कान्तारे तावदेव समागताः वर्षाः। अकस्मादेव नग्नप्राया वनवधूटी हरितशाटिकालङ्कृता बभासे। श्वापदादिपदक्षुण्णधूलिनिचयैः पाण्डुतामुपेता धरित्री सम्प्रति सान्द्रशष्पाङ्कुरावृता तलिच्छकभूषितेव ददृशे। वृक्षा नवस्कन्धाः, स्कन्धाः, नवशाखाः, शाखा नववृन्ताः, वृन्ता नवपल्लवाः, पल्लवा नवपलाशाःपलाशाश्च मसृणकान्तयस्सञ्जाताः। वृक्षेषु केषुचित् वर्षर्तावस्मिन् निविडपलाशमात्रं, केषुचित् विविधवर्णप्रसूनमात्रं, केषुचित् फलमात्रं केषुचिच्च सरवमपि समन्वितमपि समन्वितं दृश्यते स्म।
वनमानुषैश्चम्पाजीवैश्च शाखासञ्चयैश्छदिं निर्माय पर्कटीशिखरेषु कुटीराणि निर्मितानि। वर्षति बलाहके ते शावकान् सहचरीश्च कुटीरेषु कृतवन्तः। स्वयञ्च ते सघनपल्लवान् शीर्षोपरि आतपत्रीकृत्य बृहज्जलधाराभ्य आत्मत्राणं कृतवन्तः।
वानरास्सर्वे शिशूनुत्सङ्गे गोपायित्वा पृष्ठञ्च कुब्जीकृत्य मुखमवनमय्य वर्षावारणं कृतवन्तः। वर्षणे समाप्तप्रायएव ते शरीरमान्दोल्य वर्षाजललवानधोऽधो निपात्य भूयोऽपि प्रशुष्ककायाः सञ्जाताः। वर्षाबिन्दवोः न कथमपि पृथुलपृथुलं तच्छरीररोमनिचयं भित्वा चर्म स्प्रष्टुं शक्ता अभवन्।
वराहाणां महिषाणां गजानां चापि का कथा ते तु प्रारब्ध एव घनवर्षणे पुलकिताः सन्तो मुक्ताकाशमण्डपे समागतवन्तः। जलधरनादं श्रावं श्रावं बर्हिणः प्रतिध्वनिं प्रकटय्य मेघाभिनन्दनं कृत्वन्तः। हरिणाः गवयाः वनगावः वनगर्दभाः वनमेषा वनबर्करा जीर्णशफा जवराश्चेति सर्वेऽपि शाकाहाराः पशवो वर्षोद्विग्नाः सन्तो घनच्छायान् पादपान् श्रितवन्तः। नीडवन्तो विहगास्तु सुखिन आसन् कुलायेषु शृगाला वृका लकुटव्याघ्राश्चित्रकास्तरक्षवस्शलल्यश्च सुरक्षितहबूरन्ध्रेषु मृत्कूटकोटरेषु पर्वतदरीषु वा गतवन्तः। मत्स्यकमठनक्रमकरभेकादीनां जलजीविनान्तु अपरमहोत्सव इव समायातः वर्षाकालः।
घनाच्छन्ने निसामुख एव विवधजीवानां हृद्याऽनवद्यकण्ठनिर्यद्ध्वनिभिर्गुञ्जितं वनं मर्त्यानां विवाहमण्डपमिव पर्यलक्ष्यत्। मन्दं भासमानाः खद्योता कृष्णशाटिकायां पीतपुष्पप्रतिच्छविमिव रूपयन्तो ददृशिरे। रजन्या निबिडनिबिडं तमस्काण्डं विदारयन् घूत्कारो घूकस्य, सर्वानेवाऽरण्यकान् प्रबुद्धानकरोत्।
विभक्ताऽपि सलिलसमृद्धिमुपगता। श्यानपङ्कं तदीयमुभयमपि पुलिनमिदानीं विलुप्तम्। वर्षावेगादानीता मृताः ग्रामपशवः पर्णशालाः मृतशवाः तृणगुल्मशैवलादयस्च बृहद्विस्तरायां विभक्तायां प्रवहन्तोऽदृश्यन्त। महातरङ्गवेगभयभीता नक्रमकरादयो जीवा मध्यधारामपहाय मन्दवेगं पुलिनं श्रितवन्तः। जलौकसां कर्कटानां शिंशुमाराणीञ्च वंशवृद्धिर्जाता।
एवं हि वर्षर्तौ समग्रमेव महावनं किञ्चिदन्यदिव सञ्जातम्। तथापि वर्षया समेऽपि वनवासिनः सुखमन्भवन्।
अनवरतवर्षानन्तरं कस्मिंश्चिद् दिने सूर्योदयो जातः। क्लिन्नवस्त्रमिव पक्षतियुगलं शोषयतिमुष्णयितुञ्च प्रवृत्ताः सर्वे खेचराः। दरीगर्ताऽवटरन्ध्रकोटरगुहावासिनोऽपि बहिरागताः सर्वकालोपकारकमित्रं मित्रं द्रष्टुम्। नूतनचातन्यमिव प्रसृतं निखिलेऽपि कान्तारे।
ततश्च, सुकर्णाऽनुगतो मौद्गलिरपि गृहान्निष्क्रान्तो वनदर्शनाय। द्रुतपदैः परिभ्रमन्नसौ कण्ठनालाभिमुखीभूय पुरस्ससार।
विवशाख्या काचिद्गिर्हरि करुणं क्रदन्ति दृष्टिपथमापतिता। वस्तुतः प्रथमप्रसवाऽऽसावासीत्। तस्याः शावको दुर्भाग्यवसान्नीडादधोऽपतत्। तृणशय्योपरि पतितोऽसौ न तावन्मृतः। तथापि वृक्षमारोढुमशक्तोऽसौ स्वस्थान एव शरीरं बहुशो विवर्तयन्नासीत्। शावतस्येमां दुर्दशां दृष्ट्वा किञ्चिदपि साहाय्यमाचरितुमशक्नुवाना वराकी जननी, परितोऽपि भयमाशङ्कमाना तारस्वरेण चीत्कुरुते स्म। यदि नाम केनचित् नृशंसखेचरेण दष्टश्शावकस्तर्हि झटित्येव तेन भक्षितः स्यादिति कृत्वैव भयार्ता जननी चङ्क्रमणं कुरुते स्म।
तालकण्ठाख्यस्तावदेव समायातः कस्चिज्जीर्णशफः कुटुम्वानुगतः। स दृष्टवान् भूपतितमशक्तं गीर्हरिशावकं, निरूपायतया क्रन्दन्तीं गीर्हरीं च। अनाख्यातमपि समग्रं वृत्तमसौ ज्ञातवान्। स खलु महता यत्नेन वात्सल्येन च प्रोथाग्रेण शावकमुत्थाप्य वृक्षशाखोपरि निर्मितं गिर्हरिनीडं प्रापयत्। अमन्दानन्दबिह्वलाऽसौ द्रुतवेगेन नीडमासाद्य स्वशावकमुपाचरत्। तस्याः क्रन्दनं परिसमाप्तं जातम्।
मौद्गलिर्मर्मान्तकमिदं दृश्यमेक्ष्य पुलकितो जातः। सखलु जीर्णशफान्तिकमुपेत्य, करतलेन तन्मुखं सारयन् तं प्रीत्या चुचुम्ब।
मृतकूटसमीपं कीटभक्षाणां विहगानां महान् सम्मर्दोऽवलोकितः। सहस्रमिता मृतशलभाः परितोऽप्यवकीर्णा आसन्। मौद्गलिर्ज्ञातवान् यदेते वर्षति मेघे वल्मीकेभ्यो निस्सृताः पश्चाच्च धारासम्पातवृष्टिवेगाघातात् मृता अभविष्यन्।हन्त, साम्प्रतमेते प्रीत्या भक्ष्यन्ते खगैः गोधाभिर्विषकर्परैः पल्लीभिः कृकलासैश्च। हन्त, विलक्षणमेव कान्तारजीवनम्। । केषाञ्चिन्मरणं। अपरेषामुदरभरणम्।
अकस्मादेव मौद्गलिः करिणां क्रन्दितं श्रुतवान् करिणां बहुविधानि चीत्कृतानि भवन्ति हर्षविषादभयक्रोधप्रणयादिभावसंसूचकानि। मौद्गलिः सर्वाण्यपि तानि सम्यक्तया जानाति। सर्वाण्यपि तानि प्रकटयितुमपि क्षमतेऽसौ। अत्रत्याक्रन्दितेषु क्रन्दनमेकं अतीवव्यथार्थीसूचकं शावोचितञ्चासीत्। अनेनैतत्परिस्फुटमासीत् यत्कश्चित्कलभः सङ्कटापन्न आसीत्। तत्कालमेव मौद्गलिःप्रतिक्रन्दितं प्रकटय्य गजान् विज्ञापितवान् यदसौ निमेषेरैव घटनास्थलमासादयति। गजाः सर्वे मौद्गलिमायान्तं परिज्ञाय प्रसन्ना जाताः।
कतिपयैरेव क्षणैः सुकर्णाऽनुगतो मौद्गलिर्हस्तियूथसमीपमुपाययौ। सत्यमेव तत्र कश्चिदल्पवया हस्तिशावकः कस्मिंश्चिदवटे निपतित आसीत्। अनवरतवर्षावशादवटोऽयं पङ्कभरग्रहिलस्सञ्जात आसीत्। यथा-यथा कलभो बहिरागन्तुं त्वरामकरोत् तथा तथैवाऽसौ पङ्कग्रस्तस्सञ्जातः। वात्सल्यधर्षिता जननी करूणकरूणं विलपतिस्म। करिणश्च सर्वे शुण्डादण्डावलम्बेन दन्तसाहाय्येन च शावकं बहिरानेतुं प्रयत्नपरा आसन्। तथापि हतधैर्यः कलभः बहिरागतप्रायोऽपि त्वरावशाद् भूयोऽप्यवटे पतन्नासीत्।
मौद्गलिः झटित्येवोपायं चिन्तितवान्। स लघ्वीः पर्वतशिलाः संहृत्य क्रमेण वा अवटे न्यपातयत्। शनैः शनैरवटाभ्यन्तरभगस्तुङ्गात् तुङ्गतरो जातः। अन्ते चाऽवटोऽसौ धरित्रीतुल्यतलस्सन् सरलतयाऽतिक्रमणीयो जातः। कलभः साहाय्यं विनैव बहिरागतवान्। सर्वेऽपि वन्यगजा शीर्षाण्यान्दोलयन्तो नर्तनं प्रारब्धवन्तः। कलभजननी चापि शुण्डया लालयन्ती मौद्गलिमभिननन्द।
एतत्सर्वं कुर्वाणस्यैव मौद्गलेरपराह्णो जातः। इदानीं किञ्चिदशितुमिच्छा समजनि। परन्तु भोजनमत्र कुतः प्राप्येत?
-मौद्गले! अलं चिन्तया। भोजनस्थानमेकं स्मृतिपथम्मे उपयाति। सुकर्णः स्मृतिं नाटयन्नवदत्।
-किन्नु तत्स्थानम्? मौद्गलिरपृच्छत्।
-जम्बुवनम्!
-साधु स्मारितं त्वया सुकर्ण! एहि, तत्रैव गच्छावः।
उभावपि जम्बुवनमुपागच्छताम्। सर्वेऽपि जम्बूवृक्षाः परिपक्वैः बृहदाकारैः कपिशकपिशैर्जम्बूफलैरवनता आसन्। पर्वतोऽपि रक्तमुखाः कृष्णमुखाः कपयस्तत्र प्रतिशाखं विराजमाना आसन्। मौद्गलिं दष्ट्वैव ते मधुरातिमधुराणि फलानि संहृत्य तस्मै प्रदत्तवन्तः। जम्बुभक्षणेन मौद्गलेः सुकर्णस्य च तृप्तिर्जाता।
सम्प्रति तौ गृहमुपावर्तितुं मतिं चक्रतुः। पथि सम्प्राप्तान् कान्तारवासिनः कुशलमनामयञ्च पृच्छन् मौद्गलिः पदातिरेव सन्ध्यां यावद् गृहमागच्छत्।
अथाऽपरेद्युः प्रातर्वेलायामेव महिषाणां यूथः कश्चिद् दक्षिणकान्तारस्थिते विशालसरोवरे स्नातुं प्रस्थितः। यूथेऽस्मिन् प्रायेण शताधिकाः सदस्या आसन्। नवजातामहिषमाणवका यूथमध्ये आसन्। महिष्यो वृद्धमहिषाश्च माणवकानुभयतः प्रचलन्ति स्म। युवानो महिषा यूथस्य पृष्ठभागे प्रौढाश्चाग्रभागे आसन्। शैलमस्तनामा यूथमुख्यो महिषो कृष्णदृषच्छिलोपममस्तको वह्निशोणितनयनो गिरिगुहोपमघोणः पर्ववद्विषाणमण्डलो यूथस्यं नेतृत्वं विदधन्नासीत्।
ते सर्वेऽपि मन्दगत्या पुरस्सरन्तः सरोवरं निकषा आगतवन्तः। ततश्च जलक्रीडार्थमुन्मदीभूय सझम्पकैकशस्ते सरस्यकूर्दन्। महिष्यस्तु वत्सकान् रक्षन्त्यः सरोवरतटेष्वेव अतिष्ठन्। परन्तु युवानो महिषा युवत्यश्च काश्चन महिष्योऽगाधे सरोवरजले समवतीर्य क्रीडितुमारेभिरे। ते सर्वेऽपि प्रोथैः श्रृङ्गैश्च जलं ताडयन्तः कुतुकं कृतवन्तः। ततश्च केचन अन्योऽन्यमनुसरन्तः वर्तुलपरिधौ परिभ्रमन्तो मृषायुद्धमभिनीतवन्तः। केचन यौवनोन्मत्ता रसिकचित्ता युवानो महिषा श्रृङ्गयोः शैवालराशिमावृत्य नवसङ्गमोत्सुकाः महिषी आकर्षितुं प्रवृत्ताः जाता। सफलाभिनयाः केचन स्वप्रणयिनीः सरोवरपुलिनमानीय रतिव्यापारमपि सम्पादितवन्तः।
एवं हि चिरं यावत् निपानसलिले निर्व्यूढक्रीडाः प्रशान्ततापास्ते महिषाः सरोवरान्निष्क्रम्य शस्यक्षेत्रं प्रति प्रस्थिताः। परन्तु किमिदम्? प्रायेण दशमितानां प्रौढसिंहानां कश्चित्समवायो महिषयूथं सरोवरादुपावर्तमानं प्रतीक्षमाण आसीत्। सिंहसमवायेऽस्मिन् त्रयः पुरुषसिंहाः सप्त च सिंह्य आसन्। ते सर्वेऽपि वनमार्गान्नतिदूरेस्थानेऽर्धचन्द्राकृतिं समाश्रित्य समुपविष्टा आसन्।
तानेतदवस्थान् सम्प्रेक्ष्यैव सहसा सर्वेऽपि महिषाः क्षणं यावत्स्थिरा जाताः। यूथपतिः शैलमस्तः सर्वानपि सहायान् सम्बोध्य प्रावदत् – भो अलं भयेन। सावहितं मद्वचनं सर्वे श्रृणवन्तु। सर्वेऽपि नवजाता अल्पव्यस्का वा यूथमध्ये क्रियन्ताम्। प्रौढाः युवानश्चोभयतो रक्षापङ्क्तिं निर्माय शनैः शनैर्मामनुसरन्तु। अस्मद्भूयसीं संख्यां दृष्ट्वैव मृतप्राया एते केसरिण आक्रान्तुं साहसं न करिष्यन्ति। यदि वा मृत्युः कमपि मूढं मत्समीपमानयत्येव तर्हि वज्रोपमभालप्रहारेण तं लोष्टकल्पं दूरे क्षेप्ष्यामि।
भूयोऽपि शृणुत। न भेतव्यम्। न धावितव्यम्। कथमप्येकाकिना न भवितव्यम्। यूथं विहाय न क्वाप्यन्यत्र गन्तव्यम्। एता सिह्य आक्रमणमुद्राभिरसकृत् क्षणे-क्षणे भवतो भीषयिष्यन्ति। कदाचिद्धुङ्कारैः कदाचिदुद्धूलनैः कदाचिदतिनिकटमागत्य कदाचिच्च मृषक्रमणाभिनयैरेतो यूथं पृथक्कर्तुं छिन्नं-भिन्नं वा विधातुं प्रयतिष्यन्ते। एतेषां केसरिणां सर्वमप्यभिनयं सर्वमप्युपक्रममहं सुष्ठु जानामि। अतएव भवद्भिः सुस्थिरैः धैर्यवद्भिः संयमवद्धभिर्निर्भयैश्च स्थातव्यम्। आत्मरक्षांप्रति बद्धपरिकराः सर्वे शनैः शनैर्ग्रे सरन्तु। भूयोऽपि शैलमस्तः स्ववर्गमौढ्याभिज्ञोऽवदत्।
अन्ते च पुनरपि कथयामि यत्सिंहभीतेन केनापि यूथं परित्यज्य न पलायितव्यम्। यदि नाम कश्चिदेकलस्सञ्जातस्तर्हि तस्य मरणं ध्रुवम्।
इति यूथं प्रबोध्य यूथाधिपो महिषः कज्जलगिरिसन्निभो यूथनेतृत्वं विदधच्छनैः पुरस्सार।
यूथं नेदिष्ठमवलोक्य सिंहसमवायोऽप्युदतिष्ठत्, महिषयूथेन सार्धमेव समानान्तरवर्त्मनाऽग्रे सर्तुं प्रवृतः। चिरं यवदुभयोर्यूथयोर्न काऽपि अव्यवस्थाऽशान्तिर्वा पर्यलक्ष्यत। एवं प्रतीयतेस्म यथा केसरिणोनाक्रान्तुमनसः। केवलं लीलासहगमनं नाटयन्ति ते।
परन्त्वकस्मादेव सिंह्यः काश्चन द्रुतपदैर्धावन्त्यो यूथसमीपमागता येन नवजाता अविवेकिनो महिषजातका यूथान्निः सृत्यबहिरागताः। तांश्च वारयितुं काश्चन महिष्यो वात्सल्यवशाद् यूथभिन्ना जाताः। यूथेऽवकासं दृष्ट्वा द्वित्रा सिह्यः सुखं प्रविश्य, महिषमेकं द्रंष्टाभिः क्षतविक्षतकुर्वाणा तं यूथात्पृथक्कर्तुं सफला जाताः। सच महिषो यूथात्परिभ्रष्ट आत्मत्राणाय महता वेगेन धावितुमारेभे। सिह्योऽपि स्वमनोरथसिद्धिमवेक्ष्य मृषाऽनुधावनं नाटयन्त्यस्तं दुर्भाग्यग्रस्तं महिषमेकान्तस्थाने समायन्।
तावता कालेनाऽन्येऽपि त्रयः सिंहा अवशिष्टाः सिह्यस्च महिषयूतं कान्तारदिशायां दूरं यावद् द्रावयित्वापावर्तन्त। सम्प्रति सर्वविद्यऽसहाषो मृगेन्द्रमण्डलेन तेन परिवारितः साहाय्यार्थं करूणकरूणं क्रन्दन् यूथमाजुहाव। परन्तु को नु साहाय्यार्थमागंच्छेत्?
तावदेव द्वौ सिंहौ महिषपृष्ठोपरि समारूह्य द्रंष्टाभिस्तं दारयितुमुपचक्रमाते। एकस्तस्य मेरुदण्डाग्रभागं विदारितवान्। अन्यश्च पृष्ठवर्ति गुदास्थि बभञ्ज। एंकस्तस्य प्रोथं मदृढं जग्राह। सिंहि काऽपि तस्याण्डकोशमेव लुञ्चितवती। द्वित्रा अन्या तस्योदरचर्म द्र्ट्रा भ्यामाकुञ्च्य तमधः पातयितुं यत्नपरा अभूवन्। क्षतविक्षताङ्गो महिषाऽसह्यपीडया बोङ्कारमुत्पाद्यन् परिधौ धावितुं प्रवृत्तः। परन्तु वराकं कं कं परिहरेत्? कस्मात्कस्माद्वाऽऽत्मानं मोचयेत्। शनैः शनैः प्रतिकारशिथिलोऽसौ जातः। अन्ते च छिन्नमहीरूह इव भूमौ पतात।
अथ भूमौ पतत्येवतस्मिन्महिषे नृंशसतमाऽऽखेटकुशला कापि सिंहि तस्यस्वासनलिकां दृढतया जग्राह। श्वासावरोधविकलो महिषः पादान् भृसं परिकम्पयन् मृत्युव्यथां नाटयञ्चकार, कतिपय निमेषानन्तरं च मृतः। जिह्वा तस्य मुखाद् बहिर्निस्सृता। नेत्राभ्याञ्च रुधिरधाराप्रवाहत्। विशालाकृतिं महिषं हत्वा सर्वेऽपि सिंहाः परिश्रान्तिवशात् क्षणं यावत् शान्ता जाताः। मृतं सैरिभं बहुशो लीढ्वा कतिपयेषां तुष्टिर्जाता।
पितॄन् शान्तावस्थान् दृष्ट्वैव पार्श्ववर्तिनिष्कुटे निलीनाः सिंहशावका अपि समुच्छलन्तः समागच्छन्। ततश्चारब्धोऽभूद् भोजमहोत्सवः। आदौ यूथपतिस्तदनुगौ च यथेष्टं भुक्तवन्तौ। मध्ये-मध्ये तेषुकलहोऽप्यजायत। शावका इतस्ततः पतितं मांसखण्डमखादन्। सन्तुष्टे सति सिंहसमुदाये सिंह्यस्सर्वा भोजनार्थमागताः। जननीभिस्सार्धं शावका भूयोऽपि समागत्य निर्भयतया विस्वस्तभावेन भोजनं कृतवन्तः।
ततश्च सर्वैः भुक्तावशिष्टो महिषः समाकृष्य सघनलतावितानकुञ्जे यत्नेन सङ्गोपितः। तथापि मृतमहिषमवेक्ष्य केचन गृद्ध्रा आकाशात्समवतीर्य परिसरेऽतिष्ठन्। इदानीमपि ते प्रतिक्षारता आसन्। परन्तु पार्श्वमागच्छतस्तान् सिही वारं-वारं प्राद्रावयत्। ततश्च ते समुचितावसरं निभालयमानास्तूष्णीमवस्थिताः। दुर्मुखो नाम लकुटव्याघ्रोऽपि तावदेव समाययौ सपरिवारः।
गृद्ध्रान् तत्रोपविष्टान् दृष्ट्वैव लकुटव्याघ्रा यथार्थ स्थितिं ज्ञातवन्तः। तेऽपि भक्ष्यसम्भावनया महतोत्साहेन सिंहानवधीरयन्तोऽभ्यधावन्। तानापतितान् दृष्ट्वा सिंह् यो द्वित्रा पुनरपि लकुटव्याघ्रान् द्रावयितुं झम्पितवत्यः। परन्तु विकरालदशनपङ्किं तेषां क्रोधाविष्टमुखमुद्राञ्चावलोक्य स्वयमेव संस्तब्धा अभवन्।
ततश्च सर्वेऽपि लकुटव्याघ्राः किलकिलारावं जनयन्तो मृतमहिषावशेषं निष्कुटाद्बहिरानीतवन्तः। गृद्ध्राश्चापि सम्प्रति समागताः। समवाप्तगन्धाः कतिचन शृगालाः काकाश्चापि पुञ्जीभूताः। ततश्च भक्षणं समारब्धम्। तं विशालसम्मर्दमवेक्ष्य सिंहसमुदयस्ततस्थानात् निभृतनिभृतमन्यत्र प्रस्थितः।
कान्तारे तस्मिन् एकैव समस्या परिलक्ष्यते स्म। स खल्वासीद् भोजनस्य समस्या। शाकाहारिणः पशवः सुखिन आसन्। यतो हि तेषां कृतेऽयत्नोपनतं हरिततृणक्षेत्रमासीद् भूयस्त्वेन। भक्षणयोग्यानि तरुपल्लवानि लताक्षुपनिष्कुटकदम्बकानि चाप्यासन्। परन्तु तेषामपि सुखं निरन्तरमेव बाधितमासीत् वृकलकुटव्याघ्रतरक्षुचित्रकव्याघ्रसिंहप्रभृतिभिः मांसादिभिः श्वापदैः। वराकाः हरिणगवयशशकशल्लकमेषबर्करजीर्णशफजवरादयस्तु स्वयमेव भक्ष्यभूतत्वादन्येषां, न कुत्रापि क्षणमात्रमपि सुखेन स्थातुं प्रभवन्ति स्म। क्षणे-क्षणे, पदे-पदे तेषां प्राणभयमासीत्। शक्तिमन्तः सन्तोऽपि सिंहादयस्तान् निभृतनिभृतमाक्रम्य, आत्मानं गोपायित्वा प्रवञ्चनपूर्वकं घातयन्ति स्म। अन्यथा प्रत्यक्षं विद्राव्य कमपि वातवेगं सारङ्गं तं हन्तुं सिंहा व्याघ्राश्चित्रकास्रक्षवो वा जात्वशकन्।
उदरभरणाय जङ्गले सर्वमिदं न्याय्यमेवासीत्। न कोऽप्यन्यस्य विवशतां दैन्यं प्राणव्याथां वाननुभवति स्म। जीवन्तमेव शशं त्रोटीपुटेन विदार्य चिल्लः श्येनो व स्वशावकान् भोजयतिस्म। कच्छे निपतितमपि दीनदीनहरिणं व्याघ्रो भक्षयति स्म। खञ्जपदं धावितंशक्तमपि गवयं सिंहो हिनस्ति स्म। भगवत्कृपयैव कान्तारे कस्यापि जीवनं सुरक्षितमासीत्। एव हि कान्तारेतरसमाजस्याऽधर्म एव कान्तारे धर्म आसीत्। अन्यत्रत्योऽन्याय एवाऽत्र वने न्याय आसीत्।
कान्तारेऽखिले सर्वाधिकवेगवानासीत् युवा चित्रकः। धावने हरिणमप्यभिभवितुमेकलोऽसावेव समर्थ आसीत्। तथापि, कदाचिद् विलक्षणमेव घटतेस्म।
कस्मिंश्चिद् दिने कश्चिद्बुभुक्षुश्चित्रकः क्षुद्रस्याभिधः कमपि प्रौढं श्रृङ्गवन्तं हरिणमद्रावयत्। वस्तुतो मृत्कूटपृष्ठे तिरोहितं प्रवञ्चकचित्रकमपश्यन् हरिणो विश्वस्तभावेन शष्पाङ्कुरचयं भक्षयन् तत्समीपमाजगाम। तावदेव चित्रकस्समुत्प्लुत्य तमाक्रान्तवान्। परन्तु सकृद्भूमौ निपत्यापि हरिणो द्रुतगत्या समुत्थाय वायुवेगेनाधावत्। चित्रकोऽपि प्रसह्याक्रमणवेगमसहमानो भूमौ निपपात, वेल्लमाश्चासकृत् यथाकथञ्चिदुत्तस्थौ। परन्तु तावता कालेनोभयोर्मध्ये महदन्तरं जातम्।
सम्प्राप्तोत्साहश्चित्रको हरिणमभ्यधावत्। क्वचित्समरेखं, क्वचित्तिर्यक् क्वचिच्चापि वर्तुलं विद्रावयन् हरिणं, चित्रकश्शिथिलो जातः। हरिणोऽपि प्राणभयेन तुङ्गतरप्लुतैर्मृत्कूटानतिक्राम्यन् यथामत्यात्मानं वारयन् शष्पक्षेत्रे चिरं यावदभ्यधावत्। परन्तु तावदेव द्रुततरवेगश्चित्रक उदग्रप्लुतेनैकेन तं जग्राह।
सम्प्रत्युभयोर्मध्ये प्रारब्धं दारुणंद्वद्वन्दम्। परिपुष्टाङ्गं सबलं मृगं यथाकथञ्चिद् भूमौ निपतितमपि महसा निहन्तुं चित्रको नाऽक्षमत। वस्तुतस्तस्य मुखमासील्लघुतरमेव व्याघ्रसिंहापेक्षया। मुखोभयपार्श्वयोर्व्यादानमपि न्यूनमेवासीत्। येन स्थूलस्थूला हरिकण्ठनलिका ग्रहीतुमशक्यैवाऽसीत्। चित्रको यथाकञ्चित् श्वासप्रणालिकामेव मृगस्य द्रंष्टाभ्यां छेत्तुमियेष। हरिणोऽपि चात्मानं मोचयित्वा धावितु समुद्यत आसीत्।
उभयोस्तुल्यबलत्वात् द्वन्द्वमिदं विचित्रमेव सञ्जातम्। चित्रकमुखे केवलं हरिणस्य गलचर्मैवाऽसीत्। ततश्चासौ नतशीर्षस्सन् मुक्तिसंघर्षं कुर्वन्नासीत्। शीर्षेतरशरीरस्य स्वतन्त्रत्वादसौ चित्रकं पुरः पश्चाद्वा लोठितुं वामे दक्षिणे च विवर्तयितुं पूर्णक्षम आसीत्। द्रंष्टाबली आसीच्चित्रकः। श्रृङ्गबली चासीत् शम्बरः।
अथात्ममुक्तिसंघर्षे तस्मिन् हरिणस्यैकं श्रृङ्गशिखरं चित्रकस्योदरं दारयदन्तः प्रविष्टम्। ततश्च विदीर्णोदरश्चित्रकोऽसह्यपीडावशात् विमुच्य हरिणं क्षतश्लथो जातः। स्वोदरक्षतमसौ जिह्वया लिहन् अतिकष्टेनोत्तस्थौ, मन्दमन्दञ्च सम्प्रस्थितः। सम्प्राप्त जीवने द्वन्द्वविजयी हरिणोऽपि स्वयूथं प्रति प्रस्थितः। परमेश्वरकृपया संरक्षितास्तस्य प्राणाः।
एवम्भूतेऽपि मानवसमाजात् आरण्यकसमाजः श्रेष्ठतरः प्रतीयते स्म। कस्मात्पुनः? मानवसमाजे मानवकल्पितो धर्मः परिपाल्यते स्म। ततश्चास्योल्लङ्घनमपि प्रतिपदं सम्भवतिस्म। परन्तु कान्तारे प्राकृतिको धर्मः प्रभवति स्म यस्योल्लङ्घनं न कथमपि सम्भवति स्म। मर्त्यसमाजे मानवः स्वार्थसिद्धयर्थमेव कमप्यकारणं निहन्ति। परन्त्वत्र कान्तारे कारणं हननं नासीत्। निरर्थकं हननं नासीत्। ये सिंहव्याघ्रादयः स्वोदरक्षुभं शमयितुं हरिणादीन् घातयन्ति स्म त एव प्रशान्ते सति जठरानले तानन्तिकेऽपि चरतोऽवलोक्य मर्षयन्ति स्म।
कदाचित् कश्चिन्मृगपोतकः सघनघासमण्डपे विश्रामयन्नासीत्। नवप्रसूता तज्जननी पार्श्व एव चरन्त्यासीत्। किञ्चिद्दूरेसिंहानामपि परिवारः विश्राम्यति स्म। वस्तुतस्सर्वेऽपि सम्यग्भुक्त्वा शीतर्तौ सूर्यातपसुखमनुभवन्तः निद्रामग्ना आसन्।
अकस्मादेव मातृदुग्धं पातुकामः पोतकः स्वस्थानाद्दुच्चचाल। तं चाकस्मादेव दष्टवती सिंही। धावन्तु सिंही शावकसमीपमागत्यतं दंष्ट्राभ्यां जग्राह। वराकी मृगी प्राणभयेन दूरङ्गता। दूरस्थिताऽसौ करुणनेत्राभ्यां व्यापाद्यमानं स्वशावकं पश्यन्ती स्थिताऽभूत्। अर्धचर्वितं घासकवलं तन्मुखादधो न्यपतत्।
अहो चित्रम्! अकस्मादे सिंहि मृगपोतकं मुक्तवती। वस्तुतस्सा मृगपोतकं स्वशावकमिव कृपयैव गृहीतवती। तस्मादसौ सर्वथाऽक्षताङ्ग एवासीत्। मुक्तः पोतको धावितुं प्रारभत। सिंही च तमन्वदावत्। तावदेव सिंहशावकाऽपि द्वित्राः समागताः। इदानीं सर्वेऽपि युगपदेव क्रीडितुं प्रवृत्ताः। सिहास्तावदिदं सर्वं दृष्ट्वाऽपि न किञ्चिदकुर्वन्। सञ्जिहाना एवातिष्ठन्।
एवं प्रतिभाति स्म यथा सिंहि मृगशावकेन सहात्मशावकाननुरञ्जयति स्म। सा कदाचित् मृगशिशुं गृहीतवती, कदाचिन्मुक्तवती। परन्तु न तं व्यापादितवती। ततश्चाकस्मादेव मृगपोतकः स्वमातरं ददर्श, तद्दिशायाञ्च प्राद्रवत्। क्रीडापरितुष्टा सिंही अपि स्थिरा जाता। न सा पोतकं भूयोनप्यद्रावयत्। पोतकोऽपि स्वजननीमवाप्य, तया सह क्वचिदगच्छत्। वस्तुतोऽसौ मृत्युभवनदेहलीं संस्पृश्योपावर्तत।
तरक्षोः कृते भक्ष्यप्राप्तिः सरला साध्या चासीत्। तरक्षवो वृक्षमारोढुं क्षमा आसन्। तस्मात्ते वृक्षशाखामारुह्यनिभृतनिभृतं कस्यचित्पशोरागमनं प्रतीक्षन्ते स्म। यावदेव कश्चिन्मृगो गवयो द्वादशशृङ्गो वा तरोरधःसमायान्ति स्म तावदेव तरक्षुर्वायुवेगात्प्रकूर्द्य तं निगृह्णाति स्म। पशुं निहत्य भूयोऽपि तरक्षुस्तमाकृष्य वृक्षोपरि नयतिस्म। अवसरमवाप्याऽसौ शनैः शनैस्तं पशुमभक्षयत्।
परन्तु षड्यन्त्रपारगस्य तरश्रोरपि जातु सङ्कटमुत्पद्यते स्म। एकदा सान्ध्यवेलायां भक्ष्यान्वेषणार्थं परिभ्रमन् दस्युनामा कोऽपि युवा तरक्षुः कामपि शललीमपस्यत्। भल्लकण्टाख्या सानपि भक्ष्यान्वेषणार्थमेव भूकोटराद्बहिर्निष्क्रान्ताऽऽसीत्। श्लिष्टशरीरकण्टकां परिभ्रमन्तीमवेक्ष्य तां घतयितुकामस्तरक्षुर्वेगात् तत्समीपमागच्छत्। प्राणसङ्कटमुत्प्रेक्ष्य शलल्यपि सङ्कुचिताऽतपत्रमिव स्वशरीरकण्टकचयमकस्मादेव समुद्घाट्य प्रत्याक्रमणार्थं समुद्यताऽभूत्। तस्या भैरवीं युद्धमुद्रामवेक्ष्य तरक्षुस्सहसैव किंकर्त्तव्यविमूढो जातः, पश्चाच्चासरत्।
शलली सङ्कटमपगतं मत्वा पुनरपि कण्टकावरणमुपसंहृत्य लघुटीकाद्यन्वेषणे प्रवृत्ताऽभूत्। तरक्षुरपि क्षुत्क्षामकण्ठो भक्ष्यमुपलब्धमवलोक्य पृष्ठभागासझम्पमागत्य तां निग्रहीतुं प्रायतत। परन्तु तावदेव प्रोद्गतविषाक्तकण्टका शलली फूत्कुर्वती तरक्षुमुखं निकृत्तवती। एवं कुर्वत्यास्तस्यास्तीक्ष्णकण्टकमेकं तरक्षुनयनमविध्यत्। छिन्नेत्रोऽसौ तरक्षुचीत्कुर्वन् सवेगं दुद्राव। एवं हि लघुविक्रमापि शलली दैवप्रदत्तकण्टकितकञ्चुकेनाऽत्मानं रक्षितवती।
कान्तारे यथा केचित् श्वापदाः पशवस्सरीसृपा वा शत्रुवधोपायं प्रकृत्यैव जानन्ति तथैवाऽऽत्मरक्षयोपायमपि। नवप्रसूता सिंहि व्याघ्री भल्लूकी वृकी वा सुष्ठु जानन्ति यत् सिंहो व्याघ्रो भल्लूको वृको वा शावकान् दृष्टिमात्रपतितानेव निहनिष्यति। यतो हि ते नराः शावकान् स्वरतिव्यापारे प्रत्यवायभूतान् मन्वते। स्त्रीणां पुनः पशुयोनौ समुत्पन्नानामप्यासां मातृत्वं महीयते, प्रभवति च। वात्सल्यवशीकृतहृदया इमा जन्मदात्र्यः शावकपोषणे एव दत्तचित्ता न कथमपि रिरंसुसहचरमभिनन्दन्ति। प्रायेण तं शावकसमीपमागच्छन्तं दृष्ट्वैव प्राणपणेन तमाक्रान्तुं निरोद्धुं विद्रावयितुञ्च प्रयतन्ते। इदं तासां निसर्गागतं सन्ततिरक्षाकरं ज्ञानम्।
कामुका मैथुनकातराः सिंहादयोऽपि जानन्ति यत् शावकेष्वल्पवयस्सु सत्सु सत्सु तज्जननी न कथमपि मैथुनमङ्गीकरिष्यति। अतएव शावकहननमेव तस्य नित्योद्योगो जायते। वराकी जनन्यपि नक्तन्दिवं शावकरक्षण एव व्यापृता दृश्यते। निरन्तरमेव सा शावकान् स्थानात्स्थानान्तरं प्राप्यन्ति परिलक्ष्यते। तादृशमेव गिरिकन्दरां लतावृक्षादिनिष्कुटं मृतकूटरन्ध्रं वा सा चिनुते यददृष्टं स्यान्नरेण सहचरेण।