प्रशान्तराघवम्
।। प्रथमोऽङ्कः।।
दीप्यच्छम्भुकपर्दसान्द्रसरणिस्तोमभ्रमन्त्योत्कया
सापत्न्यदप्रहद्धिया कुटिलया दृष्टा चिरं गड्गया।
फूत्कारैः फणिभिर्मुधा तरलिता मातङ्गकृत्त्याऽऽकुला
गौरी शम्भुसमागमप्रशिथिला दोलायिता पातु वः।।1।।
अपि च
गङ्गाकैतवगुप्तये डमरुणा स्फूर्जज्जटाश्छादयन्
उन्मोच्योरगसन्ततिञ्च वपुषो दूरे क्षिपन् भूतिभिः।
सायासं गजचर्मशोणितलवान् श्यानान् प्रकुर्वन् हरो
गौरीराधनतत्परश्शबलिते रत्युत्सवे पातु वः।।2।।
सूत्रधारः (नान्द्यन्ते पुष्पाञ्जलिं विकीर्य)
भो भोः सहृदयाः! उत्तराञ्चलसंस्कृतविश्वविद्यालयस्याऽस्य हरिद्वारस्थस्य चतुर्थवर्षग्रन्थिपूर्तिमहोत्सवेऽस्मिन् समागतानां भवतां समेषां हार्दिकं स्वागतं व्याहरतो मे मनो भृशं प्रसीदति।
तदाज्ञप्तोऽस्मि सद्गुणफलप्रसूतिक्षमैः कुलपतिभिः श्रीब्रह्मस्वरूपः ब्रह्मचारिभिः केनचिदभिनवेनाऽपूर्वेण च नाटकेन भवद्धयासितं रङ्गमनुरञ्जयितुम्।
तदहमस्यैव विश्वविद्यालयस्य नियतिसूत्रधाराणां परामर्शदातृपदाधिरूढानां पूर्वकुलपतीनां सिद्धसरस्वतीकानामभिराजराजेन्द्रमिश्राणां नाट्यकृति प्रशान्तराघवाऽभिधां प्रयोक्तुमुत्सहे या खल्वभिनवाऽपि वर्ततेऽपूर्वा चापि।
(श्रुतिमभिनीय)
किमुक्तम् क्वत्योऽयं कविः
(साट्टहासम्)
अये बन्धो! प्रश्नमिमं पृष्ट्वा कथमात्ममौग्ध्यं प्रकाशयसे महाम्भोधौ निवसतोऽपि तरङ्गकदम्बकाऽनभिज्ञस्य पाठीनस्येव ते स्थितिः।
संस्कृतजगज्जीवातुभूतं भभयाख्यमिश्रवंशावतंसं दुर्गाप्रसादाऽभिराजीसुतं त्रिवेणीकविमभिराजराजेन्द्रमिश्रं न जानासि तदवेहि सावधानम्।
निजमुकुरप्रतिबिम्बं पश्यन्त्याः सपदि वागधिष्ठात्र्याः।
गलितः सुखाश्रुबिन्दुर्योऽभूदभिराजराजेन्द्रः।।3।।
यो हि,
शीर्षंचिच्छेद भक्त्या स्वयमपि नवधा राधितुं यो महेशं
चञ्चत्काङ्क्षाप्रपूर्त्यै ननु दशवदनो जातु दर्पैकमूलम्।
छित्वा तं दर्पमेव त्रिनयनगृहिणीपादपद्मेऽर्पयन्सः
न्यक्चक्रे तं दशास्यं रघुपतिगृहिणीवक्त्रचन्द्रोपरागम्।।4।।
सरयूतटवर्तिमइलग्रामस्थश्रीब्रह्मर्षिदेवरहाबाबाऽश्रमसदस्यैः ब्रह्मर्षिपदवीसम्भूषितः हिन्दीसाहित्यसम्मेलनोभयपीठाधीश्वरश्रीस्वरूपानन्दपादैश्च पृथङ्महामहोपाध्यायालङ्करणसभाजितः काव्यनाट्यकथासमीक्षाख्यचतुश्शाखेऽर्वाचीनसंस्कृतरचना-कर्मणी शताधिकप्रबन्धैर्नेतृत्वं विदधानोऽसौ सरयूपारीणद्विजसमवायमुकुटमणिर्भभयाऽस्पदः शुक्लयजुर्वेदीयमाध्यन्दिनसंहिताकः पञ्जप्रवरो गौतमगोत्रोत्पत्रो महाभागवतपण्डितश्रीरामानन्दमिश्रपौत्रो दुर्गाप्रसादाऽभिराजीमध्यमसूनुः कोविदधुरीणश्रीमदाद्याप्रसादमिश्रभ्रात्रीयस्त्रिवेणीकविर्मिश्रोऽभिराजराजेन्द्रस्सम्प्रत्याकेरलात्कश्मीरं यावदाच पञ्चनदादसमं यावत्सुष्ठु प्रकाशते। किञ्च,
केचित्तं दृष्टवन्तस्सरसकवितया संसदं मोहयन्तं
केचिद्दूरादश्रृण्वन् महितगुणगणारम्भवार्ताधुरीणम्।
केचिच्चाधीतवन्तो विविधसुरगवीपत्रिकास्वभ्युदीतं
हृत्स्थः केषां न भाति प्रकृतिगुणपटुर्हन्त राजेन्द्रमिश्रः।।5।।
तस्यैव सप्ततिमितैकाङ्कलघुनाट्यकर्तुः प्रमद्वराविद्योत्तमोभनाटिका-प्रणेतुर्लीलाभोजराजाख्यपञ्चाङ्कनाटकरचयितुर्नवैषा नाट्यकृतिरद्याऽभिनीयते प्रशान्तराघवनाम्नी। तदनन्तरकरणीयार्थं गृहिणीं तावदाह्वयामि।
(नेपथ्याभिमुखीभूय)
आर्ये! आर्ये! कस्माद् विलम्बसे किं भूयोऽपि पादौ गुरुतरौ जातौ
नटी (सविलासं प्रविशन्ती)
(स्वामिन्! कीदृशमिदं नर्म भवता क्रियते किमिदानीमपि दारकैर्मनो न भृतम्)
सूत्रधारः अरे रे! दुर्मनायिताऽसि सत्यमेव मया नर्मैव प्रयुक्तम्।
नटी (साश्चर्यमुद्रम्)
(द्रष्टव्यं तावद्भोः! तर्हि किमियमेव नर्मपद्या राज्ञे रोचते अपरं किमपि मस्तिष्के न खलु लोकितम्)
सूत्रधारः (सानुनयम्)
प्रिये! अलमन्यथोत्प्रेक्ष्य। मुञ्च मदुद्वेजकं कोपम्। एते दूरप्रदेशेभ्यस्समागताः सहृदया नाट्यप्रयोगं द्रष्टुं समुत्कण्ठिताः। तृषार्तचातकेभ्योऽम्बुदवर्षणं रोचते, न पुनर्गर्जितम्।
नटी (प्रह्वीभूय)
(स्वामिन्! बुध्यामि। अस्माकमपि एतावती तु समज्ञा वर्तते। तद् वदतु भवान् किमहं करवाणि नृत्यानि यद्वा गायानि यद्वा भिखारिठक्कुरस्य कामपि कजरीं कर्षाणि)
सूत्रधारः (सहासम्)
भिखारिठक्कुरस्य कजरी? प्रिये! नेयं ग्रामग्रामटिकामेला पामरसम्मर्दपर्याकुला। नाऽत्र विद्यन्ते कजरीश्रोतारः। एते तु निशितमतयः पण्डिताः संस्कृतविद्याधुरन्धरा विद्वांसो भद्रपुरुषाश्च। तर्हि सखीभिस्सार्धं मन्दमन्दं नृत्यन्ती कामपी संवेदनप्रवणां गीतिं गाय!
(मन्मनोऽनुकूलमिदं भवता कथितम्। सहालीस्तावद् बोल्लानि)
(करतलं वादयति। प्रञ्चषा रूपवत्यस्सहचर्यः समायान्ति। सनृत्यं गीतं प्रारभते)
महिता समुज्ज्वला ज्योत्स्ना चिल्लिका चीत्करोति च
पिकी कुहू-कुहूरावैः रौति कस्मिन्नु वासरे?
भ्रातृजाये! स्फुरेन्नेत्रद्वयं कस्मिन्नु वासरे।
प्राङ्गणं राघवः प्रागात् हन्त यस्मिन्नु वासरे!!
विपदाभाति कजरी सुदिरा रोचतेतराम्
सौम्यः कराञ्जलिर्भाति हन्त कस्मिन्नुवासरे?
ननान्दः! वल्गते स्वप्नो हन्त कस्मिन्नु वासरे?
गायति नैव गीतानी गणयत्यपि न सौहृदम्
निपिवन्ती शुकं सारी स्थिता यस्मिन्नु वासरे!!
चन्द्रः प्रतीयते नेत्रं रविर्दीपः प्रतीयते
व्यजनं प्रजायते वातो हन्त कस्मिन्नु वासरे?
भ्रातृजायेऽञ्चलं रिङ्गेद्धन्त कस्मिन्नु वासरे?
ज्येष्ठाः श्वश्रूश्च सम्भूय यस्मिन् गायन्ति वासरे
ननान्दः! जातको जातो गृहे यस्मिन्नु वासरे!!6
(विविधताललयध्वनिमनुसरन्त्या नट्या नर्तनं विलक्षणमेव रङ्गसम्मोहंजनयति)
सूत्रधारः (सोन्मादं नटीहस्तमवलम्ब्य)
साधु साधु! प्रिये! साक्षाद्रतिरिव प्रतिभासि! अहो सुमधुरगीतरागः। अहो रुचिरं चारीविधानम्! गौरीलास्यमपि तुलयितुं क्षमं त्वन्नृत्यम् त्वद्वल्लभत्वेन स्वकृतार्थतामनुभवाम्यद्य। पश्य तावत्,
रङ्गभूमिसमासीना निश्शब्दाः खलु दर्शकाः।
लक्ष्यन्ते वटशाखायां स्थिता नैशखगा इव।।7
नटी (सवैलक्ष्यम्)
(अस्माकं जीवनं धन्यं जातं भवदुत्साहवर्धनेन। अन्यथा क्वाऽस्माकं ज्ञानं बुद्धिः कौशलं वा?)
(नेपथ्ये श्रूयते)
आः नाऽहं मर्षयिष्ये। नाऽहं मर्षयिष्ये!
ब्रह्मा स्यादथवा शम्भुः साक्षान्नारायणोऽपि वा।
केनापि कृतमन्यायं मर्षयिष्ये न साम्प्रतम्।।8
सूत्रधारः (सवितर्कम्)
प्रिये! कोऽयं धीरोद्धतनायक इव गृहाभ्यन्तरे क्रोशति?
नटी (सहासम्)
(कोऽन्यः? भावत्क एव मध्यमोऽयं रमेशः। उपलिप्तश्रृङ्गमृत्तिक इव बलीवर्द्द आदिवसं योद्धुकाम आहिण्डते। अस्य काचिद् वृत्तिः कार्या। अन्यथा कस्मिंश्चिद्दिने कमपि भ्रातरं भगिनीं वा हीनाङ्गं विधास्यति चेद्रोदनमेवाऽवशेक्ष्यति)
(नेपथ्ये पुनः श्रूयते नाऽहं मर्षयिष्य इति)
सूत्रधारः (निपुणं निरीक्ष्य, ससम्भ्रमम्)
प्रिये! सत्यमेवाऽवयोर्मध्यमपुत्रोऽयं रमेश एव। परन्तु नाऽयं कुप्यति कस्मैचिद्भ्रात्रे भगिन्यै वा!
हन्त, कुमारलक्ष्मणस्य भूमिकायां स्थित एष इतोऽभिमुखमेव समायाति। तत्त्वरस्व, त्वरस्व। गृहाभ्यन्तरे प्रविशावः। प्रारब्धमेव नाटकम्।
(इति सपरिवारमभ्यन्तरं प्रविशति)
लक्ष्मणः (अपटीक्षेपेण प्रविश्य, चापं दक्षिणहस्तेन समुद्यम्य सरोषम्) नाऽहं मर्षयिष्ये। नाऽहं मर्षयिष्ये! हन्त भोः
अकस्माल्लङ्कायां यदपि घटितं वा विघटितं
प्रतीकारे तस्य प्रसभमुपरूढा नहि वयम्।
दशास्यभ्राताऽसौ पवनतनयोऽयं खलु जनो
न कोऽप्यार्यं रौद्रं शमयितुमभूद्युक्तिकुशलः।।9
किन्तु नेयं लङ्का। न चाऽप्यार्याऽत्र पराधीना। अयोध्येयमिक्ष्वाकुकुलभूभुजां राजधानी, यत्र खल्वार्या पट्टमहिषी। तदत्र स्वकीय एव गृहे तस्यास्तिरस्कारं नाऽहं मर्षयिष्ये। अयमहं लक्ष्मण आर्यावनवासकिङ्करो ब्रवीमि। श्रृणोत्वयोध्या। श्रृणोतु लोकः। श्रृण्वन्तु सर्वेऽपि ग्रहपिण्डाः।
विपन्नझषकच्छपं क्षुभितनागनक्राकुलं
प्रमथ्य जलधिं क्षणैर्विकलपल्वलत्वं नये।
खचुम्बिधरणीधरं समतलं करिष्ये पदैः
पुनर्यदि विदेहजानयनवारि भूमौ पतेत्।।10
(इति क्रोधोद्धुरमुद्रयाऽशान्तः परिभ्रमति)
दौवारिकः (प्रविश्य सविनयम्)
जयतु जयतु कुमारः। भर्तः! एष कुलगुरुप्रेषितः कश्चिदाश्रमवासिको युवा वैखानसस्तत्सन्देशं निवेदयितुमागतः। श्रुत्वा भर्ता प्रमाणम्।
लक्ष्मणः (विनयमभिनयन्)
किमाह? कुलगुरुप्रेषितः? तर्ह्यविलम्बं तमानय सादरम्।
दौवारिकः यदाज्ञापयति भर्ता।
(इति निष्क्रम्य पुनर्वैखानसाऽनुगतः प्रविशति)
इत इतश्श्रीमन्। एष भर्ता भवन्तं प्रतीक्षते।
वैखानसः (कुमारलक्ष्मणं दृष्ट्वा सप्रणयम्)
जयतु जयतु रघुपतिप्रतिबिम्बभूतस्सौमित्रिः।
लक्ष्मणः (सबहुमानम्)
ब्रह्मचारिन्! लक्ष्मणोऽयं प्रणमति।
वैखानसः कुमार! वर्धतां वर्धतां भवति राघवाऽनुरागः।
(पत्रं प्रयच्छन्)
एष भवत्कृते गुरुपादानां कश्चित्सन्देशः। तं ग्रहीतुमर्हति भवान्। अद्याऽश्रमे परिसरसंस्कारकार्यं प्रवर्तते। अतएव मया त्वरितमेव निवर्तितव्यम्। गुरोरप्ययमेवाऽदेशः। तद् गच्छामि। स्वस्ति भवते।
(इति निष्क्रान्तः। कुमारः पत्रं वाचयति)
स्वस्ति। वसिष्ठोऽयं कुमारलक्ष्मणं संवर्धयत्याशीर्वचोभिर्विज्ञापयति च यत्किमपि कुमारोऽधुना लोचनाभ्यां पश्यति तन्मया वसिष्ठेन प्रागेव तपस्सिद्धमनसाऽवलोकितम्। तद्धैर्यं न त्याज्यम्। ताम्यत्ययोध्यानरेशो रामः। अतएव नाऽसौ वर्धितरोषचेतसाऽवलोकनीयः। तदवलम्बनभूतावावाम्। ततश्चावाभ्यामेव तद्व्यथायाः समाधानं परिमार्गितव्यम्। अवश्यमेव तद्व्यथायां केनचित्कारणेन भवितव्यम्। तत्कारणमावाभ्यां ज्ञेयम्। यावच्छक्यं प्रयत्य मां पश्यतु कुमारः। किञ्च, मामनाख्याय किञ्चिदप्युच्चावचं निर्णेतुं राघवोऽपि मया प्रतिषिद्धस्सन्देशमाध्यमेन।
लक्ष्मणः (सहर्षम्)
दिष्ट्या प्रतिहतममङ्गलम्। निश्चप्रचं प्रसन्नाः कुलदेवताः।
भव्यान्यरुन्धतीजानिर्यस्य चिन्तयतेऽनिशम्।
रघूणां तस्य वंशस्य क्वानिष्टं क्व च साध्वसम्।।11
तदिदानीमार्यं द्रष्टुं प्रयत्नपरो भवामि। पश्चाद् ब्रह्मर्षिपादान् द्रक्ष्यामि।
(इति सोत्साहं प्रतिष्ठते)
(ततः प्रविशति शून्यकक्षस्थितो राघवः)
राघवः हा दैव! किमिदानीं करवाणि? कोऽवशिष्टस्सम्प्रति जीविताऽलम्वः?
तीर्णस्तातमहावियोगजलधिः सौमित्रिसाह्यैः पुरा
लङ्कासङ्गरसागरोऽपि ससुखं तीर्णस्ततस्सानुगैः।
कौलीनाब्धिमिमं तरीतुमधुना शक्तोस्म्यहं नो पुन-
स्सीते! लक्ष्मण! मारुते! सपदि मां मृत्योर्मुखाद्वारय।।12
हा सीते! कथमयं निष्ठुरो लोकस्त्वय्यनार्यमाचरति? हा वसुन्धरात्मजे! केषां खलु दारुणपापानां परिमाणोऽयं त्वयोपभुज्यते! हा देवि! समर्थतमाया अपि ते इयति लाञ्छना? हा दैव! पामराधमो रजकोऽपि भवतीमसतीं मन्यते? त्वदङ्गीकर्तारं माञ्चाधिक्षिपति? धिङ्मे नरपतित्वम्! धिङ्मे धैर्यम्! धिङ्मे सहिष्णुत्वम्! धिङ्मे सीतापतित्वं यत्त्वां भागीरथीपरिपूतां मन्वानोऽपि लोकाद् बिभेमि! यत्त्वां सर्वथाऽनपराद्धां निर्दोषामनुभवन्नपि त्वामात्मनः पृथक्कर्तुमिच्छामि! हा विधे! किं करोमि मन्दभाग्यः?
लोको निन्दति चेद् विदेहदुहितामङ्गीकरोम्यञ्जसा
निर्दोषां विजहामि चेदवनिजां स्वात्मैव मां निन्दति।
निन्दाऽन्तश्च बहिश्च हा प्रभवति प्राणोत्ससन्तापिनी
संघर्षे पतिभूपयो रघुपतिः कस्यैकपक्षं श्रयेत्।।13
शिलीन्ध्रकोमलाङिग सीते! कीदृशं विलक्षणं ते भाग्यम्! पृथ्वीकुक्षितस्तवोत्पत्तिः। पिनाकसन्तोलनशुल्केन च परिणयः। परिणयानन्तरमेव दारुणवनवासः। तत्राऽपि लम्पटलङ्कापतिकृतस्तेऽपहारः। कियदवमाननं त्वया सोढम्? दर्शितविक्रमस्य वृद्धविहङ्गराजस्य जटायोस्त्वत्समक्षमेव मरणम्। हा दैव!
फणीन्द्रदृढपौरुषप्रथितविक्रमो धन्विनां
धुरि प्रथमसंज्ञको यदनुवर्तको देवरः।
क्षमः पतिरपि ध्रुवं भुवनकन्दुकोच्छालने
तथापि वसुधात्मजा कुटिलरक्षसा धर्षिता।।14
हा देवि! लङ्काशोकवनिकायां निरुद्धया त्वया यस्सन्देशो हनूमन्मुखेन प्रेषितस्सोऽद्यापि स्मर्यते मया (अश्रूणि पातयन्)
दिनानि यातानि विना भवन्तं निशा व्यतीता रघुनाथ! या वा।
प्रभो! तदायुर्न जिजीव सीता ध्रुवं विजानीहि च तद् विनष्टम्।।15
मदन्तिकान्नाथ! तवाङिघ्रमूलं पत्रं यदि स्याद्विततं नु यावत्।
नेत्राञ्जनैरश्रुविमिश्रितैश्चेल्लिखेत्स्वदैन्यं स्वयमेव सीता।।16
व्यथाकथा क्षेष्यति नो तथापि प्रभो! वियोगात्तव सिक्तमूला।
द्रुतं समासाद्य विपन्नभाग्यां भार्यामनाथामव राघवेन्द्र!!17
सीते! तवेमे सन्देशशरा मम वक्षसि प्रविष्टाः। अनुभूता मया त्वद्विपत्तिः। मत्तमातङ्गविदलनपटुः क्रुद्धकण्ठीरवकल्पोऽहं रावणध्वंसाय सङ्कल्पपरो जातः। निर्मूलितो मयाऽसौ जगत्त्रयकलङ्कः। समापित एव मया रमणीशीलसमुदाचारनिर्मथनप्रसङ्गो राक्षसाधमं तं निपात्य।
हा प्रिये! नृशंसलोकमिममाराधयितुकामेनैव मया हृदयहीनेन जगत्पावयित्रि त्वं प्रज्जवलद्वैश्वानरचितामधिरोहिता! तथापि कृतघ्नोऽयं लोको न मर्षयति त्वां मां वा! किमिदानीं करवाणि?
विक्रमेण मया युद्धे दशास्यो रावणो हतः।
निन्दाशतमुखं हन्यां कथमेतं हि रावणम्।।17।।
(इति संक्षुब्धहृदयः कक्षे परिभ्रमति)
दौवारिकः (कपाटरन्ध्राभिमुखीभूय)
विजयतामयोध्याधिपतिः! प्रभो! एष कुमारलक्ष्मणः प्रतीहारभूमिमध्यास्ते। भवन्निदेशान्मयाऽसौ विज्ञापितो यद्भर्ताऽद्य विविक्तं सेवितुकामो न कमपि द्रक्ष्यति। तथापि कुमार आदिशति मां भवन्तं ज्ञापयितुम्। तदनन्तरकरणीयं निर्दिशतु भर्ता।
राघवः (सङ्कटमनुभवन्)
अये लक्ष्मणस्समागतः? किमिदानीं कर्तुं युज्यते?
(विमृश्याऽत्मगतम्)
गुप्तचरसन्दर्भो न कुमाराय समाख्येयः। वैदेह्यवमाननं सोढुं नाऽयं क्षमः। कदाचिद्रोषाविष्टस्सन् कौलीनप्रचारिणं वराकं रजकमेव न हन्यात्।
(प्रकाशम्)
भद्र! कुमारं तावदानय कपाटान्तिकम्।
दौवारिकः यथाऽज्ञापयति भर्ता।
(इति निष्क्रम्य पुनः सलक्ष्मणः प्रविशति)
इत इतः कुमारः। एष कक्षाभ्यन्तरस्थ एव महाराजो भवन्तं मन्त्रयितुमिच्छति। तद् द्वारान्तिकमुपतिष्ठतां कुमारः।
लक्ष्मणः (बहिस्त एवाञ्जलिं बद्ध्वा प्रणम्यच)
आर्य! लक्ष्मणोऽयं प्रणमति। किमर्थमायासयत्यात्मानं भवान्? चिन्तिता मातरः। आर्याऽप्यनर्थसम्भावनया महान्तं क्लेशमनुभवति। आर्यभरतो ममैव वदनं निरीक्षते। शत्रुघ्नोऽपि विकलः। धर्मसभाऽनन्तरं भवान्नोपावृत्तो राजसौधम्। किमप्यत्याहितं घटितिमिति धियाऽहमपि महान्तमुद्वेगमनुभवामि।
राघवः (आत्मव्यथां नियम्य)
कुमार! न किमप्यत्याहितम्। प्रयोजनवशात्पुनरद्य रात्रावत्रैव निवसामि। तन्मद्वचनादुच्यन्तामम्बा यच्चिन्ता न कार्या। सान्त्वय भ्रातृजायामपि। भरतशत्रुघ्नावपि प्रकृतिस्थौ विधेयौ।
लक्ष्मणः (सदैन्यम्)
आर्य! किञ्चिद्गोपयति भवान्। किं भवन्निलीनप्राणोऽयं लक्ष्मणो भवद्व्यथां ज्ञातुं नार्हति? हा हन्त,
सन्त्यक्ता जननी पिताऽथ यमजो बन्धुश्च नाऽपेक्षित-
स्त्यक्ता यौवनदेहलीधृतपदा कान्ताऽपि रत्यर्थिनी।
सन्त्यक्तं गृहवैभवं रघुपते! येनाऽर्यसुश्रूषया
सोऽप्यद्य प्रघुणीकृतो नु भवता स्वाधिं दृढ़ गूहता।।19।।
राघवः (शोकवेगं नियम्य, सप्रणयम्)
कुमार! कीदृशमिदं दैन्यम्? आयुष्मन्! सत्यमेव भणामि। केनापि विशिष्टेनात्माभिप्रायेण एवमाचरामि। पश्चात्सर्वं प्रकाशयिष्ये। अलमनर्थशङ्कया। गुरुवर्याणामपि सन्देशो मयाऽवाप्तः। मत्प्रणतिं निवेद्य सोऽपि त्वया शमनीयः।
लक्ष्मणः यदाज्ञापयत्यार्यः।
(इति चिन्ताकुलः प्रतिष्ठते)
भो निष्क्रियो न स्थास्यामि। आर्यप्रकृतिं सम्यक्तया जानामि। नाऽयं तस्य समञ्जसो व्यवहारः। किमप्यवश्यमभद्रं घटितं घटिष्यति वा। तदस्माभिरप्रमत्तैर्भवितव्यम्। भवतु, अद्यतनं सर्वमपि कृत्यजातमार्यस्य मया निपुणं निरीक्षितव्यम्। किं किं कृतवानसौ, कुत्र-कुत्र गतः, के के तं द्रष्टुं धर्मसभां समायाताः, केन-केन सह किं किं लपितं तेनेति सर्वमपि साङ्गोपाङ्गं समीक्षणीयम्। मन्ये, तत्रैव प्राप्स्यते समस्याया मूलम्।
तत्सर्वप्रथमं प्रधानामात्यमेव पृच्छामि।
(इत्यमात्यभवनं प्रति प्रस्थितः)
।।इतिश्रीमदुर्गाप्रसादाऽभिराजीमध्यमसूनुना गौतमगौत्रीयभभयाख्य-।।मिश्रवंशावतंसेन महामहोपाध्यायेन त्रिवेणीकविनाऽभिराजराजेन्द्र विरचिते प्रशान्तराघवनाटके प्रथमोऽङ्कः
।।द्वितीयोऽङ्कः।।
(ततः प्रविशन्ति सीतादिकुलवधूसेविकाश्चतस्रः पुष्पावचयं नाटयन्त्यः)
कृत्तिका (सहासम्)
(अयि विशाखे! स्वभट्टिन्या अपि वृत्तमाचक्षस्व।)
विशाखा (अधरं विकुञ्च्य)
(अरे किं कथयांनि! अस्मद्भट्टिनी तु इदानीं हिन्दोलनाधिरूढा दोलायते। यदा ज्येष्ठा वधूः प्रसवं सम्पादयति तदा तिसृणामपि भगिनीनामक्षीणि समुद्घाट्यन्ते)
(कृत्तिके! कदा ते भट्टिनी प्रसूतिं विधास्यति?)
कृत्तिका (सहासम्)
(इदं कथमहं जानानि? किमहं ज्यौतिषी? तथापि माता कौसल्या कथयतिस्म यद् पञ्चभिर्दशभिर्वा दिवसैः प्राङ्गणे वर्धापनवादित्रं वाद्यते)
ज्येष्ठा (सपुलकम्)
(भगिनि! पञ्चाङ्गुलयस्ते घृत एव भविष्यन्ति! ज्येष्ठवधूस्त्वामतितरां मन्यते। सा पुरस्कारैस्त्वां समृद्धां विधास्यति।)
कृत्तिका (साभिमानम्)
(अस्मत्स्वामिनी तु साक्षाल्लक्ष्मीरेव। सत्यं मन्यध्वं,नाऽसौ सर्वास्वस्मासु कमपि भेदभावं कुरुते। यथाऽत्मभगिनीस्तिस्रः उर्मिलामाण्डवीश्रुतकीर्तिनाम्नीः नेत्रपुत्तलिकाः समध्येति सीताराज्ञी तथैव स्वसृसेविकाश्चाप्येकरूपा मनुते।
सर्वाः (नाऽस्मिन् कोऽपि सन्देहः। वयन्तु वाञ्छमो यद् भगवान् शिवो राज्ञ्यै नैकमपितु द्वौ दारकौ दद्यात्-यमजौ भ्रातरौ।
कृत्तिका (तर्हि अस्य निर्णयमधुनैव करोमि स्वेन ग्राम्यज्यौतिषेण) (मुष्टौ तिन्तिडीबीजद्वयं संगोप्य)
(का नु बुध्यति यन्मुष्टौ युग्ममस्त्ययुग्मं वा। पश्यत,युग्मं स्यात्तर्हि पट्टराज्ञी यमजौदारकौ जनयति। अयुग्मे सत्येकमात्रम्)
सर्वाः (मिथः प्रतिस्पर्धमानाः अहमहमिकामभिनयन्ति)
कृतिका (अरे अरे! कलहो न कार्यः। अस्मास्वियं विशाखा सर्वलघ्वी। अधुनेयमेव बुध्यतु। सर्वाभिर्मन्यते वा?)
सर्वाः (सहर्षम्) बाढम् बाढम्
(विशाखा बोधनाभिनयं कुरुते। मुष्ट्युपरि पञ्चाङ्गुलीभिः सन्ताड्य स्ववामकरतलपृष्ठोपरि कृत्तिमाकुञ्च्य रेखामुद्भावयति। रेखाद्वयमुद्धूतमवलोक्य सहर्षं सर्वाः प्रदर्शयन्ती)
विशाखा (भगिनि! पश्य, पश्य। युग्ममुद्भूतम्। मुष्टिमुद्घाटय। युग्ममेव भविष्यति। राज्ञ्या यमजावेव दारकौ भविष्यतः)
(इति चर्चरीमभिनयति। सर्वाः सहाल्यः सोत्कण्ठं कृत्तिकामुखं पश्यन्ति)
कृत्तिका (मुष्टिमुद्घाट्य प्रदर्शयन्ती, सप्रणयम्)
(साधु! सर्वथा साधु भाषते विशाखा। सर्वा जन्यः प्रेक्षन्ताम्। अम्लिकाया बीजद्वयं लोपितमासीन्मया। शकुनमिदं पक्वं बुध्यते। सीताराज्ञ्याः कुक्षौ यमजावेव पाल्येते)
(सर्वा अमन्दानन्दनिमग्नाः सूतगृहगीतं गायन्त्यो नृत्यन्ति)
तनयमसूत जनकजा श्यामलगौरयुगलमहो
रामभवने नदति वाद्यनिवहोऽप्यवधपुरी नन्दति रे!!
वितरति मणिमम्बा कौशल्या सुमित्रा धनमन्नमहो
राज्ञी कैकयी ददाति गलहारवलयमङ्गुलीयादि रे!!
शोणिततुरगे रूढोभरतो लक्ष्मणस्सिततुरगेऽप्यहो
भ्राता धूसर-हये रिपुसूदनो राघवो गजे राजति रे!!
वेदमुदाहरति वसिष्ठस्सृजति नटोऽभिनयमहो
देवीसरयूरूच्छाल्य जललहरीराशिषमिह यच्छति रे!!1
(ततः प्रविशति रुद्रवेशो विदूषकः पिण्डोदकः)
पिण्डोदकः (सेविकानां नृत्यगीतं दृष्ट्वा सोल्लासम्)
(सवितर्कम्)
(कटिं भ्रामयन् स्वगतम्)
(नृत्यवेशमागृह्य विविधाङ्गसञ्चालनं कुर्वन् सविलासं मध्येसेविकासमूहमुत्प्लवति। नृत्योन्मादो वर्धते। पिण्डोदकोऽपि गायति)
(हंहो! प्रेक्षस्व तावत्। अत्र तु फाल्गुनिकोत्सवः प्रवर्तते?
कुलमेव नर्तने-गाने, लयभङ्गीविस्तारे च निमग्नम्।
न काचित् तृतीयोत्सवः, न षष्ठी-द्वादशी, न वा मुण्डनं विवाहः?
तर्हि कस्माच्चतस्र एव कटिमान्दोलयन्त्यः परिस्फुरन्ति?
देव धूर्जटे! किमिदानीं करवाणि? जातोऽस्मि मिथिलायाम्।
कमपि नृत्यन्तमवलोक्य स्थिरीभवितुं न शक्यते। तर्हि कृष्णीभूय
आसामेव चतसॄणां मध्येऽहमपि कूर्दामि।
अस्मद् वत्सा त्वागता तीरभुक्तेः
अस्मद्दुहिता त्वागता तीरभुक्तेः।!!
रघुनाथश्शिवचापमभाङ्क्षीत्
राज्ञीं सीतामवाप तीरभुक्तेः!!
दीपकवर्ती सज्जितवत्ययोध्या
दीप्ता स्नेहानादाय तीरभुक्तेः!!2
(शनैर्नृत्यमवसितं जायते। पिण्डोदकः स्मृतिमभिनीय संक्षोभं नाटयति)
(कृत्तिके! महाराज्ञी कौसल्या भात्यङ्गारकल्पा निष्पुच्छा धेनुर्गता चतुर्हस्तायतं प्रग्रहमपि नीतवती? किं कुर्वाणाऽत्र स्थिताऽऽसीः। किमयमवसरः कटिरिङ्गणस्य? कथं नाऽधुना बोल्लसि?
कृत्तिका (साश्चर्यम्)
(आर्य पिण्डोदक! कीदृशीयं लीला भवतः? क्षणेनैव नृत्यं क्षणेनैवाऽर्चिः। योऽस्माकं मध्येऽन्तः प्रविष्ट आसीत्स भवानेव, कोऽप्यपरो वा?
पिण्डोदकः (सोल्लुण्ठम्)
(मिथिलाया मैथिलानाञ्चेदमेव वैशिष्टय्म्। यादृशोऽवसरस्तादृशः प्रसरः। बुद्धं न वा? इदानीं ध्यानेन श्रृणु। पुरोहितो महाराज आगत्योपविष्टः। पुष्पाणां कृते सर्वं कर्मानुष्ठानमवरुद्धम्। तर्हि द्रुतपदैः प्रतिष्ठस्व। अहन्तावत् हरिणचालेन प्राप्नोमि। त्वमपि पिपीलिकेव मामनु रिङ्गन्त्यागच्छ। अवगतं न वा)
(इति सत्वरमग्रेसरति)
कृत्तिका (सरोषम्)
मृतकोऽयं वार्द्धक्यमुपगतः किन्तु लपितुं न जानाति। सीताराज्ञ्याः मातृगृहात्समागतः। एतत्कृत एव समुदाचारः परिपाल्यते। अन्यथा नदीगर्तगोऽयं जानीयादेव यत्कीदृश्यो भवन्ति काशीकोसलदारिकाः।
(इति सखीभिस्सह प्रतिष्ठते)
।।इति प्रवेशकः।।
(ततः प्रविशति कृष्णमृगचर्मासनस्थो ब्रह्मर्षिर्वसिष्टोऽरून्धत्याऽनुगतः)
वसिष्ठः (उष्णं निःश्वस्य)
यदुरसि बृहत्सृष्टेर्बीजं निलीय शमश्नुते
न जनिनिधनाभ्यां यो बद्धो मनागपि कर्मभिः।
इह भुवि परब्रह्म मर्त्याऽवतारपरायणोऽ
प्यहह विविधां कां कां भुङ्क्ते न संसृतिवेदनाम्।।3
(इत्युत्थायाऽश्रमपरिसरे परिभ्रमति)
अरुन्धती भगवन्! चिन्तामग्नमिव भवन्तं पश्यामि! को नु हेतुः?
वसिष्ठः सत्यमाह देवी। भृशं चिन्तितोऽस्मि। हा हन्त,
शं याति यावदिह पूर्वतरोऽवमान-
स्तावद्ध्युदेत्यहह घोरतरस्तदन्यः।
झञ्झाऽकुलं ननु दिने निशि चापि सोल्कं
व्योमेव भात्याखिलजीवनमेव नॄणाम्।।4
अरुन्धतीभगवन्!प्रत्यक्षमक्षिलक्ष्यीकृतशततनयसंहारस्याऽविचलचित्तवृतेर्जिताऽमर्षस्यापि ते यदीदृशं वैक्लव्यं तर्हि केनिचद् विशिष्टकारणेन तत्र भवितव्यमेव। तच्छ्रावयितुमर्हति भवान्।
वसिष्ठः देवि! अहं देवीं जनकजामभिलक्ष्य चिन्तितोऽस्मि।
अरुन्धती (सोत्कण्ठम्)
किमभूदस्मद्दारिकायाः? प्रतिहतममङ्गलं स्यात्। स्वामिन्! अपि सर्वं कुशलम्?
वसिष्ठः देवि! अलमुत्ताम्य। कुलगुरौ मयि वसिष्ठे जीवति क्वाऽमङ्गलं विदेहराजनन्दिन्याः?
तथाप्यप्रमत्तैरस्माभिः स्थातव्यमेव। प्रवल्गन्ते तज्जीवनाकाशे भूयोऽप्यमङ्गलधूमकेतवः।
अरुन्धती (सविस्मयम्)
भगवन्! नाऽहमवगच्छामि। कृपया विशदयतु रहस्यम्।
वसिष्ठः (रथकिङ्किणीरणितमनुश्रूय)
देवि! यथाऽयं रथचक्रकिङ्किणीध्वनिश्श्रूयते तेन कुमारलक्ष्मणागमनं सूच्यते। स मया समाहूतो मन्त्रणायै। त्वमपि मदन्तिकस्थैव तिष्ठ। ततस्सर्वं ज्ञास्यसि।
(नेपथ्ये वेदपाठध्वनिः श्रूयते)
स्वस्ति न इन्द्रो वृद्धश्रवाः स्वस्ति नः पूषा विश्ववेदाः।
स्वस्ति नस्तार्क्ष्योऽरिष्टनेमिः स्वस्ति नो बृहस्पतिर्दधातु।।
पृषदश्वा मरुतः पृश्निमातरः शुभं यावानो विदथेषु जग्मयः।
अग्निर्जिह्वा मनवः सूरचक्षसो विश्वे नो देवा अवसा गमन्निह।।
भद्रं कर्णेभिः श्रृणुयाम देवाः भद्रं पश्येमाक्षिभिर्यजत्राः।
स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः व्यशेम देवहितं यदायुः।।
शतमिन्नु शरदो अन्ति...................................
(वेदपाठः प्रवर्तते)
वसिष्ठः कः कोऽत्र भोः?
शिष्यः (सत्वरमुपसृत्य)
अयमहं सुनन्दोऽस्मि भगवन्! को नियोगोऽनुष्ठीयताम्?
वसिष्ठः वत्स सुनन्द! मद्वचनादुपाध्यायं वेदव्रतं विज्ञापय यद् वटुभिस्सार्धं तपोवनकोणस्थवटवृक्षमुपाश्रित्य वेदपाठं सम्पादयन्तु सर्वें।
शिष्यः यदाज्ञापयति भगवान्!
(इति प्रणम्य गच्छति)
(ततः प्रविशति रथस्थः कुमारलक्ष्मणः)
वसिष्ठः (दूरत एव बाहु प्रसार्य, सहर्षम्)
स्वागतं स्वागतं व्याहरामि कुमाराय।
लक्ष्मणः भगवन् रघुकुलकल्पतरो! भवच्चरणेन्दीवरचञ्चरीकोऽहमभिवादये। अम्ब! प्रमदाचरणसंहिते! सोर्मिलोऽहं भवतीमपि प्रणमामि।
वसिष्ठः वत्स! रघुपतिपदप्रतिस्ते वर्धताम्। वैदेहीवात्सल्यसिन्धुर्नितरां
अरुन्धती समुच्छ्वसेत्त्वन्मुखेन्दुमवलोक्य।
लक्ष्मणः भगवन्! अमोघोऽयं मदभीष्टतम आशीर्वादः।
(इति गुरुदम्पतीचरणयोर्निपतति)
वसिष्ठः वत्स लक्ष्मण! एषा त्वदम्बाऽरुन्धत्यपि बलवदुत्कण्ठिता वर्तते सीताराघववृत्तं परिज्ञातुम्। तदामूलाच्छ्रोतुमिच्छामि।
लक्ष्मणः भगवन्! भवत्सन्देशमवाप्यैव सक्रियोऽहं जातो रहस्यमवबोद्धुम्। तत्सर्वप्रथममहमार्यचरणानेव द्रष्टुं राजसभास्थितं तत्कक्षमुपगतः। जानन्त्येव भगवन्तो यत् धर्मसभाविसर्जनाऽनन्तरम्
नाऽर्येणाद्य यथोचितं स्वभवने दृष्टा जनन्यो न वा
नेदिष्ठप्रसवा विदेहतनया वर्धामिताऽनामयैः।
सोत्कण्ठाः शुकसारिकाश्च पशवो नो भोजिताः साग्रहं
भृत्याश्चापि न वक्त्रकोणविलसत्स्मेरैः सकृन्नन्दिताः।।5
तत्सर्वमुर्मिलामुखादाकर्ण्य अम्बाभिस्सार्ध संलप्यार्यां वैदेहीमपि सप्रणामं विज्ञाप्य त्वरितमेवाऽहं धर्मसभां प्रत्यागच्छन् मध्येपथमेव श्रुतवान् यदार्यस्तु स्वकीयविश्रामक्ष एवान्तरर्गलिते निरुद्धस्तिष्ठति।
वसिष्ठः वत्स! ततस्ततः?
लक्ष्मणः भगवन्! आर्यस्येममपूर्वव्यवहारं श्रुत्वैव दारुकल्पोऽहं सञ्जातो लङ्कासमराङ्गणस्मृत्या। तत्राऽपि,
आर्यां द्रष्टुमहो निमेषमपि योऽनैषीद्युगाब्दैस्समं
लोलोऽभूदू विगतत्रपोऽपि विरहाऽतिक्रान्तमर्यादकः।
प्राप्ते हन्त चिरेण रत्यवसरे जातस्स एव स्फुर-
द्दम्भोलिर्गतसौहृदोऽतिपरुषो भार्याप्रतिष्ठाहरः।।6
निदाघानन्तरं यस्मात्सलिलं हन्त याचितम्।
कालमेघः प्रतीतोऽसावश्मवर्षी भयङ्करः।।7
अरुन्धती वत्स लक्ष्मण! स्थाने ते विस्मयः। ततस्ततः?
लक्ष्मणः अम्ब! र्यातर्कितव्यवहारश्रवणमात्रोद्भ्रान्तचित्तवृत्तिराशंसिताऽमङ्गलः कल्पिताऽर्याविपद्व्यतिकरोऽहं यैस्तैः परुषवचनैः क्रन्दितुं प्रवृत्तः। तावदेव भवत्प्रेषितो वैखानसो मह्यमदाद् भवत्पत्रम्।
वसिष्ठः युक्तं युक्तं भणसि। कुमार! ततस्ततः?
लक्ष्मणः ततश्च विदितवेदितव्यस्त्रिकालापारदृश्वा भवानिति भवत्पत्रात्समधीत्य संविभक्तक्लेशोऽहं किञ्चिदिव शान्तो जातः। ततश्चार्यं द्रष्टुं तन्मन्दिरमुपगतः। परन्तु (इत्यर्धोक्तेऽऽश्रूणि विसृजति)
वसिष्ठः वत्स सौमित्रे! अलं कातर्येण। धैर्यमवलम्बस्व। परिचिनोमि ते दुःखम्!
लक्ष्मणः (अश्रूणि प्रमृज्य)
भगवन्! यो ह्यार्य आर्यापहरणावधौ मदुत्सङ्गे शीर्षं निधाय शिशुरिव शयानस्तमिस्रां क्षपयाञ्चकार, तडिद्गर्जनोत्कम्पितस्सन् पृष्टं सारयित्वा कृतजागरेण मयाऽभिन्नसुहृदिव लालितः अग्रजस्सन्नपि मयाऽनुजेनाऽग्रजीभूय तैस्तैरुपायैरुपदेशैर्विनोदैश्च संरक्षितो हन्त स एव मया प्रतीहारभूमिमुपक्रान्तेन प्रार्थितोऽपि मत्कृते द्वारं नोद्घाटितवान्।
अरुन्धती (सवात्सल्यम्)
वत्स लक्ष्मण! अलं विषादेन। असह्यसन्तापविद्धो जनः क्व पालयति समुदाचारम्? मन्येऽतितरां सन्तप्यते रामभद्रः केनचिन्निगूढमनस्तापेन।
लक्ष्मणः अम्ब! युक्तमाह भवती। तदेव विज्ञापयितुमिहागतोऽस्मि। सत्यमेव भृशं परितप्यतेऽयोध्यानरेशः। संशयितं प्रतिभाति त़ज्जीवितम्। यद्यपि हस्तामलकवत् सर्वं विज्ञातचरं तिष्ठति गुरुचरणानां, तथापि सर्वमाख्यास्यामि।
अरुन्धती तात! अलं गोपनेन सर्वं सविस्तरं श्रोतुमिच्छामि।
लक्ष्मणः अम्ब! आर्यपादैर्विफलमनोरथीकृतस्तदात्मयन्त्रणारहस्यमवगन्तुमहं प्रयत्नपरोऽभूवम्। निपुणमन्विष्यता मया ज्ञातं यद् गुप्तचरो दुर्मुख एव महाराजमेकान्ते ददर्श। तस्मिन्नपगते चैव नरपतिरात्मानमर्गलितप्रकोष्ठे न्यरुधत्।
वसिष्ठः साधु वत्स! साधु प्रयातेतं त्वया। ततस्ततः?
लक्ष्मणः भगवन्! मामतर्कितमेव स्वगृहमागतं दृष्टवा चकम्पे दुर्मुखः। साध्वसवशात्तन्मुखं पीतं जातम्। परन्तु मया सप्रणयमनुरुद्धः सान्त्वितः प्रबोधितश्चाऽसौ यथाघटितं यथाश्रुतं यथाऽवेदितञ्च भूपाय, परमार्थतोऽखिलवृत्तान्तं प्रकाशितवान्।
अरुन्धती (सविस्मयम्)
वत्स लक्ष्मण! कोऽसौ वृत्तान्तः?
लक्ष्मणः (सदैन्यम्)
तात! तदाख्यातुं कम्पते हृदयम्। अमन्दमन्दाक्षमनुभवति मच्चैतन्यम्। जिह्रेति जिह्वा। तथापि लक्ष्मणोऽस्म्यहम्। भणामि, यतो हि भणितुमेव नियोजितोऽस्मि नियत्या। अम्ब! श्रूयताम्!
रजकः कश्चिदायोध्यश्श्रुतो भार्यां कदर्थयन्।
ज्ञातिगेहङ्गतां साध्वीं ह्यस्तने हि निशामुखे।।8
यत्राध्युष्य समागतासि कुलटे! काले त्र्यहीनोत्तरे
तत्रैव व्रज कुम्भदासि! वदनं द्रक्ष्यामि नो तेऽधुना।
नाऽहं दाशरथिर्य आत्मरुचये रक्षोगृहे रक्षितां
भूयोऽङ्गीकुरुते विदेहतनयां सन्दिग्धशीलाम्पुनः।।9
अरुन्धती (कर्णौ पिधाय)
धिग्धिग्धिगधमं रजकहतकम्। हा दैव! शान्तं पापम्। शान्तं पापम्! आः नीचोऽयं जाह्नवीं मदिरामवगच्छति? पारिजातं स्नुहीतरुं घोषयति। कामधेनुं सूकरीमभिधत्ते!
(इति सजलनयना तिष्ठति)
वसिष्ठः देवि! अलमश्रुपातेन। भागधेयमेव विदेहनन्दिन्या एतादृशम्! पश्य तावत्
प्रसूर्नो मानवी नारी सदेहो जनकोऽपि नो!
परीवादभयाक्रान्तो वल्लभोऽपि न वल्लभः।।10
मन्ये, कौलीनमिदं श्रुत्वा प्रजानुरञ्जनकातरोऽयोध्याधिपतिर्निर्दोषां भार्यामेव प्रत्याख्यातुं धियं करिष्यति।
लक्ष्मणः (सरोषम्) भगवन्! मयि जीवति (इत्यर्धोक्ते)
वसिष्ठः (सोत्साहम्) वत्स लक्ष्मण! न युक्तमत्र त्वदग्रेसरत्वम्। कुलगुरुरहमिक्ष्वाकुवंशस्य। ज्येष्ठोऽहं, वरिष्ठोऽहं, वर्षिष्ठोऽहं, श्रेष्ठोऽहम्। किञ्च, ब्रह्मर्षिर्वशिष्ठोऽहम्। तन्मयैव वाच्यमिदं यन्मयि जीवति न पराभवति विदेहजा!
अरुन्धती (आनन्दबिह्वला सती)
भगवन्! अनेनाऽप्रतिहतसङ्कल्पेन हृतो भवता लोकशोकः। रक्षितं भवता रघुकुलम्। सार्थकीकृतं भवताऽत्मब्रह्मर्षिपद्गौरवम्!
लक्ष्मणः भगवन्! पार्थिवचतुराननो भवान्। भवतैव दशकं धर्मलक्षणं प्रतिष्ठापितं येन समाजोऽयं ध्रियते। विशेषतो हि, दिवङ्गते सति तातपादे भवानेवाऽस्माकं चतुर्णामपि भ्रातॄणां कृते तातकल्प एव। सम्प्रति रघुकुलकल्याणं प्रति नित्यप्रबुद्धे सति भवति सफलो ममोद्योगः। अन्यथा,
कौलीनदंशदलितेन प्रजाधिपेन लोकानुरञ्जनमहाव्रतपालकेन।
आर्येण चेदुदररक्षितवंशदीपा साऽर्यैव घोरविजने त्वरितं विसर्ज्या।।11
रक्षाऽभविष्यदिह नाथ कथन्नु तेन धर्मस्य लोकपरिधौ हि पतिव्रतस्य।
सञ्जीविताः सपदि हन्त भवद्वचोभिर्लोको वयं रघुपतिश्च विदेहजा च।।12
तत्कथं समाधास्यति. भवान् लोककुलसङ्कटमिमम्?
वसिष्ठः (सोत्साहम्)
वत्स लक्ष्मण! लोकतन्त्रप्रतिष्ठापनेन! शाश्वतसत्यस्य प्रतिष्ठापनेन। न्यायव्यवस्थायाः प्रतिष्ठापनेन।
लक्ष्मणः भगवन्! न सम्यगवगतम्।
वसिष्ठः लक्ष्मण! रामराज्यमिदं मयैव प्रतिष्ठापितम्। धरण्यामेव स्वर्गसौख्यमित्येव लक्ष्यं रामराज्यस्य। लोकतन्त्रप्रतिष्ठात्मकेऽस्मिन् रामराज्ये शास्ता भवति प्रजासेवको न पुनदुर्दान्तोऽधिनायकः। यथाऽर्धाङ्गिनीत्वाद्वैदेही रामाधीना तथैव शास्तृत्वाद् रामोऽपि लोकाधीनः। अतएव लोकमतमेवान्तिमं मतम्।
लक्ष्मणः भगवन्! लोकमतमिदं कथं ज्ञास्यति भवान्?
वसिष्ठः वत्स! लोकाऽधिवेशनेन! जनसभाया आयोजनेन। राष्ट्रियेयं सङ्कटस्थितिस्तर्हि लोकमतेनैव निर्णेष्यते।
(अरुन्धतीमवलोक्य)
कथं वा देवी मन्यते?
अरुन्धती भगवन्! सर्वोत्तमोऽयं प्रस्तावः। अवसरोचितोऽयं प्रस्तावः।
लक्ष्मणः भगवन्! तदनन्तकरणीयमादिशतु भवान्।
वसिष्ठः वत्स! मद्वचनाद् विज्ञाप्यतां चतुर्वर्णनिर्विशेषा समस्ताप्यायोध्यकप्रजाऽमात्यसेनापतिसामन्तकृषकधानुष्कयाष्टीक शौण्डिकरजकरञ्जकैन्द्रजालिका-हितुण्डिकविटचेटचारणवैतालिकश्रमिकोपाध्याय वैखानसाऽन्तेवासिविरक्ततपस्विस्त्रीपुरुषोभयसंवलिता श्वस्तने मध्याह्ने सरयूतटवर्तिनि सभामण्डपे समागन्तुम्। अन्तः पुरवर्जं राजकुलमपि विज्ञापनीयम्। विशेषेण चाऽसौ रजकोऽप्यानेतव्यो योऽधिक्षिपति देव्याश्चरितम्।
कुलगुरुणां ब्रह्मर्षिपदभाजां रामराज्यव्यवस्थापकानां वसिष्ठानामादेशोऽयं सर्वैः पालनीय इत्यपि विज्ञाप्यताम्।
सर्वमिदं निर्वर्त्य यथावसरं मामुपतिष्ठस्व।
लक्ष्मणः (सानुनयम्)
यथाऽज्ञापयति भगवान्।
(इति निष्क्रान्तः)
(नेपथ्ये श्रूयते)
लीयन्ते स्वे कुलाये विविधखगकुलान्यात्तभोज्यान्युदीर्णं
सन्तोषं चुङ्कृतीभिर्मुधरलयवतीभिर्वितन्वन्ति सायम्।
अस्तं प्रेक्ष्याऽर्कबिम्बं वरुणदिगुदधौ शर्वरी नष्टकान्ता
क्लान्ता दान्ता धरित्रीमवतरति शनैः प्रस्खलत्कृष्णवस्त्रा।।13
अपि च,
पीयन्ते धूमलेखाः मधुरसुरभयः पादपस्कन्धनद्धै-
र्भल्लूकैर्वानरैश्च प्रकृतिकुतुकिभिः कल्कनानि क्रियन्ते।
गोभिर्हम्भारवाभिर्गहनतरुतले वत्सकाः क्षुत्तृषार्ता
धावं धावं ध्रियन्ते शिथिलपरिचयाः प्रस्नुतोर्ध्वस्तनीभिः।।14
अरुन्धती भगवन्! समुपस्थिता सान्ध्यहोमवेला! तद् भवानपि नित्यधर्मकृत्यं सम्पादयितुमुत्तिष्ठतु। निर्वर्तयाम्यहमपि तावत्पूर्वकृत्यं कर्मानुष्ठानस्य।
(इति पर्णशालाभ्यन्तरं प्रविशति)
।।इति श्रीमद्दुर्गाप्रसादाऽभिराजीमध्यमसूनुना गौतमगोत्रीयभभयाख्य-।। मिश्रवंशावतंसेन महामहोपाध्यायेन त्रिवेणीकविनाऽभिराजराजेन्द्रण विरचिते प्रशान्तराघवनाटके द्वितीयोऽङ्कः
।।तृतीयोऽङ्कः।।
(ततः प्रविशति चिन्तातुरः पिण्डोदकः)
(धावतो-धावतो मे वपुश्शिथिलं जातम्। मस्तके (परि) श्रमाम्भोधारा वहति। मुखेन थूत्कर्तुं न शक्यते। यदा वत्सकाभिस्सार्धमागतवान् तदाऽवस्था पञ्चाशन्मिताऽऽसीत्। इदानीन्तु सप्ततेरुपर्यागता वर्तते। एतन्मध्ये वत्सया सीतया किं किं न भुक्तम्? सर्वंशोचित्वा जीव उन्माद्यति। मनसा मनस्येव गणयामि यत् हे शिवविभो! हे भवानि! इदानीं मा देह्यस्मत्सीताराज्ञ्यै किमपि दुःखं विपत्तिं वा। अस्मत्प्राणान् गृहाण महेश्वर! परन्तु मम सीतामधुना मा शातय)
प्रथमो जनः (पार्श्वमासाद्य)
(अयि भोः वृद्धप्रवर! यस्यां गुरुवसिष्ठ आहूतवान् तस्याः पञ्चायत्तसभायाः सृतिरियमेव?)
पिण्डोदकः (सक्रोधमात्मगतम्)
(महावृद्धबकोऽवबोध्यते? अस्मान् वृद्धान् कथयति। ननु कोऽयं वार्ताक्रमस्य विधिः?)
(प्रकाशम्)
(कीदृशं पञ्चायत्तं रे! अथ कं वृद्धं व्याहरसि? अहं वृद्धश्चेत्तर्हि किं त्वं युवको द्रक्ष्यसे? आर्य इति वक्तुं न शक्नोषि? किं तवाऽयोध्यायामेतादृशमेव लप्यते?)
प्रथमो जनः (वैलक्ष्यमनुभूय)
(आर्य! भवान् तीरभुक्तेरागतो वर्तते ननु! भवद्वार्तामाधुर्यमेव विज्ञापयति यद् भवान् मैथिलोऽस्ति। आर्य! क्षमताम्। किन्तु मार्गं तावद् ब्रवीतु)
पिण्डोदकः (प्रह्वीभूय)
(अनेनैव मार्गेण सार्धं चलितव्यम्। अग्रे सरयूरास्ते। तत्रैव भूयः कमपि पृच्छतु)
(इति प्रस्थितः। तावदेवोपसर्पति द्वितीयः कश्चित् सपरिवारः)
द्वितीयो जनः (पिण्डोदकमवलोक्य सहर्षम्)
पदयोर्युगले स्फुटकानि ततो दृशि चाऽपि न हन्त सृतिः पतिता
क्षिणुते ह्दयं क्षुरकैर्वचसां, ननु दन्तततिः प्रियया वलिता।
गुरुदेववसिष्ठसभा बृहती क्व पुरेऽत्र, न दष्टिपथं गमिता
तदुपायमुखेन सहायमहो कुरु, मज्जननी त्वयि सावहिता।।1
पिण्डोदकः (सप्रसादम्)
(वरं मधुरं मिष्टं बोल्लन् वर्तसे। भद्र! कुतस्त्येयं भाषा?)
द्वितीय जनः (साञ्जलिपुटप्रणामम्)
(महाराज! मथुरातस्समागत्य अयोध्यामध्युष्यते। सपरिवारं नित्यं परिचर्यते। अनेन विधिना समेषामुदरदर्यो भ्रियन्ते)
पिण्डोदकः (सप्रणयम्)
(चिरञ्जीव! जीव, वर्धस्व। इदमेव पुरुषार्थस्य लक्षणम्। सरयूतीरं यावदकुटिलं चलितव्यम्। तत्रैव कस्माच्चित् स्फुटीकरणीयम्।
(इति प्रस्थितः)
पिण्डोदकः (आत्मगतं सवितर्कम्)
(अयं सर्वः कोऽपि गुरुवसिष्ठसभाविषये पृच्छन्नास्ते। कीदृशीयं सभा यत्पिण्डोदकेनैव नाऽवबोधिता? गृहमासाद्य कृत्तिकैव तावत्प्रष्टव्या)
(इति सविलासं प्रतिष्ठते)
।। इति शुद्धबिष्कम्भकः ।।
(ततः प्रविशति सरयूतीरस्थे धर्मसभामञ्चे कुलगुरुर्वशिष्ठोऽरुन्धत्यानु गतः)
लक्ष्मणः (सप्रणामं पुरस्सरीभूय)
भो भो अयोध्यावासिनो जानपदाः! सामन्ताऽमात्यकृषकश्रेष्ठित-पस्विशिक्षककलाजीविनो बन्धवः! अयमहं लक्ष्मणो राजपक्षतः कुलगुरुपक्षतश्च भवतां समेषां स्वागतं व्याहरामि तच्छ्रूयतां सश्रद्धम् यदियमद्यतनी लोकसभा,
प्रदीप्तभास्कराऽध्यक्षा सरयूसाक्ष्यसम्मता।
गुरुभिः स्वयमाहूता दिक्पालाभिरक्षिता।।2
तदिदानीमनुरुध्यन्ते कुलगुरुचरणाः स्वाभिप्रायं निवेदयितुम्। हन्त,
द्रोहोद्रेकप्रणश्यन्मतिविभवधरैः सूनुसंघे प्रणष्टे
विश्वामित्रैर्न यस्य त्रिभुवनकुशलक्षोभिवैरं प्रबुद्धम्।
सोऽयं साकारदेहस्सलिलनिधितलस्पर्शिसुप्तक्षमाया
इक्ष्वाकूणां समर्च्योऽपरविधिरवनौ सम्मुखीनो वसिष्ठः।।3
अपि च,
दृष्ट्वा सङ्कल्पबद्धं तनयविनशनान्मृत्युमद्धा वरीतुं
यं नद्यो हन्त कास्काश्चुलुकसलिलतांभेजिरे नो प्रभीताः।
जाता काचिच्छतद्रुश्शतलहरिचयैर्नष्टगाधा वहन्ती
तत्पाशघ्नी विपाशाऽप्यथ तनुकजलाऽसौ वितस्ता तृतीया।।4
(ब्रह्मर्षिर्वसिष्ठः समक्षमायाति। सर्वेऽपि सभास्तारः साञ्जलिपुटप्रणामं कुलगुरुं प्रणमन्ति स्वासनेभ्यस्समुत्थाय। सर्वत्रापि जयघोषध्वनिः)
वसिष्ठः (हस्तावुद्यम्याशिषं वितरन् सप्रणयम्)
आस्यतामास्यताम्। भोभोः पौरजानपदाः भवतां समेषां जीवनेऽकस्मादेव नृशंसराजभये समुपस्थिते सति भवन्तस्सर्वे रामराज्यसूत्रधारेण मया कुलगुरुणा वसिष्ठेनाद्य निवेद्य समाहूताः। तत्सावहितं श्रूयताम्!
जलौघभूभ्रंशहिमावपातप्रवातझञ्झाशलभैकमूलम्।
नेदं भयं नाऽपि च बाह्यशत्रुयुद्धोद्यमोत्पन्नमथापि नान्यत्।।5
आभ्यन्तरं मानसिकं करालं भयं भयानां प्रमुखं तदूर्ध्वम्।
आतङ्कमुत्पादयदात्मसृष्टं लुनाति भव्यं ननु कोसलानाम्।।6
पौराः प्रिया मद्वचनं श्रृणुध्वं सनिष्ठमास्थाय च सावधानम्
अहं ब्रवीम्यात्महितं समेषामायोध्यकानाञ्च हितं महार्घम्।।7
त्रिकालवेदी स्वतपः प्रभावै ऋतस्य सत्यस्य च तत्त्वगोऽहम्।
सप्तर्षिवृन्दे गणितो महिम्ना विरञ्चिपुत्रोऽस्मि वसिष्ठनामा।।8
धातुर्निदेशादथ जीवलोकभव्याय सूर्याऽन्वयभूपतीनाम्।
अङ्गीकृता वंशगुरुप्रतिष्ठा मया चिरत्नात्समयात्पृथिव्याम्।।9
कियन्त एवाक्षतशौर्यभूपा मार्तण्डवंशेऽभ्युदिता मृताश्च।
यशोऽवशिष्टाः खलु किन्तु सोऽहमकालपच्यः स्वतनुं विभर्मि।।10
भगीरथं मित्रसहं दिलीपं रघुं जिगीषुञ्च तमिन्द्रमित्रम्।
अजं ततः पङिक्तरथं स्वधाम्ना निनाय लोकाभ्युदयं वसिष्ठः।।11
मान्याः सांसदाः! एवं चिरकालं यावत्सूर्यवंशपौरोहित्यं निर्वहतो मे यदा निन्द्यकर्मणोऽस्माद् विरक्तिर्जाता तदा मया मुक्त्यर्थ प्रार्थितोऽस्मत्पितृचरणो भगवान् चतुराननः। स मां प्रबोधयन् सस्मितमुवा च यद् वत्स! यदा पौरोहित्यकर्मणोऽस्य फलप्राप्तिसमयस्समासन्नस्तदा त्वं मुक्तिं याचसे? तात! नाऽवगतम्मयेति सविस्मयं भणिते मयि विरञ्चिः प्रोवाच-वत्स वसिष्ठ! शीघ्रमेव वंशेऽस्मिन् साक्षान्नारायण एव रावणविनाशार्तमवतरिष्यति दशरथस्यैव पुत्रीभूय! तावत्पर्यन्तं प्रतीक्षस्व!
(सभायां सर्वत्रापि करतलध्वनिः। विजयतां नारायणावतारोऽयोध्याधिपती रामः, विजयतां लक्ष्मीविग्रहाऽस्माकं पट्टराज्ञी सीता, विजयतां चास्मद्योगक्षेमरक्षी कुलगुरुर्वशिष्ठः इत्युद्घोषणानि श्रूयन्ते)
वसिष्ठः मत्प्रियाः जानपदाः।
सोऽहं स्वकीयैस्तपसाऽर्जवैश्च स्वतेजसा चापि दृढ़ शपामि।
यदात्मपुण्याक्षतभूरिभाग्यैः श्रीराघवं सम्प्रति निर्दिशामि।।12
न मानवो दाशरथिः पृथिव्यां स्वयं महाविष्णुरिहाऽवतीर्णः।
दृष्ट्या यया तत्त्वविमर्शशक्त्या पश्यामि रामं, सुलभा न सा वः।।13
न यत्र गन्तुं क्षमते शरीरं सूक्ष्मं मनस्तत्र विशत्यशङ्कम्।
मनोऽपि यत्राऽक्षमते प्रवेष्टुं सर्वज्ञ आत्मा सहजं प्रयाति।।14
सौक्ष्म्यं हि शक्तेरिदमापनीयं तपोबलेनैव न चाऽन्ययोगैः।
अतीन्द्रियं योगमुपार्जितं स्वं प्रस्तौम्यहं तत्तपसाऽनुभूतम्।।15
रामस्य देवत्वमपीह लोके न चास्ति साधारणबुद्धिबोध्यम्।
अगस्त्यवाल्मीकिसुतीक्ष्णविश्वामित्रा विजानन्ति च वेद्मि सोऽहम्।।16
हन्त पञ्चदश एव वर्षे यस्सुबाहुमुग्रां ताटकाञ्च जघान, मारीचं पारेसमुद्रं चिक्षेप, परस्सहस्रभूपैरप्यनुत्थाप्यं शिवचापं पिनाकाख्यं लीलयैव बभञ्ज, एकल एव यो विराधं खरदूषणादींश्च हत्वा जनस्थानं निर्भयं तपस्विजनवासयोग्यं च कृतवान् त्रिलोकसंराविणं बन्दीकृतशनैश्चरं गन्धर्वविद्याधरकिन्नरसिद्धतपस्विसन्तापिनं लङ्केश्वरं यस्समराङ्गणे निजघान।
अहो स रामः किमु मर्त्य एव युष्मादृशः संशयिताऽत्मशक्तिः।
अपूर्वकर्मा न च किं स आस्ते आयोध्यकाः पृच्छत मानसानि।।17
मत्स्याशिनं यो गुहमङ्कपाल्यां संस्कारहीनं कृतवान् सहर्षम्।
स्वसौहृदे तं नियुयोज सद्यः स राघवः किं मनुजो, न देवः??18
जटायुषं तातसखं वनान्ते सीतार्थमुत्सृष्टजरच्छरीरम्।
ददाह तं योऽधिचितं सुतीयन् गृद्धं स रामः किमहो मनुष्यः।।19
प्रेम्णा शवर्या वशगोऽप्यभौक्षीद्यो दण्डकायां बदरीफलानि।
स्वादाऽवबोधाय तयैव पूर्वं भुक्तानि रामः किमसौ मनुष्यः??20
जानन्नपि प्रीततमां स्वभार्यां चरित्रशुद्धाम्महितामनन्याम्।
ज्योत्सानिभां राघवपूर्णचन्द्रस्तत्याज तां प्राग्जनवादभीत्या।।21
यशस्विनीमग्निपरीक्षितां तां विरञ्चिशम्भ्वादिनुताञ्च पश्चात्।
महीयसीं पावकपावयित्रीं सुखेन जग्राह स किं मनुष्यः।।22
न काकिणीं नापि वराटिकां वा मूढोऽपि ना मुञ्चति मोहविद्धः।
भ्रात्राऽर्पिंत किन्तु न राज्यमैच्छद्यो राघवो हन्त स किं मनुष्यः??23
अये जना नागरकोत्तमर्णाः सर्वेऽपि यूयं ननु भाग्यवन्तः।
यद्रामराज्ये ससुखं वसन्तश्चकास्थ शेध्वे सहजं निशायाम्।।24
भद्रपुरूषाः! यथा स्पर्शमणिसंस्पर्शप्रभावाल्लौहमपि चञ्चच्चामीकरत्वमुपयाति तथैव नारायणविग्रहाणां श्रीमद्दशरथनन्दनानां वाग्दृष्टिकृपासंसर्गपरिपूता भवन्तोऽप्याध्यका देवत्वमण्डिता एवेति तर्कयाम्यहम्।
हा दैव! एवं सत्यपि,
स एव रामो भगवान्नृपेन्द्रः प्रजोपकाराय हुतात्मसौख्यः।
अनन्तसन्तापचयेऽवसन्नो व्यथार्दितस्सम्प्रति दैन्यमेति।।25
सायन्तने ह्यः किल दुर्मुखस्तं जगाद गुप्तं प्रणिधिर्नियुक्तः।
यन्मैथिलीमाक्षिपतीह कोऽपि दुर्वृत्तदृष्ट्या रजको नगर्याम्।।26
(नेपथ्ये श्रूयते)
शान्तं पापम्! शान्तं पापम्। हा धिक्! धिक्तं पामरम्। धिक्तं राक्षसम्। कोऽसौ रजकाऽधमः? त्वरितमेव वध्योऽसौ। कुलगुरो! आख्येयं तन्नाम। वध्योऽसौ योऽस्मद्राजमहिषीमधिक्षिपति। अयोध्यातो बहिष्कार्योऽयं कृमिः। न वयं मर्षयामः। हा कलङिकता वयम्। हा कृतघ्नाः सिद्धा वयम्।
लक्ष्मणः (सभां सान्त्वयन्)
शान्तं शान्तम्। भद्रजनाः अलमुद्वेगेन। कृपया सभासञ्चालने सहयोगं दत्त। सावशेषं वक्तव्यं गुरुचरणानाम्।
वसिष्ठः भार्याविषयकं कौलीनं श्रुत्वै विवृद्धतापो विमुक्तभोज्यान्नजलो निरुद्धात्मकक्षद्वारो लोकाराधनव्रतधरो राजर्षिः श्रीरामो निशामनैषीद्धर्मसभायामेव। नासौ ह्यस्तने सान्ध्यकाले राजमन्दिरं गतवान्।ततश्च,
सौमित्रितो वृत्तमिदं निशम्य मयापि रात्रौ प्रहितः स्वमन्त्रः।
यन्मामनामन्त्र्य न काऽपि राम! कार्या त्वयाऽनर्थकरी प्रतिज्ञा।।27
मन्ये प्रयत्नैः किल लक्ष्मणस्य युष्माकमप्यञ्चितभागधेयैः।
महाविनाशोऽपगतो निशायां भवन्त एवात्र पुनः प्रमाणम्।।28
यदि सन्तापविद्धेन राघवेण रात्रावेव वैदेहीपरित्यागाय प्रतिज्ञा कृताऽभविष्यत् तर्हि तदपलापोऽप्यसम्भव एवाऽसीत्। यतो हि लोकस्साधु जानाति यद्रामो द्विर्नाभिभाषत इति। तदिदानीम्,
ससागरायाः कुशलं धरित्र्याः प्रतीयते भो रजकाश्रितं तत्।
तस्मान्मयाऽऽनीत इहैव सोऽपि तिष्ठत्ययं पार्श्वगतस्सभार्यः।।
इयं सभा लोकमतैकनिष्ठा लोकाऽनुगा लोकसमिद्धतन्त्रा।
गवेषणे लोकमतस्य नूनं न राजभीतिर्न च दैन्यभावः।।30
पौरा इदं पावनरामराज्यं हिनस्ति वैयक्तिकपारतन्त्र्यम्।
राज्ञोऽधिकारे प्रकृतिर्न बद्धा प्रजाधिकारे नृप एव बद्धः।।31
पूर्वं प्रतिज्ञातमिदं नृपेण यत्सेवकोऽसौ विनतः प्रजानाम्।
प्रजामनोवृत्तिपरीतराज्यं भुनक्ति रामो न निरङ्कुशोऽसौ।।32
तस्मान्न भेतव्यमिहाल्पमात्रं वाच्योऽस्त्यभिप्राय उपेत्य मञ्चम्।
विदेहजां क्षालक! भद्र! नूनं प्रवेत्सि दुष्टां यदि नष्टशीलाम्।।33
काचिद् वृद्धा (करुणं विलपन्ती, सोरस्ताडं समुत्थाय)
(पार्श्वस्थाः जना वृद्धां सान्त्वयन्ति)
(हा पितः! अरे कोऽसौ मृतको रजको यो हि लक्ष्मीसदृशीमस्माकं पुत्रवधूं लाञ्छितवान्? अनर्थोऽयं सञ्जातो रे।एवं भाषमाणस्य गृद्ध्रस्य रसना न गलिता? आः रे अस्माकं सीताराज्ञी!
तपांसि तीर्थानि कृतानि हन्त कौसल्यया जन्मनि जन्मनीत्थम्।
ततो नु जातो रघुवंशदीपः श्रीरामचन्द्रस्तनयोऽथ कुक्षेः।।34
रामोऽप्यहोऽसौ वरभागधेयो योऽवाप सीतामिव धर्मपत्नीम्।
शत्रुघ्नमादौ भरतञ्च पश्चात्सलक्ष्मणं देवरमाप साऽपि।।35
लक्ष्मणः (सानुनयम्)
अम्ब! एष लक्ष्मणः सविनयं प्रार्थयते। कृपया नियन्त्रयात्मानम्।
अलं शोकेन। अलं रोदनेन! कृपया कुलगुरुपादानां वक्तव्यं श्रूयताम्।
वसिष्ठः शान्तम् शान्तम्। अलमुद्वेगेन। अलमावेशेन। अलं रोषेण। लोकतन्त्रमिदं रामराज्यस्य। विचारस्वातन्त्र्यम् अभिव्यक्तिस्वातन्त्र्यमेव लोकतन्त्रस्य प्राणतत्त्वम्। परन्तु तद्भवेत्समर्यादम्, युक्तियुक्तम्, प्रमाणपरिपुष्टम्। अतएव न केनाऽपि प्रदर्शनीयोऽविनयः। एष ममादेशः।
सम्प्रत्यहं वैदेहीनिन्दकं किञ्च रामराज्यपट्टमहिषीनिन्दकं तं भद्रपुरुषमाह्वयामि। न भेतव्यम्। सर्वथा निरातङ्कस्सन्नसौ स्वमन्तव्यं सर्वजनसमक्षं प्रकटयेत्। किञ्च,
दृढा मतिस्ते यदि तत्स्वकीयं मतं ह्युपस्थापय निर्विशङ्कम्।
सीताविरुद्धं वदसि त्वमेश्चाऽन्येऽपि वा, तद्भविता प्रकाशम्।।36
तपस्वी (समुत्थाय)
ब्रह्मर्षे! रामराज्यस्वप्नदर्शिन्! धर्मविग्रह! एष तपस्विसंघमुख्योऽहं सर्वैः सहानुयायिभिः सम्प्रेरितस्सन् सम्प्रार्थये यद् भगवतीं जनकनन्दिनीमप्यभिलक्ष्य स्वमन्तव्यं प्रकाशयन्तु भवन्तः। न वयं दिव्यदृष्टिसम्पन्ना न चाऽप्यतीन्द्रियज्ञानसमुल्लसिताः। तस्यैव दुष्परिणामोऽयं यद्रजकः कोऽप्यपभाषते देवीं वैदेहीं संलक्ष्य।
(जनसभायां साधु साधु साध्विति श्रूयते)
वसिष्ठः (सगाम्भीर्यम्)
पौरजनाः! स्वयमेव विचारयन्तु भवन्तो यत्
किमस्ति राजर्षिरिह क्षमायामन्योऽपि सीरध्वजतुल्यशीलः।
यस्यात्मजेयं खलु पट्टराज्ञी रामप्रियाऽस्माकमधीश्वरी च।।37
यन्नेत्रदीप्ताग्निभयाऽभिभूतश्शशाक नो स्प्रष्टुमसौ दशास्यः।
स्वपापपश्चात्तपनप्रविद्धः सा जानकी किं चरितैर्विलुप्ता??38
प्रदीप्तवैश्वानरवेदिकायां स्थिताऽपि या काञ्चनतामवाप।
तां देववन्द्यामपि मैथिलीं भो जानासि सत्यं चरितावलीढाम्??39
समग्रलङ्काजनतासमक्षं प्लवङ्गसैन्येऽपि च विद्यमाने।
रुरोह सीताऽधिचितं मुमूर्षः सा किं कथा लोकजनश्रुतिर्वा??40
साक्षी स्वयं लक्ष्मण एष यो वै काष्ठानि संहृत्य चिताञ्चकार।
साक्षी स्वयं राघव उग्ररोषो यन्मूलमासीद् दुरितं तदूर्ध्वम्।।41
विभिषणो वायुसुतोऽङ्गदश्च प्लवङ्गसेनाऽधिपतिस्सुकण्ठः।
स जाम्बवान् वृद्धतमोऽधिसैन्यं सर्वेऽपि ते संसदि साक्ष्यभूताः।।42
चारित्र्यशुद्ध्यध्वरमन्त्रपूता विरञ्चिशम्भ्विन्द्रमुखाभिनन्द्या।
सीता स्वयं हव्यभुजा प्रदत्ता वेद्युत्थितेनाऽशु रघूत्तमाय।।43
मान्याः पौरजनाः! नेयं किंवदन्ती। प्रत्यक्षघटितमिदं वृत्तम्। नाऽत्र सन्देहं विधाय कोऽप्यात्मानं कदर्थयतु। तदयं मम निर्णयः,
अतः स्फुटं वच्मि निजाधिकारैस्तपोमहिम्ना गुरुगौरवेण।
विरौम्यहं चण्डमुदूर्ध्वबाहुः श्रृण्वन्तु सर्वे किल पौरवर्गाः।।44
चरित्रमास्कन्दति पट्टराज्ञ्या भूयोऽपि चेत्कोऽपि विरुद्धबुद्धिः।
चितां समारुह्य निजं चरित्रं प्रदर्शयेत्सोऽपि सकृत्पवित्रम्।।45
नेतः परं मया किञ्चित्कथनीयं विद्यते!
मान्या जना नागरकाः प्रविज्ञाः एतावदेवास्ति ममाभिधेयम्।
निश्चेष्यते सम्प्रति लोकतन्त्रैर्भाग्यं हि देव्या रजकार्दितायाः।।46
पक्षे-विपक्षे च विदेहजायाः वादो मया प्रस्तुत आत्मबुद्धया।
ऋतञ्च सत्यञ्च भवत्समक्षं प्रकाशिते शास्त्रपथानुकूलम्।।47
सीतास्वरूपं रजकप्रमोहं विशाम्पतेश्चापि गृहप्रभुत्वम्।
निष्पक्षपातं परिभाष्य सोऽहं करोमि सर्वं भवतामधीनम्।।48
भद्र रजक! सम्प्रत्युपस्थापय स्ववाचिकम्!
रजकः (प्रभञ्जनगत्या वसिष्ठचरणौ निपत्य करुणं च विलपन्)
करुणावरुणालय! कुलगुरो! अयमहं स्वयमेव स्वपापदण्डं प्रयाते! हा दैव! पतितोऽस्मि, कृतघ्नोऽस्मि, निहतोऽस्मि। जगज्जननी पट्टराज्ञी मया मूढेन निन्दिता। अन्नदाता स्वामी मया पापेनाऽवसादितः। तदहं दण्ड्योऽस्मि!
(करुणकरुणं विलपन् हस्तावुद्यम्य)
अये जनाः! लगुडाघातैर्नृशंसं मां ताडयत। शिलाशकलैर्मां पापकर्माणं घ्नन्तु भवन्तः। नाऽहं जीवितुमुत्सहे क्षणमपि। अथवाऽत्मघातं करिष्ये स्वयमेव!
(राघवचरणौ निपत्य)
हा नाथ! केन मुखेन क्षमां याचे?
एकेन नीचेन मया पुरीयं निजापराधेन कृताऽवसन्ना।
वापीव हालाहलबिन्दुनेव न मे गतिस्सम्प्रति कल्मषाणाम्।।49
हे राम हे राघव दीनबन्धो! क्षमस्व मां देव! कृतापराधम्।
आयोध्यका जानपदाश्च सर्वे यूयं क्षमध्वं रजकं व्यथार्तम्।।50
न मेऽक्षरज्ञानमकुण्ठसुप्तेर्न चापि विद्वज्जनसाधुसङ्गः।
न वंशसंस्कार इहास्मि जातो जन्तुः पृथिव्यां रजकाभिमानी।।51
तिमिङिगलो गाङ्गजलैकपायी भवन्नपि क्लिश्यत एव यद्वत्।
जीवामि हा विष्णुमये पुरेऽस्मिन् विष्णुच्युतोऽहं रजकस्तथैव।।52
अवादिषं क्रोधविनष्टबुद्धिर्मुखेन यद्देव! निशि स्वभार्याम्।
न तस्य मूलं हृदये ममाऽसीन्न वर्तते नाथ! शपामि धर्मैः।।53
ब्रह्मर्षिवाण्या अमृतं निपीय किन्तु प्रलीनं मम बुद्धिजाडय्म्।
विलोकये सम्प्रति विष्णुरूपं श्रीराघवं भूमिसुताञ्च लक्ष्मीम्।।54
(नेपथ्ये श्रूयते-साधु साधु भद्र रजक! क्षालितं त्वया स्वपापम्। कुलगुरो! करुणावरुणालय राम! क्षन्तव्योऽयं दीनरजकः)
वसिष्ठः (सप्रणयम्)
राघव! दयासिन्धो! क्षम्यतामयं पश्चात्तापविधुरो जनः। इदमेव, लोकस्य मतम्। लोकमतं भवता नोपेक्षणीयम्। भद्र! धार्योऽयं रजकः।
राघवः (सवेगं रजकमुत्सङ्गे कुर्वन्)
भद्र! अलं कातर्येण। उतिष्ठ! अश्रुस्नानैरेव तीर्थपूतोऽसि जातः। न मे त्वयि कश्चिद्रोषलेशः। त्वद्वचोभिस्सन्तापो मे गलितः। तद्यथासुखं तिष्ठ गृहे समाजे च। सदर्थय रामराज्यम्!
(सांसदान् प्रति)
भो भोः पौरजनाः! रामराज्यमिदं ब्रह्मर्षिप्रतिष्ठापितं वस्तुतो लोकराज्यं, किञ्च भवतामेव राज्यम्ष सानुजोऽहं केवलं भवत्सेवकः। स्वर्गमवतारयितुमिच्छामि धरित्र्याम्। परन्तु तत्कार्यं भवत्साहाय्यं विना न सम्भवति। अतएव,
स्वं कर्तव्यं प्रसक्त्या विशदयतु जनो चत्र यस्याऽधिकारः
आत्मा न्यग्भावनीयः कथमपि न मनाङ् मङ्गलेऽमङ्ले वा।
श्रित्वा यो नैरपेक्ष्यं समुदयसरणिं लम्बते रामराज्येऽ
सौ मे प्रेयान्नितान्तं धरणितलचरो देवकल्पोऽभिवन्द्य।।55
रजकः (पौराभिमुखीभूय)
हे दयासागरभूताः पौरजानपदाः! सर्वथा क्षम्योऽयं जनः। नाऽहं भवानिव विद्यावान्, नाऽनुभवसम्पन्नो, न चाऽपि सत्सङ्गोपकृतः। पशुवज्जीवनं यापितम्मया। आजीवनं प्रक्षालितानि मलिनवस्त्राणि। हा हन्त! मलिना बुद्धिर्न क्षालिता मया। परन्त्वद्य प्राप्तो मयाऽपि नाम कश्चित्प्रकाशः। अद्यैव मया गृहीतं जन्म! तत्सप्रणामं याचे भवत्करुणां भवद्दयां भवत्क्षमां च! हे महापुरुषाः! तत् त्यजन्तु भवन्तो मयि निजोदासीनदृष्टिम्। कृपयाङ्गीकुर्वन्तु माम्।
(नेपथ्ये साधु साधु! विजयस्व, वर्धस्व, सर्वथा निर्मलोऽसि जातः, भद्र! शोधितस्त्वयाऽऽत्मेति वाचः श्रूयन्ते)
वसिष्ठः (सदयम्)
भद्र रजक! यथा सभास्तारस्सर्वे त्वाभिनन्दन्ति ततो विषादं परित्यज्य स्वगृहं गच्छ, भार्याञ्च सम्भाव्य सुखी भव! राघवोऽपि त्वयि कृपालुरेव।
रजकः (सभार्यः प्रणम्य)
यथाऽज्ञापयन्ति कुलगुरुचरणाः।
(भार्यां प्रति)
भाग्यवति! मामनुसर। गृहं तावद् गच्छावः।
लक्ष्मणः (सर्वान् अभिलक्ष्य)
भो भोस्तपस्विनः अमात्याः सामन्ताः भटाः शिल्पिनः कलाजीविनः बन्धवो भगिन्यश्च! सुखान्तेयं सञ्जाता धर्मसभा! कुलगुरुषु वसिष्ठेषु यादृशी निष्ठा भक्तिश्च भवद्भिः प्रदर्शिता, रामराज्यजीवातुभूते राघवे पट्टमहिष्यां विदेहनन्दिन्यां चापि यादृशो बहुमानभावः प्रकाशितो भवद्भिस्तेन कृतार्थतामुपयाताऽयोध्या, रघुकुलञ्चापि।
तदिदानीं गुरुवसिष्ठाऽज्ञया धर्मसभेयमवसिता घोष्यते। यथासुखं गच्छन्तु भवन्तः।
(नेपथ्ये मङ्गलवाद्यध्वनिः। जनसम्मर्दप्रस्थानरावः)
।। इति श्रीमद्दुर्गाप्रसादाऽभिराजीमध्यमसूनुना गौतमगौत्रीयभभयाख्य-।। मिश्रवंशावतंसेन महामहोपाध्यायेन त्रिवेणीकविनाऽभिराजराजेन्द्रेण विरचिते प्रशान्तराघवनाटके तृतीयोऽङ्कः ।।