भूयः प्रधानपदवीमधिरुह्य रेजे
देवीन्दिरा वसुमतीवलये तथैव ।
राराजते दिवि कुहूमतिवाह्य चान्द्री
दिव्या कला प्रतिपदभ्युदिता यथैव ।। 1।।
देवीन्दिरा वसुमतीवलये तथैव ।
राराजते दिवि कुहूमतिवाह्य चान्द्री
दिव्या कला प्रतिपदभ्युदिता यथैव ।। 1।।
कान्तौ प्रतप्तकनकोपमितामिदानी-
मेतां तमोद्वितयमुद्व्यथयाम्बभूव ।
यातो दिवं च तनयः खलु संजयाख्यः
भेदं गता च वसुधा खलु पाञ्चनद्या ।। 2।।
मेतां तमोद्वितयमुद्व्यथयाम्बभूव ।
यातो दिवं च तनयः खलु संजयाख्यः
भेदं गता च वसुधा खलु पाञ्चनद्या ।। 2।।
चित्ते निधाय तिमिरं सुतशोकजातं
राष्ट्रस्य सा तिमिरमुद्रुजती बभासे ।
हालाहलं परिनिपीय कलां सुधांशो-
र्व्यावृण्वती क्लममुचं नु तनुः पुरारेः ।। 3।।
राष्ट्रस्य सा तिमिरमुद्रुजती बभासे ।
हालाहलं परिनिपीय कलां सुधांशो-
र्व्यावृण्वती क्लममुचं नु तनुः पुरारेः ।। 3।।
पञ्चापविद्रवमसौ न दिवा न नक्तं
शान्तिं व्रजन्तमतिवेलमथैधमानम् ।
मृत्योर्लुलायमिव निर्मथयाञ्चकार
धूमावतीव जगतां परिपालयित्री ।। 4।।
शान्तिं व्रजन्तमतिवेलमथैधमानम् ।
मृत्योर्लुलायमिव निर्मथयाञ्चकार
धूमावतीव जगतां परिपालयित्री ।। 4।।
सा स्वर्णमन्दिरगतान् कृपणानरातीन्
धर्मस्य नानकगुरुप्रतिपादितस्य ।
नीरन्ध्र-टैङ्क-गुलिका-करकाभिवर्षा-
सारैः सरोरुहगणानिव निर्विभेद ।। 5।।
धर्मस्य नानकगुरुप्रतिपादितस्य ।
नीरन्ध्र-टैङ्क-गुलिका-करकाभिवर्षा-
सारैः सरोरुहगणानिव निर्विभेद ।। 5।।
ग्रन्थात्मनाऽमृतसरोवर-वारिमध्य-
स्वर्णालये वसतिमाप्तवतः प्रभोः सा ।
भूयः पवित्रतमपूजनसंविधान-
पारम्परीं विधिवदुत्सवयाञ्चकार ।। 6।।
स्वर्णालये वसतिमाप्तवतः प्रभोः सा ।
भूयः पवित्रतमपूजनसंविधान-
पारम्परीं विधिवदुत्सवयाञ्चकार ।। 6।।
सा जैलसिंहसदृशेन निजाश्रवेण
राष्ट्रे पतित्वमभिभूषयितुं पटिष्ठा ।
पञ्चापदेशजनतासुतृपां समूह-
मुन्मूल्य कूटनयवित्सु गुरुत्वमापत् ।। 7।।
राष्ट्रे पतित्वमभिभूषयितुं पटिष्ठा ।
पञ्चापदेशजनतासुतृपां समूह-
मुन्मूल्य कूटनयवित्सु गुरुत्वमापत् ।। 7।।
सा स्वर्णमन्दिर-गुहासु विवर्त्तमानाँल्
लिङ्गेषु धार्मिकतया प्रतिभासमानान् ।
धर्मद्रुहो भगवती क्षपयाञ्चकार
शिष्येषु नानकगुरोरसुरान् निविष्टान् ।। 8।।
लिङ्गेषु धार्मिकतया प्रतिभासमानान् ।
धर्मद्रुहो भगवती क्षपयाञ्चकार
शिष्येषु नानकगुरोरसुरान् निविष्टान् ।। 8।।
नानाविधायुध-महोच्चयबद्ध-कक्षान्
दस्यून् सकूर्चवदनान् सिखशब्दपङ्कान् ।
सा मोहिनीव परिहृत्य सुधामवन्ती
कस्मै बभूव सुहृदे न समर्हणीया ।। 9।।
दस्यून् सकूर्चवदनान् सिखशब्दपङ्कान् ।
सा मोहिनीव परिहृत्य सुधामवन्ती
कस्मै बभूव सुहृदे न समर्हणीया ।। 9।।
या बालुकाब्धिजठराग्निविनिर्मिताङ्गान्
दस्यून् निवारयितुमेव गुरोर्व्यवस्था ।
सैवाद्य हन्त भजते यदि दस्युभावं
स्वस्मिन् गृहे बत विपर्य्यय एष बुद्धेः ।। 10।।
दस्यून् निवारयितुमेव गुरोर्व्यवस्था ।
सैवाद्य हन्त भजते यदि दस्युभावं
स्वस्मिन् गृहे बत विपर्य्यय एष बुद्धेः ।। 10।।
येषामकालपुरुषे हृदयाभियोगात्
सर्वत्र बान्धव इति प्रतिपद्धि मन्त्रः ।
क्षुत् तेषु चेन्नरपलाय महच्छलं तद्
गोव्याघ्र इत्यभिहितेर्ननु ते हि पात्रम् ।। 11।।
सर्वत्र बान्धव इति प्रतिपद्धि मन्त्रः ।
क्षुत् तेषु चेन्नरपलाय महच्छलं तद्
गोव्याघ्र इत्यभिहितेर्ननु ते हि पात्रम् ।। 11।।
पीत्वा सुधां निगमसागरमन्थनोत्थां
विप्रान्वयो दशमुखोऽप्यमुमेव मार्गम् ।
स्वार्णीं समुद्रपरिखां नगरीमुषित्वा
भेजे, पुराणमयनं त्विदमत्र राष्ट्रे ।। 12।।
विप्रान्वयो दशमुखोऽप्यमुमेव मार्गम् ।
स्वार्णीं समुद्रपरिखां नगरीमुषित्वा
भेजे, पुराणमयनं त्विदमत्र राष्ट्रे ।। 12।।
न ब्राह्मणत्वमिह नापि च शाम्भवत्वं
लङ्कापतौ गणितमत्र न वा कवित्वम् ।
तस्योच्चकर्त्त भुजमूर्धकुलाभिधानं
कान्तारमार्य्यजनता न न बद्धसिन्धुः ।। 13।।
लङ्कापतौ गणितमत्र न वा कवित्वम् ।
तस्योच्चकर्त्त भुजमूर्धकुलाभिधानं
कान्तारमार्य्यजनता न न बद्धसिन्धुः ।। 13।।
क्वास्ते हिरण्यकशिपुः कशिपुं विधाय
यो वै हिरण्यवपुषं शयितः प्रभाते ।
वैतालिकीकृत-चतुर्दिगधीशचक्रः
प्राबूबुधत् प्रभुरतौ प्रहरन् मदान्धः ।। 14।।
यो वै हिरण्यवपुषं शयितः प्रभाते ।
वैतालिकीकृत-चतुर्दिगधीशचक्रः
प्राबूबुधत् प्रभुरतौ प्रहरन् मदान्धः ।। 14।।
यातः क्व सोऽपि गजनीवसतिर्दुरात्मा
रत्नानि यो भरतभूमिगतान्यलुण्ठत् ।
किं विस्मृतश्च स मुहम्मदशब्दमात्र-
भिन्नो युधिष्ठिर इति प्रथितो महात्मा ।। 15।।
रत्नानि यो भरतभूमिगतान्यलुण्ठत् ।
किं विस्मृतश्च स मुहम्मदशब्दमात्र-
भिन्नो युधिष्ठिर इति प्रथितो महात्मा ।। 15।।
धर्मो न पीडयति कञ्चिदपि प्रजानां
संभूतये स रुचिरः खलु कोऽपि मार्गः ।
यः संप्रदायकलहः स हि मानवाख्ये
सिन्धौ कुतोऽपि पतितो ननु शिंशुमारः ।। 16।।
संभूतये स रुचिरः खलु कोऽपि मार्गः ।
यः संप्रदायकलहः स हि मानवाख्ये
सिन्धौ कुतोऽपि पतितो ननु शिंशुमारः ।। 16।।
औपाधिकी विपदियं क्व नु भूतलेऽस्मिन्
सांसिद्धिकी प्रकृतिरित्यभिधां प्रयाति ।
एषैव निर्ऋतिरुदाकुरुते श्रियं या
कल्याणबुद्धि-मधुवारिधि-मन्थनोत्थाम् ।। 17।।
सांसिद्धिकी प्रकृतिरित्यभिधां प्रयाति ।
एषैव निर्ऋतिरुदाकुरुते श्रियं या
कल्याणबुद्धि-मधुवारिधि-मन्थनोत्थाम् ।। 17।।
काऽस्मिन् मनुष्य तव धाम्नि विडम्बनेयं
व्यष्टिः समष्टिमनुधावति यत् सखड्गा ।
अन्येन निर्मितमिति क्षपयाम एते
धिग्धिक् सुजातमपि मन्दिरहेमशृङ्गम् ।। 18।।
व्यष्टिः समष्टिमनुधावति यत् सखड्गा ।
अन्येन निर्मितमिति क्षपयाम एते
धिग्धिक् सुजातमपि मन्दिरहेमशृङ्गम् ।। 18।।
बौद्धेन केनचन बुद्धिमलिम्लुचेन
संबोधिविग्रहतया परिणामितं यत् ।
तस्मिन् सुवर्णनिकरे न कथं धयामः
शीलानि पञ्च सुगतस्य तनोः स्रवन्ति ।। 19।।
संबोधिविग्रहतया परिणामितं यत् ।
तस्मिन् सुवर्णनिकरे न कथं धयामः
शीलानि पञ्च सुगतस्य तनोः स्रवन्ति ।। 19।।
दृग् दर्शनाद् विरहिता यदि दार्शनिक्यं
शून्यीकरोति, खुरलीं किमु नैव कुर्य्यात् ।
मारस्य सैन्धवशती वडवाशतानि
व्यारुह्य शत्रुभुवनानि, ततो, निरोद्धुम् ।। 20।।
शून्यीकरोति, खुरलीं किमु नैव कुर्य्यात् ।
मारस्य सैन्धवशती वडवाशतानि
व्यारुह्य शत्रुभुवनानि, ततो, निरोद्धुम् ।। 20।।
सा मोतिलालतनयस्य सुतेन्दिराख्या
षष्टिं समाः श्रितवती न न जन्मनोऽर्वाक् ।
तत्रापि षोडशशरत्प्रमितात्मभाव-
संभावितैव ददृशे जनिताऽऽत्मसंपत् ।। 21।।
षष्टिं समाः श्रितवती न न जन्मनोऽर्वाक् ।
तत्रापि षोडशशरत्प्रमितात्मभाव-
संभावितैव ददृशे जनिताऽऽत्मसंपत् ।। 21।।
अस्मिन्ननेहसि विहातुमनाशकेन
जीर्णं वपुः स्वयमभूत् स्पृहयालुरार्य्यः ।
भावेपदाञ्चितवचःप्रसराय नाम्ने
यस्य प्रणाममुपदीकुरुते स्म विश्वम् ।। 22।।
जीर्णं वपुः स्वयमभूत् स्पृहयालुरार्य्यः ।
भावेपदाञ्चितवचःप्रसराय नाम्ने
यस्य प्रणाममुपदीकुरुते स्म विश्वम् ।। 22।।
यस्यानने स्म वसति श्रुतिमङ्गला वाग्
गेहे पितुर्नु दुहिता नितरां प्रसन्ना ।
यस्या विदेशमहिता अपियन्ति वाच-
स्तास्ताः पदानि निभृताद्भुतदर्शनानि ।। 23।।
गेहे पितुर्नु दुहिता नितरां प्रसन्ना ।
यस्या विदेशमहिता अपियन्ति वाच-
स्तास्ताः पदानि निभृताद्भुतदर्शनानि ।। 23।।
गोमातुरन्वयमनुक्षणमश्यमानं
दृष्ट्वाऽशनादुपरतः स यतीन्दिरायाः ।
आश्वासनादनशनव्रतमुत्ससर्ज
पूर्वं वपुश्च परतोऽनशनेन धीरः ।। 24।।
दृष्ट्वाऽशनादुपरतः स यतीन्दिरायाः ।
आश्वासनादनशनव्रतमुत्ससर्ज
पूर्वं वपुश्च परतोऽनशनेन धीरः ।। 24।।
भूदानयज्ञ-रथ-चालनसारथिं तं
सर्व्वोदयव्रतपतिं भरतस्य भूमिः ।
आचार्य इत्यतितरां महितेन नाम्ना
धाम्नेव वासरमणिं महयाञ्चकार ।। 25।।
सर्व्वोदयव्रतपतिं भरतस्य भूमिः ।
आचार्य इत्यतितरां महितेन नाम्ना
धाम्नेव वासरमणिं महयाञ्चकार ।। 25।।
यो डायलैसिस-विशोधितदूषितास्रं
क्रान्तिप्रियं व्यरमयच्च जयप्रकाशम् ।
मांसाशनादिव परिश्रमसाध्यखादी-
प्रोद्योगतः परिणतिं प्रथमां प्रयातात् ।। 26।।
क्रान्तिप्रियं व्यरमयच्च जयप्रकाशम् ।
मांसाशनादिव परिश्रमसाध्यखादी-
प्रोद्योगतः परिणतिं प्रथमां प्रयातात् ।। 26।।
गान्धी बभूव स परो यदि वा दिवाऽपि
दीव्यत्कलः स रजनीपतिरेक-धीरः ।
यस्यान्तिके गतवतामरतिं स्म सूते
काम्येषु हन्त रतिरुत्सविनी स्वधर्मे ।। 27।।
दीव्यत्कलः स रजनीपतिरेक-धीरः ।
यस्यान्तिके गतवतामरतिं स्म सूते
काम्येषु हन्त रतिरुत्सविनी स्वधर्मे ।। 27।।
नैष्कर्म्यमेव जपयज्ञसमेधितश्रि
स्वाध्यायसक्तहृदयो यदसावयासीत् ।
गीताऽपि तद् भगवती भगवत्प्रगीता
भाष्यात्मना स्म वृणुते परमार्थसत्यम् ।। 28।।
स्वाध्यायसक्तहृदयो यदसावयासीत् ।
गीताऽपि तद् भगवती भगवत्प्रगीता
भाष्यात्मना स्म वृणुते परमार्थसत्यम् ।। 28।।
नैवेन्दिरामनशनव्रततो विरन्तुं
निर्बन्धिनीमयममानयदन्तकाले ।
प्रायोपवेश-परिमुक्त-शरीरबन्धा
मुक्तिं प्रयान्ति मनुजा इति निश्चितार्थः ।। 29।।
निर्बन्धिनीमयममानयदन्तकाले ।
प्रायोपवेश-परिमुक्त-शरीरबन्धा
मुक्तिं प्रयान्ति मनुजा इति निश्चितार्थः ।। 29।।
प्रद्वेषवह्निकलुषा प्रियदर्शिनीं तां
बुद्धिर्न दूषयितुमाप कृतार्थभावम् ।
सा नो मुरारिमरुणच्चरणं न राज-
नारायणं च न यथा त इमामिदानीम् ।। 30।।
बुद्धिर्न दूषयितुमाप कृतार्थभावम् ।
सा नो मुरारिमरुणच्चरणं न राज-
नारायणं च न यथा त इमामिदानीम् ।। 30।।
शत्रुं स्वयं विघटितं न तिरस्क्रियासु-
र्मानोन्नताः प्रतिभटप्रमथाश्च वीराः ।
साधीयसीं सृतिमिमामनुगन्तुकामा
वामा बभूव परिपन्थिषु नेन्दिरार्य्या ।। 31।।
र्मानोन्नताः प्रतिभटप्रमथाश्च वीराः ।
साधीयसीं सृतिमिमामनुगन्तुकामा
वामा बभूव परिपन्थिषु नेन्दिरार्य्या ।। 31।।
रामस्य भाग्यदिवसाधिपतिः प्रतीची-
माशामशान यदसावरुणत् सुतां ताम् ।
पूर्वं य एष निखिलेष्वपि चारितार्थ्यं
कृत्येष्वलालभदनारतमत्र राष्ट्रे ।। 32।।
माशामशान यदसावरुणत् सुतां ताम् ।
पूर्वं य एष निखिलेष्वपि चारितार्थ्यं
कृत्येष्वलालभदनारतमत्र राष्ट्रे ।। 32।।
तां शङ्करश्च कमलापतिरर्जुनश्च
नारायणाश्च बहवः सनृसिंहकृष्णाः ।
सिंहाश्च केचिदुपचारपराः प्रधान-
मन्त्रित्ववर्धितरुचं प्रमुदोऽनुसस्रुः ।। 33।।
नारायणाश्च बहवः सनृसिंहकृष्णाः ।
सिंहाश्च केचिदुपचारपराः प्रधान-
मन्त्रित्ववर्धितरुचं प्रमुदोऽनुसस्रुः ।। 33।।
कर्णाटकान्ध्रतमिलैः सह केरलैश्च
वङ्गाऽसमोत्कल-नगावनि-पाञ्चनद्याः ।
तां विप्रतीपगतिका व्यरुणँस्तदानीं
सिंहीं तरक्षुपृथुका इव संप्ररुष्टाम् ।। 34।।
वङ्गाऽसमोत्कल-नगावनि-पाञ्चनद्याः ।
तां विप्रतीपगतिका व्यरुणँस्तदानीं
सिंहीं तरक्षुपृथुका इव संप्ररुष्टाम् ।। 34।।
अत्रान्तरे समुदियाय हिमाद्रिशृङ्गे
क्लिष्टेन हन्त विधिना समुदीर्यमाणः ।
कौक्षेयकाकृति-महोच्छ्रिति-वेणु-दीर्घ-
पुच्छोत्कटो वियति कश्चन धूमकेतुः ।। 35।।
क्लिष्टेन हन्त विधिना समुदीर्यमाणः ।
कौक्षेयकाकृति-महोच्छ्रिति-वेणु-दीर्घ-
पुच्छोत्कटो वियति कश्चन धूमकेतुः ।। 35।।
अस्या मुखात् समुदगाद् वचनावलीयं
सज्जास्मि गां स्वरुधिरैरपि रक्षितुं स्वाम् ।
धन्यामिमां वसुमतीवलयेऽखिलेऽपि
सौदामनीमिव वियत्यभिरोरुचानाम् ।। 36।।
सज्जास्मि गां स्वरुधिरैरपि रक्षितुं स्वाम् ।
धन्यामिमां वसुमतीवलयेऽखिलेऽपि
सौदामनीमिव वियत्यभिरोरुचानाम् ।। 36।।
अक्टूबरस्य चरमे दिवसे दिनस्य
प्राह्णेतने चतुरशीतितमे च वर्षे ।
तामिन्दिरां भगवतीं निज एव धाम्नि
शृङ्गारिताङ्गलतिकां निजगाल कालः ।। 37।।
प्राह्णेतने चतुरशीतितमे च वर्षे ।
तामिन्दिरां भगवतीं निज एव धाम्नि
शृङ्गारिताङ्गलतिकां निजगाल कालः ।। 37।।
तस्या य एव परिरक्षति देहयष्टिं
यं पुत्रवच्च परिपालयते स्म सोऽपि ।
स्वप्नेऽप्यविश्वसितिपात्रकथामनाप्तो
वेयन्तकोऽन्तकतयाऽत्र ववर्ष गोलीः ।। 38।।
यं पुत्रवच्च परिपालयते स्म सोऽपि ।
स्वप्नेऽप्यविश्वसितिपात्रकथामनाप्तो
वेयन्तकोऽन्तकतयाऽत्र ववर्ष गोलीः ।। 38।।
अङ्गारकैर्नु नलिनी क्षपिता ज्वलद्भि-
र्गोलीशतैरकरुणैरियमुज्ज्वलात्मा ।
भूमौ पापात रुधिरैरभितः क्षरद्भी
रम्यान् विधित्सुरिव मातृभुवेऽङ्गरागान् ।। 39।।
र्गोलीशतैरकरुणैरियमुज्ज्वलात्मा ।
भूमौ पापात रुधिरैरभितः क्षरद्भी
रम्यान् विधित्सुरिव मातृभुवेऽङ्गरागान् ।। 39।।
यातो यथा झटिति सञ्जय ऊर्ध्वमुर्व्वीं
त्यक्त्वा तथैव खलु तज्जननीन्दिराऽपि ।
भाग्योदयेन बहुजन्म-समार्जितेन
लीलावसानमुपयाति जनोऽप्रतर्क्यम् ।। 40।।v
त्यक्त्वा तथैव खलु तज्जननीन्दिराऽपि ।
भाग्योदयेन बहुजन्म-समार्जितेन
लीलावसानमुपयाति जनोऽप्रतर्क्यम् ।। 40।।v
तां मातरिश्वतनयोऽगुरुचन्दनाद्यै-
र्दिव्यौषधैः सह यदा जगृहे तदानीम् ।
मूर्ध्ना कपोतकरशेखरितेन तस्यै
चक्रे प्रणाममखिलोऽपि मनुष्यलोकः ।। 41।।
र्दिव्यौषधैः सह यदा जगृहे तदानीम् ।
मूर्ध्ना कपोतकरशेखरितेन तस्यै
चक्रे प्रणाममखिलोऽपि मनुष्यलोकः ।। 41।।
वेदध्वनी रविसुतापुलिनेऽन्यधर्म-
स्तोत्रैः शुभोऽनुसृतिमापदिदक्षणे ताम् ।
श्वेताण्डजः शरदि पङ्कजसौरभाढ्यो
यामश्नुते सरसि गीतयशा द्विरेफैः ।। 42।।
स्तोत्रैः शुभोऽनुसृतिमापदिदक्षणे ताम् ।
श्वेताण्डजः शरदि पङ्कजसौरभाढ्यो
यामश्नुते सरसि गीतयशा द्विरेफैः ।। 42।।
वर्षात्ययान्तचरणोज्ज्वल- मेघ- गर्भं
व्योमाऽपि शोकजनितैः श्वसितैरिदानीम् ।
बाष्पावलीमलिखदिन्दिरयाऽनुभूतान्
घाताँस्तथाविधदुरात्मकृतान् न्ववाप्य ।। 43।।
व्योमाऽपि शोकजनितैः श्वसितैरिदानीम् ।
बाष्पावलीमलिखदिन्दिरयाऽनुभूतान्
घाताँस्तथाविधदुरात्मकृतान् न्ववाप्य ।। 43।।
वाता ववुस्तुहिनतुन्दिलिमप्रसूत-
मान्थर्य्यदोषदलिताः शरदुत्पलिन्याः ।
केनान्वभावि ननु कश्चन भेदलेशो-
ऽप्यद्य क्षणे द्युवनितोच्छ्वसितेभ्य एषाम् ।। 44।।
मान्थर्य्यदोषदलिताः शरदुत्पलिन्याः ।
केनान्वभावि ननु कश्चन भेदलेशो-
ऽप्यद्य क्षणे द्युवनितोच्छ्वसितेभ्य एषाम् ।। 44।।
आश्रावणामपि विनापि मृदङ्गवाद्यं
घोषान् ससर्ज करुणामसृणानिदानीम् ।
रावाँश्च हन्त सुषिराण्यपि वक्त्रपाणि-
योगं विनापि ससृजुर्दिवि मध्यमार्गान् ।। 45।।
घोषान् ससर्ज करुणामसृणानिदानीम् ।
रावाँश्च हन्त सुषिराण्यपि वक्त्रपाणि-
योगं विनापि ससृजुर्दिवि मध्यमार्गान् ।। 45।।
शोकश्रुतिस्त्रिविधसैन्यसमीरिता च
वर्णत्रयी भरतभूध्वजपट्टगा च ।
अन्योन्यचुम्बनगुणोपकृते नु बाष्पा-
ण्यस्यै मुहुः समुदितान्युपशामयेते ।। 46।।
वर्णत्रयी भरतभूध्वजपट्टगा च ।
अन्योन्यचुम्बनगुणोपकृते नु बाष्पा-
ण्यस्यै मुहुः समुदितान्युपशामयेते ।। 46।।
सप्तापि वर्षगिरयः सरितः समास्तां
सार्धं चतुर्भिरपि हन्त तदा समुद्रैः।
स्रोतः-समुत्थ-रुति-सन्तति-लेशतः स्वाञ्
श्रद्धाञ्जलीनिव विभाव्य समाद्रियन्त ।। 47।।
सार्धं चतुर्भिरपि हन्त तदा समुद्रैः।
स्रोतः-समुत्थ-रुति-सन्तति-लेशतः स्वाञ्
श्रद्धाञ्जलीनिव विभाव्य समाद्रियन्त ।। 47।।
अस्मिन्नवाप कलहः समये स्वधर्म-
श्रद्धातिरेकिषु जनेषु जनिं परन्तु ।
संसत्सु तद्गतविरुद्धसदस्यतर्क-
चीत्कार-कोटि-कटुषु श्रुतिमेष नापत् ।। 48।।
श्रद्धातिरेकिषु जनेषु जनिं परन्तु ।
संसत्सु तद्गतविरुद्धसदस्यतर्क-
चीत्कार-कोटि-कटुषु श्रुतिमेष नापत् ।। 48।।
ब्रूते स्म कश्चन ‘समे खलु धर्ममार्गाः
सिक्खैरिहावनितलेऽद्य कृता लघिष्ठाः ।
यैरिन्दिरापि सहसा निजधर्मराज्य-
संस्थापनार्थमिह संघटितैरनाशि ।। 49।।
सिक्खैरिहावनितलेऽद्य कृता लघिष्ठाः ।
यैरिन्दिरापि सहसा निजधर्मराज्य-
संस्थापनार्थमिह संघटितैरनाशि ।। 49।।
येषां कृते न खलु वैभवमेव रम्यं
नो जीवनं न च यशोऽपि महाभटास्ते ।
सिक्खाः स्वधर्मनिरता यदि साहसानि
कुर्य्युर्न चित्रमिदमस्ति स तत्स्वभावः ।। 50।।
नो जीवनं न च यशोऽपि महाभटास्ते ।
सिक्खाः स्वधर्मनिरता यदि साहसानि
कुर्य्युर्न चित्रमिदमस्ति स तत्स्वभावः ।। 50।।
यच्छासनं प्रति रुषं प्रकटीकरोति
सान्दोलनं दलमिदं यदि कीर्त्तिमेति ।
किं वाऽपराद्धमपरेण वृतप्रधान-
मन्त्रिप्रणाशनपथेन कृतार्थितेन ।। 51।।
सान्दोलनं दलमिदं यदि कीर्त्तिमेति ।
किं वाऽपराद्धमपरेण वृतप्रधान-
मन्त्रिप्रणाशनपथेन कृतार्थितेन ।। 51।।
हिंसां विधिर्यदि न संमनुते शरीर-
ध्वंसात्मिकामपि कुतोऽपि तिरस्क्रियार्हाम् ।
पृच्छाऽभ्युदेति कथमेष धनादिनाश-
रूपामिमां न खलु संमनुतेऽत्र शुद्धाम् ।। 52।।
ध्वंसात्मिकामपि कुतोऽपि तिरस्क्रियार्हाम् ।
पृच्छाऽभ्युदेति कथमेष धनादिनाश-
रूपामिमां न खलु संमनुतेऽत्र शुद्धाम् ।। 52।।
यो वै धनं निजशरीरपरिश्रमेण
प्राणक्षयापरपदेन समाचिनोति ।
तस्मै धनक्षय इहाणुमितोऽपि नूनं
प्राणक्षयेण सम एव किमत्र तर्कैः ।। 53।।
प्राणक्षयापरपदेन समाचिनोति ।
तस्मै धनक्षय इहाणुमितोऽपि नूनं
प्राणक्षयेण सम एव किमत्र तर्कैः ।। 53।।
पुत्रो निहत्य पितरं यदि शासकः सन्
राजत्वमेत्य हविषा धिनुते दिगीशान् ।
तस्माद्धविः किमिति वैदिकमन्त्रगर्भ-
मप्याद्रियेत पितृशोणितदोषदृग्भिः ।। 54।।
राजत्वमेत्य हविषा धिनुते दिगीशान् ।
तस्माद्धविः किमिति वैदिकमन्त्रगर्भ-
मप्याद्रियेत पितृशोणितदोषदृग्भिः ।। 54।।
इत्येवमादि दिवि दिव्यविभूतिसिद्ध-
प्रज्ञातिरेककलनीयगुणा क्वणन्ती ।
वीणा व्यभावि चिति काचन रुद्धबाष्पैः
सामाजिकैर्भरत-भू-तनयैरिदानीम् ।। 55।।
प्रज्ञातिरेककलनीयगुणा क्वणन्ती ।
वीणा व्यभावि चिति काचन रुद्धबाष्पैः
सामाजिकैर्भरत-भू-तनयैरिदानीम् ।। 55।।
भूरेषा तव शिष्यवर्य तव हि स्वाम्यं विधानार्पितं
तस्यामत्र समर्पितामृतसरःस्वर्णालयायां त्वयि ।
यूयं भारतवर्षसंज्ञिनि महत्यस्मिन् महापौरुषाः
स्वे राष्ट्रे भरताः स्वधर्मनिरता यूयं गृहस्वामिनः ।। 56।।
तस्यामत्र समर्पितामृतसरःस्वर्णालयायां त्वयि ।
यूयं भारतवर्षसंज्ञिनि महत्यस्मिन् महापौरुषाः
स्वे राष्ट्रे भरताः स्वधर्मनिरता यूयं गृहस्वामिनः ।। 56।।
युष्माकं खलु वाहिनी रणमुखे कालीव सर्वङ्कषा
शत्रूणां परिशातनेषु नितरां दक्षा विराराजते ।
युष्माकं भुजपञ्जरेण विधृता काचिज्जयश्रीरिमं
गेहं सद्गृहिणीव रक्तहृदया देशं समासेवते ।। 57।।
शत्रूणां परिशातनेषु नितरां दक्षा विराराजते ।
युष्माकं भुजपञ्जरेण विधृता काचिज्जयश्रीरिमं
गेहं सद्गृहिणीव रक्तहृदया देशं समासेवते ।। 57।।
एते स्मः सत एकलस्य परमस्याकालनाम्नः प्रभोर्
भक्ताः कालमुखस्य वै परिसरेऽस्माकं न सम्भावना ।
मृत्योर्वक्षसि यैः परश्शतमिमे वर्णाः कृपाणैर्निजैर्
गाढं स्फारितनेत्रमीक्षिततमाः सर्वैः समुट्टङ्किताः ।। 58।।
भक्ताः कालमुखस्य वै परिसरेऽस्माकं न सम्भावना ।
मृत्योर्वक्षसि यैः परश्शतमिमे वर्णाः कृपाणैर्निजैर्
गाढं स्फारितनेत्रमीक्षिततमाः सर्वैः समुट्टङ्किताः ।। 58।।
सर्वेभ्योऽञ्जलिमातनोमि भवतां तेभ्योऽहमेषा भुवो
गङ्गां स्वर्गगतां वगाहितुमितः प्रस्थापिता साम्प्रतम् ।
एतां काञ्चन काञ्चनीं लिपिमिलागर्भाद् दिवं प्रस्थिता
तस्याः कापि चितिः प्रकाशपरमा व्योमाङ्गणेऽस्फोटयत् ।। 59।।
गङ्गां स्वर्गगतां वगाहितुमितः प्रस्थापिता साम्प्रतम् ।
एतां काञ्चन काञ्चनीं लिपिमिलागर्भाद् दिवं प्रस्थिता
तस्याः कापि चितिः प्रकाशपरमा व्योमाङ्गणेऽस्फोटयत् ।। 59।।
अत्रान्तरे समुदियाय जवाहरस्य
स्वात्मा प्रकाशमयमेव वपुर्दधानः ।
प्रत्युज्जगाम स सुतां वचनैरमीभिः
स्मेरं प्रसादसदनं वदनं वहन्तीम् ।। 60।।
स्वात्मा प्रकाशमयमेव वपुर्दधानः ।
प्रत्युज्जगाम स सुतां वचनैरमीभिः
स्मेरं प्रसादसदनं वदनं वहन्तीम् ।। 60।।
पुत्रि! श्लाघ्यतमाऽसि भारतभुवः कृत्वा समाराधनं
लब्ध्वा कीर्त्तिमथाद्भुतां वसुमतीपृष्ठस्य भूषायिताम् ।
राजीवे स्वधुरं निधाय निभृतं वीराङ्गनावर्त्मना
स्वर्गे मां कमलामिमां च सुखयस्यागत्य यत् साम्प्रतम् ।। 61।।
लब्ध्वा कीर्त्तिमथाद्भुतां वसुमतीपृष्ठस्य भूषायिताम् ।
राजीवे स्वधुरं निधाय निभृतं वीराङ्गनावर्त्मना
स्वर्गे मां कमलामिमां च सुखयस्यागत्य यत् साम्प्रतम् ।। 61।।
वेयन्तं त्वमपालयस्तनयवद् वात्सल्यतस्तत्करौ
त्वत्काये कुलिशीचकार भगवान् विश्वाधिदेवः स्वयम् ।
लीलासंवरणाय सोऽयमभवत् प्राचीन एव क्रमः
कालं कालपितैव नोदयति यत् स्वं कल्यवर्त्तायितुम् ।। 62।।
त्वत्काये कुलिशीचकार भगवान् विश्वाधिदेवः स्वयम् ।
लीलासंवरणाय सोऽयमभवत् प्राचीन एव क्रमः
कालं कालपितैव नोदयति यत् स्वं कल्यवर्त्तायितुम् ।। 62।।
नो मां नो मम तातमेव ललिते! राष्ट्रस्य संरक्षणे
वीराणां गतिरुत्तमोत्तमतया संकीर्त्तिताऽन्वग्रहीत् ।
तां त्वं प्राप्य समेयुषी दिवमिमामेषा हुतात्मा तत-
स्त्वं नः पुत्रशताधिकाऽसि तनये! पुण्योच्चयस्त्वं हि नः ।। 63।।
वीराणां गतिरुत्तमोत्तमतया संकीर्त्तिताऽन्वग्रहीत् ।
तां त्वं प्राप्य समेयुषी दिवमिमामेषा हुतात्मा तत-
स्त्वं नः पुत्रशताधिकाऽसि तनये! पुण्योच्चयस्त्वं हि नः ।। 63।।
इमौ सञ्जयवेयन्तौ तुभ्यमेतौ समर्पये ।
जन्ममृत्यू समावेव वीरेभ्यः स्वस्ति याम्यहम् ।। 64।।
जन्ममृत्यू समावेव वीरेभ्यः स्वस्ति याम्यहम् ।। 64।।
इत्युक्त्वा कमलायुतः स कमलाजानिः प्रभाभास्वरो
वीरो नाकतलाद् दिवस्पतिदृशां विस्मापयन् मण्डलीम् ।
उत्थातुं क्रमशोऽक्रमीदनुदिशः पश्यन्नवाग्गोचरान्
दृङ्मात्रान् क्रमवर्धमानमहसो भावान् परस्मात् परान् ।। 65।।
वीरो नाकतलाद् दिवस्पतिदृशां विस्मापयन् मण्डलीम् ।
उत्थातुं क्रमशोऽक्रमीदनुदिशः पश्यन्नवाग्गोचरान्
दृङ्मात्रान् क्रमवर्धमानमहसो भावान् परस्मात् परान् ।। 65।।
उपदिदेश विनाप्यथ वैखरीं सुकविरेष कलत्रयुतः सुताम् ।
कमपि संतमसोत्तरसांविदोत्क्रमणमार्गमितीव हिरण्मयम् ।। 66।।
कमपि संतमसोत्तरसांविदोत्क्रमणमार्गमितीव हिरण्मयम् ।। 66।।
आभोगाः खलु ये पुरः प्रसरतां पारे परोराजसाः
काशन्ते रजसाममी परतमाः केचिद् गुणोन्मीलिताः ।
तानेतान् कलयामि पुत्रि! परमव्योम्नोऽपि कुक्षिम्भरि-
स्फाराँस्तारतरप्रकाशिमहसां स्तोभैरमीभिः स्थिरान् ।। 67।।
काशन्ते रजसाममी परतमाः केचिद् गुणोन्मीलिताः ।
तानेतान् कलयामि पुत्रि! परमव्योम्नोऽपि कुक्षिम्भरि-
स्फाराँस्तारतरप्रकाशिमहसां स्तोभैरमीभिः स्थिरान् ।। 67।।
एते सन्तमसस्य पुत्रि! विषयानुत्तीर्य मायामयीं
छित्त्वा रज्जुमितो व्रजन्ति पितरोऽस्माकं परव्योमनि
स्फोटाँस्तद्वदनोद्गतानुपनिषत्सर्वस्वभूतानहं
शृण्वन्नात्मनि केवलेऽपि रसये ह्लादान् सुधावर्षिणः ।। 68।।
छित्त्वा रज्जुमितो व्रजन्ति पितरोऽस्माकं परव्योमनि
स्फोटाँस्तद्वदनोद्गतानुपनिषत्सर्वस्वभूतानहं
शृण्वन्नात्मनि केवलेऽपि रसये ह्लादान् सुधावर्षिणः ।। 68।।
एषा ते जननी विमुञ्चति भिदं मत्तस्त्वदीयात् पितुः
शम्पा यद्वदपां विसर्पणपराद् धाराधरात् साम्प्रतम् ।
वैखर्य्या सममञ्चति स्वरसतः संसर्पणां मध्यमा-
नादस्तद्द्वितयप्रसूरिति यतः पश्यन्तिका-संविदि ।। 69।।
शम्पा यद्वदपां विसर्पणपराद् धाराधरात् साम्प्रतम् ।
वैखर्य्या सममञ्चति स्वरसतः संसर्पणां मध्यमा-
नादस्तद्द्वितयप्रसूरिति यतः पश्यन्तिका-संविदि ।। 69।।
भूलोकस्य समेऽपि पर्वतनदीकान्तारकेदारिणो
भागाः साम्प्रतमस्य मे न पुरतो भेदं समाबिभ्रति ।
एषामुच्चयतः समुच्चयतनोरैकात्म्यमद्योल्लसत्
संवित्तिं मम शान्तसंज्ञिनि रसे संमज्जयत्यञ्जसा ।। 70।।
भागाः साम्प्रतमस्य मे न पुरतो भेदं समाबिभ्रति ।
एषामुच्चयतः समुच्चयतनोरैकात्म्यमद्योल्लसत्
संवित्तिं मम शान्तसंज्ञिनि रसे संमज्जयत्यञ्जसा ।। 70।।
पुत्रि! त्वं तनयाऽसि मेऽस्मि जनकस्तेऽहं, क्रियाया असौ
व्यावर्त्तः, क्रममाण एष हि महाकालायमानः क्रमः ।
सूर्य्यांश्चन्द्रमसो दिनानि रजनीश्चापि स्वकुक्षौ क्षिपन्
क्रीडां काञ्चन सन्तनोति भुवनाभोगावलीविभ्रमाम् ।। 71।।
व्यावर्त्तः, क्रममाण एष हि महाकालायमानः क्रमः ।
सूर्य्यांश्चन्द्रमसो दिनानि रजनीश्चापि स्वकुक्षौ क्षिपन्
क्रीडां काञ्चन सन्तनोति भुवनाभोगावलीविभ्रमाम् ।। 71।।
द्वैतं सत्यमिदं मृषैव, कलशद्वन्द्वे घटाख्यां क्रिया-
मप्राप्ते मृदिवात्र चिद् विहरति स्वेनैव रूपेण यत् ।
यत् तस्यामहमेष तातचरणस्त्वं त्वत्प्रसूर्द्यौरियं
भूरेषा च सतारका क्षितभिदः संवेशमाशेरते ।। 72।।v
मप्राप्ते मृदिवात्र चिद् विहरति स्वेनैव रूपेण यत् ।
यत् तस्यामहमेष तातचरणस्त्वं त्वत्प्रसूर्द्यौरियं
भूरेषा च सतारका क्षितभिदः संवेशमाशेरते ।। 72।।v
वाग्देवी मम याति शान्तिमिह, नो वर्णावली साम्प्रतं
व्यक्तिं संभजते पदानि सहसा मन्त्रत्वमाबिभ्रति ।
एषोऽहं कवितामयीं भगवतीमाविश्य तां छन्दसां
प्रस्तारान् विविधान् गृणन्निह परां संगीतिमास्वादये ।। 73।।
व्यक्तिं संभजते पदानि सहसा मन्त्रत्वमाबिभ्रति ।
एषोऽहं कवितामयीं भगवतीमाविश्य तां छन्दसां
प्रस्तारान् विविधान् गृणन्निह परां संगीतिमास्वादये ।। 73।।
तन्त्री सम्प्रति हृन्मयी मम चितेस्ताँस्तान् स्तरान् मुञ्चती
मौनं संप्रतिपद्यते स्वनति सा सांराविणीं स्वां कथाम् ।
रावः सः, श्रुतिरप्यसौ, गतिमती या मूर्च्छना साप्यसा-
वैकात्म्यं मयि लम्भ्यतेऽस्म्यहमहो मोक्षस्वरूपो रसः ।। 74।।
मौनं संप्रतिपद्यते स्वनति सा सांराविणीं स्वां कथाम् ।
रावः सः, श्रुतिरप्यसौ, गतिमती या मूर्च्छना साप्यसा-
वैकात्म्यं मयि लम्भ्यतेऽस्म्यहमहो मोक्षस्वरूपो रसः ।। 74।।
अत्र ज्योतिरिरम्मदेन तुलितं पश्यामि यस्यान्तरे
रेखां काञ्चन भावयामि तिलकप्रख्याकृतिं भास्वतीम् ।
ज्ञाने कर्म समाप्तिमृच्छतितरां ज्ञानं च भक्तौ शृणो-
म्येतां काञ्चन पुत्रि! तन्मुखगतां संगीतिकागीतिकाम् ।। 75।।
रेखां काञ्चन भावयामि तिलकप्रख्याकृतिं भास्वतीम् ।
ज्ञाने कर्म समाप्तिमृच्छतितरां ज्ञानं च भक्तौ शृणो-
म्येतां काञ्चन पुत्रि! तन्मुखगतां संगीतिकागीतिकाम् ।। 75।।
रेखाऽन्याप्यभिलक्ष्यतेऽत्र नितरां श्लक्ष्णा महायोगिनः
प्रज्ञेव स्फुरदात्मवैभवभरा ज्योतिष्मती काचन ।
यस्यां भावितदृक्तटीमहमिमां मीराऽरविन्दच्छटा-
संभाषां कलयाम्यपूर्वकविता-पीयूष-मेदस्विनीम् ।। 76।।
प्रज्ञेव स्फुरदात्मवैभवभरा ज्योतिष्मती काचन ।
यस्यां भावितदृक्तटीमहमिमां मीराऽरविन्दच्छटा-
संभाषां कलयाम्यपूर्वकविता-पीयूष-मेदस्विनीम् ।। 76।।
माता भारतवर्षभूमिरधुना विन्ध्याद्रितो नर्मदां
गङ्गां चापि हिमाद्रितो मयि रसैकात्म्यस्थिरान्तश्चितौ ।
प्रक्षिप्योद्धरति स्वतः स्वतनयाद् भावस्थितानेनसः
संभारानथ पुत्रि! नास्म्यहमसौ सत्ता न मे मामकी ।। 77।।
गङ्गां चापि हिमाद्रितो मयि रसैकात्म्यस्थिरान्तश्चितौ ।
प्रक्षिप्योद्धरति स्वतः स्वतनयाद् भावस्थितानेनसः
संभारानथ पुत्रि! नास्म्यहमसौ सत्ता न मे मामकी ।। 77।।
इत्थं वाक् स जवाहरः सकमलः स्वर्गं विमुच्यात्मनः
स्वातन्त्र्यण विभासितं पदमगाज्ज्योतिर्मयं केवली ।
आर्य्याणामितिहास एष यदिमे मुक्तिं व्रजन्त्यात्मनः
सन्तानेन महीयसि स्थितिमता मार्गेऽवदानोज्ज्वलाः ।। 78।।
स्वातन्त्र्यण विभासितं पदमगाज्ज्योतिर्मयं केवली ।
आर्य्याणामितिहास एष यदिमे मुक्तिं व्रजन्त्यात्मनः
सन्तानेन महीयसि स्थितिमता मार्गेऽवदानोज्ज्वलाः ।। 78।।
इति ‘स्वातन्य्र्ःसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘जवाहरलालमुक्तिर्नाम’ सप्तविंशः सर्गः।। 27।।
राजीवं भरतभुवः प्रधानमन्त्रि-
प्रालेयाचलशिखरे विना विरोधम् ।
आरोप्य स्थविरतमास्त्रिपाठिमुख्या
नेतारः शिवमिव नाकिनः प्रणेमुः ।। 1।।
प्रालेयाचलशिखरे विना विरोधम् ।
आरोप्य स्थविरतमास्त्रिपाठिमुख्या
नेतारः शिवमिव नाकिनः प्रणेमुः ।। 1।।
आसिन्धोरियमवनिस्तदाऽन्वभुङ्क्त
न्यक्कारायुतसहिताँस्तु साधुवादान् ।
पाश्चात्त्या इह खलु भारते भवन्ति
प्राचार्या इति धियि यौवनं विभाव्य ।। 2।।
न्यक्कारायुतसहिताँस्तु साधुवादान् ।
पाश्चात्त्या इह खलु भारते भवन्ति
प्राचार्या इति धियि यौवनं विभाव्य ।। 2।।
भावी त्वं मयि सति किं नु संप्रभुः, स्यां
नाहं चेत् त्वमपि कथं नु तर्हि भावी ।
इत्येवं स्वपर-परस्पराऽभियोग-
ध्वस्तानां भवति सदाऽन्य एव नेता ।। 3।।
नाहं चेत् त्वमपि कथं नु तर्हि भावी ।
इत्येवं स्वपर-परस्पराऽभियोग-
ध्वस्तानां भवति सदाऽन्य एव नेता ।। 3।।
आसीद् वै प्रणवमुखर्जिनामधारी
मन्त्र्यकः स नहि समर्थयाञ्चकार ।
राजीवप्रमुखपदाभिषेकमेतं
सद्यस्तं बहिरकरोद् दलात् स नेता ।। 4।।
मन्त्र्यकः स नहि समर्थयाञ्चकार ।
राजीवप्रमुखपदाभिषेकमेतं
सद्यस्तं बहिरकरोद् दलात् स नेता ।। 4।।
नेताऽसौ दशकचतुष्कवर्षमात्रोऽ-
प्यादर्त्तिं न खलु ररक्ष वृद्धकेभ्यः ।
सौहार्दं श्रितवति मित्रकेऽपि नासौ
विश्वासं समधिकमादधार चित्ते ।। 5।।
प्यादर्त्तिं न खलु ररक्ष वृद्धकेभ्यः ।
सौहार्दं श्रितवति मित्रकेऽपि नासौ
विश्वासं समधिकमादधार चित्ते ।। 5।।
यत्पत्नी प्रभवति भिन्नराष्ट्रजाता
राष्ट्रीयां विगुणयितुं स्म हन्त नीतिम् ।
निर्देशः परुषतमः स सोनियायाः
शिक्षातो बहिरभवत् तु संस्कृतं यत् ।। 6।।
राष्ट्रीयां विगुणयितुं स्म हन्त नीतिम् ।
निर्देशः परुषतमः स सोनियायाः
शिक्षातो बहिरभवत् तु संस्कृतं यत् ।। 6।।
राजीवो न हि खलु वेत्ति भारतीयाँ-
स्त्यक्त्वा त्रीन्, न हि किल येषु भागमापत् ।
देसाईप्रभृतियुतः प्रधानमन्त्री
श्रीशास्त्री कथमपि भाषणेषु जातु ।। 7।।
स्त्यक्त्वा त्रीन्, न हि किल येषु भागमापत् ।
देसाईप्रभृतियुतः प्रधानमन्त्री
श्रीशास्त्री कथमपि भाषणेषु जातु ।। 7।।
यस्याऽऽप्ता अभिनयकर्मणि प्रवेकाः
शास्त्रज्ञादपि खलु नर्त्तका यदर्च्याः ।
यो गङ्गाममनुत वारिमात्रधाराम्
अर्थं च प्रथमयते स्म कामगर्भम् ।। 8।।
शास्त्रज्ञादपि खलु नर्त्तका यदर्च्याः ।
यो गङ्गाममनुत वारिमात्रधाराम्
अर्थं च प्रथमयते स्म कामगर्भम् ।। 8।।
दारिद्रयक्षपण-महाव्रतप्रतिज्ञां
कृत्वा योऽक्षपयदतीव निर्घृणः सन् ।
कोषं स्वं कथमपि सञ्चितं परेभ्यो
यद् दृष्ट्वाऽचलदपि विश्वनाथचेतः ।। 9।।
कृत्वा योऽक्षपयदतीव निर्घृणः सन् ।
कोषं स्वं कथमपि सञ्चितं परेभ्यो
यद् दृष्ट्वाऽचलदपि विश्वनाथचेतः ।। 9।।
प्राशस्त्यं जनयितुमात्मनो विमाने
कोटीर्यो दश तृणवद् व्ययीचकार ।
वन्यानामभिनयचापलप्रवृत्तीः
खेलावद् धनदधुरं परां गतोऽपात् ।। 10।।
कोटीर्यो दश तृणवद् व्ययीचकार ।
वन्यानामभिनयचापलप्रवृत्तीः
खेलावद् धनदधुरं परां गतोऽपात् ।। 10।।
अङ्ग्रेजीं स हि वदति स्म शिष्टमिष्टां
सूत्राणि ग्रथयति नूतनानि याऽर्थे ।
ताटस्थ्यं व्यवहृतिवर्त्त्मनि स्म धैर्या-
दादत्ते सततमतीव सावधानः ।। 11।।
सूत्राणि ग्रथयति नूतनानि याऽर्थे ।
ताटस्थ्यं व्यवहृतिवर्त्त्मनि स्म धैर्या-
दादत्ते सततमतीव सावधानः ।। 11।।
भृत्यानामुपरि ववर्ष यो नवीनै-
रर्थौघं कथमपि वेतनस्य मानैः ।
यल्लाभाद् यदपि बभूव मूल्यवृद्धि-
रैश्वर्यं किमपि तथापि नो न सिद्धम् ।। 12।।
रर्थौघं कथमपि वेतनस्य मानैः ।
यल्लाभाद् यदपि बभूव मूल्यवृद्धि-
रैश्वर्यं किमपि तथापि नो न सिद्धम् ।। 12।।
हिन्दुत्वं स्थगितमुखं निलीयते स्म
क्षेत्रेभ्यः क्षतधृति कान्दिशीकभावात् ।
प्रच्छन्नं प्रसरमुदारमापदीशुर्
यद्राज्ये भरतमही ज्वरैरिवार्दि ।। 13।।
क्षेत्रेभ्यः क्षतधृति कान्दिशीकभावात् ।
प्रच्छन्नं प्रसरमुदारमापदीशुर्
यद्राज्ये भरतमही ज्वरैरिवार्दि ।। 13।।
ग्रामाणामुरसि पुरां यथाऽन्यधर्म-
क्ष्वेडीयाः सरित उदित्वरा जगर्जुः ।
नो काश्यां न च खलु तीर्थराज एव
यीशूनां भवनशतं न खं व्यचुम्बत् ।। 14।।
क्ष्वेडीयाः सरित उदित्वरा जगर्जुः ।
नो काश्यां न च खलु तीर्थराज एव
यीशूनां भवनशतं न खं व्यचुम्बत् ।। 14।।
पाठ्यानामपि दशमस्तरावधीनां
हिन्दुत्वं क्वचिदपि नापदात्मलाभम् ।
अन्येषां स्वत उपचीयते निकायो
धर्माणां यदि लयमेति हिन्दुभावः ।। 15।।
हिन्दुत्वं क्वचिदपि नापदात्मलाभम् ।
अन्येषां स्वत उपचीयते निकायो
धर्माणां यदि लयमेति हिन्दुभावः ।। 15।।
क्लेशानां करणचये प्रचीयमाना-
नामंशाः कतिचन हिन्दुधर्मगानाम् ।
त्यज्यन्ते यदि सुगता जिना मसीहा
इस्लामाः खलु जनिमात्मनो लभन्ते ।। 16।।
नामंशाः कतिचन हिन्दुधर्मगानाम् ।
त्यज्यन्ते यदि सुगता जिना मसीहा
इस्लामाः खलु जनिमात्मनो लभन्ते ।। 16।।
संकोचं स खलु चकार नाऽन्यराष्ट्र-
साहाय्ये निजधनसंचये वितृष्णः ।
दित्सायां निरतिशयं निबद्धभावो
नादित्सां मनसि बभार राष्ट्रहेतोः ।। 17।।
साहाय्ये निजधनसंचये वितृष्णः ।
दित्सायां निरतिशयं निबद्धभावो
नादित्सां मनसि बभार राष्ट्रहेतोः ।। 17।।
श्रीलङ्कातमिलविरोधलब्धजन्मा
यः कश्चित् कलिरुपचीयमान आसीत् ।
तच्छान्त्यै स किल मृषोद्यमं व्यतानी-
च्चण्डांशोः पिक इव दुस्सहे निदाघे ।। 18।।
यः कश्चित् कलिरुपचीयमान आसीत् ।
तच्छान्त्यै स किल मृषोद्यमं व्यतानी-
च्चण्डांशोः पिक इव दुस्सहे निदाघे ।। 18।।
सैन्यानामयुतशतं दशप्रमाणं
श्रीलङ्काविपिनचरं चकार नैजम् ।
तद्गात्रे गगनतलान्नु वज्रजातं
भूगर्भादपतदुषर्बुधो वमोत्थः ।। 19।।
श्रीलङ्काविपिनचरं चकार नैजम् ।
तद्गात्रे गगनतलान्नु वज्रजातं
भूगर्भादपतदुषर्बुधो वमोत्थः ।। 19।।
लङ्काया अधिगहनं यदस्मदीयं
निक्षिप्तं बलमभवत् कुतोऽपि हेतोः ।
पूर्णं तत् पशुवदहो जिहिंस शत्रुः
क्रूराभिश्छलकटपूतनाभिरुग्रः ।। 20।।
निक्षिप्तं बलमभवत् कुतोऽपि हेतोः ।
पूर्णं तत् पशुवदहो जिहिंस शत्रुः
क्रूराभिश्छलकटपूतनाभिरुग्रः ।। 20।।
योग्यानां विशसनमेतदानिशम्य
संपूर्णा भरतमही निदाघदाहम् ।
हेमन्तेष्वपि शिशिरेष्वपि प्रमाति-
क्रान्तौष्ण्यं समनुबभूव शोकमग्ना ।। 21।।
संपूर्णा भरतमही निदाघदाहम् ।
हेमन्तेष्वपि शिशिरेष्वपि प्रमाति-
क्रान्तौष्ण्यं समनुबभूव शोकमग्ना ।। 21।।
स्वात्मानं क्षपयति यो विनापि हेतो-
रन्यस्मै स हि जगतीह बालिशग्यः्ष ।
अन्यस्तं हसतितरां समिद्धसिद्धिः
कर्त्तघ्न्यं गजनिमुहम्मदो नु बिभ्रत् ।। 22।।
रन्यस्मै स हि जगतीह बालिशग्यः्ष ।
अन्यस्तं हसतितरां समिद्धसिद्धिः
कर्त्तघ्न्यं गजनिमुहम्मदो नु बिभ्रत् ।। 22।।
कर्णत्वं क्व खलु सुयोधनाय कश्चि-
ल्लब्धात्मा कलिसमयेऽद्य पोपुषीति ।
मूर्खत्वं जगति कृतज्ञताप्रियत्वं
कार्त्तघ्न्यं भवति च वल्लभोऽद्य नीतेः ।। 23।।
ल्लब्धात्मा कलिसमयेऽद्य पोपुषीति ।
मूर्खत्वं जगति कृतज्ञताप्रियत्वं
कार्त्तघ्न्यं भवति च वल्लभोऽद्य नीतेः ।। 23।।
कौटल्यं स्मितवदनो न कोऽद्य नेता
संदर्श्य व्यपगतलज्जमर्जितार्थः ।
मेदिन्यामिह चतुरस्रताञ्चितायां
धिग् धिग् धिग् विषधरवत् प्रजर्हृषीति ।। 24।।
संदर्श्य व्यपगतलज्जमर्जितार्थः ।
मेदिन्यामिह चतुरस्रताञ्चितायां
धिग् धिग् धिग् विषधरवत् प्रजर्हृषीति ।। 24।।
यस्य त्वग् भवति सिताऽसितां त्वचं स
बिभ्राणान् क्व न शुनकानिवाक्षणोति ।
द्रव्यं वै भवति यदीय आलयेऽसौ
तद्भोगं क्व न खलु निस्त्रपस्तनोति ।। 25।।
बिभ्राणान् क्व न शुनकानिवाक्षणोति ।
द्रव्यं वै भवति यदीय आलयेऽसौ
तद्भोगं क्व न खलु निस्त्रपस्तनोति ।। 25।।
भूयासं मुनिरिति निश्चितः स्वकीयं
रत्नौघं पथि पथि वर्षति प्रमत्तः ।
तां लक्ष्मीं हसति सरस्वती स्वसाऽस्याः
क्षेमार्थं पथि पथि साह्यमर्जिजीषुः ।। 26।।
रत्नौघं पथि पथि वर्षति प्रमत्तः ।
तां लक्ष्मीं हसति सरस्वती स्वसाऽस्याः
क्षेमार्थं पथि पथि साह्यमर्जिजीषुः ।। 26।।
ग्रन्थानामयुतशताधिकाः पृथिव्या-
मागारा दिशि दिशि जाग्रति श्वसन्तः ।
तद्रक्षां न खलु जवाहरस्य वंशः
कर्त्तव्येत्यभिमनुते स्म बोधितोऽपि ।। 27।।
मागारा दिशि दिशि जाग्रति श्वसन्तः ।
तद्रक्षां न खलु जवाहरस्य वंशः
कर्त्तव्येत्यभिमनुते स्म बोधितोऽपि ।। 27।।
राजीवो नटदयितः प्रधानमन्त्री
तामेतां निकृतिममंस्त राष्ट्रभाग्यम् ।
पत्राणि प्रथमयितुं ततोऽक्रमन्त
वृद्धानामुपहसितौ, निरर्गलानि ।। 28।।
तामेतां निकृतिममंस्त राष्ट्रभाग्यम् ।
पत्राणि प्रथमयितुं ततोऽक्रमन्त
वृद्धानामुपहसितौ, निरर्गलानि ।। 28।।
यो दिल्लीं कथमपि सेवितुं समर्थस्तं
श्वानं क्व नु खलु दूरदर्शनानि ।
शार्दूलादधिकमवापयन्ति धार्ष्ट्-र्यान्
माहात्म्यं शिशुजनवल्लभानि भूत्वा ।। 29।।
श्वानं क्व नु खलु दूरदर्शनानि ।
शार्दूलादधिकमवापयन्ति धार्ष्ट्-र्यान्
माहात्म्यं शिशुजनवल्लभानि भूत्वा ।। 29।।
ये काश्या अपि विविधा भवन्ति वृत्त-
पत्राख्या व्यपगतपक्षका नु गृध्राः ।
तच्चञ्चूरपि न निरामिषा तदीया
ये तेषामपगतलज्जमारटन्ती ।। 30।।
पत्राख्या व्यपगतपक्षका नु गृध्राः ।
तच्चञ्चूरपि न निरामिषा तदीया
ये तेषामपगतलज्जमारटन्ती ।। 30।।
राजीवो न खलु विकारजातमेतद्
विज्ञातुं प्रभवति पाशितः स्वमित्रैः ।
संस्कारानपरदिशोऽधिगत्य तत्त-
दौन्नत्यं कथमपि लब्धुमात्तधैर्यैः ।। 31।।
विज्ञातुं प्रभवति पाशितः स्वमित्रैः ।
संस्कारानपरदिशोऽधिगत्य तत्त-
दौन्नत्यं कथमपि लब्धुमात्तधैर्यैः ।। 31।।
विद्वांसो न खलु तमक्षमन्त साक्षात्
कृत्वा स्वं प्रकटयितुं निवेदनीयम् ।
तत्कार्यालय-निहिताधिकार-भाजो
मन्त्रित्वं बहु खलु मन्वते स्म नान्यत् ।। 32।।
कृत्वा स्वं प्रकटयितुं निवेदनीयम् ।
तत्कार्यालय-निहिताधिकार-भाजो
मन्त्रित्वं बहु खलु मन्वते स्म नान्यत् ।। 32।।
विज्ञाने कथमपि भक्तिमान् प्रधान-
मन्त्र्यष व्यतिषजति स्म नो कलासु ।
तत्रापि श्रुतिविषयार्थसार्थविद्या
श्रेष्ठासु प्रियतमया तथात्तदीक्षः ।। 33।।
मन्त्र्यष व्यतिषजति स्म नो कलासु ।
तत्रापि श्रुतिविषयार्थसार्थविद्या
श्रेष्ठासु प्रियतमया तथात्तदीक्षः ।। 33।।
साहित्यं भवति हि किं नरः पशुर्वा
पक्षी वा द्रुमलतिकादि वेत्यविद्वान् ।
तत्स्रष्टॄनपि महतः कवीनवज्ञा-
स्पृष्टान्तःकरण उपेक्षते स्म दिष्ट्या ।। 34।।
पक्षी वा द्रुमलतिकादि वेत्यविद्वान् ।
तत्स्रष्टॄनपि महतः कवीनवज्ञा-
स्पृष्टान्तःकरण उपेक्षते स्म दिष्ट्या ।। 34।।
भूयांसो जलनिधिकुक्षिपारसंस्था
देशास्तं मृदुवचसं न्यमन्त्रयन्त ।
सोऽप्येतानवलितलेश्वरायमाण-
श्रीभोक्ता प्रियतमया समं व्यपश्यत् ।। 35।।
देशास्तं मृदुवचसं न्यमन्त्रयन्त ।
सोऽप्येतानवलितलेश्वरायमाण-
श्रीभोक्ता प्रियतमया समं व्यपश्यत् ।। 35।।
नो दीनो न च स बभूव गर्वलीढ-
स्ताटस्थ्यान्निभृतवचा विदेशभूमौ ।v
औदात्त्यं निरतिशयं समेऽपि लोके
ह्येतस्मादभवदिवोत्पतिष्णु धीरात् ।। 36।।
स्ताटस्थ्यान्निभृतवचा विदेशभूमौ ।v
औदात्त्यं निरतिशयं समेऽपि लोके
ह्येतस्मादभवदिवोत्पतिष्णु धीरात् ।। 36।।
सुप्तो यः स खलु न बोधितः प्रभाते
मन्त्री स्वं विषयमवाप शासनार्थम् ।
इत्येवं फलकगताक्षसारिकाख्यान्
नित्यं स्वाँश्चलयति मन्त्रिणो वराकान् ।। 37।।
मन्त्री स्वं विषयमवाप शासनार्थम् ।
इत्येवं फलकगताक्षसारिकाख्यान्
नित्यं स्वाँश्चलयति मन्त्रिणो वराकान् ।। 37।।
प्रान्तानामपि यदि मुख्यमन्त्रिणोऽपि
क्षेत्रे स्वे निरतिशयप्रिया अभूवन् ।
तान् सद्यः स्ववशगतान् विधातुमेष
दिल्लीस्थान् अपरपदाञ्चितानकार्षीत् ।। 38।।
क्षेत्रे स्वे निरतिशयप्रिया अभूवन् ।
तान् सद्यः स्ववशगतान् विधातुमेष
दिल्लीस्थान् अपरपदाञ्चितानकार्षीत् ।। 38।।
तस्य स्वो न खलु बभूव वस्तुतः स्वः
प्रत्येयो भवति न कोऽपि राजनीतौ ।
कौटल्यो विलपति सर्वदैव कार्यो
विश्वासः क्वचिदपि नेति शङ्कितात्मा ।। 39।
।
प्रत्येयो भवति न कोऽपि राजनीतौ ।
कौटल्यो विलपति सर्वदैव कार्यो
विश्वासः क्वचिदपि नेति शङ्कितात्मा ।। 39।
गीता यं कथयति नित्यसंदिहानं
दृष्टान्तो भवति हि तस्य राजनेता ।
आः सर्वोऽध्यवसित आत्मनस्तु हेतो-
रित्येषा श्रुतिरपि तात्त्विकी नयज्ञे ।। 40।।
दृष्टान्तो भवति हि तस्य राजनेता ।
आः सर्वोऽध्यवसित आत्मनस्तु हेतो-
रित्येषा श्रुतिरपि तात्त्विकी नयज्ञे ।। 40।।
पाकानामलभत बेनजीरभुट्टो
प्राधान्यं निजपितृगौरवेण यद्वत् ।
राजीवोऽप्यलभत भारतप्रधान-
मन्त्रित्वं निजजननीन्दिरामहिम्ना ।। 41।।
प्राधान्यं निजपितृगौरवेण यद्वत् ।
राजीवोऽप्यलभत भारतप्रधान-
मन्त्रित्वं निजजननीन्दिरामहिम्ना ।। 41।।
स्वातन्यंर्न विगलितसत्त्वमेव देशे-
ष्वेतेषु प्रचलति यत्र वंशराज्यम् ।
साम्राज्यादिह गणराज्यनाम्नि तन्त्रे
को भेदो जनमतसंग्रहे च कोऽर्थः ।। 42।।
ष्वेतेषु प्रचलति यत्र वंशराज्यम् ।
साम्राज्यादिह गणराज्यनाम्नि तन्त्रे
को भेदो जनमतसंग्रहे च कोऽर्थः ।। 42।।
धन्येयं भरतमही न यत्र नेता
नेतृत्वं न च निजमात्रलाभनिष्ठम् ।
वाणिज्यं जनहितसाधनव्रतं च
पर्यायो भवति कदा क्व वा धरित्र्याम् ।। 43।।
नेतृत्वं न च निजमात्रलाभनिष्ठम् ।
वाणिज्यं जनहितसाधनव्रतं च
पर्यायो भवति कदा क्व वा धरित्र्याम् ।। 43।।
माण्डूक्यामुपनिषदं जपत्सु मातुः
स्तन्यं वै कलुषयतां बताग्रणीषु ।
राष्ट्रीयः क्व नु खलु नायकत्वभावः
पङ्के गौरिव भरतावनौ न शीर्णः ।। 44।।
स्तन्यं वै कलुषयतां बताग्रणीषु ।
राष्ट्रीयः क्व नु खलु नायकत्वभावः
पङ्के गौरिव भरतावनौ न शीर्णः ।। 44।।
यस्यास्ते द्रविणमगण्यमस्ति यस्मिन्
द्रोणाब्द-प्रतिमममेयवार्षुकत्वम् ।
तत्पाणिद्वितयमपास्य किं नु वान्यत्
क्षीरार्णोनिधिशयनायतां विभूत्यै ।। 45।।
द्रोणाब्द-प्रतिमममेयवार्षुकत्वम् ।
तत्पाणिद्वितयमपास्य किं नु वान्यत्
क्षीरार्णोनिधिशयनायतां विभूत्यै ।। 45।।
वीरत्वं भवति वचस्सु केवलेषु
श्रीदेव्या परिगतवर्णकेषु येषाम् ।
तेषां नो किमपि निजं परत्वमात्र-
गीर्णानां क्वचिदपि रोदसी त्रिलोक्याम्।। 46।।
श्रीदेव्या परिगतवर्णकेषु येषाम् ।
तेषां नो किमपि निजं परत्वमात्र-
गीर्णानां क्वचिदपि रोदसी त्रिलोक्याम्।। 46।।
कुत्र त्वं विलससि शैलराज! मेरो!
यच्छृङ्गे विलसति हेमराशिरुच्चैः ।
त्वं मित्रं भवसि नु कस्य नेतृमात्रं
त्वक्त्वाऽन्यक्षपणमहाक्रतौ सदीक्षम् ।। 47।।
यच्छृङ्गे विलसति हेमराशिरुच्चैः ।
त्वं मित्रं भवसि नु कस्य नेतृमात्रं
त्वक्त्वाऽन्यक्षपणमहाक्रतौ सदीक्षम् ।। 47।।
यद्यन्यक्षपणकदर्यतैव भूते-
रुत्सेकस्तत्कृतमनया पिशाचपुत्र्या ।
रे मेरो! भवसि मृगस्य तृष्णिकैव
त्वं तुभ्यं प्रणमितमस्तका इमे स्मः ।। 48।।
रुत्सेकस्तत्कृतमनया पिशाचपुत्र्या ।
रे मेरो! भवसि मृगस्य तृष्णिकैव
त्वं तुभ्यं प्रणमितमस्तका इमे स्मः ।। 48।।
यद्वा मे चितिरियमस्ति योषिदेव
गर्भं या निभृतमुपादधाति लोला ।
पश्चाच्च प्रतिदिनमेव जञ्जपीति
न त्वेवं पुनरनुशायितेति मन्त्रम् ।। 49।।
गर्भं या निभृतमुपादधाति लोला ।
पश्चाच्च प्रतिदिनमेव जञ्जपीति
न त्वेवं पुनरनुशायितेति मन्त्रम् ।। 49।।
दोषान् वै विवृतमुखान् निशाचराणां
सागन्ध्ये बहुतरदर्शितात्मशक्तीन् ।
सोढ्वाऽपि प्रतिदिनमेव मीलिताक्षा-
स्तिष्ठामो वधमुखबर्करायमाणाः ।। 50।।
सागन्ध्ये बहुतरदर्शितात्मशक्तीन् ।
सोढ्वाऽपि प्रतिदिनमेव मीलिताक्षा-
स्तिष्ठामो वधमुखबर्करायमाणाः ।। 50।।
अर्थत्वं भवति मनुष्यभूमिमात्रे
तत्स्वाम्यं भवतु कथञ्चनापि सिद्धम् ।
इत्येषा कलुषतमा मतिर्न नीतिः
सा स्फीतिर्यमवदनस्य घस्मरस्य ।। 51।।
तत्स्वाम्यं भवतु कथञ्चनापि सिद्धम् ।
इत्येषा कलुषतमा मतिर्न नीतिः
सा स्फीतिर्यमवदनस्य घस्मरस्य ।। 51।।
इत्येतत्, कलयितुमात्तशक्तिरासीद्
राजीवो न हि न च तद्विरोधिनोऽपि ।
धर्माख्ये सुरविटपिन्यमी स्वमान्द्यात्
ताटस्थ्यं परुषतरं विभावयन्तः ।। 52।।
राजीवो न हि न च तद्विरोधिनोऽपि ।
धर्माख्ये सुरविटपिन्यमी स्वमान्द्यात्
ताटस्थ्यं परुषतरं विभावयन्तः ।। 52।।
कः सूत्रं प्रवदति कः शिखां च धर्मं
धर्मं ते कमपि तथा निरूपयेते ।
धूमोऽग्निं कमपि न किं शिलोच्चयोत्थः
प्रच्छन्नस्थितिकमनुब्रवीति तात्स्थ्यात् ।। 53।।
धर्मं ते कमपि तथा निरूपयेते ।
धूमोऽग्निं कमपि न किं शिलोच्चयोत्थः
प्रच्छन्नस्थितिकमनुब्रवीति तात्स्थ्यात् ।। 53।।
यस्तावद् प्रवदति लिङ्गमेव साध्यं
विद्वांसस्तमिह समुल्लपन्ति बालम् ।
काङ्ग्रेसाः शृणुथ वधध्व च प्रयत्नात्
धर्मं नो गमयथ संप्रदाय-भावम् ।। 54।।
विद्वांसस्तमिह समुल्लपन्ति बालम् ।
काङ्ग्रेसाः शृणुथ वधध्व च प्रयत्नात्
धर्मं नो गमयथ संप्रदाय-भावम् ।। 54।।
नो रामो न च वसुदेवसूनुरेव
नो बुद्धो न च जिन एव नापि यीशुः ।
धर्मत्वं गमयति पद्धतिं स्वकीयां
धर्मोत्था भवति हि पद्धतिस्तदीया ।। 55।।
नो बुद्धो न च जिन एव नापि यीशुः ।
धर्मत्वं गमयति पद्धतिं स्वकीयां
धर्मोत्था भवति हि पद्धतिस्तदीया ।। 55।।
विद्वद्भिर्नहि मतिभेद उत्पथीयः
सामान्ये तनुभृति भाषयाऽपि भाव्यः ।
सा काचिन्निकृतिरतीव कश्मलास्या
सर्वं सा प्रदहति मङ्गलं नराणाम् ।। 56।।
सामान्ये तनुभृति भाषयाऽपि भाव्यः ।
सा काचिन्निकृतिरतीव कश्मलास्या
सर्वं सा प्रदहति मङ्गलं नराणाम् ।। 56।।
जैनानां भवति न किं दशास्यहन्ता
रामाख्यः पुरुषवृषाकपिः स कश्चित् ।
वीरः स प्रथयति कं नु धर्ममार्गं
को वा तं प्रवदति धर्ममेव साक्षात् ।। 57।।
रामाख्यः पुरुषवृषाकपिः स कश्चित् ।
वीरः स प्रथयति कं नु धर्ममार्गं
को वा तं प्रवदति धर्ममेव साक्षात् ।। 57।।
आचारः प्रथमतमस्तु भारतीयः
सद्धर्मस्तमभिनिरीक्ष्य भक्तिमार्गः ।
सत्तां स्वां प्रतिलभते तमन्तरेण
श्रद्धालुर्भवति न कोऽपि भारतीयः ।। 58।।
सद्धर्मस्तमभिनिरीक्ष्य भक्तिमार्गः ।
सत्तां स्वां प्रतिलभते तमन्तरेण
श्रद्धालुर्भवति न कोऽपि भारतीयः ।। 58।।
न न्याये भवति जनः प्रमाणमास्तां
तत्संख्या विरलतराऽथवा महिष्ठा ।
बालोऽपि श्रुतिमहतः पथः प्रदेष्टा
वृद्धानामलिकशतैरिहास्ति वन्द्यः ।। 59।।
तत्संख्या विरलतराऽथवा महिष्ठा ।
बालोऽपि श्रुतिमहतः पथः प्रदेष्टा
वृद्धानामलिकशतैरिहास्ति वन्द्यः ।। 59।।
यद्वा स्यान्न खलु जवाहरो न गान्धी
नो शास्त्री न च तनयादिकं तदीयम् ।
उल्लेख्यं जनमतसंग्रहप्रचारे
रामादाविव बत संप्रदायदोषात् ।। 60।।
नो शास्त्री न च तनयादिकं तदीयम् ।
उल्लेख्यं जनमतसंग्रहप्रचारे
रामादाविव बत संप्रदायदोषात् ।। 60।।
राजीवो निजजननीचिताधिरूढिं
संदर्श्याक्रथयत चेतनां जनानाम् ।
कालेऽस्मिञ् जनमतसंग्रहं च कृत्वा
चण्डांशुं शरदिव संसदं विजिग्ये ।। 61।।
संदर्श्याक्रथयत चेतनां जनानाम् ।
कालेऽस्मिञ् जनमतसंग्रहं च कृत्वा
चण्डांशुं शरदिव संसदं विजिग्ये ।। 61।।
श्रद्धेयं यदि नहि सांप्रदायिकत्वं
राजीवं विजयिनमीरयेत को वा ।
तस्यैतच्छलमपि चेत् प्रमाप्रपूतं
रामाद्यैस्तदिह विराध्यते किमत्र ।। 62।।
राजीवं विजयिनमीरयेत को वा ।
तस्यैतच्छलमपि चेत् प्रमाप्रपूतं
रामाद्यैस्तदिह विराध्यते किमत्र ।। 62।।
अन्याय्यं नय इति येऽपयातलज्जाः
कार्पण्यात् समुदमुदाहरन्ति धृष्टाः ।
धात्रि! त्वं किमिति रसातलं न यासि
स्वैरत्वे गतिमति सत्यहो तदीये ।। 63।।
कार्पण्यात् समुदमुदाहरन्ति धृष्टाः ।
धात्रि! त्वं किमिति रसातलं न यासि
स्वैरत्वे गतिमति सत्यहो तदीये ।। 63।।
यत्सत्यं महिषवधूरियं तदीया
यत्पाणौ लगुड इति प्रथैव सत्या ।
हा हा हा भरतमहीजनोऽयमद्य
मेषाणामनुहरति प्रवाहमन्धम् ।। 64।।
यत्पाणौ लगुड इति प्रथैव सत्या ।
हा हा हा भरतमहीजनोऽयमद्य
मेषाणामनुहरति प्रवाहमन्धम् ।। 64।।
पञ्चाब्दानतनुत निर्विशङ्कचित्तः
साम्राज्यं भरतभुवीन्दिरातनूजः ।
बोफोर्सज्वलन उदित्वरे तु सर्पि-
र्भावं सोऽव्रजदिह विश्वनाथधार्ष्ट्-र्यात् ।। 65।।
साम्राज्यं भरतभुवीन्दिरातनूजः ।
बोफोर्सज्वलन उदित्वरे तु सर्पि-
र्भावं सोऽव्रजदिह विश्वनाथधार्ष्ट्-र्यात् ।। 65।।
कौलीनं भवति जने स्वतः प्रमाणं
बोफोर्से श्रदधित लोक एष दार्ढ्यात् ।
तद्व्याजात् कमु न जवाहरस्य नप्त्रे
प्रत्यर्थिव्रज उदजीगरद् विषाग्निम् ।। 66।।
बोफोर्से श्रदधित लोक एष दार्ढ्यात् ।
तद्व्याजात् कमु न जवाहरस्य नप्त्रे
प्रत्यर्थिव्रज उदजीगरद् विषाग्निम् ।। 66।।
वृत्तानां प्रतिशतमूनविंशतिर्वै
बोफोर्स-व्यवहृतिराचचाम गोत्रम् ।
उत्कोचं कवलयति प्रधानमन्त्री-
त्येषा वै चमदकरोच्चितिं जनानाम् ।। 67।।
बोफोर्स-व्यवहृतिराचचाम गोत्रम् ।
उत्कोचं कवलयति प्रधानमन्त्री-
त्येषा वै चमदकरोच्चितिं जनानाम् ।। 67।।
तत्याज द्रुतमथ मन्त्रिमण्डलीयं
स्वं स्थानं प्रथितयशाः स विश्वनाथः ।
पूर्वं यो बहुतिथमास वित्तमन्त्री
तत्पश्चादभजत सैन्यमन्त्रिभावम् ।। 68।।
स्वं स्थानं प्रथितयशाः स विश्वनाथः ।
पूर्वं यो बहुतिथमास वित्तमन्त्री
तत्पश्चादभजत सैन्यमन्त्रिभावम् ।। 68।।
आश्वस्तः प्रति तमिमं बभूव लोको
मॉडोभूभुवनपतिं कविं कुलीनम् ।
सर्वस्वप्रद इति भूमिदानसत्रे
वैराग्यं निरतिशयं व्यभावि यत्र ।। 69।।
मॉडोभूभुवनपतिं कविं कुलीनम् ।
सर्वस्वप्रद इति भूमिदानसत्रे
वैराग्यं निरतिशयं व्यभावि यत्र ।। 69।।
सीतायाः पतिरयमस्ति विश्वनाथो
नो तस्मान्न खलु बभूव यश्च रामः ।
रामेशौ हरिहरविग्रहौ नृलोके
भ्राम्यन्तौ युग इह दृष्टिसात् क्रियेताम् ।। 70।।
नो तस्मान्न खलु बभूव यश्च रामः ।
रामेशौ हरिहरविग्रहौ नृलोके
भ्राम्यन्तौ युग इह दृष्टिसात् क्रियेताम् ।। 70।।
दाश्वान् स्वं निखिलमपि प्रजाहितेभ्यो
न्यासं योऽकलयत शास्त्रिवर्यनाम्ना ।
विश्वासस्तदभिहितौ स्वतः-प्रमाणः
सर्वेषामपि हृदयेषु रूढिमापत् ।। 71।।
न्यासं योऽकलयत शास्त्रिवर्यनाम्ना ।
विश्वासस्तदभिहितौ स्वतः-प्रमाणः
सर्वेषामपि हृदयेषु रूढिमापत् ।। 71।।
काङ्ग्रेसे प्रहरति निष्ठुरं न तस्मिन्
राजीवः किमपि दधौ न वै खलीनम् ।
आक्षेपो जनयति यां चमत्क्रियां सा
सिद्धान्तैरपि शतशः श्रुतैर्न जन्या ।। 72।।
राजीवः किमपि दधौ न वै खलीनम् ।
आक्षेपो जनयति यां चमत्क्रियां सा
सिद्धान्तैरपि शतशः श्रुतैर्न जन्या ।। 72।।
राजानं तमरुण-वेग-साहचर्य्यं
राजीवादधिकतरं चकार शक्तम् ।
शुष्केऽद्रौ तरलयितुं क्व न क्षमेते
दावाग्निं शुचिसमयश्च कम्पनश्च ।। 73।।
राजीवादधिकतरं चकार शक्तम् ।
शुष्केऽद्रौ तरलयितुं क्व न क्षमेते
दावाग्निं शुचिसमयश्च कम्पनश्च ।। 73।।
कौलीनानलपरिवेष्टितो व्यराजद्
राजीवः शरदुडुपो नु सोपरागः ।
राजीवग्रसनचमत्क्रियेन्द्रजालं
राजानं तमतितरां समभ्यपुष्णात् ।। 74।।
राजीवः शरदुडुपो नु सोपरागः ।
राजीवग्रसनचमत्क्रियेन्द्रजालं
राजानं तमतितरां समभ्यपुष्णात् ।। 74।।
यौ कौचित् कविवर-बच्चनात्मजातौ
राजीवं वशयितुमाबभूवतुस्तौ ।
राज्ञेऽस्मै न खलु बभूवतुर्विधातुं
न्यक्कारं यदपि धने कुबेरकल्पौ ।। 75।।
राजीवं वशयितुमाबभूवतुस्तौ ।
राज्ञेऽस्मै न खलु बभूवतुर्विधातुं
न्यक्कारं यदपि धने कुबेरकल्पौ ।। 75।।
यच्चेष्टा स्थगयति यौवतानि चित्ता-
न्यत्युच्चैर्मथनकृशानि सोऽमिताभः।
सादस्यं कथमपि संसदः प्रयागात्
प्राप्तं स्वं विवशतयाऽत्यजत् तरस्वी ।। 76।।
न्यत्युच्चैर्मथनकृशानि सोऽमिताभः।
सादस्यं कथमपि संसदः प्रयागात्
प्राप्तं स्वं विवशतयाऽत्यजत् तरस्वी ।। 76।।
राजीवोऽप्यमित उदारतां पुरा या-
माधत्त स्वयमतिमात्रगौरवाढ्याम् ।
चक्रे तां शिथिलितविग्रहा-
मुपेक्षाञ्चक्रे चाप्यमितजनप्रभावमेतम् ।। 77।।
माधत्त स्वयमतिमात्रगौरवाढ्याम् ।
चक्रे तां शिथिलितविग्रहा-
मुपेक्षाञ्चक्रे चाप्यमितजनप्रभावमेतम् ।। 77।।
यद्वीर्यं नटनधुरं परां दधानं
मध्याङ्गं चल-जघनाभिरर्च्यमानम् ।
तेषां चेत् सफलति राजनीतिवार्त्ता
राज्ञी तद्भवतु तिलोत्तमैव नाके ।। 78।।
मध्याङ्गं चल-जघनाभिरर्च्यमानम् ।
तेषां चेत् सफलति राजनीतिवार्त्ता
राज्ञी तद्भवतु तिलोत्तमैव नाके ।। 78।।
माहेन्द्रो व्रजतु ततो रसातलं हि
गोत्राणां प्रशमयिता स कोऽपि वज्रः ।
तत्स्थानं भजतु च ताधिनाधिनाना-
मुल्लापः कटितटरेचकध्रुवोत्थः ।। 79।।
गोत्राणां प्रशमयिता स कोऽपि वज्रः ।
तत्स्थानं भजतु च ताधिनाधिनाना-
मुल्लापः कटितटरेचकध्रुवोत्थः ।। 79।।
कृष्णोऽभून्नटनपटुः समं व्रजस्त्री-
साहस्रया शरदि नु तारकाभिरिन्दुः ।
चाणूरं स हि कुलिशायमानमुष्टि-
र्मुष्टिं च क्षपयति मल्लराजराजः ।। 80।।
साहस्रया शरदि नु तारकाभिरिन्दुः ।
चाणूरं स हि कुलिशायमानमुष्टि-
र्मुष्टिं च क्षपयति मल्लराजराजः ।। 80।।
शापाग्निक्षपितनटक्रियानुकार-
शौण्डीराः पृथगिह नर्त्तना नटन्ति ।
यश्चान्द्रीं श्रयति कलां कपर्ददेशे
कामारिः स खलु विभुः परात्परोऽन्यः ।। 81।।
शौण्डीराः पृथगिह नर्त्तना नटन्ति ।
यश्चान्द्रीं श्रयति कलां कपर्ददेशे
कामारिः स खलु विभुः परात्परोऽन्यः ।। 81।।
राजीवः प्रकृतिकृतां विरक्तिमन्तः
संक्षोभ-प्रसवपटीयसीमवैति ।
विश्वस्तः परमवतिष्ठते प्रजासु
प्रत्यर्थी क इव भवेन्ममेति सुस्थः ।। 82।।
संक्षोभ-प्रसवपटीयसीमवैति ।
विश्वस्तः परमवतिष्ठते प्रजासु
प्रत्यर्थी क इव भवेन्ममेति सुस्थः ।। 82।।
कालेऽस्मिन् परिणतिमाप पञ्चमोब्दः
नूत्नोऽभूज्जनमतसंग्रहस्ततश्च ।
काङ्ग्रेसोऽलभत न यत्र बाहुमत्यं
प्राधान्येऽव्रियत यतः स विश्वनाथः ।। 83।।
नूत्नोऽभूज्जनमतसंग्रहस्ततश्च ।
काङ्ग्रेसोऽलभत न यत्र बाहुमत्यं
प्राधान्येऽव्रियत यतः स विश्वनाथः ।। 83।।
राजीवः प्रियतमया तया सहासीत्
पाश्चात्त्यः खलु वपुषा चरित्रतश्च ।
लोकोऽभून्निरतिशयप्रसन्नचेताः
प्राधान्यं गतवति तेन भारतीये ।। 84।।
पाश्चात्त्यः खलु वपुषा चरित्रतश्च ।
लोकोऽभून्निरतिशयप्रसन्नचेताः
प्राधान्यं गतवति तेन भारतीये ।। 84।।
चङ्क्रम्यां भजति परं स्म भाग्यचक्रं
नैभृत्यात् क्षण इह भारतीयतायाः ।
पौष्पीति स्रजमधिकन्धरं दधे यां
लोकोऽभूद् गरलमयी फणिप्रिया यत् ।। 85।।
नैभृत्यात् क्षण इह भारतीयतायाः ।
पौष्पीति स्रजमधिकन्धरं दधे यां
लोकोऽभूद् गरलमयी फणिप्रिया यत् ।। 85।।
आगन्तृ त्वरितमवाप्य पत्रमेतां
तातीर्यां सरितमतिप्रचण्डवेगाम् ।
इत्येवं गणयति यात्रिणि प्रपन्नं
यत् पत्रं तदपि विभग्नमध्यमासीत् ।। 86।।
तातीर्यां सरितमतिप्रचण्डवेगाम् ।
इत्येवं गणयति यात्रिणि प्रपन्नं
यत् पत्रं तदपि विभग्नमध्यमासीत् ।। 86।।
माडानामधिपतिरेष मन्त्रिभावं
लब्ध्वैव प्रथममनीनमद् बुखारिम् ।
यस्तावद् गुरुरिति मुस्लिमेषु पूज्यो
हिन्दूनामभवदरातिरेव धर्मे ।। 87।।
लब्ध्वैव प्रथममनीनमद् बुखारिम् ।
यस्तावद् गुरुरिति मुस्लिमेषु पूज्यो
हिन्दूनामभवदरातिरेव धर्मे ।। 87।।
आदेशादगमयदस्य गेहमन्त्रि-
भावं स प्रतिहतबुद्धिकः सईदम् ।
यः पुत्रीमपहरतो मुमोच दीनः
कश्मीरक्षितिरुधिरप्रियानरातीन् ।। 88।।
भावं स प्रतिहतबुद्धिकः सईदम् ।
यः पुत्रीमपहरतो मुमोच दीनः
कश्मीरक्षितिरुधिरप्रियानरातीन् ।। 88।।
साहाय्यादभवदसौ प्रधानमन्त्री
येषां ते बत बत भाजपासदस्याः ।
तन्मिथ्याऽश्वसनशतानि हन्त सोढ्वा
निर्वेदं हृदि परमं बभार तस्मै ।। 89।।
येषां ते बत बत भाजपासदस्याः ।
तन्मिथ्याऽश्वसनशतानि हन्त सोढ्वा
निर्वेदं हृदि परमं बभार तस्मै ।। 89।।
साकेते मुसलिमदूषितामवाप्तुं
संपूर्णां पुनरपि रामजन्मभूमिम् ।
यैः कैश्चित् प्रणयितया प्रधानमन्त्री
संदृष्टश्छलजलधावमी न्यमज्जन् ।। 90।।
संपूर्णां पुनरपि रामजन्मभूमिम् ।
यैः कैश्चित् प्रणयितया प्रधानमन्त्री
संदृष्टश्छलजलधावमी न्यमज्जन् ।। 90।।
राजीवोऽप्यकृत सहायतां हि तेषा-
मासन् ये मुसलिमपक्षपातकष्टाः ।
भूरेषा व्यशपदमून् समान् सरोषा
नेत्राम्भः कथमपि संनिरुध्य चित्ते ।। 91।।
मासन् ये मुसलिमपक्षपातकष्टाः ।
भूरेषा व्यशपदमून् समान् सरोषा
नेत्राम्भः कथमपि संनिरुध्य चित्ते ।। 91।।
राजीवः स च खलु विश्वनाथसिंहो
हिन्दूनामपरतिमापतुर्गरिष्ठाम् ।
रामः क्व क्व च जननायकत्वमूर्ध्नि
प्रच्छन्नौ मलिनमुखाविमौ द्विजिह्नौ ।। 92।।
हिन्दूनामपरतिमापतुर्गरिष्ठाम् ।
रामः क्व क्व च जननायकत्वमूर्ध्नि
प्रच्छन्नौ मलिनमुखाविमौ द्विजिह्नौ ।। 92।।
अड्वानी परजलधेस्तटाद् रथं स्वं
साकेताभिमुखमचालयद् तदानीम् ।
यं द्रष्टुं भरतमही समापि हर्षा-
दौत्सुक्यं परममुवाह विस्मयाढ्याम् ।। 93।।
साकेताभिमुखमचालयद् तदानीम् ।
यं द्रष्टुं भरतमही समापि हर्षा-
दौत्सुक्यं परममुवाह विस्मयाढ्याम् ।। 93।।
तद् दृष्ट्वा व्यचलदसौ प्रधानमन्त्री
स्वां पश्यन्नियतिमतीव भुग्नभुग्नाम् ।
अड्वानीमरुणदसौ विहारराज्ये
लालूत्थां पुलिससहायतामवाप्य ।। 94।।
स्वां पश्यन्नियतिमतीव भुग्नभुग्नाम् ।
अड्वानीमरुणदसौ विहारराज्ये
लालूत्थां पुलिससहायतामवाप्य ।। 94।।
साकेते पुनरपिबत् सहस्रषट्क-
भक्ताऽसृक्सरितमहो मुलायमाख्यः ।
यो गोलीः शिरसि ववर्ष रामभक्तव्रात-
स्याञ्जलिगत-पुष्प-माल्यकस्य ।। 95।।
भक्ताऽसृक्सरितमहो मुलायमाख्यः ।
यो गोलीः शिरसि ववर्ष रामभक्तव्रात-
स्याञ्जलिगत-पुष्प-माल्यकस्य ।। 95।।
भक्तानां रुधिरनदीमिमामयोध्या
रामार्थं पुनरपि हिन्दुनैव सृष्टाम् ।
दृष्ट्वाऽभूदतितरविक्लवा सुमित्रां
कौसल्यां यदुत जिहिंस तद्धि रामः ।। 96।।
रामार्थं पुनरपि हिन्दुनैव सृष्टाम् ।
दृष्ट्वाऽभूदतितरविक्लवा सुमित्रां
कौसल्यां यदुत जिहिंस तद्धि रामः ।। 96।।
माडानामधिपतया प्रसिद्धिमाप्तः
क्षत्रोऽसौ बत जयचन्दवंश्य आसीत् ।
हिन्दूनां न खलु बभूव मुस्लिमेभ्यो
यच्चिते समधिक आदरः प्रकृत्या ।। 97।।
क्षत्रोऽसौ बत जयचन्दवंश्य आसीत् ।
हिन्दूनां न खलु बभूव मुस्लिमेभ्यो
यच्चिते समधिक आदरः प्रकृत्या ।। 97।।
हिन्दूनां क्रथनमिदं स विश्वनाथो
दृष्ट्वाऽपि व्यथितमना मनाङ् न जातः ।
नैर्घृण्यं तदिदमभूदमुष्य भूयः
संक्षोभं गतमिव नाडिकासु सुप्तम् ।। 98।।
दृष्ट्वाऽपि व्यथितमना मनाङ् न जातः ।
नैर्घृण्यं तदिदमभूदमुष्य भूयः
संक्षोभं गतमिव नाडिकासु सुप्तम् ।। 98।।
वीरौ द्वौ मसजिदशृङ्गकेऽधिरुह्य
स्वं केतुं कथमपि रोपितं व्यधाताम् ।
साकेते रघुपतिजन्मभूमिराभ्यां
स्वर्णीयैरलिखदिवेतिहासमङ्कैः ।। 99।।
स्वं केतुं कथमपि रोपितं व्यधाताम् ।
साकेते रघुपतिजन्मभूमिराभ्यां
स्वर्णीयैरलिखदिवेतिहासमङ्कैः ।। 99।।
नूनं तौ जनकसुतोदरप्रसूतौ
वाल्मीकिप्रविहितशिक्षणौ च कौचित् ।
आस्तां वै कुशलवसंज्ञकौ शिशू यौ
सेहाते न परकृतं स्वसीम्नि घातम् ।। 100।।
वाल्मीकिप्रविहितशिक्षणौ च कौचित् ।
आस्तां वै कुशलवसंज्ञकौ शिशू यौ
सेहाते न परकृतं स्वसीम्नि घातम् ।। 100।।
अन्येद्युः शिशुयुगलीं मुलायमाख्य-
स्तामेतां प्रसभमवापयाम्बभूव ।
चीत्कारैः सममबलाजनस्य मृत्यो-
र्वक्त्रं वै समधिकभीषणं भुशुण्ड्या ।। 101।।
स्तामेतां प्रसभमवापयाम्बभूव ।
चीत्कारैः सममबलाजनस्य मृत्यो-
र्वक्त्रं वै समधिकभीषणं भुशुण्ड्या ।। 101।।
आकृष्य प्रसभमिमौ भुशुण्डिकाऽस्त्री-
छिन्नाङ्गौ यमवदनाय यद् व्यतार्षीत् ।
शास्ता नस्तदिदमवूब्रुडद्गभीरेऽ-
कूपारे निरयविनिर्मिते युगेभ्यः ।। 102।।
छिन्नाङ्गौ यमवदनाय यद् व्यतार्षीत् ।
शास्ता नस्तदिदमवूब्रुडद्गभीरेऽ-
कूपारे निरयविनिर्मिते युगेभ्यः ।। 102।।
या ब्राह्मी सरिदिह राजतेऽदसीये
सेतौ ये खलु बहवो बभूवुरार्याः ।<
संघातैरहह जिहिंस मुख्यमन्त्री ।। 103।।
सेतौ ये खलु बहवो बभूवुरार्याः ।<
संघातैरहह जिहिंस मुख्यमन्त्री ।। 103।।
लङ्कायां रघुपतिपक्षपातिभिः प्राग्
विध्वंसं परममवापदास्रपेशः ।
साकेते पुनरधुनाऽऽस्रपैर्विनाशं
धिग् धिग् धिग् रघुपतयो हि संश्रयन्ते ।। 104।।
विध्वंसं परममवापदास्रपेशः ।
साकेते पुनरधुनाऽऽस्रपैर्विनाशं
धिग् धिग् धिग् रघुपतयो हि संश्रयन्ते ।। 104।।
एकैषा क्षतजसरित् परा च काचिद्
राष्ट्रेऽस्मिन् प्रवहति मण्डलाभियोगात् ।
संगत्य क्षपयितुमार्यभूमिमेते
संरम्भादिव सहसा समारभेताम् ।। 105।।
राष्ट्रेऽस्मिन् प्रवहति मण्डलाभियोगात् ।
संगत्य क्षपयितुमार्यभूमिमेते
संरम्भादिव सहसा समारभेताम् ।। 105।।
छात्राणां ततिरनलं तनौ निपात्य
प्राणान् स्वान् व्यसृजदतीव जातरोषा ।
सोढुं चाक्षमत न मण्डलोपदिष्टां
दौर्भाग्यप्रसुवमियं सृतिं नवीनाम् ।। 106।।
प्राणान् स्वान् व्यसृजदतीव जातरोषा ।
सोढुं चाक्षमत न मण्डलोपदिष्टां
दौर्भाग्यप्रसुवमियं सृतिं नवीनाम् ।। 106।।
मन्दाऽभूत् क्षण इह विश्वनाथवाणी
तेजः स्वं कुहचन साऽत्यजद् वराकी ।
वैधव्यक्षपितललाटिका नु योषिद्
दौर्भाग्यं किमपि बभार विश्वसाक्ष्यम् ।। 107।।
तेजः स्वं कुहचन साऽत्यजद् वराकी ।
वैधव्यक्षपितललाटिका नु योषिद्
दौर्भाग्यं किमपि बभार विश्वसाक्ष्यम् ।। 107।।
कालेऽस्मिन् व्यरमत भाजपा, पपात
सिंहीयं किमपि कुशासनं क्षणेन ।
यद् दृष्ट्वा विहसति चन्र् शेखराख्यः
सिंहोऽन्यः कुटलसुतायमानधैर्यः ।। 108।।
सिंहीयं किमपि कुशासनं क्षणेन ।
यद् दृष्ट्वा विहसति चन्र् शेखराख्यः
सिंहोऽन्यः कुटलसुतायमानधैर्यः ।। 108।।
मासानां दशकमुवाह साग्रमेतां
लोकानां धुरमतिबन्धुरां य एव ।
राजीवक्षपितमहाः स एव सिंहो
फेरुत्वं गत इव चीत्कृतीश्चकार ।। 109।।
लोकानां धुरमतिबन्धुरां य एव ।
राजीवक्षपितमहाः स एव सिंहो
फेरुत्वं गत इव चीत्कृतीश्चकार ।। 109।।
धीरोऽसौ न तु चकमे पलायनं सो-
ऽगर्जद् वै स्थिरमतिरात्मनिश्चयेषु ।
संसत् तं व्यसहत तर्कमात्रसाह्याद्
वल्गन्तं दश खलु नाडिका विमर्शे ।। 110।।
ऽगर्जद् वै स्थिरमतिरात्मनिश्चयेषु ।
संसत् तं व्यसहत तर्कमात्रसाह्याद्
वल्गन्तं दश खलु नाडिका विमर्शे ।। 110।।
तत्पश्चात् स खलु मतस्य संग्रहेण
व्यत्यस्तो व्यसृजदिमं प्रधानभावम् ।
रात्रौ हि द्रुतगतिरीक्षितुं चकाङ्क्ष
श्रीमन्तं पतिमथ वेङ्कटं स्वकीयम् ।। 111।।
व्यत्यस्तो व्यसृजदिमं प्रधानभावम् ।
रात्रौ हि द्रुतगतिरीक्षितुं चकाङ्क्ष
श्रीमन्तं पतिमथ वेङ्कटं स्वकीयम् ।। 111।।
सोऽप्यार्यस्तटगतचेतसां वरिष्ठो
निद्रां वै भजतितरां स्म वीतरागः ।
यस्यात्मा क्वचिदपि सज्जते न
रागात् स हयेव प्रभवति शासनाय लोके ।। 112।।
निद्रां वै भजतितरां स्म वीतरागः ।
यस्यात्मा क्वचिदपि सज्जते न
रागात् स हयेव प्रभवति शासनाय लोके ।। 112।।
राजीवः प्रमुखतमस्य नायकोऽपि
काङ्ग्रेसाभिहितदलस्य नो चकाङ्क्ष ।
शास्तृत्वं, परदलसाह्यतः स्वतन्त्रः
कोऽन्यस्मिन् विषहत आत्मने प्रभुत्वम् ।। 113।।
काङ्ग्रेसाभिहितदलस्य नो चकाङ्क्ष ।
शास्तृत्वं, परदलसाह्यतः स्वतन्त्रः
कोऽन्यस्मिन् विषहत आत्मने प्रभुत्वम् ।। 113।।
राजीवः स च खलु विश्वनाथसिंहः
प्राधान्याच्च्युतगतिकौ तदाऽधिराष्ट्रम् ।
भ्रेजाते शिशिरसरोवरे तुषारप्लु-
ष्टाङ्गौ कुमुदकुशेशयोत्तमौ नु ।। 114।।
प्राधान्याच्च्युतगतिकौ तदाऽधिराष्ट्रम् ।
भ्रेजाते शिशिरसरोवरे तुषारप्लु-
ष्टाङ्गौ कुमुदकुशेशयोत्तमौ नु ।। 114।।
कालेऽस्मिन् कथमपि वेङ्कटाभिधानः
प्राधान्याऽनुमतिमदात् पतिः प्रजानाम् ।
काङ्ग्रेसानुगतिसमर्थिताय चन्द्र-
सिंहाभ्यां परिगमिताय शेखराय ।। 115।।
प्राधान्याऽनुमतिमदात् पतिः प्रजानाम् ।
काङ्ग्रेसानुगतिसमर्थिताय चन्द्र-
सिंहाभ्यां परिगमिताय शेखराय ।। 115।।
यस्यास्ये विलसति कूर्चिकाऽवदाता
यद् घ्राणं निशिततरासिपुत्रिकाभम् ।
यद्वाणी द्रुतपदगामिनी सतेजाः
सश्रीकः स्वयमिह चन्द्रशेखरः सः ।। 116।।
यद् घ्राणं निशिततरासिपुत्रिकाभम् ।
यद्वाणी द्रुतपदगामिनी सतेजाः
सश्रीकः स्वयमिह चन्द्रशेखरः सः ।। 116।।
श्रीचन्द्रशेखर इति प्रथिताभिधानः
प्राधान्यमाप्य भरतावनिशासकेषु ।
रेजे तथा शरदि राजति नृत्तशीर्ण-
पिच्छो यथा गिरिशिरःस्थितिमान् मयूरः ।। 117।।
प्राधान्यमाप्य भरतावनिशासकेषु ।
रेजे तथा शरदि राजति नृत्तशीर्ण-
पिच्छो यथा गिरिशिरःस्थितिमान् मयूरः ।। 117।।
इति ‘स्वातन्य्र्रसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘प्रधानपरिवर्तो’ नाम अष्टाविंशः सर्गः।। 28।।
पूर्वं यथा चरणसिंह इति प्रतीतः
काङ्ग्रेसदत्तबल एव मुरारिपीठम् ।
अध्यारुरोह समयेऽद्य तथैव विश्व-
नाथस्य पीठमधिरोहति शेखरः स्म ।। 1।।
काङ्ग्रेसदत्तबल एव मुरारिपीठम् ।
अध्यारुरोह समयेऽद्य तथैव विश्व-
नाथस्य पीठमधिरोहति शेखरः स्म ।। 1।।
राजीवगान्धिरपि तत्सहयोगहेतोः
प्रत्याशृणोत् प्रथममारचयच्च जालम् ।
पश्चाद् विरोधविषदिग्धमियेष विश्व-
नाथं यथाऽमुमपि पातयितुं नदीष्णः ।। 2।।
प्रत्याशृणोत् प्रथममारचयच्च जालम् ।
पश्चाद् विरोधविषदिग्धमियेष विश्व-
नाथं यथाऽमुमपि पातयितुं नदीष्णः ।। 2।।
यो वै मुलायमयमश्च विहारमुख्यो
लालूश्च तावपि पुपोष स एष गान्धी ।
प्रत्यर्थिशात्रवतया निजलाभहेतो-
र्द्वेष्योऽपि सौहृदमुखैर्निपुणैर्न नार्च्यः ।। 3।।
लालूश्च तावपि पुपोष स एष गान्धी ।
प्रत्यर्थिशात्रवतया निजलाभहेतो-
र्द्वेष्योऽपि सौहृदमुखैर्निपुणैर्न नार्च्यः ।। 3।।
उन्मूलितं स हि चकार विभाव्य दोषं
मद्रेषु हन्त करुणानिधिशास्तृभावम् ।
सोढुं शशाक न हि यन्मलयाद्रिवात-
सौरभ्यसौभगशुभा ककुबुग्रघातम् ।। 4।।
मद्रेषु हन्त करुणानिधिशास्तृभावम् ।
सोढुं शशाक न हि यन्मलयाद्रिवात-
सौरभ्यसौभगशुभा ककुबुग्रघातम् ।। 4।।
वैरं विपाचयितुमत्र भवन्ति शक्ताः
केचिद्धि, केचन पुनः प्रतिशोधनायै ।
धैर्यं दधत्यवसरं प्रतिपालयन्तः
सिद्धिं व्रजन्ति च रिपोः क्षपणेन भव्याम् ।। 5।।
केचिद्धि, केचन पुनः प्रतिशोधनायै ।
धैर्यं दधत्यवसरं प्रतिपालयन्तः
सिद्धिं व्रजन्ति च रिपोः क्षपणेन भव्याम् ।। 5।।
शेषोऽनलस्य च रिपोश्च यथोरगस्य
प्रत्याहतस्य कुशलाय मतो न लोके ।
राजीवगान्धिमपकृत्य परं परन्तु
विस्रम्भतो हि परितो भ्रमति स्म वीरः ।। 6।।
प्रत्याहतस्य कुशलाय मतो न लोके ।
राजीवगान्धिमपकृत्य परं परन्तु
विस्रम्भतो हि परितो भ्रमति स्म वीरः ।। 6।।
नेतृत्वमस्ति महितं जगति प्रशास्तृ-
व्यापारतोऽविरहितं हि, तदन्यथा तु ।
फूत्कृत्य धावितफणीव निलीय दृष्टे-
र्गूढं विपर्य्ययमुपैति विना विकल्पम् ।। 7।।
व्यापारतोऽविरहितं हि, तदन्यथा तु ।
फूत्कृत्य धावितफणीव निलीय दृष्टे-
र्गूढं विपर्य्ययमुपैति विना विकल्पम् ।। 7।।
अन्यो न कश्चिदपि भारतवर्षभूमौ
नेता बभूव खलु सर्वसमर्थ एकम् ।
राजीवमेव परिहाय, तमेव तस्माद्
विश्वं स्म पश्यतितरां निपुणैः कटाक्षैः ।। 8।।
नेता बभूव खलु सर्वसमर्थ एकम् ।
राजीवमेव परिहाय, तमेव तस्माद्
विश्वं स्म पश्यतितरां निपुणैः कटाक्षैः ।। 8।।
ब्रूते मुलायम-पदप्रथितः प्रदेशे
तस्मिन् बभूव तुलसीकविताऽपि यस्मिन् ।
रामः क आस ननु जन्ममही च तस्य
किंलक्षणेति कथयेद् बत कः कृती’-ति ।। 9।।
तस्मिन् बभूव तुलसीकविताऽपि यस्मिन् ।
रामः क आस ननु जन्ममही च तस्य
किंलक्षणेति कथयेद् बत कः कृती’-ति ।। 9।।
द्रष्टाऽस्मि को नु जननीपयसाऽस्ति पुष्टो
यो बाबरीं मसजिदं स्पृशति क्षतायुः ।
शास्ता मुलायम इमं विपरीतबुद्धिं
सद्यस्तरां न नहि शेषयिता कथासु ।। 10।।
यो बाबरीं मसजिदं स्पृशति क्षतायुः ।
शास्ता मुलायम इमं विपरीतबुद्धिं
सद्यस्तरां न नहि शेषयिता कथासु ।। 10।।
आरक्षिभिः प्रभुनिकेतनभक्तसाधु-
नैवेद्यधान्यमपि सर्वमहारि धृष्टैः ।
सा वै परा भगवतः करुणैव सर्वं
सद्यो बभूव तदिदं द्विगुणं क्षणार्धे ।। 11।।
नैवेद्यधान्यमपि सर्वमहारि धृष्टैः ।
सा वै परा भगवतः करुणैव सर्वं
सद्यो बभूव तदिदं द्विगुणं क्षणार्धे ।। 11।।
साधुर्ब्रवीति भगवन्नवशिष्टमेत-
दन्धो गृहाण, न न चेति च रक्षिरक्षः ।
किं वा करोति दहनो दवगोऽपि कृष्णो
व्योम्नस्तनोति यदि वारिधरः प्रवृष्टिम् ।। 12।।
दन्धो गृहाण, न न चेति च रक्षिरक्षः ।
किं वा करोति दहनो दवगोऽपि कृष्णो
व्योम्नस्तनोति यदि वारिधरः प्रवृष्टिम् ।। 12।।
साधुर्ब्रवीति परिपालयिता प्रभुश्चेत्
कोऽस्मान् विनाशयितुमस्ति कृती हताशः ।
देहे क्षतेऽपि ननु का क्षतिरस्ततर्षाः
कामेषु बिभ्यतु कुतोऽपि कुतः कृतार्थाः ।। 13।।
कोऽस्मान् विनाशयितुमस्ति कृती हताशः ।
देहे क्षतेऽपि ननु का क्षतिरस्ततर्षाः
कामेषु बिभ्यतु कुतोऽपि कुतः कृतार्थाः ।। 13।।
एते कृतान्तमपि मित्रयितुं समीहा-
भाजः समेऽपि भवतामपि मित्रमेव ।
अर्थोऽस्ति चेद् भजनमालिकया दयध्वं
तामात्मनोङ्गुलिशिरःस्थितिकां विधातुम् ।। 14।।
भाजः समेऽपि भवतामपि मित्रमेव ।
अर्थोऽस्ति चेद् भजनमालिकया दयध्वं
तामात्मनोङ्गुलिशिरःस्थितिकां विधातुम् ।। 14।।
अस्माकमस्ति सरयूजननीजलान्तः
संपूरिता धनमियं महदेव तुम्बी ।
इच्छाऽस्ति चेत् कुरु कृपामनयाऽपि भूयात्
पाणिद्वयं बलवतां भवतां समृद्धम् ।। 15।।
संपूरिता धनमियं महदेव तुम्बी ।
इच्छाऽस्ति चेत् कुरु कृपामनयाऽपि भूयात्
पाणिद्वयं बलवतां भवतां समृद्धम् ।। 15।।
कौपीनमेतदुरगत्वगिवास्मदीये
देहे यदस्ति निहितं न तदप्यभीष्टम् ।
तत्र स्पृहाकुलमिदं भवदन्तरङ्गं
चेद् गृह्यतां सुखमिदं स्मितिमावहद्भिः ।। 16।।
देहे यदस्ति निहितं न तदप्यभीष्टम् ।
तत्र स्पृहाकुलमिदं भवदन्तरङ्गं
चेद् गृह्यतां सुखमिदं स्मितिमावहद्भिः ।। 16।।
या वै कुबेरनगरी दशकन्धरेण
मध्येसमुद्रमभिरुक्मविशालसालम् ।
भुक्ता क्व साऽद्य स च कुत्र भुजिक्रियाया
आभोग एव ननु कुत्र च भोगिनोऽपि ।। 17।।
मध्येसमुद्रमभिरुक्मविशालसालम् ।
भुक्ता क्व साऽद्य स च कुत्र भुजिक्रियाया
आभोग एव ननु कुत्र च भोगिनोऽपि ।। 17।।
या विंशतेर्बत वनी दशकन्धरीया
दोष्णां, दशापि च मुखान्यमृतं यदङ्के ।
द्वेषेण यस्य तदिदं निखिलं व्यनाशि
तस्मिन् मुलायम इति द्विपदः क्व रामे ।। 18।।
दोष्णां, दशापि च मुखान्यमृतं यदङ्के ।
द्वेषेण यस्य तदिदं निखिलं व्यनाशि
तस्मिन् मुलायम इति द्विपदः क्व रामे ।। 18।।
येषां महान्ति गगनोदरपूरणानि
दुर्गोपमानि भवनान्यभवँस्त एते ।
ज्वालामुखीकवलिता वसुमत्सु मान्या
जापानभूमिषु लुठन्ति, धनं क्व शान्त्यै ।। 19।।
दुर्गोपमानि भवनान्यभवँस्त एते ।
ज्वालामुखीकवलिता वसुमत्सु मान्या
जापानभूमिषु लुठन्ति, धनं क्व शान्त्यै ।। 19।।
इत्येवमादि विशदाकृतिभिस्त्रिपुण्ड्र-
भ्राजिष्णुफालफलकैः परमात्मभक्तैः ।
साकेतसीम्नि बहुशो विनयस्वरेण
प्राबोधि, किन्तु बुबुधे न तदस्त्रहस्तैः ।। 20।।
भ्राजिष्णुफालफलकैः परमात्मभक्तैः ।
साकेतसीम्नि बहुशो विनयस्वरेण
प्राबोधि, किन्तु बुबुधे न तदस्त्रहस्तैः ।। 20।।
सिंहो मुलायम इति प्रथितोऽत्र शान्ति-
ध्वंसाय हन्त सततं हि विचेष्टते स्म ।
राजीवगान्धिरपरत्र जपन् स्थिरत्व-
मस्थैर्यमेव मनसा वृणुते स्म देशे ।। 21।।
ध्वंसाय हन्त सततं हि विचेष्टते स्म ।
राजीवगान्धिरपरत्र जपन् स्थिरत्व-
मस्थैर्यमेव मनसा वृणुते स्म देशे ।। 21।।
नो सोनिया च, न च शेखर एव, नो वा
तद्भिन्न एव खलु कश्चन रक्षितुं तम् ।
राजीवगान्धिनमभूत् प्रभुरत्र लोके
त्यक्त्वा परं प्रभुमपारकृपं तदानीम् ।। 22।।
तद्भिन्न एव खलु कश्चन रक्षितुं तम् ।
राजीवगान्धिनमभूत् प्रभुरत्र लोके
त्यक्त्वा परं प्रभुमपारकृपं तदानीम् ।। 22।।
राजीवगान्धिरभजन्न कदापि दैन्यं
दैन्यं जहौ न च कदापि स विश्वनाथः ।
आद्योऽग्रहीदृणमथाध्यकरोद् विकासं
राष्ट्रे परश्च सततं स्वमृणं जजल्प ।। 23।।
दैन्यं जहौ न च कदापि स विश्वनाथः ।
आद्योऽग्रहीदृणमथाध्यकरोद् विकासं
राष्ट्रे परश्च सततं स्वमृणं जजल्प ।। 23।।
कश्मीरराजयुवराजतया प्रसिद्धं
श्रीकर्णसिंहमपि माण्डवभूमिभोक्ता ।
स्वं द्रष्टुमागतमपि क्षणमप्यदत्त्वा
न्यक्कारपात्रयति यत् स हि भाग्यभेदः ।। 24।।
श्रीकर्णसिंहमपि माण्डवभूमिभोक्ता ।
स्वं द्रष्टुमागतमपि क्षणमप्यदत्त्वा
न्यक्कारपात्रयति यत् स हि भाग्यभेदः ।। 24।।
योऽहङ्कृतौ व्यतिषजत्यथ धिक्करोति
प्रत्येयमप्यधिगुणं स्वजनं वृथैव ।
तं काल एव दशति प्रतिपद्य काल-
सर्प्पत्वमेव विकरालमुखः स्मयान्धम् ।। 25।।
प्रत्येयमप्यधिगुणं स्वजनं वृथैव ।
तं काल एव दशति प्रतिपद्य काल-
सर्प्पत्वमेव विकरालमुखः स्मयान्धम् ।। 25।।
विद्वांसमाङ्ग्लभणितावधिकारमुच्चै-
राबिभ्रतं च नृपतिं बत कर्णसिंहम् ।
भूत्वा नृपोऽपि विबुधोऽपि तथाङ्ग्लभाषा-
भिज्ञोऽप्यमानयत नैव स विश्वनाथः ।। 26।।
राबिभ्रतं च नृपतिं बत कर्णसिंहम् ।
भूत्वा नृपोऽपि विबुधोऽपि तथाङ्ग्लभाषा-
भिज्ञोऽप्यमानयत नैव स विश्वनाथः ।। 26।।
गर्व्वस्य दर्प्पसजुषः स विपाक उग्रः
स क्ष्वेडतां व्रजति सामयिकेषु तीव्राम् ।
तेनैव वाडवहुताशननामभाजा
पेपीय्यते जलनिधिः सततं चलात्मा ।। 27।।
स क्ष्वेडतां व्रजति सामयिकेषु तीव्राम् ।
तेनैव वाडवहुताशननामभाजा
पेपीय्यते जलनिधिः सततं चलात्मा ।। 27।।
श्रीविश्वनाथमपि दर्पविषानलोऽयं
पर्यावृणोदथ च संक्षपयाञ्चकार ।
तस्यैव दग्धजरठं फलमेतदाशु
न्यक्कारितोऽपतदसौ यदपूर्वपीठात् ।। 28।।
पर्यावृणोदथ च संक्षपयाञ्चकार ।
तस्यैव दग्धजरठं फलमेतदाशु
न्यक्कारितोऽपतदसौ यदपूर्वपीठात् ।। 28।।
वाराणसी-सुरगवीबुधमण्डलीयं
राजर्षिरित्युपदया समलञ्चकार ।
मानं दधौ समधिकं स मुहम्मदेषु
चित्रं न तज्जयनृपस्य हि सोऽस्ति वंश्यः ।। 29।।
राजर्षिरित्युपदया समलञ्चकार ।
मानं दधौ समधिकं स मुहम्मदेषु
चित्रं न तज्जयनृपस्य हि सोऽस्ति वंश्यः ।। 29।।
दिल्लीश्वरोऽस्मि भवितेति जयो हि पृथ्वी-
राजान्तकं गजनिशासकमाजुहाव ।
आत्मापघातमिममेव वसुन्धरेय-
मद्याप्यलर्कगरलं नु विपापचीति ।। 30।।
राजान्तकं गजनिशासकमाजुहाव ।
आत्मापघातमिममेव वसुन्धरेय-
मद्याप्यलर्कगरलं नु विपापचीति ।। 30।।
श्रीविश्वनाथमपि तं ‘प्रतिधाविताङ्घ्रिर्न
क्वापि हन्त विपदी’-ति जनोऽभ्यनन्दत् ।
को नाम वेद यदसौ प्रतिपक्षधात्री-
काकोदरीविषमुखः खलु पुंपृदाकुः ।। 31।।
क्वापि हन्त विपदी’-ति जनोऽभ्यनन्दत् ।
को नाम वेद यदसौ प्रतिपक्षधात्री-
काकोदरीविषमुखः खलु पुंपृदाकुः ।। 31।।
आसीदसावपर एव महान् प्रहारो
मूलेऽस्य भारततरोः स्वतलस्थितोत्थः ।
हा हा महीयमुपसीदति दन्दशूका-
नाम्रेडनाभिरभितः प्रसृताभिराभिः ।। 32।।
मूलेऽस्य भारततरोः स्वतलस्थितोत्थः ।
हा हा महीयमुपसीदति दन्दशूका-
नाम्रेडनाभिरभितः प्रसृताभिराभिः ।। 32।।
यश्चन्द्रशेखरति शेखरितः स चन्द्रे-
णान्तर्जडत्वकलुषेण निशाकरेण ।
यद्वा महोभिरभितः परिवारणाभि-
रुज्जासितान्धतमसैरिति को नु वेद ।। 33।।
णान्तर्जडत्वकलुषेण निशाकरेण ।
यद्वा महोभिरभितः परिवारणाभि-
रुज्जासितान्धतमसैरिति को नु वेद ।। 33।।
पीठेषु संसदि यदान्तरतारतम्य-
भाक्ष्यवानिषीदतितरां स्व-परा-तिसन्धिः ।
भालेक्षणोऽपि भगवान् नहि तं विभाव्य
भूसाद् विधातुमभवत् प्रभुरत्र राष्ट्रे ।। 34।।
भाक्ष्यवानिषीदतितरां स्व-परा-तिसन्धिः ।
भालेक्षणोऽपि भगवान् नहि तं विभाव्य
भूसाद् विधातुमभवत् प्रभुरत्र राष्ट्रे ।। 34।।
अद्याऽत्र तिष्ठति य एष परत्र पीठे
तिष्ठासया निगडितः स विभाव्यते श्वः ।
मण्डूकवंशलघिमाऽञ्चितभालपट्टे-
ष्वेषां कदा नु सजिता स्थिरधीत्वयोगः ।। 35।।
तिष्ठासया निगडितः स विभाव्यते श्वः ।
मण्डूकवंशलघिमाऽञ्चितभालपट्टे-
ष्वेषां कदा नु सजिता स्थिरधीत्वयोगः ।। 35।।
यस्यास्ति कश्चिदधिकारलवोऽपि
तस्मिंल्लोकोऽपि भक्तिकृपणायति लिप्सयाऽन्धः
राष्ट्रं क्व, कुत्र समजेन युतः समाजः
स्वार्थः प्रसिद्धयति न येन न तत्र निष्ठा ।। 36।।
तस्मिंल्लोकोऽपि भक्तिकृपणायति लिप्सयाऽन्धः
राष्ट्रं क्व, कुत्र समजेन युतः समाजः
स्वार्थः प्रसिद्धयति न येन न तत्र निष्ठा ।। 36।।
कृष्णः स्वघातनिरतान् हि हिनस्ति कंसान्
सीतापहारिण उदाकुरुते च रामः ।
सिद्धं ततो जगति पाति समोऽपि देही
प्राक् स्वं ततश्च भुवनाद्यवकाशलाभे ।। 37।।
सीतापहारिण उदाकुरुते च रामः ।
सिद्धं ततो जगति पाति समोऽपि देही
प्राक् स्वं ततश्च भुवनाद्यवकाशलाभे ।। 37।।
को वाऽऽजुहाव परदिङ्मरुभूमिदस्यू-
नोरङ्गजेवमथवा भरतावनौ नः ।
अस्मान् विहाय न परः खलु स क्षतायु-
र्द्रुघ्णेन खञ्जयति पादमहो नरः स्वम् ।। 38।।
नोरङ्गजेवमथवा भरतावनौ नः ।
अस्मान् विहाय न परः खलु स क्षतायु-
र्द्रुघ्णेन खञ्जयति पादमहो नरः स्वम् ।। 38।।
धृष्टन्ति केचन दशाननपक्षभक्ता
वक्तुं जिहिंस दशकन्धरवंशकं, यत् ।
स्वल्पाय सा क्षतिरहो महती व्यधायि
रामेण, राक्षसकुलं गुणिनां कुलं यत् ।। 39।।
वक्तुं जिहिंस दशकन्धरवंशकं, यत् ।
स्वल्पाय सा क्षतिरहो महती व्यधायि
रामेण, राक्षसकुलं गुणिनां कुलं यत् ।। 39।।
पत्नी हृतेति हरणक्रियया युताया
व्यक्तेर्हि दोष उपसीदति नैष वंशम् ।
नो चेत् पिताऽपि दयिताऽपि गृहाङ्गणस्थः
कीरोऽपि शातनमिहार्हति तस्करीयः ।। 40।।
व्यक्तेर्हि दोष उपसीदति नैष वंशम् ।
नो चेत् पिताऽपि दयिताऽपि गृहाङ्गणस्थः
कीरोऽपि शातनमिहार्हति तस्करीयः ।। 40।।
उद्धृत्य नापि दयितां स दशाननारिः
स्वीये गृहेऽपि परिपालयितुं शशाक ।
सोऽयं कथं नरपतिर्न कथं दशास्यो,
यद्वाऽग्रजत्यतितरां स दशाननस्य ।। 41।।
स्वीये गृहेऽपि परिपालयितुं शशाक ।
सोऽयं कथं नरपतिर्न कथं दशास्यो,
यद्वाऽग्रजत्यतितरां स दशाननस्य ।। 41।।
लोकान्तरे भवति कष्टमितीह लोक-
यात्रासु कष्टमभिवादयितुं प्रवृत्तिः ।
दौर्बल्यमेव मनसो न हि तत् प्रमाणं
प्रज्ञावतां बलवताञ्च विनिर्णयेषु ।। 42।।
यात्रासु कष्टमभिवादयितुं प्रवृत्तिः ।
दौर्बल्यमेव मनसो न हि तत् प्रमाणं
प्रज्ञावतां बलवताञ्च विनिर्णयेषु ।। 42।।
इत्यादिवादिनि जने जनतन्त्रशक्ति-
र्जाजायतेऽत्र वरदानतया प्रतीता ।
आदर्शवादिनि पुनः पदवी करालैः
शङ्कूत्तमैर्निगडितैव तदा चकास्ति ।। 43।।
र्जाजायतेऽत्र वरदानतया प्रतीता ।
आदर्शवादिनि पुनः पदवी करालैः
शङ्कूत्तमैर्निगडितैव तदा चकास्ति ।। 43।।
संप्रत्युदग्रधिषणाः प्रतिपन्न-वृत्त-
स्वैरत्व-योग-सुहिता मतमाप्तुमुच्चैः ।
प्रच्छन्नमप्यपथमाश्रयितुं त्वरन्ते
सा मूढतैव ननु या खलु कार्यहानिः ।। 44।।
स्वैरत्व-योग-सुहिता मतमाप्तुमुच्चैः ।
प्रच्छन्नमप्यपथमाश्रयितुं त्वरन्ते
सा मूढतैव ननु या खलु कार्यहानिः ।। 44।।
कार्यं प्रसिद्धयतु कथञ्चिदपिच्छलेन
व्याजेन दानसहितेन भयेन वापि ।
तत् सर्वमेव निरनौचितिकाभिमर्श-
क्रूरं शुभं च चतुरेषु विबोधभाक्षु ।। 45।।
व्याजेन दानसहितेन भयेन वापि ।
तत् सर्वमेव निरनौचितिकाभिमर्श-
क्रूरं शुभं च चतुरेषु विबोधभाक्षु ।। 45।।
या वै गृहे कृपणता, प्रतिवेशिधाम्नि
प्रत्यध्वमुक्तकरता च विधायकानाम् ।
स्वातन्य्र्कयुद्धमपि तार्किकबुद्धिकोषे
प्रद्वेष एव खलु सिद्धयति किन्न तेषाम् ।। 46।।
प्रत्यध्वमुक्तकरता च विधायकानाम् ।
स्वातन्य्र्कयुद्धमपि तार्किकबुद्धिकोषे
प्रद्वेष एव खलु सिद्धयति किन्न तेषाम् ।। 46।।
गौरा भवन्तु यदि वा शितिकान्तिकायाः
शास्तार आदधति ते यदि सौख्यमग्रयाम् ।
कस्तेषु शत्रुरिति भोक्तृजनस्य भावस्
तन्त्रं परस्य च पुरःस्थिति नाद्य किन्नु ।। 47।।
शास्तार आदधति ते यदि सौख्यमग्रयाम् ।
कस्तेषु शत्रुरिति भोक्तृजनस्य भावस्
तन्त्रं परस्य च पुरःस्थिति नाद्य किन्नु ।। 47।।
या केन्द्रसंघटनशक्तिपदाभिधाना
काचिद् व्यवस्थितिरभूज्जननायकानाम् ।
साऽप्यद्य जर्जरतनुर्विशरारुकल्पा
कस्मै गुणाय बत सिद्धयति भारतेभ्यः ।। 48।।
काचिद् व्यवस्थितिरभूज्जननायकानाम् ।
साऽप्यद्य जर्जरतनुर्विशरारुकल्पा
कस्मै गुणाय बत सिद्धयति भारतेभ्यः ।। 48।।
इत्थङ्गते गणपतिप्रतिभूतिकल्पे-
ष्वग्रण्यभावमहितेष्वपि नायकेषु ।
माता मही भरतगा ननु कान्दिशीक-
भूयेन केनचन तिष्ठति गूढगीर्णा ।। 49।।
ष्वग्रण्यभावमहितेष्वपि नायकेषु ।
माता मही भरतगा ननु कान्दिशीक-
भूयेन केनचन तिष्ठति गूढगीर्णा ।। 49।।
तस्मिन्निदंयुगमहर्षितया प्रतीत-
प्रज्ञात्मनामचरमे खलु शेखरेऽपि ।
चन्द्रोऽपि पूर्वपदतां प्रतिपक्षमात्रा-
ह्लादाय सिद्धयति निजाय तु सिंहतैव ।। 50।।
प्रज्ञात्मनामचरमे खलु शेखरेऽपि ।
चन्द्रोऽपि पूर्वपदतां प्रतिपक्षमात्रा-
ह्लादाय सिद्धयति निजाय तु सिंहतैव ।। 50।।
चन्द्रः पुरश्चरति यत्र च यत्र सिंहः
पार्यन्तिकायति स शेखर इत्यभिख्यः ।
नूनं महत्तमति मोहनदासगान्धि-
मार्गे प्रधानति स चेदुचितं न किं तत् ।। 51।।
पार्यन्तिकायति स शेखर इत्यभिख्यः ।
नूनं महत्तमति मोहनदासगान्धि-
मार्गे प्रधानति स चेदुचितं न किं तत् ।। 51।।
राष्ट्रं निषीदतितरां खलु तत्र यत्रा-
दर्शोत्तमा निरनुशीतिशुभाः प्रथन्ते ।
तं कालवक्त्रकुहरे परिपिष्यमाणं
ब्रूमः स्वकुक्षिमभिपूर्य कृतीयते यः ।। 52।।
दर्शोत्तमा निरनुशीतिशुभाः प्रथन्ते ।
तं कालवक्त्रकुहरे परिपिष्यमाणं
ब्रूमः स्वकुक्षिमभिपूर्य कृतीयते यः ।। 52।।
मर्त्येऽत्र भूमिवलयेऽस्त्यजरोऽमरो वा
को वा स्थविष्ठवपुषा विधृतावतारः ।
कीर्त्तिस्तु यस्य सततं विशदायमाना
जागर्त्यसावमृत इत्यभिमन्यतां चेत् ।। 53।।
को वा स्थविष्ठवपुषा विधृतावतारः ।
कीर्त्तिस्तु यस्य सततं विशदायमाना
जागर्त्यसावमृत इत्यभिमन्यतां चेत् ।। 53।।
आदर्श एष सममेव विदेहजायाः
पत्या भुवस्तलमिदं विजहाविति ग्लौः ।
अद्यत्व उद्गिरति तत्र यदंशुजालं
स्वार्थामृतस्य महिमा स चिरार्जितस्य ।। 54।।
पत्या भुवस्तलमिदं विजहाविति ग्लौः ।
अद्यत्व उद्गिरति तत्र यदंशुजालं
स्वार्थामृतस्य महिमा स चिरार्जितस्य ।। 54।।
एवंविधे विषमये समये करालाः
कुक्षिम्भरिष्णव इतस्तत उद्यता ये ।
तेषामिमे वयमहर्निशमेव झञ्झा-
वातानतीव परुषानहहाऽऽमृशामः ।। 55।।
कुक्षिम्भरिष्णव इतस्तत उद्यता ये ।
तेषामिमे वयमहर्निशमेव झञ्झा-
वातानतीव परुषानहहाऽऽमृशामः ।। 55।।
यश्चन्द्रशेखरति योऽप्यथ विश्वनाथ-
त्यद्याऽस्य वृत्रशमितुर्नु दृशां सहस्रे ।
सिद्धाञ्जनं भवितुमिच्छति यन्न कोऽपि
सोऽयं कलेः प्रभवतः खलु संप्रसादः ।। 56।।
त्यद्याऽस्य वृत्रशमितुर्नु दृशां सहस्रे ।
सिद्धाञ्जनं भवितुमिच्छति यन्न कोऽपि
सोऽयं कलेः प्रभवतः खलु संप्रसादः ।। 56।।
माता न यस्य न पिता न गुरुर्न चापि v
ग्रन्थः प्रमाणपदवीं भजते क्रियासु ।
नेतृत्वमाप्य स निनीषति लोकमेत-
मद्येति खिद्यति चितिर्जनतान्त्रिकाणाम् ।। 57।।
ग्रन्थः प्रमाणपदवीं भजते क्रियासु ।
नेतृत्वमाप्य स निनीषति लोकमेत-
मद्येति खिद्यति चितिर्जनतान्त्रिकाणाम् ।। 57।।
यस्यास्ति तात्त्विकतया बहुता स दाता
नास्तीति तत्र खलु ये धृतशत्रुचर्याः ।
ते कुर्युरन्यदिह किं जयचन्दभावं
त्यक्त्वा परेषु निजतामभिमन्यमानाः ।। 58।।
नास्तीति तत्र खलु ये धृतशत्रुचर्याः ।
ते कुर्युरन्यदिह किं जयचन्दभावं
त्यक्त्वा परेषु निजतामभिमन्यमानाः ।। 58।।
यश्चन्द्रशेखरमपास्य चकार साह्यं
प्राग् विश्वनाथविरुदस्य स देविलालः ।
साहायकं चरति चेत् पुनरप्यमुष्य
श्रीचन्द्रशेखरवरस्य तदत्र चित्रम् ।। 59।।
प्राग् विश्वनाथविरुदस्य स देविलालः ।
साहायकं चरति चेत् पुनरप्यमुष्य
श्रीचन्द्रशेखरवरस्य तदत्र चित्रम् ।। 59।।
यस्यैव हन्त तनयो हरियाणराज्ये
मुख्यत्वमाप्य बलवद् द्विरपाकृतोऽभूत् ।
तस्यैव पार्श्वमुपसीदति केन्द्रशक्ति-
र्द्विः सा परा खलु कृपा जनताम्बिकायाः ।। 60।।
मुख्यत्वमाप्य बलवद् द्विरपाकृतोऽभूत् ।
तस्यैव पार्श्वमुपसीदति केन्द्रशक्ति-
र्द्विः सा परा खलु कृपा जनताम्बिकायाः ।। 60।।
यः कूटपत्रमलिखत् किल विश्वनाथ-
हस्ताक्षरेण च दिदेश च वेङ्कटेभ्यः ।
तं देविलालमभितो यदि राष्ट्रलक्ष्मी-
र्नर्नर्त्ति साऽपि करुणैव जनेश्वरस्य ।। 61।।
हस्ताक्षरेण च दिदेश च वेङ्कटेभ्यः ।
तं देविलालमभितो यदि राष्ट्रलक्ष्मी-
र्नर्नर्त्ति साऽपि करुणैव जनेश्वरस्य ।। 61।।
नास्त्येव मूर्ध्नि मम कश्चन, मामकं हि
वर्त्मानुधावति महाप्रभुतेति पश्यन् ।
यो दुश्चिकित्स्यति न तस्य पुरः शिरोधि-
मानामयन्ति मनुजाः क्व नु दुर्विदग्धाः ।। 62।।
वर्त्मानुधावति महाप्रभुतेति पश्यन् ।
यो दुश्चिकित्स्यति न तस्य पुरः शिरोधि-
मानामयन्ति मनुजाः क्व नु दुर्विदग्धाः ।। 62।।
बद्धाञ्जलेर्मम शृणोति वचो न कोऽपि
दीनस्य पादपतितस्य च निर्विकम्पः ।
बद्धाञ्जलिस्तु निखिलोऽपि ममैव सोपा-
नत्कस्य हन्त पुरतो विधुनोति पुच्छम् ।। 63।।
दीनस्य पादपतितस्य च निर्विकम्पः ।
बद्धाञ्जलिस्तु निखिलोऽपि ममैव सोपा-
नत्कस्य हन्त पुरतो विधुनोति पुच्छम् ।। 63।।
यस्माद् भयं भवति तस्य पुरःसरन्ति
लोकाः समेऽपि करयोरुपहारवन्तः ।
प्रीतिर्लता धरति तां भयमेव भूत्वा-
ऽऽधारोत्तमो भवति शृङ्गवती ततो गौः ।। 64।।
लोकाः समेऽपि करयोरुपहारवन्तः ।
प्रीतिर्लता धरति तां भयमेव भूत्वा-
ऽऽधारोत्तमो भवति शृङ्गवती ततो गौः ।। 64।।
जानाति सर्वमिदमत्ति पिबत्युदारं
क्रीडत्यनाकुलमथ श्रियमाचिनोति ।
लालः स लौहपुरुषः शिरसा बिभर्त्ति
सोष्णीषकं कनकरत्नमयं किरीटम् ।। 65।।
क्रीडत्यनाकुलमथ श्रियमाचिनोति ।
लालः स लौहपुरुषः शिरसा बिभर्त्ति
सोष्णीषकं कनकरत्नमयं किरीटम् ।। 65।।
वृद्धोऽपि यौवनवतो विहसत्यसौ सद्
वेणून्नतश्च सुदृढावयवश्च धीरः ।
यः प्रातरेव पयसा निजपाणिदुग्धे-
नोषर्बुधं जठरगं सुकृती धिनोति ।। 66।।
वेणून्नतश्च सुदृढावयवश्च धीरः ।
यः प्रातरेव पयसा निजपाणिदुग्धे-
नोषर्बुधं जठरगं सुकृती धिनोति ।। 66।।
केन्द्रस्य कोषमखिलं स कृषीवलानां
लाभाय रक्षितुमभूत् सफलप्रयत्नः ।
प्राप्तं तु यस्तृणमिवात्यजदार्यचेताः
प्राधान्यमस्य वसुधावलयस्य धीरः ।। 67।।
लाभाय रक्षितुमभूत् सफलप्रयत्नः ।
प्राप्तं तु यस्तृणमिवात्यजदार्यचेताः
प्राधान्यमस्य वसुधावलयस्य धीरः ।। 67।।
यत्राऽस्ति वै चरणसिंहशतं निमग्नं
मग्नं च वल्लभपटैलसहस्रमुच्चैः ।
तं देविलालमचलं नु नभःस्पृशं गौ-
रेषा स्वयंवरयते यदि किं नु चित्रम् ।। 68।।
मग्नं च वल्लभपटैलसहस्रमुच्चैः ।
तं देविलालमचलं नु नभःस्पृशं गौ-
रेषा स्वयंवरयते यदि किं नु चित्रम् ।। 68।।
काङ्ग्रेसबन्धुषु सुहृत्त्व-सहायकृत्त्व-
मार्गस्थितत्व-भरतावनिभक्तिमत्त्वम् ।
लालो विभावयति शासनपीठगश्च
तोतोष्टि शेखरसखः कतिचिद् दिनानि ।। 69।।
मार्गस्थितत्व-भरतावनिभक्तिमत्त्वम् ।
लालो विभावयति शासनपीठगश्च
तोतोष्टि शेखरसखः कतिचिद् दिनानि ।। 69।।
श्रीवेङ्कटोऽचकथताथ दलानि सर्वा-
ण्याभ्यन्तरीं विमतिकालतिकां विशस्य ।
राष्ट्रीयशासनमुपासितुमात्तनिष्ठा-
न्याशेरतामिति यशस्करमार्यभूमेः ।। 70।।
ण्याभ्यन्तरीं विमतिकालतिकां विशस्य ।
राष्ट्रीयशासनमुपासितुमात्तनिष्ठा-
न्याशेरतामिति यशस्करमार्यभूमेः ।। 70।।
अभवदिह समेषां नायकानां विरोधः
ककुभि ककुभि सद्यो वृत्तपत्रप्रकाशः ।
उरग इति धियाऽन्धो मूर्ध्नि भक्तैः प्रदिष्टा-
मपि परिहरति स्रक्सत्तमां भीतभीतः ।। 71।।
ककुभि ककुभि सद्यो वृत्तपत्रप्रकाशः ।
उरग इति धियाऽन्धो मूर्ध्नि भक्तैः प्रदिष्टा-
मपि परिहरति स्रक्सत्तमां भीतभीतः ।। 71।।
इति ‘स्वातन्य्र्ासम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ
‘मतिभेदो’ नामैकोनत्रिंशः सर्गः ।। 29।।
राजीवगान्धिरसहिष्ट न शेखरस्य
कार्याणि कानिचन तत् स कृती विभाव्य ।
प्रागेव मन्त्रिपदमात्मन उत्ससर्ज
नो विश्वनाथ इव साहसिकत्वमार्च्छत् ।। 1।।
कार्याणि कानिचन तत् स कृती विभाव्य ।
प्रागेव मन्त्रिपदमात्मन उत्ससर्ज
नो विश्वनाथ इव साहसिकत्वमार्च्छत् ।। 1।।
निर्वाचनं च दशमं वरयाञ्चकार
श्रीवेङ्कटं, स च समार्थयदस्य शंसाम् ।
संसत् ततः स्वयमभज्यत, संविधानं
सर्वप्रधानतितरां जनतान्त्रिकेषु ।। 2।।
श्रीवेङ्कटं, स च समार्थयदस्य शंसाम् ।
संसत् ततः स्वयमभज्यत, संविधानं
सर्वप्रधानतितरां जनतान्त्रिकेषु ।। 2।।
आसामपञ्चनदयोरपि शेखरेण
निर्वाचनं स्थिरमकारि किमप्यपूर्वम् ।
चित्ते निधाय च विधाय च गूढगूढां
वार्त्तां विरोधिभिरपि प्रतिरोधदक्षैः ।। 3।।
निर्वाचनं स्थिरमकारि किमप्यपूर्वम् ।
चित्ते निधाय च विधाय च गूढगूढां
वार्त्तां विरोधिभिरपि प्रतिरोधदक्षैः ।। 3।।
श्रीसिंहलेषु च समुद्रतटाटवीषु
प्राच्यासु च प्रतिदिनं प्रथितप्रभावम् ।
यच्छात्रवं न खलु तत् क्षपयाञ्चकार
श्रीशेखरोऽपि कुटिलाः क्व नु सुप्रधृष्याः ।। 4।।
प्राच्यासु च प्रतिदिनं प्रथितप्रभावम् ।
यच्छात्रवं न खलु तत् क्षपयाञ्चकार
श्रीशेखरोऽपि कुटिलाः क्व नु सुप्रधृष्याः ।। 4।।
यानानि लौहपथगानि विनाशितानि
यद्वन्नभःस्थलगतान्यपि यैः शतानि ।
तेषां चतुर्ष्वपि दिशां हृदयेषु दर्शं
दर्शं समृद्धिमियमेजयते नृभूमिः ।। 5।।
यद्वन्नभःस्थलगतान्यपि यैः शतानि ।
तेषां चतुर्ष्वपि दिशां हृदयेषु दर्शं
दर्शं समृद्धिमियमेजयते नृभूमिः ।। 5।।
अस्त्राण्यगण्यगणनानि शितानि तत्त-
त्काष्ठावकाशसुलभानि गृहेषु धृत्वा ।
श्मश्रूणि कूर्चकलनापुनरुक्तसान्द्रा-
ण्यस्मिन् क्षणे कतिपये स्फुरयाम्बभूवुः ।। 6।।
त्काष्ठावकाशसुलभानि गृहेषु धृत्वा ।
श्मश्रूणि कूर्चकलनापुनरुक्तसान्द्रा-
ण्यस्मिन् क्षणे कतिपये स्फुरयाम्बभूवुः ।। 6।।
पञ्चापदेशजनता जनतन्त्रसंस-
त्सादस्यकामिषु तदाऽकटपूतनायत् ।
या ताँश्चचर्व करुणारहितान्तरङ्गा
व्यालीव कुक्षिजनितानपि निर्विचारम् ।। 7।।
त्सादस्यकामिषु तदाऽकटपूतनायत् ।
या ताँश्चचर्व करुणारहितान्तरङ्गा
व्यालीव कुक्षिजनितानपि निर्विचारम् ।। 7।।
हिंसां प्रमाणयितुमद्य युगे स्व-तन्त्र-
सिद्ध्यै भवन्ति खलु ये प्रतिपत्तिभाजः ।
गङ्गामिमे तुहिनमन्दरकन्दरान्त-
र्भूयःप्रवेशयितुमुद्यमिनो नु भान्ति ।। 8।।
सिद्ध्यै भवन्ति खलु ये प्रतिपत्तिभाजः ।
गङ्गामिमे तुहिनमन्दरकन्दरान्त-
र्भूयःप्रवेशयितुमुद्यमिनो नु भान्ति ।। 8।।
हिंसाग्निरद्मरति यत्र न तत्र मर्त्त्ये
लोके प्रसीदति कविप्रतिभानधारा ।
तं प्रेततीर्थमिव दूरत एव नत्वा
त्यक्तुं भवन्ति यतिताः कृतिनः कवीन्द्राः ।। 9।।
लोके प्रसीदति कविप्रतिभानधारा ।
तं प्रेततीर्थमिव दूरत एव नत्वा
त्यक्तुं भवन्ति यतिताः कृतिनः कवीन्द्राः ।। 9।।
यस्मिन् वहन्ति सरितः सततं प्रसादो-
त्कर्षाञ्चितानि सलिलान्यमृतानि यद्वत् ।
सस्यैरदभ्रपरिपोषशुभैश्चतुर्दिग्-
विभ्राजमान इह को न रमेत राष्ट्रे ।। 10।।
त्कर्षाञ्चितानि सलिलान्यमृतानि यद्वत् ।
सस्यैरदभ्रपरिपोषशुभैश्चतुर्दिग्-
विभ्राजमान इह को न रमेत राष्ट्रे ।। 10।।
तीर्थानि यत्र विविधानि लसन्ति येषां
कुक्षौ प्रवान्ति विमलाः पवना यदीयान् ।
स्पर्शानवाप्य शिशिराँल्लघिमानमाप्तुं
केषां न हन्त चितयः प्रसभं द्रवन्ति ।। 11।।
कुक्षौ प्रवान्ति विमलाः पवना यदीयान् ।
स्पर्शानवाप्य शिशिराँल्लघिमानमाप्तुं
केषां न हन्त चितयः प्रसभं द्रवन्ति ।। 11।।
यत्र द्रुमाश्च गगनोदरमुद्रुजोऽमी
कल्पद्रुमन्ति कुसुमैश्च फलैश्च तैस्तैः ।
आप्लावयन्ति च रसैरधिसौरभैर्गां
कुक्षीनिमानिव विहायस आर्यभूमेः ।। 12।।
कल्पद्रुमन्ति कुसुमैश्च फलैश्च तैस्तैः ।
आप्लावयन्ति च रसैरधिसौरभैर्गां
कुक्षीनिमानिव विहायस आर्यभूमेः ।। 12।।
अद्यापि यस्य गगने श्रुतिमूर्च्छनाभि-
रुत्पक्ष्मलानि नयनानि परिभ्रमन्ति ।
प्रेयांसमेव ननु कञ्चन किङ्किणीभि-
र्नृत्यन्तमात्मनि दिदृक्षुतयोत्सुकानि ।। 13।।
रुत्पक्ष्मलानि नयनानि परिभ्रमन्ति ।
प्रेयांसमेव ननु कञ्चन किङ्किणीभि-
र्नृत्यन्तमात्मनि दिदृक्षुतयोत्सुकानि ।। 13।।
प्रेयांसमेव ननु तं परिवारयन्तः
स्मेराननैः स्मरशतैः श्रितदिव्यभोगैः ।
स्मेराननाः खलु लसन्ति समाधिभाजः
सन्तः कुटीषु गहनेषु च सञ्चरन्तः ।। 14।।
स्मेराननैः स्मरशतैः श्रितदिव्यभोगैः ।
स्मेराननाः खलु लसन्ति समाधिभाजः
सन्तः कुटीषु गहनेषु च सञ्चरन्तः ।। 14।।
उद्यानमेतदभितः परिशोभमानं
पुंस्कोकिलन्ति खलु ये रसितुं महेच्छाः ।
तेष्वेव केषुचन पक्ष्मलिताः पतन्ति
लक्ष्म्या विभूतिवसतेर्विशदाः कटाक्षाः ।। 15।।
पुंस्कोकिलन्ति खलु ये रसितुं महेच्छाः ।
तेष्वेव केषुचन पक्ष्मलिताः पतन्ति
लक्ष्म्या विभूतिवसतेर्विशदाः कटाक्षाः ।। 15।।
येषां पुनर्नखरिताः करभूकृपाण्यो
वल्गन्ति घस्मरयितुं निज एव धाम्नि ।
वेतालवक्त्रकुहरेष्ववशं पतद्भ्य-
स्तेभ्यो दशापि ककुभः शुचमारवन्ति ।। 16।।
वल्गन्ति घस्मरयितुं निज एव धाम्नि ।
वेतालवक्त्रकुहरेष्ववशं पतद्भ्य-
स्तेभ्यो दशापि ककुभः शुचमारवन्ति ।। 16।।
सन्त्येव कोकिलकुलानि मधूनि पीत्वा
गायन्ति यानि सरसं सहकारकुक्षौ ।
सन्त्येव कङ्कवयसामपि किन्तु वंशा
येऽन्त्राणि चञ्चुषु निपीड्या कदारटन्ति ।। 17।।
गायन्ति यानि सरसं सहकारकुक्षौ ।
सन्त्येव कङ्कवयसामपि किन्तु वंशा
येऽन्त्राणि चञ्चुषु निपीड्या कदारटन्ति ।। 17।।
रे सन्निपात! नियतिः किमु बोभवीषि
त्वं मानवस्य पतदुत्पततो द्विपादः ।
रे सन्निपात! शबलायितुमेव नित्यं
त्वं शश्वदुत्सुकसि चित्रविचित्रितार्थः ।। 18।।
त्वं मानवस्य पतदुत्पततो द्विपादः ।
रे सन्निपात! शबलायितुमेव नित्यं
त्वं शश्वदुत्सुकसि चित्रविचित्रितार्थः ।। 18।।
रे सन्निपात! विषमत्वकषायितात्म-
न्यस्मिँस्त्वयि क्रकचचङ्क्रमणा क्व गूढा ।
सौभाग्यरज्जुषु निबद्ध्य जिजीविषूँस्त्वं
यच्छिन्नभिन्नवपुषो न न चर्करीषि ।। 19।।
न्यस्मिँस्त्वयि क्रकचचङ्क्रमणा क्व गूढा ।
सौभाग्यरज्जुषु निबद्ध्य जिजीविषूँस्त्वं
यच्छिन्नभिन्नवपुषो न न चर्करीषि ।। 19।।
रे सन्निपात! गगनं तव बिम्बमर्क-
श्चन्द्रश्च यत्र परितश्चरतः सहैव ।
सार्धं बलाहक-बलाक-शतह्रदाभिः
सार्धं च मारुतपरिभ्रमणाभिरभिः ।। 20।।
श्चन्द्रश्च यत्र परितश्चरतः सहैव ।
सार्धं बलाहक-बलाक-शतह्रदाभिः
सार्धं च मारुतपरिभ्रमणाभिरभिः ।। 20।।
रे सन्निपात! जननी च जनिश्च जन्यै-
र्जातैश्च सार्धमिह ते वितते घटेऽस्मिन् ।
दृष्टिं व्रजन्ति वयसा शिशुना किशोर
तारुण्यपर्वखिलया जरसा च सार्धम् ।। 21।।
र्जातैश्च सार्धमिह ते वितते घटेऽस्मिन् ।
दृष्टिं व्रजन्ति वयसा शिशुना किशोर
तारुण्यपर्वखिलया जरसा च सार्धम् ।। 21।।
रे सन्निपात! भवतोदरगर्भमध्ये
चक्रं यदस्ति परिचालितमस्ततन्द्रम् ।
किं चन्द्रशेखरमिमं सह विश्वनाथ-
राजीवराजिभिरुदाकुरुतेऽद्य तद्वै ।। 22।।
चक्रं यदस्ति परिचालितमस्ततन्द्रम् ।
किं चन्द्रशेखरमिमं सह विश्वनाथ-
राजीवराजिभिरुदाकुरुतेऽद्य तद्वै ।। 22।।
औदर्य एष गहनोऽवट उल्लिखन्तो
गूढं कमप्यवकरं विलसन्ति यस्मिन् ।
कार्त्तान्तिका बहुकरान्वयिनः कराग्राः
शर्व्वर्यपायसमये नु सहस्रधाम्नः ।। 23।।
गूढं कमप्यवकरं विलसन्ति यस्मिन् ।
कार्त्तान्तिका बहुकरान्वयिनः कराग्राः
शर्व्वर्यपायसमये नु सहस्रधाम्नः ।। 23।।
इत्यादिकं बहुविधं कृतिनः कवीन्द्रा-
श्चित्ते विचारशतमद्य युगे श्रयन्तः ।
मूर्धानमेकमपि न क्षणमुद्वहन्ति
प्रोच्चैस्तरं निशि दिवा च कदर्थितान्ताः ।। 24।।
श्चित्ते विचारशतमद्य युगे श्रयन्तः ।
मूर्धानमेकमपि न क्षणमुद्वहन्ति
प्रोच्चैस्तरं निशि दिवा च कदर्थितान्ताः ।। 24।।
अस्मै क्षणाय धरणी विधुनोति शीर्षं
द्यौरेजते क्षितिजमश्रुनदीं प्रसूते ।
भागीरथी भगवती क्रशिमानमाप्ता
वाराणसीमपि च बाष्पमुखीं विधत्ते ।। 25।।
द्यौरेजते क्षितिजमश्रुनदीं प्रसूते ।
भागीरथी भगवती क्रशिमानमाप्ता
वाराणसीमपि च बाष्पमुखीं विधत्ते ।। 25।।
सर्वाणि पर्वतकुलानि चलन्ति, कूपा-
ग्नीनमूनहह धन्वसु धारयन्ते ।
व्योमाश्रु मुञ्चति विषानलधूमकालं
सार्धं सरित्पतिभिराकुलिताङ्गसन्धि ।। 26।।
ग्नीनमूनहह धन्वसु धारयन्ते ।
व्योमाश्रु मुञ्चति विषानलधूमकालं
सार्धं सरित्पतिभिराकुलिताङ्गसन्धि ।। 26।।
सर्वेऽपि कल्पतरवस्तरलन्ति कामान्
दोग्धुं कुतश्चिदपि मूर्च्छितशक्तयोऽमी ।
धन्या धनेन विधने निधनायमानाः
शौवापदीं बत सृतिं तरसा श्रयन्ते ।। 27।।
दोग्धुं कुतश्चिदपि मूर्च्छितशक्तयोऽमी ।
धन्या धनेन विधने निधनायमानाः
शौवापदीं बत सृतिं तरसा श्रयन्ते ।। 27।।
ये वै कलापरिचयेन गताः प्रसिद्धिं
ते स्वान् निधीनपरधामसु निक्षिपन्तः ।
सद्यस्तरां वशयितुं धनदस्य भूतिं
कूर्द्दन्ति कुत्र पथि नैव विहाय लज्जाम् ।। 28।।
ते स्वान् निधीनपरधामसु निक्षिपन्तः ।
सद्यस्तरां वशयितुं धनदस्य भूतिं
कूर्द्दन्ति कुत्र पथि नैव विहाय लज्जाम् ।। 28।।
न्यक्षेपि सञ्चिततमो निज एव हेम्नां
राशिः परेषु कृपणैः कृपणे क्षणेऽस्मिन् ।
तत्रापि न प्रशममेति दिधक्षुतेद्धो
वह्निः करालवदनो ह्यधमर्णतायाः ।। 29।।
राशिः परेषु कृपणैः कृपणे क्षणेऽस्मिन् ।
तत्रापि न प्रशममेति दिधक्षुतेद्धो
वह्निः करालवदनो ह्यधमर्णतायाः ।। 29।।
गोधूम-तण्डुल-दलद्वय-शाक-सर्पि-
स्तैलानि दुग्धसहितानि नभः स्पृशन्ति ।
कस्यापि नाद्य सुलभानि कृषीवलानां
गेहे सुरां स्थिररसां विदधन्ति भूम्ना ।। 30।।
स्तैलानि दुग्धसहितानि नभः स्पृशन्ति ।
कस्यापि नाद्य सुलभानि कृषीवलानां
गेहे सुरां स्थिररसां विदधन्ति भूम्ना ।। 30।।
वाणिज्यया प्रतिपलं प्रथमानकोष-
द्रव्यौघया सुरसयेव विवृत्य वक्त्रम् ।
यन्नृत्यतेऽद्य कवलीकृतसर्वधर्म-
सर्वस्वया स्थितिरियं जनतन्त्रभिक्षोः ।। 31।।
द्रव्यौघया सुरसयेव विवृत्य वक्त्रम् ।
यन्नृत्यतेऽद्य कवलीकृतसर्वधर्म-
सर्वस्वया स्थितिरियं जनतन्त्रभिक्षोः ।। 31।।
निर्वाचनस्य दशमस्य कृते प्रचारं
राजीवगान्धिरपि कर्त्तुमियाय ताँस्तान् ।
क्षेत्रोत्तमान् निजदलस्य जिगीषया यद्
भैक्ष्यस्य सा खलु कथा चरमस्य काचित्।। 32।।
राजीवगान्धिरपि कर्त्तुमियाय ताँस्तान् ।
क्षेत्रोत्तमान् निजदलस्य जिगीषया यद्
भैक्ष्यस्य सा खलु कथा चरमस्य काचित्।। 32।।
रामानुजप्रसविनीं स यदा जगाम
पेरुम्बुदूर-विरुदां नगरीं वपुष्मान् ।
कृत्याऽन्वधावदमुमुत्कटदाहकास्त्र-
सम्यक्परीतवपुरास्रपधर्मजाया ।। 33।।
पेरुम्बुदूर-विरुदां नगरीं वपुष्मान् ।
कृत्याऽन्वधावदमुमुत्कटदाहकास्त्र-
सम्यक्परीतवपुरास्रपधर्मजाया ।। 33।।
आरक्षिणां शतचतुर्द्दशसंख्ययापि
व्यापारिणां न समजोऽपि शशाक रोद्धुम् ।
तां कालरात्रिमिव गान्धिनि बद्धलक्ष्यां
कक्ष्यान्तरेष्वनिभृतं हि परिभ्रमन्तीम् ।। 34।।
व्यापारिणां न समजोऽपि शशाक रोद्धुम् ।
तां कालरात्रिमिव गान्धिनि बद्धलक्ष्यां
कक्ष्यान्तरेष्वनिभृतं हि परिभ्रमन्तीम् ।। 34।।
पाणौ स्रजं धृतवती सुरभिं पुरा सा
राजीवगान्धिनमपूजयदार्यहृद्यम् ।
पादे च तं करपुटेन यदाऽस्पृशद् द्यौ-
र्हाहा बमस्य रणनेन बभूव गीर्णा ।। 35।।
राजीवगान्धिनमपूजयदार्यहृद्यम् ।
पादे च तं करपुटेन यदाऽस्पृशद् द्यौ-
र्हाहा बमस्य रणनेन बभूव गीर्णा ।। 35।।
स्फोटेन तेन महता ज्वलनेन चार्चि-
र्मालाशतीपरिवृतेन चकम्प भूमिः ।
कादम्बिनीमपि विना वियतस्तदानीं
सस्फूर्जथु न्यपतदुग्रतरं नु वज्रम् ।। 36।।
र्मालाशतीपरिवृतेन चकम्प भूमिः ।
कादम्बिनीमपि विना वियतस्तदानीं
सस्फूर्जथु न्यपतदुग्रतरं नु वज्रम् ।। 36।।
धूमावती भगवती नु तदाट्टहासं
चक्रेऽग्रसच्च सुबहून् निमिषेण पुंसः ।
आरक्षिभिः कतिपयैः सह कृत्ययाऽपि
सार्धं तया शकलिताखिलगात्रयष्ट्या ।। 37।।
चक्रेऽग्रसच्च सुबहून् निमिषेण पुंसः ।
आरक्षिभिः कतिपयैः सह कृत्ययाऽपि
सार्धं तया शकलिताखिलगात्रयष्ट्या ।। 37।।
एकाधिविंश-मय-मास-निशान्धकारे
स्फोटेन तेन जनितेन तु मञ्चपार्श्वे ।
सार्धं स पञ्चदशभिः पुरुषैर्विलिल्ये
राजीवगान्धिरपि हन्त निमेषमात्रात् ।। 38।।
स्फोटेन तेन जनितेन तु मञ्चपार्श्वे ।
सार्धं स पञ्चदशभिः पुरुषैर्विलिल्ये
राजीवगान्धिरपि हन्त निमेषमात्रात् ।। 38।।
रुद्रस्य नेत्रदहनो नु रतिप्रियस्य
गात्रं स तस्य दहनः कणशः शरीरम् ।
चक्रेऽन्तकस्य पदचापमिमं न कोऽपि
श्रोतुं प्रभुः प्रभुजनेषु बभूव दिष्ट्या ।। 39।।
गात्रं स तस्य दहनः कणशः शरीरम् ।
चक्रेऽन्तकस्य पदचापमिमं न कोऽपि
श्रोतुं प्रभुः प्रभुजनेषु बभूव दिष्ट्या ।। 39।।
अन्वेषणा स्म भवति क्व गतो नु गान्धी
मज्जास्थिलोहितसरिद्भरितेऽत्र सीम्नि ।
पश्चादुपानद्विशेषगतं विशेष-
मालक्ष्य कैश्चन पराममृशेऽस्य खण्डः ।। 40।।
मज्जास्थिलोहितसरिद्भरितेऽत्र सीम्नि ।
पश्चादुपानद्विशेषगतं विशेष-
मालक्ष्य कैश्चन पराममृशेऽस्य खण्डः ।। 40।।
उद्यच्छशाङ्कसदृशच्छवि यन्निशाम्य
लोकेष्वभून्निरतिशीतिपृथुः प्रमोदः ।
तत् तस्य वक्त्रकमलं श्रुतिनासिकास्य-
स्फीतालिकैः सममशेषि न दर्शनाय ।। 41।।
लोकेष्वभून्निरतिशीतिपृथुः प्रमोदः ।
तत् तस्य वक्त्रकमलं श्रुतिनासिकास्य-
स्फीतालिकैः सममशेषि न दर्शनाय ।। 41।।
अन्त्राणि तस्य दहराज्ज्वलितत्वचोऽन्तः-
स्रावीणि कर्दमितशोणितरञ्जितानि ।
दृष्ट्वा न कस्य हृदयं सहसा विदद्रे
मन्येऽन्तकोऽपि सहसा निमिमील नेत्रे ।। 42।।
स्रावीणि कर्दमितशोणितरञ्जितानि ।
दृष्ट्वा न कस्य हृदयं सहसा विदद्रे
मन्येऽन्तकोऽपि सहसा निमिमील नेत्रे ।। 42।।
पेरुम्बुदूरपुरतः प्रससार सद्यो
वृत्तान्त एष निखिलेऽपि महीमहिम्नि ।
गान्धीन्दिराविशसनश्रवणैः प्रतीतो-
ऽप्याश्चर्यतो हि परिखिद्यति तत्र लोकः ।। 43।।
वृत्तान्त एष निखिलेऽपि महीमहिम्नि ।
गान्धीन्दिराविशसनश्रवणैः प्रतीतो-
ऽप्याश्चर्यतो हि परिखिद्यति तत्र लोकः ।। 43।।
रामानुजेन कृतरामविरोध एष
श्रीरामजन्मभुवि रोषकषायितेन ।
दष्टो नु वासवजितो गतिमाशु पेदे
राजीवगान्धिरिति भावयते स्म धीरः ।। 44।।
श्रीरामजन्मभुवि रोषकषायितेन ।
दष्टो नु वासवजितो गतिमाशु पेदे
राजीवगान्धिरिति भावयते स्म धीरः ।। 44।।
आसीत् कविः श्रुतिचतुष्टयविद्
विजेता भूमेर्दिवा सह सहैव रसातलेन ।
यो वै पुलस्त्यकुलशेखर आप कां वा
रामं विरुध्य गतिमेष कलत्रपुत्रैः ।। 45।।
विजेता भूमेर्दिवा सह सहैव रसातलेन ।
यो वै पुलस्त्यकुलशेखर आप कां वा
रामं विरुध्य गतिमेष कलत्रपुत्रैः ।। 45।।
दैवं न कञ्चिदपि हन्ति निधाय हस्ते
खड्गं विरोधकलुषं जनमत्र लोके ।
आप्नोति स स्वयमतर्कितमेव कञ्चिद्
योगं विनाशकरमस्य सुदुःसमाधिम् ।। 46।।
खड्गं विरोधकलुषं जनमत्र लोके ।
आप्नोति स स्वयमतर्कितमेव कञ्चिद्
योगं विनाशकरमस्य सुदुःसमाधिम् ।। 46।।
यो वै समञ्जसमपि क्षपयत्यनार्यो
धार्ष्ट्योन चात्मदलमेव च पोपुषीति ।
संविद्वधूर्विकृतिमस्य पुरा प्रयाति
सा वाडवानलति चापि विभूतिसिन्धौ ।। 47।।
धार्ष्ट्योन चात्मदलमेव च पोपुषीति ।
संविद्वधूर्विकृतिमस्य पुरा प्रयाति
सा वाडवानलति चापि विभूतिसिन्धौ ।। 47।।
भुट्टोऽसुदण्डमभजद् यिरशादनामा
वङ्गस्य राष्ट्रपतिराप दशाब्दकाराम् ।
उत्थानपातपरिकण्डितसन्धिबन्धे
को वा प्रशासितरि पश्यति धन्यभावम् ।। 48।।
वङ्गस्य राष्ट्रपतिराप दशाब्दकाराम् ।
उत्थानपातपरिकण्डितसन्धिबन्धे
को वा प्रशासितरि पश्यति धन्यभावम् ।। 48।।
निर्वाचनस्य प्रथमः परिवर्त्त आसीत्
पूर्णः परस्य च कृते भवति स्म यत्नः ।
राजीवगान्धि-परलोकमहाप्रयाणं
तस्मिन् बभूव मरणं श्वसितेन दिग्धम् ।। 49।।
पूर्णः परस्य च कृते भवति स्म यत्नः ।
राजीवगान्धि-परलोकमहाप्रयाणं
तस्मिन् बभूव मरणं श्वसितेन दिग्धम् ।। 49।।
वक्तुं न कोऽपि किमपि प्रबभूव काले
तस्मिन् विसोढपरमापदपि द्रुधर्मा ।
निर्वाचनोत्तरकलामरुणद् यदानीं
शेषः सरिज्जलमिवोग्रगतं मरुत्वान् ।। 50।।
तस्मिन् विसोढपरमापदपि द्रुधर्मा ।
निर्वाचनोत्तरकलामरुणद् यदानीं
शेषः सरिज्जलमिवोग्रगतं मरुत्वान् ।। 50।।
काङ्ग्रेसनामनि दले स बभूव वज्र-
क्षेपोऽतिजर्जरतनाविव बोधिवृक्षे ।
छिन्नेन मूर्धनि पदे च कबन्धकेन
सादृश्यमापदधुना दलमेतदुच्चैः ।। 51।।v
क्षेपोऽतिजर्जरतनाविव बोधिवृक्षे ।
छिन्नेन मूर्धनि पदे च कबन्धकेन
सादृश्यमापदधुना दलमेतदुच्चैः ।। 51।।v
काङ्ग्रेसकार्यपरिषच्चकमे तदानीं
पत्युः पदं भजतु संप्रति सोनियेति ।
प्रस्तावमर्जुन इमं कृतवान् सदस्यैः
सर्वैः समर्थितमपास्य विरोधभाषाम् ।। 52।।
पत्युः पदं भजतु संप्रति सोनियेति ।
प्रस्तावमर्जुन इमं कृतवान् सदस्यैः
सर्वैः समर्थितमपास्य विरोधभाषाम् ।। 52।।
पत्युः पदं प्रियतमं नु परं स्वतो हि
प्राप्तं न सा मतिमती स्पृहयाञ्चकार ।
किं तत्र तन्त्रमिति नैव विदांबभूवुर्-
नैयायिका अपि निविष्टधियोऽनुमाने ।। 53।।
प्राप्तं न सा मतिमती स्पृहयाञ्चकार ।
किं तत्र तन्त्रमिति नैव विदांबभूवुर्-
नैयायिका अपि निविष्टधियोऽनुमाने ।। 53।।
तस्यै तदेव भवनं सुलभं व्यधायि
यस्मिन्नुवास मतिमान् पतिरेष तस्याः ।
अन्त्येष्टियानमित एव ससर्प धृत्वा
राजीवगात्रशकलान्यनुराजघट्टम् ।। 54।।
यस्मिन्नुवास मतिमान् पतिरेष तस्याः ।
अन्त्येष्टियानमित एव ससर्प धृत्वा
राजीवगात्रशकलान्यनुराजघट्टम् ।। 54।।
पेरुम्बुदूरुनगराच्छवमेतदस्य
व्योम्नः पथेन चरमेऽहनि दिल्लिमापत् ।
प्रागेव किन्तु भरतावनि-विश्वमात्र-
चेतोऽयुतायुतशती क्वथमानसंवित् ।। 55।।
व्योम्नः पथेन चरमेऽहनि दिल्लिमापत् ।
प्रागेव किन्तु भरतावनि-विश्वमात्र-
चेतोऽयुतायुतशती क्वथमानसंवित् ।। 55।।
राजीवगान्धिवपुषः शकलानि लब्ध्वा
चैत्यः कृशानुरपि चन्दनदारुलग्नः ।
चीत्कुर्वतामगमदग्रजतां विराव-
स्फोटेन कृष्णतिलजादिसमुत्थितेन ।। 56।।
चैत्यः कृशानुरपि चन्दनदारुलग्नः ।
चीत्कुर्वतामगमदग्रजतां विराव-
स्फोटेन कृष्णतिलजादिसमुत्थितेन ।। 56।।
व्योम्नः प्रभाकरकरा अपि वह्निवर्षां
ग्रीष्मर्त्तुजामतितरां परुषा अकुर्वन् ।
सेहे समस्तमपि विश्वमिदं विनापि
क्षोभेण सत्प्रतिनिधि प्रथमावतारम् ।। 57।।
ग्रीष्मर्त्तुजामतितरां परुषा अकुर्वन् ।
सेहे समस्तमपि विश्वमिदं विनापि
क्षोभेण सत्प्रतिनिधि प्रथमावतारम् ।। 57।।
शोकानलेन हृदि संज्वलता विवस्व-
त्तेजोऽनलः शिरसि जाग्रदसाविदानीम् ।
मीनेन मीन इव पीनविशेषकेण
क्षीणो नु हन्त सहसैव तदा न्यगारि ।। 58।।
त्तेजोऽनलः शिरसि जाग्रदसाविदानीम् ।
मीनेन मीन इव पीनविशेषकेण
क्षीणो नु हन्त सहसैव तदा न्यगारि ।। 58।।
अश्रूणि यानि मुमुचे जनता तदानीं
तद्वाहिनी शमयति स्म तदाऽनलौ द्वौ ।
राजीवगान्धिविरहप्रभवं च मूर्च्छ-
त्संतापजं च नयनाम्बुभिरुच्चरन्तम् ।। 59।।
तद्वाहिनी शमयति स्म तदाऽनलौ द्वौ ।
राजीवगान्धिविरहप्रभवं च मूर्च्छ-
त्संतापजं च नयनाम्बुभिरुच्चरन्तम् ।। 59।।
याताऽनुजस्य पदवीं जननीन्दिरा प्राक्
तस्यास्तु तां हि पदवीमहमुद्व्रजामि ।
इत्थं नु किञ्चन मनस्यकरोत् स वीरो
राजीव आहुतिमदात् सहसाऽऽत्मनो यत् ।। 60।।
तस्यास्तु तां हि पदवीमहमुद्व्रजामि ।
इत्थं नु किञ्चन मनस्यकरोत् स वीरो
राजीव आहुतिमदात् सहसाऽऽत्मनो यत् ।। 60।।
चत्वारि येन दशकानि ससप्तकानि
भुक्तानि राहुलपिता स युवापि गान्धी ।
आकालिकेन बत दुर्विपदोऽभिघाते-
नाऽद्य क्षणेन विदधे कटु कीर्त्तिशेषः ।। 61।।
भुक्तानि राहुलपिता स युवापि गान्धी ।
आकालिकेन बत दुर्विपदोऽभिघाते-
नाऽद्य क्षणेन विदधे कटु कीर्त्तिशेषः ।। 61।।
यस्योन्मदेन पदसंक्रमणेन शैला
व्याकम्पनां दधुरसौ शिशुकेसरीन्द्रः ।
व्याजेन चेत् त्वरितमेव यमालयाय
सृष्टो व्यधापि ननु यैः किमु मानुषास्ते ।। 62।।
व्याकम्पनां दधुरसौ शिशुकेसरीन्द्रः ।
व्याजेन चेत् त्वरितमेव यमालयाय
सृष्टो व्यधापि ननु यैः किमु मानुषास्ते ।। 62।।
स्तम्बेरमः स्पृशति यत्र पदेन धात्रीं
सा तत्र कम्पत इति क्वनु तस्य दोषः।
यत् सोऽप्यसौ यशसि शेषिततया व्यभूषि
व्याजेन धिग् वत मनुष्यधरेऽस्य धन्या ।। 63।।
सा तत्र कम्पत इति क्वनु तस्य दोषः।
यत् सोऽप्यसौ यशसि शेषिततया व्यभूषि
व्याजेन धिग् वत मनुष्यधरेऽस्य धन्या ।। 63।।
धिक् धिक्कृतावपि जघन्य मतिं स्पृशॅस्त्वं
क्लिश्नासि नश्चितिलतामसमञ्जसघ्नीम् ।
त्वद्गात्रगन्धपरिदूषितनाकपृष्ठा
देवा अपि त्वयि किरन्ति नु तप्ततैलम् ।। 64।।
क्लिश्नासि नश्चितिलतामसमञ्जसघ्नीम् ।
त्वद्गात्रगन्धपरिदूषितनाकपृष्ठा
देवा अपि त्वयि किरन्ति नु तप्ततैलम् ।। 64।।
यद्वाद्यशोषितदृगश्रुरसौ धरित्री
पातालकुक्षिमुपसीदति साश्रुतायाम् ।
स्नाताऽवगाहितवपुर्लतिकेव साध्वी
सर्वंसहात्वगुणरक्षणतत्परेव ।। 65।।
पातालकुक्षिमुपसीदति साश्रुतायाम् ।
स्नाताऽवगाहितवपुर्लतिकेव साध्वी
सर्वंसहात्वगुणरक्षणतत्परेव ।। 65।।
पोरुम्बुदूरुनगरे तमसां घना वै
वर्षन्ति कज्जलमतीव घनं महोऽरि ।
तस्मिन् प्रगोप्य मुखमेतदपि त्रिलोकी-
वक्षः प्रकामगति वाञ्छति वात्मपातम् ।। 66।।
वर्षन्ति कज्जलमतीव घनं महोऽरि ।
तस्मिन् प्रगोप्य मुखमेतदपि त्रिलोकी-
वक्षः प्रकामगति वाञ्छति वात्मपातम् ।। 66।।
काष्ठासु जम्बुदयिता विरुवन्ति तीव्रं
सा वै स्तुतिर्यम-महामहिषस्य, तस्य ।
पादाः स्फुरन्ति यममेष निधाय पृष्ठे
भूमिं प्रति प्रचलितुं परिचेष्टते नु ।। 67।।
सा वै स्तुतिर्यम-महामहिषस्य, तस्य ।
पादाः स्फुरन्ति यममेष निधाय पृष्ठे
भूमिं प्रति प्रचलितुं परिचेष्टते नु ।। 67।।
राजीवगात्रमतिमात्रविनष्टमद्य
नो लोक्यते क्वचिदपि स्फुटलक्षणं तत् ।
यस्मै प्रधानधुरमावहतेऽपि सर्वे
छायाग्रहा द्रुतपदा अभवञ्जगत्याः ।। 68।।
नो लोक्यते क्वचिदपि स्फुटलक्षणं तत् ।
यस्मै प्रधानधुरमावहतेऽपि सर्वे
छायाग्रहा द्रुतपदा अभवञ्जगत्याः ।। 68।।
श्रीचन्द्रशेखर उदारमतित्वकीर्त्त्यै
शौण्डीर्यभागिह पले परिदृश्यते स्म ।
निष्कम्प एव तु पपात नु वज्रमस्य
स्वस्यैव देह इव कीलितचेतनाकः ।। 69।।
शौण्डीर्यभागिह पले परिदृश्यते स्म ।
निष्कम्प एव तु पपात नु वज्रमस्य
स्वस्यैव देह इव कीलितचेतनाकः ।। 69।।
काङ्ग्रेसालिकशून्यपट्टमधुना व्योमस्पृशं व्यापकं
यं वै कज्जलपर्वतं स्म सृजति स्पृष्ट्वा स्थिरां तां मषीम्।
दिग्पाला लिलिखुः पुराणशतकान्याश्चर्यशोकापगा-
साहस्रीप्रभवाणि भारतभुवे रोमन्थयोगो ह्यसौ ।। 70।।
यं वै कज्जलपर्वतं स्म सृजति स्पृष्ट्वा स्थिरां तां मषीम्।
दिग्पाला लिलिखुः पुराणशतकान्याश्चर्यशोकापगा-
साहस्रीप्रभवाणि भारतभुवे रोमन्थयोगो ह्यसौ ।। 70।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ
‘राजीवविशसनो’ नाम त्रिंशः सर्गः।। 30।।