भारतीयं काव्यसाहित्यमखण्डेऽपि भूखण्डे सर्वतोऽपि विश्रुतं नूनम्। वेदोपनिषद्दर्शनाद्यार्षविज्ञानैरुन्मीलितलोचना: पारेसमुद्रवासिनो वैदेशिका अपि यथा प्रणमन्ति प्राच्यविपश्चितस्तथा सकलसहृदयानामन्त:करणं वशीकुर्वद्भि: संस्कृतकाव्यैरपि विस्मापितमखिलं विवेकिजगत्। महाकविकालिदासादे: शाकुन्तलरघुवंशादिकं भक्तिगद्गदं स्तुवद्भि: पश्चात्त्यविपश्चिद्भिर्डिण्डिमघोषमाघोषितो भारतीयमहिमेति कस्य वा न विदितम्? वशीकृतवाणीनां पुराकवीनां बहूनि किल काव्यरत्नानि साम्प्रतमप्यविदितानि किन्तु चिराद्वैदेशिकशासनविदलितेऽस्मिन्भारते सम्प्रति दुष्प्रापाणि तानि नूनम्। सुप्रसिद्धै: पञ्चकाव्यैरेव व्युत्पन्ना: प्राच्यपण्डिता: शनै: शनैर्गवेषणया आविष्कृतानां मयूर-साहसाङ्क-भर्तृमेण्ठ-क्षेमेन्द्र-राजशेखर-भासादिकाव्यानामपि रुचिरं रसज्ञा: समभवन् इति क्रमश: समुपलब्धां भारतीयकाव्यसमृद्धिं को वा नानुमिनुयात्?
सोऽयं काश्मीरश्चिराद्विद्यापीठमार्यावर्तेऽस्मिन्। अत्रैवाविष्कृतेर्नानातन्त्राऽऽगमैरुद्भासितं भारतीयं पण्डितजगत्। इहैवानुपमगिरस्ते कवय: समभवन् ये कुङ्कुमकेसराणामिव कविताविलासानामप्येकमात्रं काश्मीरमेव प्ररोहस्थानमभिमन्वते। तेषां भर्तृमेण्ठ-भल्लट-मयूराद्या: प्रथमा:, विह्लणाभिनन्द-क्षेमेन्द्रपरिमलगुप्तादयो मध्यकालिका:, मङ्खजह्लण-जगद्धरादयोऽवरकालिका: प्रसिध्यन्ति। तेष्वयं वेदे व्याकरणेऽलङ्कारशास्त्रे च विशेषाभिमानशाली श्रीमान् विल्हण: प्रमुखतां धत्ते यं हि कर्णाटकराजधान्या: कल्याणनगर्या: स्वामी पर्माडिभूपतिव्रिक्रमाङ्को 'विद्यापति’ विरुदेनालञ्चक्रे। आह बिह्लण:-
''साङ्गो वेद: फणिपतिदृशा शब्दशास्त्रे विचार:
प्राणा यस्य श्रवणसुभगा सा च साहित्यविद्या।
को वा शक्त: परिगणयितुं श्रूयतां तत्त्वमेत-
त्प्रज्ञाऽऽदर्शे किमिव विमले नास्य सङ्क्रान्तमासीत्।।’’ (१८/८२)
प्राणा यस्य श्रवणसुभगा सा च साहित्यविद्या।
को वा शक्त: परिगणयितुं श्रूयतां तत्त्वमेत-
त्प्रज्ञाऽऽदर्शे किमिव विमले नास्य सङ्क्रान्तमासीत्।।’’ (१८/८२)
''चक्रं यस्याऽक्रियत वदनप्रेक्षि विद्यावधूनां
श्रीवाग्देव्याश्चरणरजसो कार्मणत्वं गतेन।
याता: सार्द्धं दिशि दिशि पुनर्बन्धुरा: सर्गबन्धा:
कीर्ते: पारिप्लवविदलने सौविदल्ला बभूवु:।।’’ (१८/८३)
श्रीवाग्देव्याश्चरणरजसो कार्मणत्वं गतेन।
याता: सार्द्धं दिशि दिशि पुनर्बन्धुरा: सर्गबन्धा:
कीर्ते: पारिप्लवविदलने सौविदल्ला बभूवु:।।’’ (१८/८३)
प्राकृतशोभाप्रवीरस्य काश्मीरस्य सहजसुषमाधरेषु नगरेषु 'प्रवरपुरं’ सर्वप्रधानम्। यद्धि वितस्तासिन्ध्वो: सङ्गमे समधिविष्टम्। एतद्धि न केवलं लौकिकनगरातिशाय्येव, अपितु अलकालङ्काऽमरुवतीभ्योऽपि पराजयप्रदम्। पवित्रं तत्पुरं विद्वद्भिब्राह्मणैरलङ्कृतम्। न तत्र कदाचिदुष्णता बाधते। तत्र हि भट्टारकमठ-सङ्ग्रामकक्षेत्रमठ-क्षेमगौरीश्वरमन्दिराणि जगति दर्शनीयानि।
प्रवरपुरस्य सार्धक्रोशद्वयान्तरे जयवनं नाम प्रदेश:। तस्यैव निकटे खोनमुखो ग्राम:, यत्र हि कुङ्कुमस्य मृद्वीकानां चाधिक्येनोत्पत्ति:। तत्र कौशिकगोत्रीयब्राह्मणानां निवास:। तस्मिन्वंशे महाप्रभावो मुक्तिकलशो नाम विप्रमणि:। तत्पुत्रो राजकलश:। तत्सुतो ज्येष्ठकलशो यो हि साहित्यस्य जन्मभू:, शब्दशास्त्रस्याचार्यो महाभारतस्य प्रणिनाय व्याख्यामेकाम्। तस्मान्नागादेव्यां विह्लण: सोऽयमजनि। साङ्गं वेदम्, विशेषतश्च साङ्गं व्याकरणं, सम्पूर्णं साहित्यशास्त्रं चायत्तीकृत्य सोऽयं दिग्विदिक्षु प्रथितयशा: समभूत्।
काश्मीरेषु सर्वत: स्वयश: प्रसार्य प्रायासीदसौ विदेशान्। पाञ्चालेषु किञ्चिदध्युष्य तत्काले वैदुष्याय प्रथितां मथुरां प्रययौ तत्र निर्जिगाय निखिलान्पण्डितान्। ततो वृन्दावने न्यवात्सीकञ्चित्कालम्। तत्राधिवसत एवास्य परितोऽपि दूरदूरप्रान्तेषु तस्य कविता लोकप्रियासीत्। आबालवृद्धवनितास्तस्य कवितां प्रणयत: पेठु: कश्मीरेषु प्रमोदे चाऽमाद्यन्। इत इव तस्य कीर्तिरगच्छत्कान्यकुब्जानपि। प्रभूतं द्रव्यमुपार्ज्यापि सर्वस्वं तत्प्रयागे प्रददौ भूसुरेभ्य:।
तत: स काशीमुपगत्य दु:शीलनरपतीनां मुखालोकोद्भवं दुरितं देवतटिन्यामक्षालयत्। तत्र कालञ्जरविजेत्रा दाहलाधीशेन कर्णेनाऽसौ समगच्छत। एतस्य कवितावृत्तमास्वाद्य निर्ववौ दाहलनरेश:। तस्याऽऽस्थानपण्डितं प्रसिद्धकविं गङ्गाधरमसौ मध्येसभं पराजिग्ये। ततो वागमृतेनायोध्यां शीतलीकृत्य गुर्जरान्प्रययौ। मार्गमध्ये स भोजस्य राजधानीधारां कार्यवशात्परिजहार। एष हि गुर्जरभूनिर्जरैर्न मनागपि तुतोष। आह स्म स:-
'कक्षाबन्धं विदधति न ये सर्वदैवाविशुद्धा-
सद्भाषन्ते किमपि भजते यज्जुगुप्सास्पदत्वम्।
तेषां मार्गे परिचयवशादर्जितं गुर्जराणां
य: सन्तापं शिथिलमकरोत्सोमनाथं विलोक्य।।’ (१८/९७)
सद्भाषन्ते किमपि भजते यज्जुगुप्सास्पदत्वम्।
तेषां मार्गे परिचयवशादर्जितं गुर्जराणां
य: सन्तापं शिथिलमकरोत्सोमनाथं विलोक्य।।’ (१८/९७)
अनेकनरपालानां समागमलालसया प्रययौ स दक्षिणापथं रामेश्वरावधि। लघून्नरपालान् दृक्पातेनाऽप्यनभिनन्दन्, प्रवरनरपालानामास्थानं च निजवैदुष्येनाभिमण्डयन्नसौ चालुक्यवंशीयस्य विक्रमाङ्कदेवस्य सभामुपययौ। गुणवशीभूतौऽसौ सर्वतोऽधिकं सम्मानयामास तस्मिन्। अलञ्चकार चासौ 'विद्यापति’ पदकेनाऽमुम्। स हि कर्णाटकपुरन्दरस्य विक्रमाङ्कदेवस्योपहाराय निर्ममौ तदिदं चरितकाव्यम्। देशदेशान्तरेभ्यो लब्धकीर्तिरधिगत प्रभूतसम्पत्तिरपि सस्मार जन्मभूमिम्। स्वयमयमात्ममुखेनाह-
'लब्धा कीर्तिर्दिशि दिशि कृता: सम्पद: साधुभोग्या:
प्राप्ता योग्यै: सह कलहत: कुत्र नीच्चैर्जयश्री:।
गोष्ठीबन्ध: सपदि सुजनै: सारनिष्कर्षदक्ष-
प्रज्ञालब्धस्तुतिभिरचिरादस्तु काश्मीरकैर्मे।।’ (१८/१०३)
प्राप्ता योग्यै: सह कलहत: कुत्र नीच्चैर्जयश्री:।
गोष्ठीबन्ध: सपदि सुजनै: सारनिष्कर्षदक्ष-
प्रज्ञालब्धस्तुतिभिरचिरादस्तु काश्मीरकैर्मे।।’ (१८/१०३)
सर्वथा सर्वत्र लब्धसाफ ल्योऽप्यन्ते भजति भागीरथीमन्तरात्मना-
'आरुक्षाम नृपप्रसादकणिकानद्राक्ष्म लक्ष्मीलवा-
न्किञ्चिद्वाङ्मयमध्यगीष्महि गुणै: कांश्चित्पराजेष्महि।
इत्यज्ञानमयीमकार्ष्म कियतीं नानर्थकन्थां मन:
स्वाधीनीकृतशुद्धबोधमधुना वाञ्छत्यमत्र्यापगाम्।’ (१८/१०४)
न्किञ्चिद्वाङ्मयमध्यगीष्महि गुणै: कांश्चित्पराजेष्महि।
इत्यज्ञानमयीमकार्ष्म कियतीं नानर्थकन्थां मन:
स्वाधीनीकृतशुद्धबोधमधुना वाञ्छत्यमत्र्यापगाम्।’ (१८/१०४)
कर्णभूपालस्य राजधानी दाहिलनाम्ना निरदिक्षद्बिल्हण:। बहव: किल चेदि अथवा चँदेरीत्यस्यैव दाहलेत्युपनाम जगु:। यत्किञ्चित्स्यात् किन्तु दाहलमिदं बुन्देलखण्डान्तर्गतं किञ्चिद्राजसंस्थानमिति प्रतीम:। यतो हि राज्ञ: (कर्णस्य) कालिञ्जरविजेतृत्वमयं वर्णयामास। तदिदं प्राप्यतेऽत्रत्येतिवृत्तेषु। कालिञ्जरं 'बाँदा’ निकटवर्ति, यत्रत्यं प्राचीनदुर्गमद्यापि वर्तमानम्। नासीद्दाहलाद् धारा दूरे, किन्तु भोजप्रख्याति शृण्वन्नपि नायं तत्र ययौ। प्राचीनशिलालेखैरवगम्यते यद् अनहिलवाडस्य राज्ञा भीमदेवेन (प्रथमेन), कर्णेन चानेन सम्भूय भोजोपर्यकारि पुराऽऽक्रमणम्। अत एव कर्णस्य भोजस्य च मिथो वैमनस्यं विचार्यैव विह्लणोऽयं न गत: स्याद्धारानगरीम्। रामेश्वरावधि दक्षिणापथे भ्रान्त्वा परावृत्त: सोऽयं कल्याणनगर्यां विक्रमाङ्कस्याश्रयऽप्राययौ यत्र वृद्धावस्थापर्यन्तमविच्छिन्नं न्युवास। अत एव हि विक्रमाङ्क-चरितस्यान्तिमसर्गे गङ्गातटोपरि निवासहेवाकमसौ प्राचीकटत्। अनेन चेदमप्यनुमीयते यद्बिह्लणो वार्द्धक्य एव विक्रमाङ्कचरितं विरचितवान्।
विक्रमाङ्कस्योपनाम 'विक्रमादित्य:’। एष कल्याणनगर्यां खि०सं० १०७६ तममारभ्य ११२७ पर्यन्तं राज्यमधिशशास। काश्मीरेषु राज्ञोऽनन्तरस्य, कलशस्य, हर्षस्य च वर्णनेन प्रमाणितं भवति यत् एकादशशताब्द्या उत्तरार्द्धे पर्यटितवान् बिह्लणोऽयं नानादेशान्। यत्र किल बिह्लणो वर्णितवाननन्तदेवं तत्र भूतकालिकप्रयोगेणानुमीयते यस्मिन् समये काव्यमिदं व्यरच्यत तस्मिन् समये नासीदनन्तदेव:। यथा हि-
'सत्यत्यागप्रमुखनिखिलोत्कर्षसम्पत्तिसीमा
तस्मिन्नासीदवनिवनितावल्लभोऽनन्तदेव:।
वैरिस्तम्बेरमघनघटागर्जितानामगम्ये
चक्रे धारापयसि यदसे: कीर्तिहंसी निवासम्।।’ (१८/३३)
तस्मिन्नासीदवनिवनितावल्लभोऽनन्तदेव:।
वैरिस्तम्बेरमघनघटागर्जितानामगम्ये
चक्रे धारापयसि यदसे: कीर्तिहंसी निवासम्।।’ (१८/३३)
राजतरङ्गिणीत: प्रतीयते यद् अनन्तदेव: पञ्चविंशतिवर्षाणि राज्यं प्रशास्याऽन्ते निजपुत्रं कलशं न्यवीविशत्सिंहासने, किन्तु पञ्चदशवर्षाणि स्वयं राज्यप्रबन्धं निरैक्षत। अन्ते पुत्रस्य दु:शीलतया दु:खितो विससर्ज स्वयमात्मनाऽऽत्मानम्। जनरल कनिंहामस्यानुसारमनन्त: १०२८ तमख्रिष्टाब्दे सिंहासनमध्यारुरोह, १०८० तमे च दिवमारुरोह। अतएव 'आसीदवनिवनितावल्लभोऽनन्तदेव:’ इति भूतकालिकप्रयोगेण १०८० तमख्रिष्टाब्दादनन्तरं विक्रमाङ्कचरितरचना सुस्थिरा भवति। एकमन्यदपि प्रमाणमस्ति यदीत: पूर्वं काव्यमिदं निरमास्यत तर्हि १०८८ तमख्रिष्टाब्दे जाताया विक्रमाङ्कस्यास्य मध्यभारतोपरि विजययात्राया अपि वर्णनमत्राऽभविष्यत्। किन्तु नेयं युद्धयात्रा वर्णिता काव्ये। प्रभावशालिनी सेयं यात्रा 'एशियाटिक सोसाइटी’ द्वारा प्रकाश्यस्य पत्रस्य चतुर्थभागे प्रदत्ताऽस्ति। अत एव १०८८ तमख्रिष्टाब्दात्पूर्वम्, १०८८ तमवत्सराच्चानन्तरं विक्रमाङ्कचरितमिदं व्यरच्यतेति सुस्थिरं भवति।
किञ्च राजतरङ्गिण्यां कलशनरेशस्य काले बिह्लणस्य काश्मीरेभ्यो निर्माणं हर्षदेवस्य समये च पुन: परावर्तनं वर्णितम्, यथा-
'काश्मीरेभ्यो विनिर्यान्तं राज्ये कलशभूपते:।
विद्यापतिं यं कर्णाटश्चके्र पर्माडिभूपति:।। ९३६
विद्यापतिं यं कर्णाटश्चके्र पर्माडिभूपति:।। ९३६
प्रसर्पत: करटिभि: कर्णाटकटकान्तरे।
राज्ञोऽग्रे ददृशे तुङ्गं यस्यैवातपवारणम्।। ९३७
राज्ञोऽग्रे ददृशे तुङ्गं यस्यैवातपवारणम्।। ९३७
त्यागिनं हर्षदेवं स: श्रुत्वा सुकविबान्धवम्।
बिह्लणो वञ्चनां मेने विभूतिं तावतीमपि।। ९३८’
बिह्लणो वञ्चनां मेने विभूतिं तावतीमपि।। ९३८’
कल्याणस्य त्रिभुवनमल्लोऽयं विक्रमादित्य एव 'पर्माडि’ नामा। ततश्च यस्मिन्समये कलशो नाममात्रार्थं राजासीद् राज्यप्रबन्धं च स्वयमनन्तदेवो निरीक्षते स्म तस्मिन् समये (१०६२ तमख्रिष्टाब्दादनन्तरम्) बिह्लण: काश्मीरेभ्यो विनिर्ययौ। एतदनन्तरं विंशति-पञ्चविंशति वर्षाणामन्तराले नानादेशेषु भ्रान्त्वा, कल्याणे निर्भरं न्युष्य, पुन: पराववृते काश्मीरान् बिह्लण:।
ततश्च कलशराज्यकालादनन्तरम् अनुमानत: १०६४ तमख्रिष्टवत्सरस्याऽऽसन्नमयं काश्मीरान् विजहौ, प्रौढवय: प्राप्तौ अनुमानत: १०८५ तमवत्सरस्य सन्निधौ च सोऽयं विक्रमाङ्कचरितं प्रणिन्ये। काव्यस्यान्तिमसर्गे सकलसांसारिकसुखभोगोत्तरं सम्प्रति गङ्गातटनिवासलालसस्य वार्द्धक्यं न चेदथापि कवे: पञ्चाशदुत्तरं वयोऽवश्यमनुमातव्यं भवति।
बिह्लणस्यान्ये ग्रन्था:
विक्रमाङ्कदेवचरितमन्तराऽन्येऽपि ग्रन्था बिह्लणेन प्रणीता:, यतो हि शार्ङ्गधरपद्धतौ बिह्लणनाम्नाऽनेके श्लोका उद्धृता ये नास्मिन्काव्ये प्राप्यन्ते। ततोऽन्यस्यापि ग्रन्थस्यानुमानं भवति परं नाद्यावधि कस्याऽप्यनुसन्धानम्। प्रोफेसर आफरेटो बिह्लणकृतमलङ्कारग्रन्थमप्येकमाह। विक्रमाङ्कचरितात्पूर्वं 'बिह्लणपञ्चाशिका’तो बिह्लणस्यासीत्परिचय: पण्डितेषु। क्वचिदस्याश्चौरपञ्चाशिकेति नामापि प्रख्यातम्। पञ्चाशिकाया: प्राचीनपुस्तके सेयमाख्या प्रख्याता, यत्-
गुर्जरधराधिपतेर्वीरसिंहस्यासीच्चन्द्रलेखा (शशिकला) नाम्नी तनया, यामसौ बिह्लणोऽध्यापयाञ्चकार। दैवयोगादभूद् द्वयो: प्रणय:, अत एव बिह्लणो गान्धर्वविवाहेन तामिमां परिणिन्ये। राजगौरवाभिमानी वीरसिंहस्तमिमं संवादमाकर्ण्य भृशं कुपित:, प्राणदण्डमाज्ञापयामास बिह्लणस्य। दृढप्रणयो बिह्लण: शशिकलां स्मरन् वधस्थानप्रयाणावसर एव पञ्चाशिकामिमां निर्ममौ। दैवात्सोऽयमपि संवाद: प्रायासीद्वीरसिंहस्य कर्णयो:। कवितारसज्ञोऽसौ पञ्चाशिकाया: प्रौढपरिपाकात्प्रसन्नो न केवलं बिह्लणस्यापराधमेव चक्षमे, अपि तु बिह्लणेन सह निजतनयाया: परिणयमपि विधिवच्चकार। अनहिलवाडे चासीद्वीरसिंहनामा नरपालो नूनम्, किन्तु फाब्र्समहोदयस्य रासमालानुसारं तस्य मृत्यु: ९२० तमे ख्रिष्टाब्दे अर्थात् बिह्लणकालाच्छतवर्षपूर्वमेवासीत्। अत एव वीरसिंहसविधे बिल्हणस्याश्रयो न प्रमाणसिद्ध:। न च कुत्रचिद् बिल्हणेनैवात्मकथायामस्य वृत्तस्योल्लेखोऽकारि।
क्वचित्पुस्तके प्राप्यते यत्- मदनाभिरामनरपालस्य यामिनीपूर्णतिलका नाम्नी तनयामुद्दिश्य सेयं पञ्चाशिका प्राणायि कविना बिह्लणेन। स च नरपाल: पाञ्चालदेशस्य लक्ष्मीमन्दिरनामके नगरेऽभवत्, किन्त्वितिहासेषु शिलालेखेषु वा नास्य नरपालस्य कुत्रचिदुल्लेख:। अन्ये कथयन्ति यत्पञ्चाशिकाया अस्या: प्रणेता चौरनामक: कश्चिदन्य एव कविरासीत्, किन्तु नास्यापि किञ्चित्प्रमाणमुपलब्धम्।
'रहस्य सन्दर्भे’ लक्ष्मीमन्दिरस्य राजकुमारी यामिनीपूर्णतिलकामालम्ब्य बिह्लणस्य स्नेहसंरम्भोऽन्येनैव प्रकारेणाऽऽवर्णित:। राजा मदनाभिरामो युवकं बिह्लणं निजतनयाया: शिक्षकं नियोक्तुमैषीत्। अत एव द्वयो: परस्परं निरीक्षणं न स्यादिति बुद्ध्या स राजकुमारी कुष्टरोगिणीमगदत्, बिह्लणं च जन्मान्धं तस्यै निरदिक्षत्। द्वयोर्मध्ये जवनिकां निपात्य प्रारभ्यताऽध्यापनकार्यम्। आसीद्राजकुमारी परमबुद्धिमती, अतएव स्वल्पैरेव दिनै: सा भावपूर्णस्य काव्यस्य निर्माणे समभूत्समर्था। एकदा सायं राकाशशाङ्कमालक्ष्य प्रोवाच बिह्लण:-
'नेदं नभोमण्डलमम्बुराशिर्नैताश्च तारा नवफे नभङ्गा:।
नायं शशी कुण्डलित: फणीन्द्रो नायं कलङ्क: शयितो मुरारि:।।
नायं शशी कुण्डलित: फणीन्द्रो नायं कलङ्क: शयितो मुरारि:।।
पुनरन्त्यपद्यं प्रोवाच
'इन्दुमिन्दुमुखि लोकय लोकं भानुभानुभिरमुं परितप्तम्।
वीजितुं रजनिहस्तगृहीतं तालवृन्तमिव नालविहीनम्।।’
वीजितुं रजनिहस्तगृहीतं तालवृन्तमिव नालविहीनम्।।’
पद्यद्वयेऽस्मिन् चन्द्रमसो रूपसंस्थानवर्णनेन प्रत्यभिजज्ञौ राजकुमारी यद्बिल्हणो न कदाप्यन्ध:। अत एव सा जवनिकान्तरालादालोकयामास बिह्लणम्। रूपमुग्धयोरनयोस्तद्दिनादारभ्य मिथ: सन्दर्शनं प्रेम सम्भाषणं च प्रावर्तिष्ट। तत: शनै: निर्ववृत्ते द्वयोर्गान्धर्वविवाह:। अन्ते च गुप्तरहस्यमिदं विदित्वा प्रकुपितो राजा बिह्लणस्य प्राणदण्डमादिदेश। प्रणयी बिह्लणश्च तामिमां पञ्चाशिकां तदैव प्रणिनाय।
बिह्लणो विक्रमाङ्कचरितस्याष्टादशे सर्गे निजवृत्तं निजुगुम्फ , किन्तु न किञ्चिदप्यस्या आख्यायिकाया विषयेऽसौ सञ्जगाद। अत एवाऽऽख्यायिकाया अस्या: सत्यत्वपरीक्षा पाठकानामेवायत्ता। कविता विक्रमाङ्कचरितेन सह किञ्चित्संवदते। पद्धतिकार: शार्ङ्गधर: पञ्चाशिकाया अस्या: कतिचित्पद्यानि निजग्रन्थे उल्लिलेख, यो हि चतुर्दशशताब्द्याम् अर्थात् बिल्हणस्य चतु:शतवर्षेभ्योऽनन्तरं जज्ञे। बिल्हणनाम्ना पञ्चाशिकापद्यानामुल्लेखात्सेयं कृतिर्बिल्हणस्येति स्वीकर्तव्यमापतति।
पञ्चाशिकापद्यै: सेयमाख्यायिका सत्येव प्रतीयते, यतस्तस्यामाह-
'अद्यापि तां नृपतिशेखरराजपुत्रीं
सम्पूर्णयौवनमदालसघूर्णनेत्रीम्।
गन्धर्वयक्षसुरकि न्नरनागकन्यां
स्वर्गादहो निपतितामिव चिन्तयामि।।
सम्पूर्णयौवनमदालसघूर्णनेत्रीम्।
गन्धर्वयक्षसुरकि न्नरनागकन्यां
स्वर्गादहो निपतितामिव चिन्तयामि।।
अद्यापि तां स्वभवनान्मयि नीयमाने
दुर्वारभीषणकरैर्यमदूतकल्पै:।
किं किं तया बहुविधं न कृतं मदर्थे
चक्षुर्न वार्यत इव व्यथते मनो मे।।’
दुर्वारभीषणकरैर्यमदूतकल्पै:।
किं किं तया बहुविधं न कृतं मदर्थे
चक्षुर्न वार्यत इव व्यथते मनो मे।।’
पद्येनानेन सूच्यते यद् वधिकद्वारा राजपुत्र्या: सदनादनीयत बिह्लण:। सा च बिह्लणाय स्निह्यन्ती तदर्थे बहुधा परिशुशोचेति पूर्वोक्ताया आख्यायिकाया: सत्यतां सङ्केतयति। बध्यशिलायां वधस्य पूर्वक्षणेऽपि यस्य बुद्धिर्न विक्षुभ्यति, सुरुचिरं च कवयति, को न तं महाकविं व्यपदिशन् सङ्कुचेत्?
एकदा समाधिस्थं पितामहं ययाचे मघवा यत्सम्प्रति मत्र्यलोके भूयान्प्रवृद्धोऽधर्म:। शनैर्विलुप्येत मखमुखां स्वाहाकार:। अत एव धर्मसंरक्षकस्तत्र कश्चिदवतारणीयो भवतेति-
'पुरन्दरेण प्रतिपाद्यमानमेवं समाकर्ण्य वचो विरञ्चि:।
सन्ध्याम्बु पूर्णे चुलुके मुमोच ध्यानानुविद्धानि विलोचनानि।। (१-४६)
सन्ध्याम्बु पूर्णे चुलुके मुमोच ध्यानानुविद्धानि विलोचनानि।। (१-४६)
अथाविरासीत्सुभटस्त्रिलोकत्राणप्रवीणश्चुलुकाद्विधातु:।।’
तस्माच्चालुक्यानां वंश: प्रववृते। एतस्य प्रथमपुरुषो हारीतो जज्ञे। एतद्वंशीयानामादिराजधानी अयोध्याऽऽसीत्। एतद्वंशीया राजानो दिग्विजयं कुर्वाणा दक्षिणपर्यन्तमगु:। अत्रैव वंशे तैलयो नाम महाप्रताप: पृथ्वीपुरन्दरोऽभूद् यस्य काल: ९९७ ख्रिष्टसंवत्सरमारभ्य १००८ पर्यन्त:। ततो जयसिंहोऽभून् महाप्रतापस्य यस्य कण्ठे स्वयं पुरन्दरेण पारिजातमाला प्रतिमुक्ता-
'यशोऽवतंसं नगरं सुराणां कुर्वन्नगर्व: समरोत्सवेषु।
न्यस्तां स्वहस्तेन पुरन्दरस्य य: पारिजातस्रजमाससाद।।’ (९१-८६)
न्यस्तां स्वहस्तेन पुरन्दरस्य य: पारिजातस्रजमाससाद।।’ (९१-८६)
ततस्तस्य तनय आहवमल्लोऽभूद् यस्योपनाम त्रैलोक्यमल्लेत्यपि। एष चोलान्विजिज्ञे। मालवानभिचस्कन्द। धाराधिपं भोजं विद्रावयामास। दाहलधराधिपते: कर्णस्यापि राज्यमाच्छिदत्। काञ्चीनरपालं पराजित्य परतश्चक्रे। निजराजधानीं कल्याणपुरीं प्रासादैर्देवमन्दिरैश्च प्रसाधयामास।
वैभवशिखरारूढोऽप्याहवमल्लो नि:सन्तानतया भृशं सन्तप्य महिष्या सह महादेवमारराध। प्रसन्न: पुररिपु: पुत्रत्रयं ते भावीति वरं ददौ। यथासमयमाहवमल्लस्य महिषी सुषुवे प्रथमतनयं यस्य नामाऽभूत्सोमेश्वर इति। द्वितीयगर्भधारणसमये राज्ञी दधेऽश्रुतानि दोहदानि। कदाचिद्दिग्गजानां पृष्ठानि पदा परामर्ष्टुमैच्छत्। कदाचिदप्सरोभि: पदसंवाहनमभ्यलषत्। कदाचिच्च खड्गानां धराजलं निपातुमाकाङ्क्षत्। एवं सूचितशुभोदर्क: शुभे मुहुर्ते प्रादुरासीदस्य द्वितीयस्तनय:। अभ्यवर्षन्नमरा दिव्यकुसुमानि। सप्रमोदमनदन् दिवि देवदुन्दभय:। आसीदस्यैव बालकस्य नाम विक्रमादित्य इति। शनै: प्रवृद्ध: स शैशवक्रीडायामपि भाविनी वीरतामङ्कुरयामास। कदाचिद्धंसानग्रहीत्, कदाचिच्च पालितसिंहशिशूनबाधिष्ट। स्वल्पेनैव कालेन विद्यासु धनुर्वेदे चायमलभत कौशलम्। विक्रमानन्तरं राज्ञस्तृतीय: पुत्रोऽभूद् यस्य नाम जयसिंह इति।
सर्वापेक्षयाऽपि लब्धगुणातिशयं तनयं विक्रमाङ्कं यौवराज्येनालङ्कर्तुमैच्छद्भूपाल:। परं निसर्गविनीतोऽसौ ज्येष्ठव्यतिक्रमेण नाऽभिरोचयामास यौवराज्यम्। प्राबोधयत्पिता यद् भगवान् भूतभावनस्त्वामेव प्रजापालनयोग्यमसूचयत्, परं नासौ कथमप्यनुमेने। विवशो नरपालो ज्येष्ठं सोमेश्वरमकरोद् युवराजम्। परं राजलक्ष्मी: पितु: प्रणयश्च विक्रममेवाऽन्वगमत्।
पितुरनुज्ञया विक्रमादित्यो दिग्विजययात्रामकरोत्। स हि चोलान्पराजित्य तद्राजधानीं काञ्चीमलुण्ठत्। अपगतस्य निजराज्यस्य प्राप्तये प्रार्थयमानाय मालवेन्द्राय स प्रददौ साहाय्यम्। गौडं कामरूपं चाऽप्यसौ व्यजेष्ट। सिंहलस्य नरपालं निरवासयद्देशात्। अभ्यामर्दयाञ्चकार चन्दनवनानि मलयाचलस्य। केरलदेशनरेशं प्रास्थापयत्परलोकम्। गाङ्गकुण्डं चक्रकोटं वेङ्गिं चाप्यजयत्।
विजययात्रातो गृहं परावर्तमानो मार्गमध्य एव कृष्णातटे दुर्निमित्तैर्व्याकुल: कल्याणादागच्छत: सन्देशहरात्पितु: परलोकप्रयाणरूपममङ्गलवृत्तमश्रौषीत्- 'भवतो दिग्विजयानन्दसंवादात्प्रमुदितोऽकस्मादेव दुरुद्धरेण ज्वरेणाऽऽक्रम्यत। अनपनेयं तमिममालक्ष्य दक्षिणगङ्गायां तुङ्गभद्रायां शरीरविसर्जनं मन्त्रिभिर्मन्त्रयामास। तैरनुमत: स सर्वेषामग्रतस्तुङ्गभद्रातरङ्गेषु शरीरं विससर्ज। नवीना सेयं घटना यत्-
'प्रविश्य कण्ठदघ्नेऽथ सरित्तोये जगाम स:।
कल्लोलतूर्यनिर्घोषैश्चन्द्रचूडामणे: पुरीम्।। (४/९८)’
पितुर्निधनमाकर्ण्य विह्वलोऽसौ न किञ्चिदचेतयत्। अतिकष्टेन लब्धसान्त्व: कृष्णातटे चकार पितुरन्त्यक्रियाम्। ततो ज्येष्ठं सोमेश्वरं सान्त्वयितुमुपागमत्कल्याणम्। न्यवसतां तत्र द्वावपि कश्चित्कालमतिप्रेम्णा। लघुरपि विक्रमादित्य: सोमेश्वरात्सर्वेष्वपि विषयेष्वासीत्प्रगल्भतरस्तथापि तस्मिन् सम्मानेनाऽवर्तिष्ट। किन्तु स्वल्प एव काले सोमेश्वरो दुराचरणरत: प्रजास्वन्यायमाचरत्। राज्याधिकृतैर्गर्हणीयात्तस्माच्चालुक्यराजलक्ष्मी: कलङ्कसङ्कुलेवासीत्। ज्येष्ठेन निष्पीडितो विक्रमो लघीयांसं जयसिंहं सहादाय कल्याणपुराद्वहिरभूत्। किन्तु तत्पृष्ठे सेनां सम्प्रेष्य सोमेश्वरस्तं मुहुरखेदयत्।
ज्येष्ठेन समरमनिच्छन्नप्यन्ते विवशस्तत्सेनां सर्वथा निर्विमूल्य तं मूकीचकार। ततस्तूर्यनादेन मलयान् कम्पयन्, कोङ्कणपतिना जयेकेशिना नानोपायै: सम्मानित:, आलुपदेशनरेशमधीनीकुर्वन् ,केरलकामिनी: पूर्वविक्रमस्मारणेन विक्लवीकुर्वन् ,समाससाद विक्रमश्चोलसीमानम्। चोलनरपालो दूतं सम्प्रेष्य मैत्रीं प्रादर्शयत्, तामिमां मैत्रीमात्मकुमारीसमर्पणेन सुदृढां चाकरोत्, चोलेन्द्रनन्दिनीं परिणीय पराववृते विक्रमो निजदेशम्। किञ्चित्कालानन्तरमेव चोलमहीपतिभर्तुर्निधनम् ,विरोधिनां विप्लवं च श्रुत्वा स प्रययौ पुनर्दक्षिणां दिशम्। तत्र विप्रतीपान्पराजित्य निजश्यालं निवेशयामास राजपीठे।
गाङ्गकुण्डमुपगत्य, चोलसपत्नान्निर्मूल्य, कतिचिद्दिनानि काञ्चीमध्युष्य, पुनरसौ तुङ्गभद्रामवाप। तत्र निजश्यालस्य परलोकप्रस्थानम्, वेङ्गिदेशनरेशेन राजिगेन काञ्चीपराजयं चाधिगम्य त्वरितमेवासौ काञ्चीमभ्यषेणयत्। एतदन्तरे राजिगो दूतं सम्प्रेष्य विक्रमज्येष्ठं सोमेश्वरमपि स्वपक्षे कृत्वा विक्रमस्य पराजयाय प्रायतिष्ट। चोलचालुक्ययोश्चिरवैरं जानन्नपि दुर्बुद्धि: सोमेश्वरो विक्रमवैरनिर्यातनाय तेन समगंस्त। विक्रमो दुर्गाहिनीं वाहिनीमादाय प्रययौ शत्रुसम्मुखम्। इत: सोमेश्वर: कल्याणात्प्रस्थाय विक्रममनुप्रययौ तत्सन्निधौ। विक्रमाङ्को भ्रातुर्दुरभिसन्धिमिममाकर्ण्य युद्धाद्विरन्तुं तं मुहुर्मुहुरबोधयत्। किन्तु बहि: सान्त्वं प्रदर्शयन्नप्यन्तर्विक्रमाङ्कनिर्दलनाय समचेष्टिष्ट सोमेश्वर:। ततोऽपि ज्येष्ठं सम्मुखसमरे योधयितुं नैच्छद्विक्रम:। किन्तु नक्तं नीलकण्ठेन योद्धुमादिष्टोऽसौ प्रात: प्रायासीत्समराङ्गणम्। तत्र घोरं सङ्ग्रामं विधाय विजयलक्ष्मीमयमालिलिङ्ग। समरविध्वस्त: पलायिष्ट राजिग:। जीवग्राहमग्रहीत्सोमेश्वरम्।
ज्येष्ठं सोमेश्वरं पुन: कल्याणराज्ये स्थापनाय वाञ्छन्नपि, सक्रोधं शङ्करेणादिष्टोऽसौ तदिच्छया राज्यसूत्रं स्वकरे कृत्वा दक्षिणापथस्य प्रभावशाली शासकोऽभूत्। निजं लघीयांसं जयसिंह वनवासदेशस्याऽधिपतिमकरोत्।
विक्रमादित्य: परावर्तिष्ट विरहिदुरन्ते वसन्ते कल्याणम्। तस्मिन् कालएव तत्कर्णयो: संवाद: प्रापद्यत् करहाट (वर्तमाने 'कराड’) राजकुमारी चन्द्रलेखा पार्वत्या आदेशात्स्वयंवरं चिकीर्षति। प्रासिध्यत्तस्या: सौन्दर्यं सर्वत्रापि तस्मिन्प्रान्ते। अत एवोत्कण्ठितो विक्रमो दूतं सम्प्रेष्य तत्रत्यं संवादमानाययामास। ज्ञातमनेन यद् विक्रमस्य विक्रममाकर्ण्य राजकुमारी पूर्वत एव सम्मुग्धा। करहाटेन्द्रोऽपि तदिदं सम्मन्यते।
स्वयंवरस्याऽऽसीत्सन्निहितोऽवधि:। अत एव ससम्भारं यात्रां विधाय प्राप्रोत्करहाटं विक्रमाङ्क:। तत्र करहाटनरेश्वरेण सत्कृत: प्रायासीत्स्वयंवरमण्डपम्। प्रतीहारी पुरस्कृत्य प्रययौ कुमारी चन्द्रलेखाऽपि ततोऽयोध्या-चेदि-कान्यकुब्ज-कालिञ्जर-मालव-गुर्जर-पाण्ड्य-चोलादि नरेशेषु सर्वत: कीर्त्यमानेष्वपि नातुष्यत्कुमारी। यदा तु विक्रमस्य सम्मुखमुपागात्तदा स्वयमेव सन्तुष्य ''पतिंवरा संवरणस्रजं तां श्रीविक्रमार्कस्य चकार कण्ठे।’’
तत: करहाट एव चन्द्रलेखया सह सुखं विहरन् सप्रमोदमयापयद्वसन्तम्। ग्रीष्मारम्भे चन्दे्रलेखं सहादाय पराववृते कल्याणम्। (अत्रैव ग्रीष्म-तच्चर्या-जलविहारादिवर्णनम्)। वर्षर्तोरनन्तरे प्राप्त: संवादो विक्रमेण यद्वनवासदेशाधिकारी लघीयान् जयसिंह: सम्प्रति विरोधे शस्त्रं गृह्णातीति। चरैरेतत्संवादस्य सत्यतां निश्चित्य दूतैस्तमेनं भूयोभूय: प्राबोधयत्, परं दुर्दैवप्रेरितो नाऽबुध्यत जयसिंह:। समागच्छरत् (अत्रैव शरद्वर्णनम्)। अनेकैर्माण्डलिकनरपालै: सह सन्धाय विपुलवाहिनीसमेतो जयसिंहो युद्धाय समागमत्कृष्णाऽभिमुखम्। मार्गे मदोन्मत्तो भूयस्सु ग्रामेष्वत्याचरत्। विक्रमेण पुन: पुन: प्रतिबोधितोऽपि यदा नागमन्मार्गे तदा प्रायासीद्विक्रमोऽपि रणाङ्गणम्।
समघटत करिघटाबहुलयां जयसिंहपृतनया विक्रमाङ्कस्य भीषण: समर:। पूर्वं किञ्चित्प्रस्फु रन्नप्यन्ते पराजित: पलायिष्ट जयसिंह:। न ततोऽपि तेन सह दुर्व्यवहारं चकार विक्रम:।
विक्रमे कल्याणं प्रतिनिवृत्ते समागमच्छिशिर: (शिशिरवर्णनम्, मृगयादिवर्णनमत्र)। एवं सर्वत: शत्रून्पराजित्य तद्राज्येष्वात्मन: शासनं प्रवर्तयामास विक्रम:। अदृश्यत सर्वतोऽपि शान्ति:। समये प्रावर्षत्पयोदा:। नाभूत्तस्य शासने किञ्चिदपि कष्टं प्रजानां समये प्राप्तं पुत्रं विक्रमाङ्क:। स्वकीर्तिस्मारणाय देवस्थानधर्मशालादिकमकारयद्विक्रम:-
'कृतो निवास: कमलाविलासिन: क्षमाभुजा तेन नितान्तमुज्ज्वल:’ इत्यादि। एतस्यान्तिके महान्तं तडागमखानयत्। निजनाम्ना पुरं चाऽऽवासयत्-'निरन्तरं ब्रह्मपुरीभिरावृतं चकार तत्रैव पुरं स पार्थिव:’। एकवारं पुनर्युद्धयात्रां व्यदधाद्विक्रम:। चोलभूपाल: पुन: प्रतीपतामदर्शयत्। अत एव काञ्चीमाक्रम्य पुन: पराक्रमं प्राकटयद्विक्रम:। तत: काञ्चीमायत्तीकृत्य विजयमण्डितो मण्डयामास पुन: कल्याणपुरीं विक्रमादित्य:।
१. मङ्गलम्। कवे: काव्यस्य प्रशंसा। आहवमल्लस्य तत्पूर्वजानां च वर्णनम्।
२. चालुक्यराजधान्या: कल्याणपुर्या वर्णनम्। सन्ततये आहवमल्लस्य तप:, शङ्करवरप्रदानम्, सोमेश्वरस्य जन्म।
३. विक्रमाङ्कजननम्, बालचरितम्। जयसिंहजन्म। सोमेश्वरस्य युवराजपदप्राप्ति:।
४. विक्रमदिग्विजय:, आहवमल्लमृत्यु:, सोमेश्वरराज्यप्राप्ति:। विक्रमस्य पुन: कल्याणे प्रत्यावृत्ति:। सोमेश्वरस्याऽन्याय:, असदाचरणम्। जयसिंहमादाय विक्रमस्य च कल्याणान्निर्गम:। सोमेश्वरसेनाया विक्रमद्वारा पराजय:।
५. विक्रमस्य द्रविड-चोल-केरलादिगमनम्। आयत्तीकरणं तद्देशानाम्। द्रविडेश्वरकन्यया तुङ्गभद्रातटे विक्रमस्य विवाह:।
६. चोलेश्वरमृत्यु:, वेङ्गिनरेशस्य (रजिगस्य) चोलोपर्याक्रमणम्। चोलेशतनयस्य युद्धे मृत्यु:। विक्रमविरोधे सोमेश्वर-वेङ्गिनरेशयोर्मन्त्रणा। विक्रमस्य ताभ्यां युद्धम्, विजय:। सोमेश्वरस्य ग्रहणम्। जयसिंहाय वनवासप्रदेशार्पणम्। विक्रमस्य कल्याणाऽऽगमनम्।
७. वसन्त:, होला।
८. चन्द्रलेखारूपवर्णनम्।
९. चन्द्रलेखाविरहे विक्रमव्यथा। दूतप्रेषणम्, स्वयंवरे गमनम्, स्वयंवराया वर्णनम्। राज्ञां चेष्टा:, प्रतीहार्याश्चरितकीर्तनम्। विक्रमाय वरमाल्यार्पणम्।
१०. वनविहार-जलविहार-पुष्पावचया:।
११. सन्ध्याचन्द्रोदयवर्णनम्। चन्द्रोपालम्भप्रभातादिवर्णनम्।
१२. ग्रीष्मे करहाटात्कल्याणगमनं विक्रमस्य। पौरनारीणां चेष्टा:, ग्रीष्म:, शीतोपचार:, वापीविहारादयश्च।
१३. चन्द्रलेखां सम्बोध्य वर्षावर्णनम्।
१४. जयसिंहस्य शत्रुता, शरद्, दूतद्वारा जयसिंहोपदेश:। राज्यसमर्पणायापि विक्रमस्य सज्जीभाव:। तथापि जयसिंहस्याऽस्वीकार:। उभयतो रणसज्जा। कृष्णातटे शिबिरसन्निवेश:।
१५. विक्रमजयसिंहयोर्युद्धम्। जयसिंहस्य पराजय: पलायनं ग्रहणं च।
१६. हेमन्त-शिशिर-मृगया-वर्णनम्।
१७. विक्रमस्य दानं धर्मानुष्ठानम्। तडाग-नगर-मन्दिरादिनिर्माणम्। सन्तानोद्भव:। चोलशासकेन पुन: सङ्ग्राम:। विक्रमविजय:। किञ्चिच्चोले स्थित्वा पुन: कल्याणे प्रत्यावर्तनम्।
१८. काश्मीरवर्णनम्। राज्ञ: अनन्तरस्य कलशस्य हर्षस्य एवमादीनां वर्णनम्। कविपूर्वजानां कवे: स्वचरितस्य च वर्णनम्। देशपर्यटनम्, इत्यादि।
ग्रन्थस्यास्य विस्तारोऽलङ्कारशास्त्रीयनियमानुसरणार्थम्, कवीनां नियतेषु ऋतुवर्णनादिविषयेषु स्वरचनाचातुर्यमभिप्रथयितुं च ऋत्वादिवर्णनप्रभृतिभिर्वर्द्धितो भूयान्ग्रन्थकारेण। अन्यथा चरितानुवर्णनं सप्ताष्टाभिरेव सर्गै: शक्येत समापतितुम्। आलोचकानामिदमपि कथनं यच्चरितकाव्यमप्येतत् नार्हति नूनमविकलमितिहासपदम्। महाकाव्यलेखनेन स्वपाण्डित्यप्रख्याति: कवेर्मुख्यमुद्देश्यम्। तत्र निजाश्रयस्य राज्ञ एव नायकत्वेनालम्बेन कृत्वा साहित्यनियमै: परिपूरितमिदं चरितम्। ऋतुवर्णनमिदं काव्यशोभासामग्रीमाग्रहेणैव परिकल्पयति कवि:। षडपि ऋतवो वर्णनीया इत्येव वर्णितास्तावदखिला ऋतव:। शरत्तु स्फु रमस्थान एव वर्णिता। जयसिंहो लघुभ्राता युद्धाय दुर्मतिं कृतवान्, अत एव युद्धनिरोधाय नायकस्य यत्नश्चिन्ता च। तत्र मध्य एव शरदो वर्णनम्, तदपि लम्बलम्बायितम्। पाठतामालोचकचित्तानामिदमरून्तुदं नूनम्।
युद्ध सन्नाहो भिन्नभिन्नदेशेषु भवेद्भिन्नभिन्नो नूनम्। किन्तु वीरता प्रकरणे न तावदवतारणा शृङ्गारस्येति सामान्यतया कविवर्णनापद्धति:। यद्यपि न मिथो विरोधो वीरशृङ्गारयो: किन्तु मध्ये प्रसङ्गमवतार्यैव कवि: शृङ्गारं वा वीरं वा प्रकटयतीति दृष्टं वर्णनकाव्येषु। संस्कृतकाव्येषु बहुत्र युद्धयात्रावर्णने राजपत्नीनामपि सह प्रस्थानमवगतं तावत्। बिल्हणोऽपि युद्धावसरे राजभि: सहान्त:पुरप्रस्थानस्य पक्षपाती। यत: शोभासज्जया वर्णयति नायकेन सहान्त:पुरप्रयाणं कवि:। न किल तदिदं भारतीया भूपाला एव चक्रुर:। मोगलसम्राड्भिरप्येवमक्रियत। कदाचित्पराजये सति नाऽवरोधो विरोधिनां हस्तग: स्यादित्येव प्रकाश्यमाकूतं तस्य। किन्तु वेश्या अपि सेनया सह गच्छन्तीत्यद्भुत: क्रमो बिल्हणस्य। यथा-
'वाराङ्गनास्तस्य तुरङ्गमेषु भ्रूकार्मुकारूढकटाक्षबाणा:।
विरेजिरे दिग्विजयोद्यतस्य सेना इवाऽनङ्गनराधिपस्य।।’ (१६/३०)
विरेजिरे दिग्विजयोद्यतस्य सेना इवाऽनङ्गनराधिपस्य।।’ (१६/३०)
बिह्लणो महाकवि:, सर्वथा सर्वत्र समर्थश्च। तथापि स्थाने स्थाने कालिदासस्यार्थान् शब्दांश्चानुजहार। नवमसर्गस्थं स्वयंवरवर्णनं रघो: षष्ठसर्गस्थमिन्दुमतीस्वयंवरमविकलमनुकरोति। रघौ सुनन्दानाम्नी प्रतीहारी इन्दुमत्या सह राज्ञां परिचयमकारयत्, अत्राऽप्यसूचितनामधेया प्रतीहारी राज्ञां वर्णनमवतारयति। रघौ इन्दुमतीदर्शने तल्लिप्सूनां राज्ञां नाना चेष्टा वर्णिता:, अत्रापि तथा षोडशसर्गस्थं मृगयावर्णनं रघोर्नवमसर्गस्थस्याऽनुकरणम्। विक्रमाङ्कऽस्य नगरप्रवेशे कोमलाङ्गीनां भावभङ्गीवर्णनं, रघो: सप्तमसर्गस्थं तद् भूयस्तरामनुकरोति नात्रौदाहरणप्रदर्शनेन निबन्धविस्तरो नूनमावश्यक:। आलोचनमार्मिका: स्वयमिदमवगच्छेयु:।
रघु: अथाप्यंशतो निबन्धनशैलीसाम्यं निदर्श्यते-विक्रमाङ्कचरितम्
'तां प्रत्यभिव्यक्तमनोरथानां
महीपतीनां प्रणयाग्रदूत्य:।
प्रवालशोभा इव पादपानां
शृङ्गारचेष्टा विविधा बभूवु:।।’ (६/१२)
महीपतीनां प्रणयाग्रदूत्य:।
प्रवालशोभा इव पादपानां
शृङ्गारचेष्टा विविधा बभूवु:।।’ (६/१२)
'पाण्ड्योऽयमंसार्पितलम्बहार:
क्लृप्ताङ्गरागी नवचन्दनेन।
आभाति बालातपरक्तसानु:
सनिर्झरोद्गार इवाद्रिराज:।।’ (६/९०)
क्लृप्ताङ्गरागी नवचन्दनेन।
आभाति बालातपरक्तसानु:
सनिर्झरोद्गार इवाद्रिराज:।।’ (६/९०)
'अनेन सार्द्धं विहराम्बुराशे-
स्तीरेषु तालीवनमर्मरेषु।
द्वीपान्तरानीतलवङ्गपुष्पै-
रपाकृत चिदलवा मरुद्भि:।।’ (६/५७)
स्तीरेषु तालीवनमर्मरेषु।
द्वीपान्तरानीतलवङ्गपुष्पै-
रपाकृत चिदलवा मरुद्भि:।।’ (६/५७)
'तस्मादयावर्तत दूरकृष्टा-
मित्येव लक्ष्मी: प्रतिकूलदैवात्।’ (६/५८)
'निसर्गभिन्नास्पदमेकसंस्थ-
मस्मिन् द्वयं श्रीश्च सरस्वती च।।’ (६/२८)
मित्येव लक्ष्मी: प्रतिकूलदैवात्।’ (६/५८)
'निसर्गभिन्नास्पदमेकसंस्थ-
मस्मिन् द्वयं श्रीश्च सरस्वती च।।’ (६/२८)
'ततस्तदालोकनतत्पराणां
सौधेषु चामीकरजालवत्सु।
बभूवुरित्थं पुरसुन्दरीणां
त्यक्तान्यकार्याणि विचेष्टितानि।।’ (७/५)
सौधेषु चामीकरजालवत्सु।
बभूवुरित्थं पुरसुन्दरीणां
त्यक्तान्यकार्याणि विचेष्टितानि।।’ (७/५)
'तदीयवक्त्रेऽनुविलोकनेन
सान्द्राल्लसद्रागपयोनिधीनाम्।
तत्रागतानां पृथिवीपतीना-
मासन्विचित्राणि विचेष्टितानि।।’ (८/७५)
सान्द्राल्लसद्रागपयोनिधीनाम्।
तत्रागतानां पृथिवीपतीना-
मासन्विचित्राणि विचेष्टितानि।।’ (८/७५)
'श्रीखण्डचर्चा परिपाण्डुरोऽथ
पाण्ड्य: प्रकामोन्नतचारुदेह:।
क्षीरोदधिक्षीरपरिप्लुतस्य
चातुर्यमाचामति मन्दराद्रे:।।’ (९/११९)
पाण्ड्य: प्रकामोन्नतचारुदेह:।
क्षीरोदधिक्षीरपरिप्लुतस्य
चातुर्यमाचामति मन्दराद्रे:।।’ (९/११९)
उभयत्रापि पाण्ड्यस्यैव चन्दनचर्चापाण्डुरत्वमेकया शैल्या वर्णितं दृश्येत।
'अनेन मैत्रीं यदि मन्यते ते
मनोभवस्तामरहायताक्षि।
लीलावने चन्दनपादपानां
श्रयन्तु नित्यं मलयानिलास्त्वाम्।।’ (९/१२)
मनोभवस्तामरहायताक्षि।
लीलावने चन्दनपादपानां
श्रयन्तु नित्यं मलयानिलास्त्वाम्।।’ (९/१२)
'तत्रापि साऽभूद् गुणभाजनेऽपि
पराङ् मुखी श्रीरिव भाग्यहीने।।’ (९/१२१)
पराङ् मुखी श्रीरिव भाग्यहीने।।’ (९/१२१)
'वदामि सौभाग्यगुणं किमस्य
यत्रास्थिते श्रीश्च सरस्वती च।।’ (१/१३७)
यत्रास्थिते श्रीश्च सरस्वती च।।’ (१/१३७)
'अस्मिन् क्षणे कुन्तलपार्थिवस्य
प्रवेशमाकर्ण्य पुराङ्गनानाम्।
आसन् विलासव्रतदीक्षितानां
स्मरोपदिष्टानि विचेष्टितानि।।’ (१२/२)
प्रवेशमाकर्ण्य पुराङ्गनानाम्।
आसन् विलासव्रतदीक्षितानां
स्मरोपदिष्टानि विचेष्टितानि।।’ (१२/२)
'अपि तुरगसमीपादुत्पतन्तं मयूरं
न स रुचिरकलापं बाणलक्ष्यीचकार।
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे
रतिविगलितबन्धे केशपाशे सुकेश्या:।।’ (८/९७)
न स रुचिरकलापं बाणलक्ष्यीचकार।
सपदि गतमनस्कश्चित्रमाल्यानुकीर्णे
रतिविगलितबन्धे केशपाशे सुकेश्या:।।’ (८/९७)
'लक्ष्यीकृतस्य हरिणस्य हरिप्रभाव:
प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम्।
आकर्णकृष्टमपि कामितया स धन्वी
बाणं कृपा मृदुमना: प्रतिसञ्जहार:।।’ (९/५७)
प्रेक्ष्य स्थितां सहचरीं व्यवधाय देहम्।
आकर्णकृष्टमपि कामितया स धन्वी
बाणं कृपा मृदुमना: प्रतिसञ्जहार:।।’ (९/५७)
'अपि शराधिविकृष्टैश्चिच्छिदे कङ्कपत्रै-
र्निकटमपि न रोहिद्गर्भिणी चक्रवालम्।
स्मरणसरणिमागाद् गर्भभारालसानां
विलसितमबलानां यद्बलाद्भूमिभर्त्तु।।’ (१६/४५)
र्निकटमपि न रोहिद्गर्भिणी चक्रवालम्।
स्मरणसरणिमागाद् गर्भभारालसानां
विलसितमबलानां यद्बलाद्भूमिभर्त्तु।।’ (१६/४५)
'रुद्धं विलोक्य हरिणां हरिणी गताऽपि
व्यावृत्त्य बाणविषये नृपतेश्चचार।
प्रायेण देहविरहादपि दु:सहोऽयं
सर्वाङ्गसंज्वरकर: प्रियविप्रयोग:।।’ (१६/४०)
व्यावृत्त्य बाणविषये नृपतेश्चचार।
प्रायेण देहविरहादपि दु:सहोऽयं
सर्वाङ्गसंज्वरकर: प्रियविप्रयोग:।।’ (१६/४०)
प्रजापालकानां भूपालकानां का कथा, प्रेमवशादन्योऽन्यं प्राणपरित्यागे प्रगल्भं हरिणमिथुनं दृष्ट्वा हिंसाशीलो व्याधोऽपि धनुर्मुञ्चतीति गाथापि स्मृतिपथमायाति-
'एक्कक्कमपरिरक्खण प्रहारसंमुहे कुरङ्ग मिठुणम्मि।
वाहेण मण्णु विअलन्तवाहधोत्रं धणुं मुक्कम्।।’ (७/१)
वाहेण मण्णु विअलन्तवाहधोत्रं धणुं मुक्कम्।।’ (७/१)
कालिदासानुकरणेऽपि बिह्लणपद्यस्यास्योत्तरार्धं स्वाभाविकं हृदयाकर्षि च। उत्कृष्यते च पूर्वार्द्धादिति किं वा मार्मिकेषु मुधा पुनस्तथा।