नारायणः स चरणश्च स भूय एव
देसायिना सपदि तेन यदा गृहीतौ ।
तत् संविदं परिपपात जलस्य बिन्दू
आसाद्य दीपक इव प्रकिरँस्तमांसि ।। 1।।
देसायिना सपदि तेन यदा गृहीतौ ।
तत् संविदं परिपपात जलस्य बिन्दू
आसाद्य दीपक इव प्रकिरँस्तमांसि ।। 1।।
सुन्दोपसुन्दकथया परमं पुराण्या
भूयोऽप्यकारि विषयो भरतस्य भूमिः ।
यद्वाऽन्धतैव हृदयस्य मनुष्यजातौ
सांसिद्धिकी, न तु चितिर्निगमागमोत्था ।। 2।।
भूयोऽप्यकारि विषयो भरतस्य भूमिः ।
यद्वाऽन्धतैव हृदयस्य मनुष्यजातौ
सांसिद्धिकी, न तु चितिर्निगमागमोत्था ।। 2।।
रेड्डी मुरारिमवमत्य ददौ तदानीं
प्राधान्यमस्य चरणाय महीतलस्य ।
भीष्मो युधिष्ठिरमुपेक्ष्य सुयोधनाय
यस्मिन् खिलीकृतमतिः प्रदिदेश राज्यम् ।। 3।।
प्राधान्यमस्य चरणाय महीतलस्य ।
भीष्मो युधिष्ठिरमुपेक्ष्य सुयोधनाय
यस्मिन् खिलीकृतमतिः प्रदिदेश राज्यम् ।। 3।।
सिंहोऽपि संसदि स नैव शशाक लब्धुं
स्वीयं समर्थनमिति क्षपितो विरेजे ।
वज्रो नु वारिददरीष्वनवाप्य भूमिं
भूमौ पतन् क्रकचवत् क्रथयँश्च काष्ठाः ।। 4।।
स्वीयं समर्थनमिति क्षपितो विरेजे ।
वज्रो नु वारिददरीष्वनवाप्य भूमिं
भूमौ पतन् क्रकचवत् क्रथयँश्च काष्ठाः ।। 4।।
तस्मिन् क्षणे कविवरोऽपि सनातनोऽगात्
क्षोभं बबन्ध च शतं कविताप्रबन्धान् ।
यान् दिग्ललाटफलके लिखितान्
प्रपेठुर्धिक्कारनीरसतरानिति नो न विज्ञाः ।। 5।।
क्षोभं बबन्ध च शतं कविताप्रबन्धान् ।
यान् दिग्ललाटफलके लिखितान्
प्रपेठुर्धिक्कारनीरसतरानिति नो न विज्ञाः ।। 5।।
इति वक्ष्यमाणेन क्रमेणेत्यर्थः।
( 1 )
अहं स्वतन्त्रः परं निन्दितुं यदिवात्मानं स्तोतुम् ।
तर्पयितुं मम मानसगृध्रं पोषयितुं मम कायम् ।
धातुमात्रसंकायम् ।। 6।।
तर्पयितुं मम मानसगृध्रं पोषयितुं मम कायम् ।
धातुमात्रसंकायम् ।। 6।।
अहं स्वतन्त्रः परस्य कण्ठे करपत्रं चालयितुम् ।
अर्थः सिद्ध्यतु न वा मदीयः परस्य मार्गं रोद्धुम् ।
अर्थः सिद्ध्यतु न वा मदीयः परस्य मार्गं रोद्धुम् ।
जननेतृत्वं बोद्धुम् ।
बहुमतलब्ध्यै यथाकथञ्चित् कूटगवीमपि दोग्धुम् ।। 7।।
अहं स्वतन्त्रः पटु प्रवक्तुं यमनियमानामर्थान् ।
लब्धुं ततो दक्षिणाद्रव्यं निर्मक्षिकमिदमत्तुम् ।
बलीवर्द इव किञ्च गेहिनीं समांसमीनां कर्त्तुम् ।
गोत्रं स्वं वर्धयितुम् ।। 8।।
लब्धुं ततो दक्षिणाद्रव्यं निर्मक्षिकमिदमत्तुम् ।
बलीवर्द इव किञ्च गेहिनीं समांसमीनां कर्त्तुम् ।
गोत्रं स्वं वर्धयितुम् ।। 8।।
समायां समायां प्रतिवर्षं गौः समांसमीना
अहं स्वतन्त्रः स्वकां मातरं कारायां पातयितुम् ।
कर्कटशाव इवोदरमस्या भित्त्वात्मानं लब्धुम् ।
अस्या भूषणरत्नराशिमपि परकोषे निक्षेप्तुम् ।
निजां गेहिनीं देशान्तरगतचत्वरशुनीं विधातुम् ।। 9।।
कर्कटशाव इवोदरमस्या भित्त्वात्मानं लब्धुम् ।
अस्या भूषणरत्नराशिमपि परकोषे निक्षेप्तुम् ।
निजां गेहिनीं देशान्तरगतचत्वरशुनीं विधातुम् ।। 9।।
अहं स्वतन्त्रः स्वर्णस्थाल्यां कोद्रवकं रन्धयितुम् ।
मुखे वृषाणामामिषखण्डं हहहा प्रसभं धातुम् ।
माहिष्मतीं पाटलीपुत्रक्षेत्रं संसाधयितुम् ।
काकशरीरं मुक्ताऽऽकल्पैर्हंसमिव श्वेतयितुम् ।
नग्नं नृत्तं कर्त्तुम् ।। 10।।
मुखे वृषाणामामिषखण्डं हहहा प्रसभं धातुम् ।
माहिष्मतीं पाटलीपुत्रक्षेत्रं संसाधयितुम् ।
काकशरीरं मुक्ताऽऽकल्पैर्हंसमिव श्वेतयितुम् ।
नग्नं नृत्तं कर्त्तुम् ।। 10।।
अहं स्वतन्त्रः सिद्धयुक्तिकः स्वैरधर्ममाख्यातुम् ।
पिबताश्नीतामद्य देवताबुद्धया परिपूजयितुम् ।
मुष्टीमुष्टितया पुरुषार्थानखिलानुपपादयितुम् ।
अग्निमुखे परगेहं क्षिप्त्वा निजं गृहं स्वर्णयितम् ।
मर्त्तुं नो, मारयितुम् ।। 11।।
पिबताश्नीतामद्य देवताबुद्धया परिपूजयितुम् ।
मुष्टीमुष्टितया पुरुषार्थानखिलानुपपादयितुम् ।
अग्निमुखे परगेहं क्षिप्त्वा निजं गृहं स्वर्णयितम् ।
मर्त्तुं नो, मारयितुम् ।। 11।।
अहं स्वतन्त्रः स्वके मस्तके पादौ निजौ निधातुम् ।
मुक्त्वा प्रियां सुधामपि हालाहलं गले पातयितुम् ।
स्वैरं मोक्षतया रे देवाः! मृत्युं शृणुत वरीतुम्
अमृतत्वं दलितयितुम् ।
मम द्रव्यमिति वृत्तपत्रके मम प्रियं मुद्रयितुम्
विप्रियमपहस्तयितुम् ।। 12।।
मुक्त्वा प्रियां सुधामपि हालाहलं गले पातयितुम् ।
स्वैरं मोक्षतया रे देवाः! मृत्युं शृणुत वरीतुम्
अमृतत्वं दलितयितुम् ।
मम द्रव्यमिति वृत्तपत्रके मम प्रियं मुद्रयितुम्
विप्रियमपहस्तयितुम् ।। 12।।
अहं स्वतन्त्रः सूर्यमस्तगिरिलीनमाप्य संतोष्टुम् ।
कनकपर्वते पङ्कविप्रुषां प्रभुभावादुच्छ्वसितुम् ।
सर्गबन्धमपहाय मुक्तके महिमानं दर्शयितुम्,
व्यष्टिदृष्टिपञ्जरशुकभावे जनतन्त्रं निगडयितुम् ।
निखिलं खिलं विधातुम्v
प्रकृतिं परिवर्त्तयितुम्
पुरुषं प्रत्याख्यातुम्
छिन्नभिन्नमथ निखिलं कृत्वा क्रान्तिं संपूर्णयितुम्
जगतीं बीभत्सयितुम्
भारतवर्षमभारतवर्षं कृत्वा क्रूरं हसितुम्
श्मशानखेलां श्रयितुम्
अहं स्वतन्त्रः।। 13।।

( 2 )
रे देश! रे दयित! रे परमेश! तुभ्यं
मूर्ध्ना नतेन नतिसन्ततिमाश्रयामः ।
विद्मश्च ते शिरसि राजति पार्व्वतीशो
विद्मश्च ते जलनिधौ स्वपितीन्दिरेशः ।। 14।।
मूर्ध्ना नतेन नतिसन्ततिमाश्रयामः ।
विद्मश्च ते शिरसि राजति पार्व्वतीशो
विद्मश्च ते जलनिधौ स्वपितीन्दिरेशः ।। 14।।
तीर्थेषु किञ्च तव मानवमात्रवन्द्या-
स्तास्ता वसन्ति विलसन्ति च देवता नः ।
तुभ्यं सदा स्पृहयते च महेन्द्रमुख्या
सर्व्वापि देवजनता च्युतपुण्यराशिः ।। 15।।
स्तास्ता वसन्ति विलसन्ति च देवता नः ।
तुभ्यं सदा स्पृहयते च महेन्द्रमुख्या
सर्व्वापि देवजनता च्युतपुण्यराशिः ।। 15।।
कूर्म्मादयश्च विविधा अवतारमुख्या-
स्त्वामेव केवलमुपासितुमात्तनिष्ठाः ।
त्वय्येव कश्चन सनातननामधारी
धर्म्मः पुमर्थचतुरङ्गपतिः प्रकाशः ।। 16।।
स्त्वामेव केवलमुपासितुमात्तनिष्ठाः ।
त्वय्येव कश्चन सनातननामधारी
धर्म्मः पुमर्थचतुरङ्गपतिः प्रकाशः ।। 16।।
अद्यापि कापि निगमागमसंप्रपूर्णा
वाग्देवता भवति राजति संस्कृताख्या ।
यज्ञाश्च केचन कथञ्चन तेषु तेषु
क्षेत्रेषु साम्प्रतमपि त्वयि संप्रथन्ते ।। 17।।
वाग्देवता भवति राजति संस्कृताख्या ।
यज्ञाश्च केचन कथञ्चन तेषु तेषु
क्षेत्रेषु साम्प्रतमपि त्वयि संप्रथन्ते ।। 17।।
वेदान्त-सांख्य-शिवशास्त्र-महोपदेशाः
प्रज्ञां तवोज्ज्वलयितुं प्रबलं क्रमन्ते ।
श्रीरामरावणयुधिष्ठिरकौरवाणां
कीर्त्त्यन्त एव चरितान्यधुनापि सद्भिः ।। 18।।
प्रज्ञां तवोज्ज्वलयितुं प्रबलं क्रमन्ते ।
श्रीरामरावणयुधिष्ठिरकौरवाणां
कीर्त्त्यन्त एव चरितान्यधुनापि सद्भिः ।। 18।।
सन्त्येव किं न विविधानि कुलानि यन्त्र-
विज्ञानधान्यधनवर्द्धनशिक्षकाणि।
सन्त्येव किञ्च भगवँस्त्वयि शंकराख्या
आचार्य्यकर्म्मकुशला विपुला यतीन्द्राः ।। 19।।
विज्ञानधान्यधनवर्द्धनशिक्षकाणि।
सन्त्येव किञ्च भगवँस्त्वयि शंकराख्या
आचार्य्यकर्म्मकुशला विपुला यतीन्द्राः ।। 19।।
काव्यं समाजपरिकर्म्म-विधानदक्षं
नानाविधं रचयितुं प्रतिभानवन्तः।
अद्यापि सन्ति निपुणास्त्वयि देश! धन्याः
केचिद् वचोऽधिपतयः प्रथिताः कवीन्द्राः ।। 20।।
नानाविधं रचयितुं प्रतिभानवन्तः।
अद्यापि सन्ति निपुणास्त्वयि देश! धन्याः
केचिद् वचोऽधिपतयः प्रथिताः कवीन्द्राः ।। 20।।
व्याख्यानकृत्यकुशला जनमानसानि
निर्भिद्य निर्वचन-वाचन-युद्धशौण्डाः ।
सन्त्येव नैकदलनिर्दल-शुद्ध-कूट-
नीतिप्रकारनिपुणास्त्वयि नेतृवर्य्याः ।। 21।।
निर्भिद्य निर्वचन-वाचन-युद्धशौण्डाः ।
सन्त्येव नैकदलनिर्दल-शुद्ध-कूट-
नीतिप्रकारनिपुणास्त्वयि नेतृवर्य्याः ।। 21।।
सर्व्वोदये विविधदानपरिग्रहेण
निर्म्माय नूत्नतममाश्रमतीर्थराजम् ।
ये वै भगीरथमतिक्रमितुं पटिष्ठा-
स्तेऽपि त्वयि प्रविरला न भवन्ति सन्तः ।। 22।।
निर्म्माय नूत्नतममाश्रमतीर्थराजम् ।
ये वै भगीरथमतिक्रमितुं पटिष्ठा-
स्तेऽपि त्वयि प्रविरला न भवन्ति सन्तः ।। 22।।
व्यापारवारिनिधिमन्थनमन्दराश्च
सन्त्येव सांप्रतमपि त्वयि धीरधीराः ।
वीराश्च सागर-महीधर-वायुमार्गैः
शत्रूनसूनपि विसृज्य निहन्तुमुत्काः ।। 23।।
सन्त्येव सांप्रतमपि त्वयि धीरधीराः ।
वीराश्च सागर-महीधर-वायुमार्गैः
शत्रूनसूनपि विसृज्य निहन्तुमुत्काः ।। 23।।
नेटाभिधा गरुडमप्यतिशय्य वायो-
र्मार्गे यथातथ-गतागतयोः स्वतन्त्राः ।
व्योमाङ्गणे विविधचङ्क्रमणे नदीष्णा
अद्यापि सन्ति भगवँस्त्वयि यानराजाः ।। 24।।
र्मार्गे यथातथ-गतागतयोः स्वतन्त्राः ।
व्योमाङ्गणे विविधचङ्क्रमणे नदीष्णा
अद्यापि सन्ति भगवँस्त्वयि यानराजाः ।। 24।।
अद्यापि जाग्रतितरां त्वयि देशरत्न!
टैङ्कान् प्रविश्य कुलिशानिव पैटनाख्यान् ।
याश्चर्वयन्त्यरिभटान् निभृतोत्तमाङ्गाँ-
स्तास्ता विचित्रगुलिकाक्षरकालिकाम्बाः ।। 25।।
टैङ्कान् प्रविश्य कुलिशानिव पैटनाख्यान् ।
याश्चर्वयन्त्यरिभटान् निभृतोत्तमाङ्गाँ-
स्तास्ता विचित्रगुलिकाक्षरकालिकाम्बाः ।। 25।।
त्वं पारमाणवमपि श्रयसे विधानं
शैले भुवं मरुषु चान्नचयं विधातृ ।
त्वं शैलकुक्षिनिभृताय ससंहतीना-
माविष्कृतावपि नितान्तमहो नदीष्णः ।। 26।।
शैले भुवं मरुषु चान्नचयं विधातृ ।
त्वं शैलकुक्षिनिभृताय ससंहतीना-
माविष्कृतावपि नितान्तमहो नदीष्णः ।। 26।।
त्वं वारिराशितलसंचिततैलकोष-
निर्दोष-जोषण-विधावपि शुद्धमार्गः ।
भास्वद्गभस्तिनिहितोर्ज्जितदाहशक्ति-
पार्थक्ययोगपरिकर्मणि चासि दक्षः ।। 27।।
निर्दोष-जोषण-विधावपि शुद्धमार्गः ।
भास्वद्गभस्तिनिहितोर्ज्जितदाहशक्ति-
पार्थक्ययोगपरिकर्मणि चासि दक्षः ।। 27।।
त्वं पर्व्वतादिषु निरर्गलधाविताम्बु-
स्रोतःकुलानि परिरभ्य सरः करोषि ।
तां विद्युतं च तमसामसमं विनाश-
माधातुमक्षयबलां क्षमसे निरोद्धुम्।। 28।।
स्रोतःकुलानि परिरभ्य सरः करोषि ।
तां विद्युतं च तमसामसमं विनाश-
माधातुमक्षयबलां क्षमसे निरोद्धुम्।। 28।।
एकं कुटुम्बमिव भूतलमात्रमेतत्
कोष्ठोपमाँश्च निखिलानपि देशभेदान् ।
रे देश धारयसि देवजनान् यथास्माँ-
स्त्वं दूरदर्शनमुखैर्ननु यन्त्रराजैः ।। 29।।
कोष्ठोपमाँश्च निखिलानपि देशभेदान् ।
रे देश धारयसि देवजनान् यथास्माँ-
स्त्वं दूरदर्शनमुखैर्ननु यन्त्रराजैः ।। 29।।
नाय्लेक्सटेरिलिन-वस्त्र-विचित्रिताङ्गया-
स्तूष्णीं स्थिता अपि बहु प्रतिभाषमाणाः,
त्वां ग्रामपौरललना अयि देश! वेष-
भूषादिभिः किमु न चित्रयितुं प्रवृत्ताः ।। 30।।
स्तूष्णीं स्थिता अपि बहु प्रतिभाषमाणाः,
त्वां ग्रामपौरललना अयि देश! वेष-
भूषादिभिः किमु न चित्रयितुं प्रवृत्ताः ।। 30।।
ग्रीष्माश्च शीतजननैः शिशिरा भवन्ति
सन्तापकैश्च शिशिरा अपि शान्तशैत्याः,
ऊर्जा च पाचनविधिर् विशरायसीयैः
पात्रैश्च विस्मित-गृहस्थितिकोऽसि देश ।। 31।।
सन्तापकैश्च शिशिरा अपि शान्तशैत्याः,
ऊर्जा च पाचनविधिर् विशरायसीयैः
पात्रैश्च विस्मित-गृहस्थितिकोऽसि देश ।। 31।।
विद्यालयास्त्वयि भवन्ति महावितानै-
र्मार्गैश्च दिव्यभवनैश्च विशालकायाः,
पाश्चात्त्यशास्त्रसचिवानि सुखेन येषु
शास्त्राणि ते बहुविधानि सुखस्थितीनि ।। 32।।
र्मार्गैश्च दिव्यभवनैश्च विशालकायाः,
पाश्चात्त्यशास्त्रसचिवानि सुखेन येषु
शास्त्राणि ते बहुविधानि सुखस्थितीनि ।। 32।।
यानेषु सत्स्वपि गृहीतमहाव्रतास्ते
पादक्रमैकनिरता मुनयो महान्तः,
अद्यापि देश तव शान्तिगवीसुरक्षा-
दक्षा दिलीपसदृशा विलसन्ति भूम्ना ।। 33।।
पादक्रमैकनिरता मुनयो महान्तः,
अद्यापि देश तव शान्तिगवीसुरक्षा-
दक्षा दिलीपसदृशा विलसन्ति भूम्ना ।। 33।।
अद्यापि भारत! तवैव कुशीलवास्ते
नैरात्म्य-नाट्य-परिकर्म्मसु लब्धवर्णाः,
बौद्धा इति प्रथितनामपदा भवन्ति
सर्वत्र नो कुशलिनो न विहारवन्तः ।। 34।।
नैरात्म्य-नाट्य-परिकर्म्मसु लब्धवर्णाः,
बौद्धा इति प्रथितनामपदा भवन्ति
सर्वत्र नो कुशलिनो न विहारवन्तः ।। 34।।
अद्यापि किन्तु बत शर्बिलकाश्च सन्ति
सन्त्यद्य च त्वयि वकाः कृकलासकाश्च,
सर्पाश्च सन्ति विषमात्रधना द्विजिह्ना
भेकाः श्वसन्ति ननु कूपगताः प्रवाचः ।। 35।।
सन्त्यद्य च त्वयि वकाः कृकलासकाश्च,
सर्पाश्च सन्ति विषमात्रधना द्विजिह्ना
भेकाः श्वसन्ति ननु कूपगताः प्रवाचः ।। 35।।
मार्गस्य कुत्रचन कोण उदस्तवृत्ति-
र्योऽसौ द्विपाद इह तिष्ठति सारमेयः,
आर्य्यावने! भवति संप्रति स प्रतीक-
स्त्वन्नागरस्य किमु पुच्छविचालनायाम् ।। 36।।
र्योऽसौ द्विपाद इह तिष्ठति सारमेयः,
आर्य्यावने! भवति संप्रति स प्रतीक-
स्त्वन्नागरस्य किमु पुच्छविचालनायाम् ।। 36।।
ब्रह्म क्वचित् सरसि मग्नमिदंपदार्थे
मिथ्येति वागपि न च व्यतिषज्जतेऽर्थम्।
मायैव संप्रति बलाद् गृहिणीपदार्थे
प्रेष्ठायते सहृदयाः क्व नु भारतं वः ।। 37।।
मिथ्येति वागपि न च व्यतिषज्जतेऽर्थम्।
मायैव संप्रति बलाद् गृहिणीपदार्थे
प्रेष्ठायते सहृदयाः क्व नु भारतं वः ।। 37।।
एतस्य विस्मयधनस्य विधानकस्य
विज्ञानजस्य ननु योऽस्ति भुजिक्रियायाम्।
स्वातन्य्र् भाक् स पुरुषः स परात्परस्ते-
मित्रायितं शुतुरमुर्गखगस्य धत्ते ।। 38।।
विज्ञानजस्य ननु योऽस्ति भुजिक्रियायाम्।
स्वातन्य्र् भाक् स पुरुषः स परात्परस्ते-
मित्रायितं शुतुरमुर्गखगस्य धत्ते ।। 38।।
‘लब्धं त्वया यदपि तस्य कथं नु भोगः
कार्यस्त्वये’ति किमु पूरुष वेस्ति, यद्वा।
‘त्यागोत्तमो भवतु भोग’ इति प्रसिद्धो
मन्त्रस्त्वयाऽऽधुनिकवर्य्य! न हि श्रुतोऽस्ति ।। 39।।
कार्यस्त्वये’ति किमु पूरुष वेस्ति, यद्वा।
‘त्यागोत्तमो भवतु भोग’ इति प्रसिद्धो
मन्त्रस्त्वयाऽऽधुनिकवर्य्य! न हि श्रुतोऽस्ति ।। 39।।
श्वा मे गतो बत बुभुक्षित एव कुत्रा-
प्येवं तु कापि परिपृच्छति विह्नलाङ्गी।
तां, या स्वपुत्रवदनेऽन्नकणं प्रदातुं
भिक्षाटनं चरति जर्ज्जरगात्रिकाऽपि।। 40।।
प्येवं तु कापि परिपृच्छति विह्नलाङ्गी।
तां, या स्वपुत्रवदनेऽन्नकणं प्रदातुं
भिक्षाटनं चरति जर्ज्जरगात्रिकाऽपि।। 40।।
कश्चिज्जनो भिषजि चौर्य्यधनं प्रवर्ष्य
प्रोप्सत्यनल्पविभवानि रसायनानि ।
कश्चिच्च कुक्षिमपि पूरयितुं न धत्ते
सेवावकाशमपि कुक्कुर-वृत्ति-कल्पम् ।। 41।।
प्रोप्सत्यनल्पविभवानि रसायनानि ।
कश्चिच्च कुक्षिमपि पूरयितुं न धत्ते
सेवावकाशमपि कुक्कुर-वृत्ति-कल्पम् ।। 41।।
कश्चिच्छ्रमेण परिशोधितशास्त्रकोऽपि
नो शिक्षकत्वमपि लब्धुमलं सुखेन ।
कश्चिच्च शास्त्रकुसुमावनि-कुक्कुरोऽपि
भुङ्क्तेतमां कुलपतित्वमपि प्रकृष्टम् ।। 42।।
नो शिक्षकत्वमपि लब्धुमलं सुखेन ।
कश्चिच्च शास्त्रकुसुमावनि-कुक्कुरोऽपि
भुङ्क्तेतमां कुलपतित्वमपि प्रकृष्टम् ।। 42।।
प्राप्नोति मन्त्रिपदमल्प-परिश्रमोऽपि
कश्चिन्, न च स्पृशति भूरिपरिश्रमोऽपि ।
कश्चित् तदीयपरिचारकतां वराकः
काकोऽर्च्यते श्रयति धिक्करणं मरालः ।। 43।।
कश्चिन्, न च स्पृशति भूरिपरिश्रमोऽपि ।
कश्चित् तदीयपरिचारकतां वराकः
काकोऽर्च्यते श्रयति धिक्करणं मरालः ।। 43।।
ग्रीष्मस्य वह्निपरिवर्षणतत्परेऽपि
व्योम्नि स्वभूमि-परिकर्षणतप्तगात्रः ।
अन्नानि कश्चिदुपपादयतेऽद्य धन्यः
कश्चिच्च तानि कवलीकुरुते प्रतुन्दः ।। 44।।
व्योम्नि स्वभूमि-परिकर्षणतप्तगात्रः ।
अन्नानि कश्चिदुपपादयतेऽद्य धन्यः
कश्चिच्च तानि कवलीकुरुते प्रतुन्दः ।। 44।।
वैषम्यमेतदिह चेत् स्वपुराकृतानां
पाकः कृतं तदिह तन्त्रणयन्त्रणाभिः ।
दोषेण चेत् पुरुषमात्रगतेन सर्व-
मेतत् क्व तिष्ठति स कोऽपि समाजवादः ।। 45।।
पाकः कृतं तदिह तन्त्रणयन्त्रणाभिः ।
दोषेण चेत् पुरुषमात्रगतेन सर्व-
मेतत् क्व तिष्ठति स कोऽपि समाजवादः ।। 45।।
या कापि संस्कृतगवी त्वयि लौहमूर्त्तौ
हेमत्वमुज्ज्वलतमं प्रतिसंदधाति ।
तत्रापि वानर इव श्रयसे चलत्वं
सच्चुम्बनं च परिवृत्य विगर्हणं च ।। 46।।
हेमत्वमुज्ज्वलतमं प्रतिसंदधाति ।
तत्रापि वानर इव श्रयसे चलत्वं
सच्चुम्बनं च परिवृत्य विगर्हणं च ।। 46।।
बुद्ध्यस्व मानव! समुद्रशिलोच्चयादि-
भेदेन भिद्यत इदं न कदापि विश्वम् ।
भिन्नेऽपि हस्तचरणे यदि वाक्षिकर्णे
भिन्नत्वमेति किमु मानव! मानवत्वम् ।। 47।।
भेदेन भिद्यत इदं न कदापि विश्वम् ।
भिन्नेऽपि हस्तचरणे यदि वाक्षिकर्णे
भिन्नत्वमेति किमु मानव! मानवत्वम् ।। 47।।
यन्त्रैः प्रवृद्ध! मनुज! त्वमिह त्रिलोक्यां
जानासि कोऽसि ननु मृत्युमहानटस्य ।
गौरारुणाऽसितवपुश्चपलायमानः
शाखामृगोऽसि मतिरज्जुनिबद्धकण्ठः ।। 48।।
जानासि कोऽसि ननु मृत्युमहानटस्य ।
गौरारुणाऽसितवपुश्चपलायमानः
शाखामृगोऽसि मतिरज्जुनिबद्धकण्ठः ।। 48।।
( 3 )
सुप्तो देशविवेकविष्णुरधुना सर्व्वा दिशो मेचकै-
र्मेघैर्मेदुरिता गतान्नवसनावासत्वकायैरिमाः ।
यक्षाः शापकषायिता इव जना धिक् कान्दिशीकन्त्यहो
सिन्धौ याति हिमाद्रिरस्तमुदधिर्धन्वीभवन् वीक्ष्यते ।। 49।।
र्मेघैर्मेदुरिता गतान्नवसनावासत्वकायैरिमाः ।
यक्षाः शापकषायिता इव जना धिक् कान्दिशीकन्त्यहो
सिन्धौ याति हिमाद्रिरस्तमुदधिर्धन्वीभवन् वीक्ष्यते ।। 49।।
प्रतिकणमिलापृष्ठं भ्राष्ट्रायते चलितेन्धन-
ज्वलनतितमां चेतोधातुः समस्तशरीरिणाम् ।
अहह भगवान् धर्मोऽप्येष श्मशानपुराधसः
श्रयति कृपणां वृत्तिं पर्य्याकुला यदिमा दिशः ।। 50।।
ज्वलनतितमां चेतोधातुः समस्तशरीरिणाम् ।
अहह भगवान् धर्मोऽप्येष श्मशानपुराधसः
श्रयति कृपणां वृत्तिं पर्य्याकुला यदिमा दिशः ।। 50।।
एकत्राग्निर्ज्वलति धगिति क्रूरकर्म्मा परत्र
झञ्झावाताः क्षपितविपुलाश्वत्थकाण्डा अटन्ति ।
काले ह्यस्मिन् यममुख इवोज्जृम्भमाणे कराले
काष्ठाः सर्वा ब्रुवत तनुतां स्वं विवेकं क्व हंसः ।। 51।।
झञ्झावाताः क्षपितविपुलाश्वत्थकाण्डा अटन्ति ।
काले ह्यस्मिन् यममुख इवोज्जृम्भमाणे कराले
काष्ठाः सर्वा ब्रुवत तनुतां स्वं विवेकं क्व हंसः ।। 51।।
हंसा वायसमण्डलैः सुरभयो गोमायुभिर्देवता
दैत्यैः कौतुकमन्दिराणि च हहा प्रेतैर्व्रियन्तेतमाम् ।
पाञ्चालीमकुतोमुखीं गतघृणो दुश्शासनः साम्प्रतं
भूयो हन्त विवस्त्रयत्यथ च तां दुर्यौधनः स्वक्कते ।। 52।।
दैत्यैः कौतुकमन्दिराणि च हहा प्रेतैर्व्रियन्तेतमाम् ।
पाञ्चालीमकुतोमुखीं गतघृणो दुश्शासनः साम्प्रतं
भूयो हन्त विवस्त्रयत्यथ च तां दुर्यौधनः स्वक्कते ।। 52।।
वद वद वद क्षामक्षामे! क्षमे! क्षमतेतरां
क इह भवतीं वोढुं सोढुं च ते महतीं धुरम् ।
विरुजति हहा रौक्मी व्याली मनुष्यकलेवरे
निभृतनिभृता कञ्चिच्छेषं परात्परमेषका ।। 53।।v
क इह भवतीं वोढुं सोढुं च ते महतीं धुरम् ।
विरुजति हहा रौक्मी व्याली मनुष्यकलेवरे
निभृतनिभृता कञ्चिच्छेषं परात्परमेषका ।। 53।।v
परिष्कारो यावन्नहि मनुजबुद्धेः शृणुत रे
विभिन्नप्रस्थान-प्रसितमतयः सिद्धिपतयः!
भवत्सिद्धिर्दम्भः, शृणुत जननेतार! उदयः
पुराणां ग्रामाणां क्षयवति जने भूषणविधिः ।। 54।।
विभिन्नप्रस्थान-प्रसितमतयः सिद्धिपतयः!
भवत्सिद्धिर्दम्भः, शृणुत जननेतार! उदयः
पुराणां ग्रामाणां क्षयवति जने भूषणविधिः ।। 54।।
स्मरामो नो मन्त्रान् भवतु बहु देयं, न हि भवेद्
ग्रहीता नः कश्चिद्, भवतु समता सर्वमनसाम् ।
लसेच्छान्तिर्भूमौ दिवि च निबिडा स्वस्तिपरमाः
पुराणाः संकल्पा अयि मनुज! ते सन्तु कविताः ।। 55।।
ग्रहीता नः कश्चिद्, भवतु समता सर्वमनसाम् ।
लसेच्छान्तिर्भूमौ दिवि च निबिडा स्वस्तिपरमाः
पुराणाः संकल्पा अयि मनुज! ते सन्तु कविताः ।। 55।।
इदानीमाकाशं भरतभुवनस्यास्य भरितं
जुगुप्साभिः प्राणानिव रुजयितुं बद्धधृतिभिः ।
समुद्गारानन्यानपि कविचितिस्फोटजनिताँस्
तुषाराणां राशीनिव कमलकोशे स्म वमति ।। 56।।
जुगुप्साभिः प्राणानिव रुजयितुं बद्धधृतिभिः ।
समुद्गारानन्यानपि कविचितिस्फोटजनिताँस्
तुषाराणां राशीनिव कमलकोशे स्म वमति ।। 56।।
( 4 )
द्विपाज्जन्तुः कोऽयं विपुलनयनः पुच्छविकलो
विषाणाभ्यां हीनः प्रवचनपटुः शिल्पनिपुणः ।
कृतस्नानः स्वच्छो विशदवसनः पुस्तकयुतः
सुकेशस्ताम्बूलारुणदशनवासा भवनकृत् ।। 57।।
विषाणाभ्यां हीनः प्रवचनपटुः शिल्पनिपुणः ।
कृतस्नानः स्वच्छो विशदवसनः पुस्तकयुतः
सुकेशस्ताम्बूलारुणदशनवासा भवनकृत् ।। 57।।
पुरस्वामी राजा करितुरगतुल्येषु पशुषु
श्रयाणः स्वाम्यं स्वं प्रथितनिजविज्ञानविभवः ।
नभश्चारी पक्षैरपि बत विना सिन्धुसलिलो-
दरस्वापी विष्णुर् विधुतलधृताङ्घ्रिर्महिमवान् ।। 58।।
श्रयाणः स्वाम्यं स्वं प्रथितनिजविज्ञानविभवः ।
नभश्चारी पक्षैरपि बत विना सिन्धुसलिलो-
दरस्वापी विष्णुर् विधुतलधृताङ्घ्रिर्महिमवान् ।। 58।।
वपुष्मान् धीमान् ज्ञः पृथुलनिटिले कुङ्कुमरुचिः
सुवेशो भूयात्री प्रसृमरसुवाणिज्यकलनः ।
शुभश्लोकश्चित्रोत्तमविरचनो मूर्त्तिकलया
समिद्धो वाङ्माध्वी-विकिरणपटीयान् रसमयः ।। 59।।
सुवेशो भूयात्री प्रसृमरसुवाणिज्यकलनः ।
शुभश्लोकश्चित्रोत्तमविरचनो मूर्त्तिकलया
समिद्धो वाङ्माध्वी-विकिरणपटीयान् रसमयः ।। 59।।
(उत्तरम्) मनुष्योऽयं
(प्रश्नः) किं किं
(उत्तरम्) ननु पुरुष एषः
(प्रश्नः) प्रलपितं किमेतत्
(उत्तम्) नो सत्यं पुरुष इति संज्ञामयमितः।
(विस्मयः)
महच्चित्रं चित्रं महदिदमिदं विस्मयपदं
महद् वैषम्यस्याऽऽकलनरहितं दर्शनमिदम् ।। 60।।
(प्रश्नः) किं किं
(उत्तरम्) ननु पुरुष एषः
(प्रश्नः) प्रलपितं किमेतत्
(उत्तम्) नो सत्यं पुरुष इति संज्ञामयमितः।
(विस्मयः)
महच्चित्रं चित्रं महदिदमिदं विस्मयपदं
महद् वैषम्यस्याऽऽकलनरहितं दर्शनमिदम् ।। 60।।
अमुं श्रेष्ठं शिल्पं कथयति कथं नाम सुमतिः
कथं सृष्टे रत्नं ब्रुवत इममेते सुमनसः ।
अहो पात्रं कीदृङ् निभृतमिह कीदृक् च गरलं
पिशाचः स्यात् कीदृग् यदि पुरुष एषोऽत्र भवति ।। 61।।
कथं सृष्टे रत्नं ब्रुवत इममेते सुमनसः ।
अहो पात्रं कीदृङ् निभृतमिह कीदृक् च गरलं
पिशाचः स्यात् कीदृग् यदि पुरुष एषोऽत्र भवति ।। 61।।
जुगुप्सेयं मन्ये तव
मतिविकारो (उत्तरम्)
न हि न हि, (प्रत्युत्तरम्)v
भ्रमस्ते,
ते (उत्तरम्)
ते (प्रत्युत्तरम्)
ते (उत्तरम्)
यदि मम कथं पूतिमसकौ (प्रत्युत्तरम्)
बिभर्त्त्यंहोजन्यामथ पुरुषमांसैकरसना-
दधन्यां तद्रक्तैः स्नपितगृहवन्याम्
असदृशीम् ।। 62।।
मतिविकारो (उत्तरम्)
न हि न हि, (प्रत्युत्तरम्)v
भ्रमस्ते,
ते (उत्तरम्)
ते (प्रत्युत्तरम्)
ते (उत्तरम्)
यदि मम कथं पूतिमसकौ (प्रत्युत्तरम्)
बिभर्त्त्यंहोजन्यामथ पुरुषमांसैकरसना-
दधन्यां तद्रक्तैः स्नपितगृहवन्याम्
असदृशीम् ।। 62।।
अयं कस्मिन् देशे निवसति (प्रश्नः)
हिमानीपरिवृतो महीध्रो मन्मूर्धा (उत्तरम्)
सलिलनिधयो यस्य परिखा ।
परं ब्रह्मास्मीति प्रथितयशसां तीर्णमनसां
महान् यत्राचारो यमनियमरश्मिद्वयदृढः ।। 63।।
हिमानीपरिवृतो महीध्रो मन्मूर्धा (उत्तरम्)
सलिलनिधयो यस्य परिखा ।
परं ब्रह्मास्मीति प्रथितयशसां तीर्णमनसां
महान् यत्राचारो यमनियमरश्मिद्वयदृढः ।। 63।।
पवित्रां सावित्रीमुषसि जपतः पुण्यसरितां
तटेष्वात्मारामान् स्पृशति न हि मोहोऽत्र न च भीः ।
स्थिरप्रज्ञा वर्णाश्रमनिगडिताः शास्त्रकुशला
महान्तो विद्वांसः प्रतिसरणि यस्मिन् कृतपदाः ।। 64।।
तटेष्वात्मारामान् स्पृशति न हि मोहोऽत्र न च भीः ।
स्थिरप्रज्ञा वर्णाश्रमनिगडिताः शास्त्रकुशला
महान्तो विद्वांसः प्रतिसरणि यस्मिन् कृतपदाः ।। 64।।
विवस्वाँस्तत्सूनुर्मनुरथ पृथुर्दाशरथयः
पृथापुत्राः कृष्णोऽप्यवतरणतो यं पिपुरति ।
यमाचष्टे लोकः श्रुतिमहति वर्त्मन्यतितरा-
मनालेख्यात् कालाद् विधृतचरणं ‘भारत’ इति ।। 65।।
पृथापुत्राः कृष्णोऽप्यवतरणतो यं पिपुरति ।
यमाचष्टे लोकः श्रुतिमहति वर्त्मन्यतितरा-
मनालेख्यात् कालाद् विधृतचरणं ‘भारत’ इति ।। 65।।
किमुक्तं, देशोऽयं भरति निखिलान् येन भरत-
स्ततो यातोऽभिख्यामखिलभुवने भारत इति ।
परं, योऽयं पादद्वयगमनशीलः पशुरसौ
व्यभीचारः स्फारः स्पृशति नहि यं लक्षणमिदम् ।। 66।।
स्ततो यातोऽभिख्यामखिलभुवने भारत इति ।
परं, योऽयं पादद्वयगमनशीलः पशुरसौ
व्यभीचारः स्फारः स्पृशति नहि यं लक्षणमिदम् ।। 66।।
इदं क्रूरं भ्राष्ट्रं भरतभुवनस्यास्य निखिला
विशेषा धान्यत्वं स्फुटितवपुषो यत्र दधते ।
धनं चास्मै ब्रह्म स्मर उरुगुणं दैवतमरिर्
विधानं, मत्स्यः स्वः, करणभरणं पौरुषमथो ।। 67।।
विशेषा धान्यत्वं स्फुटितवपुषो यत्र दधते ।
धनं चास्मै ब्रह्म स्मर उरुगुणं दैवतमरिर्
विधानं, मत्स्यः स्वः, करणभरणं पौरुषमथो ।। 67।।
महान् हर्षो यस्मै स्वगृहमभितो भोजनलवा-
दपि भ्रष्टा दंष्ट्रां यमवदनगां प्रापितचराः ।
शिशूनामौदर्य्यं हुतभुजमिमे वीक्ष्य धगिति
ज्वलन्तं तृप्यन्तः स्वशिशिरमपास्यन्ति कृतिनः ।। 68।।
दपि भ्रष्टा दंष्ट्रां यमवदनगां प्रापितचराः ।
शिशूनामौदर्य्यं हुतभुजमिमे वीक्ष्य धगिति
ज्वलन्तं तृप्यन्तः स्वशिशिरमपास्यन्ति कृतिनः ।। 68।।
नभः स्वीयं वेश्म स्पृशतु सकलैराधुनिकता-
मयैः सत्संभारैः प्रगुणितसुखं, किन्तु न परः ।
इषीकामृत्स्नाद्यैरपि निगडितं व्योम गृहमि-
त्यलीकामप्याख्यां गमयतु कथञ्चित् क्वचिदपि ।। 69।।
मयैः सत्संभारैः प्रगुणितसुखं, किन्तु न परः ।
इषीकामृत्स्नाद्यैरपि निगडितं व्योम गृहमि-
त्यलीकामप्याख्यां गमयतु कथञ्चित् क्वचिदपि ।। 69।।
सुवर्ण्णं भूगर्भं विशतु, कणशोऽन्नानि च तथा
क्वचिद् रुद्धानि स्युस्तृणमभिजुषेरन्न पशवः ।
स्वपुत्रा मन्दा अप्युपचिततमस्थान उदिता
अधीयीरन्, नान्यः प्रखरधिषणोऽप्यक्षरमियात् ।। 70।।
क्वचिद् रुद्धानि स्युस्तृणमभिजुषेरन्न पशवः ।
स्वपुत्रा मन्दा अप्युपचिततमस्थान उदिता
अधीयीरन्, नान्यः प्रखरधिषणोऽप्यक्षरमियात् ।। 70।।
इतीयं पैशाची मतिरुदयशैले नु गहना
तमिस्रा यस्यास्ते कथमयमहो ‘भारत’-नरः ।
इमं वेदा योगा वद वद महावाक्यततयो-
ऽप्यहो रोद्धुं शक्ता न खलु, किमु तेऽप्यस्तगतयः।। 71।।
तमिस्रा यस्यास्ते कथमयमहो ‘भारत’-नरः ।
इमं वेदा योगा वद वद महावाक्यततयो-
ऽप्यहो रोद्धुं शक्ता न खलु, किमु तेऽप्यस्तगतयः।। 71।।
इमं गङ्गा गोदा तरणितनया मेकलसुता
वितस्ता लौहित्या किमु न हि पवित्रं विदधते ।
अवन्ती काञ्ची वा स्मरहरपुरी वापि न मना-
गपि स्प्रष्टुं शुद्ध्यै दधति महिमानं कथमिमम् ।। 72।।
वितस्ता लौहित्या किमु न हि पवित्रं विदधते ।
अवन्ती काञ्ची वा स्मरहरपुरी वापि न मना-
गपि स्प्रष्टुं शुद्ध्यै दधति महिमानं कथमिमम् ।। 72।।
क्व ते सिन्धुव्राता दधिमधुमया यत्स्नपनतः
प्रयात्यंहोराशिः प्रलयमथ पुण्यं प्रवरति ।
क्व वा ते नः सन्तः कुमुदविशदं यत्सुचरितं
प्रदीपार्च्चिर्यद्वत् तिरयति तमःस्तोममचिरात् ।। 73।।
प्रयात्यंहोराशिः प्रलयमथ पुण्यं प्रवरति ।
क्व वा ते नः सन्तः कुमुदविशदं यत्सुचरितं
प्रदीपार्च्चिर्यद्वत् तिरयति तमःस्तोममचिरात् ।। 73।।
चतुर्दिग्व्याकीर्णाः कथमथ परैः पूजितपदा
अनेकेऽपि व्यर्था अहह भगवन्तोऽञ्जनमुखाः ।
शिखासूत्रद्वन्द्वैस्तिलकनिकरैश्चात्मनि परं
परत्वं बिभ्राणाः शमयितुमिमं किं न कृतिनः ।। 74।।
अनेकेऽपि व्यर्था अहह भगवन्तोऽञ्जनमुखाः ।
शिखासूत्रद्वन्द्वैस्तिलकनिकरैश्चात्मनि परं
परत्वं बिभ्राणाः शमयितुमिमं किं न कृतिनः ।। 74।।
इमे जैना एते सुगतपथपान्थाः क्षपणका
इमे ख्रीष्टा एते मुसलिमपदाख्याश्च यतयः ।
कथंकारं तेजोविकलवचनाः साम्प्रतममुं
नराख्यं वेतालं वशयितुमलन्तां न दधते ।। 75।।
इमे ख्रीष्टा एते मुसलिमपदाख्याश्च यतयः ।
कथंकारं तेजोविकलवचनाः साम्प्रतममुं
नराख्यं वेतालं वशयितुमलन्तां न दधते ।। 75।।
किमेतत्, क्षीणोऽयं शिशिरतुहिनैस्तीर्थनृपतेः
पवित्रे सत्क्षेत्रे त्यजति तनुबन्धं विवसनः ।
परे चात्रैवाहो तरणिभिरुपेताः शितिसिते
द्रवे स्नातुं प्रोत्काः पिपुरति जलं स्वर्णरुचकैः ।। 76।।
पवित्रे सत्क्षेत्रे त्यजति तनुबन्धं विवसनः ।
परे चात्रैवाहो तरणिभिरुपेताः शितिसिते
द्रवे स्नातुं प्रोत्काः पिपुरति जलं स्वर्णरुचकैः ।। 76।।
इतो वीथ्यां मूत्रैरथ नरपुरीषैर्विषमये
परीते दौर्गन्ध्यैः श्वसिति मरुति प्राज्ञनिकरः ।
इतश्चारामेभ्यो वृतिभिरवरुद्ध्यावनिमिमां
विशालाभोगां धिग् वसति सुखमाढ्या नृपशुता ।। 77।।
परीते दौर्गन्ध्यैः श्वसिति मरुति प्राज्ञनिकरः ।
इतश्चारामेभ्यो वृतिभिरवरुद्ध्यावनिमिमां
विशालाभोगां धिग् वसति सुखमाढ्या नृपशुता ।। 77।।
अजीर्णेन क्लिष्टा भिषजमुपधावन्ति धनिनः
क्षुधार्त्तोऽन्यो ग्रासैरुदरमहहा स्वं छलयते ।
युवानः क्षीयन्ते स्थविरवपुषः किन्तु निभृतै-
रुपायान् सेवन्ते द्रविणनिकरैः स्वं युवयितुम् ।। 78।।
क्षुधार्त्तोऽन्यो ग्रासैरुदरमहहा स्वं छलयते ।
युवानः क्षीयन्ते स्थविरवपुषः किन्तु निभृतै-
रुपायान् सेवन्ते द्रविणनिकरैः स्वं युवयितुम् ।। 78।।
अमी सर्वे भिक्षाटननिपुणवाचो दिशि दिशि
भ्रमन्ति स्वार्थान्धा अहह कृपणाः केऽपि मनुजाः ।v
इमे ब्राह्मीं विद्यामिव समतया प्रोज्ज्वलचितिं
मृषा साम्याभिख्यं भरतभुवि वादं विदधते ।। 79।।
भ्रमन्ति स्वार्थान्धा अहह कृपणाः केऽपि मनुजाः ।v
इमे ब्राह्मीं विद्यामिव समतया प्रोज्ज्वलचितिं
मृषा साम्याभिख्यं भरतभुवि वादं विदधते ।। 79।।
असौ साङ्घीं शक्तिं जनजनसमुल्लासनिपुणां
निहन्त्रीं दैत्यानामहह दितिकुक्षिर्निगिरति ।
असौ लक्ष्मीः कोषानुचितबहुदोषानपि हहा
प्रथिम्ना संयोज्य स्थविरयति हा हन्त जगतीम् ।। 80।।
निहन्त्रीं दैत्यानामहह दितिकुक्षिर्निगिरति ।
असौ लक्ष्मीः कोषानुचितबहुदोषानपि हहा
प्रथिम्ना संयोज्य स्थविरयति हा हन्त जगतीम् ।। 80।।
इमा रथ्याः स्वर्णैरनधिगतसंख्यैर्गतदिने
विभूषां वै काञ्चित् कथमपि विराजन्ति गमिताः ।
प्रभाते ता अद्य ग्लपितनिजनेपथ्यरचनाः
परिक्लिष्टा भान्ति प्रतिदिशमहो भारतभुवि ।। 81।।
विभूषां वै काञ्चित् कथमपि विराजन्ति गमिताः ।
प्रभाते ता अद्य ग्लपितनिजनेपथ्यरचनाः
परिक्लिष्टा भान्ति प्रतिदिशमहो भारतभुवि ।। 81।।
बलिर्विष्णुं हन्तच्छलयतितरामद्य कविभिः
सहस्रास्यैस्तैस्तैरसममुपदिष्टोऽभिनवताम् ।
द्वयीं पादानां सोऽयुतयति कणेहत्य सुरसा-
परार्धं फेट्कारैः सममुदरगर्त्तें निभृतयन् ।। 82।।
सहस्रास्यैस्तैस्तैरसममुपदिष्टोऽभिनवताम् ।
द्वयीं पादानां सोऽयुतयति कणेहत्य सुरसा-
परार्धं फेट्कारैः सममुदरगर्त्तें निभृतयन् ।। 82।।
अमी मिथ्याचाराः स च भगवतैवार्जुनमतौ
बलात् क्षिप्तौ दिव्यः परपुरुषतादात्म्यविनयः ।
इदानीं किं क्षोभाद् विरुजति नु वैषम्यकुहना
विदां चित्तद्रोणीमहह भरितां दिव्यमधुभिः? ।। 83।।
बलात् क्षिप्तौ दिव्यः परपुरुषतादात्म्यविनयः ।
इदानीं किं क्षोभाद् विरुजति नु वैषम्यकुहना
विदां चित्तद्रोणीमहह भरितां दिव्यमधुभिः? ।। 83।।
महार्हो न्यक्कारो गुरुकुलगतानामयमहो
महोपाध्यायानां जल इव हविष्यं प्रकिरताम् ।
इदं द्यावाभूम्योरुदरमतिमात्रं कलुषितं
सथूत्कारं युष्मास्वहरहरिदं वर्षति विषम् ।। 84।।
महोपाध्यायानां जल इव हविष्यं प्रकिरताम् ।
इदं द्यावाभूम्योरुदरमतिमात्रं कलुषितं
सथूत्कारं युष्मास्वहरहरिदं वर्षति विषम् ।। 84।।
सुधाभिः सिञ्चन्ति प्रसभमुदधीनां प्रमथना-
दुदीर्णाभिर्मृत्यूनहह किमु देवा हतधियः ।
इमां व्याघ्रीदंष्ट्रां किमिति भगवन्तो मृगयवः
श्वभिः सार्धं स्वीयैः स्वयमपि विविक्षन्ति रभसात् ।। 85।।
दुदीर्णाभिर्मृत्यूनहह किमु देवा हतधियः ।
इमां व्याघ्रीदंष्ट्रां किमिति भगवन्तो मृगयवः
श्वभिः सार्धं स्वीयैः स्वयमपि विविक्षन्ति रभसात् ।। 85।।
अहो रागारण्यं विरतिदववह्नौ निदधतः,
कषायं बिभ्राणाः, भसितनिटिला दण्डिन इमे ।
भजन्ते प्रासादानभिनवतमोर्ज्जा-मसृणिता-
निमान् ग्रीष्मे शीतानथ च शिशिरे शैत्यरहितान् ।। 86।।
कषायं बिभ्राणाः, भसितनिटिला दण्डिन इमे ।
भजन्ते प्रासादानभिनवतमोर्ज्जा-मसृणिता-
निमान् ग्रीष्मे शीतानथ च शिशिरे शैत्यरहितान् ।। 86।।
क्व रुद्राक्षाः स्थूलाः क्व च विभवसंभूतिरियमाः
पिशाची शृङ्गारान् कलुषयति वध्वा असुभगा ।
अमी दम्भाः स्तम्भा यदि निगममञ्चेषु शृणुत
स्वसारः! सिन्दूरं दधत, न भवत्योऽद्य विधवाः ।। 87।।
पिशाची शृङ्गारान् कलुषयति वध्वा असुभगा ।
अमी दम्भाः स्तम्भा यदि निगममञ्चेषु शृणुत
स्वसारः! सिन्दूरं दधत, न भवत्योऽद्य विधवाः ।। 87।।
अरे काव्यार्थाः! स्युर्मृगमदरसा वारवनिता-
स्तनद्वन्द्वे शून्यं भवति भवतां मूल्यमधुना ।
इयं कर्कालुर्वो भवतु भरिता सीधुभिरलं
पयोभिः पीयूषैर्वसुभिरथ लक्ष्म्या निवसनैः ।। 88।।
स्तनद्वन्द्वे शून्यं भवति भवतां मूल्यमधुना ।
इयं कर्कालुर्वो भवतु भरिता सीधुभिरलं
पयोभिः पीयूषैर्वसुभिरथ लक्ष्म्या निवसनैः ।। 88।।
अये शास्त्रार्थाः स्युः क्वचन निभृताः शैलकुहरे
तमस्विन्या नक्तन्दिवमकुशलया पूरिततमे ।
प्रकाशानां मार्गा अधिकलि खिलीकारनिकृतिं
श्रयाणा दृश्यन्ते प्रतिपदमिदानीं क्व न खलु ।। 89।।
तमस्विन्या नक्तन्दिवमकुशलया पूरिततमे ।
प्रकाशानां मार्गा अधिकलि खिलीकारनिकृतिं
श्रयाणा दृश्यन्ते प्रतिपदमिदानीं क्व न खलु ।। 89।।
अमी किं प्रासादानभित उदयन्ते हुतभुजो
दिवो गर्भं धूमैः कटु कलुषयन्तोऽतिमलिनैः ।v
दिधक्षेयं तेषां भवति भुजगी, सा बत शिशू-
नपि स्वीयान् क्रूरा कवलयति हालाहलखनिः ।। 90।।
दिवो गर्भं धूमैः कटु कलुषयन्तोऽतिमलिनैः ।v
दिधक्षेयं तेषां भवति भुजगी, सा बत शिशू-
नपि स्वीयान् क्रूरा कवलयति हालाहलखनिः ।। 90।।
अये किं सन्धानान्यपि बत बताऽद्य प्रतिभयं
प्रवाशन्ते भूत्वा विषमविषगर्त्ताः, कथमिमे-
चिताभावं नीडा अहह गमिता हन्त वयसा-
मिमे सद्योजाता इह बत कथाशेषवपुषः ।। 91।।
प्रवाशन्ते भूत्वा विषमविषगर्त्ताः, कथमिमे-
चिताभावं नीडा अहह गमिता हन्त वयसा-
मिमे सद्योजाता इह बत कथाशेषवपुषः ।। 91।।
इयं वात्या कृत्या, गगनमिदमास्यं पितृपतेः,
श्मशानं भूरेषा, सलिलमिदमुत्पातगरलम् ।
अमी शोचिष्केशा अथ शतशतास्योरगशती-
विषद्वैधीकारोल्बणगुणगणाः सन्ति रसनाः ।। 92।।
श्मशानं भूरेषा, सलिलमिदमुत्पातगरलम् ।
अमी शोचिष्केशा अथ शतशतास्योरगशती-
विषद्वैधीकारोल्बणगुणगणाः सन्ति रसनाः ।। 92।।
क्व वा गन्तासि त्वं त्वयि दिशि दिशि स्मेरलपना
इमे झम्पाबन्धे निहितमनसः सन्ति शमनाः ।
अनार्द्र! स्वं चक्षुः क्षिप हृदि निजे तत्र निभृतां
हविर्धानीं दुग्ध्वा भव निरुपमः स्वस्तिपरमः ।। 93।।
इमे झम्पाबन्धे निहितमनसः सन्ति शमनाः ।
अनार्द्र! स्वं चक्षुः क्षिप हृदि निजे तत्र निभृतां
हविर्धानीं दुग्ध्वा भव निरुपमः स्वस्तिपरमः ।। 93।।
अरण्यानि! द्रुघ्णानयि बहुतिथं पालितवती
करानेतान् क्रूरानयि बहुतिथं पूजितवती ।
अनर्घ्या ते भूतिर्विरचय तया कौतुकगृहं
न वै चिन्तां चैत्यं तिरयति चितौ गाढमुषिताम् ।। 94।।
करानेतान् क्रूरानयि बहुतिथं पूजितवती ।
अनर्घ्या ते भूतिर्विरचय तया कौतुकगृहं
न वै चिन्तां चैत्यं तिरयति चितौ गाढमुषिताम् ।। 94।।
अपि द्यौः शम्पानामयुतमनिशं पातयतु ते
शिरो वीर! स्तन्यं कलुषयति मातुर्नहि यदि ।
धरित्रीयं तर्हि प्रतिकणमुदारान् प्रतिनवान्
सुधानां संभाराँस्त्वयि सुभग! धात्री क्षणमयी ।। 95।।
शिरो वीर! स्तन्यं कलुषयति मातुर्नहि यदि ।
धरित्रीयं तर्हि प्रतिकणमुदारान् प्रतिनवान्
सुधानां संभाराँस्त्वयि सुभग! धात्री क्षणमयी ।। 95।।
अयि स्याः शृङ्गारी न तु वमनशीलः शितिचिति-
क्षुराग्र-क्रूरक्षुद्-विवलित-महावर्त्त-चलितः ।
त्वदीयां विश्रान्तिं गणयति पिशाचावलिरियं
स्वकुक्षेः संपूर्तिं भव मृगयुरस्याः पशुपतिः ।। 96।।
क्षुराग्र-क्रूरक्षुद्-विवलित-महावर्त्त-चलितः ।
त्वदीयां विश्रान्तिं गणयति पिशाचावलिरियं
स्वकुक्षेः संपूर्तिं भव मृगयुरस्याः पशुपतिः ।। 96।।
त्वदीयं चेत् कौक्षेयकमिदमिदानीं विरमति
प्रतीकारेज्याभ्यो विषमशमनीभ्यो गृहपते!
अमी स्मः सुस्था वै वयमियममीषां कठिनिका
समेषां नः कर्त्री ज्वलनवमनं काव्यवपुषा ।। 97।।
प्रतीकारेज्याभ्यो विषमशमनीभ्यो गृहपते!
अमी स्मः सुस्था वै वयमियममीषां कठिनिका
समेषां नः कर्त्री ज्वलनवमनं काव्यवपुषा ।। 97।।
अमूषां धिक्कारान् यदि विषहते चीत्कृतिशतै-
र्दुरन्तान् वश्चैत्यं किमपि खुरलीनां विषहताम् ।v
अमीषामस्माकं न हि न हि विषोढा प्रतिभट-
प्रतिक्षेपप्रेष्ठा तदियमतिकाली कठिनिका ।। 98।।
र्दुरन्तान् वश्चैत्यं किमपि खुरलीनां विषहताम् ।v
अमीषामस्माकं न हि न हि विषोढा प्रतिभट-
प्रतिक्षेपप्रेष्ठा तदियमतिकाली कठिनिका ।। 98।।
खिलीकारानेतानहह परितोऽस्मानुपचितान्
मुखानि व्यादाय प्रखरदशनानि प्रतिदिशम्!
सहन्तां नामार्थैः कवलिततमाः केऽपि वणिजः
सहिष्ये किन्त्वेषः क्षणमपि न रौद्रः कविरहम् ।। 99।।
मुखानि व्यादाय प्रखरदशनानि प्रतिदिशम्!
सहन्तां नामार्थैः कवलिततमाः केऽपि वणिजः
सहिष्ये किन्त्वेषः क्षणमपि न रौद्रः कविरहम् ।। 99।।
द्विपाज् जन्तो! वर्णाश्रमकुशलिनीं संयममयीं
पुराणीं रथ्यां तामपगमितपञ्चाननभयाम् ।
यदि व्यामोहेन प्रकृतिजनितेन त्यजसि ते
स्वयं काली कर्त्री विनयमसिपाशाङ्कुशकरा ।। 100।।
पुराणीं रथ्यां तामपगमितपञ्चाननभयाम् ।
यदि व्यामोहेन प्रकृतिजनितेन त्यजसि ते
स्वयं काली कर्त्री विनयमसिपाशाङ्कुशकरा ।। 100।।
पिपासाभिः प्लुष्टाः परुषविषमाभिः क्षितिरुहः
शृणुध्वं वै सर्वे ‘शुचिरविकरैर्यद्यपि धरा ।
परिक्लिष्टा’, धीराः! शृणुत ननु नैराश्यकलुषा
अभूत्वा ‘मूले वः सरति सरिदाद्या रसमयी’ ।। 101।।
शृणुध्वं वै सर्वे ‘शुचिरविकरैर्यद्यपि धरा ।
परिक्लिष्टा’, धीराः! शृणुत ननु नैराश्यकलुषा
अभूत्वा ‘मूले वः सरति सरिदाद्या रसमयी’ ।। 101।।
उदन्याभिः क्लिष्टाः शृणुत ननु रे ग्रीष्मपशवः
कदुष्णामाशां वः शिशिरयत नो, साऽऽशु फलिता ।
दरिद्रत्वद्रीणामधिशुचि शिलाः काममिह वो
जनन्यां त्वेतस्यां लसति वसुमत्यां वसुरसः ।। 102।।
कदुष्णामाशां वः शिशिरयत नो, साऽऽशु फलिता ।
दरिद्रत्वद्रीणामधिशुचि शिलाः काममिह वो
जनन्यां त्वेतस्यां लसति वसुमत्यां वसुरसः ।। 102।।
क्षिते! ब्रुमस्तुभ्यं वसुमयि! नमोवाकमणुभिर्
महद्भिर्दीर्घाद्यैरपि परिवृताः सन्ततममी ।
क्षमे! क्षान्तिं त्यक्तुं भव न कृपणा यद्यपि चल-
न्त्यमी शैलाः क्षीणैर्द्विपदपशुभिः कृत्तगहनाः ।। 103।।
महद्भिर्दीर्घाद्यैरपि परिवृताः सन्ततममी ।
क्षमे! क्षान्तिं त्यक्तुं भव न कृपणा यद्यपि चल-
न्त्यमी शैलाः क्षीणैर्द्विपदपशुभिः कृत्तगहनाः ।। 103।।
पिपासाभिः क्लिष्टा विषमविषमाभिः क्षितिरुहः
क्षिते? कुक्षौ गूढा यदि तव पिपासन्ति सरितः!
पिपासन्त्वाः, कुक्षिम्भरि जगदिदं, त्वं क्षयवधूः,
क्षयोऽक्षय्यः, क्षीणे जगति, वसुधारास्तव मृषा ।। 104।।
क्षिते? कुक्षौ गूढा यदि तव पिपासन्ति सरितः!
पिपासन्त्वाः, कुक्षिम्भरि जगदिदं, त्वं क्षयवधूः,
क्षयोऽक्षय्यः, क्षीणे जगति, वसुधारास्तव मृषा ।। 104।।
अमी स्वर्णप्रस्थाः शिखरविसरैर्विघ्नितनभ-
स्त्रिमार्गाम्भःसंघा उपचयमचिन्त्यं विदधताम् ।
मम क्रीडाशैले मनसि निभृते नृत्यति युवा
कलापी, तस्यात्मा रसयति मुदा हन्त गरलम् ।। 105।।
स्त्रिमार्गाम्भःसंघा उपचयमचिन्त्यं विदधताम् ।
मम क्रीडाशैले मनसि निभृते नृत्यति युवा
कलापी, तस्यात्मा रसयति मुदा हन्त गरलम् ।। 105।।
अमी भावा! दावानलितुमुदयाद्रौ यदि मुधा
क्रमन्ते क्राम्यन्तु द्युसरिति रमन्तां च मकराः ।
नमोवाका एते मम निटिलपट्टे विनिहिताः
सभासद्भ्यः, सभ्यो न भवति दवाग्निर् न मकरः ।। 106।।
क्रमन्ते क्राम्यन्तु द्युसरिति रमन्तां च मकराः ।
नमोवाका एते मम निटिलपट्टे विनिहिताः
सभासद्भ्यः, सभ्यो न भवति दवाग्निर् न मकरः ।। 106।।
समुद्रा क्षुभ्यन्ति प्रसभमुदिते शीतमहसि,
प्रशाम्यन्ति क्षोभं विजहति विरामं दधति वै-
विभाते प्रत्येकं प्रतिपदि परन्तु, स्थितिरियं,
मृषोद्यन्ते सर्गा यदि न न विसर्गा अपि तथा ।। 107।।
प्रशाम्यन्ति क्षोभं विजहति विरामं दधति वै-
विभाते प्रत्येकं प्रतिपदि परन्तु, स्थितिरियं,
मृषोद्यन्ते सर्गा यदि न न विसर्गा अपि तथा ।। 107।।
दुराशा नैवैषा, नरि नरि परिस्फारसरसा
चितेः सीमन्तिन्या इयममृतसिक्ता सुभगता ।
यदि द्वैतं सत्यं जगति रसमूर्त्तौ स्फुरति किं
तदा नैवाद्वैतं सृतिललितमेतद् रसवतोः ।। 108।।
चितेः सीमन्तिन्या इयममृतसिक्ता सुभगता ।
यदि द्वैतं सत्यं जगति रसमूर्त्तौ स्फुरति किं
तदा नैवाद्वैतं सृतिललितमेतद् रसवतोः ।। 108।।
परिक्लिष्टां सृष्टिं विसृजतु विराट् क्लेशकलना
विराजः स्वां मूर्त्तिं स्पृशति न तु, का भीर्ननु ततः ।
विराजोऽपि स्निग्धः सुहृदथ सगन्धः सुरभितो
घृतापूरो दीपे न्विह चितिमयेऽहं हि न परः ।। 109।।
विराजः स्वां मूर्त्तिं स्पृशति न तु, का भीर्ननु ततः ।
विराजोऽपि स्निग्धः सुहृदथ सगन्धः सुरभितो
घृतापूरो दीपे न्विह चितिमयेऽहं हि न परः ।। 109।।
रुदन्तु ग्रावाणो मम तु निटिलेऽस्मिन् बत मुदा-
मसीमानां सिन्धुर्विलुठति चिदात्माऽस्मि न जडः ।
जडत्वेन क्लिष्टा यदि परिजिहासन्तकि शुचः
प्रलीयेरँस्तेऽस्मिन् मयि शिवशिरःस्थे द्विजपतौ ।। 110।।
मसीमानां सिन्धुर्विलुठति चिदात्माऽस्मि न जडः ।
जडत्वेन क्लिष्टा यदि परिजिहासन्तकि शुचः
प्रलीयेरँस्तेऽस्मिन् मयि शिवशिरःस्थे द्विजपतौ ।। 110।।
सनातनतमानिमान् विषमभावहालाहला-
नलार्चिरुदरान् महामनुजवंश-रोषस्वरान् ।
अमूर्च्छयदिदं नभोऽवनि-युगान्तरालं तदा
न मध्यममियं चिते रुतिरपेक्षते वृद्धकम् ।। 111।।
नलार्चिरुदरान् महामनुजवंश-रोषस्वरान् ।
अमूर्च्छयदिदं नभोऽवनि-युगान्तरालं तदा
न मध्यममियं चिते रुतिरपेक्षते वृद्धकम् ।। 111।।
इति ‘स्वातन्य्र्दसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ
‘जनाक्रोशो’ नाम चतुर्विंशः सर्गः।। 24।।
देवीन्दिरा शमयितुं विषमान् विपाकान्
धातुः समीहिततमानधुनोपतस्थे ।
श्रीवैष्णवीं हिमगिरेरधिशीर्षमिन्दु-
लेखावतंसदयितां प्रविराजमानाम् ।। 1।।
धातुः समीहिततमानधुनोपतस्थे ।
श्रीवैष्णवीं हिमगिरेरधिशीर्षमिन्दु-
लेखावतंसदयितां प्रविराजमानाम् ।। 1।।
भाङ्कारितेषु पवनैः शिखरेषु दिव्यां
स्तोत्रावलीं परमभागवत-प्रगीताम् ।
शुश्राव सा भगवती प्रियदर्शिनीमां
शोकापहाञ्च सरसाञ्च सदर्शनाञ्च ।। 2।।
स्तोत्रावलीं परमभागवत-प्रगीताम् ।
शुश्राव सा भगवती प्रियदर्शिनीमां
शोकापहाञ्च सरसाञ्च सदर्शनाञ्च ।। 2।।
( 1 )
उदन्या प्राणानां निजिगिरिषति द्यां भुवमिमां
परिव्याप्त्या युक्तां सकलकलयाऽस्यास्तलमिदम् ।
अहो अस्याः कुक्षेः क्वचन कुहरे वामनतया
परिक्लिष्टा ह्येषा भ्रमति सुरसाया मुखशती ।। 3।।
परिव्याप्त्या युक्तां सकलकलयाऽस्यास्तलमिदम् ।
अहो अस्याः कुक्षेः क्वचन कुहरे वामनतया
परिक्लिष्टा ह्येषा भ्रमति सुरसाया मुखशती ।। 3।।
महानाभोगोऽयं गगनमपि पारेण रहितं
परब्रह्मप्रख्यं विभु पवनदोलां निगिरति ।
अमी सूर्याः सर्व्वैः किरणविसरैः सार्धमभितः
समस्तैर्ज्योतिर्भिः सह दधति यात्रामिह पराम् ।। 4।।
परब्रह्मप्रख्यं विभु पवनदोलां निगिरति ।
अमी सूर्याः सर्व्वैः किरणविसरैः सार्धमभितः
समस्तैर्ज्योतिर्भिः सह दधति यात्रामिह पराम् ।। 4।।
अमी वारां ते ते विततवपुषः केऽपि निधयः
सनक्राः क्षुभ्यन्तः सुखमिह लसन्ति प्रतिपदम् ।
असौ मत्स्याकारा जलपरिणती राघव इति
प्रथां याताऽप्यस्मिन् बत शिशुतया रिङ्गति सुखम् ।। 5।।
सनक्राः क्षुभ्यन्तः सुखमिह लसन्ति प्रतिपदम् ।
असौ मत्स्याकारा जलपरिणती राघव इति
प्रथां याताऽप्यस्मिन् बत शिशुतया रिङ्गति सुखम् ।। 5।।
इहात्राऽऽभोगेऽस्मिन् पतति शतशः काचन शती
सरावा रेवाणामियममरकूटैः सह सुखम् ।
मृकण्डोः सूनूनामिह न गणना तेऽपि विवशा
बुभुक्षौ कुक्षौ मे परमपरमे यान्ति जरसम् ।। 6।।
सरावा रेवाणामियममरकूटैः सह सुखम् ।
मृकण्डोः सूनूनामिह न गणना तेऽपि विवशा
बुभुक्षौ कुक्षौ मे परमपरमे यान्ति जरसम् ।। 6।।
यमा! यूयं रत्नैर् भुवनमिदमापूर्य्य ददतो
न मह्यं रोचध्वे ज्वलति वृकनामा मयि तु सः
महानग्नी रोचिः परिलघु परं यस्य भुवना-
न्ममूनि द्राग् दग्धुं प्रभवति लघीयस्यसि पले ।। 7।।
न मह्यं रोचध्वे ज्वलति वृकनामा मयि तु सः
महानग्नी रोचिः परिलघु परं यस्य भुवना-
न्ममूनि द्राग् दग्धुं प्रभवति लघीयस्यसि पले ।। 7।।
ब्रुवन्तु क्षोदिष्ठा इव ननु महिष्ठा अपि समे-
ऽप्यमी धिग् दिग्पालाः सह निजनिजैः स्तोत्र-कविभिः ।
मदीयेऽस्मिन् गाढे/दीर्घे/घोरे/क्रूरे तमसि विकराले क्व नु परो
विलिल्ये श्रीजानिः क्व च पितृगणानामपि पिता ।। 8।।
ऽप्यमी धिग् दिग्पालाः सह निजनिजैः स्तोत्र-कविभिः ।
मदीयेऽस्मिन् गाढे/दीर्घे/घोरे/क्रूरे तमसि विकराले क्व नु परो
विलिल्ये श्रीजानिः क्व च पितृगणानामपि पिता ।। 8।।
समाधिं कैलासे श्रयति खलु यस्मिन् स परमः
शिवः सर्व्वैः सार्धं प्रमथपतिभिः सोऽपि सहसा ।
हहा कर्पूरत्वं बत बत गतः स्वस्तिपरमा
न दृश्यन्ते सन्तोऽप्यहह सनकाद्या वि-रज/तमसः ।। 9।।
शिवः सर्व्वैः सार्धं प्रमथपतिभिः सोऽपि सहसा ।
हहा कर्पूरत्वं बत बत गतः स्वस्तिपरमा
न दृश्यन्ते सन्तोऽप्यहह सनकाद्या वि-रज/तमसः ।। 9।।
शृगालोऽयं जीर्णो ननु शमकथां कायति शिरः
प्रकम्पन् वात्याभिर्मनसि निभृताभिः प्रतिहतम् ।
अयं स्तेनश् चौर्य्यै रहसि मुषितान् हन्त मसृणान्
सुवर्ण्णानां राशीनिह मयि हि गोपायति चिरात् ।। 10।।
प्रकम्पन् वात्याभिर्मनसि निभृताभिः प्रतिहतम् ।
अयं स्तेनश् चौर्य्यै रहसि मुषितान् हन्त मसृणान्
सुवर्ण्णानां राशीनिह मयि हि गोपायति चिरात् ।। 10।।
उदन्या प्राणानां विरतिमणुमात्रामपि मम
प्रयातुं न स्पन्दं स्पृशति हहहा मानसमपि ।
अमी स्पन्दा मौनं दधति निखिलाः स्पन्दरहिताः
इमे मे प्रश्वासा ब्रुवत इव हा जीवितकथाम् ।। 11।।
प्रयातुं न स्पन्दं स्पृशति हहहा मानसमपि ।
अमी स्पन्दा मौनं दधति निखिलाः स्पन्दरहिताः
इमे मे प्रश्वासा ब्रुवत इव हा जीवितकथाम् ।। 11।।
अमीषां भूतानामधिहृदयकोषं स्फुरति या
सिसृक्षा प्रत्यग्रस्फुरणमसृणात्मा भगवती ।
नमस्तस्यै यन्त्राण्यपि गणितसिद्धान्तजनिता-
न्यमून्यस्यां सेतुं न खलु विषहन्ते रचयितुम् ।। 12।।
सिसृक्षा प्रत्यग्रस्फुरणमसृणात्मा भगवती ।
नमस्तस्यै यन्त्राण्यपि गणितसिद्धान्तजनिता-
न्यमून्यस्यां सेतुं न खलु विषहन्ते रचयितुम् ।। 12।।
इयं मृत्स्ना कृत्स्नाप्ययि शितिसितां काञ्चन परां
श्रियं बिभ्राणा नः प्रमुख उपतिष्ठासति कुतः ।
वृषस्यन्ती कामप्युषसमियमाराध्य जनके-
ष्वनेकेष्वाधत्ते न खलु न हि सीताः धृतिमतीः ।। 13।।
श्रियं बिभ्राणा नः प्रमुख उपतिष्ठासति कुतः ।
वृषस्यन्ती कामप्युषसमियमाराध्य जनके-
ष्वनेकेष्वाधत्ते न खलु न हि सीताः धृतिमतीः ।। 13।।
अमी शैलाः सूर्य्यावरणपटुशृङ्गाः प्रतिपलं
किरन्त्यर्वाक् कस्मात् प्रतपसमुमाख्यां दुहितरम् ।
यदीयामङ्गानां रुचमभिनवीभावपटुता-
म्रदिष्ठां दृष्ट्वाऽभूदधिहृदयमन्यः खलु शिवः ।। 14।।
किरन्त्यर्वाक् कस्मात् प्रतपसमुमाख्यां दुहितरम् ।
यदीयामङ्गानां रुचमभिनवीभावपटुता-
म्रदिष्ठां दृष्ट्वाऽभूदधिहृदयमन्यः खलु शिवः ।। 14।।
अमी विश्वामित्राः सवितुरिव भर्गाः कनकवत्
प्रदीप्ताङ्गाः कृत्स्ना अपि तपसि घोरे नि/विदधते ।
किमित्येतान् दिव्यान् बत दुहितृसंघाँल्ललनया
कयाचित् सौभाग्यामृतमधुपयोदैः प्रशमिताः ।। 15।।
प्रदीप्ताङ्गाः कृत्स्ना अपि तपसि घोरे नि/विदधते ।
किमित्येतान् दिव्यान् बत दुहितृसंघाँल्ललनया
कयाचित् सौभाग्यामृतमधुपयोदैः प्रशमिताः ।। 15।।
अमुष्या उर्वश्याः किमिति ननु नारायणमुनि-
श्चिकीर्षां सन्धत्ते निबिडनिबिडां काञ्चन हृदा ।
वृकीं स्वर्वेश्यां तामथ स खलु कस्माज् जनयते
सवित्रीं वात्सल्यद्रुतमनसिजामायुषि सुते ।। 16।।
श्चिकीर्षां सन्धत्ते निबिडनिबिडां काञ्चन हृदा ।
वृकीं स्वर्वेश्यां तामथ स खलु कस्माज् जनयते
सवित्रीं वात्सल्यद्रुतमनसिजामायुषि सुते ।। 16।।
विसृष्टिः सृष्टीनां प्रसरतितरामन्वहमियं
किमित्युल्लासानां नियुतमभिसन्धाय रभसात् ।
विधातु-र्निर्बन्धश्चतसृभिरपि प्रत्ययमयी-
मसौ भूमिं किंवा श्रुतिभिरुपयाति प्रतिदिशम् ।। 17।।
किमित्युल्लासानां नियुतमभिसन्धाय रभसात् ।
विधातु-र्निर्बन्धश्चतसृभिरपि प्रत्ययमयी-
मसौ भूमिं किंवा श्रुतिभिरुपयाति प्रतिदिशम् ।। 17।।
इमा मृद्वीकानां वृतय इह पाकेन विदलन्त्य-
मुष्मिन्नुद्याने किमिति शिखिभिः पीतगरले ।
इयं शय्या कस्मै भुवनकमनीयाय रचिता
त्रिलोकाङ्गी दिव्या भुवि दिवि च वैचित्र्यसुभगा ।। 18।।
मुष्मिन्नुद्याने किमिति शिखिभिः पीतगरले ।
इयं शय्या कस्मै भुवनकमनीयाय रचिता
त्रिलोकाङ्गी दिव्या भुवि दिवि च वैचित्र्यसुभगा ।। 18।।
रथाङ्गानां द्वन्द्वाः किमिति तिमिरान्धीकृतचरा-
चरामावास्यायामहह तनुबन्धान् न जहति ।
किमित्या-शापाशैरनशन-परास्त्यक्त-जगती-
चमत्कारा एते दिनमणिमुदीतं प्रवृणते ।। 19।।
चरामावास्यायामहह तनुबन्धान् न जहति ।
किमित्या-शापाशैरनशन-परास्त्यक्त-जगती-
चमत्कारा एते दिनमणिमुदीतं प्रवृणते ।। 19।।
अमी स्वर्वैद्यानामनुपमरसाः स्वस्तिपरमा
महावंशा भाष्येऽमृतगरलयोः किं व्यवसिताः ।
असौ किंवा कश्चित् खलपरिकरः काममभितो-
ऽरणेर्घर्षो यद्वत् स्वनति नितरामौषधमयः ।। 20।।
महावंशा भाष्येऽमृतगरलयोः किं व्यवसिताः ।
असौ किंवा कश्चित् खलपरिकरः काममभितो-
ऽरणेर्घर्षो यद्वत् स्वनति नितरामौषधमयः ।। 20।।
इहामुत्रार्थक्षुत्परिभव-पिशाची-निगडिता
इमे क्षेत्रज्ञानामणु-पर-महत्काय-किटयः ।
क्षतिं यां मुस्तानां विदधतितमां कर्दममये
त्रिलोकीवेशन्ते विरतिमसकौ किं न भजते ।। 21।।
इमे क्षेत्रज्ञानामणु-पर-महत्काय-किटयः ।
क्षतिं यां मुस्तानां विदधतितमां कर्दममये
त्रिलोकीवेशन्ते विरतिमसकौ किं न भजते ।। 21।।
प्रणामैरुद्घृष्टा मुकुटमणयो देवदनुज-
द्विपादानामेते निटिलफलकाश्चापि दधते ।
रुचां यान् वै व्रातानिह शतशती ताण्डवति किं
प्रवेगौदर्याणां न खलु दहनानां प्रतिपलम् ।। 22।।
द्विपादानामेते निटिलफलकाश्चापि दधते ।
रुचां यान् वै व्रातानिह शतशती ताण्डवति किं
प्रवेगौदर्याणां न खलु दहनानां प्रतिपलम् ।। 22।।
विरिञ्चीरन् काष्ठाः जठरपिठरापूर्त्तिपटवः
समेऽप्येते ते ते सलिलनिधयो रत्नसहिताः ।
अमीषां प्राग्भारेष्वपि न कुहराणामहह नः
पिपासानां मञ्चः स्पृशति चतुरस्रां विरचनाम् ।। 23।।
समेऽप्येते ते ते सलिलनिधयो रत्नसहिताः ।
अमीषां प्राग्भारेष्वपि न कुहराणामहह नः
पिपासानां मञ्चः स्पृशति चतुरस्रां विरचनाम् ।। 23।।
अमी टेलिस्कोपा! ब्रुवत इह तन्तौ परिलघौ
लताया एतस्या अतितरपरिक्षीणवपुषः ।
वकाशाः काशन्ते परमपरमा येषु परितो
मधूनां भ्राम्यन्ति प्रतिजठरकुक्षि द्युसरितः ।। 24।।
लताया एतस्या अतितरपरिक्षीणवपुषः ।
वकाशाः काशन्ते परमपरमा येषु परितो
मधूनां भ्राम्यन्ति प्रतिजठरकुक्षि द्युसरितः ।। 24।।
अमूषां पीयूषप्रतिभटरसानां द्युसरिताम्
अणिष्ठेऽप्येकस्मिन् विलसतितरां विप्रुषि तु यः ।
विरावो रेवायाः श्रुतिललितमन्त्रावलिशुभं
तमेतं शृण्वन्तो निरुपधि लसामः समदृशः ।। 25।।
अणिष्ठेऽप्येकस्मिन् विलसतितरां विप्रुषि तु यः ।
विरावो रेवायाः श्रुतिललितमन्त्रावलिशुभं
तमेतं शृण्वन्तो निरुपधि लसामः समदृशः ।। 25।।
( 2 )
अकृपणचितश्चैत्या एते विराजमिमं स्पृहां
दधति सधृति प्रष्टुं प्रश्नोत्तमान् विरलोत्तरान् ।
वदतु भगवन्! वक्त्राण्येतानि ते दशनावलीं
किमिति सुतरां तीक्ष्णां दीर्घाञ्च काञ्चन बिभ्रति ।। 26।।
दधति सधृति प्रष्टुं प्रश्नोत्तमान् विरलोत्तरान् ।
वदतु भगवन्! वक्त्राण्येतानि ते दशनावलीं
किमिति सुतरां तीक्ष्णां दीर्घाञ्च काञ्चन बिभ्रति ।। 26।।
वदतु भगवँस् तस्यामस्यां न किं तव खर्जना
समुदयमुपैत्यूर्जा-किर्मीरितैः क्रिमिभिर्वृता ।
अपि शमयितुं तस्या दाहं इमा अचिरप्रभा-
प्रतिभटरुचो राधागोप्यः प्रभो! प्रभवन्ति किम् ।। 27।।
समुदयमुपैत्यूर्जा-किर्मीरितैः क्रिमिभिर्वृता ।
अपि शमयितुं तस्या दाहं इमा अचिरप्रभा-
प्रतिभटरुचो राधागोप्यः प्रभो! प्रभवन्ति किम् ।। 27।।
वपसि धरणीगर्भे त्वं यां हि भूमफलीमिमां
प्रतिशिफमलंभावैस्तैस्तैर्वृतां शतशाखिनीम् ।
अहह मसृणां स्निग्धां बीजत्रयीप्रविराजितां
किमिति भगवँस्! तां वै त्वं नो विभर्जयसे रसी ।। 28।।
प्रतिशिफमलंभावैस्तैस्तैर्वृतां शतशाखिनीम् ।
अहह मसृणां स्निग्धां बीजत्रयीप्रविराजितां
किमिति भगवँस्! तां वै त्वं नो विभर्जयसे रसी ।। 28।।
अयि बत भवानेतां यां दाडिमीं खलु सृष्टवान्
अथ निहितवानस्या बीजेषु चित्रतनो रसान् ।
अधिरसमभूत् स्पृष्टो भोगेच्छया यदि कर्तृतां
मयि निहितवानस्या भुक्तेः परात्पर! किं भवान् ।। 29।।
अथ निहितवानस्या बीजेषु चित्रतनो रसान् ।
अधिरसमभूत् स्पृष्टो भोगेच्छया यदि कर्तृतां
मयि निहितवानस्या भुक्तेः परात्पर! किं भवान् ।। 29।।
अमृतविषयोर्युद्धे सान्तत्यतः प्रविसृत्वरे
किमिति भवता नास्मिन् स्वीयं सुदर्शनमस्यते ।
अहह विदितं द्वन्द्वे ह्यस्मिन् भवानपि न प्रभुर्
विनिगमयितुं धन्याधन्यत्वमस्य कृते मम ।। 30।।
किमिति भवता नास्मिन् स्वीयं सुदर्शनमस्यते ।
अहह विदितं द्वन्द्वे ह्यस्मिन् भवानपि न प्रभुर्
विनिगमयितुं धन्याधन्यत्वमस्य कृते मम ।। 30।।
स्वपिमि, विरतस्वापस्तूर्णं भवामि, ततः पुनः
स्वपिमि, दिवसानेवं रात्रीश्च संक्षपयाम्यहम् ।
प्रसृतिपिटकं चैतं नित्यं त्वयि प्रविसारयन्
किमपि निभृतं क्षेप्तुं तस्मिँश्च देव! विरौम्यहम् ।। 31।।
स्वपिमि, दिवसानेवं रात्रीश्च संक्षपयाम्यहम् ।
प्रसृतिपिटकं चैतं नित्यं त्वयि प्रविसारयन्
किमपि निभृतं क्षेप्तुं तस्मिँश्च देव! विरौम्यहम् ।। 31।।
अयि बत मया ज्ञातं त्वं मर्कटै रमसे प्रभो!
विविधविविधान् भावाँस्ताँस्तान् रसाँश्च विभावयन् ।
डमरुकमियं तस्मिन् रासे सनातनभारती
डमयति रसात् स्वैरं तां देवदेव! कृतार्थयेः ।। 32।।
विविधविविधान् भावाँस्ताँस्तान् रसाँश्च विभावयन् ।
डमरुकमियं तस्मिन् रासे सनातनभारती
डमयति रसात् स्वैरं तां देवदेव! कृतार्थयेः ।। 32।।
( 3 )
अणिष्ठे क्षोदिष्ठे चरमपरमाणूदरगुहा-
रहःशय्यागर्भावरणपिहिते पादरजसाम् ।
समूहेऽस्मिन् पुण्यैरपि मखशतीसूतिमहितैः
स्तुते सानुप्रासं तव जननि! को वा न महिमा ।। 33।।
रहःशय्यागर्भावरणपिहिते पादरजसाम् ।
समूहेऽस्मिन् पुण्यैरपि मखशतीसूतिमहितैः
स्तुते सानुप्रासं तव जननि! को वा न महिमा ।। 33।।
तवाम्ब! क्षोदिष्ठेऽप्यनुपमगुणे पादरजसां
कणेऽस्मिन् ब्रह्माद्यैरपि नतशिरोभिः प्रणमिते ।
इमाः सर्वाः सर्वैरपि बलिभिराशापतिशतैः
समं लक्ष्म्यो लीलां प्रसृमरविभूतिं विदधते ।। 34।।
कणेऽस्मिन् ब्रह्माद्यैरपि नतशिरोभिः प्रणमिते ।
इमाः सर्वाः सर्वैरपि बलिभिराशापतिशतैः
समं लक्ष्म्यो लीलां प्रसृमरविभूतिं विदधते ।। 34।।
त्वदीये त्रैलोक्यप्रसविनि! चमत्कारचरमा-
वधेस्ताते कुत्राप्यतिशयशतैरप्यकलिते ।
पदाम्भोजद्वन्द्व-प्रसृतरुचि-चन्द्रातप-सुधा-
महाकूपारेऽस्मिन् कति न हि चकोरन्ति कवयः ।। 35।।
वधेस्ताते कुत्राप्यतिशयशतैरप्यकलिते ।
पदाम्भोजद्वन्द्व-प्रसृतरुचि-चन्द्रातप-सुधा-
महाकूपारेऽस्मिन् कति न हि चकोरन्ति कवयः ।। 35।।
तवास्मिन् माणिक्यैः सममरुणभासां परिचितौ
गते मातर्देवैरपि बहुमते जित्वरपदम् ।
पदद्वन्द्वोद्भूते महसि करुणोदन्वति कति
कति प्रातःसन्ध्याभ्रमिमिह न यान्त्यब्जजनयः ।। 36।।
गते मातर्देवैरपि बहुमते जित्वरपदम् ।
पदद्वन्द्वोद्भूते महसि करुणोदन्वति कति
कति प्रातःसन्ध्याभ्रमिमिह न यान्त्यब्जजनयः ।। 36।।
अमुं नेत्रैरिन्द्रः सह दयितयाऽनन्त्यमहितै-
र्दिदृक्षुः प्रारम्भादयि जननि! सृष्टेर्मृगयते ।
अमुं पाशी दुग्धोदधिभिरभिषेक्तुं स्पृहयते
कुबेराणामाभिः सह मणिशतीभिर्नतशिराः ।। 37।।
र्दिदृक्षुः प्रारम्भादयि जननि! सृष्टेर्मृगयते ।
अमुं पाशी दुग्धोदधिभिरभिषेक्तुं स्पृहयते
कुबेराणामाभिः सह मणिशतीभिर्नतशिराः ।। 37।।
इयं राजीवालिः कनकगिरिकुक्षिम्भरिसुधा-
सरःसद्योजाता परिमलभराऽऽपूरितनभाः ।
पतद्भिर्भृङ्गाणां स्तुतिमधुरवाचामनुगता
शतैरम्बाऽस्मै स्वां वरिवसितिकामर्पिपिषति ।। 38।।
सरःसद्योजाता परिमलभराऽऽपूरितनभाः ।
पतद्भिर्भृङ्गाणां स्तुतिमधुरवाचामनुगता
शतैरम्बाऽस्मै स्वां वरिवसितिकामर्पिपिषति ।। 38।।
महेन्द्रोपेन्द्राणामलिक-निचितस्वस्तरुसुमा
इमे दाराश्चिन्तामणिखचितकाञ्चीगुणगणाः ।
अमुं सीमान्ताङ्के दयितकरदत्तैररुणय-
न्त्यमूभिः सिन्दूरैररुणमहसामादिगुरुभिः ।। 39।।
इमे दाराश्चिन्तामणिखचितकाञ्चीगुणगणाः ।
अमुं सीमान्ताङ्के दयितकरदत्तैररुणय-
न्त्यमूभिः सिन्दूरैररुणमहसामादिगुरुभिः ।। 39।।
अमुं धिक्कुर्वाणं बलमतिबलानां बलवतां
पतीनामाशानामपि जननि! संपश्यति सुते ।
बलीयान् विश्वासः कथमिव न जागर्त्तु जगती-
परिस्पन्दोल्लासोदधिषु बिसिनीपत्रितुमलम् ।। 40।।
पतीनामाशानामपि जननि! संपश्यति सुते ।
बलीयान् विश्वासः कथमिव न जागर्त्तु जगती-
परिस्पन्दोल्लासोदधिषु बिसिनीपत्रितुमलम् ।। 40।।
इहासौ स्वर्णाद्रिः प्रतिदिनमुखं याचतितमा-
ममीषां शृङ्गाणां कमपि महिमानं यदुदयात् ।
परस्यै शोभायै सुरदितिसुताद्यैरपि नमो-
वचोभिः पूज्यायै प्रभवतितरामेष भुवने ।। 41।।
ममीषां शृङ्गाणां कमपि महिमानं यदुदयात् ।
परस्यै शोभायै सुरदितिसुताद्यैरपि नमो-
वचोभिः पूज्यायै प्रभवतितरामेष भुवने ।। 41।।
स्मरं शोचिष्केशव्रजशतशती शम्भुनिटिल-
प्रसूता भस्मैव प्रथितमहिमाऽपि व्यरचयत् ।
स एवासौ स्थेम्ना वरिवसितुमह्नाय सरति-
स्तदेतत् संरम्भैर्भजति तव पादाम्बुजमहः ।। 42।।
प्रसूता भस्मैव प्रथितमहिमाऽपि व्यरचयत् ।
स एवासौ स्थेम्ना वरिवसितुमह्नाय सरति-
स्तदेतत् संरम्भैर्भजति तव पादाम्बुजमहः ।। 42।।
इयं जाया चेतोभुव इयमपां पत्युरुदयं
श्रयन्ती श्रीरेषाप्यथ सुरनतभू्रशतशती ।
समं बिब्बोकानामभिनवतमैर्हारिभिरल-
ङ्कृतिव्रातैस्तैस्तैरिह दधति चारीपरिचयान् ।। 43।।
श्रयन्ती श्रीरेषाप्यथ सुरनतभू्रशतशती ।
समं बिब्बोकानामभिनवतमैर्हारिभिरल-
ङ्कृतिव्रातैस्तैस्तैरिह दधति चारीपरिचयान् ।। 43।।
ममान्तर्धातूनां बहुविधरुचां सन्निपतता-
मरण्ये पुष्पाणामिह जरति मोहभ्रमिजुषाम् ।
परीपाकः शास्त्रैर्नियतनियतोऽप्येष विलयं
प्रयात्यस्मिन् स्पृष्टे रुचिशशिनि तेऽम्बोदयगिरिम् ।। 44।।
मरण्ये पुष्पाणामिह जरति मोहभ्रमिजुषाम् ।
परीपाकः शास्त्रैर्नियतनियतोऽप्येष विलयं
प्रयात्यस्मिन् स्पृष्टे रुचिशशिनि तेऽम्बोदयगिरिम् ।। 44।।
चकोराणां तोकान्यतितमतिथं व्याकुलयतां
बुभुक्षाज्वालानामुदरकुहरे संप्रसरताम् ।
तमस्विन्यामस्यां प्रशमनविधौ मातरभितः
प्रसारि त्वत्पादामृतकिरणमात्रं प्रभवति ।। 45।।
बुभुक्षाज्वालानामुदरकुहरे संप्रसरताम् ।
तमस्विन्यामस्यां प्रशमनविधौ मातरभितः
प्रसारि त्वत्पादामृतकिरणमात्रं प्रभवति ।। 45।।
इमे पीयूषाब्दा वियति परमे मेदुरघटा
नटन्तो दृश्यन्ते प्रतिदिशम्, अमीषामयि शिवे!
इमे धारासारा अहह विरसास्त्वत्पदरजः-
सिताया माधुर्य्यं यदवधि न तत्र प्रसरति ।। 46।।
नटन्तो दृश्यन्ते प्रतिदिशम्, अमीषामयि शिवे!
इमे धारासारा अहह विरसास्त्वत्पदरजः-
सिताया माधुर्य्यं यदवधि न तत्र प्रसरति ।। 46।।
अहङ्कारग्रन्थौ कनकदृढगात्रे मम विधू-
पलानां स्रोतांसि त्यजति दिशि दिश्यत्र बहुशः ।
चमत्कारस्तावन्न खलु समुदेत्यम्ब! महसां
त्वदीयानां यावन्न भवति विमिश्रः स्मितिभुवाम् ।। 47।।
पलानां स्रोतांसि त्यजति दिशि दिश्यत्र बहुशः ।
चमत्कारस्तावन्न खलु समुदेत्यम्ब! महसां
त्वदीयानां यावन्न भवति विमिश्रः स्मितिभुवाम् ।। 47।।
त्वमसि कनकयष्टिर्मायिकस्यात्मयोनेः
परमशिव इति स्वं घोषयित्वा द्रुतस्य ।
अयि विशदय मेधामम्ब! मे प्रत्यभिज्ञा
प्रभवतु खलु यस्यां प्रत्यभिज्ञातुमेतम् ।। 48।।
परमशिव इति स्वं घोषयित्वा द्रुतस्य ।
अयि विशदय मेधामम्ब! मे प्रत्यभिज्ञा
प्रभवतु खलु यस्यां प्रत्यभिज्ञातुमेतम् ।। 48।।
न तन्त्रैर्मन्त्रैर्वा न च कुसुमगन्धादिभिरसौ
सपर्या-वैदग्धी-परिचितिमिदानीं विवृणुते ।
श्रुतिस्वाध्यायेषु द्रढिमरमणीयेन मनसा
रतेर्यावाँल्लेशः किमपि तमिदानीं विगणयेः ।। 49।।
सपर्या-वैदग्धी-परिचितिमिदानीं विवृणुते ।
श्रुतिस्वाध्यायेषु द्रढिमरमणीयेन मनसा
रतेर्यावाँल्लेशः किमपि तमिदानीं विगणयेः ।। 49।।
( 4 )
न मातस्त्वद्वक्षोऽञ्चलपटुपिधानेन सुभगां
गिरां गायत्रीं तां श्रुतिसुभगतन्त्रीं क्वचिदपि ।
दिवा वा रात्रौ वा निमिषपरिमाणाय विषयै-
र्गृहीतात् कालाय श्रुतिकमलकोषाच्च तिरयेः ।। 50।।
गिरां गायत्रीं तां श्रुतिसुभगतन्त्रीं क्वचिदपि ।
दिवा वा रात्रौ वा निमिषपरिमाणाय विषयै-
र्गृहीतात् कालाय श्रुतिकमलकोषाच्च तिरयेः ।। 50।।
तवैष स्वर्गङ्गा-तरलित-तरङ्गेष्वविरतं
फलैर्मौक्तैर्ग्रासं विदधदपि मातः! सितगरुत् ।
कदाचिन्मच्चित्ताज्जडिमकलुषै रागिमभृतैः
स्वचञ्चूशृङ्गारं रचयतु तमःश्याममणिभिः ।। 51।।
फलैर्मौक्तैर्ग्रासं विदधदपि मातः! सितगरुत् ।
कदाचिन्मच्चित्ताज्जडिमकलुषै रागिमभृतैः
स्वचञ्चूशृङ्गारं रचयतु तमःश्याममणिभिः ।। 51।।
विनिद्रः स्वाध्याये यदि भवति मातस्तव कृपा-
कटाक्षाणां पात्रं कुमुदविशदानां क्वचिदपि ।
जनोऽयं स्नेहश्रीरहितजनुषामप्यचरम-
स्तिरश्चीनां ग्रीवां सुखमपि विरिञ्चेर्विषहते ।। 52।।
कटाक्षाणां पात्रं कुमुदविशदानां क्वचिदपि ।
जनोऽयं स्नेहश्रीरहितजनुषामप्यचरम-
स्तिरश्चीनां ग्रीवां सुखमपि विरिञ्चेर्विषहते ।। 52।।
मनोधाम्नि स्फीतारुणकिरणकिञ्जल्कसुभगः
कदा मातर्मेऽसौ तव चरणपाथोरुहवरः ।
स्वसौरभ्यासारप्रसृमरमुदां भावमधुप-
व्रजानां लास्याय द्रुतमधुरसौ वाणि! भविता ।। 53।।
कदा मातर्मेऽसौ तव चरणपाथोरुहवरः ।
स्वसौरभ्यासारप्रसृमरमुदां भावमधुप-
व्रजानां लास्याय द्रुतमधुरसौ वाणि! भविता ।। 53।।
अपाङ्गप्रान्ताभ्यां तव पय इव प्रीतिविशदं
स्मितं ते मातर्मे स्नपयति कदा वा मतितटीम् ।
कदा वा काश्मीरप्रभवसुरभि प्रातररुणं
दृशोर्मालिन्यं मे हरति तव वक्षोजवसनम् ।। 54।।
स्मितं ते मातर्मे स्नपयति कदा वा मतितटीम् ।
कदा वा काश्मीरप्रभवसुरभि प्रातररुणं
दृशोर्मालिन्यं मे हरति तव वक्षोजवसनम् ।। 54।।
कदैकैकं मालास्फटिकमणिमाणिक्यमभयः
समारोहन् मेरुं व्रजति तव सर्वेश्वरमयम् ।
कदा वासौ तस्मादुपरि निजरूपं तव शिवे
जगद्ग्रन्थिं ग्रन्थं प्रविशति शिशुर्वाङ्मयमयम् ।। 55।।
समारोहन् मेरुं व्रजति तव सर्वेश्वरमयम् ।
कदा वासौ तस्मादुपरि निजरूपं तव शिवे
जगद्ग्रन्थिं ग्रन्थं प्रविशति शिशुर्वाङ्मयमयम् ।। 55।।
कदा वास्मात् स्थानादणुषु निभृतं धातुरखिलं
रहस्यं ताटस्थ्याद् विमलमतिरीक्षे स्मितमुखः ।
कवेः क्रान्त्या युक्तामथ च दृशमास्थाय भुवन-
त्रये स्वैरं भ्राम्यन् रवि-शशि-नमस्योऽस्मि भविता ।। 56।।
रहस्यं ताटस्थ्याद् विमलमतिरीक्षे स्मितमुखः ।
कवेः क्रान्त्या युक्तामथ च दृशमास्थाय भुवन-
त्रये स्वैरं भ्राम्यन् रवि-शशि-नमस्योऽस्मि भविता ।। 56।।
ह्रदः पीयूषाणामधिहृदयमेवाऽत्र निभृतः
परीवाहं मातर्भजतु सततं ते मुखरुचा ।
तदन्तर्द्वन्द्वं ते चरणजलजातस्य विकच-
न्महालक्ष्म्यै दद्यादनितरगति स्थायिवसतिम् ।। 57।।
परीवाहं मातर्भजतु सततं ते मुखरुचा ।
तदन्तर्द्वन्द्वं ते चरणजलजातस्य विकच-
न्महालक्ष्म्यै दद्यादनितरगति स्थायिवसतिम् ।। 57।।
अथ श्रुत्या ग्रामैरपि च मधुमद्भी रसझरीं
प्रवर्षद्भिर्नित्यक्वणनमसृणा सा क्वणतु ते ।
सदानीरा वीणासुरसरिदुपांशु स्वजपन-
व्रता मातः! सर्व्वप्रकृतिलय-माध्वीक-सरसी ।। 58।।
प्रवर्षद्भिर्नित्यक्वणनमसृणा सा क्वणतु ते ।
सदानीरा वीणासुरसरिदुपांशु स्वजपन-
व्रता मातः! सर्व्वप्रकृतिलय-माध्वीक-सरसी ।। 58।।
समाधिस्तद्दास्ये भवति चरितार्थो यतिवरैः
सहस्रैरब्दानां कथमपि समासादित-कणः ।
न दृश्यं न द्रष्टा न च दृगपि यत्राऽस्ति परमा
रमाभिः प्रारब्धा बहुविधरसा रासरसना ।। 59।।
सहस्रैरब्दानां कथमपि समासादित-कणः ।
न दृश्यं न द्रष्टा न च दृगपि यत्राऽस्ति परमा
रमाभिः प्रारब्धा बहुविधरसा रासरसना ।। 59।।
निमग्नानां तस्यां जननि! न हि कालस्य सकल-
प्रपञ्च-प्राकाम्य-प्रलय-विकरालस्य कलना ।
न वा दिग्देशानां रविशशिमहाकाश-पवना-
ऽनलाम्भोभूमीनामणुपरिमिताऽप्यस्ति रचना ।। 60।।v
प्रपञ्च-प्राकाम्य-प्रलय-विकरालस्य कलना ।
न वा दिग्देशानां रविशशिमहाकाश-पवना-
ऽनलाम्भोभूमीनामणुपरिमिताऽप्यस्ति रचना ।। 60।।v
तदानीं ब्रह्मत्वं भवति चरितार्थं मम महान्
विवर्त्तो भूतानां भवति बत शून्येन भरितः ।
तदानीं सर्वज्ञोऽहमिह गुणसांराविणि गुणे
द्वयत्वप्राग्भारे पुरुष इव साक्ष्यस्मि भविता ।। 61।।
विवर्त्तो भूतानां भवति बत शून्येन भरितः ।
तदानीं सर्वज्ञोऽहमिह गुणसांराविणि गुणे
द्वयत्वप्राग्भारे पुरुष इव साक्ष्यस्मि भविता ।। 61।।
परस्यामस्यां मे भुवनकमनीयस्य जननि!
प्रसिद्धायां सिद्धौ प्रणिपतति मह्यं सुरपतिः ।
अहं दृक्साहस्रीसरसिरुहदाम्न्यस्य विसृजा-
म्यथामोदालीं स्वां परमशिवभूयाद्भुतरसाम् ।। 62।।
प्रसिद्धायां सिद्धौ प्रणिपतति मह्यं सुरपतिः ।
अहं दृक्साहस्रीसरसिरुहदाम्न्यस्य विसृजा-
म्यथामोदालीं स्वां परमशिवभूयाद्भुतरसाम् ।। 62।।
शची-सीमन्तेभ्यः स खलु मम दातू रुचिमहाँ-
श्चमत्कारो हेम्नां सृजति परमां स्वस्तिक-लताम् ।
सहस्रेणाप्यक्ष्णां विनिमयरसोऽयं मम वृषा-
कपौ स्पृष्टः सूते कमपि लघिमानं मधुसृजम् ।। 63।।
श्चमत्कारो हेम्नां सृजति परमां स्वस्तिक-लताम् ।
सहस्रेणाप्यक्ष्णां विनिमयरसोऽयं मम वृषा-
कपौ स्पृष्टः सूते कमपि लघिमानं मधुसृजम् ।। 63।।
द्रवो द्राघीयस्यामिह सृतिसरण्यां प्रसृमरः ।
अपि स्रोतांस्येतान्यमृतसरसीवाशु निभृता-
न्यमोघां चिन्वन्ति स्थितिमिह विरामेऽनुपरमे ।। 64।।
अपि स्रोतांस्येतान्यमृतसरसीवाशु निभृता-
न्यमोघां चिन्वन्ति स्थितिमिह विरामेऽनुपरमे ।। 64।।
सुवर्णानां राशीनहह मम धाम्नः परिसरे
विकीर्णानुल्लासादयमपतनोत्याह्निककरः ।
इमे सर्वे चिन्तामणय इह भृत्याभृतिधनी-
भवन्तः सोत्प्रासं जननि कलहायन्ति रभसात् ।। 65।।
विकीर्णानुल्लासादयमपतनोत्याह्निककरः ।
इमे सर्वे चिन्तामणय इह भृत्याभृतिधनी-
भवन्तः सोत्प्रासं जननि कलहायन्ति रभसात् ।। 65।।
हविर्धानी-नाम्न्याः सुरविटपिनोऽप्यत्र पयसां
पयस्विन्या वर्षैरुपचयममी हन्त गमिताः ।
ममागारे मातः कुसुमरसपाटच्चरकुला-
ङ्कुराणां संरावैः स्तवनविधिचर्य्यां विदधते ।। 66।।
पयस्विन्या वर्षैरुपचयममी हन्त गमिताः ।
ममागारे मातः कुसुमरसपाटच्चरकुला-
ङ्कुराणां संरावैः स्तवनविधिचर्य्यां विदधते ।। 66।।
स्मरस्यैषा दारा रतिरपि कराब्जे बहुकरं
ममावासे धृत्वा परिचरति भक्त्या पतिमती ।
कुबेराणां सङ्घोऽप्ययमतितरां प्रह्नहृदयो
निधीनां साहित्यैर्मयि सृजति सौहित्यरचनाम् ।। 67।।
ममावासे धृत्वा परिचरति भक्त्या पतिमती ।
कुबेराणां सङ्घोऽप्ययमतितरां प्रह्नहृदयो
निधीनां साहित्यैर्मयि सृजति सौहित्यरचनाम् ।। 67।।
इमा दिव्यास्तास्ता यमनियमकोटिव्रतशतैः
समाराध्या विद्या अपि नववधूयावकशुभाः ।
क्रमन्ते मां मातस्तव चरणपार्श्वे स्थितिजुषं
प्रति प्रीत्यालीढा नवरसझरीभिर्वितमसम् ।। 68।।
समाराध्या विद्या अपि नववधूयावकशुभाः ।
क्रमन्ते मां मातस्तव चरणपार्श्वे स्थितिजुषं
प्रति प्रीत्यालीढा नवरसझरीभिर्वितमसम् ।। 68।।
अमूषां सिद्धीनां पदकमलकिञ्जल्करजसां
यथा, मातः! पातः प्रभवति न मां संक्षपयितुम् ।
सुधाम्भोधौ लीनान् क्व नु विपुलपीनाञ् जललवा
घनोन्मुक्ता मीनान् ग्लपयितुमलम्भूष्णव इमे ।। 69।।
यथा, मातः! पातः प्रभवति न मां संक्षपयितुम् ।
सुधाम्भोधौ लीनान् क्व नु विपुलपीनाञ् जललवा
घनोन्मुक्ता मीनान् ग्लपयितुमलम्भूष्णव इमे ।। 69।।
करयुगमुकुलैर्ललाटिकायां प्रतिनियतैरयमेष डिम्भकस्ते ।
चरणतलमुपेयिवानिदानीं जननि! विमुक्तिभुजिष्ययाऽप्यगम्यः।। 70।।
चरणतलमुपेयिवानिदानीं जननि! विमुक्तिभुजिष्ययाऽप्यगम्यः।। 70।।
कदाचित् कारुण्यं फलति तव मातः शिवतया
कदाचिन्नाकानामधिपति-परश्री-तनुतया ।
कदाचिद् वैरिञ्चोदरघटितविश्वात्मकतये-
त्यहो विश्वोत्तीर्णस्तव जननि माहात्म्यगरिमा ।। 71।।
कदाचिन्नाकानामधिपति-परश्री-तनुतया ।
कदाचिद् वैरिञ्चोदरघटितविश्वात्मकतये-
त्यहो विश्वोत्तीर्णस्तव जननि माहात्म्यगरिमा ।। 71।।
बिम्बेन प्रतिबिम्बयोरुदधिना कल्लोलयोस्तेजसा
सूर्याचन्द्रमसोः स्वरेण च यथा साहित्यसंगीतयोः ।
तत्तत्त्वेन परात्परेण शिवयोरद्वैतमुत्पश्यतां
व्याहारव्यवहारयो रसमयीं सृष्टिं कवीनां नुमः ।। 72।।
सूर्याचन्द्रमसोः स्वरेण च यथा साहित्यसंगीतयोः ।
तत्तत्त्वेन परात्परेण शिवयोरद्वैतमुत्पश्यतां
व्याहारव्यवहारयो रसमयीं सृष्टिं कवीनां नुमः ।। 72।।
अभेदभेदोभयभिन्नगात्रीं प्रपञ्चमूर्त्त्या च परिस्फुरन्तीम् ।
पराम्बिकां वा प्रणमामि काञ्चिन्नैयायिकानां प्रतियोगितां वा ।। 73।।
पराम्बिकां वा प्रणमामि काञ्चिन्नैयायिकानां प्रतियोगितां वा ।। 73।।
सापेक्षतामात्रमुपाश्रितानामिदन्तदाकारतयाञ्चितानाम् ।
मयूरतद्वर्णसमानसीम्नां नमामि भूम्नां तनुमेकरूपाम्।। 74।।
मयूरतद्वर्णसमानसीम्नां नमामि भूम्नां तनुमेकरूपाम्।। 74।।
रे दण्डिनो! यदिह दर्शनमस्ति मिथ्यै-
वैष प्रपञ्च इति सा प्रतिसर्गभाषा ।
सर्गप्रयोगनिपुणेषु नटेषु या वै
लीला, रसप्रसविनी, कविता तु सा नः।। 75।।
वैष प्रपञ्च इति सा प्रतिसर्गभाषा ।
सर्गप्रयोगनिपुणेषु नटेषु या वै
लीला, रसप्रसविनी, कविता तु सा नः।। 75।।
सत्यस्तुषारपृथिवीधर! वर्त्तसे चेद्
भागीरथी न भवतो न समानधर्मा ।
एकत्र भक्तिमपरत्र विरक्तिमेते
शिक्ष्यामहे यदि विचारय कुत्र लाभः ।। 76।।
भागीरथी न भवतो न समानधर्मा ।
एकत्र भक्तिमपरत्र विरक्तिमेते
शिक्ष्यामहे यदि विचारय कुत्र लाभः ।। 76।।
पश्यन्तिकाभूयमियं परैव यथा परैवैति च मध्यमात्वम् ।
तथैव मातस्त्वयि पक्षपातः प्रबुध्यतेऽस्मासु तव क्रियासु ।। 77।।
तथैव मातस्त्वयि पक्षपातः प्रबुध्यतेऽस्मासु तव क्रियासु ।। 77।।
त्वं शुम्भहन्त्री महिषासुरघ्नी त्वं त्वं हि मातः शिवदूतिकासि।
त्वं रक्तबीजाणुपरीक्षणासु ध्वंसं समुद्ध्वंसयितुं क्षमासि।। 78।।
त्वं रक्तबीजाणुपरीक्षणासु ध्वंसं समुद्ध्वंसयितुं क्षमासि।। 78।।
सर्पापसर्प नहि रज्जुतनौ त्वमासी
र्नो वा भविष्यसि तमःप्रतिभासमूर्त्ते!
रज्जो! वधान धृतिमाशु तवाऽपलाप-
वार्त्ताप्यपैति परमार्थतया स्थितायाः ।। 79।।
र्नो वा भविष्यसि तमःप्रतिभासमूर्त्ते!
रज्जो! वधान धृतिमाशु तवाऽपलाप-
वार्त्ताप्यपैति परमार्थतया स्थितायाः ।। 79।।
तस्य स्थावरपार्थिवस्य शिखरादाविर्भवन्तीमिमां
वाग्देवीं श्रवसोर्नभस्तल इयं कृत्वा स्थिरामिन्दिरा ।
नैवाकाङ्क्षदिलां न वा दिवमहंभावेन रिक्ताऽप्यलं-
भावाढ्या कवितेव काचिदुदिताद्वैता रसैरान्तरैः ।। 80।।
वाग्देवीं श्रवसोर्नभस्तल इयं कृत्वा स्थिरामिन्दिरा ।
नैवाकाङ्क्षदिलां न वा दिवमहंभावेन रिक्ताऽप्यलं-
भावाढ्या कवितेव काचिदुदिताद्वैता रसैरान्तरैः ।। 80।।
देवीं तामभिनन्द्य वन्दितपदां ब्रह्मर्षिभिर्नेहरू-
विप्राणां कुलदेवतामगणितैश्वर्यैर्बलीनां शतैः ।
वैराग्येण युतेन्दिरा पुनरगाद् दिल्लीं मतल्लीं पुरां
सर्वासामपि कान्दिशीकिततया तत्र क्षणे तस्थुषीम् ।। 81।।
विप्राणां कुलदेवतामगणितैश्वर्यैर्बलीनां शतैः ।
वैराग्येण युतेन्दिरा पुनरगाद् दिल्लीं मतल्लीं पुरां
सर्वासामपि कान्दिशीकिततया तत्र क्षणे तस्थुषीम् ।। 81।।
सम्यक् संबुद्धबुद्धाऽप्यभवदथ मही वैद्यनाथेश्वरस्य
प्रान्ते हिंसापिशाच्या कवलितजनता न्यायमाश्रित्य मात्स्यम् ।
सोढुं तन्नाशकत् सा कलभकरभयोः प्रावृषेण्येऽपि रूढा
काले द्रष्टुं विविग्नाननलस-हृदया बभ्रमीति स्म साश्रुः ।। 82।।
प्रान्ते हिंसापिशाच्या कवलितजनता न्यायमाश्रित्य मात्स्यम् ।
सोढुं तन्नाशकत् सा कलभकरभयोः प्रावृषेण्येऽपि रूढा
काले द्रष्टुं विविग्नाननलस-हृदया बभ्रमीति स्म साश्रुः ।। 82।।
कारुण्येन, विनाऽपि हेतुमुदयत्तारुण्यपूरेण सा
दीर्घाक्षी कमलानना च विशदां यां बाष्पमालां दधौ ।
सौभाग्येन जिगाय सा भगवतीं वाल्मीकिधाम्नि स्थितां
सीतामश्रुमुखीं सुतद्वयमुखादाकर्ण्य रामायणम् ।। 83।।
दीर्घाक्षी कमलानना च विशदां यां बाष्पमालां दधौ ।
सौभाग्येन जिगाय सा भगवतीं वाल्मीकिधाम्नि स्थितां
सीतामश्रुमुखीं सुतद्वयमुखादाकर्ण्य रामायणम् ।। 83।।
शौर्य्यं, धैर्य्यं नु चित्ते वसति सुमनसां व्यष्टयस्तत्र तत्त-
ज्जात्याक्रान्ता न मानं सह विभववयोवंशवर्णादिभेदैः ।
मौतीलालेस्तनूजाऽप्यकृपणधिषणा साऽसहिष्टैकलापि
प्रत्यग्रान् संनिपातानधिभरतधरं चण्डिकेव भ्रमन्ती ।। 84।।
ज्जात्याक्रान्ता न मानं सह विभववयोवंशवर्णादिभेदैः ।
मौतीलालेस्तनूजाऽप्यकृपणधिषणा साऽसहिष्टैकलापि
प्रत्यग्रान् संनिपातानधिभरतधरं चण्डिकेव भ्रमन्ती ।। 84।।
मूर्च्छत्कालान्धकारे वियति शितितमे भाद्रदर्शस्य पूर्त्तौ
नैराश्यस्याग्रयाभावं सरभसमुरुधा मृद्नतः कापि लेखा ।
आशायां पश्चिमस्यां विसगुणमसृणा विश्वनेत्रे सुधायाः
प्राग्भाराँस्तन्वती या समुदयमयते तां ह्यसावन्वहार्षीत् ।। 85।।
नैराश्यस्याग्रयाभावं सरभसमुरुधा मृद्नतः कापि लेखा ।
आशायां पश्चिमस्यां विसगुणमसृणा विश्वनेत्रे सुधायाः
प्राग्भाराँस्तन्वती या समुदयमयते तां ह्यसावन्वहार्षीत् ।। 85।।
तां तस्या धृतिमसहिष्ट साहसिक्य-
पर्य्यायीभवदनुभावभूमिमेका ।
दुर्गाम्बा विधृतकरालमण्डलाग्रा
हन्तुं या प्रसभमियेष रक्तबीजम् ।। 86।।
पर्य्यायीभवदनुभावभूमिमेका ।
दुर्गाम्बा विधृतकरालमण्डलाग्रा
हन्तुं या प्रसभमियेष रक्तबीजम् ।। 86।।
तां चण्डमुण्डशिरसी स्रवदस्रवेणी
माणिक्यहारयुगलीमिव संदधाना ।
चामुण्डिका भगवती निभृतं निविश्याऽ-
मुष्मिन् क्षणे निवसतीति बुधैर्व्यभावि ।। 87।।
माणिक्यहारयुगलीमिव संदधाना ।
चामुण्डिका भगवती निभृतं निविश्याऽ-
मुष्मिन् क्षणे निवसतीति बुधैर्व्यभावि ।। 87।।
इति ‘स्वातन्य्र्दसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ
‘शक्तिलाभो’ नाम पञ्चविंशः सर्गः।। 25।।
त्रैलोक्यलक्ष्म्याः सुभगे ललाटे सिन्दूरलेखामिव तां धयन्तः।
तृप्तिं न विन्दन्ति जनाः स्म धात्र्यां माङ्गल्यधारामिव संस्रवन्तीम्।। 1।।
तृप्तिं न विन्दन्ति जनाः स्म धात्र्यां माङ्गल्यधारामिव संस्रवन्तीम्।। 1।।
आश्वासनानां महतां प्रमाणं महत्तमं तन्मुखमम्बुजाक्षम्।
निपीय नेत्रैरपि जर्जराणां मनांसि नो निर्जरतां न भेजुः।। 2।।
निपीय नेत्रैरपि जर्जराणां मनांसि नो निर्जरतां न भेजुः।। 2।।
सौन्दर्यधारेव समुच्छलन्ती कश्मीरधात्र्या भुवि मानुषाणाम्।
न नापरागं जनयाम्बभूव दिवौकसां सा दिवि तच्च्युतानाम्।। 3।।
न नापरागं जनयाम्बभूव दिवौकसां सा दिवि तच्च्युतानाम्।। 3।।
तां सुस्थसर्वावयवां प्रदीप्त्या व्याप्ताङ्गलक्ष्मीं चकमे परा श्रीः।
ओजःप्रसादोपहितां कवीनां वाणीं नु सौभाग्यविशेषसम्पत्।। 4।।
ओजःप्रसादोपहितां कवीनां वाणीं नु सौभाग्यविशेषसम्पत्।। 4।।
अस्मिन् क्षणे भगवतीं प्रियदर्शिनीं तां
दृष्ट्वाऽऽर्त्तिनोदनपटुं स्मरति स्म लोकः ।
चान्द्रीं कलां त्रिपथगामिव नित्यलग्नां
प्रालेयभूधरसुतादयितस्य शीर्षे ।। 5।।
दृष्ट्वाऽऽर्त्तिनोदनपटुं स्मरति स्म लोकः ।
चान्द्रीं कलां त्रिपथगामिव नित्यलग्नां
प्रालेयभूधरसुतादयितस्य शीर्षे ।। 5।।
राजीवसञ्जययुता विगताऽधिकारा
राराजते स्म ननु सा तरसा ज्वलन्ती ।
वाल्मीकिधामनि विवासघटीं नयन्ती
वैखानसी कुश-लवानुगतेव सीता ।। 6।।
राराजते स्म ननु सा तरसा ज्वलन्ती ।
वाल्मीकिधामनि विवासघटीं नयन्ती
वैखानसी कुश-लवानुगतेव सीता ।। 6।।
तां साम्प्रतं दुहितरं क्रथकैशिकानां
मन्यामहे विरहिताऽखिलदीर्घवृत्तेः ।
रीतिर्विदर्भधरणीजनिता वचःसु
यस्या विराजतितरां स्म सुधाग्रजेव ।। 7।।
मन्यामहे विरहिताऽखिलदीर्घवृत्तेः ।
रीतिर्विदर्भधरणीजनिता वचःसु
यस्या विराजतितरां स्म सुधाग्रजेव ।। 7।।
याता कुहूः, पुनरसौ प्रतिपत् सुधांशो-
स्तास्ताः कलाः कलयितुं महसा चकास्ति ।
भाद्रे पदेऽपि जलदावलिसंवृताऽपि
ज्योत्स्ना प्रपूरयति नो न नभः सुधाभिः ।। 8।।
स्तास्ताः कलाः कलयितुं महसा चकास्ति ।
भाद्रे पदेऽपि जलदावलिसंवृताऽपि
ज्योत्स्ना प्रपूरयति नो न नभः सुधाभिः ।। 8।।
या वै क्षुमाकुसुमनीलिमनि स्वकीयै-
र्मात्सर्य्यमासृजति पुष्पभरैर्दलैश्च ।
छेदान् विहस्य शतधा प्रविवर्धमानां
रोद्धुं क्षमेत खलु तामपराजितां कः ।। 9।।
र्मात्सर्य्यमासृजति पुष्पभरैर्दलैश्च ।
छेदान् विहस्य शतधा प्रविवर्धमानां
रोद्धुं क्षमेत खलु तामपराजितां कः ।। 9।।
व्योम्नस्तलादपि विनापि मृदादि या वै
ग्रीष्मेऽपि मुञ्चतितरां बृहतः प्रतानान् ।
पञ्चालजा-वसनभूयसमृद्धसारां
कस्तां कृती भवति हैमवतीं निकृन्तन् ।। 10।।
ग्रीष्मेऽपि मुञ्चतितरां बृहतः प्रतानान् ।
पञ्चालजा-वसनभूयसमृद्धसारां
कस्तां कृती भवति हैमवतीं निकृन्तन् ।। 10।।
गर्जत्स्वपि प्रलयवारिधरावलीनां
व्यूहेषु शाम्भवमुपास्य महः स्रवन्तीम् ।
कः शर्मदां भगवतीं नृषु नर्मदाम्बां
सद्भूयतो रहयितुं क्षमतां त्रिलोक्याम् ।। 11।।
व्यूहेषु शाम्भवमुपास्य महः स्रवन्तीम् ।
कः शर्मदां भगवतीं नृषु नर्मदाम्बां
सद्भूयतो रहयितुं क्षमतां त्रिलोक्याम् ।। 11।।
पार्श्वे शिवा भवति यस्य वटी गरुत्मत्-
तुल्याभ्रसंपतनशक्तिरिमं क ईष्टाम् ।
न्यक्कर्त्तुमत्र भुवनावलिषु त्रिसन्ध्यं
व्यावर्त्तमानविभवासु शिवोऽपि भूत्वा ।। 12।।
तुल्याभ्रसंपतनशक्तिरिमं क ईष्टाम् ।
न्यक्कर्त्तुमत्र भुवनावलिषु त्रिसन्ध्यं
व्यावर्त्तमानविभवासु शिवोऽपि भूत्वा ।। 12।।
यां वै मुरारिमुरली खुरलीं तनोति
नित्यां विकर्त्तनसुतातटवीथिकासु ।
तां किं तिरस्कृततिरस्करिणीसहस्रां
साम्वर्त्तिकोऽपि सहते पवमानवेगः ।। 13।।
नित्यां विकर्त्तनसुतातटवीथिकासु ।
तां किं तिरस्कृततिरस्करिणीसहस्रां
साम्वर्त्तिकोऽपि सहते पवमानवेगः ।। 13।।
सारः पृथग् भवति सारवतामसृक्षु
कश्चिच्चमत्कृतिविताननिचोलितेषु ।
येनाप्य घर्षणमपि त्रिदशाधिनाथ-
स्तम्बेरमावलिरुपद्रुतिमेव धत्ते ।। 14।।
कश्चिच्चमत्कृतिविताननिचोलितेषु ।
येनाप्य घर्षणमपि त्रिदशाधिनाथ-
स्तम्बेरमावलिरुपद्रुतिमेव धत्ते ।। 14।।
संसार एष परभागगुणो गुणाना-
मुच्चावचत्वमवतां नवतां दधानः ।
यो वै पुरा चमदचीकरदद्य तस्मिन्
किं वा न जाग्रति चमत्कृतिपाटवानि ।। 15।।
मुच्चावचत्वमवतां नवतां दधानः ।
यो वै पुरा चमदचीकरदद्य तस्मिन्
किं वा न जाग्रति चमत्कृतिपाटवानि ।। 15।।
उत्क्रोशमेव मृगयुर्विनिहन्ति तार-
तारं रटन्तमिह कर्णकटुं सरस्सु ।
हंसेषु सारसनतां वचसां सवित्र्या
यातेषु किन्तु न न सोऽपि निबद्धभावः ।। 16।।
तारं रटन्तमिह कर्णकटुं सरस्सु ।
हंसेषु सारसनतां वचसां सवित्र्या
यातेषु किन्तु न न सोऽपि निबद्धभावः ।। 16।।
सांसारिकेषु विधिषु प्रतिभानभाजा-
मग्रेसरन्ति सुधियः खलु ये नुमस्तान् ।
सांसारिकास्तु विधयः प्रतिभानभाजो
यान् स्वामिवत् परिचरन्ति भवन्ति तेऽन्ये ।। 17।।
मग्रेसरन्ति सुधियः खलु ये नुमस्तान् ।
सांसारिकास्तु विधयः प्रतिभानभाजो
यान् स्वामिवत् परिचरन्ति भवन्ति तेऽन्ये ।। 17।।
देवीन्दिरा पथिकृतां पथि जागरूका
पुण्यात्मनां हि पदवीं भजति स्म धन्याम् ।
विन्ते स्म सा न खलु दैन्यमथो न काञ्चिद्
ग्लानिं विपर्य्ययमये समयेऽपि तस्मात् ।। 18।।
पुण्यात्मनां हि पदवीं भजति स्म धन्याम् ।
विन्ते स्म सा न खलु दैन्यमथो न काञ्चिद्
ग्लानिं विपर्य्ययमये समयेऽपि तस्मात् ।। 18।।
तां वङ्गभूविघटनाकुपितः स पाकः
पञ्चापभूमिजनतां क्रथयँश्चिखेद ।
क्षीणो रिपुर्बत पराजयविप्रियाणि
न प्रत्यनीकविधया न निराकरोति ।। 19।।
पञ्चापभूमिजनतां क्रथयँश्चिखेद ।
क्षीणो रिपुर्बत पराजयविप्रियाणि
न प्रत्यनीकविधया न निराकरोति ।। 19।।
तस्मिन् क्षणे जनतया भरतस्य भूमौ
पारिप्लवा पयसि सा वरटाऽन्वकारि ।
यां विप्रतीपपवनोत्पतितास्तरङ्ग-
भङ्गाः शरद्व्यपगमेषु निपीडयन्ते ।। 20।।
पारिप्लवा पयसि सा वरटाऽन्वकारि ।
यां विप्रतीपपवनोत्पतितास्तरङ्ग-
भङ्गाः शरद्व्यपगमेषु निपीडयन्ते ।। 20।।
ते केचिदेव हि भवन्ति वचोऽधिदेव्याः
सङ्गीतकेषु दधते चतुरस्रतां ये ।
अन्ये पुनश्चरणनूपुरकिङ्किणीना-
माहार्य्यमात्रवलनेऽपि दरिद्रतीह ।। 21।।
सङ्गीतकेषु दधते चतुरस्रतां ये ।
अन्ये पुनश्चरणनूपुरकिङ्किणीना-
माहार्य्यमात्रवलनेऽपि दरिद्रतीह ।। 21।।
आन्दोलनं च गणतन्त्रनियन्त्रणं च
भिन्नात्मकं हि विबुधाः परिभावयन्ते ।
क्रुद्धैः स्वरैश्च गगनोदरभेदनानि
युद्धेषु टैङ्करणितानि च नैक्यभाञ्जि ।। 22।।
भिन्नात्मकं हि विबुधाः परिभावयन्ते ।
क्रुद्धैः स्वरैश्च गगनोदरभेदनानि
युद्धेषु टैङ्करणितानि च नैक्यभाञ्जि ।। 22।।
व्याख्यानकौशलमथो विनियोगदाक्ष्यं
भिन्नं खलु द्वितयमेतदिह प्रकृत्या ।
कीरे गरुत्मति च पक्षिकुलोद्भवत्वे
तुल्येऽपि शेषति कथास्वनयोर्न भेदः।। 23।।
भिन्नं खलु द्वितयमेतदिह प्रकृत्या ।
कीरे गरुत्मति च पक्षिकुलोद्भवत्वे
तुल्येऽपि शेषति कथास्वनयोर्न भेदः।। 23।।
सर्वेऽपि हन्त पशवश्चरणैश्चतुर्भि-
र्युक्ता भवन्ति, न भजन्ति परन्त्वभेदम् ।
श्वानं रथेषु रथिकः क इवाभियोक्तुं
जायेत वाजिनमपास्य धृतप्रतिज्ञः।। 24।।
र्युक्ता भवन्ति, न भजन्ति परन्त्वभेदम् ।
श्वानं रथेषु रथिकः क इवाभियोक्तुं
जायेत वाजिनमपास्य धृतप्रतिज्ञः।। 24।।
मुक्ताफलानि न बहूनि, बहूनि सन्ति
लोकेऽत्र कानिचन तत्प्रतियातनानि ।
तत्रोभयत्र मनुतां क इवाभियुक्त-
स्तादात्म्यमुज्झित-परस्पर-भेदभित्ति ।। 25।।
लोकेऽत्र कानिचन तत्प्रतियातनानि ।
तत्रोभयत्र मनुतां क इवाभियुक्त-
स्तादात्म्यमुज्झित-परस्पर-भेदभित्ति ।। 25।।
इन्द्रोऽपि यं परिचचार चचार यस्मिन्
दाशो नु वायुरपि तं महिषाभिधानम् ।
दैत्यं जिहिंस खलु का प्रविहाय शक्तिं
संघात्मिकामदितिसूनुषु संस्फुरन्तीम् ।। 26।।
दाशो नु वायुरपि तं महिषाभिधानम् ।
दैत्यं जिहिंस खलु का प्रविहाय शक्तिं
संघात्मिकामदितिसूनुषु संस्फुरन्तीम् ।। 26।।
तां संघशक्तिमधुना द्रविणस्य वर्षै-
र्लोकोत्तरैरथ च कैश्चन नीतिमार्गैः ।
देवीन्दिरैव कथमप्युपपादयन्ती
विद्योतते स्म भगवत्कृपयाऽत्र राष्ट्रे ।। 27।।
र्लोकोत्तरैरथ च कैश्चन नीतिमार्गैः ।
देवीन्दिरैव कथमप्युपपादयन्ती
विद्योतते स्म भगवत्कृपयाऽत्र राष्ट्रे ।। 27।।
चैत्रेऽरविन्द-मकरन्द-मधुप्रसिक्तं
वेशन्तवायुमिव तथ्यमिदं तदानीम् ।
को नाम नान्वभवदीक्षणयुग्मकोणे-
ष्वाकुञ्चनानि दधतां प्रवरो मनीषी।। 28।।
वेशन्तवायुमिव तथ्यमिदं तदानीम् ।
को नाम नान्वभवदीक्षणयुग्मकोणे-
ष्वाकुञ्चनानि दधतां प्रवरो मनीषी।। 28।।
रामे गते वनमिमामवनिज्य नेत्रे
को वाऽवनिं न भरतोऽवति भारतेषु ।
श्रद्धाय तत्र कुरुते निजधर्मपूर्त्तिं
को वा न सा खलु समाजसृतिः पुराणी ।। 29।।
को वाऽवनिं न भरतोऽवति भारतेषु ।
श्रद्धाय तत्र कुरुते निजधर्मपूर्त्तिं
को वा न सा खलु समाजसृतिः पुराणी ।। 29।।
भिन्नेषु नेतृषु परेषु परस्पराधि-
क्षेपोपजाप-परता-कलुषीकृतेषु ।
मार्गेण केनचिदपि क्षमते य एव
गोपायितुं स्वमिह राष्ट्रमसौ हि वन्द्यः ।। 30।।
क्षेपोपजाप-परता-कलुषीकृतेषु ।
मार्गेण केनचिदपि क्षमते य एव
गोपायितुं स्वमिह राष्ट्रमसौ हि वन्द्यः ।। 30।।
सैंही न पश्यति दृगन्यबलं बलेन
स्वीयेन शत्रुषु दृढं क्रमितुं प्रसिद्धा ।
ओजश्चितेस्तनुभृतां करणव्रजीया-
न्योजांस्यवाङ्मुखमुखानि न नो विधत्ते ।। 31।।
स्वीयेन शत्रुषु दृढं क्रमितुं प्रसिद्धा ।
ओजश्चितेस्तनुभृतां करणव्रजीया-
न्योजांस्यवाङ्मुखमुखानि न नो विधत्ते ।। 31।।
कार्यं न साधयति या न हि तामिदानीं
नीतिं वदन्ति नृपनीतिरिति व्रतिष्ठाः ।
युक्ता बभूव समयोचितनीतिरीति-
निर्णीतिषु प्रतिभया तु तदेन्दिरैव ।। 32।।
नीतिं वदन्ति नृपनीतिरिति व्रतिष्ठाः ।
युक्ता बभूव समयोचितनीतिरीति-
निर्णीतिषु प्रतिभया तु तदेन्दिरैव ।। 32।।
गात्रेषु नर्त्तनपरेष्ववरेषु पात्रं
मानस्य नेत्रयुगलीगतिरेव सद्भ्यः ।
सांसारिके व्यतिकरेऽप्यतिशीतिधन्यां व्यक्तिं
समष्टिरुरुरीकुरुते प्रकृत्या ।। 33।।
मानस्य नेत्रयुगलीगतिरेव सद्भ्यः ।
सांसारिके व्यतिकरेऽप्यतिशीतिधन्यां व्यक्तिं
समष्टिरुरुरीकुरुते प्रकृत्या ।। 33।।
भ्रान्तो दिशां चतसृणामपि काननानां
भूमीरुहेषु पुनरेति पिको रसालम् ।
आस्वादिताद्भुतचमत्कृतिरेष लोकोऽ-
प्यन्यत्र कुत्रचिदपि क्रमते न रन्तुम् ।। 34।।
भूमीरुहेषु पुनरेति पिको रसालम् ।
आस्वादिताद्भुतचमत्कृतिरेष लोकोऽ-
प्यन्यत्र कुत्रचिदपि क्रमते न रन्तुम् ।। 34।।
नायोधनेषु विजयेन, धनेष्वसंख्ये-
यत्वेन वापि धृतिमेति समष्टिसंस्था ।
जागर्त्ति यत्र हृदयाभिधमक्षि सूक्ष्म-
दर्शि स्वतः परपरीक्षणदक्षताढ्यम् ।। 35।।
यत्वेन वापि धृतिमेति समष्टिसंस्था ।
जागर्त्ति यत्र हृदयाभिधमक्षि सूक्ष्म-
दर्शि स्वतः परपरीक्षणदक्षताढ्यम् ।। 35।।
स्पर्शः स कश्चन चितेरधिकारिभेदे
प्रामाणिकत्वमुपयाति यतः स्फुरन्ति ।
कुन्दप्रभा विधुकरा इव कार्त्तिकीषु
श्यामासु शुद्धिमहिताः खलु संप्रसादाः ।। 36।।
प्रामाणिकत्वमुपयाति यतः स्फुरन्ति ।
कुन्दप्रभा विधुकरा इव कार्त्तिकीषु
श्यामासु शुद्धिमहिताः खलु संप्रसादाः ।। 36।।
विश्वेश्वरस्य निटिले यदिदं तृतीयं
चक्षुर्य एष च तदीय उरुः प्रकाशः ।
आभ्यां समष्टिहृदयानि समेधितानि
तिष्ठन्ति, देशिकतया प्रतिभासिताभ्याम् ।। 37।।
चक्षुर्य एष च तदीय उरुः प्रकाशः ।
आभ्यां समष्टिहृदयानि समेधितानि
तिष्ठन्ति, देशिकतया प्रतिभासिताभ्याम् ।। 37।।
वेवेक्ति किं न पशुरप्यपराजितान्तः-
संविद्विलोचन उपस्थितमत्र वस्तु ।
यो वै परात्परविभुप्रतिबिम्बमूर्त्ति-
स्तस्यात्र का खलु कथा मनुजाह्नयस्य ।। 38।।
संविद्विलोचन उपस्थितमत्र वस्तु ।
यो वै परात्परविभुप्रतिबिम्बमूर्त्ति-
स्तस्यात्र का खलु कथा मनुजाह्नयस्य ।। 38।।
भुङ्क्ते च यः खलु भुनक्ति च यो न भोगौ
सच्छाब्दिकाः परिमृशन्ति तयोरभिन्नौ ।
अप्राकृता न न विदन्ति विवक्षितार्थ-
भिन्नां श्रुतिं क्व खलु सङ्करशङ्करोक्त्योः ।। 39।।
सच्छाब्दिकाः परिमृशन्ति तयोरभिन्नौ ।
अप्राकृता न न विदन्ति विवक्षितार्थ-
भिन्नां श्रुतिं क्व खलु सङ्करशङ्करोक्त्योः ।। 39।।
व्यक्तिं सभक्तिमुपलालयतां क्व दृष्टा
सिद्धिर्वचःस्वपि विना बत शक्तिमाद्याम् ।
प्रामाणिकं खलु वचः प्रथगेव किञ्चित्
स्वैराभिधानजलदध्वननावलीभ्यः ।। 40।।
सिद्धिर्वचःस्वपि विना बत शक्तिमाद्याम् ।
प्रामाणिकं खलु वचः प्रथगेव किञ्चित्
स्वैराभिधानजलदध्वननावलीभ्यः ।। 40।।
मीमांसका विधिनिषेधविवेकशुद्ध्या
मुग्धां श्रुतिं यजनकर्मसु भावयन्ते ।
मूर्च्छन्ति नैषु कविताशबरीकटाक्ष-
स्याद्वादमज्जिमगुणाः सृतयस्तुरीयाः ।। 41।।
मुग्धां श्रुतिं यजनकर्मसु भावयन्ते ।
मूर्च्छन्ति नैषु कविताशबरीकटाक्ष-
स्याद्वादमज्जिमगुणाः सृतयस्तुरीयाः ।। 41।।
काव्यं करोति मदिरां च हृदि स्थिरायां
यः सन्निपातयति कश्चन शारदायाम् ।
स प्राड्विवाकतु कथं नु नयाधिकारे
निर्मक्षिकं सदसतोर्व्यतिभेदनासु ।। 42।।
यः सन्निपातयति कश्चन शारदायाम् ।
स प्राड्विवाकतु कथं नु नयाधिकारे
निर्मक्षिकं सदसतोर्व्यतिभेदनासु ।। 42।।
मञ्चः पृथग् भवति यत्र विराजमानाः
स्वेनैव निर्मिततनौ प्रलपन्ति धृष्टाः।
धर्माधिकारकलनाय विधीयमानं
पीठं तु धन्यधिषणा हि विभूषयन्ते ।। 43।।
स्वेनैव निर्मिततनौ प्रलपन्ति धृष्टाः।
धर्माधिकारकलनाय विधीयमानं
पीठं तु धन्यधिषणा हि विभूषयन्ते ।। 43।।
वेशन्तकाः खलु भवन्ति पृथग्विधास्ते
यानाश्रयन्ति ननु रोहित-राजिलाद्याः ।
पाठीनकच्छप-फणीश्वर-राघवाणां
निर्व्यूढिसासहिधुरन्धरता क्व तेषाम्।। 44।।
यानाश्रयन्ति ननु रोहित-राजिलाद्याः ।
पाठीनकच्छप-फणीश्वर-राघवाणां
निर्व्यूढिसासहिधुरन्धरता क्व तेषाम्।। 44।।
गव्यूतिमात्रगतिकान् वडवातनूजान्
उच्चैःश्रवः-शतमखादिविनिन्दकान् ये ।
आश्रित्य तोषमुपयन्ति कुशीलवेभ्य-
स्तेभ्यो विनोदपरमेभ्य इमे नताः स्मः ।। 45।।
उच्चैःश्रवः-शतमखादिविनिन्दकान् ये ।
आश्रित्य तोषमुपयन्ति कुशीलवेभ्य-
स्तेभ्यो विनोदपरमेभ्य इमे नताः स्मः ।। 45।।
अन्धुं हि बन्धवति यो न तु सिन्धुधारां
तीर्थानि तीर्थयितुमुत्सविनीमधन्यः ।
तस्मै शुचौ महति पीवरगात्रकस्य
बालेयकस्य सुहृदेऽञ्जलयोऽस्मदीयाः ।। 46।।
तीर्थानि तीर्थयितुमुत्सविनीमधन्यः ।
तस्मै शुचौ महति पीवरगात्रकस्य
बालेयकस्य सुहृदेऽञ्जलयोऽस्मदीयाः ।। 46।।
इत्थं कविः कवयति स्म तदा विषादै-
र्व्याघूर्णमानहृदयो भरतस्य राष्ट्रे ।
अप्रातिभासिकहृदुच्छ्वसितेषु काव्ये-
ष्वाविष्क्रियां स्पृहयते स्वत एव सत्यम् ।। 47।।
र्व्याघूर्णमानहृदयो भरतस्य राष्ट्रे ।
अप्रातिभासिकहृदुच्छ्वसितेषु काव्ये-
ष्वाविष्क्रियां स्पृहयते स्वत एव सत्यम् ।। 47।।
सत्यानृतद्वय-पराद्वय-संकरोत्थान्
भावान् यदि स्पृशति चेत् कपिकच्छुकोच्चैः ।
वेदान्तिनो न, कवयो हि समुत्सहन्ते
सत्यं तदुत्थमुपलम्भयितुं वचांसि ।। 48।।
भावान् यदि स्पृशति चेत् कपिकच्छुकोच्चैः ।
वेदान्तिनो न, कवयो हि समुत्सहन्ते
सत्यं तदुत्थमुपलम्भयितुं वचांसि ।। 48।।
या कान्दिशीकति विषज्वलनाभिमुख्ये
सा शाम्भवी न कविता, स कवेः कलङ्कः ।
या वै निगीर्य्य गरलानि समाधिभाषा-
माविष्करोति कविता खलु सा, शिवौ सा ।। 49।।
सा शाम्भवी न कविता, स कवेः कलङ्कः ।
या वै निगीर्य्य गरलानि समाधिभाषा-
माविष्करोति कविता खलु सा, शिवौ सा ।। 49।।
काव्यञ्च संकुचितचित्तविकस्वरत्व-
ञ्चापि प्रपूर्णविधुता च कुहूश्च नित्यम् ।
अन्योपमर्दपटुता च दयालुता च
मानुष्यकेऽपि जगति क्व नु वै सगन्धौ ।। 50।।
ञ्चापि प्रपूर्णविधुता च कुहूश्च नित्यम् ।
अन्योपमर्दपटुता च दयालुता च
मानुष्यकेऽपि जगति क्व नु वै सगन्धौ ।। 50।।
एवंविधेऽनृतवचोव्यवहारजुष्टे
दुष्टेऽतिमात्रमिह शात्रवभावकष्टे ।
लोकेऽत्र को नु नहि शोकपयोदकाल-
पाथःप्रवाहसरिति प्रसभं निमज्जेत् ।। 51।।
दुष्टेऽतिमात्रमिह शात्रवभावकष्टे ।
लोकेऽत्र को नु नहि शोकपयोदकाल-
पाथःप्रवाहसरिति प्रसभं निमज्जेत् ।। 51।।
यो वै प्रधानपदवीं गमितोऽपि निम्नां
दृष्टिं हि धारयति स्वेषु परेषु किंवा ।
प्राधान्यमस्य यमराजलुलायपृष्ठे
घातः कशाकुलिशसञ्जनितोऽविसह्यः ।। 52।।
दृष्टिं हि धारयति स्वेषु परेषु किंवा ।
प्राधान्यमस्य यमराजलुलायपृष्ठे
घातः कशाकुलिशसञ्जनितोऽविसह्यः ।। 52।।
लक्ष्मीं निरीक्ष्य ननु यो द्रवति प्रकामां
प्राकाम्यमस्य न विवेकविधौ महीयः ।
चारित्र्यमीक्ष्य तु शिरो नमयन्ति ये वै
ये वोन्नमन्ति न हिते तु जनाः अनेके ।। 53।।
प्राकाम्यमस्य न विवेकविधौ महीयः ।
चारित्र्यमीक्ष्य तु शिरो नमयन्ति ये वै
ये वोन्नमन्ति न हिते तु जनाः अनेके ।। 53।।
धैर्यं धरन्ति च विपत्सु, सरन्ति चाग्रे
ये केऽपि सत्त्वमहिता विरला महान्तः ।
तेषां गृहेऽप्युपवनेष्वपि वीथिमत्सु
रथ्यागृहेष्वपि सदा विलसन्ति लक्ष्म्यः ।। 54।।
ये केऽपि सत्त्वमहिता विरला महान्तः ।
तेषां गृहेऽप्युपवनेष्वपि वीथिमत्सु
रथ्यागृहेष्वपि सदा विलसन्ति लक्ष्म्यः ।। 54।।
ये वैभवेषु हि दृशो रमयन्ति नात्म-
तोषेषु कोषपरिपूरणवाणिजासु ।
तेषां मनांसि हि सदैव निमज्जितानि
तिष्ठन्ति कः स्वमिह कश्च परात्परः स्वः ।। 55।।
तोषेषु कोषपरिपूरणवाणिजासु ।
तेषां मनांसि हि सदैव निमज्जितानि
तिष्ठन्ति कः स्वमिह कश्च परात्परः स्वः ।। 55।।
यागा भवन्ति सफला विधिनैव पूर्णा
नो शैथिलीकलुषितेन मनागपीति ।
लक्षेण साध्यमपि निर्मितजातमर्धे-
नापूरयन्ति न हि ते कृतिनो द्विषस्ते ।। 56।।
नो शैथिलीकलुषितेन मनागपीति ।
लक्षेण साध्यमपि निर्मितजातमर्धे-
नापूरयन्ति न हि ते कृतिनो द्विषस्ते ।। 56।।
संजीवका यदि शृगालवचः श्रयन्ति
तृप्यन्ति तत्पिशितकैस्तु वनाधिराजाः ।
गर्त्तोन्मुखत्सु पतितेषु पतत्सु चापि
देवा अपि द्युतलतोऽशनिमुत्सृजन्ति ।। 57।।
तृप्यन्ति तत्पिशितकैस्तु वनाधिराजाः ।
गर्त्तोन्मुखत्सु पतितेषु पतत्सु चापि
देवा अपि द्युतलतोऽशनिमुत्सृजन्ति ।। 57।।
श्रीर्विष्णुमेव निजमाश्रयमुल्लिखन्ती
नान्यत्र तिष्ठति समुद्रसमुद्भवेयम् ।
व्याप्तिश्च तस्य, जलधेर्विभुतां दिशन्ती
ब्रूतः किमस्ति ननु भूमगुणश्चिदात्मा ।। 58।।
नान्यत्र तिष्ठति समुद्रसमुद्भवेयम् ।
व्याप्तिश्च तस्य, जलधेर्विभुतां दिशन्ती
ब्रूतः किमस्ति ननु भूमगुणश्चिदात्मा ।। 58।।
अन्तर्हितां हृदयकोषसमाश्रितां ये
नाकर्णयन्ति वचसामधिदेवतां ते ।
वीणागुणक्वणितमौपनिषन्महार्थ-
धिक्कारपात्रमपनीतचितो मनुष्याः ।। 59।।
नाकर्णयन्ति वचसामधिदेवतां ते ।
वीणागुणक्वणितमौपनिषन्महार्थ-
धिक्कारपात्रमपनीतचितो मनुष्याः ।। 59।।
उत्पुच्छवृश्चिकविषाङ्कुशदंशवंशान्
सोढ्वापि न व्यथयते यदि मण्डुकी तत् ।
का नाम शक्तिमनृतद्विषि शान्तचेत-
स्यध्यात्मनिष्ठहृदि शत्रुनिकारगाथा ।। 60।।
सोढ्वापि न व्यथयते यदि मण्डुकी तत् ।
का नाम शक्तिमनृतद्विषि शान्तचेत-
स्यध्यात्मनिष्ठहृदि शत्रुनिकारगाथा ।। 60।।
आयाति राक्षसबले महति प्रभूत-
मायेऽपि दाशरथिरस्ति पुरास्तरोषः ।
सीताकपोलमुकुरे परिपश्य बध्ना-
त्येष स्वशीर्षचिकुरानतिमात्रलम्बान् ।। 61।।
मायेऽपि दाशरथिरस्ति पुरास्तरोषः ।
सीताकपोलमुकुरे परिपश्य बध्ना-
त्येष स्वशीर्षचिकुरानतिमात्रलम्बान् ।। 61।।
वैषम्यदूषितकृतान्तकृकाटिकान्तः-
पातेन कीलितचितां ललितात्मनां ये ।
अग्रेसरन्ति च न च व्यथिता भवन्ति
तेभ्यो नमन्ति निखिलास्त्रिदिवौकसोऽपि ।। 62।।
पातेन कीलितचितां ललितात्मनां ये ।
अग्रेसरन्ति च न च व्यथिता भवन्ति
तेभ्यो नमन्ति निखिलास्त्रिदिवौकसोऽपि ।। 62।।
श्रुत्वा रुतिं न खलु फेरुजनाङ्गानानां
पञ्चाननेषु लभते द्रुतिरुत्थितिं वै ।
नोपेक्षते तु परमा ननु बृंहितानि
स्तम्बेरमाननसमुच्छलितानि सैव ।। 63।।
पञ्चाननेषु लभते द्रुतिरुत्थितिं वै ।
नोपेक्षते तु परमा ननु बृंहितानि
स्तम्बेरमाननसमुच्छलितानि सैव ।। 63।।
वैद्यः सुधां च गरलं च वशंवदत्व-
शुद्धया युतं निजकरे निदधाति किन्तु ।
निर्मत्सरः प्रशममग्नमनाश्च साधु-
स्तत्संप्रयोगमुपधावति पात्रमात्रे ।। 64।।
शुद्धया युतं निजकरे निदधाति किन्तु ।
निर्मत्सरः प्रशममग्नमनाश्च साधु-
स्तत्संप्रयोगमुपधावति पात्रमात्रे ।। 64।।
यः प्रातिवेशिकमुपद्रवणोच्चयं नो
गाम्भीर्यतः परिविवेचयते तदीयान् ।
वीक्षामहे बत सनातनधार्मिकास्तु
नाशानवश्यभवितव्यतया स्थिरान् वै ।। 65।।
गाम्भीर्यतः परिविवेचयते तदीयान् ।
वीक्षामहे बत सनातनधार्मिकास्तु
नाशानवश्यभवितव्यतया स्थिरान् वै ।। 65।।
येषां हिरण्यकशिपुक्षमताभृतां वै
प्रह्लादनेषु तनयेष्वपि शत्रुबुद्धिः ।
तान् नो हिनस्ति न नृसिंहवपुर्विधाय
देवश्चराचरनिरीक्षणदक्षदृष्टिः ।। 66।।
प्रह्लादनेषु तनयेष्वपि शत्रुबुद्धिः ।
तान् नो हिनस्ति न नृसिंहवपुर्विधाय
देवश्चराचरनिरीक्षणदक्षदृष्टिः ।। 66।।
काष्ठा इमाः प्रतिपदं खलु जागरूकाः
पश्यन्ति नः सितशितीनि तु चेष्टितानि ।
सत्पूरुषा इव फलन्ति तु तत्फलानि
भोक्तुं भवान् भवति यत्र तु बाध्यबाध्यः ।। 67।।
पश्यन्ति नः सितशितीनि तु चेष्टितानि ।
सत्पूरुषा इव फलन्ति तु तत्फलानि
भोक्तुं भवान् भवति यत्र तु बाध्यबाध्यः ।। 67।।
मृत्युः स्वतातमुपसीदति तस्य मूर्ध्नि
रूढान् प्रगृह्य चिकुरान् प्रहसन्मुखाब्जः ।
नाऽसौ क्षमोऽपलपितुं हृदि पीडयित्वा
स ह्येव नेष्यति निजालयमुख्यमन्ते ।। 68।।
रूढान् प्रगृह्य चिकुरान् प्रहसन्मुखाब्जः ।
नाऽसौ क्षमोऽपलपितुं हृदि पीडयित्वा
स ह्येव नेष्यति निजालयमुख्यमन्ते ।। 68।।
फूत्कृत्य भस्मनिचयं परिहृत्य वह्निं
यस्तेजयत्यतितरां च हवींषि हित्वा ।
यागाग्निरेष तव नाकसृतिं विशोध्य
गन्तुं प्रदास्यति न वा चरणौ तवैव ।। 69।।
यस्तेजयत्यतितरां च हवींषि हित्वा ।
यागाग्निरेष तव नाकसृतिं विशोध्य
गन्तुं प्रदास्यति न वा चरणौ तवैव ।। 69।।
एतामुक्तिं परुषपरुषामप्यतीव प्रमाढ्यां
चक्रे निर्वाचनपरिणतिः संसदे जायमाना ।
भूयो यस्मान्निरचिनुत तामिन्दिरामेव लोकः
प्राधान्ये स्वे व्यपगततमा निस्तमस्कान्तरङ्गाम् ।। 70।।
चक्रे निर्वाचनपरिणतिः संसदे जायमाना ।
भूयो यस्मान्निरचिनुत तामिन्दिरामेव लोकः
प्राधान्ये स्वे व्यपगततमा निस्तमस्कान्तरङ्गाम् ।। 70।।
इति ‘स्वातन्त्र्यसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ
‘प्राधान्यसंक्रमो’ नाम षड्विंशः सर्गः ।। 26।।