयमीक्ष्यमाणमासील्लसदङ्गं च सयौवनं च किञ्चित् ।। 73।।
कलभद्वयमीक्ष्यमाणमासील्लसदङ्गं च सयौवनं च किञ्चित् ।। 73।।
महती खलु यत्र संपदास्ते महती तिष्ठति तत्र वै विपच्च ।
विपदग्रजनुः सदैव तस्या अनुजातैव च सर्वदैव संपत् ।। 74।।
विपदग्रजनुः सदैव तस्या अनुजातैव च सर्वदैव संपत् ।। 74।।
अवधाविह तोयधिश्चुकोप कवलत्वं च निनाय लक्षलक्षान् ।
निखिलेऽपि महीतले कथासीत् प्रथमाना हहहा हताहतानाम् ।। 75।।
निखिलेऽपि महीतले कथासीत् प्रथमाना हहहा हताहतानाम् ।। 75।।
अवधाविह पोपपालनामा यमराजस्य गृहातिथिर्बभूव ।
भिषजां सफलोऽत्र नैव जातो विविधोऽपि स्ववशोपचारभारः ।। 76।।
भिषजां सफलोऽत्र नैव जातो विविधोऽपि स्ववशोपचारभारः ।। 76।।
तमिमं दिवसाँस्तु पञ्चशान् वै प्रभवो भूषितविग्रहं प्रदर्श्य ।
अनु तच्छतकोटिसंख्यशिष्यैः प्रणतं तं भुवि खातयाम्बभूवुः ।। 77।।
अनु तच्छतकोटिसंख्यशिष्यैः प्रणतं तं भुवि खातयाम्बभूवुः ।। 77।।
बहवोऽपि हि राष्ट्रपालमुख्या उपतस्थुः खलु तादृशे विधाने ।
भरतस्य भुवस्तु सिंहसंज्ञ उपराष्ट्राधिपतिर्जगाम तस्मिन् ।। 78।।
भरतस्य भुवस्तु सिंहसंज्ञ उपराष्ट्राधिपतिर्जगाम तस्मिन् ।। 78।।
बुश इत्यभिधानमुच्चमुच्चममरीकाधिपतिर्दधाति सोऽभूत् ।
प्रियया सह तत्र जग्मिवाँश्च निजसंभावनमप्युपाहरच्च ।। 79।।
प्रियया सह तत्र जग्मिवाँश्च निजसंभावनमप्युपाहरच्च ।। 79।।
अपि यो ब्रिटिशाधिपत्वमुच्चैश्शिरसा संप्रति धारयँश्चकास्ति ।
ननु सोऽपि बभूव तत्र साक्षात् समुपस्थाय कृतार्थतामिवाप्तः ।। 80।।
ननु सोऽपि बभूव तत्र साक्षात् समुपस्थाय कृतार्थतामिवाप्तः ।। 80।।
मरणञ्च चिताधिरोहणञ्च भरतीया अपि बोभुवत्यजस्रम् ।
इयती मनुजस्य तत्र संख्या न हि कुत्रापि विलोकिता तु भूमौ ।। 81।।
इयती मनुजस्य तत्र संख्या न हि कुत्रापि विलोकिता तु भूमौ ।। 81।।
निजधर्मरतिस्तु तत्र मूलं स हि पोपो निजधर्मपालकोऽभूत् ।
स हि तं क्षमयाऽसहिष्ट यस्तं ननु गोलीभिरुदाचिकीर्षति स्म ।। 82।।
स हि तं क्षमयाऽसहिष्ट यस्तं ननु गोलीभिरुदाचिकीर्षति स्म ।। 82।।
इयमेव हि भारतीयताया यमनाम्नी परिचायिकास्त्यहिंसा ।
इह विप्रथते तु यः पृथिव्यामखिलायामपि जायते गुरुर्हि ।। 83।।
इह विप्रथते तु यः पृथिव्यामखिलायामपि जायते गुरुर्हि ।। 83।।
व्ययभारमवीवहन्न भूमिर्मनुजानामियमत्र हन्त काले ।
श्वसितुं प्रभवन्ति यत्र नान्ये मृतिमापूजयितुं क एष वेगः ।। 84।।
श्वसितुं प्रभवन्ति यत्र नान्ये मृतिमापूजयितुं क एष वेगः ।। 84।।
भरतावनिगा नरा अभावग्रसिता एव सदैव तस्थिवांसः ।
अपि तान् निजधर्मगान् विधातुं सुखिताँश्चापि स एष वाञ्छति स्म ।। 85।।
अपि तान् निजधर्मगान् विधातुं सुखिताँश्चापि स एष वाञ्छति स्म ।। 85।।
अथ काञ्चिपुराधिपास्तदीयां परिवृत्तिं परिवर्त्तयाम्बभूवुः ।
न हि वर्षयुगेन कोऽपि मद्रनगरीयो निजधर्मतश्चचाल ।। 86।।
न हि वर्षयुगेन कोऽपि मद्रनगरीयो निजधर्मतश्चचाल ।। 86।।
अधिदिल्लि बभूव सोनिया यदिटलीदेशनिवासिनी, स पोपः ।
इटलीभुवि देहमाप भाग्यादिह देशे च जनैर्गुरुर्निरूचे ।। 87।।
इटलीभुवि देहमाप भाग्यादिह देशे च जनैर्गुरुर्निरूचे ।। 87।।
स हि पोप उवाह सोनियायै निजपुत्रीममतां समार्थयच्च ।
उपदाय धनानि कोटिकोटिप्रमितानि स्वविकासकार्यहेतोः ।। 88।।
उपदाय धनानि कोटिकोटिप्रमितानि स्वविकासकार्यहेतोः ।। 88।।
कथयन्ति जना अवाप्य पोपान्ननु निर्देशमपातयज्जयेन्द्रे ।
पविमुग्रतमं यदप्यभूद् वै न न काचिच् च्युतिरत्र शङ्करे नः ।। 89।।
पविमुग्रतमं यदप्यभूद् वै न न काचिच् च्युतिरत्र शङ्करे नः ।। 89।।
अवधाविह कोऽपि वासुदेवो बदरीशङ्करपीठशङ्करार्यः ।
अभियोगमघोषयत् स्वधाम्नो धनचौर्यस्य महामहिम्नि रूपे ।। 90।।
अभियोगमघोषयत् स्वधाम्नो धनचौर्यस्य महामहिम्नि रूपे ।। 90।।
अवदन् खलु ते स्वरूपपादा न जयः शङ्करपीठ ईशतायै ।
क्वचिदप्यधिकारवान् बभूव स हि साधुर्ननु नास्ति शङ्करः सः ।। 91।।
क्वचिदप्यधिकारवान् बभूव स हि साधुर्ननु नास्ति शङ्करः सः ।। 91।।
निखिला अपि दक्षिणात्यभक्ता अभवँस्तत्र विरोधघोषलग्नाः ।
भगवाँस्तु निरन्तरं बभूव त्रिपुराया निरतो मठानि कर्त्तुम् ।। 92।।
भगवाँस्तु निरन्तरं बभूव त्रिपुराया निरतो मठानि कर्त्तुम् ।। 92।।
भगवानसकौ स्वरूपपादो निखिलेष्वेव चकार मन्दिराणि ।
विविधानि च वैभवातिशीतिप्रथितान्येव बहूनि तत्र तत्र ।। 93।।
विविधानि च वैभवातिशीतिप्रथितान्येव बहूनि तत्र तत्र ।। 93।।
त्रिपुरेश्वरसुन्दरीसपर्यास्वरघोषैः समपूरयन्नभः सः ।
समपूरयदुच्चकैश्च भक्तोल्लसितैः स्वैर्जयघोषणैः समन्तात् ।। 94।।
समपूरयदुच्चकैश्च भक्तोल्लसितैः स्वैर्जयघोषणैः समन्तात् ।। 94।।
उपवङ्गमहि क्वचित् पुरा यद् भवति स्वेतरधर्मधारणं वै ।
भगवत्यभवन्न चात्र दीप्ते क्वचिदप्याप्तुमलं श्रवस्तटीं नुः ।। 95।।
भगवत्यभवन्न चात्र दीप्ते क्वचिदप्याप्तुमलं श्रवस्तटीं नुः ।। 95।।
इदमिह निजतन्त्रतालतायाः परुषतरं च फलं पचेलिमं च ।
तत उरुतरमस्ति वैभवाना-मपि नृपतित्वमिलातलेऽत्र लभ्यम् ।। 96।।
तत उरुतरमस्ति वैभवाना-मपि नृपतित्वमिलातलेऽत्र लभ्यम् ।। 96।।
क्षणेऽत्र विषमे मुहुर्मुहुरुपास्यते श्रीशिवः
स एव गरलं पिबत्यथ सुधां प्रवर्षत्यलम् ।
निधाय गरलं गले सहित एष संसक्तया
हिमाचलतनूजया नटति मङ्गलं ताण्डवम् ।। 97।।
स एव गरलं पिबत्यथ सुधां प्रवर्षत्यलम् ।
निधाय गरलं गले सहित एष संसक्तया
हिमाचलतनूजया नटति मङ्गलं ताण्डवम् ।। 97।।
इति स्वातन्य्र्डसम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ मङ्गलाभिशंसनो नाम पञ्चत्रिंशः सर्गः ।। 35।।
।। चैत्रनवरात्रषष्ठ्याचं गुरुवासरे मृगशिरसि गतविक्रमाब्दे 2061।।
एतस्मिन् क्षण उदियाय दिग्विताने
भूयान् वै नरपशुतामयो विकारः ।
चित्तं यद् प्रदहति कर्णमात्रपात्रं
भूत्वा वै सपदि पिशाचवृत्तिभाजाम् ।। 1।।
भूयान् वै नरपशुतामयो विकारः ।
चित्तं यद् प्रदहति कर्णमात्रपात्रं
भूत्वा वै सपदि पिशाचवृत्तिभाजाम् ।। 1।।
दिल्लीस्थे ‘निठरि’-पुरे मनुष्यकोऽपि
पुंमासं निभृतमहो शिशून् निहत्य ।
भुङ्क्ते स्म, क्षपितशरीरकाश्च कन्याः
निष्प्राणा परियभते स्म निर्दयात्मा ।। 2।।
पुंमासं निभृतमहो शिशून् निहत्य ।
भुङ्क्ते स्म, क्षपितशरीरकाश्च कन्याः
निष्प्राणा परियभते स्म निर्दयात्मा ।। 2।।
निष्प्राणानथ निज एव धाम्नि गूढं
पार्श्वे वाऽवटविवरे निपात्य धीरः ।
भूत्वाऽपि प्रथमतमो धनाढ्य आसीत्
सोऽयं वै परिनिरतो महोत्सवेषु ।। 3।।
पार्श्वे वाऽवटविवरे निपात्य धीरः ।
भूत्वाऽपि प्रथमतमो धनाढ्य आसीत्
सोऽयं वै परिनिरतो महोत्सवेषु ।। 3।।
अर्थश्चेद् भवति न धर्मसीमितस्तत्
किंपाको भवति नृधाम्नि तत्प्रमाणम् ।
नान्यद् वाऽव्यभिचरितं विहाय काण्डं
दिल्लीगं तदिदमिहाऽद्य भूतधात्र्याम् ।। 4।।
किंपाको भवति नृधाम्नि तत्प्रमाणम् ।
नान्यद् वाऽव्यभिचरितं विहाय काण्डं
दिल्लीगं तदिदमिहाऽद्य भूतधात्र्याम् ।। 4।।
दिल्ली तं परिसरमुत्तरप्रदेश-
संरक्ष्यं वदति न चोत्तरप्रदेशः ।
तत्रत्यां विशसनविक्रियामिमां वै
तज्ज्ञातां वदति कुतश्चनापि हेतोः ।। 5।।
संरक्ष्यं वदति न चोत्तरप्रदेशः ।
तत्रत्यां विशसनविक्रियामिमां वै
तज्ज्ञातां वदति कुतश्चनापि हेतोः ।। 5।।
दृष्ट्वार्थं विपुलमुपायनास्वरूपं
पश्चाद् वै प्रसरति, नाग्रतो लुलायः ।
यो मृत्युं यममथवाऽधिरोप्य पृष्ठे
संसारं प्रसभमुपैति निर्विभेदम् ।। 6।।
पश्चाद् वै प्रसरति, नाग्रतो लुलायः ।
यो मृत्युं यममथवाऽधिरोप्य पृष्ठे
संसारं प्रसभमुपैति निर्विभेदम् ।। 6।।
अत्रैतद् भवति च वालुकाब्धिदेशे
यीराके चलति च दुष्टमुग्रजन्यम् ।
सद्दामं ससुतयुगं विशस्य तुष्टा
गौराङ्गच धवलमुखा हि सन्ति यस्मिन् ।। 7।।
यीराके चलति च दुष्टमुग्रजन्यम् ।
सद्दामं ससुतयुगं विशस्य तुष्टा
गौराङ्गच धवलमुखा हि सन्ति यस्मिन् ।। 7।।
एतस्मिन् स्मृतिपथमेति मोहनाख्यो
गान्धी चेच्छ्वसनयुतोऽभविष्यदेषः ।
त्यक्त्वा वै जलमपि देहनाशकल्पै-
रत्युग्रानरिनिवहान् व्यरोत्स्यदेतान् ।। 8।।
गान्धी चेच्छ्वसनयुतोऽभविष्यदेषः ।
त्यक्त्वा वै जलमपि देहनाशकल्पै-
रत्युग्रानरिनिवहान् व्यरोत्स्यदेतान् ।। 8।।
द्वेषो वै नियमविधित्वमापितोऽद्य
मर्त्यं वै भुवनमिदं दृढं प्रतेपे ।
हिंसायाः यजनधुरं मुधा गताया
पाको वै न खलु न भिन्नतामुपैति ।। 9।।
मर्त्यं वै भुवनमिदं दृढं प्रतेपे ।
हिंसायाः यजनधुरं मुधा गताया
पाको वै न खलु न भिन्नतामुपैति ।। 9।।
सद्दामो भुवि खलु गर्त्तमाविरच्य
सप्राणो निभृतमभूत् तु तत्र वासी ।
निष्प्राणः स हि खलु शत्रुभिस्तदेव
तद्ग्रामे प्रसभमवापितो निवेशम् ।। 10।।
सप्राणो निभृतमभूत् तु तत्र वासी ।
निष्प्राणः स हि खलु शत्रुभिस्तदेव
तद्ग्रामे प्रसभमवापितो निवेशम् ।। 10।।
यो दीर्घो गिलति स मत्स्यकः कृशाङ्गं
मत्स्यं नो खलु निजतां स तत्र धत्ते ।
मानुष्यं परिगमितोऽपि हन्त जन्तु-
स्तामेतां भजति गतिप्रवृत्तिमद्य ।। 11।।
मत्स्यं नो खलु निजतां स तत्र धत्ते ।
मानुष्यं परिगमितोऽपि हन्त जन्तु-
स्तामेतां भजति गतिप्रवृत्तिमद्य ।। 11।।
एतस्मिन् क्षण उदियाय भूय एव
राष्ट्रस्य प्रमुखतमाय या निरुक्तिः ।
तस्यां वै पुनरपि साफलीमवाप
सद्दामक्षपणकलङ्कितो बुसो हि ।। 12।।
राष्ट्रस्य प्रमुखतमाय या निरुक्तिः ।
तस्यां वै पुनरपि साफलीमवाप
सद्दामक्षपणकलङ्कितो बुसो हि ।। 12।।
निरुक्तिः निर्वाचनम्।
आरव्ये भुवनतले यदस्ति तैलं
तल्लिप्सुः प्रधनमवाप चामरीकः ।
तद्वृद्धयै विपुलतमं धनं च हर्षाद्
देशोऽसावुपहृतवानशङ्कितो नः ।। 13।।
आरव्ये भुवनतले यदस्ति तैलं
तल्लिप्सुः प्रधनमवाप चामरीकः ।
तद्वृद्धयै विपुलतमं धनं च हर्षाद्
देशोऽसावुपहृतवानशङ्कितो नः ।। 13।।
पञ्चापी खलु मनमोहनः प्रधान-
मन्त्रीति प्रथममभूत् तु संप्रहृष्टः ।
तैरेव व्यधित पराजयः स्वसीम्नि
काङ्ग्रेसं परिभवगर्त्तके निपात्य ।। 14।।
मन्त्रीति प्रथममभूत् तु संप्रहृष्टः ।
तैरेव व्यधित पराजयः स्वसीम्नि
काङ्ग्रेसं परिभवगर्त्तके निपात्य ।। 14।।
एकत्र क्षपयति सोदरो दिवैव
सोदर्यं पिष्टलकेन निर्भयात्मा ।
अन्यत्र क्रथयति दांदशूकमास्यं
मत्वारिं निजमसुभिर्वियोज्य मार्गे ।। 15।।
सोदर्यं पिष्टलकेन निर्भयात्मा ।
अन्यत्र क्रथयति दांदशूकमास्यं
मत्वारिं निजमसुभिर्वियोज्य मार्गे ।। 15।।
यो हिन्दूरिति खलु कथ्यते स एष
प्रच्छन्नं चरति हि यीशुधर्ममेव ।
नो शीर्षे भजति शिखां न चापि सूत्रं
ब्राह्मीयं, हसति च तद् दधान आर्ये ।। 16।।
प्रच्छन्नं चरति हि यीशुधर्ममेव ।
नो शीर्षे भजति शिखां न चापि सूत्रं
ब्राह्मीयं, हसति च तद् दधान आर्ये ।। 16।।
वेषोऽपि व्यपगतभेद एव तेषां
सर्वेषां न हि खलु स प्रभुर्विभेदे ।
नो भाले तिलकमथो न नाम्नि देव -
स्तीर्थं वा क्वचिदपि लक्ष्यते ह्यमीषाम् ।। 17।।
सर्वेषां न हि खलु स प्रभुर्विभेदे ।
नो भाले तिलकमथो न नाम्नि देव -
स्तीर्थं वा क्वचिदपि लक्ष्यते ह्यमीषाम् ।। 17।।
अंग्रेजीं पठति शिशुः समोऽपि भक्त्या
कृत्वा वै दशगुणितं श्रमं तथापि ।
पङ्गुत्वं प्रतिपदमीक्षते स्वकीये
तज्ज्ञाने प्रतिदिनमेव भिद्यमाने ।। 18।।
कृत्वा वै दशगुणितं श्रमं तथापि ।
पङ्गुत्वं प्रतिपदमीक्षते स्वकीये
तज्ज्ञाने प्रतिदिनमेव भिद्यमाने ।। 18।।
यत् तावत् सुनियतमस्ति संस्कृतं तत्
कण्ठस्थीकरणकषायमित्युपेक्ष्य ।
कण्ठस्थीकरणशताधिकप्रदुष्टा-
माङ्ग्लीयां गिरमभिधावतीव देशः ।। 19।।
कण्ठस्थीकरणकषायमित्युपेक्ष्य ।
कण्ठस्थीकरणशताधिकप्रदुष्टा-
माङ्ग्लीयां गिरमभिधावतीव देशः ।। 19।।
शास्तृत्वं श्रयति स एव यो हि भाषा-
माङ्ग्लीयां वदितुमलं, न सच्चरित्रः ।
कामं यः शबलतमेऽपि वादभेदे
निर्णीतिं विशदतमां विधातुमीष्टे ।। 20।।
माङ्ग्लीयां वदितुमलं, न सच्चरित्रः ।
कामं यः शबलतमेऽपि वादभेदे
निर्णीतिं विशदतमां विधातुमीष्टे ।। 20।।
प्रज्ञावान् भवति तदैव संप्रतीतो (विश्वस्त)
जानीते यदि स हि वाचमाङ्ग्लनाम्नीम् ।
मूर्खत्वं प्रतिपदमात्मनः प्रमिण्वन्
निर्ल्लज्जः पदमभिभुङ्क्त एव लब्धम् ।। 21।।
जानीते यदि स हि वाचमाङ्ग्लनाम्नीम् ।
मूर्खत्वं प्रतिपदमात्मनः प्रमिण्वन्
निर्ल्लज्जः पदमभिभुङ्क्त एव लब्धम् ।। 21।।
ग्रामाणां परिसरमध्वभिः प्रपूर्य
काराणां गतिषु सुखैः प्रवर्षितार्थम् ।
धन्यं स्वं मनुत इहाद्यशासनं यत्
तद् युक्तं यदि परमस्ति दस्युजुष्टम् ।। 22।।
काराणां गतिषु सुखैः प्रवर्षितार्थम् ।
धन्यं स्वं मनुत इहाद्यशासनं यत्
तद् युक्तं यदि परमस्ति दस्युजुष्टम् ।। 22।।
माता भूर्भवति, न पूतना, परन्तु
वैयात्यं खलु गमिताऽस्ति दौहृदैर्धिक् ।
धान्यानां वपुषि तु लक्ष्यते प्रवृद्धिर्
गर्भे वै विषमविषाभिदिग्धतैव ।। 23।।
वैयात्यं खलु गमिताऽस्ति दौहृदैर्धिक् ।
धान्यानां वपुषि तु लक्ष्यते प्रवृद्धिर्
गर्भे वै विषमविषाभिदिग्धतैव ।। 23।।
यस्यास्ते करयुगलेऽधिकारखड्गो
भीषां स क्षण इह दर्शयन् विभाति ।
मर्यादां स्पृशति स नाङ्घ्रिणाऽपि, लभ्यं
लब्ध्वैव स्पृशति विराममेष धृष्टः ।। 24।।
भीषां स क्षण इह दर्शयन् विभाति ।
मर्यादां स्पृशति स नाङ्घ्रिणाऽपि, लभ्यं
लब्ध्वैव स्पृशति विराममेष धृष्टः ।। 24।।
यत्संज्ञा भजति तु भारतादिशब्दान्
सर्वं तं गणयति सांप्रदायिकं यः ।
अन्ये ये पतति तु तेष्वभारतत्व -
वज्रं धिक्, परमिह सर्व एव मौनाः ।। 25।।
सर्वं तं गणयति सांप्रदायिकं यः ।
अन्ये ये पतति तु तेष्वभारतत्व -
वज्रं धिक्, परमिह सर्व एव मौनाः ।। 25।।
वामत्वं भवति तु भारतीताया
द्वेष्ट्टत्वं किमु ननु तर्हि भारते तत् । (वामत्वम्)।
संसक्तं जनहितसंसदि, न्यषेधि
किं नो तद् चरमतमेन धर्मधाम्ना ।। 26।।
द्वेष्ट्टत्वं किमु ननु तर्हि भारते तत् । (वामत्वम्)।
संसक्तं जनहितसंसदि, न्यषेधि
किं नो तद् चरमतमेन धर्मधाम्ना ।। 26।।
(Supreme Court)
या काचिद् भवति तु ‘लोक’पालकानां
संसत् सा प्रतिजनमर्थरक्षणाभिः । (Reservation)
संसिद्धिं जनमतसंग्रहे प्रलिप्सुः
स्वार्थाय क्षपयति राष्ट्र एकभावम् ।। 27।।
संसत् सा प्रतिजनमर्थरक्षणाभिः । (Reservation)
संसिद्धिं जनमतसंग्रहे प्रलिप्सुः
स्वार्थाय क्षपयति राष्ट्र एकभावम् ।। 27।।
स ह्येव क्षपयति काञ्चनापि विद्यां
वैदुष्यं चरितमथो समत्वमार्यम् ।
वैविध्यं दलगतमाश्रितो मतैः स्वै
राष्ट्रीयं पतिमपि दास्यवात् क्षिपेद् यः ।। 28।।
वैदुष्यं चरितमथो समत्वमार्यम् ।
वैविध्यं दलगतमाश्रितो मतैः स्वै
राष्ट्रीयं पतिमपि दास्यवात् क्षिपेद् यः ।। 28।।
काङ्ग्रेसे क इव परः समोऽस्ति कश्चिद्
यस्तुल्यो भवति तु ‘कर्णसिंह’-नाम्नः ।
कश्मीराधिपसदृशस्य सांसदस्य
त्यक्त्त्वा तं भजतु तु राष्ट्रपत्वकं यः ।। 29।।
यस्तुल्यो भवति तु ‘कर्णसिंह’-नाम्नः ।
कश्मीराधिपसदृशस्य सांसदस्य
त्यक्त्त्वा तं भजतु तु राष्ट्रपत्वकं यः ।। 29।।
वामा ये न खलु मतः स तेषु तस्माद्
वैदुष्यं सितचरितत्वसंसमृद्धम् ।
सर्वेष्वप्यतिशयितेषु तस्य दृष्टिं
नो दातुं बत बत चेतसा लषन्ति ।। 30।।
वैदुष्यं सितचरितत्वसंसमृद्धम् ।
सर्वेष्वप्यतिशयितेषु तस्य दृष्टिं
नो दातुं बत बत चेतसा लषन्ति ।। 30।।
सिंहो यः प्रथमतमो हि मन्त्रिवर्यः
सोऽन्यस्मिन् न खलु करोति दृष्टिपातम् ।
काङ्ग्रेसाधिपदे च राजमाना
साप्येवं प्रतिपदमश्नुतेतरां धिक् ।। 31।।
सोऽन्यस्मिन् न खलु करोति दृष्टिपातम् ।
काङ्ग्रेसाधिपदे च राजमाना
साप्येवं प्रतिपदमश्नुतेतरां धिक् ।। 31।।
स्त्री काचित् भजतु तु राष्ट्रपत्वमस्मिन्
पर्याये भवतु च वेतनं तदीयम् ।
लक्षाङ्कचदनपचितं तु रूप्यकाणा-
मित्येषा विलसति किञ्च तेषु संवित् ।। 32।।
पर्याये भवतु च वेतनं तदीयम् ।
लक्षाङ्कचदनपचितं तु रूप्यकाणा-
मित्येषा विलसति किञ्च तेषु संवित् ।। 32।।
नारीणां पृथगुपजायतां तु संसत्-
सादस्यं पुरुषगते च तत्र भूयात् ।
पार्थक्यं प्रतिलघुवर्गमादिवासि-
जात्यानामिव पृथगेवमस्ति यद्धीः ।। 33।।
सादस्यं पुरुषगते च तत्र भूयात् ।
पार्थक्यं प्रतिलघुवर्गमादिवासि-
जात्यानामिव पृथगेवमस्ति यद्धीः ।। 33।।
अद्यत्वे नहि खलु वर्त्तते निरोधः
स्त्रीभ्यस्ता अखिलाऽपि संसदास्ताम् ।
पुंसां वा नहि खलु निष्चितास्ति संख्या
मूलं तत् खलु वर्त्तते कलेर्नः ।। 34।।
स्त्रीभ्यस्ता अखिलाऽपि संसदास्ताम् ।
पुंसां वा नहि खलु निष्चितास्ति संख्या
मूलं तत् खलु वर्त्तते कलेर्नः ।। 34।।
एषा वै क्षपयति नागराधिकारं
स्वातन्त्र्यं" क्रशयति मार्गमग्रगानाम् ।
जातिर्वै भवति नियामिकाऽधिकारे
स्वातन्त्र्यं क्व नु खलु लीनमार्यभूमेः ।। 35।।
स्वातन्त्र्यं" क्रशयति मार्गमग्रगानाम् ।
जातिर्वै भवति नियामिकाऽधिकारे
स्वातन्त्र्यं क्व नु खलु लीनमार्यभूमेः ।। 35।।
क्रेतारो यदि किल पुस्तकालयाः स्यु-
स्तद्भर्त्ताऽप्युपलभतेंऽशमच्छमस्मात् ।
तद्धेतोश्चतुरधिकं तु मुद्रयते वै
मूल्यं यद् व्ययितमतः सुपाठकघ्नम् ।। 36।।
स्तद्भर्त्ताऽप्युपलभतेंऽशमच्छमस्मात् ।
तद्धेतोश्चतुरधिकं तु मुद्रयते वै
मूल्यं यद् व्ययितमतः सुपाठकघ्नम् ।। 36।।
अध्येता भवति परीक्षयैकबद्ध-
स्तद्ग्रन्थान् कथमपि लब्धुमात्तमार्गः ।
ताटस्थ्यं भजति तु मुद्रितात् स्वपाठ्या-
ग्रन्थौघादमितगुणादपि प्रबोधे ।। 37।।
स्तद्ग्रन्थान् कथमपि लब्धुमात्तमार्गः ।
ताटस्थ्यं भजति तु मुद्रितात् स्वपाठ्या-
ग्रन्थौघादमितगुणादपि प्रबोधे ।। 37।।
ये केचिद् बहुधनमन्दिराधिपत्यात्
काषायैः परिवृतगात्रका यतीन्द्राः ।
ग्रन्थानां सुभगतमं स्वरूपमेक्ष्य
व्यर्थत्वं खलु समुदीरयन्ति दार्ढ्याचत् ।। 38।।
काषायैः परिवृतगात्रका यतीन्द्राः ।
ग्रन्थानां सुभगतमं स्वरूपमेक्ष्य
व्यर्थत्वं खलु समुदीरयन्ति दार्ढ्याचत् ।। 38।।
कालोऽयं मृतमपि पोषितुं नदीष्णः
सम्मानैर्बहुधनवर्षिभिः परन्तु ।
संगीतप्रभृतिषु कौशलातिशीति-
बिभ्राणं, न तु कविशास्त्रकृद्वरिष्ठम् ।। 39।।
सम्मानैर्बहुधनवर्षिभिः परन्तु ।
संगीतप्रभृतिषु कौशलातिशीति-
बिभ्राणं, न तु कविशास्त्रकृद्वरिष्ठम् ।। 39।।
यत् तावत् कुलपतिसंज्ञकं पदं तद्
द्रव्याढ्यां कथमपि दीयतेतरां वै ।
एकस्मै पुनरपि वर्षपञ्चकस्य
त्रैगुण्यं भजदपि शास्त्रनाशकर्त्रे ।। 40।।
द्रव्याढ्यां कथमपि दीयतेतरां वै ।
एकस्मै पुनरपि वर्षपञ्चकस्य
त्रैगुण्यं भजदपि शास्त्रनाशकर्त्रे ।। 40।।
आयुष्यं कुलपतयेऽब्दसप्ततिः कि-
न्त्वाचार्यो भवति न तत्र साधिकारः ।
एतत् किं, न किमु निजप्रभुत्वदिग्धं
शास्तृत्वम्, क्व नु खलु सा स्वतन्त्रता नः ।। 41।।
न्त्वाचार्यो भवति न तत्र साधिकारः ।
एतत् किं, न किमु निजप्रभुत्वदिग्धं
शास्तृत्वम्, क्व नु खलु सा स्वतन्त्रता नः ।। 41।।
राष्ट्रस्य प्रथमतमाय नागराय
लक्षं चेद् वितरति वेतनं तु संसत् ।
यो लक्षं स्वयमपि दातुमीष्ट एष
किं तस्मै न खलु पदाय चीयतेऽद्य ।। 42।।
लक्षं चेद् वितरति वेतनं तु संसत् ।
यो लक्षं स्वयमपि दातुमीष्ट एष
किं तस्मै न खलु पदाय चीयतेऽद्य ।। 42।।
शास्तॄणां सविधमुपागतेषु ये वै
वाचालाः समितिषु संस्तुता खलेन्द्राः ।
सत्कारद्रविडमिमे निरीक्ष्य गात्र-
गोत्राद्यं, न तु कृतिमद्य, संस्तुवन्ति ।। 43।।
वाचालाः समितिषु संस्तुता खलेन्द्राः ।
सत्कारद्रविडमिमे निरीक्ष्य गात्र-
गोत्राद्यं, न तु कृतिमद्य, संस्तुवन्ति ।। 43।।
दिल्ल्याद्ये विविधपुरस्क्रियासमृद्धे
केन्द्रेऽपि प्रगुणबलो हि कश्चिदेकः ।
सर्वेषां भवति विनिश्चयेऽधिकारी
नान्धत्वं किमु समुदीर्यतां ददत्सु ।। 44।।
केन्द्रेऽपि प्रगुणबलो हि कश्चिदेकः ।
सर्वेषां भवति विनिश्चयेऽधिकारी
नान्धत्वं किमु समुदीर्यतां ददत्सु ।। 44।।
ये वेशैस्तिलकित-भालतादिलिङ्गैः
पाण्डित्य-प्रथितिमवापिताः पदस्थैः ।
प्रामाण्यं परममवापितास्त एते
विद्वद्भ्यो निकषधुरं धयन्ति मूर्खाः ।। 45।।
पाण्डित्य-प्रथितिमवापिताः पदस्थैः ।
प्रामाण्यं परममवापितास्त एते
विद्वद्भ्यो निकषधुरं धयन्ति मूर्खाः ।। 45।।
मद्गेहे विलसति या शुनी परेषां
धेनुभ्योऽप्यतिशयिता पुरस्कृतौ सा ।
धन्येऽस्मिन् युगनृपतौ धयन्ति हव्यं
कव्यं वा शुनकसुताश्च वञ्चकाश्च ।। 46।।
धेनुभ्योऽप्यतिशयिता पुरस्कृतौ सा ।
धन्येऽस्मिन् युगनृपतौ धयन्ति हव्यं
कव्यं वा शुनकसुताश्च वञ्चकाश्च ।। 46।।
ये तावत् सनकसनन्दनादिसिद्ध-
सिद्धास्ते निभृतमुपाश्नुवन्तु वायून् ।
नो तेभ्यः किमपि भयं, भयं च येभ्य-
स्ते सर्वे नृपतितया लसन्तु धूर्त्ताः ।। 47।।
सिद्धास्ते निभृतमुपाश्नुवन्तु वायून् ।
नो तेभ्यः किमपि भयं, भयं च येभ्य-
स्ते सर्वे नृपतितया लसन्तु धूर्त्ताः ।। 47।।
या गङ्गाच भवति च नर्मदा च या वै
दिव्यत्वं प्रतिदधती सरिद्वरा सा ।
धन्वत्वं व्रजतु जलं तु तद्गतं यत्
सेतुभ्यो नियमितमस्तु धान्यहेतोः ।। 48।।
दिव्यत्वं प्रतिदधती सरिद्वरा सा ।
धन्वत्वं व्रजतु जलं तु तद्गतं यत्
सेतुभ्यो नियमितमस्तु धान्यहेतोः ।। 48।।
यं सेतुं दशरथसूनवे कपीन्द्रा-
श्चक्रुस्तं पथि गतिरोधकं विभाव्य ।
विध्वस्तं विदधति नेतृमानिनोऽद्य
रुद्धा अप्यतितरराभसीकमाप्ताः ।। 49।।
श्चक्रुस्तं पथि गतिरोधकं विभाव्य ।
विध्वस्तं विदधति नेतृमानिनोऽद्य
रुद्धा अप्यतितरराभसीकमाप्ताः ।। 49।।
बालानामपि वचनं हितावहं चेत्
मूर्ध्ना वै स्थविरचयोऽपि संबिभर्त्ति ।
तत्रैते स्थिविरयतीन्द्रभाषितेऽपि
नेतारो दधतितरां विमाननानि ।। 50।।
मूर्ध्ना वै स्थविरचयोऽपि संबिभर्त्ति ।
तत्रैते स्थिविरयतीन्द्रभाषितेऽपि
नेतारो दधतितरां विमाननानि ।। 50।।
किं भावी नर! तव पाशितस्य वन्ध्यै-
श्चक्षुर्भिर्बत चतुरस्रतामवाप्तैः ।
सान्तत्यं तव रुधिरस्य सृष्टिहेतोर्
धिग्धिग्धिक् स्थगितगतिक्रियं विभाति ।। 51।।
श्चक्षुर्भिर्बत चतुरस्रतामवाप्तैः ।
सान्तत्यं तव रुधिरस्य सृष्टिहेतोर्
धिग्धिग्धिक् स्थगितगतिक्रियं विभाति ।। 51।।
क्षेत्रं यत् प्रभवति भोजनस्य हेतोर्
धान्यौघं फलयितुमद्य तस्य गर्भात् ।
लभ्यन्ते कथमपि तत्तदौषधानि
तान्येतान्यहह विषाञ्चितानि सन्ति ।। 52।।
धान्यौघं फलयितुमद्य तस्य गर्भात् ।
लभ्यन्ते कथमपि तत्तदौषधानि
तान्येतान्यहह विषाञ्चितानि सन्ति ।। 52।।
को ब्रूते भवति मनुष्यसृष्टिरस्मिन्
वर्षासु द्रुमतृणसृष्टिवत् विसंख्या ।
मन्येऽहं द्विपदपशुर्हि मानुषीणां
गर्भेभ्यो बहिरुपयात्ययोनिजन्मा (Operation)।। 53।।
वर्षासु द्रुमतृणसृष्टिवत् विसंख्या ।
मन्येऽहं द्विपदपशुर्हि मानुषीणां
गर्भेभ्यो बहिरुपयात्ययोनिजन्मा (Operation)।। 53।।
मैथुन्यं प्रसवमधिक्षिपन्ति धीरा
वेगैकप्रभवतया ऽस्तसंस्कृतिं तम्।
नो तस्मिन् भवति बलं परात्परं नो
स्वामित्वं विलसति गोषु तस्य कीर्णम्।।54।।
वेगैकप्रभवतया ऽस्तसंस्कृतिं तम्।
नो तस्मिन् भवति बलं परात्परं नो
स्वामित्वं विलसति गोषु तस्य कीर्णम्।।54।।
अद्यत्वे तत इह केऽपि मन्त्रिणोऽपि
योषासु प्रसभमुपक्षिपन्ति वीर्यम् ।
गर्भञ्च क्षपयितुत्सुका निषेधे
संभुक्ता अपि ललना विघातयन्ति ।। 55।।
योषासु प्रसभमुपक्षिपन्ति वीर्यम् ।
गर्भञ्च क्षपयितुत्सुका निषेधे
संभुक्ता अपि ललना विघातयन्ति ।। 55।।
अन्ये वै व्यभिचरितां स्वभुक्तगात्रीं
कर्त्तित्वा निभृतमुपादधत्यमुष्याः ।
अङ्गचनि प्रपचनचुल्लिकासु दग्ध्वा
भ्राम्यन्ति क्षपितभयाः समन्ततो हि ।। 56।।
कर्त्तित्वा निभृतमुपादधत्यमुष्याः ।
अङ्गचनि प्रपचनचुल्लिकासु दग्ध्वा
भ्राम्यन्ति क्षपितभयाः समन्ततो हि ।। 56।।
योषा अप्यधिनिजगात्रमापतत्सु
पुंसु स्वैर्निभृतजनैर्निपात्य खड्गान् ।
तत्खण्डान्निभृततयातिदूरगर्त्ते
निक्षिप्य श्वसितुमलं भवन्ति धार्ष्ट्याचत् ।। 57।।
पुंसु स्वैर्निभृतजनैर्निपात्य खड्गान् ।
तत्खण्डान्निभृततयातिदूरगर्त्ते
निक्षिप्य श्वसितुमलं भवन्ति धार्ष्ट्याचत् ।। 57।।
केयं धीर्मनुजवपुष्युदेति काम-
स्वाच्छन्द्यात् पशु-समनिर्नियन्त्रितेऽद्य ।
एकस्मिन्नपि परिवार एव यौनं
दौरात्म्यं निघृणतमं प्रकाशमापत् ।। 58।।
स्वाच्छन्द्यात् पशु-समनिर्नियन्त्रितेऽद्य ।
एकस्मिन्नपि परिवार एव यौनं
दौरात्म्यं निघृणतमं प्रकाशमापत् ।। 58।।
यस्तावद् भवति तु शल्यकर्म वैद्य-
स्तद्भार्यां रहसि निकृत्य भर्ज्यमानाम् ।
काश्यां हि प्रग उपयातदुग्धदातृ-
सौजन्यात् कथमपि पार्श्विनोऽध्यगच्छन् ।। 59।।
स्तद्भार्यां रहसि निकृत्य भर्ज्यमानाम् ।
काश्यां हि प्रग उपयातदुग्धदातृ-
सौजन्यात् कथमपि पार्श्विनोऽध्यगच्छन् ।। 59।।
तस्यै यद् विषमभवत् प्रदत्तमस्य
नाशाय प्रथमनिकृत्तभोज्यकोषः ।
वैद्योऽसौ रहसि च बोभुजान आसीत्
स्वां काञ्चिन्निरतिशयार्च्ययोषितं तु ।। 60।।
नाशाय प्रथमनिकृत्तभोज्यकोषः ।
वैद्योऽसौ रहसि च बोभुजान आसीत्
स्वां काञ्चिन्निरतिशयार्च्ययोषितं तु ।। 60।।
भ्रातृव्यं निभृतमिहैव संस्कृतज्ञो
भ्रातुर्वै धनमपहर्त्तुमात्तलोभः ।
मार्गाद् वै प्रसभमुदारतारशब्दै-
रन्यत्र प्रतिगमितं चखण्ड धिग्धिक् ।। 61।।
भ्रातुर्वै धनमपहर्त्तुमात्तलोभः ।
मार्गाद् वै प्रसभमुदारतारशब्दै-
रन्यत्र प्रतिगमितं चखण्ड धिग्धिक् ।। 61।।
एतद्वै युगलमभूद् द्विजत्वजुष्टं
विप्रत्वं किमु ननु तत्र तादृशं स्यात् ।
यद्वासौ भवति मृषाकथा जघन्य-
भावार्थं यदुदरजाति-सात्त्विकत्वम् ।। 62।।
विप्रत्वं किमु ननु तत्र तादृशं स्यात् ।
यद्वासौ भवति मृषाकथा जघन्य-
भावार्थं यदुदरजाति-सात्त्विकत्वम् ।। 62।।
पौलस्त्यो दशवदनो बभूव वेद-
वेदाङ्गप्रगुणविचक्षणत्वसिद्धः ।
को? विप्रः, किमु ननु तच्चरित्रम्,
आस्ते नो सेतुर्यमनियमौ विहाय धर्मे ।। 63।।
वेदाङ्गप्रगुणविचक्षणत्वसिद्धः ।
को? विप्रः, किमु ननु तच्चरित्रम्,
आस्ते नो सेतुर्यमनियमौ विहाय धर्मे ।। 63।।
गान्धारी बत बत का बभूव सैव
कैकेयी खलु ननु या, परन्तु कोऽभूत् ।
पापात्मा शकुनिरमंस्त कूटपाश-
द्यूतं यो द्विरथ गतो जयं दुरात्मा ।। 64।।
कैकेयी खलु ननु या, परन्तु कोऽभूत् ।
पापात्मा शकुनिरमंस्त कूटपाश-
द्यूतं यो द्विरथ गतो जयं दुरात्मा ।। 64।।
एकस्मिन्नपि नरि दुर्मतिः कथञ्चित्
साफल्यं व्रजति, समग्रराष्ट्रनाशम् ।
सूते सा भवति तु रक्तरञ्िजता भू-
राकाशं क्षिपति च हव्यकव्यवाहम् ।। 65।।
साफल्यं व्रजति, समग्रराष्ट्रनाशम् ।
सूते सा भवति तु रक्तरञ्िजता भू-
राकाशं क्षिपति च हव्यकव्यवाहम् ।। 65।।
देहो यस्तमिह करोतु भस्म वह्नि-
श्चित्तं यन्निभृतमिहान्यदेहगुप्तम् ।
नो तस्मिन् प्रभवति स, क्षमा हि तस्य
साम्राज्ञी भवति चरस्य चाऽचरस्य ।। 66।।
श्चित्तं यन्निभृतमिहान्यदेहगुप्तम् ।
नो तस्मिन् प्रभवति स, क्षमा हि तस्य
साम्राज्ञी भवति चरस्य चाऽचरस्य ।। 66।।
तच्छुद्ध्यै प्रभवति केवलो यमो वै
पञ्चात्मा विशसनशातनः स योगः ।
या भूतिर्विभवविवृद्धिविग्रहा तां
जन्यानां जनिमयमेकलो नियच्छेत् ।। 67।।
पञ्चात्मा विशसनशातनः स योगः ।
या भूतिर्विभवविवृद्धिविग्रहा तां
जन्यानां जनिमयमेकलो नियच्छेत् ।। 67।।
लिप्सा वै जनयति कुम्भकर्णमस्मिन्
भूलोके निरतिशयं हि कुक्षि-गर्भे ।
धूमावत्यवतरणं समस्तमेतद्
भुक्त्वा यो भवति बुभुक्षुरेव नित्यम् ।। 68।।
भूलोके निरतिशयं हि कुक्षि-गर्भे ।
धूमावत्यवतरणं समस्तमेतद्
भुक्त्वा यो भवति बुभुक्षुरेव नित्यम् ।। 68।।
पर्याप्तं भवति न विश्वमात्रमेत-
देकस्मिन्नपि सवितुं तु तृप्तियोगम् ।
का वार्त्ता यदि निखिला हि राघवाः स्यु-
स्तत्कुक्षीननल इहैकलो पिपूर्य्यात् ।। 69।।
देकस्मिन्नपि सवितुं तु तृप्तियोगम् ।
का वार्त्ता यदि निखिला हि राघवाः स्यु-
स्तत्कुक्षीननल इहैकलो पिपूर्य्यात् ।। 69।।
गायत्रं मनुमनुसन्ध्यमुज्जपामः
सामर्थ्यं खलु सवितारमर्थयामः ।
तेजः स्वं यमनियमैर्विवर्द्धयामः
संस्कारान् हृदि खलु धातुमुल्लसामः ।। 70।।
सामर्थ्यं खलु सवितारमर्थयामः ।
तेजः स्वं यमनियमैर्विवर्द्धयामः
संस्कारान् हृदि खलु धातुमुल्लसामः ।। 70।।
यस्यैतत् फलमिदमस्ति संस्कृताख्यं
वाङ्मूर्त्ति प्रतिहतसन्तमं तु तेजः ।
तस्यार्थे किमपि धनं वितीर्य तुष्टा-
स्तिष्ठामोऽपरहितचिन्तने कुबेराः ।। 71।।
वाङ्मूर्त्ति प्रतिहतसन्तमं तु तेजः ।
तस्यार्थे किमपि धनं वितीर्य तुष्टा-
स्तिष्ठामोऽपरहितचिन्तने कुबेराः ।। 71।।
सन्त्येके गृहपरिसीम्नि ये निखात-
बंहीयस्सरस उदारतार एषाम् ।
वार्यौघे विलसितशिंशुमारसंघे
स्वाञ्छत्रून् प्रसभमुपक्षिपन्ति धृष्टाः ।। 72।।
बंहीयस्सरस उदारतार एषाम् ।
वार्यौघे विलसितशिंशुमारसंघे
स्वाञ्छत्रून् प्रसभमुपक्षिपन्ति धृष्टाः ।। 72।।
बंहिष्ठान्ननधिकृतानपि स्वकीया
इत्युक्त्वा कृषिफलमर्जयन्ति भागान् ।
भूमिस्तान्न खलु निवारितुं समर्था
मायावत्यथ विननाश तद्विभूतिम् ।। 73।।
इत्युक्त्वा कृषिफलमर्जयन्ति भागान् ।
भूमिस्तान्न खलु निवारितुं समर्था
मायावत्यथ विननाश तद्विभूतिम् ।। 73।।
मयावत्यवनिमिमां मुलामसिंहा-
दाच्छिद्य प्रथममपि प्रशास्ति धीरा ।
सा ह्येतान् नरवपुषः पिशाचसङ्घान्
संचनह्य प्रसभमपाकरोतु दार्ढ्यात् ।। 74।।
दाच्छिद्य प्रथममपि प्रशास्ति धीरा ।
सा ह्येतान् नरवपुषः पिशाचसङ्घान्
संचनह्य प्रसभमपाकरोतु दार्ढ्यात् ।। 74।।
ये क्रूरा न हि खलु भाजपाऽधिराज्ये
ते लब्धप्रसरतयैव वृद्धिमाप्ताः ।
तन्मध्ये ‘फुलन’ इतीरिताऽधिदेवी
दस्यूनामपि खलु हिंसितैव दिल्लयाम् ।। 75।।
ते लब्धप्रसरतयैव वृद्धिमाप्ताः ।
तन्मध्ये ‘फुलन’ इतीरिताऽधिदेवी
दस्यूनामपि खलु हिंसितैव दिल्लयाम् ।। 75।।
एतस्मिन् प्रसभमहिंसि चन्दनानां
विक्रेता बहुतिथमापितो न पाशम् ।
तास्कर्ये स खलु बभूव मानसिंहो
गोपाद्रेरपि बत दाक्षिणात्यसीम्नि ।। 76।।
विक्रेता बहुतिथमापितो न पाशम् ।
तास्कर्ये स खलु बभूव मानसिंहो
गोपाद्रेरपि बत दाक्षिणात्यसीम्नि ।। 76।।
कश्मीरान् प्रसभमुपद्रवन्ति पाका-
धिष्ठान् वै रिपव उदग्रशस्त्रपाताः ।
स्वर्गाख्यां दधति न सीम्नि तत्र देही
नो भुङ्क्ते निरयनिकारमद्य काले ।। 77।।
धिष्ठान् वै रिपव उदग्रशस्त्रपाताः ।
स्वर्गाख्यां दधति न सीम्नि तत्र देही
नो भुङ्क्ते निरयनिकारमद्य काले ।। 77।।
ब्रूते वै शिरसि शिखामणीयमानः (कालिदासः)
सर्वेषां रघुकुलकाव्यसंविधाता ।
माधुर्यं सकृदपि हिंसया परीतान्
रोद्धुं वै प्रभवति शत्रुकान्’ मृषा तत् ।। 78।।
रघुवंषे 18:13 ‘वषी सुतस्तस्य’ इति कालिदासः।सर्वेषां रघुकुलकाव्यसंविधाता ।
माधुर्यं सकृदपि हिंसया परीतान्
रोद्धुं वै प्रभवति शत्रुकान्’ मृषा तत् ।। 78।।
योगीशो विगतविभूतिभोगरागो
वज्राङ्गोऽप्यधिगतपाशको हनूमान् ।
लङ्कायां न खलु न ताडितः, स सोढ्वा
तत् सर्वं रघुपतिकृत्यमेव चक्रे ।। 79।।
वज्राङ्गोऽप्यधिगतपाशको हनूमान् ।
लङ्कायां न खलु न ताडितः, स सोढ्वा
तत् सर्वं रघुपतिकृत्यमेव चक्रे ।। 79।।
या सिन्धोरुरसि रुरोध मारुतिं तां
नैपुण्यात् किल सुरसां जिगाय धीमान् ।
सा वृद्धिं, न तु लघुतां विवेद हिंस्रा
नीतिज्ञः खलु हनुमॅाल्लघुत्वमापत् ।। 80।।
नैपुण्यात् किल सुरसां जिगाय धीमान् ।
सा वृद्धिं, न तु लघुतां विवेद हिंस्रा
नीतिज्ञः खलु हनुमॅाल्लघुत्वमापत् ।। 80।।
या तावन्निरतिशयां विनाशशक्तिं
बिभ्राणा भवति पराणुशक्तिरेका ।
तस्याः किं वपुषि महत्त्वमीक्ष्यते सा
प्रत्यक्षादपि परतश्चकास्ति घोरा ।। 81।।
बिभ्राणा भवति पराणुशक्तिरेका ।
तस्याः किं वपुषि महत्त्वमीक्ष्यते सा
प्रत्यक्षादपि परतश्चकास्ति घोरा ।। 81।।
विज्ञानी भवति हि मारुतिः स नीतौ
निष्णातो भजति स केवलं लघुत्वम् ।
तत्सिद्धया भवति विभीषणश्च सोऽयं
विश्वेषां, परमिह यन्त्रिता हि बुद्धिः ।। 82।।
निष्णातो भजति स केवलं लघुत्वम् ।
तत्सिद्धया भवति विभीषणश्च सोऽयं
विश्वेषां, परमिह यन्त्रिता हि बुद्धिः ।। 82।।
कालोऽयं विषमतमोऽस्ति भारतेभ्यो
वैषम्यं परमतमं यदादृतं ज्ञैः ।
आसीद् यो गतदिवसे चरित्रयुक्त-
स्तन्मार्गी जन इह मन्यतेऽवमान्यः ।। 83।।
वैषम्यं परमतमं यदादृतं ज्ञैः ।
आसीद् यो गतदिवसे चरित्रयुक्त-
स्तन्मार्गी जन इह मन्यतेऽवमान्यः ।। 83।।
वर्धायां चरितमभूत् तु हन्त गान्धि-
नाम्नस्तद् विपरिणतिं हि श्रद्दधाति ।
विप्रेभ्यो भवति मलैकशोधनाख्यं
कार्यं यन्ननु नियतं न भिन्नमस्मात् ।। 84।।
नाम्नस्तद् विपरिणतिं हि श्रद्दधाति ।
विप्रेभ्यो भवति मलैकशोधनाख्यं
कार्यं यन्ननु नियतं न भिन्नमस्मात् ।। 84।।
अद्यत्वे चरमतमे पदेऽभिषेच्यः
प्राङ् मौर्ख्यं दधदपि कश्चनापि शूद्रः ।
पश्चाच्च क्वचन पदेऽधिकारिणोऽपि
भूयाच्चेत् चयनमिदं विकल्पनीयम् ।। 85।।
प्राङ् मौर्ख्यं दधदपि कश्चनापि शूद्रः ।
पश्चाच्च क्वचन पदेऽधिकारिणोऽपि
भूयाच्चेत् चयनमिदं विकल्पनीयम् ।। 85।।
वैयात्यं तदिदमिदंक्षणे समग्रे
देशेऽस्मिन् पुनरपि नर्नृतीति धार्ष्ट्यात् ।
हे गान्धिन्! भवसि ततस्त्वमद्य नेता
त्वत्सिद्धिर्भरतभुवोऽस्ति निर्ऋतिस्तु ।। 86।।
देशेऽस्मिन् पुनरपि नर्नृतीति धार्ष्ट्यात् ।
हे गान्धिन्! भवसि ततस्त्वमद्य नेता
त्वत्सिद्धिर्भरतभुवोऽस्ति निर्ऋतिस्तु ।। 86।।
सङ्गीती भवति यथा कविप्रवीरः
सौस्वर्यात् प्रचलितमस्ति चेच्छलं तत् ।
चण्डालो भवति तथाऽद्य विद्वरेण्यो
विद्याया अपि भवनेषु सत्तमेषु ।। 87।।
सौस्वर्यात् प्रचलितमस्ति चेच्छलं तत् ।
चण्डालो भवति तथाऽद्य विद्वरेण्यो
विद्याया अपि भवनेषु सत्तमेषु ।। 87।।
यो हिन्दीभणितिमपि प्रवक्तुमल्पां
शक्तिं नो भजति स संस्कृते नियुक्तिम् ।
लब्ध्वाऽद्य प्रहसति पण्डितेषु तीर्थे-
ष्वाध्यक्ष्यं चरमतमं चिराद् गतेषु ।। 88।।
शक्तिं नो भजति स संस्कृते नियुक्तिम् ।
लब्ध्वाऽद्य प्रहसति पण्डितेषु तीर्थे-
ष्वाध्यक्ष्यं चरमतमं चिराद् गतेषु ।। 88।।
तत् संप्रत्यतिचरणं मनीषिताया
विद्वत्सु प्रतियुगमीक्षितिं गतायाः ।
एतस्या विषलतिकायमानगात्र्या
भोक्ता वै फलमतिरूक्षमेष देशः ।। 89।।
विद्वत्सु प्रतियुगमीक्षितिं गतायाः ।
एतस्या विषलतिकायमानगात्र्या
भोक्ता वै फलमतिरूक्षमेष देशः ।। 89।।
दौर्बल्यं चरितगतं च धीरता च
द्वैतं तत् विलसति यत् प्रतीपमेव ।
चातुर्यं चपलतया प्रकाश्य तुष्टा
ये दुष्टाः अहह कृतक्रियन्ति तेऽद्य ।। 90।।
द्वैतं तत् विलसति यत् प्रतीपमेव ।
चातुर्यं चपलतया प्रकाश्य तुष्टा
ये दुष्टाः अहह कृतक्रियन्ति तेऽद्य ।। 90।।
एतस्मिन् विपरिणतिं गते युगस्य
वैयात्ये मनुजमतिः किमाचरेत्तु ।
निर्माणं विशसनमाप्यते कथं वा
भूयासुः कृतयुगसञ्चरा प्रशस्ताः ।। 91।।
वैयात्ये मनुजमतिः किमाचरेत्तु ।
निर्माणं विशसनमाप्यते कथं वा
भूयासुः कृतयुगसञ्चरा प्रशस्ताः ।। 91।।
प्रतिदिन-युवनेतृ-मृत्युदिग्धा
परिणतिमेति कृतान्त-दंष्ट्रिकाऽऽशा ।
अहह न खलु बुध्यते तथापि
प्रतिपथगामितया प्रबाध्यमानैः ।। 92।।
परिणतिमेति कृतान्त-दंष्ट्रिकाऽऽशा ।
अहह न खलु बुध्यते तथापि
प्रतिपथगामितया प्रबाध्यमानैः ।। 92।।
इति स्वातन्त्र्य सम्भवे महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ नरपषुता नाम षट्त्रिंशः सर्गः।। 36।।
30.6.2007 काशी