उत्सर्गः प्रभवति नापवादधारां निर्बाधप्रसरपटीयसीं निरोद्धुम्।
सा देवी सुतयुगली च सादसीया लोकेऽस्मिन् रतिविरती समं ह्यवापत्।। 1।।

आसीद् यत् प्रथममभूतपूर्वताढ्यं लोकानां भयमपनोदितुं पटिष्ठम्।
तत् सर्वं क्षण इह विप्रतीपभावं संप्राप्य क्षपयितुमिन्दिरां प्रयेते।। 2।।

वङ्गानां क्षतजसरिद्भिरत्र भूमौ पञ्चापैरभिषव आत्मनः कृतो यः।
तद्गाथां कथयितुमुद्यतो यमोऽपि क्षुद्राणामिव निकरादशान दंशान्।। 3।।

अद्यत्वं विहसति धर्मभीरुतायामैकात्म्ये प्रभवति संप्रदायभावात्।
तस्यास्ये प्रखरतमश्चपेटिकायाः संपातो ह्यनुपधिदृष्टिभिर् न्यभालि।। 4।।

एकस्या बत बत मातुरेकमङ्गं संपीयोल्लसिततनौ, द्वितीयमङ्गम्।
संपीयोल्लसिततनुः सहोदरोऽपि प्रत्यक्षं प्रखरनखो बभूव सिंहः।। 5।।

वङ्गीयान् दहतितमां स्म पाञ्चनद्यः पाकीयः कलुषतमः पशुः क्रुधोऽग्नौ।
अद्राक्षीन्न खलु मुहम्मदं कुरानं राष्ट्रं वा निजमसकौ द्विपादिदानीम्।। 6।।

निर्माणं विनशनमश्नुते स्म वङ्गे प्रध्वंसो नियतितया विभाव्यते स्म।
जागर्या प्रतिगृहमेव जागरूका जीवातून् विघटयते स्म संप्रबोधात्।। 7।।

बीभत्सो दिशि दिशि दृश्यमान आसीच्छृङ्गारैः समजगतैरपि व्यलोपि।
कार्पूरीं दहनगतां दशामशान प्रत्यध्वं प्रणय इहास्मिताऽभ्यरोदत्।। 8।।

अस्तित्वं व्यलपदवाङ्मुखं नृजातेः शृङ्गारो वकबृकजाङ्गले ह्यलोकि।
वङ्गेषु क्षितिरपि वह्निषु द्रवत्वं वायुत्वं नभसि समादधात् तदानीम्।। 9।।

शिष्टत्वं गगनसुमायमानमासीद् गृध्रत्वं प्रतितनु दृश्यते स्म रूढम्।
कारुण्यं न्यगिलदनाश्रयं महाभ्रव्याप्त्याढ्याो बत बत दारुणत्वभावः।। 10।।

द्रष्टव्यं निखिलमशिष्यदुक्तिमात्रे यच्छिष्टं दृशि दृशि तद् बभूव शूलम्।
शूलानामपि यदि वाद्य दन्दहीति प्रक्षोभो हृदयमिह क्षणे स्म दूरम्।। 11।।

वैधव्यं प्रतिसुभगाललाटपट्टं पूत्युग्रं फलमिव दृश्यते स्म लग्नम्।
मात¤णामुरसि विवाससि क्षुधार्त्ताः क्रव्यादाः शुनकगणाः स्म संपततन्ति।। 12।।

स्रोतोभ्यः स्रवदभवत् समेभ्य एवासृक्स्रोतः प्रजवमनार्द्रमङ्गनानाम्।
वङ्गानामधिधिरणि स्मरोऽपि दीनोऽपस्माराननुपलमश्नुते स्म तीव्रान्।। 13।।

भुक्तानां विघस इवाङ्गनाङ्गकानामा मृत्योश्चलति यदाङ्गिकं घरट्टम्।
वेताला अपि न हि तद्गतां जुगुप्सां सोढुं वै स्मृतिगमितामपि क्षमेरन्।। 14।।

अङ्गं स्वं कथमपि यद् ददुः परेभ्यो लब्धुं तत् पुनरिह नाक्षमन्त नार्यः।
निक्षिप्तं कुणपमिवाजिरे परीतं काकङ्कैः श्वभिरिदमैक्षि वायसैश्च।। 15।।

धिक्कारान् क्षितिजपटे लिलेखिषूणां संख्यानं न हि खलु शक्यते स्म कर्त्तुम्।
वङ्गानामिह गगनात् क्षणे समानि ज्योतींषि व्यतिससृजुर्दृशः प्रणालान्।। 16।।

चन्द्रेन्द्राः शरदि रवौ च वङ्किमे च ये श्लिष्टाः सह खलु लेखिनीभिरेषाम्।
प्रस्तब्धा चितिरधुनाऽपि कल्पनाभिर्द्रुष्प्रेक्ष्यं क्रथनमवेक्ष्य वङ्गभूमौ ।। 17।।

स्वर्लोकादचकमतारविन्दघोषः संपातं भुवि ससुभाषचन्द्रबोसः।
यद्गात्रे पविभिरिवाञ्चिते स्मरारिः सन्ध्य् ङ् स्वैर्वसतितरां स्म योगयोगैः।। 18।।

हंसानां परमतमः स रामकृष्णश्चीत्काराननणुतनूनवासृजद् यान् ।
तद्गर्भे विनिहितमीक्ष्यते स्म काव्यं वैयात्योल्वणकटु हन्त शारदाभिः।। 19।।

चामुण्डा हतशतचण्डमुण्डषण्डा दृष्ट्वैतन्नरपशुताण्डवं स्वसीम्नि।
संज्ञानं प्रतिपलमुज्झति स्म माता नीचत्वं न हि सहते स्वपुत्रलग्नम्।। 20।।

सीमान्तादपहृतवस्त्रमस्रदिग्धं गात्राणामपगणनान् गणान् दधन्ति।
द्रष्टॄणां नयनजलैर्नु बाष्पयानान्यन्वर्थां दधुरभिधां मनुष्यकोषे।। 21।।

संव्यानान्यतिजरठान्यपि प्रमोहा ये त्यक्तुं न किल बभूवुरात्तधैर्याः।
द्रष्टारः करुणहृदस्त एव बाष्पैः साकं स्वैरपि खलु भूषणान्यमुञ्चन्।। 22।।

संध्यायां दिवसमुखे च जञ्जपूकाः सावित्रीं भरतभुवो ललामभूताः।
तद् दृष्ट्वा विशसनताण्डवं नृजातेर्नास्तिक्यं सुगतमतं न नाद्रियन्त।। 23।।

कालिङ्गानपवदमान आत्तशस्त्रो देवानां प्रिय उदवोढ यं कलङ्कम्।
ऐतिह्ये सरसि स एव कर्द्दमत्वं प्राप्तो यत् तदिह विपाकमश्नुतेऽद्य।। 24।।

यत् कर्त्तुं प्रभवति नैव धूमकेतुव्रा-तोऽपि क्रथनमसौ तदन्तकास्ये।
दंष्ट्राभिः खलु परिपिष्यमाणगात्रो-ऽप्युल्लासात् तितनिषते पशुर्द्विपादः।। 25।।

यां दंष्ट्रां यममुखतो बहिर्लसन्तीं स्प्रष्टुं नाक्षमत पिताऽप्यहो पित¤णाम्।
तामेतामहह मनुष्य एष दोलां मन्वानो नभसि यथारुरुक्षतेऽद्धा।। 26।।

उत्कृत्य त्वचमपहृत्य कालखण्डं प्राणानामपि परिखासु गूढगूढम्।
मृत्युर्यत् प्रसभमुपाददाति सत्त्वं तत् त्वं किं पुरुष! करोषि पूतिगन्धि।। 27।।

कैलाशं प्रमथगणैर्विगण्यमानमूर्धाको यमपजिहीर्षसि प्रमुग्धः।
साम्बस्तं शिव उदधिं श्रियः पतिर्नु नो किं रे वद वद सेवते दशास्य!।। 28।।

संस्कारं निखिलमिमं मनुष्यजातौ निर्व्यूढं विदितपरावरैर्नयज्ञैः।
अद्यत्वे त्यजसि विमन्यसे च जीवं जीवात्मँस्त्वयि खलु घातुकायसे त्वम्।।29।।

अस्तेयं फलति फलं यदग्रभागे देवानामनतिपरिग्रहः स वृक्षः।
द्रुघ्णत्वं भजसि मनुष्य कस्य हेतोरस्मिँस्त्वं प्रथमतमे मनुष्यधर्मे।। 30।।

आशाभिः प्रतिदिनवर्धमानमानमात्राभिर्निगडितचेतन! क्व वा सा।
शेते स्म श्रियमुपधाय यां हिरण्यक्रव्यादः कपिशुरियं हिरण्यगात्री।। 31।।

भूतानामधिपतितां स तारकाख्यो विज्ञानी सृतिमहतीमुपार्जिजद् याम्।
संसेव्या यमवरुणेन्द्रराजराजैरप्युच्चैः क्व नु खलु साद्य साद्य किं सा।। 32।।

संभोगान् करणसमार्जितान् मरुत्वान् यद्वत् त्वं यदि परिवल्गसेऽभ्युपास्य।
धन्यस्त्वं, त्वयि च वधाय नीयमाने पस्त्ये च क्षयवति कीदृशो नु भेदः।।33।।

नाऽरातिः कुशलति चेदनर्थतन्तूनुच्छेत्तुं नरपशुना त्वयोपसृप्तान्।
धिक् त्वां तं पितृवनशूल! तूलतुल्यक्षेत्रं यत् क्षिपसि बलादिवाग्निकुण्डे।। 34।।

सत्कर्त्तुं यममहिषस्य कण्ठघण्टां स्वां नान्दीं यदि मुखरीकरोषि मर्त्य!
पूर्वं त्वां प्रियसुहृदं ततः परं हि शत्रूँस्ते स खलु समादरिष्यतेऽद्धा।। 35।।

अद्यत्व! प्रहससि चेदिदं विजित्य प्रत्नं त्वं बत पितरं निजं, गरुत्मान्।
आगन्ता विषधर! नाशु नो त्वदीयान् भोगान् वै कवलयितुं भविष्यगात्रः।।36।।

या गौरी भवति हि सैव हन्त काली या काली भवति च सैव मर्त्य! गौरी।
अम्बां तां गणयसि चेदधन्य! सुप्तां सुप्तस्त्वं भवसि न सा चिदेकरूपा।।37।।

वङ्गेभ्यो नियुतशती मनुष्यकाणां यानेतान् प्रहरणमार्गकानुवाह।
पद्मायाः सुरसरित पूर्वसिन्धिोर्यद्वा तान् किमु सलिलं प्रमार्ष्टुमीष्टे।। 38।।

चारित्रे मनुजपशुः सुधांशुरश्मिव्याकोशीं दधति यदञ्जनं व्यलिम्पत्।
वङ्गीया न खलु सनातना अपीद न्यक्कुर्युः शतशतरूपजीव-रूपाः।। 39।।

संभोगैः सह कटुशस्त्रसंप्रहारैः काया ये युवतिजनस्य मृत्युमाप्ताः।
गर्त्तानां लघुनि वपुष्यमी निखातान् प्रक्षीणानवकरवत् तदालभन्त।। 40।।

केषाञ्चिद् भुजलतिका बहिश्चरास्ता गर्त्तेभ्यः शुनकयुवा हठाद् विधृत्य।c
प्रत्यक्षं दिनपतिना निरीक्ष्यमाणो दंष्ट्राभिर्दशतितरां स्म वङ्गधात्र्याम्।। 41।।

केषाञ्चिन्मुखकमलान्यनावृतानि श्वभ्रेषु क्वचन विलोकितान्यभूवन्।
ध्वाङ्क्षाणां नखकुलिशैश्च चञ्चुभिश्च क्रूराभिर्बत बत कृष्यमाणदृंशि।। 42।।

यत् क्रूरं यदपि च निष्ठुरं नितान्तं यन्निन्द्यं यदपि च गर्हणीयमासीत्।
तत् सर्वं स्वयमपि लज्जयाऽवनम्रं दौरात्म्ये निरतिशयेऽधुना व्यभावि।। 43।।

कालेऽस्मिन् भरतमहामहीन्दिरायां रत्नत्वं किमपि सुषाव दीप्रदीप्रम्।
यत्रासीद् विलिखितमष्टभिः समृद्धं वाहाभिः किमपि वपुर्निशुम्भहन्याः््व ।। 44।।

सा सेनां मनुजकुलस्य माननायै स्वीयां वै स्वयमदिशत् प्रयाणहेतोः।
येनाष्टावपि ककुभो सलोकपालाः प्रस्वापं जहुरुपजातरोमहर्षाः।। 45।।

पाञ्चापं बलमिह वह्निना परीते रोदस्या उरसि बभूव भर्ज्यमानम्।c
भ्राष्ट्रे नु ज्वलनयुते पिपीलकानां दुष्पूरं कुलमुदयत्करालदंशम्।। 46।।

आकाशे शतकचतुष्टयी विमानकानां या व्यपगतलज्जमुन्ननर्त्त।
तां सद्यः परिहृतपक्षतिं प्रसह्य पाञ्चापीं भरतभुवो बलं व्यमथ्नात्।। 47।।

सौपर्णं मुखमिव धग्धगायमानं ज्वालाभिर्विशतितरां स्म पाकसैन्यम्।
टैङ्कानां वमनचणं महाविरावं पाञ्चास्यं वदनमिवाननं प्रचुम्ब्य।। 48।।

योद्धॄणां वपुरभवत् तथा न तस्मिन् सन्नाहे मतिरभवद् यथा गुणाय।
अद्यत्वे गणितमिवास्त्रशस्त्रयुद्धं चैतन्ये सजति विनिश्चयाय रीतेः।। 49।।

यद् युद्धं यदपि च वीतिहोत्रगात्रं पूर्तिं वै तदुभयमीप्सति स्वकुक्षेः।
सान्तत्ये सजति च पूर्तिरर्थसिद्धयै सिद्धिर्या भवति च सापि बुद्धिनिघ्ना।। 50।।

वङ्गीयं क्षितितलमेकतो बभूव प्रक्षिप्तं भरतभुवाऽन्यतः समुद्रैः।
तन्मध्ये पतितमरातिसैन्यमेतत् सिंहत्वं स्पृशतितरां स्म पञ्जरस्थम्।। 51।।

सामुद्रं सलिलमपि द्युलोककल्पं कालेऽस्मिन्नभवदतीव मुद्रितान्तम्।
दिल्लीतश्चलितमतस्तदिन्दिरायाष्टैङ्कं वै व्यजयत केवलान्वयित्वात्।। 52।।

नो कुक्षौ किमपि बभूव पातनाय नो टैङ्के किमपि बभूव शातनाय।
पाञ्चापं बलमतिदुर्विधं ततस्तत् तूर्णं वै व्यलभत कान्दिशीकभावम्।। 53।।

उद्ध्वंसाँश्चरितमवाप्य शिश्विदानेष्वध्वन्यं भवति हि किंपचानतायाः।
सांनध्या विवशतया विपच्यमाना वैधेयीं क्व नु नहि संदधाति यात्राम्।।54।।

शिश्विदानः पापकृत् सन्नद्धस्य वधोद्यतस्य भावः सान्नध्या,
विवश आसन्नमृत्युः, किंपचानः कदर्यः, वैधेयो मूढः।
निश्शस्त्रे प्रहरति नैव भारतीयः कानीनोऽपि हि मतिमास्त्रयच्छतघ्नीम्।
पाञ्चापा धवलमुपास्य शान्तिसेतुं केतुं वै शरणमवापुरिन्दिरायाः।। 55।।

सैन्यानां प्रहरणराशिना महिष्ठे-नाध्युष्टं दलमतिलक्षमार्यभूमौ।
अस्यां वै शरणमवापदेव दीना-नामादीनवमभिवीक्षते न धीरः।। 56।।

साहस्री नवतिमतीत्य पूर्य्यमाणा योद्धॄणां भरतभुवा न हिंसिता यत्।
पुंजातेर्विघसमहाव्रणे तदेतद् भैषज्यं किमपि विरोपणं तदाभूत्।। 57।।

हिंसा न श्रपयति हिंसकस्य हिंसा-माहिंस्यं व्रतमिह कर्मणि प्रशस्तम्।
हिंसा वै विकृतिरिमां लुनात्यहिंसा-नाम्न्येव प्रकृतिरिलातलेऽम्बिकेव।। 58।।

दौरात्म्यं निधनमवाप हन्त बाह्यं यद् बौद्धं तदिदमतीव दुस्समाधि।
वैरं तद् वियति नु सैहिकेयबिम्बं स्थेमानं भजति चितौ मनुष्यजातेः।। 59।।

वैयाघ्री प्रकृतिरियं हि पञ्जरस्था-प्येषा यत् त्यजति न दन्तघर्षणानि।
फेट्कारैः सममियमात्मनोऽधरेऽपि क्ष्वेडाढ्यां व्रणमुपधित्सते नृशंसा।। 60।।

सैन्यानामयुतशतीमिमां प्रधान-मन्त्री सा प्रसभमपानुदत् सुदूरम्।
तामिस्रं नभसि परिप्रचेष्टमानं वैभाती रुचिरिव यामिनीव्यपाये।। 61।।

न स्त्रीत्वं न च पुरुषत्वमेव पश्यत्यध्वर्यौ मनुजसमाज-वारिवास्या।
कैकेयी दशरथपञ्जराद् विमोच्य रामाख्यं मृगपतिमास्रपान्न नाहन्।। 62।।

कौलीनं प्रभवति नो खलीनतायै नेतॄणां प्रतिनवकर्मयाज्ञिकानाम्।
ओजस्वी दहन इवाशुचीनपि स्वे माहात्म्ये तिरयति तात्त्विके पदार्थान्।।63।।

औचित्यं भवति नपुंसकं नितान्तमौन्नत्यं मनस इदं न पस्पृशीति।
यत् क्षुद्रं न खलु तदौचितीषु मानं यत् तूच्चं तदुचितमेव चर्करीति।। 64।।

मूल्यानां भवति न मानमेव मूलं मूलं यत् त्विह खलु वास्तवं तदन्यत्।
मातुः सा हृदयगतान्तरात्मविद्या यन्मूल्यं निपुणतमैर्निरूप्यतेऽद्धा।। 65।।

सत्यानामनृततया प्रतीयमाना या कान्तिः सहृदयचित्तसीम्नि सैषा।
सौवर्णी पिकदयितेव गूढगूढं तिष्ठासां श्रयतितरां निबद्धगौना।। 66।।

तद्गीते पठतितरां य आत्मगाथां सत्यार्थी स हि खलु, स प्रमाणभूतः।
सोऽधीते विधिमपि नैषिधीषु वाक्षु प्रत्यक्षं निषिषिधिषास्वथो विधित्साम्।। 67।।

धेनुत्वं श्रयति यदा निकायमात्रे क्रव्यादो मनसि जिघांसयाऽभिलीढः।
श्रीकृष्णस्त्यजति न तत्र न स्वमुष्टिं सक्तून् वै तितउभिरेष संपुनाति।। 68।।

पाञ्चापा अपि न हि सैनिकाः अवैराः संजाता, विदधति ते स्म मोमुचानाः।
विद्रोहं कमपि हृदैव भाव्यमानं शारीरं क्षपयति स स्म येन कण्ठम्।। 69।।

अङ्गाराञ् ज्वलत इयं तदा स्म धत्ते प्रत्यक्षं न हि न निजोत्तरीयखण्डे।
दस्यूँस्तान् सुतदयया मितंपचानानानिन्ये कुलिशरदाऽपि यत् स्वगेहे।। 70।।

द्यौरस्रं व्यमुचत हर्षशोकजन्यं कालेऽस्मिन्नतिशयविस्मयावृताङ्गी।
भूरेषोच्छ्वसनशतीमुवाह भूयः पुंजातिः पुनरपि यत् प्रशाम्यति स्म।। 71।।

या पुंसां प्रकृतिमयी जिजीविषा तामुल्लङ्घ्य व्रजति कदापि नैव धात्री।
उन्मादः क्वचिदपि तत्र लक्ष्यते चेद् वात्यावत् प्रशममसौ क्षणेन धत्ते।। 72।।

यामुवाह खलु कीर्त्तिमिदानीमिन्दिरा भगवती प्रथमानाम्।
वर्धमानसुगतान्वयकोटिस्तत्र हन्त विललास दयार्द्रा।। 73।।

आदिमो न मुमुचे कविरुच्चैर्द्वन्द्वविद्विषि शरं मृगयौ यत्।
अत्र तन्त्रति परं चितिसीम्नि जाग्रती भगवती करुणैव।। 74।।

क्रूरता नृपनयस्य वधूटी सा स्वयं हि वृणुते वरमेतम्।
तत्र या खलु घृणा दशकण्ठात् सैव दाशरथिमत्र विभिन्ते।। 75।।

मन्दतोदरगता न हि दोषः सावधानयति रावणमेषा।
रावणस्य खलु बुद्धिगता या मन्दता क्षपयते जगदेषा।। 76।।

प्रातिभान्न वियतो विषधारा वर्षति क्वचिदपि क्षितिपृष्ठे।
सा सुधारसमयी कविता नुः सेतिहासपृथुकं प्रसुनोति।। 77।।

अन्धताऽपि कवितैव कवीनां नोपयाति खलु या पितृदर्शम्।
पूर्णिमां शशिगभस्तिशुभाङ्गीं सैव तल्पयति सालकभङ्गे।। 78।।

अन्यदेव वदितुं कविता नुश्चेष्टते प्रधनमत्र न रस्यम्।
देवता न दनुतास्वसृभालप्रोञ्छनासु लभते परिपाकम्।। 79।।

स्वस्तिमात्रपरमा भरता ये ये च केऽपि रिपुसूदनशौण्डाः ।
राममेतदुभयं परिवार्य स्वं स्वलक्षणमुदारमुपैति ।। 80।।

भारतीव मम भारतवासी मारमुत्पथयते न हि जातु ।
स्वस्तये शशिरवी दिनरात्री मानुषस्य हि परिभ्रमतोऽमू ।। 81।।

इत्थं वङ्गान् व्यजयत मही भारतीयाऽऽत्मशक्त्या
कृत्वा कारायमसदनयोरध्वनीनानरातीन् ।
गान्धी देवी व्यजयत पुनः संसदं संसदीये तन्त्रे प्राणानिव निदधती लोकनिर्वाचनोत्थान् ।। 82।।

इति ‘स्वातन्य्र्।सम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ
‘पाकबङ्गविजयो’ नाम एकविंशः सर्गः।। 21।।
निर्वाच्य राधाकृष्णस्य स्थाने सा जाकिरं बभौ ।
सिनीवालीव सूर्य्यस्य क्षेत्रे चन्द्रं जिघृक्षती ।। 1।।

निर्वाच्य राष्ट्रपतिपद इति शेषः, सिनीवाली पूर्णिमा।
जाकिरे त्यक्तदेहे सा वराहं वृण्वती बभौ ।
महाप्रलयवेलेव वसुधोद्धरणोत्सुका ।। 2।।
महाप्रलयवेलेव वसुधोद्धरणोत्सुका ।। 2।।
वराहं गिरिम्, वराहावतारं च।
काङ्ग्रेसनाम्नि संघेऽभूत् तदा बुद्धिभिदोदयः ।
समुद्रमन्थनादूर्ध्वं सुरासुरगणे यथा ।। 3।।

देवीन्दिरा नवीनं वै दलं सद्यो विनिर्ममौ ।
मोहिनीव सुरापानोद्यतान् निर्हृत्य विद्विषः ।। 4।।

सवत्सां दधती धेनुं सा स्वकीये ध्वजोत्तमे ।
बभौ भारतराष्ट्रस्य धरित्रीव महोदया ।। 5।।

धेनुः सा कामधेनुत्वमात्मनोऽचरितार्थयत् ।
तत एव तु देवी सा भूयः साम्राज्यमार्जिजत् ।। 6।।

पादत्रयेण संख्यायाः सदस्यानां विजित्वरी ।
संसदं सा तदा रेजे तनुस्त्रैविक्रमी यथा ।। 7।।

पादत्रयं बहुमतम्।
संसदि स्थानमापत् सा तदा स्वपितृवत् तथा ।
यथा भारतभूरेषा भूयोऽभूदकुतोभया ।। 8।।
यथा भारतभूरेषा भूयोऽभूदकुतोभया ।। 8।।
स्वपितृवत् जवाहरलालवत् सोऽपि प्रचण्डं बहुमतत्वमापत्।
वाङ्गलादेशमासाद्य जहती तच्चितिर्बभौ ।
मुञ्चती प्राप्य पञ्चापाञ् शेमुषी शास्त्रिणो यथा ।। 9।।

इहैव 18.71 पद्यम्।
इयं हि भारतीयानां बुद्धानामुज्ज्वला मतिः ।
प्रतिरोपं समुत्खातानुजत्वे याऽभिषिञ्चति ।। 10।।

रघुवंशे 4.37
व्रणमात्र-चिकीर्षाऽभिभाविता नास्ति नश्चितिः ।
विरोपणसमुल्लासवासिताऽप्यस्ति सा दृढम् ।। 11।।

अस्माकं ‘शतपत्रे’ 74
व्रणानां व्यपरोपो यः पङ्कानां क्षालना च या ।
तयोः परिजिहीर्षैव भावान् बध्नाति नः शुभा ।। 12।।

शासनं न चिकीर्षामश्चिकीर्षामोऽनुशासनम् ।
संयमो यमदण्डस्य प्रजिहीर्षोर्ह्यनुत्थितिः ।। 13।।

शान्तये ह्याश्रमान् सूते स्कन्धावारान् न संयमः ।
शान्तिः पुष्ट्यौ च तुष्ट्यौ च विश्वस्यास्य प्रगल्भते ।। 14।।

आदानं वा विसर्गो वा जीवितं विपदेव वा ।
माध्यमं केवलं, यत् तु साध्यं सा शान्तिरेव नुः ।। 15।।

शान्तये क्रमते सूर्य्यः शान्तये प्लवते शशी ।
शान्तये हेतिमालाभिर्ज्वलति ज्वलनोऽप्यसौ ।। 16।।

शान्तये कोकिलो रौति शिखी नृत्यति शान्तये ।
शान्तिकामनयैवाद्यो व्याधं शपति वै कविः ।। 17।।

कृत्वा भस्म स्मरं दृष्ट्या मनसा खलु जीवयन् ।
शान्तये केवलं सद्योजातः प्रयतते प्रभुः ।। 18।।

मातुर्वक्षसि यत् स्तन्यमेव नाग्निं सृजत्यजः ।
अत्राप्येषा शमेच्छैव करुणा कारणायते ।। 19।।

सरस्वती करद्वन्द्वे धत्ते वीणां हि नाऽशनिम् ।
सृष्टिचक्रस्य तत्रापि शान्तिरेव परायणम् ।। 20।।

शिवः शशिकलां गाङ्गै रसैर्निर्धौतविग्रहाम् ।
धत्ते कपर्दे कस्यार्थे शान्तिश्चेत् तस्य न प्रिया ।। 21।।v

मातरः सप्त चक्राणि षट् च पञ्च स्मरेषवः ।
चतस्रः श्रुतयो देवास्त्रयो द्वावश्विनौ विभुम् ।। 22।।

यमेकं वरिवस्यन्ति भ्रमन्ति प्रतिभान्ति च ।
शान्तिरेव हि तत्रापि कलत्रायति केशवे ।। 23।।

प्रलये भूतधात्रीयं महाकाशमिदं विभु ।
स्वयं त्वं च प्रिय! ब्रूहि ब्रूहि गन्तासि कां दशाम् ।। 24।।

मैत्री सकरुणा तद्वन्मुदितोपेक्षया समम् ।
कस्य वा स्मरतोऽन्यस्य हित्वैकं भावबन्धनम् ।। 25।।

राजनारायणाख्येन सिंहेन प्रार्थितेन्दिरा ।
स्वनिर्वाचनवैधत्वे संशयं प्रत्यपद्यत ।। 26।।

उच्चे न्यायालये तस्यै वादः प्रावर्त्ततैकतः ।
अन्यतश्चाणुदेहानां परीक्षणमहामखः ।। 27।।

मुजीबो वाङ्गलादेशे प्राधान्यं येन लम्भितः ।
इन्दिरायाः प्रतापाय तस्मै का न प्रणौति दिक् ।। 28।।

अयूबः पाकभूराष्ट्रपतित्वमपि नो तथा ।
आदर्त्तिविषयं मेने यथा भारतसौहृदम् ।। 29।।

मुजीबायूबसंज्ञाभ्यां ताभ्यां सा प्रियदर्शिनी ।
अयुद्धसन्धिं सौहार्दसुभगं प्रत्यपद्यत ।। 30।।

आर्यभट्टं प्रचिक्षेप सिक्किमं चाग्रहीदसौ ।
ततो भारतभूमाता तस्यै भूम्नाऽभ्यतूतुषत् ।। 31।।

संजयो भारतीयानां प्रजानामभिवृद्धये ।
प्रजातन्तुव्यवच्छेदमपि कर्त्तुमचेष्टत ।। 32।।

तेन विग्नाः प्रजास्तस्या मातुरस्य व्यरज्यत ।
क्रूरतां सहते को वा धीधनो यातनासखीम् ।। 33।।

कर्त्तनं शुक्रनाडीनामनिवार्यं जुघोष सः ।
अभूतां सन्तती यस्य तस्य सर्वस्य देहिनः ।। 34।।

वेतनानि न्यरुध्यन्त तेषां वै कर्मचारिणाम् ।
यैर्न वन्ध्यत्वसंपत्तिप्रमाणं स्म प्रदीयते ।। 35।।

प्रधानमन्त्रिताभाजोऽप्यस्या निर्वाचने तदा ।
अजूघुषदवैधत्वं न्यायपीठं प्रयागगम् ।। 36।।

दिल्ली दोलामिवारूढाऽवधावस्मिन्नलक्ष्यत ।
पौर्णमासीव चैत्रस्य सोपरागप्रकम्पना ।। 37।।

विश्वं विसिष्मिये वीक्ष्य तीर्थराजप्रयागगाम् ।
न्यायनिष्ठामिमां हन्त प्राणेभ्योऽपि गरीयसीम् ।। 38।।

जगमोहनसंज्ञस्य न्यायमूर्त्तेरभीकताम् ।
वेण्यस्तिस्रोऽपि तत्रत्या वीचीवक्षःस्वलेलिखन् ।। 39।।

दिग्गजाः क्षितिजस्वर्णभालपट्टानपूरयन् ।
स्तावकैरर्थवादैः सत्काव्यकायैर्हृदुत्थितैः ।। 40।।

न्यायः प्रशास्ति न्यायो वै चकास्ति प्रथमे पदे ।
न्यायोऽधिकारमर्य्यादा-हैमवत्यै शिवायते ।। 41।।

न्याय इत्युच्यतां यद्वा धर्म इत्युच्यतां बुधैः ।
नास्ति दोषोऽथवा सिद्धा क्षेत्रक्षेत्रज्ञताऽनयोः ।। 42।।

न्यायः कर्मेन्द्रियं धर्मे ज्ञानेन्द्रियतया स्थिते ।
न्यायतैलं विना नैव धर्मदीपः प्रकाशते ।। 43।।

धर्मो यात्रा सृतिर्न्यायः कोटी पार्यन्तिके चिती ।
बिन्दोः सिन्धुरथो सिन्धोर्बिन्दुरत्र जिघृक्ष्यते ।। 44।।

जिजीविष्णोर्मितस्यास्य पट्टराज्ञी जिजीविषा ।
यामहिंसां सुतां सूते तस्यै न्यायो हि दुर्लभः ।। 45।।

दुर्लभः दूलहपदवाच्यः।
धर्मः पुरोहितस्तत्र भैषज्यनिपुणः कविः ।
आ दिष्टान्तं निषेकाद् योऽनयोः सौभाग्यमृच्छति ।। 46।।

अत्र प्रेमैव सर्वस्वं द्वेष एव घृणास्पदम् ।
प्रेमा च पक्षपाताय पोषस्यैव प्रवर्त्तते ।। 47।।

सेयं माहेश्वरी लीला यस्य दण्डेन रक्ष्यते ।
स धर्मराजोऽप्यस्माकं महान् नैयायिकः प्रभुः ।। 48।।

राजा नारायणः सिंहो यत्र न्यायं दिदृक्षते ।
तीर्थराजोऽपि सोऽस्माकं धर्मराजः परात्परः ।। 49।।

घटस्फोट-गतप्राण-सौभाग्येव कुटुम्बिनी ।
प्रधानमन्त्रिता काले तस्मिन्नस्या अलक्ष्यत ।। 50।।

घटस्फोटस्तलाकः।
परिक्षीणाधिकाराणां दशा सैवाधिकारिणाम् ।
अस्त्रहीनस्य या युद्धे सैनिकस्य विभाव्यते ।। 51।।

उद्वृत्तमूलः शाखी च नेपथ्यं च पृथक्कृतम् ।
अधिकारादपेतस्य ब्रुवाते स्वामिनः कथाम् ।। 52।।

महाकुल्यागृहीताम्भा गङ्गेव यमुनेव वा ।v
गान्धी देवी तदालक्षि क्रशिमानमुपागता ।। 53।।

वराहात् फकरुद्दीनमलीयहमदं गतम् ।
राष्ट्रस्यास्य पतित्वं च जागरूकं व्यतिष्ठत ।। 54।।

फकरुद्दीन अलीअहमदः, नीलमसंजीवरेड्डी।
न्यायालये च सर्व्वोच्चे समिन्धे स्म तटस्थता ।
राष्ट्रस्यास्य प्रभुत्वं तत् संप्रभुत्वं ह्यबोभुनक् ।। 55।।

सैन्यानां त्रितयेऽप्यासीत् क्षणे तस्मिन् प्रबुद्धता ।
शेषे भगवति स्थेम्नि स्थिरे का भीर्भुवे पवेः ।। 56।।

दलान्तराणि कालेऽस्मिन्नयोध्यामन्दिराणि च ।
सत्त्वशून्यप्रतिष्ठानि निस्तेजस्कान्यबीभवन् ।। 57।।

मुरारिस्तामिमां देवीं जगजीवनरामयुक् ।
पितृव्यः सानुजः क्लिष्टां भ्रातृजां नु व्यसीसृजत् ।। 58।।

मुरारजीदेसाई जगजीवनरामश्च।
उत्तरेषु प्रदेशानां मध्येषु च पराङ्मुखाः ।
काङ्ग्रेसं विजहुर्वृद्धाः संविदाचान्तचेतनाः ।। 59।।

संविदं संयुक्तविधायकदलम् उत्तरप्रदेशराज्ये चरणसिंहः,
मध्यप्रदेशराज्ये च गोविन्दनारायणसिंहः संविदं निर्ममाते।
इत्थं दोलायमानाभूत् तरणिर्भारतोदधौ ।
प्राजातन्य्र् प्रतिष्ठाख्या कालेऽस्मिन्नतिदुर्भगे ।। 60।।

प्रकृतीनां विपर्य्यासादिन्दिरायाः प्रधानता ।
भारतानां प्रधानत्वं चङ्खनीति स्म संशये ।। 61।।

पेशवानामतिक्रान्तिमहल्येव महाधृतिः ।
व्यसोढ सा सुखं देवी सर्वामेतामुपद्रुतिम् ।। 62।।

झाँसीश्वरीमियं देवी देवीं दुर्गावतीं यथा ।
सस्मार विषमे ह्यस्मिन् क्षणे धैर्यं च नामुचत् ।। 63।।

हंसीव ग्रीष्मकालान्तप्रावृडुत्पाति पल्वलम् ।
सेवते स्म तदानीं सा राष्ट्रमेतदुपद्रुतम् ।। 64।।

कुमारी चैव कामाक्षी वैष्णवी चैव शारदा ।
सान्नपूर्णा विशालाक्षी मीनाक्षी चैव तामिमाम् ।। 65।।

गङ्गा-गोदावरी-रेवा-मुरवीभिः ससंविदाः ।
सिन्धुलौहित्यशोणाश्च दशां क्लिष्टामवेविदन् ।। 66।।

महेन्द्राश्च त्रिकूटाश्च चित्रकूटाश्च पर्वताः ।
हिमाद्रिश्चापि विन्ध्यश्चाऽप्यन्वभूवन्निमां स्थितिम् ।। 67।।

प्रसूनमतसी ह्यस्मिन् क्षणे सूते स्म यच्छिति ।
श्यामिकायां क्षणस्यास्य तन्न स्पष्टं स्म लक्ष्यते ।। 68।।

पुंजातेश्चेतना काले यस्मिन् कालीत्वमश्नुते ।
भाद्रकृष्णाष्टमीमध्यरात्रिरस्मिन् स्थिरायते ।। 69।।

अर्जुनः कृष्णतां याति यदा कृष्णोऽपि नस्तदा ।
विहाय वेणुं गाण्डीवं भजते जायतेऽर्जुनः ।। 70।।

आर्भटीं कौशिकी सूते भारती सात्वतीं तथा ।
महाकालायते किञ्च कालो जाते युगक्षये ।। 71।।

इन्दिरा स्वां चितिं यद्वा संविद्भट्टारिकां पराम् ।
ययाचे मार्गमेतस्मिन् क्षणे, शय्यां न, गत्वरी ।। 72।।

संविधानस्य संशोधस्तस्या बुद्धाविह क्षणे ।
विद्युदुद्योतसाङ्काश्यबन्धुरात्मा विदिद्युते ।। 73।।

प्रातिभीं तामिमां शिक्षामिन्दिरा मूर्ध्न्यधारयत् ।
प्रयोगयोगे चैतस्या जाता सा क्रान्तदर्शनी ।। 74।।

सर्वेष्वेव प्रदेशेषु राष्ट्रस्याऽस्य व्यजिज्ञपत् ।
आपद्ग्रस्तत्वमाधाय सैन्येषु स्वापवैशसीम् ।। 75।।

सीमान्तेषु जजागार सर्वेष्वेवास्य वाहिनी ।
भारताख्यस्य हिंसाया रोधे राष्ट्रस्य शस्त्रिणः ।। 76।।

जयप्रकाशमुख्यान् सा सर्वान् नारायाणान् ददौ ।
काराभ्यः कुत्र कोऽस्तीति ददतीभ्यो न वेदितुम् ।। 77।।

कृपालानीं विहायैकं महात्मानं जराजुषम् ।
सर्वेऽप्यन्ये विरोद्धारो नेतारो वन्दिनोऽभवन् ।। 78।।

पालनं समयानां वै समेषामद्य सर्वतः ।
सर्वेषामेव सञ्जातं सेवाहेवाकिनां प्रियम् ।। 79।।

बाष्पयानानि गत्वापि दविष्ठानपि नीवृतः ।
नाविन्दन्त क्षणस्यापि विलम्बं तत्र शासने ।। 80।।

भीषाऽस्मात् पर्वते सूर्य इति या श्रुतिरुज्ज्वला ।
प्रामाण्यमस्याः कालेऽस्मिन्नन्वभूयत भूयसा ।। 81।।

दण्डो राजा प्रजातन्त्रेऽप्यद्य तस्मादलक्ष्यत ।
राजन्वतीत्वमेतस्यां भुवि भारतवासिनाम् ।। 82।।

अपिच्छलेन संरुद्ध्य रिक्सायानस्य चालकान् ।
अकर्त्तयन्त वै वैद्यास्तेषां शुक्रस्य नाडिकाः ।। 83।।

पुत्रः कुत्र पतिः कुत्र पत्नी कुत्र क्व वा सुहृत् ।
अवेदीदिति धातारं विहायान्यो न गेहिनाम् ।। 84।।

कारागारेषु रुद्धानां भोज्यान्यन्धांस्यरूरुजन् ।
अन्तश्चराणि गात्राणि विषयोगेन भूयसाम् ।। 85।।

राजनारायणः सिंहोऽप्यपूरयत मुष्टिभिः ।
चणकानां जलक्लिन्नगात्राणां स्वं पृथूदरम् ।। 86।।

अन्नपूर्णा ततः काशीश्वरं साञ्जलिबन्धना ।
अयाचत ‘गणं त्वेकमिमं मुञ्चे’-ति वत्सला ।। 87।।

आपत्कालस्य तां कन्थां मत्स्त्यादानीमिदंक्षणे ।
संजहारेन्दिरा सायन्तने सूर्या रुचं यथा ।। 88।।

पश्यन्ति स्म तदाऽऽकाशाद् भारतीयां वसुन्धराम् ।
विस्मयेन समाविष्टा गान्धिशास्त्रिजवाहराः ।। 89।।

उत्प्लुत्योत्प्लुत्य काव्यानामक्षरेभ्यस्तदेन्दिराम् ।
प्रेक्षन्ते स्म रवीन्द्राद्याः कवयस्तां महीयसीम् ।। 90।।

वसिष्ठप्रमुखाः सर्वे पुरोहितपुरोगमाः ।
नेतारोऽप्यक्षिकोषेषु व्याकोशीमद्भुतामधुः ।। 91।।

विवेकानन्दमानन्दो जहौ मन्थक्षणे यथा ।
समुद्रं, शेषशय्यातः पलायिततमो हरिः ।। 92।।

कालिदासः सचाणक्यः स्वकीयं युगवीक्षणम् ।
विपर्यासितमालक्ष्य दिवं बाष्पैरपिप्लवत् ।। 93।।

गाण्डीवमर्जुनोऽस्प्राक्षीद् गदां भद्रः, परन्तु सः ।
शकुनिः कूटकाषायान् पाशान् भूयोऽप्यचीकृषत् ।। 94।।

आपत्कालस्य संहारे पश्यन्ति स्म दिशो दश ।
आवेष्ट्यामानकायां नु तिरस्कारपटुं पटीम् ।। 95।।

स्वाध्यायव्रतिनः किन्तु प्रेक्षावन्तः कवीश्वराः ।
नापश्यन् कञ्चिदायान्तं न वा यान्तं तटस्थिताः ।। 96।।

इति गतवति राहावैन्दवीव प्रभास्मिन्
स्फुरति पुनरपि स्म क्ष्मातले भारतीये ।
जनमनसि तनीयान् प्रत्ययो येन भूयो-
ऽप्यलभत निजतायाः शासने लिप्सितायाः ।। 97।।

इति ‘स्वातन्य्र् सम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ ‘आपत्कालसंहारो’ नाम द्वाविंशः सर्गः।। 22।।
भारतस्य जनताऽऽपदां गते तादृशे महति पट्टके लयम् ।
नाट्यामद्भुतरसं स्म नर्नृतीत्यादृतास्फुटविभावनागुणम् ।। 1।।

भुक्तमुक्तनिगडास्तदा समे रेजुरन्यदलनायकोत्तमाः ।
सायमम्बुजनिरुद्धपक्षकाः षट्पदा इव विभाकरोदये ।। 2।।

वृत्तपत्रनिकरोऽधुना महाविष्णुविग्रह इवाखिलं जगत् ।
संनिगीर्य पृथुतां परामगात् प्रत्यनीकपरिभर्त्सनोद्धुराम् ।। 3।।

वृत्तसंग्रहपरायणेष्वभूत् कालपर्य्यय इहात्तगन्धता ।
षट्पदैः सुरभिमासपुष्पितानोकहव्रततिविद्रुतैः समम् ।। 4।।

राजनीतिगगनोदरेऽधुना नृत्यति स्म नवनूतनाकृतिः ।
काचिदद्भुतरसोद्धुरा चलच्चित्रसोदरदलाम्बुदावलिः ।। 5।।

पत्रमेव हि पतत्रिराजतामश्नुतेऽद्य जनताजनार्दने ।
सत्यमेव जयतीति यत्कृते मन्त्रराजतितरां श्रुतिस्वरः ।। 6।।

इन्दिरामतिमतीव साम्प्रतं चाटुकृत्यनिपुणा व्यलूलुभन् ।
प्रत्यगाच्च खलु तेष्वसौ दृढं निर्ऋतेस्तदभवद्विचेष्टितम् ।। 7।।

यत्र गच्छति दिशीन्दिरा तदा तत्र भाटकशतैः प्रकल्पितम् ।
पश्यति स्म जनतामहोदधिं जायते स्म च सुनिर्वृतान्तरा ।। 8।।

वास्तवं स्म नहि बोबुधीति सा चेखिदीति न हि सा स्म तत् ततः ।
जङ्गमीति पुरतः स्म किञ्च सा प्रत्ययः क्व नु न बोभवीति नुः ।। 9।।

प्रत्ययेन तिमिरेण तच्चितौ तादृशेन गमितेन संप्लवम् ।
कृत्यवर्त्म न हि साऽभिवीक्षितुं शक्नुते स्म कृशसूक्ष्मवीक्षणा।। 10।।

सा मृगार्भकविशाललोचना सत्यमेव समभूत् किमन्यथा ।
प्रातिभासिकपदार्थमप्यसौ पारमार्थिकममंस्त वस्तुतः ।। 11।।

द्वारकापतिमुखा इह क्षणे तामुपांशु समजीजपन् बुधाः ।
पूर्वमेव समयाच्च लोकनिर्वाचनं च समचीक्लृपँस्तया ।। 12।।

द्वारकापतिः पं. द्वारकाप्रसादमिश्रः।
भिक्षितुं मतमियं धृतस्पृहा प्रत्यनीकनिकुरम्बमात्मने ।
प्राप पुंगवदशां प्रवञ्चनात् पिङ्गलेन जनितां खरैर्नखैः ।। 13।।

सा ससंजयसुता महीयसी न व्यजेष्ट जनतन्त्रशासनम् ।
नाध्यगाच्च पुनरद्य संसदं यातुमुत्सुकतराऽपि भाविनी ।। 14।।

यच्च किञ्चिदभवन्निजं दलं न्यूनतामिदमशान संसदि ।
इन्दिरा न खलु तेन साम्प्रतं मन्त्रिणी, न च बभूव सांसदा ।। 15।।

भावनां मनसि काञ्चिदुत्कटद्वेषरूषिततनुं दधज्जनः ।
अक्ष्णि शूलमिव संजयेन्दिरे कालपर्य्यय इह व्यभावयत् ।। 16।।

यद् बभूव जनसंघनामकं काङ्गरेसमटलोऽत्र संप्रभुः ।
या च साऽजगरसंज्ञिका कुटी तामुवास चरणो रणप्रियः ।। 17।।

अजगरेति दलनाम।
चन्द्रशेखरमुखैरुपस्कृता नायकैश्च जनताभिधा सृतिः ।
रामराज्यपरिषत् स्वसंस्कृतिप्राणगा च करपात्रचालिता ।। 18।।

उत्तरेषु भरतावनेरिदं राजनीतिदलसंकथानकम् ।
दक्षिणे द्रमिण-नेतृसंकुला प्रादुरास पृथगेव गाथिका ।। 19।।

दण्डकाभ्य उपदक्षिणोदधि दण्डकावधि हिमाद्रिशृङ्गतः ।
इन्दिरा भगवती हिमागमे धिग् व्यजायत नभस्वदुच्छ्रितिः ।। 20।।

एकतो बत जवाहरात्मजा केवलाऽन्यत इयं दलाटवी ।
एकतः कटुतमः पराजयः शासनस्य परतो जयोत्सवः ।। 21।।

वाजपेयिचरणौ मुरारजीभाइसंज्ञकमुदारदर्शनम् ।
योगिराजमपरं नु गान्धिनं वव्रतुः प्रमुखमन्त्रिणः पदे ।। 22।।

तं न्यमन्त्रयत रेड्डिनामकः कोऽपि राष्ट्रपतिरीशितुं भुवम् ।
स्वर्गते यहमदे यमन्वगादद्य राष्ट्रपतिता चिरेप्सिता ।। 23।।

यं स्वराष्ट्रपतिपदे मुरारजिर्निश्चिकाय न हि वराहपक्षगः ।
तं स्वयं स हि मुरारजिं तदा मन्त्रिणामशपयत प्रधानताम् ।। 24।।

गेहमन्त्रिपदवीमवापितश्चौधरी चरणसिंह आत्मवान् ।
राजते स्म दशकण्ठमन्दिरे वालिनः सुत इवातिदार्ढ्यायुक् ।। 25।।

वाजपेयिविरुदोऽटलोऽप्यसौ प्रापितश्च परराष्ट्रमन्त्रिताम् ।
भाषणं निजमदाच्च भाषया राष्ट्रसंघसदसि स्वकीयया ।। 26।।

संस्कृतिः किल बभूव यत्प्रिया हैन्दवी प्रतिजनप्रतिष्ठिता ।
मातरं प्रति च यस्य मानसं भारतावनिमभूत् सदाऽऽनतम् ।। 27।।

संस्कृते! भरतभूमिलालितां यां परिष्कृतिमियेथ साधुना ।
गूढमद्य चरितैरनीदृशैरीदृशैरपि जनैर्निपात्यसे ।। 28।।

मण्डलाधिपतयोऽपि योगिनः साम्प्रतं न जहतीदृशीं दशाम् ।
सर्व एव हि गृहस्थिताः परं चर्वयन्ति गृहमेधिनो जनान् ।। 29।।

अर्थकामपरमत्वमादृतं कुत्र वा त्वयि वदात्मसंस्कृते!
संयमोऽर्थचतुरस्रवास्तवस्तत्स्तवः क्व नु न तेऽभिलक्ष्यते ।। 30।।

वर्धमानवचने समादृताः संस्कृते! किमु तवाद्य रक्षकाः ।
गोवसासु यदि दृश्यते धनं वर्धमानवचनं त्यजन्ति ये ।। 31।।

संस्कृते! भरतवर्षमानुषस्यन्दनस्य गतिमुपास्य निर्मिता ।
या तवेह नितरां समुज्ज्वला पद्धतिर्वद न काऽद्य तद्दशा ।। 32।।

संस्कृतिश्च मनुजस्य संयमश्चार्थतो न खलु भिन्नविग्रहौ ।
ताविमौ हि परमः सनातनः संचिनोति ननु धर्म-शब्दतः ।। 33।।v

धर्महीननृपनीतिघोषणा वक्तुरात्मनि कुमारपुत्रता।
जाड्यामेव खलु वक्तुरुच्चकैः सा वमत्यणुविभाजनां गता।। 34।।

धर्म इत्यनुपमाऽभिधा मुधा मुग्धिमानमसमं समाश्रितैः।
वृत्तपत्रपठनैकसीमितैः पण्डितैर्यदि विमन्यतांतमाम्।। 35।।

ये तु शास्त्रनयसंस्कृतान्तरा मेदुरा विविधतर्ककौशलैः।
ते न धर्मनययोर्विवेचने बुद्धिमान्द्यमुपयान्ति कोविदाः।। 36।।

रानासिं गतवति सौस्थ्यमन्त्रिभावे क्षीणाऽभूदवनिरियं महाबलानाम्।
एकाकि व्रजति विषं क्व वौषधत्वं योगं वा स्पृशति च केन वत्सनाभः।।

रानासिं राजनारायणसिंहः।
शिक्षायै प्रभुरभवत् प्रतापचन्द्रः कान्त्या यो मनुजमहीतलस्य चन्द्रः।
सौजन्यं सुरवचनाऽर्थशास्त्रविद्यावैबुध्यात् सुरभितमं बभूव यस्य।। 38।।

येनासौ वयसि नवेऽपि विद्यमानः संमानं परममवापितोऽत्र राष्ट्रे।
संतोषं मनसि मनाग् गतोऽत्र काश्यां साहित्यं विशदतमं वितन्तनोमि।। 39।।

Certificate of honour (1978)
विद्याया भवति न पक्षतिः, पिकीयं नो मौनं भजतिं च सत्कवित्वमुग्धा।
मन्दाराः! कलयत चेतनत्वमस्या रक्षायै सति समये विहाय जाड्याम्।।

श्वासानां हृदयदरी बिभर्त्ति वह्निं यं कंचित् स खलु न शान्तिमेति तावत्।
नो यावद्धविरुपसिक्तमाज्यरत्नैर्मानाख्यैः सितमभिघारमश्नुतेऽसौ।। 41।।

श्रीरेड्डी पतिरथ चन्द्र एष शिक्षामन्त्री यद् भरतमहीतले ह्यभूताम्।
वैदुष्यं श्वसितितरां स्म तेन राधाकृष्णाख्ये विलसति चागले च यद्वत्।।

चागला मोहम्मदकरीमछागला, शिक्षामन्त्रिचरः।
द्वावेतौ निपुणतरं विचारयेते भाषेते रुचिरतरं स्म किञ्च शश्वत्।
देसाई लसतितरां स्म हन्त ताभ्यामेताभ्यां गुरुरिव केतुचन्द्रमोभ्याम्।। 43।।

सामुद्रे परिसर ईक्ष्यतेतरां वै कर्काणां समज उदूढबन्धुभावः।
तन्त्रं वै भवति तु तत्र बन्धुभावे भङ्गोत्था प्रहतिरनेकदृक्पदानाम्।। 44।।

कर्को वै क्षिपति दृशं दिशा यया तां नो पादा अनुसरणेन भावयन्ते।
तिर्यक्त्वं प्रतिनियतायते हि तेषु वक्रत्वं भवति च वल्लभं सदैषाम्।। 45।।

एषैवाभवदतिमात्रशोचनीया धिग् गाथा विविधदलप्रशासनस्य।
मासैस्तत् परिगणितैर्हि कैश्चिदेव विद्वेषं विषमविपाकमात्मनाऽगात्।। 46।।

रानासिं स च चरणो मुरारजिं तं क्षेत्रे स्वे न हि किल शेकतुर्विसोढुम्।
सोऽप्येतौ बहिरकरोद् विरुद्धवाचौ संघात् स्वात् प्रकृतिरियं हि शासकानाम्।।47।।

तावेतौ प्रखरतरं प्रहर्त्तुमास्तामुद्युक्तौ मुररिपुशासने स्वतन्त्रौ।
श्रीरेड्डी कलिमिममीक्षते स्म धैर्यात् स्मेरास्यः किमपि विचिन्त्य संप्रहृष्यन्।। 48।।

मुरारिं प्रति प्रतिशोधाङ्कुर एतेन व्यज्यते।
धिग् धिग् धिग् भरतभुवामसौ विधाता वामत्वं स्पृशति सदेतिहासगात्रे।
तद्व्यष्टिर्भजति समष्टिदैन्यहेतुं मात्सर्य्यं परमतमं पदं गतापि।। 49।।

रानासिं चरणयुतोऽटलं मुरारे-र्वैमुख्ये स्थिरयितुमास बद्धभावः।
भेदो वै प्रबलतरस्य पातनाय क्षीणानां प्रथमतमं हि शस्त्ररत्नम्।। 50।।

कैकेयीमतिमिव मन्थरामतिस्तां रानासिंमतिरटलां मतिं व्यभैत्सीत्।
वैमुख्यं भजति विधौ विरुद्धमन्त्रः स्वं तन्त्रं स्वयमुपयाति नाशनाय।। 51।।

देसाईमरुणदथो पुनर्ग्रहीतुं रानासिं-चरणयुगीं स वाजपेयी।
त्रिंशत्या दशयुतया वृतः स्ववर्गसभ्यानां मुररिपुसंसदो बिभित्सुः।। 52।।

मुररिपुर्मुरारजिः।
एकस्मिन् विलसति पार्श्व एष गर्तस्तद्भिन्नेऽप्यवट उदारतारगर्भः।
हंहो मां प्रतिनियतायमानमाना सांपाती नियतिरुपैत्यसौ कराला।। 53।।

इत्येवं कलयति काप्यभून्मुरारौ प्रज्ञाया रुचिरुदिता क्षणेन तेन।
दिष्टान्तक्षण इव शास्त्रिणि स्वहोमनिर्देष्ट्री मतिरिति सोऽपि निश्चिकाय।।54।।

प्रध्वंसो मम समुपस्थितः परन्तु तत्राहं न हि खलु हेतुरस्मि, यौ च।
हेतू तौ भरतमहीतिहासगात्रे भूयास्तां विवृतमुखौ प्रबोधहेतोः।। 55।।

यश्चासौ द्वितयमपीदमत्र साह्यं कृत्वा मां प्रति परिपन्थि कर्त्तुमिच्छुः।
तञ्चापि स्थिरयतु नित्यशुद्धबुद्धमुक्तात्मा जनजनवल्लभोऽन्तरात्मा।। 56।।

निर्लज्जं जनहितमुच्छिनत्ति यस्तं न क्रूरं क्षपयति नेतिहासवज्रम्।
स्वैरत्वं व्रजतितरां स्वतन्त्रता चेद् राष्ट्री स्वां कलयति हन्त कृत्तमूलाम्।।57।।

सौरभ्यं मृगमदसंप्रसूतमीष्टे रोद्धुं को वियति वितत्य राजमानम्।
दौर्गन्ध्यं व्रणसृतपाप्मकप्रसूतं तन्मार्गं कलुषयतां, न तस्य चिन्ता।। 58।।

पौत्रीं मोतीलालनेहरोः किन्त्वेते संघीभूताः सर्व एव परुषं जघ्नुः।
वार्त्तापत्रे तेन सैव देवी जाता सार्धं पुत्रद्वन्द्वतद्वधूभी राज्ञी।। 59।।

शाहायोगं संस्थाप्यैते तां देवीं क्लिष्टाः क्लिष्टां कारागारे धित्सन्ते।
कीर्त्तिस्त्वस्याः कुन्दश्वेता दिग्बालादेहे शुभ्रां शाटीं काञ्चिद् दाधत्ते।। 60।।

न्यायाधीशः शाह इदानीं क्षितिजेऽभूत् तारानाथः कश्चिदपूर्वः सकलेभ्यः।
वार्त्तापत्राण्यन्वहमेवाक्षरमालां यस्याख्याया हन्त जपन्ति स्म विभाते।। 61।।

जैनः कश्चन संजयाय कृतवानस्यास्तनूजन्मने
यानं मारुतिसंज्ञकं प्रति परं वादं नयस्यालये ।
पश्चात् सर्वमिदं मृषेति वदतस्तस्य स्मरामोऽञ्जनै-
र्लिप्तास्याश्च समेऽपि भारतभुवो धिग्धिग् भवामो वयम् ।। 62।।

द्वित्रा इयं भगवती रजनीर्निनाय श्रीकृष्णजन्मसदनेऽपि बलान्निरुद्धा।
विश्वं तदा कलयते स्म तदेव सत्यं चक्रस्य नेमिमुपसीदति यच्चलन्तीम्।।63।।

तस्या निवासभवनस्य कृता परीक्षा निक्षिप्तमत्र धनमित्यतुलानुमानैः।
प्राप्ता च हन्त न हि काणवराटिकाऽपि क्षुद्रा सतीमपि विभावयतेऽन्यथैव।।64।।

यत् कालपात्रमनया भुवि सेतिहासं
दिल्ल्यामखानि तदपि प्रतिचख्नुरेते ।
तत्राऽपि किन्तु परमत्सरदिग्धतैव
द्रोहोत्तरा परिणनाम न कीर्त्तिलोपः ।। 65।।

देशो महानयमथो जनताऽस्य सिन्धोः
पाथःकणा इव परार्ध्यगुणा धरित्र्याम् ।
चारित्रमद्यतनमीदृशमित्युदारा
व्याकुञ्चनां नयनसीम्नि परां श्रयन्ते ।। 66।।

द्रोहः परस्परमिमानथ तां च देवीं
जग्रास राहुरिव चन्द्रतनुं सकेतुम् ।
मीनं व्यडम्बयत पद्मयुतान् स तस्मिन्
काले स्वतुल्यकुलजान् कवलीचिकीर्षुम् ।। 67।।

नो सत्यमेव वदतु च्छलनिग्रहार्थं
नो ब्रह्मचर्यमुपसीदतु संयमार्थम् ।
नैवाऽपरिग्रहमुपाश्रयतु श्रियो हि
सम्यग्विभाजन-महायजनस्य पूर्त्त्यै ।। 68।।

संग्राह्यमात्मनि तपः परमं, न राज्यं,
संत्याज्य आत्मनि परिग्रहगृध्नुभावः ।
सौराज्यमिच्छति जनो यदि सर्वसिद्धि-
संसाधितं च परतन्त्रणरेचितं च ।। 69।।
संत्याज्य आत्मनि परिग्रहगृध्नुभावः ।
सौराज्यमिच्छति जनो यदि सर्वसिद्धि-
संसाधितं च परतन्त्रणरेचितं च ।। 69।।
जनयति जनता न कुत्र जन्यं
भुवि निजलाभकृतेऽन्यदिग्धयित्री ।
रहयतु मुखदर्शिताभिधानं
भुजगसुतावदनं प्रजाजनौघम् ।। 70।।
भुवि निजलाभकृतेऽन्यदिग्धयित्री ।
रहयतु मुखदर्शिताभिधानं
भुजगसुतावदनं प्रजाजनौघम् ।। 70।।
इति भावयितुं महीयमद्य मनुजानां रटति स्म रावमुच्चैः ।
बधिरत्वमिताः परन्तु काष्ठा भरतानामखिला इदंमुहूर्त्ते ।। 71।।

इति ‘स्वातन्य्र्ूसम्भवे’ महाकाव्ये सनातनकविरेवाप्रसादद्विवेदिकृतौ
‘अन्तःकलहो’ नाम त्रयोविंशः सर्गः।। 23।।