सेयं साधारणी कथा यत्-यस्य सविधे पूर्णं द्रव्यं भवति, स एव जन: सम्प्रति सांसारिकान्व्यवहारान् स्वच्छन्दतया यथावन्निर्वाहयितुं पारयति। स्वल्पेन 'भाण्ड’ द्रव्येणाऽऽरभ्यमाणो व्यवसायो न किल विवेकिनां दृष्टौ फलेग्रहिर्भवतीति जानीयु: सर्वेऽपि। यस्य खलु कोष: पूर्णो भवति, स एव सर्वसमये सर्वविधं निजकार्यं साधयितुं प्रभवति। अत एव द्रष्टव्यमिदानीं यत्संस्कृतभाषाया: सविधे कोषबलं कियत्परिमाणकमिति। नयने प्रसारयन्तो वयं पश्यामो यदस्या: सविधे विपुलं खलु शब्दकोषरूपं धनम्। अनेके खल्वस्या: कोषा:-अजयपालकृतो नानार्थसङ्ग्रह:। गदसिंहकृता नानार्थध्वनिमञ्जरी। चक्रपाणिदत्तकृत शब्दचन्द्रिका। जटाधराचार्यकृत: पर्यायनानार्थकोष:। दण्डाधिनाथकृता नानार्थरत्नमाला, एवमादयो बहव: सन्ति। एते हि साम्प्रतमुपलभ्यन्ते तादृशा: कोषा: प्रदर्शिता:। ये तु साम्प्रतं नोपलभ्यन्ते, केवल ग्रन्थोद्धृतैर्नामभिर्यान् वयं जानीमस्ते भोगीन्द्रकात्यायनप्रभृतयस्तु पृथगेव सन्ति।
एतद्व्यतिरिक्तम्-अस्मद्भाषायां सर्वेषामेव शब्दानामुत्पत्तिर्मूलभूतैर्धातुभिरेवोपदिष्टा। एकैकस्माच्च धातोर्बहूनां शब्दानामुत्पत्तिर्भवति। यथा- 'गम्’ धातो: गौ:, गन्ता, गति:, गमनम्, गत:, गामी, गन्तु:, गमक:, गच्छन्, गमिष्यन्, जग्मिवान्, गन्तुम् गत्वा, गामं गामम् इत्यादयोऽनेके शब्दा: सम्भवन्ति। अनेकेषां शब्दानां जन्मदातारो धातवोऽप्येवंविधा अनन्ता: सन्ति संस्कृतभाषायाम्। व्याकरणेषु धातुपाठे ये परिगणिता धातवस्तेष्वेव न खलु समाप्तिर्धातुपाठस्य। सर्वोऽप्ययं धातुपाठक्रमो दिग्दर्शनमात्रम्। अनन्ता: किल धातव:। न खलु तान् वैयाकरणपितामहोऽपि साकल्येन परिगणयितुं प्रभु:। अत एव हि प्राचीनतम आलङ्कारिक: श्रीमान् वामन: स्पष्टतमं वक्ति- ''वर्द्धते धातुगण इति हि शब्दविद आचक्षते।’’ किं बहुना स्वयं व्याकरणेऽपि- भ्वादिस्त्वाकृतिगण:। तेन चुलुम्पतीत्यादिसङ्ग्रह: 'दिवादिस्तु भ्वादिवदाकृतिगण:। तेन क्षीयते, मृग्यतीत्यादिसिद्धि:’, इति स्फुटमुदीर्यते।
अथाऽप्येकैकस्य धातोरुपसर्गसम्बन्धेन पुनरनेकेऽर्था: सम्भवन्ति। को वा न जानाति यद् 'हृ’ धातोर्हरणमर्थ:। परं तेनैव धातुना सह यदि 'उप’ उपसर्गो योज्यते तर्हि 'उपहारस्य’ उपायनमर्थो भवति येन भवन्त: सन्तुष्येयु:। यदि 'प्र:’ संयोज्यते तर्हि प्रहारस्य ताडनमर्थो भवति, यस्य किल चर्चापि सभ्यसमाजेऽनुचिता। यदि च 'आ’कार: संयोज्यते तर्हि आहारस्य भोजनमर्थो भवति यदर्थं लोकालये सर्वोऽपि समन्ताद् व्यस्त:। यदि तु 'उत्’ योज्यते तर्हि उद्धारो भवति, यस्य कृते संस्कृतभाषामादाय वयं सर्वेऽपि शिक्षिता: साम्प्रतं प्रयत्नशीला। यदि च परिर्योज्यते तर्हि परिहारो भवति, यो हि साम्प्रतमापत्तीनां कर्त्तव्य: स्यात्। यदि तु विर्योज्यते तर्हि विहार: सिध्यति, यं किल सर्वेऽपि समये समये वाञ्छन्ति। यदि तु 'स’ संयोज्यते तर्हि सर्वसंहारो भवति। कथयत! अस्ति कस्याञ्चिदन्यस्यां भाषायामेवंविधा विलक्षणता? अहं सदर्पमेव वक्तुं प्रगल्भेयज्जगत: कस्यामपि भाषायामयं चमत्कारो नास्ति, यदेकैक: शब्द: कल्पवृक्ष इव अनन्तार्थप्रसूर्भवेत्।
एतदुत्तरं गुणानाम् आकारप्रकारादीनां च दृष्ट्याऽपि शब्दानां निष्पत्ति: सिध्यति भाषायामस्याम्। यथा हि 'बादाम’ फलस्य आकारं दृष्ट्वा नेत्रोपमफ लमिति निर्देश:। 'अर्डूसा’ इत्यस्य, व्यात्तस्य सिंहमुखस्य साम्यात् 'सिंहास्य:’ इति। पत्रच्छेदे कृते बाणपृष्ठगतपक्षसाम्यात् 'शरपुंख:’ ('सरफोंका’, झोझरू इति च)।
एवमनेकै: प्रकारै: संस्कृतभाषायामपरिमिता: शब्दा: सिध्यन्ति। न खलु तानद्यावधि कोऽपि कोषकार: साकल्येन सन्दर्शयितुं प्रबभूव। यो हि व्याकरणशास्त्रस्य सर्वप्रामाणिक आचार्य:, सर्वमपि ज्ञातव्यं ज्ञातवान्, सोऽपि भाष्यकार श्रीमान् पतञ्जलिमहर्षि: शब्दानां परिगणनविषये पश्यत! किं वक्ति ? 'अनभ्युपाय एष शब्दानां प्रतिपत्तौ प्रतिपदपाठ:। एवं हि श्रूयते बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच, नान्तं जगाम। बृहस्पतिश्च प्रवक्ता, इन्द्रश्चाध्येता दिव्यं वर्षसहस्रमध्ययनकालो नान्तं जगामेति।’
एतावान् किल गभीरोऽस्माकं देवभाषाया: शब्दसागरो यदस्मिन् समये ये किल कृतकार्या: परिनिष्ठिता: परिगण्यन्ते, तेऽपि वराका नेममंशतोऽपि परिमातुं प्रभवन्ति। एकं सामान्यं दृष्टान्तमुपस्थापयामि। आसीदेकालब्धप्रतिष्ठानां पण्डितप्रकाण्डानां सुहृद्गोष्ठी। आसंस्तत्र व्याकरणाचार्यन्यायशास्त्रिविरुदालङ्कृता: कतिपये पण्डिता:। प्रसङ्गक्रमेण 'रत्नकार’ - वाचिनि 'वैकटिक’ शब्दे सम्मुखमागते ते सर्वेऽपि प्रोचु: - नायं शब्दोऽस्माभिरद्यावधि श्रुत:। यदि स्यात्तथापि नायं प्रसिद्ध:। तेषां सेवायां सविनयमुक्तमपि-'प्रभो! रत्नकारवाचकोऽयं शब्द: प्रसिद्ध:, प्रयुक्तश्च मार्मिकैर्ग्रन्थकारै:। कोषेषु हेमचन्द्रोऽवलोक्यताम्। अथवा श्रीमद्भिरेव मणिकारवाचक: कश्चन पारिभाषिक: शब्दो निर्दिश्यतां यो हि योगबलेन नाऽऽगतो भवेत्, अपि तु तस्मिन्नर्थे रूढो भवेत्।’ परं नेदं सर्वमश्रावि प्रौढमहाभागै:। विवादश्चाऽयमेतावतीं भूमिमागतो यद् येषां गृहे सा मण्डली समवेताऽभूत्तेऽपि भृशमुत्तेजिता भूत्वा प्रोचु:- 'एतावन्त: प्रौढपण्डिता: कथयन्ति यदयं शब्द: प्रसिद्धो नास्ति, तत्किमसत्यम्? त्वमेव केवलं संस्कृतरहस्यवेदी?’
सहृदया:! संस्कृतवाङ्मयस्य दृश्यतामक्षोभ्यत्वम्-यदत्र श्रुतशालिन: परमं प्रौढा अपि तलस्पर्शिनो नैकान्तं भवितुमर्हन्ति। बहुश: प्रयुक्तोऽयं वैकटिकशब्दो रत्नपरिचयप्रसङ्गे। यथा हि परमप्राचीन: प्रसिद्धकविर्भल्लटो 'भल्लटशतके’-
'स्वल्पाशय: स्वकुलशिल्पविकल्पमेव
य: कल्पयन् स्खलति काचवणिक्पिशाच:
ग्रस्त: स कौस्तुभमणीन्द्रसपत्नरत्न-
निर्यत्नगुम्फ पटुवैकटिकेर्ष्ययाऽन्त:।।’
य: कल्पयन् स्खलति काचवणिक्पिशाच:
ग्रस्त: स कौस्तुभमणीन्द्रसपत्नरत्न-
निर्यत्नगुम्फ पटुवैकटिकेर्ष्ययाऽन्त:।।’
नायं भल्लट: साधारणकविरेव। एष हि काव्यप्रकाशादिषु पदे पदे समुदाहृत:। रत्नपरिचये तु सुतरां प्रसिद्धोऽभूत्पण्डितमण्डले। अत एव हि पण्डितेन्द्र: क्षेमेन्द्र: समुदाहृतवान् 'कविकण्ठाभरणे’ - 'यथा रत्नपरीक्षापरिचयो भल्लटस्य’-
''द्रविणमापदि भूषणमुत्सवे शरणमात्मभये निशि दीपक:।
बहुविधोर्व्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणि:।।’’
बहुविधोर्व्युपकारभरक्षमो भवति कोऽपि भवानिव सन्मणि:।।’’
नायं वैकटिकशब्दो मणिकारवाचक एव। रत्नवणिग् ('जौहरी’)- वाचकोऽपि सोऽयं प्रयुज्यते सुकविभि:। अहह! कियन्मधुरमुवाच शम्भुकवि: 'अन्योक्तिमुक्तालतायाम्’-
'अक्षामं मणिदाम संवृणु, ननु त्वं दर्शयेथा मुहु-
र्मा मां मुग्धमनोहरा: शशिकराऽऽकाराश्च हारस्रज:।
एषा वैकटिक! स्फुटैव पुरत: सा पामराणां पुरी
यस्यां काचललन्तिकाऽङ्कितकुचोत्सङ्गा: कुरङ्गीदृश:।।’
र्मा मां मुग्धमनोहरा: शशिकराऽऽकाराश्च हारस्रज:।
एषा वैकटिक! स्फुटैव पुरत: सा पामराणां पुरी
यस्यां काचललन्तिकाऽङ्कितकुचोत्सङ्गा: कुरङ्गीदृश:।।’
प्रसक्तानुप्रसक्तेन अन्यतो गतोऽस्मि। प्रकृतमनुसरामि। एवं तावदस्माकं गीर्वाणभाषाया: कोषबलं माहम्मदानां कारूंदेशीयधनाऽऽगारतोऽप्यतिमहत् संसिध्यति। शब्दानां प्राचुर्येण वयमेकैकं भावमनेकै: प्रकारै: प्रकाशयितुं प्रभवाम:। निम्रे किञ्चिदुदाहरणं दर्शयामि, यत् एकामेव वार्तां वयं गीर्वाणभाषया कतिभि: प्रकारै: प्रवक्तुं पारयाम इति।
''आकाश में जब बादल घिर रहे थे मैं उस समय सहृदयसम्मेलन के लिए घर से रवाना हुआ।’’
यदा ह्यासन् गगने घना: संहतास्तदैवाऽहं सहृदयसम्मेलनार्थं गृहात् प्रस्थितोऽभूवम्। अधिगगनमण्डलं यदा ह्यासन् मेघा: पुञ्जीभूतास्ताहं सहृदयसम्मेलनस्य कृते भवनात् प्रास्थिषि। व्योमनि यस्मिन् काले जलदा: समभवन् समवेतास्तदात्व एव सहृदयसम्मेलननिमित्तं सदनाद्यात्रामकरवम्। वियति यदा सममिलन्पयोदास्तदाऽहं सहृदयसम्मेलनाय वेश्मतो व्यदधां यात्राम्। वियन्मध्यमभिव्याप्नुवत्सु पयोधरेषु निकेतनादहं सहृदयसम्मेलनप्रयोजनाय प्रस्थानमकार्षम्। आकाशे मुदिरेषूपगच्छत्सु सहृदयसम्मेलनहेतवे गृहादहं प्रास्थिषि। यदा हि दिवि समवेता: समभवन् पयोमुचस्तदाहं सहृदयसम्मेलनकारणेन मन्दिरादहं व्यधिषि यात्राम्। विहायसि यदा ह्यभूवन् जीमूता: संघटितास्तदाऽहं सहृदयसम्मेलनस्य कृते गृहतोऽभूवं प्रस्थित:। अम्बरे यदा ह्यासन् वारिधरा: परिवृतास्तदा खल्वहं सहृदयसम्मेलनाय समभूवं प्रस्थित ओकस:। अन्तरिक्षमुपयाता: खलु यदा वारिदास्तदा सहृदयसम्मेलनस्योद्देश्येन प्रस्थितोऽभूवमहमागारात्। तारापथमालीढवत्सु जलधरेषु सहृदयसम्मेलनाय सदनत: प्रचलितोऽभूवम्। नभसि संघटितेषु जीमूतेषु सहृदयसम्मेलनार्थमहमोकस: प्रास्थिषि। विष्णुपदमाचुम्बत्सु नूनमम्बुवाहेषु सहृदयसम्मेलनमुद्दिश्य निलयान्नि:सृतोऽभवम्। सुरवर्त्मनि कृतनिलयेषु बलाहकेषु सहृदयसम्मेलनमुपलक्ष्य निशान्ताऽभ्यन्तरादभ्युपगतोऽभूवम्। अभ्रमभ्युपगच्छत्सु तडिद्वत्सु सहृदयसम्मेलनस्यार्थे निजोदवसितात्प्रोषित आसम्। नभ:प्रदेशमुपगतेषु वारिवाहेषु सहृदयसम्मेलनस्य हेतोर्निलयात् निरसरम्।
बहुवचनानुरोधात् मेघसमूहश्चेद् गृह्यते तर्हि-
अम्बरमभ्युपगतायां कादम्बिन्यामहमागारादभूवं निष्क्रान्त:। वियदाचुम्बिन्यां कादम्बिन्यामहमोकस: समभूवं निर्गत: इत्यादिर्भूयान्विस्तरो भवेत्। यदि च मेघसमूह-घनपटल-वारिदनिवह-जलदनिकाय-जलधरनिकर-इत्यादि चेत्प्रयुज्यते तर्ह्यपि भवेद् बहुतरो विस्तर:।
विवेकिमहानुभावा:! कियद्वा परिगणयामि, 'मेघस्य’ 'व्याप्तिक्रियाया:’ 'गृहस्य’ गमनार्थकक्रियायाश्च पर्यायशब्दानादाय सम्भवन्ति वाक्यस्याऽस्य एवंप्रकाराणि बहूनि रूपाणि।
'अहं गृहात्प्रस्थितोऽभवम्’ इत्यस्य कर्मवाच्यतायां 'गृहत: प्रास्थीयत मया’ 'गृहादक्रियत मया प्रस्थानम्’, 'सदनादकारि मया यात्रा’, 'भवनत: प्रास्थीयत मयका’ 'सद्मत: प्रयाणमक्रियत मया’, 'ओकसो व्यधायि मया यात्रा’, 'भवनत: प्रचलितेनाऽभूयत मया’, 'निकेतनात्प्रस्थितेनाऽभावि मया’, 'निलयात्प्रयाणमकारि’, इत्यादीनि तावन्मात्राण्येव पुन: सम्भवेयु: स्वरूपाणि।
पूर्वोक्तान्यमूनि कारणानि सम्यगालोच्य विचार्यतां विवेकशालिभि: श्रीमद्भिरेव यत्संस्कृतभाषायामस्यां कियानवकाश इति। या हि भाषा परिमितै: शब्दै:, परिमितेन रूपेण तांस्तान् भावान् प्रकाशयितुं विवशा (बाध्या) भवति, सा केन वा रूपेण निजमनोभावान् (प्रसङ्गानुसारं नानारूपैरुपस्थितान्) यथावत्प्रकाशयितुं प्रभवेत्प्रकामं प्रभु:? भाषा हि मनुष्यस्य मनोभावान्प्रकाशयितुमुत्पन्नाऽभवदिति भाषावैज्ञानिका: प्रवदन्ति। ततश्च यस्या: खलु भाषाया: सविधे मनुष्यस्याऽभीष्टान् भावान् प्रकाशयितुं साधनान्येव न भवेयु:, सा कथं वाऽऽत्मन उद्देश्यं सफलयेत्?
कल्प्यताम् अस्माभिर्ज्येष्ठमासस्य माध्याह्निक: सूर्यो वर्णनीय:, तस्मिन्वर्णने सूर्यस्य तादृङ्नाम प्रयोक्तुमस्माभिरभिलष्यते, येन सूर्यतापस्य प्रचण्डता भयङ्करता च प्रतीता भवेत्, तदाऽस्माकं चित्तं तादृशभाषाऽवबोधकं सूर्यनाम अन्वेष्टुमुद्व्याकुलं भविष्यति। अन्विष्यन्तो वयं संस्कृते-'चण्डांशु:, प्रचण्डकार:, तिग्मरश्मि: इत्यादीनि नामान्युपलभामहे। यदा चाऽस्माकं सामान्येन प्रात: कालिको भानुर्वर्णनीयो भवति तदा वयं- 'रात्रिमपनीय दिनमनेन प्रवर्तितमिति हृदि कृत्वा तादृशभावप्रकाशकं सूर्यनामाऽन्वेषयिष्याम:। उपलभ्यते चा तादृक् संस्कृतभाषायाम् अहस्कर:, दिवाकर:, दिनमणि:, दिनकर:, दिनपति: इत्यादि। यदा च देवानां मध्ये श्रेष्ठत्वमेव सूर्यस्य साधयितुमिष्यतेऽस्माभि: तदा सूर्यस्य पूज्यताख्यापक महिमशालि नामधेयं गवेषयिष्याम:। अस्ति तादृगपि संस्कृते सूर्यनाम-आदित्य: (देवमातुरदितेरपत्यमिति), ग्रहपति:, त्रयौतनु:, लोकबन्धु:, लोकबान्धव:, त्विषांपति:, द्वादशात्मा इत्यादि।
यदि च पापकार्यं कुर्वाणाय कस्मैचित्पामराय शिक्षां प्रदातुं भगवत: सूर्यस्य साक्षित्वं प्रतिपाद्यते चेत्तर्हि तादृङ् नाम मार्गयिष्यामो येन सूर्यस्य सर्वव्यापकत्वं प्रतीतं भवेत्। अस्ति तादृगपि संस्कृतवाण्याम्-कर्मसाक्षी, जगच्चक्षु:, लोकबन्धु:, इत्यादि। यदि च सर्वेषां रङ्गाणां (वर्णानाम्) श्रीमान् भानुरेवाऽऽश्रय:, एतस्य किरणेषु सर्वप्रकारका रङ्गा: सन्ति (इदं किल विज्ञानं पाश्चात्यै: परिमितादेव कालादवबुद्धम्। अस्माकं तु चिरकालतस्तदिदमवगतमभूत्)। अस्तु, यद्येष विषयोऽस्माकं प्रतिपाद्यो भवेत्तर्हि एतदभिव्यञ्जकमपि संस्कृतभारत्यां सूर्यस्य नामधेयमुपलभामहे। यथा-चित्रभानु: इति।
इदानीं विचार्यतां, यस्या: खलु भाषाया: सविधे सूर्यवाचक: केवलं 'सन्’ शब्द एव नीवीधनं भवेत्सा भाषा कथमस्माकं पूर्वोक्तान् भाषान् यथावत्प्रकाशयिष्यतिï? इदानीं कथयत! पूर्वोक्तानां कामप्रसूनां शब्दानां पुरस्तात् स: 'सन’ शब्द: शणपिण्ड इव नि:सार कुतो वा न प्रतीतो भवेत्? यस्य खलु जनस्य सविधे कश्चिदेक एव जीर्ण: पर: शयनसमये भोजने, स्नाने, बर्हिभ्रमणे, सभासंस्थादिषु चापि कलेवरलग्नो भवेत्स किल भवादृशानां महिर्भ्रवस्त्रधारिणां सविधे कुतो वा न दरिद्र: परिगणयिष्यते? एतादृशो जनो दिव्यपटधारिणां श्रीमतां सन्निधौ किं स्थानं प्राप्नुयात्? अस्तु, एवं प्रभूतेन शब्दकोषेण सम्पन्ना सेयमस्माकममरभारती अन्यासां भाषाणां सविधे महार्हं सिंहासनमध्यासितुं नास्ति किं योग्या?
उपरि तु सोऽयं शब्दानां विषयो निवेदित: श्रीमद्भ्य:। परं कीदृशी वार्ता कैरक्षरैर्वक्तव्या, इति सूक्ष्मातिसूक्ष्मरूपेणाऽनुशासनमपि किमन्यस्यां भाषायामुपलभ्यते? यदि कश्चिज्जिघांसु: क्रोधाऽऽवेगकम्पितसकलावयव: खङ्गमुद्यम्य, क्रोधोद्रेकवशात्तिरोहितहिताऽ-हितज्ञान: कञ्चित्पुरुषं हन्तुं विचेष्टते, तर्हि कीदृशैरक्षरै: स आततायी बोधनीयो येन तस्य क्रोध: किञ्चिन्नयूनो भवेत्, उचिताऽनुचितज्ञानं पुनरुदयेत्तस्य, प्राणिवधपातकाच्च निर्मुक्तो भवेत्स:। अस्मिन्नवसरे संस्कृतभाषा कथयति ''एवंविधैरक्षरैर्गुम्फि तानि वाक्यानि प्रयोज्यानि तस्मिन् समये, यैरवश्यमेव तस्य कोपो न्यूनो भवेत्।’’
यदि च कश्चिद्धर्मपरिपन्थी दुर्दान्तो राजा निष्कारणमेव कञ्चिद्राजानमाक्रान्तवान्, तर्हि आक्रान्तस्य तस्य राज्ञ: कीदृशैरक्षरै: पराक्रमशक्तिर्जागरणीया, येन धार्मिकभावोत्तेजितमना: स द्विगुणीभूतशक्ति: शौर्योद्दीप्त: सन् परिपन्थिनमेनं पराभवेत्। यदि च कश्चिदाख्यानलेखक: कयोश्चिद्यूनो: परस्परप्रेमसम्बन्धिनीं कथामाख्याति, तर्हि कीदृशैरक्षरैस्तत्र वाक्यरचना कार्या यामाकर्णयतां, वाचयतां वा चेतस्सु सुमधुरमनोहरा काचिदपूर्वैव प्रेमरसधारा प्रवहेत्। तदाऽस्माकं संस्कृतभाषा नियमं प्रदर्शयति- 'मधुरे विषये प्रतिपादनीये टडढवर्णा: शब्देषु न प्रयोज्या:। वर्गपञ्चमाक्षरयुक्ता अन्ये वर्णा: प्रयोक्तव्या:, इति’।
यदि तु कश्चिदुत्तेजनाकारी ओजोविषयो वर्णनीयो भवेत्तर्हि वर्णानां प्रथमतृतीयवर्णा द्वितीयचतुर्थाभ्यां संयुक्ता:, टडढवर्णा:, रेफ संयुक्ताश्च केचिद्वर्णा: दीर्घदीर्घा: समासाश्च प्रयोज्या:। यथा हि गुरुधनुर्भङ्गाच्चण्डमूर्ते: परशुरामस्य श्रीरामचन्द्रं प्रत्युक्ति:-
''नवोच्छलितयौवनस्फुरदखर्वगर्वज्वरे
मदीयगुरुकार्मुकं गलितसाध्वसं वृश्चति।
अयं पततु निर्दयं दलितदृप्तभूभृद्गल-
स्खलद्रुधिरधस्मरो मम परश्वधो भैरव:।।’’
मदीयगुरुकार्मुकं गलितसाध्वसं वृश्चति।
अयं पततु निर्दयं दलितदृप्तभूभृद्गल-
स्खलद्रुधिरधस्मरो मम परश्वधो भैरव:।।’’
अत्र हि क्रोधस्थायिभावको रौद्रो रस: खेलतीति तादृशा एव वर्णा: संघटिता: कविना, यां संघटनामाकर्णयतो जनस्य हृदि ओजोगुणजागरणसूचिका मनस उद्दीप्ति: सुस्फुटमाविर्भवति।
महाकवि: कालिदास: संस्कृतसाहित्ये कियत्सुप्रथितयशा:? यस्य खलु मधुररस-नि:स्यन्दिनीमनुपमां काव्यरसधारामास्वाद्य समग्रमपि भूमण्डलं प्रमुदितं चमत्कृतं चाऽस्ति। तस्यापि महाकवे रचनायां प्रदर्शयन्ति संस्कृतसाहित्यमार्मिका भाषाविषयकं दोषं यदयं महाकवि: कुत्रचित्कुत्रचित् समयानुगुणं वक्तुं न पारयतीति। एष हृदयेन सहाऽनुबद्धां मधुररसाऽनुगुणां रचनां सर्वस्मिन्नपि समये प्रयुङ्क्ते। यदा हि 'शाकुन्तले’ मातलिरदृश्यरूप: सन् दुष्यन्तप्रियसखं विदूषकं मेघाच्छन्नप्रासादशिखरे आक्रान्तवान्, तदा आमोडितकन्धर: स ब्राह्मण: कातरस्वरेण बहुविधमब्रह्मण्यमाक्रन्दितवान्। तमेतमार्तस्वरं श्रुत्वा महाबलो दुष्यन्त: सुभृशं चुकोप-'हन्त हन्त ममाऽपि गृहा: सत्त्वैरभिभूयन्ते। मत्समक्षमेव मत्प्रियसखो माधवो निष्करुणमेवमभिहन्यते!’ क्रोधेन जाज्वल्यमान: स धनुर्बाणमादाय प्रासादमध्यारुरोह। परं न ददर्श कञ्चिदपि सत्वम्। आपीडितकण्ठतटो ब्राह्मणस्तु द्विगुणतरं चीत्करोति स्म। इदानीं पञ्जरनिबद्ध: केसरीव सुभृशमभूत्कुपितो दुष्यन्त:। महामहति क्रोधेऽपि कान्यक्षराण्युवाच? दृश्यताम्- ''भो भोस्तिरस्करिणीगर्वित! किमिदानीं मदीयमस्त्रमपि न त्वां पश्यति? स्थिरो भव। मा च ते वयस्यसम्पर्काद्विश्वासो भूत्, पश्य तमिषुं सन्दधे-
'यो हनिष्यति वध्यं त्वां रक्ष्यं रक्षिष्यति द्विजम्।
हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यप:।।’
हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यप:।।’
अहह! धनुर्बाणमादाय मन्ये दुष्यन्तराजो नीतिशास्त्रस्योपदेशं ददाति! अहो क्रुद्धस्य मुखात् कियन्नाम शोभन्ते- 'हंसो हि क्षीरमादत्ते तन्मिश्रा वर्जयत्यप:’ इति प्रशान्तसुभगान्यक्षराणि।
सर्वविधसाहित्यपरिशीलका: पाठकमहाभागा:! कथयत! अस्ति कस्याञ्चिदन्यस्यां भाषायामेवंविध: सुसूक्ष्मो भाषाविचार:? यत्र हि साहित्यस्य मौलिमुकुटमधिरूढा भूमण्डलविख्याता महा-महाकवयोऽपि, स्वल्पतमायामपि सूक्ष्मतायामुल्लङ्घितायामपि विवेकिनामालोचनाचक्रान्नाऽव्याहतिं लभन्ते!! एतस्या भाषाया: संस्कारार्थमेव 'साहित्य’ - नामधेयं गभीरतमं शास्त्रं जागर्त्यस्यां देवभाषायाम्, यदन्तर्गतान्यनेकानि ग्रन्थरत्नानि चमत्कुर्वन्ति भाषान्तरपाठकानां मर्मपरिशीलकानि चेतांसि। अस्तु, साहित्यगता विशेषा: सुप्रसिद्धा: प्रायो विशेषज्ञमहानुभावानां, किन्तु भाषाया अस्या: स्तरे स्तरे, तादृशी सुव्यवस्था परिचालिता, यया हि एतस्या वाक्यनिर्माणे, वाक्यद्वारा अर्थपरिज्ञाने च नांऽशतोऽपि भ्रमो भवति।
भाषायां हि विकारो भ्रामकत्वादिना उद्भवति। अस्मिन् वाक्येऽस्य शब्दस्य कर्मत्वम्, उत कर्तृत्वमिति यत्र भ्रमो भवति, तत्र हि भाषा विकृता भवतीति वदन्ति भाषावैज्ञानिका:। किन्तु भूमण्डले सर्वत: सुविस्तीर्णाऽपि सेयं तादृश्या सुव्यवस्थया सम्पन्ना यत्साधारणत: शिक्षितस्याऽपि न कदाचित्वसंशयो भवति। अत्र हि व्याकरणस्य तादृशी सुव्यवस्था यस्यां भ्रमोदयस्य न स्वल्पोऽप्यवकाश:। द्वितीया विभक्ति: कस्मिन् कस्मिन् स्थले, तृतीया विभक्ति: कुत्र कुत्र भवति, प्रथमा च कस्मिन् स्थाने इति सुविशदं नामनिर्देशपुरस्सरमनुशास्ति संस्कृतव्याकरणम्। एकस्मिन् वाक्ये एकां क्रियां प्रति द्वयोर्द्वयो: शब्दयो: कुत्रचित्कुत्रचिद् वाक्ये कर्मत्वं भवति। परं तत्र कीदृशं मुख्यं कर्म, कीदृशं च अमुख्यमिति सर्वं परिगणय्य प्रदर्शयति व्याकरणम्-यत् अस्य-अस्य धातोर्योगे अस्मिन् अस्मिन् (मुख्ये अमुख्ये वा) कर्मणि कर्मत्वबोधिका द्वितीया विभक्तिर्भवतीति। पुनस्तस्य वाच्यान्तरकरणे, (कर्तृवाच्यत: कर्मवाच्यकरणे (Passive Voice) मुख्ये कर्मणि प्रत्यय:? आहोस्वित् अमुख्ये? इति प्रश्नसमाधानार्थं सर्वा अपि क्रिया: परिगणय्य प्रदर्शयति व्याकरणं यत् अस्य अस्य धातोर्योगे अस्मिन् अस्मिन् कर्मणि (गौणे वा मुख्ये वा) प्रत्ययो भवतीति।
इयम् इयं विभक्ति: एतम् एतमर्थं बोधयतीति कारकविभाग:, इयम् इयं च क्रिया इमम् इममर्थं बोधयतीति क्रियाविभाग: संस्कृतव्याकरणे तथा सुनिबद्धोऽस्ति यज्जगत: कस्यामपि भाषायां तादृश: सुव्यवस्थितो नाऽस्तीति घोषणापुरस्सरं शक्यते वक्तु म्।
पश्यत, सररमेशचन्द्रदत्तमहाशय: स्वनिर्मिते इतिहासे किं वक्ति- ''इदं संस्कृतभाषाया एव ज्ञानमासीत् यत्साहाय्येन अस्यां शताब्द्यां युरोपवासिभिर्विद्वद्भिर्भाषातत्त्वमाविष्कृतम्। 'बॉप’ एवं 'ग्रिम’ नामकाभ्यां तथा अन्यान्यैश्च विद्वद्भि:, आर्यभाषाशब्दानां तेनैव प्रकारेण व्युत्पत्ति: कृता, येन प्रकारेण श्रीमत्पाणिनिना संस्कृतभाषायां कृताऽऽसीत्। सा आर्याणामितिहासस्य तावति पूर्वकाले कृताऽभूद् यदा हि एथेन्सस्य रोमस्य च परिज्ञानं नाऽऽसीत्।’’
सर्वास्वपि भाषासु कर्तृवाचकशब्दानां कर्मवाचकशब्दानां च पूर्वाऽपरत्वं नियमितं भवति। यदि तत्र विपर्यास: क्रियेत, तर्हि अर्थान्तरमेव सम्भवेत्, न सोऽर्थ:। 'मनुष्यो दुर्दान्तं सिंहं हन्ति’ इत्यस्य वाक्यस्य इंग्लिशभाषायामनुवादे ‘A Man Kills a furious lion अत्र हि Man इति- कर्तृपदं पूर्वम्, lion इति कर्मपदं पश्चादिति सर्वदा सुनिश्चितं च। यद्यत्र पूर्वं मनुष्यवाचकपदस्य निवेश: स्यात्तर्हि 'सिंहो मनुष्यं हन्ति’ इति विपरीत एवाऽर्थ: सम्भवेत्। परमस्माकं संस्कृतभाषायां विभक्तिचिह्नानां तथा सुव्यवस्थाऽस्ति यत् महामहत्यपि वाक्ये किञ्चिदपि पदं कुत्रापि परिवत्र्यतां नाम, तथाऽप्यर्थविषये कदाऽप्यव्यवस्था नोत्पद्यते।
'एष मनुष्यो दुर्दान्तं सिंहं हन्ति’ इति वाक्ये 'दुर्दान्तमेष सिंहं हन्ति मनुष्य:’ 'सिंहमेष मनुष्यो दुर्दान्तं हन्ति’ 'हन्त्येष मनुष्यो दुर्दान्तं सिंहम्’, 'मनुष्य एष हन्ति दुर्दान्तं सिंहम्’ 'हन्ति मनुष्य एष दुर्दान्तं सिंहम्’ 'दुर्दान्तं हन्ति मनुष्य एष सिंहम्’ इत्यादि, येन केनाऽपि रूपेण परिवर्त्यन्तां शब्दा:, परम् अर्थो न मनागपि परिवर्तते। कथयत! कीदृशी सुव्यवस्थास्ति कर्मकर्त्रादिकारकाणाम्। कियच्च स्वातन्त्र्यमुपलभते प्रयोक्ता। ये महाभागा: कवितां कुर्वन्ति, भवेत्तेषामनुभवो यच्छन्दसि समावेशार्थं वाक्ये शब्दानामितस्तत: करणं कस्मिंश्चित् कस्मिंश्चित्समये कियदावश्यकं भवति इति। मनोभावप्रकाशनार्थं भाषाया आवश्यकता भवतीति मूलसूत्रमधिकारसूत्रवत् सर्वत्राऽनुवर्तते। इदानीं दृश्यतां, कविताकर्तु: मनोभावप्रकाशनार्थं संस्कृतभाषायामस्यां वाक्यविन्यासकृता कियती स्वतन्त्रता समुपलभ्यते कर्त्त्रा?
किञ्च-द्वयो: स्वरयोर्मध्ये सन्धिकरणम्, बहूनां पदानां साहाय्येन एकपदनिर्माणम् (अर्थात् समास:), इत्यादयो विशेषा: सन्ति संस्कृतभाषायामेव, नाऽन्यस्याम्। अन्विष्यन्तां जगत: समस्ता अपि भाषा:, परं न कस्यामपि भाषायामिमे विशेषा: समुपलभ्येरन्। यदि कथयत, एभिर्निर्यमविशेषैस्तु भाषायां कठिनता समुत्पद्यते। अत एव हि उत्तरोत्तरं दुर्बोधा सेयं भाषा सम्पन्ना, सम्पद्यते च।
आम्, स्यादेतत्। किन्तु काठिन्येनाऽनेन संस्कृतभाषायामस्यां कीदृशी सुव्यवस्था सम्पद्यते इति क्षणं विचार्यतां सूक्ष्मरूपेण। कस्याश्चन नगर्या: पर्यन्तत: प्राकारद्वारा वेष्टनेन, स्थाने स्थाने गुल्म ('थाना’)निवेशनेन, मिथ: सूचनाविभागस्थापनेन च आडम्बरमिव अवश्यं प्रतीयते। परं नगर्या एतस्या: संरक्षा कीदृशी भवति? यत्सहसैव कोऽपि परिपन्थी नगरीप्रचलितां सुव्यवस्थां, शासनादिकार्यं च न सहसा भेत्तुं शक्नुयात्। अस्तु वा भाषायां कठिनता, परं सेयं कठिनता एतद्व्याकरणज्ञानमूलिकैव। अवश्यं व्याकरणमस्या: कठिनम्। व्याकरणस्य काठिन्यमपि केनचित्कारणेन। सेयं भाषा सुविस्तृता:। अनन्ता अस्यां शब्दा:। देशानां कोणकोणेषु, बहुषु देशेषु प्रसृता। अतएव देशदेशेषु मनुष्याणामाचारव्यवहारवैचित्र्यात्, सम्भाषणस्य नानाविधशैली ('मुहाविरे’) जुष्टत्वात्, तत्तद्देशे वस्तुनाम्नां विभिन्न-विभिन्नत्वात्, भाषायामस्यामनन्ता: शब्दा:, अनन्ताश्च शैल्यो देशविशेषेषु चिरकालात्प्रसृता:। व्याकरणं च समग्राया अपि देशभाषाया: कृते निष्पन्नम्। विशेषतश्च पाणिनीयम्, यत्र हि प्राचीनकालप्रचलिताया वैदिकभाषाया अपि रूपाणि निष्पद्यन्ते। ईदृग् विस्तृताया भाषाया: सर्वदेशीयानां (प्राक्-प्रत्यक्-उदग्)-देशेषु सर्वत: प्रचलितानां शब्दानां साधुत्वानुशासनार्थं व्याकरणस्य कियान् विस्तार: स्यात्? तावन्तं विस्तारं च को नाम शिक्षार्थी अवधारयेत्! अत एव व्याकरणस्याऽस्य संक्षिप्तिकरणार्थं सोऽयं सूत्रनिर्माणस्य सुसूक्ष्म: पन्था:। तत एव च तदिदं सूत्रबद्धं व्याकरणं, जिज्ञासूनां कृते, अवश्यावश्यं कठिनं सम्पन्नम्।
इदानीं बहवो महाभागास्तदेतद् व्याकरणं सरलं भवेत्तथा प्रयतन्ते नितान्तम्। सम्भवेत् किञ्चित् किञ्चित्सरलताऽपि मन्ये। परमेतेषां व्याकरणसुधारकमहाभागानां तदेतदवश्यं निवेदनीयं यदेते महताऽवधानेन तदिदं कार्यं कुर्यु:। अतीव दायित्वपूर्णमिदं मार्मिकं कर्तव्यम्। एतेषां प्रयत्नसम्भ्रमेण गीर्वाणभाषाया एतस्या: स्वभाविकी सुव्यवस्था न भग्ना भवेदिति नितरां विचारणीयम्।
अस्तु तावदिदम्। इदानीं तदिदं विचारणीयं यदस्यां भाषायां स्वाभाविकं गौरवं कथं नाम सर्वैरङ्गीक्रियते, कियच्चाऽस्तीति। यदि चाऽस्या: स्वाभाविकमुदारभावोन्मुखत्वं सिध्येत्तर्हि शिक्षाविवेकिनां सचेतसां समाजे सेयं निर्विवादं गौरवसिंहासनमलङ्कर्तुं योग्या संसिध्येत्। य: खलु पुरुषो महामहाधनसम्पत्ते: स्वामी भवेत्, परमविस्तृतं च यस्य राज्यं भवेत् परं यदि तस्य मनो न भवेदुदारभावाऽऽपन्नं तर्हि न तस्य कोऽपि महत्त्वं स्वीकरोति, न च तस्य धनसम्पत्त्यादिना जनताया: प्रभूत उपकार एव सम्भवति। प्रभूतधनस्सम्पत्त्यादिना, बाह्येन च गौरवेण न कस्यापि महत्त्वं सुस्थिरं भवति इति हि सर्वेऽपि सर्वदेशीया: पण्डिता: सिद्धान्तयन्ति। इदानीमनेन मानदण्डेन संस्कृतभाषाया महत्त्वं परिमीयतां श्रीमद्भि:। आलोचयामो वयं संस्कृतभाषाया अन्त:, एतस्या: स्तरे स्तरे उन्नता: स्वाभाविका भावा विद्यन्ते इति। समग्रस्यापि संसारस्य सम्मुखे सर्वत: प्रथमं या आध्यात्मिकं भावं स्थापयामास सा भाषा उन्नतभावशालिनी नास्तीति को वा बुद्धिशाली समर्थयेत? युरोपदेशीया: पारस्यदेशीयाश्च सर्वेऽपि विद्वांस एकमुखेन घोषयन्ति-
'यद् आध्यात्मिकभावसम्पन्ना काचिद् भाषा यद्यस्ति संसारे तर्हि सा संस्कृतैवेति।’ मोनियर विलियम्सप्रभृतय: पाश्चात्त्यपण्डिता: सम्मन्यन्ते यत् 'संस्कृतभाषायां निसर्गत एव उच्चा: सन्ति विचारा:।’ पाश्चात्त्य: सुप्रसिद्धस्तत्त्ववेत्ता शोपनहार: स्पष्टं सिद्धान्तयति- ''यद् भारतीयं वायुमण्डलम् उत्कृष्टान् पवित्रान् सत्यांश्च विचारान् प्रचारयत्यस्मासु’’। या हि भाषा उपनिषत्सदृशान् ग्रन्थान् प्रसूते, भगवद्गीतासदृशांश्च प्रबन्धानुपजनयति, सा यद्युन्नता उन्नतभावशालिनी च न भविष्यति तर्हि काऽन्या भविष्यतिï?’’ एकाऽन्यापि वार्तास्ति-न केवलं पाश्चात्त्या एव, अपि तु अन्यदेशीया अपि अनुभविनो मार्मिका अपि कथयन्ति यद् भाषाया उपरि तद्भाषाभाषिणां प्रभाव: समधिकं पतति। यदि काञ्चिद्भाषां मृदुस्वभावा: संयमिनो दयाशीलाश्च पुरुषा व्यवहरिष्यन्ति तर्हि तद्भाषाया उपरि तेषां तादृश: प्रभाव: पतिष्यति। अत एव हि समर्थयन्ते पाश्चात्त्या विद्वांसो ''यत्संस्कृतभाषा मधुरस्वभावसम्पन्नानामार्याणां भाषणवशान् माधुर्यपूर्णा जातास्तीति’’।
एतदेव किम्। इतोऽपि गभीरतमं विचार्यताम्- यां खलु भाषां विज्ञानस्य साक्षादवतारो भगवान् वेदव्यास:, श्रीमद्वाल्मीकि-प्रभृतयो महर्षय:, श्रीमच्छङ्कर-रामानुजवल्लभप्रभृतयो धर्माचार्याश्चाङ्गीकृतवन्त:, सा भाषा उन्नतान् भावान् कुतो वा नाश्रयेत्? जगद्गुरुणां येषां प्रभाव: कोटिकोटिपुरुषेषु प्रसृतोऽभवत्तेषां महानुभावानां भाषा किं न भविष्यत्युन्नता? किं बहुना, यां भाषां भगवदवतार: श्रीमान् बुद्धदेवो व्यवहरति स्म सा भाषा किं नास्ति दिव्यप्रभावसम्पन्ना? यस्य हि बुद्धदेवस्योपासका: समग्रेऽपि संसारे सर्वतोऽप्यधिकायां सङ्खयायां सन्ति, पारेसमुद्रमपि यदुपासकानां राज्यसत्ता जागर्ति, तस्य खलु बुद्धदेवस्योपास्या भाषा उन्नतभावशालिनी नास्तीति किं कोऽपि भुजदण्डाऽऽस्फालनपुरस्सरं साधयितुं समीहते? ननु बुद्धदेवस्य धर्मप्रचारभाषा प्राकृताऽऽसीदिति न भ्रमितव्यं केनाऽपि। यतो हि सा संस्कृतातो नाऽतिरिच्यते। संस्कृतमेव मूलमालम्ब्य अतिस्वल्पेन भेदेन सा स्थिरीकृता। संस्कृतभाषाभाषी स्वल्पेन विचारेण तामनायासं बुध्यते। अत एवाऽस्माकं संस्कृतनाटकेषु स्वच्छन्दं प्रयुज्यते स्म सा भाषेति न वयं भाषान्तरेण साकं विभागसमये तां संस्कृतभाषातो भिन्नां स्वीकरिष्याम:। तत एव हि काव्यप्रकाशसाहित्यदर्पणरसगङ्गाधरादिषु उदाहरणप्रसङ्गेन, साहित्यविषयस्य कस्यचिदालोचनासन्दर्भेण वा, गाथासप्तशतीप्रभृतीनां गाथा निर्विशङ्कमुद्घ्रियन्ते।
संस्कृतभाषाया: स्वाभाविकगौरवसम्पन्नताया: सम्बन्धे एकमन्यदप्यस्ति सुस्फुटं प्रमाणम्-यत् अस्यां कश्चित्साधारणोऽपि विषयो नितान्तं गौरवशालीव सम्पद्यते। भाषान्तरे यो विषयस्तुच्छ इव दृश्यते स्म, सोऽपि विषय: श्रीमत्यामस्यामुपसंविश्य गौरवयुक्त: सम्पद्यते इति समये समये स्वत एवाऽनुभवितुं शक्यते।
कतिचिद् वर्षाणि व्यतीतानि-एकेन महाराष्ट्रसज्जनेन सारपूर्ण: कश्चित्प्रबन्ध: प्रकाशितोऽभूत् साहित्यिकमासिकपत्रे यत्-संस्कृतभाषाया: साहित्यग्रन्थेषु हास्यरसस्य परिपोषो नास्तीति। काव्यप्रकाशस्य हास्यरसस्योदाहरणे-
'आकुञ्च्य पाणिमशुचिं मम मूर्घ्नि वेश्या
मन्त्राऽम्भसां प्रतिपदं पृषतै: पवित्रे।
तारस्वरं प्रथितथूत्कमदात्प्रहारं
हा हा हतोऽहमिति रोदिति विष्णुशर्मा।।’
मन्त्राऽम्भसां प्रतिपदं पृषतै: पवित्रे।
तारस्वरं प्रथितथूत्कमदात्प्रहारं
हा हा हतोऽहमिति रोदिति विष्णुशर्मा।।’
प्रकरणसूचनां विना विष्णुशर्मणो वराकस्य मन्त्रपूते मस्तके थूत्कारसहितं चपेटाप्रहारमालक्ष्य हास्यस्य स्थले कारुण्यमेव मन्ये समुदियात्। साहित्यदर्पणस्योदाहरणे-
'गुरोर्गिर: पञ्च दिनान्युपास्य वेदान्तशास्त्राणि दिनत्रयं च।
अमी समाघ्रातकुतर्कवादा समागता: कुक्कुटमिश्रपादा:।।’
अमी समाघ्रातकुतर्कवादा समागता: कुक्कुटमिश्रपादा:।।’
एतदादिभि: कियान्वा वास्तवो हास: समुदेतीति सहृदया एव पृच्छ्यन्ताम्।
एवं किल संस्कृतसाहित्यस्य मध्याह्नदशापर्यन्तं हास्यस्य तथा सुस्फुटोपलब्धिर्नावेक्ष्यते यथा किल भाषान्तरेषु। अन्तिमे आकरग्रन्थे 'रसगङ्गाधरे’ तु हास्यस्योदाहरणं किञ्चित्सफलतां स्पृशति। यथा-
'श्रीतातपादैर्विहिते निबन्धे निरूपिता नूतनयुक्तिरेषा।
अङ्गं गवां पूर्वमहो पवित्रं न वा कथं रासमधर्मपत्न्या:।।’
अङ्गं गवां पूर्वमहो पवित्रं न वा कथं रासमधर्मपत्न्या:।।’
एतेन किल संस्कृतभाषासेविन: कदाचिद्विमनायेरन्-यत् अस्माकं सर्वरसाविष्कत्री संस्कृतभाषा हास्यरसं प्रकटयितुं किमपटु:? तान् विदुष: सविनयमिदमावेदयामि-भो भो मार्मिका:! न भेतव्यं न भेतव्यमस्मात् अन्त: फल्गुभूतादाक्षेपात्। पूर्वापरतत्त्वविमर्शनेन स्फुटमिदं श्रीमन्त: परिज्ञातुं प्रभवेयुर्यत् संस्कृतभाषाया: स्तरे स्तरे तादृशा उच्चभावा अनुस्यूता: सन्ति, यदस्यां हसनीयत्वेन प्रवृत्ता भावा अपि किञ्चित्तथा गौरवं स्पृशन्ति यथा किल तैर्यथाभिलषितो हासो नोद्भवति। हास्ये हि भाषाऽपि तादृश्येव उपयुज्यते, क्रीडनकभूतया यया हि श्रुतमात्रया बलादिव श्रोतुर्हास्यमुदियात्। यस्यास्तु वाक्यसङ्घटनायाम् अलक्षितमेकं गौरवमकस्मात् अन्त: आविर्भवति तस्यां भाषान्तरवत् कथं वा क्षुल्लककथासम्बद्धं हास्यमवलोक्यताम्?
मनाक् तत्त्वं विचारयन्तो मनोवैज्ञानिका: सम्यगिदं बोद्धुं पारयेरन्- यो हि रात्रिन्दिवम् युद्धादिकठोरकर्मणि जीवनं यापितवान्, येन शौर्यभावोद्दीप्तानि वीरवाक्यानि विहाय न कदाचिद्दैन्यवाक्यानि व्यवहृतानि, स किल नैसर्गिकवीर: निजवाक्यै: कारुण्यप्रदर्शने किं सहजमेव सफलो भवेत्? तस्य शनैरुदीरितेन साधारणवाक्येनाऽपि लोकस्य भयमिव भवेत्। एवमेव स्वभावतो महत्त्वशालिन्यामस्यां संस्कृतसरस्वत्यां य: कोऽपि विषयस्तथा सुनिबद्धो भवति यथा लोकस्य मानसे गौरवभावस्याऽलक्षितमेव समुदयो भवेत् (हास्यरसपरिपोषकृते-संस्कृतभाषायां तादृशशब्दचयनस्य सहसा न भवेत्सौकर्यम्, अत एव अर्थसामग्री एव तादृशी प्रबलाऽपेक्ष्यते यया सङ्घटितया बलादेव श्रोतुर्हास्यमुदयेत्। यथा-एतत्पङ्क्तिलेखकस्य 'साहित्यवैभवादि’ निबन्धेषु अंशत: परीक्षितुं शक्येत।)
कस्मिन्नपि नाटके जटाजूटमाबिभ्रत:, निजतेजोमण्डलेन सकलमपि तं प्रदेशमवभासयतो महर्षेर्मुखात् यदि विदूषकवाच्यानि वाक्यानि श्रूयन्ते तर्हि किं तथा हास्यस्य परिपोष: सम्भवेद् यथा क्षुल्लकभाषामुच्चारयत: फुल्लगल्लस्य कस्यचिद् भण्डस्य, विदूषकस्य वाऽभिनये समुद्भवेत्? एवमेव नैसर्गिकगौरवभावशालिन्यामस्यां संस्कृतभाषायामन्तर्हित: कश्चिदेवंविधो गौरवभावोऽस्ति येन किल तद्भाषानिबद्धे वाक्ये स्वभावत एव गौरवमुदेति। अपि किं वेदं संस्कृतभाषाया नैसर्गिकमुन्नतत्वं साधयितुं प्रभवेत्?
अस्माकं वेदा:, उपनिषद:, मन्वादिस्मृतय:, न्यायवेदान्तसाङ्खयादिदर्शनानि, पुराणानि, श्रीमद्वाल्मीकिरामायणम्, महाभारतं च संस्कृतभाषाया एतस्या आध्यात्मिकं सुगौरवं तथा प्रथयन्ति यथा सेयं भाषा सर्वस्मिन्नपि विवेकिजनसंसारे सार्वभौमसिंहासनमध्यासितुं योग्या जाताऽस्ति। ग्रन्थानामेतेषां गौरवं समग्रेऽपि भूमण्डले ध्वनितमस्ति, पुनस्तस्याऽऽम्रेडनं समयस्य पुण्यकथाभिर्यापनमात्रं भवेत्। रामायणीयकथाया: सुगौरवमनेनैव परिज्ञातं भवेत्- यत् सृष्टिकालमारभ्य अद्यपर्यन्तं समस्तेऽपि भूण्डले ईदृशी कथा कुत्रापि नोत्पन्ना या रामायणीयां कथां तुलयेत्। समस्तेऽपि भूमण्डले देशभेदात् नानारूपेण प्रचलितासु सम्पूर्णास्वपि भाषासु विरलैव काचिदीदृशी दुर्भाग्या भाषा भवेद् यस्यां रामायणीयकथाया: संसर्गो न भवेत् स्वल्पोऽपि। सर्वैरेव संसारस्य भाषाविद्भिरेकवाक्येन स्वीकृतमस्ति यद्रारामायणसदृशी सुनिबद्धा उन्नतभावपूर्णा मनोज्ञा च कथा नाऽद्यावधि काचित्सम्पन्ना। रामायणकथाऽऽधारेण सर्वेष्वपि देशेषु बहवो ग्रन्था निर्मिता अभूवन्। बह्व्यश्च तद्गुणवर्णनारूपा: समालोचना: प्रकाशिता: सन्ति। अतएव नास्मिन् विषये किञ्चिदधिकं निवेदयितुमिच्छामि। परं सररमेशचन्द्रदत्तमहाभागस्य सुवर्णाक्षरेषु लेखनीयामुक्तिमवश्यमेव निम्ने प्रकाशयितुमिच्छामि-
''नवशिक्षितमहाभागा:! भवद्भि: इलियडकृति: पठिताऽस्ति। दान्ते-शेक्सपियरमिल्टनकाव्यान्यधीतानि सन्ति। सादीफिरदौसीकवितापि कण्ठस्था कृतास्ति। किन्तु हृदयान्वेषेणं क्रियताम्, उच्यतां कीदृशी कथा हृदये सरसभावपूर्णा प्रतीता? कतमया कथया हृदयमधिकमालोडितं भवति? कतमां कथामवधार्य चित्तमधिकतरं प्रोत्साहितं मुग्धं च भवति? भीष्मपितामहस्याऽपूर्वा वीरता, विरहमनुभवन्त्या भगवत्या: सीतादेव्या अनुपमा पातिव्रत्यकथा, प्रत्येकहिन्दुसन्तानस्य शरीरे शिरायां शिरायां व्याप्ताऽस्ति। अयि जगत्पते! इमां कथां हिन्दुजाति: कदाऽपि न विस्मर्यात्!
कियत्सहस्रवर्षाण्यारभ्य इयं पुण्यकथा भारते वर्षे ध्वनिता प्रतिध्वनिता च भवति। सुमनोहरेषु वङ्गेषु तुषारचयकिर्मीरितेषु पर्वतपरिवृतेषु काश्मीरेषु, वीरपुत्रप्रसूषु राजपुत्रेषु, सुरक्षितराष्टे्रषु सागरकल्लोलमुखरितेषु कर्णाटेषु द्राविडेषु च, कियत्सहस्रेभ्यो वर्षेभ्यस्तदिदं गीतं ध्वनितमस्ति। वयं भारतीया: शिक्षामिमां कदापि कदापि न विस्मरेम। गौरवदिवसेषु एभिरेवाऽनन्तैर्गीतैरस्माकं पूर्वजा: प्रोत्साहिता अभूवन्। हस्तिनापुरीअयोध्यामिथिला-काशीमगधोज्जयिनीप्रभृतीन् देशान् एतान्येव गीतानि वीरत्वेन यशसा चाऽप्लावितानकुर्वन्। दु:खमयदिवसेषु एता एव शौर्यगाथा: संस्मरन्त समरसिंहसंग्रामसिंहप्रतापसिंहप्रभृतयो धर्मरक्षार्थं हृदयस्य शोणितदानमकुर्वन्। अद्य परवशतामापन्नानां, तत: पुन: स्वातन्त्र्यमुपलब्धवतां भारतीयानामेता एव पूर्वकथा: आश्वासस्थानं सन्ति। ईश्वरं हृदयेन प्रार्थयामहे-यद्विपदि, विषादे दुर्बलतायां च वयमिमां पूर्वकथां कदापि न विस्मर्याय। यावत्पर्यन्तं जातीयजीवनमवशिष्ट भवेत्तावत्पर्यन्तं हृदयतन्त्री एभिरेव गीतै: सह गुञ्जन्ती भवेत्।।’’
महाभागा:! किमतोऽधिकं साधयामि-यदस्माकमियं गीर्वाणभारती कियता महत्त्वेन मण्डिताऽस्ति। हन्त हन्त! किमतोऽधिकं गौरवं स्यात् यदस्या: संस्कृतभाषाया अलौकिकान् गुणगणान् वीक्ष्य सर्वासां मनुष्यभाषाणां मध्ये इयम् 'अमरभारती’ति गौरवसिंहासनमारोपिता विपश्चिद्भि:। एतस्या: स्वाभाविकं माधुर्यमुपलभमानै: पाश्चात्त्यपण्डितै: सबहुमानमादृता सेयम्। अपि नेदं संस्कृतभाषाया महत्त्वं यद्यै: साकमस्माकं धर्मादिना, निवासप्रभृतिनाऽपि च न कोऽपि सम्बन्ध, पारेसमुद्रं निवसन्तोऽपि माधुर्यमुग्धा: सन्त: एतस्या: सविधे मूर्द्धानं नमयन्ति हृदयं च समर्पयन्ति? इतोऽधिकं किं स्याद् यत् आत्मनो नामोपर्येव संस्कृतभाषाया विजयमुद्रामङ्कयन्ति? अत एव केचिन् मैक्समूलरा: सन्तोऽपि मोक्षमूलरभट्टा भवन्ति। केचित् लैन्मनाख्यां धारयन्तोऽपि लक्ष्मणा: सम्भवन्ति। केचित् कीलहार्ननामानोऽपि केलिहरिणा: सम्पद्यन्ते। अपरे मुग्धाऽनला: प्रख्यायन्ते। अपरे तु अर्थानुगुण्यमपश्यन्तोऽपि भाषामाधुर्यमुग्धा: सन्तो बलात् 'ष्ट्येना:’ अपि स्तेना: सम्भवन्ति। किं नेष संस्कृतसरस्वत्या भूयानद्भुत: प्रभावो यत् निजजातीयताऽभिमानिनोऽपि, विजेतृत्वगर्वमखर्वं धारयन्तोऽपि पाश्चात्त्या: प्रभवन्त्येतस्या: सविधे सर्वत: परवशा:, इति?
संस्कृतभाषाया: शब्दकोशमहत्त्वम्, भावगाम्भीर्यं च प्रोक्तवानस्मि एतावता प्रबन्धेन। सम्प्रति संस्कृतवाङ्मयस्य विभिन्नविभिन्नविषयेषु विस्तारम्, तद्गतं गौरवञ्च किञ्चिदावेदयामि। प्रेक्षेरन् पाठकमहाभागा यदस्मिन् निबन्धे प्राय: पाश्चात्त्यविदुषां सम्मत्यनुसारमेव संस्कृतगिरो गौरवं समर्थयितुं मया प्रयत्न: कृत:। यतो हि स्वस्वातन्त्र्यं घोषयन्तोऽपि, हिन्दुसंस्कृतेर्गीतिं मुखत: संलपन्तोऽपि, वर्तमानसमयस्य नेतार:, शासका:, नवीनशिक्षितमहाभागाश्चापि गौराङ्गाणां पदाङ्कान् विहाय नेतस्तत: स्वल्पमपि गन्तुमिच्छन्ति। आङ्गलभाषैव च तेषां ज्ञानस्य मूलधनम्। अत एवाग्रेऽपि वैदेशिकविदुषामेव सम्मतय: स्थान-स्थानेभ्य: सङ्गृहीता: सन्तीति सन्तोष्टव्यं स्यात्सामयिकमहाभागै:। संस्कृतपण्डितैस्तु कारणं परिज्ञाय नाऽत्र विमनायितव्यम्।
अस्यां विंश्यां शताब्द्यां साधारणशिक्षिता अपि जानन्ति यत् कस्या अपि भाषाया महत्वं तस्या: साहित्यमेव विवेकिनां समाजे सूचयतीति, यस्या भाषाया: साहित्यं यावद्विस्तीर्णं भवति, तस्याऽनुसारेणैव भाषायास्तस्या महत्वं स्थिरीभवतीति। इदानीं दृश्यताम्, अस्माकममरभारत्या एतस्या: साहित्यस्य का व्यवस्थेति।
वेदा:- यैरादौ भुवनेषु पावनतमं तज्ज्योतिराविष्कृतं
यस्याऽग्रे स्वयमेव सर्वजगतां मूर्द्धा नतो जायते।
सर्वस्योषधय:२ प्रबोधनिधय: पीयूषपाथोधय-
स्ते वेदा: सकलाभिनन्द्य विधय: प्रोद्यन्तु न: सिद्धय:५।।
यस्याऽग्रे स्वयमेव सर्वजगतां मूर्द्धा नतो जायते।
सर्वस्योषधय:२ प्रबोधनिधय: पीयूषपाथोधय-
स्ते वेदा: सकलाभिनन्द्य विधय: प्रोद्यन्तु न: सिद्धय:५।।
मखे येषां मन्त्रैर्विधिविहिततन्त्रै र्नियमिता:
सुरेशाद्या: सर्वे त्वरितमुपतिष्ठन्त्यभिमुखम्।
पुनन्तो विश्वानि प्रतिपदमवन्तो जगदिदं
क्षमन्तां ते वेदा दुरितभयभेदाय भवताम्।।
सुरेशाद्या: सर्वे त्वरितमुपतिष्ठन्त्यभिमुखम्।
पुनन्तो विश्वानि प्रतिपदमवन्तो जगदिदं
क्षमन्तां ते वेदा दुरितभयभेदाय भवताम्।।
चञ्चन्तोऽतिचिरं चतुर्मुखमुखाच्चित्रं चतुर्दिक्षु ये
चातुर्वण्र्यमिदं चतुर्युगचये सञ्चारयन्तेऽन्वहम्।
चित्ते चिन्तयतां चतुर्भुजभुजावद् ये चतुर्वर्गदा
वेदांस्तांश्चतुरो विचारचतुरो नाऽर्चेत कश्चेतसा।।
चातुर्वण्र्यमिदं चतुर्युगचये सञ्चारयन्तेऽन्वहम्।
चित्ते चिन्तयतां चतुर्भुजभुजावद् ये चतुर्वर्गदा
वेदांस्तांश्चतुरो विचारचतुरो नाऽर्चेत कश्चेतसा।।
कल्पादौ स्फुरतां य एव जगतां जीवातवे जज्ञिवान्
भूतानां भविकाय य: प्रथितवांस्तांस्तान् विधिप्रस्तवान्।
संवित्सौभगवान् स वेदभगवान् भूमौ समुज्जृम्भताम्।।
भूतानां भविकाय य: प्रथितवांस्तांस्तान् विधिप्रस्तवान्।
संवित्सौभगवान् स वेदभगवान् भूमौ समुज्जृम्भताम्।।
छन्द: पादौ तु यस्या:, नयनमकलुषं ज्यौतिषं, घ्राणमस्या:
शिक्षा:, कल्पस्तु हस्तौ, मुखमिदमुदितं विस्तृत शब्दशास्त्रम्।
यस्या: श्रोत्रं निरुक्तं, त्रिभुवनमभवद् भासित यद्विभासा
श्रीविष्णोर्वेदनाम्री जयति विजयजस्रग्धरा मूर्तिरेषा।।
शिक्षा:, कल्पस्तु हस्तौ, मुखमिदमुदितं विस्तृत शब्दशास्त्रम्।
यस्या: श्रोत्रं निरुक्तं, त्रिभुवनमभवद् भासित यद्विभासा
श्रीविष्णोर्वेदनाम्री जयति विजयजस्रग्धरा मूर्तिरेषा।।
सर्गादौ निसर्गात्स्वयमेव प्रादुरासन् पुरा
शब्दब्रह्मरूपा येऽभिरूपा विनिगद्यन्ताम्
मानवसमाजे यै: प्रबोधज्योतिराविष्कृतं
सभ्यताप्रणालीं येन जग्मुर्निरवद्यं ताम्।
माहात्म्येन येषामार्यजातेर्मौलिरुन्नतोऽस्ति
तन्मे विनयोऽस्ति बुधैरेते प्रतिपद्यन्ताम्
दूरीकृतदारुणदुरन्तपरिखेदा इमे
वन्दनीयवेदा भवभेदायोपपद्यन्ताम्।।
शब्दब्रह्मरूपा येऽभिरूपा विनिगद्यन्ताम्
मानवसमाजे यै: प्रबोधज्योतिराविष्कृतं
सभ्यताप्रणालीं येन जग्मुर्निरवद्यं ताम्।
माहात्म्येन येषामार्यजातेर्मौलिरुन्नतोऽस्ति
तन्मे विनयोऽस्ति बुधैरेते प्रतिपद्यन्ताम्
दूरीकृतदारुणदुरन्तपरिखेदा इमे
वन्दनीयवेदा भवभेदायोपपद्यन्ताम्।।
सर्वत: पूर्वं वैदिकसाहित्ये दीयतां दृष्टि:। यस्मिन् समगे्रऽपि जगति नाऽऽसीत्कोऽपि ज्ञानाऽऽलोक:, सर्वेऽप्यन्यान्यदेशवास्तव्या: केवलं भोजनशयनादिसृष्टिधर्मे एव व्यापृता आसन्, तस्मिन्नपि कालेऽस्माकं भारतं ज्ञानाऽऽलोकेन विभासितमासीत्। आसीत्तस्मिन्नपि समयेऽस्य सविधे दिव्यज्ञाननिधि: श्रीमान् वेदराशि:। येषां वेदानामंशमादाय जगत: सर्वा अपि जातय: साम्प्रतमात्मन: सभ्यतां पृथक् पृथक् स्थापयन्ति, ते वेदा अस्या एव भाषायाश्चतुर्दिक्षु प्रकाशिताश्चत्वारो विजयध्वजरूपा:। येषां ज्ञानगरिमविषये प्राचीनताविषये च महामहापण्डितानामनेकानि मस्तिष्काणि, अनन्तकालाद् गवेषणाप्रयत्ने संलग्नानि सन्ति, परं नाधुनाऽपि चरमान्वेषणं तेषां प्रकाशितं भवति। त एते भगवन्तो वेदा अस्यामेव भाषायामाविर्भूता इति सुमहता गौरवेण वयमात्मनो मूर्द्धानं जगतां सविधे सगर्वमुन्नमयाम:।
आध्यात्मिकज्ञाननिधयस्ता: उपनिषद: अस्यामेव भाषायां प्रादुर्बभूवु:, यासां विषये पूर्वप्रघट्टके बहु किल निवेदितवानस्मि। गृह्यसूत्राणि, ब्रह्मसूत्राणि, अन्यान्यानि च न्यायव्याकरणादिसूत्राण्यस्यामेव संस्कृतभाषायां जन्म लेभिरे। सेयं सूत्रनिर्माणविद्या यां हि पाश्चात्त्या: सबहुमानमभिप्रशंसन्ति, साक्षादस्माकं संस्कृतभाषाया एव एकमात्रं सम्पत्ति:। अतिस्वल्पैरक्षरै: सुबहुविस्तृतस्याऽर्थस्य कथनं नाऽन्यस्यां भाषायां केनाऽप्यवगतम्। समग्रेऽपि सभ्यसंसारे भाषाविज्ञानवेदितारस्तस्या एव भाषाया: प्रशंसां कुर्वन्ति यस्यामतिस्वल्पान्येव पदानि बहुतरमर्थं प्रत्याययन्ति। सोऽयं विशेष: संस्कृतभाषायामेव विलोक्येत।
अतिसामान्यमेकमुदाहरणं दर्शयामि। संस्कृतव्याकरणस्य पाणिनिनिर्मितमेकं सूत्रमस्ति- ''अदसोसेर्दादु दो म:’’ इति। अत्र हि अष्टौ अक्षराणि सन्ति। किन्तु अष्टस्वेव अक्षरेषु- 'अदस: असे: दात् उद: म:’ इति षट् पदानि। ''यस्मिन् अदस्शब्दे सकार: अन्ते न भवति तत्र, दकारस्य अग्रे हृस्वाऽक्षरस्य हृस्व उकार:, दीर्घस्य (अक्षरस्य) तु स्थाने दीर्घ: ऊकारो भवति। किञ्च दकारस्य स्थाने मकारो भवति’’ एतावान् अर्थ: एभ्य: षड्भ्योक्षरेभ्यो नि:सरति। जानन्ति किल पाणिनिव्याकरणविज्ञा यद् बहुषु पाणिनिसूत्रेषु पूर्वसूत्रेभ्य: कानिचित् पदानि आकृष्यन्ते- ''सूत्रेष्वदृष्टं पदं सूत्रान्तरादनुवर्तनीयं सर्वत्र।’’ परं स्वल्पकायेऽप्यस्मिन् सूत्रे नैकमात्रमपि पदं द्वितीयात्सूत्रादनुवर्त्यते। सूत्रे प्रोक्तै: एभि: षड्भिरेवाऽक्षरैरेतावद्विस्तृत: सोऽयमर्थ: प्रतीयते। बहुज्ञमहाभागा:! किमु भाषान्तरे दृष्टमवेविधं वाक्यम्?
पणबन्धपुरस्सरमिदमेवं वक्तुं शक्यते यत् इदानीं तु समग्रेष्वपि युरोपादिदेशेषु सभ्यतादेव्या: सुमहान् आलोक: प्रसृतोऽस्ति। अस्मिन्नपि समये कोऽपि विद्वान् स्पष्टं प्रदर्शयतु- यथाऽस्माकं प्राचीना: सूत्रग्रन्था: सन्ति, तथाविधा: संक्षिप्ताऽक्षरेषु महागभीरार्थप्रतिपादका: सन्ति केचिद् वैज्ञानिकग्रन्था:? 'अर्द्धमात्रालाघवेन पुत्रजन्मोत्सवमिव महोत्सवं’ मन्यमाना: सन्ति कस्याञ्चिदन्यस्यां भाषायां ग्रन्थकर्तार:? किं बहुना, गुणग्राहिण: पाश्चात्त्यपण्डिता: सुबहुतरं प्रशंसन्ति स्वल्पैरक्षरैर्बह्वर्थप्रतिपादनकलामस्माकम्। तेऽपि मन्यन्ते यत्-उच्चकोटे: स एव विद्वान् कविर्वा परिगण्यते यो हि स्वल्पैरक्षरैर्बहुतरमर्थं कथयेत्। यद्यप्यस्ति सोऽपि प्रकारो यत्र बहुभिरपि वाक्यैरेक एवार्थ: प्रतिपाद्यते (यो हि संस्कृतसाहित्ये व्यासनाम्ना परिचीयते) डार्विन्, स्पेन्सरादीनां भाषा एतमेव प्रकारमनुसरतीति तद्भाषाविदो विदन्ति। परं पाश्चात्त्या: सङ्क्षिप्ताक्षरप्रणालीमेव बहुश: प्रशंसन्ति। सुरसरस्वती चेयमस्माकम् अस्मिन्विषये सर्वासां भाषाणां पथिप्रदर्शिका सिध्यतीति को वा विवेकी न परिजानीयात्?
मनुयाज्ञवल्क्यपाराशरअत्रिहारीतादिप्राचीनमहर्षीणां स्मृतय: (धर्मशास्त्राणि) भूमण्डलस्य कोणकोणेषु मानवसभ्यताया: सर्वादिमान् पदाङ्कान् प्रकटयामासुर्यान् भारताद् बहिरावसन्तो विदेशीया अपि सश्रद्धमभिमन्यन्ते। मनुस्मृतेरावश्यकान् आवश्यकानंशान् पृथक् कृत्वा, आत्मभाषया चाऽनूद्य, पाश्चात्त्यैरपि मान्यतया स्वीकृता:, प्रचारिताश्च ते इमे उपदेशा नानासभ्यतासङ्ग्रहसन्दर्भे। अन्यदेशीया-''जीवनसङ्ग्रामे, यै: कैरप्युपायैर्निजमभीष्टं साधयेत्। ततश्च जीवनसङ्घर्षेऽस्मिन् प्रबलो दुर्बलस्य सकाशान्निजाभीष्टमाच्छिनत्तीति’’ संसारस्य प्रवृत्तिसाधारणधर्ममाहु: पाश्चात्त्या:। किन्तु अस्माकं धर्मशास्त्राण्युपदिशन्ति- ''यथा मानव: स्वयं स्वस्य जीवनं, स्वार्थं च निजाऽभीष्टं भावयति, तथा अन्यस्याऽपि जीवनं, स्वार्थं च तदभीष्टं भावयन् कस्याऽप्यनिष्टं न भावयेत्, न च तथाऽनुतिष्ठेत्। ''स्वयं जीवेत्, अन्याञ्श्च जीवयेत्’’ इति आर्यमानवस्य जीवनसार:। सत्यअहिंसाअस्तेयादय: सर्वैरेव पालनीया: सामान्यधर्मा: के, तत्तद्विशेष-विशेषसमाजेनाऽनुवर्तनीया विशेषधर्माश्च के, इति हि सर्वैरेव स्मृतिग्रन्थैरुपदिष्ट: संसारव्यवहारमार्ग:। किं बहुना, मार्गे गच्छन् मानव: अन्येषां गमने विघ्नं नोद्भावयेत्। तथा अवसरे सति स्वयं मार्गादपसृत्य अन्येभ्यो मार्गाऽवकाशं दद्यात्- 'पन्था देयश्च भारिण:’ इत्यादि। एवं किल यावन्मात्रमानवानां कर्तव्योपदेशिका: स्मृतय: संस्कृतभाषासाहित्यमेव अलङ्कुर्वन्ति। यत्र हि भूमण्डलमात्रमभिमुखीकृत्य निर्विशेषमुच्यते-
'एतद्देशप्रसूतस्य सकाशादग्रजन्मन:।
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवा:।।’
स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवा:।।’
यानि दर्शनशास्त्राण्यस्माकमुन्नते: परां काष्ठां प्रमाणयन्ति, येषां दर्शनानां सत्तया समग्रस्याऽपि भूमण्डलस्य सभ्या जातय: सशिर: कम्पमस्माकमुच्चान् विचारान् प्रशंसन्ति, यानि खलु दर्शनानि दृष्ट्वा अस्माकं जातिरतिप्राचीनतमेऽपि काले सुसभ्या सुसमुन्नता चासीदिति बलान्मन्यन्ते, तानि किल दर्शनशास्त्राणि सेयमस्माकं संस्कृतैव वाणी जनयामास। ये किल युरोपादिदेशीया: प्राचीना दर्शनिका: समग्रेऽप्यात्मनो देशे दर्शनरहस्यं प्रचार्य सभ्यसमाजे कृतिनोऽभूवन् तेऽप्यस्माकं दर्शनशास्त्राणामृणिन:। श्रीमान् मोनियर विलियम्समहाशयो, यस्य सिद्धान्ता: पाश्चात्त्यपण्डितानां गोष्ठीषु महत्वदृष्ट्याऽवलोक्यन्ते, दर्शनशास्त्रविषये स्पष्टमभिप्रायं प्रकाशितवान्- ''यूरोपस्य प्रथमदार्शनिकौ प्लेटो, पिथागोरसश्चेत्येतौ द्वावपि दर्शनशास्त्रविषये भारतवासिनां हिन्दूनां सविधे सर्वप्रकारेण ऋणिनौ स्त:।’’
लैथव्रजमहाशय: स्वनिर्मिते इतिहासे हिन्दूनां विषये यद्यपि पक्षपातपूर्णानतिसङ्कीर्णान् विचारान् प्रकाशयामास, परं तस्याऽपि मुखादिदमेव नि:सृतं यत्- ''दर्शनशास्त्रस्याऽऽदिगुरव: केवलमार्या एव सन्ति।’’
अध्यापक: श्रीमान् मैक्समूलरमहाशयो वक्ति- ''यद्धि राज्यमुन्नतेरुच्चशिखरे स्थितं भवति, यस्मिन् राज्ये आन्तरिकाणां बाह्यानां च शत्रूणामाक्रमणस्य किञ्चिदप्याशङ्का न भवति, यस्य राज्यस्य लोका धनसम्पत्त्या सहैव, अनेकानि विद्यामन्दिराणि, अनेकांश्च विश्वविद्यालयान् स्थापयित्वा, सर्वा अपि विघ्नबाधा: पराहत्य, विद्यानामालोचनायां मन: संयोजयन्ति, तस्मिन्नेव सभ्ये समुन्नते च राष्ट्रे दर्शनशास्त्रस्याऽऽविर्भावो भवति।’’
एवं प्रशंसाभाजनानि दर्शनशास्त्राणि अस्या: संस्कृतभाषाया एव गौरवं घोषयन्तीति को वा न मंस्यते? अत एव हि भारतीयसभ्यतान्वेषकैर्नवीनशिक्षितमहोदयै:-
'मानवसमाजे सत्यमार्गमुपादिक्षन् यानि
ज्योतिर्जननानि जनजीवने विमृश्यन्ताम्
मानुषातिशायिनो विचारान् विमृशन्तो यत्र
चित्रमुपयन्तो बुधा वैदेशिका स्पृश्यन्ताम्।
आर्यसभ्यताया: स्फुरद्विजयपताकासमा-
न्यतुलितराकाभाणि परमं प्रकृष्यन्ताम्-
तत्त्वानां विमर्शनानि गूढतलस्पर्शनानि
पुण्यपरामर्शनानि दर्शनानि दृश्यन्ताम्।।’
ज्योतिर्जननानि जनजीवने विमृश्यन्ताम्
मानुषातिशायिनो विचारान् विमृशन्तो यत्र
चित्रमुपयन्तो बुधा वैदेशिका स्पृश्यन्ताम्।
आर्यसभ्यताया: स्फुरद्विजयपताकासमा-
न्यतुलितराकाभाणि परमं प्रकृष्यन्ताम्-
तत्त्वानां विमर्शनानि गूढतलस्पर्शनानि
पुण्यपरामर्शनानि दर्शनानि दृश्यन्ताम्।।’
सर्वत: प्रथमं गगनमण्डलस्य वृत्तान्तोऽनयैव भाषया प्रकाशित:। यां खगोलविद्यामवलम्ब्य पाश्चात्त्यै: साम्प्रतमतिशयितोन्नति: प्रदर्शिता, सा विद्या संस्कृतभाषयैव सूचिता संसारस्याऽग्रे। यत् 'क्रान्तिमण्डलं’ संस्कृतभाषाभिज्ञै: प्राक्तनज्यौतिषिकरैन्विष्टं तत् खलु समग्रोऽपि संसार: सम्मानयति। चीनदेश:, अरबदेशश्च यं ज्यौतिषविद्याया: प्रकाशं दर्शयामास, सोऽपि संस्कृतभाषाऽनुग्रहलब्ध एवेति सर्वैरेवाऽन्वेषकपण्डितै: स्वीकृतम्। अध्यापको वेबर:, कोल्ब्रूकपण्डितश्च बहुभि: प्रमाणै: साधितवान् यत् 'चीनाऽरबदेशयोर्ज्यौतिषविद्या भारतवर्षादेव प्रकाशमुपगता। आर्याणां क्रान्तिमण्डलं तेषामेव। अरबदेशवासिभिस्तेभ्य एव परिज्ञातमेतत्’ इति।
यद्धि अङ्कगणितं समग्रेऽपि संसारे भारतवर्षस्य महत्तां सुस्पष्टं प्रमाणयति, तदप्यस्यामेव संस्कृतभाषायां सर्वत: प्रथममाविरासीत्। यदि भारतवर्षीया अङ्कविद्या अन्यान्येषु देशेषु न प्राचरिष्यत्तर्हि केऽपि देशा अङ्कलेखनेऽपि न समर्था अभविष्यन्। 'ऐनसाक्लोपडिया मैथामैटिका’ विषयं प्रकाशयमान: कोल्ब्रुकपण्डितो निष्पक्षपातं साधितवान् यत् समग्राय जगते दशपर्यन्तां गणनामपि भारतवर्षमेव शिक्षयामास। कथयत या भाषा अन्यान्यदेशवासिनो लोकान् अङ्गुलिपर्वणामुपरि 'एकं द्वे’ इत्यादि- गणानामपि शिक्षयामास, तस्या: कीदृशमासनं भविष्यति भाषाणामन्यासां सन्निधौ? पाश्चात्त्यपण्डित: एलबरूनी निजमभिप्रायं प्रकाशयति- ''अस्मिन् शास्त्रे भारतवर्षीया आर्या: संसारस्य सर्वजातीनामपेक्षया सुभृशमुन्नता:। मया हि अनेकभाषासम्बन्धिनामङ्कानां नामानि शिक्षितानि, परन्तु मया कस्यामपि भाषायां सहस्रसङ्खयातोऽग्रेतनीनां सङ्खयानां नामानि नाऽवाप्तानि। परन्तु संस्कृतभाषायामष्टादशाऽङ्कानां सङ्खयानामपि नामानि सन्ति। अष्टादशतमाया अन्तिमसङ्खयाया: 'परार्द्धं’ तेषां नाम।’’
कथयत, यासु भाषासु सहस्रसङ्खयातोऽग्रेतन्या: सङ्खयाया नामाऽपि नास्ति, ता भाषा: संस्कृतभाषाया: साम्यलवमपि कथङ्कारं लभेरन्? अरबदेशवासिभि: गणितविद्या हिन्दुभ्य: एव समधिगतेति सर्वेऽपि गवेषका: सिद्धान्तयन्ति। भारतवर्षस्येतिहासे सयुक्तिकमेतत् साधितं यत्-अरबदेशवासिभि: सेयं विद्या हिन्दुभ्य शिक्षिता। अतएव इमां विद्यां ते 'इल्म हिन्दसा’ अर्थाद् भारतवर्षीयां विद्यां वदन्ति। एतस्य सुस्पष्टं प्रमाणं त्विदमेवाऽस्ति यदद्यावधि आरब्धा: पारसीकाश्च अङ्कान् 'हिन्दसा’ इति नाम्ना व्यवहरन्ति।
बीजगणितं यत्खलु एल्जब्रेति नाम्ना व्यवहरन्ति पाश्चात्त्यास्तदपि संस्कृतभाषासिन्धुसमुत्थितमेकं रत्नम्। रेखागणितस्य तानि शुल्वसूत्राण्यस्यामेव भाषायां प्रसूतान्यभूवन्। यस्मिन् खलु रेखागणितविषये भूयसीमुन्नतिमधिरूढा: पाश्चात्त्यपण्डिता:, तदप्यस्माभिरेवोपदिष्टमासीत्। प्राच्यविद्यापण्डितो मोनियर विलियम्समहाभाग: कथयति- ''बीजगणितस्य तथा रेखागणितस्य चाऽऽविष्कार:, ज्यौतिषशास्त्रेण सह तस्य प्रथमं प्रयोग:, हिन्दूनामेव द्वारेणाऽभूत्।’’
डाक्टर थीबोमहोदय: स्पष्टमभिप्रैति - 'अखिलमपि भूमण्डलं रेखागणितस्य कृते भारतवर्षस्यैव ऋणधरमस्ति, न यूनानदेशस्य।’
यद्धि भारतीयं सङ्गीतशास्त्रं सर्वदेशीयानां सङ्गीतशास्त्रणामपेक्षया प्राचीनं सुविस्तृतं पूर्णञ्च परिगणितं, तदप्यस्यामेव भाषायामुत्पत्तिमधिजगाम। 'गानं रोदनं च सर्वोऽपि विजानाति’ इति लौकिककिंवदन्त्यनुसारं सर्वेष्वपि देशेषु सङ्गीतस्य प्रचारो भवेदिति वयमनुमिनुम: परं यत्र देशे बहूनां वाद्यानां केवलं 'खं खं पं पं’ स्वरैरेव सङ्गीतव्यसनं निर्वाह्यते, सोऽपि देश: सङ्गीतशास्त्र जानातीति किं हृदयेन स्वीकुर्म:? तत् सङ्गीतमस्ति उत अज्ञहस्तपतितानां वाद्यानां करुणाऽऽक्रन्दनमस्ति? सङ्गीतस्य सोऽस्ति विलक्षणो महिमा येन जिघांसु हृदयमपि सहजमेव द्रुतं भवति। रागस्य कार्यमेव तादृशमस्ति यत् सोयमभिज्ञस्य, अनभिज्ञस्याऽपि वा हृदयं तथाऽनुरञ्जयति यथा कस्मैचित्कालाय तद् हृदयं तस्मिन् रागरसे लीनं भवति। अतएव 'शिशुर्वेत्ति पशुर्वेत्ति वेत्ति गानरसं फणी’ इति प्राचीन: प्रवाद:। सोऽयं दृष्टान्त: सर्वत्र प्रसिद्धो यत् ताललयानुगतं यदि वीणावाद्यं प्रस्तूयते तदा आरण्यका हरिणका अपि मुह्यन्ति। एवं यत्र सङ्गीतस्योन्नति:, तस्याऽग्रे तत्सङ्गीतं कथं वा 'सङ्गीत’ -पदयोग्यं भविष्यति, यस्मिन् केवलमेकेनैव तालेन, लयत्यागे सत्यपि विभिन्न-विभिन्नशब्दानां समाहारमात्रमभ्युपेयते।
अस्तु, विषयान्तरं भवति। प्रकृतं वर्णयामि-तत्खलु समग्रेऽपि संसारे स्पृहणीयम्, मनुष्यहृदयस्यैकमात्रं परिष्कारकम्, आन्तरस्य बलदायकं भारतीयं सङ्गीतशास्त्रम् अस्यामेव गीर्वाणगिरि प्रादुरासीद्। यस्य हि नारदहनुमद् भरतमुनिप्रभृतयो महान्त आचार्या: सन्ति, या स्वरलहरी विलक्षणमेकं नादं राशीकृत्य, नियतानां मात्राणामनुसारेण माधुर्यमवकिरन्ती प्रचलति, तस्यां मात्राणामासां नियमनं मनुष्य: कर्तुं शक्नुयादिति तु तद्रसमार्मिकस्य हृदयं न प्रत्येति। अस्तु वा यदि सेयं मनुष्यस्य कृति:, तर्हि न स देवेभ्योऽतिरिच्यते, इति वयं निर्मायं वदाम:। अद्याऽहमस्मिन् सर्वदेशीयसभ्यमण्डले सगर्वं वदामि-यदनेनाऽस्माकं संस्कृतवाणी सुतरां गौरविणी यदस्यामेव भाषायां तत्तादृशं दिव्यं सङ्गीतशास्त्रमाविर्बभूव। कियन्तञ्चित्कालमारभ्य भारतीयानां दौर्भाग्यवशात्, परिणामाऽवेदिनां शुष्कहृदयानां 'शास्त्राऽर्थपण्डिताना’मुपेक्षावशाश्च, तदिदं सङ्गीतशास्त्रं भारतीयानां विदुषां हस्तात् प्रच्युतमस्ति। तदेतत्सङ्गीतं मोगलानां साम्राज्यशासनादारभ्य आसेवन्ते स्म भारतीया माहम्मदा एव कलावन्ता: प्रायश:।
एते चाऽभिमानमत्ता: कथयन्ति स्म कदाचित् ''यदिदं शास्त्रं यूनानदेशादेवोपलब्धं भारतीयै:। तदिदमस्माकमेव मूलतो धनम्’’ इति। परं ते नैतिहासिका:। केवलं मुखमस्तीति वादिन:। नैतदुच्चारितानां वाक्यानामुपरि विवादसीमा सन्तिष्ठते। एकदा ईदृशेनैव माहम्मदगायकेन सह ममाऽभूत्संवाद:। अहं हि 'हिन्दीसाहित्यरात्रिपाठशाला’ या अध्यापकान् विद्यार्थिनश्चाऽदाय ''अखिलभारतीयहिन्दीसाहित्यसम्मेलने’’ भरतपुरं प्रगच्छन्नासम्। घूमशकट्याम् अस्मन्मध्ये एव स्थानाऽवकाशं लभमान: सोऽयं गायकमहाभागो यथाभ्यस्तमवादीत्सगर्वं प्रसङ्गे प्रक्रान्ते-'अस्माकमेवाऽसौ विद्या। अवश्य प्राचीनैर्हिन्दुभिरस्यां बहव: परिष्कारा: कृता: सन्तीति जाने।’
प्रोक्तं मया- 'खाँ साहब! यदीयं विद्या श्रीमतामेवाऽऽदिधनं तर्हि सप्तस्वराणामपि पारस्यभाषामयानि कानिचित् अन्यान्येव नामानि भवेयु:, यानि हि पुरा भवन्तो व्यवहरेयुर्मन्ये। षड्ज रिषभ गन्धारेत्यादीनि मन्ये पारस्यभाषामयान्येव नामानि। खाँ साहेब! भवतामेव सेयमादिविद्याऽभविष्यत्तर्हि अद्यपर्यन्तमस्या रूपान्तरमेवाऽलप्स्यत। कथयत इदानीमपि शास्त्रीयाणां वसन्त-हिन्दोल-भैरवादिरागाणां गानसमये सर्वेऽपि माहम्मदा: कलावन्त: सूरदासप्रभृतीनां ध्रुवपदान्येव गायन्ति, न उर्दूंपारसीप्रभृतीनाम्। अत्राऽपि किं कश्चिदन्योऽभिसन्धिर्भवेत्?’ उचितमुत्तरं प्राप्य खानमहाभागस्तूष्णीकोऽभवत्।
अस्तु, इदानीं नाट्यविषये दीयतां दृष्टि:। इह हि पणबन्धपुरस्सरं सर्वेषां पुरतो घोषयितुं शक्यते यत्- 'केऽपि भाषान्तरपक्षपातिनो विद्वांसो दर्शयिष्यन्ति किञ्चिदीदृशं पुस्तकं भाषान्तरे, यद्धि भरतमुनिकृतं 'नाट्यशास्त्रं’ तुलयेत्? एतद्धि नाट्यशास्त्रमुद्दिश्य बहूनां पाश्चात्त्यानाम्, एतद्देशीयानां चाऽन्वेषकविदुषां प्रचलन्ति वर्तमानसमये बह्व्यो गवेषणा:। अपि किं तादृशमस्ति पुस्तकम्, उन्नतम्मन्यास्वपि अन्यासु भाषासु? जानाम्यहम्, नाट्यशास्त्रस्यास्य वास्तवेन तत्त्ववेदितारोऽपि विरला एव भवेयु:। सङ्गीते, साहित्ये, इतरशास्त्रीयवैदुष्ये च य: सुपूर्णो भवेत् स एव तत्तत्त्ववदने साफल्यं लभेत्। किन्तु वर्तमानकाले शास्त्रपण्डिता: सङ्गीत विषये परमुखाऽपेक्षिण:, सङ्गीतज्ञाश्च शास्त्रवैदुष्ये परिनिष्ठितां नाऽवाप्यन्ते। अत एव नाट्यशास्त्रस्य कतिचिदध्यायानां तत्त्वलाभे भूयस्तरां काठिन्यमेव।
किञ्च नाट्यस्य प्रचारबाहुल्येन। प्राचीनभारते नाटकनिर्माणस्य भूयान् प्रचार:, भूयसी च प्रतिष्ठाऽऽसीत्। मध्यकाले परश्शतानि नाटकानि निरमीयन्त भारते वर्षेऽस्मिन्। बहूनि तु ईदृशान्यपि समपद्यन्त, येषां रङ्गमञ्चेऽभिनयमपि नानुमन्ति नाट्यमार्मिका: तानि हि काव्यभेद गणनां पूरयितुमिव, नाटकभेददृष्ट्या प्राणीयन्त। न्याय-व्याकरणादिप्रौढपाण्डित्यं प्रकटयन्तो महामहापण्डिता:, कवयश्चाऽपि नाटकलेखने निजलेखनीं प्रवर्तयामासु:। मुरारि: शास्त्रपाण्डित्ये पुरा प्रथित:। यो हि कस्मिन्नपि 'शास्त्रार्थे (शास्त्रीयवादे)’ मध्यस्थीकृतो निजपाण्डित्यवैभवेन निजमतं विवदमानयोद्र्वयोरन्यविधमेव प्रकटयामास, यस्य हि विषयेऽद्यापि प्रवाद: प्रसिध्यति- ''मुरारेस्तृतीय: पन्था:’’ इति। एतत्कृति: 'अनर्घराघवम्’ एकस्यां रात्रौ अभिनीयेत रङ्गमञ्चे, न तादृशमभिप्रयन्ति नाट्यमार्मिका: प्रायेण। अस्तु,
भारते पुरा बाहुल्यमभूद् रङ्गमञ्चानाम्। नाटक-प्रकरण-सट्टक-भाण-प्रहसनादीन्यनेकानि रूपकाणि (दृश्यकाव्यानि) निरमीयन्त तेषु तेषु प्रान्तेषु। एतेषां कृते नियामकसाहित्यमपि बहुश: प्रकटीबभूव। यथा धनञ्जयस्य दशरूपकमित्यादि। नाट्यविषयस्य रङ्गमञ्चोपरि अभिनेतार:, तन्नियमनिर्मातारोऽप्यनेके समर्था: पण्डिता अभूवन्, येषामनेके सम्प्रदाया: प्रावर्तन्त नाट्यविषये। किन्तु न तेषां ग्रन्था: साम्प्रतमाप्यन्ते संस्कृतभाषायाम्। आम्, साहित्यदर्पणादिषु तट्टीकासु च नाट्यप्रकरणस्य अनेके ग्रन्था:, कोहलनखकुट्टादय: अनेके आचार्याश्च अवश्यं नामत: सूच्यन्ते। येन हि रङ्गमञ्चस्य, नाट्यकलायाश्च भारते प्रचारबाहुल्यमनायासं शक्यतेऽवबोद्धुम्। आस्तां विस्तर:। तदिदं नाट्यशासनं देववाण्यां पुरा भूयस्तरामुन्नतिं च प्रचारं च समवापेति सर्वस्य सार:।
यद्धि भारतीयमायुर्वेदशास्त्रमद्यापि भूमण्डले अतुलनीयं गौरवमावहति, यस्य च साहाय्येन समग्रेष्वप्यन्यान्यदेशेषु वैदेशिका जीवयन्ति परोलक्षान् मानवान्, तत् आयुर्वेदशास्त्रमप्यस्यामेव भाषायामाविरभूत्। बहवोऽर्द्धशिक्षिता जल्पन्ति यद् वैद्यकविद्या यूनानदेशवास्तव्येभ्यो वैद्येभ्य: शिक्षिता भारतीयैरिति। सोऽयमेषां स्पष्टो भ्रम:। यूनानदेशे अष्टमशताब्द्यां वैद्यकविद्याया: प्रचारोऽभवत्। तस्मिंस्तु समये हारूँरशीदभूपस्याऽसीत् अरबदेशे शासनम्। एतस्मिन्नेव समये अरबेषु चरकादिग्रन्थानामनुवादोऽभवत्। सर्वत: प्राचीन: सेरापियननामा अरबग्रन्थकार: चरकं ' जरक’ नाम्ना लिलेख। एबिसेननामा तु 'सिरक’ नाम्ना व्यपदिदेश। रहाजेजो, यो ह्यस्मादपि प्राचीनोऽभवत्, स तु 'सिरके’ ति नाम्ना समुल्लिलेख। एभि: सर्वैर्ज्ञायते यत् अष्टमशताब्द्यां भारतवर्षादेव यूनानदेशे वैद्यविद्याया: प्रचरोऽभवत्।
डाक्टर हण्टरमहाभागस्याऽस्ति अन्वेषणम्- ''अष्टमशताब्द्यां संस्कृतभाषातो यानि पुस्तकान्यनूदितान्यभूवन्, तान्येव अरबदेशे वैद्यकविद्याप्रचारस्य मूलम्। सप्तदशशताब्दीपर्यन्तं योरपदेशवासिनो वैद्या: अरबदेशीयानाम् (मूलतस्तु हिन्दूनाम्) नियमाननुसरन्ति स्म। अष्टमीं शताब्दीमारभ्य पञ्चदशशताब्दीपर्यन्तं वैद्यकस्य यानि पुस्तकानि यूरोपे निर्मितान्यभूवन्, तेषु चरकस्य प्रमाणानि प्रत्तानि सन्ति।’’
मौलाना हालीमहाभाग: स्वयमेतदङ्गीकुरुते- ''सर्वत: प्राचीनौ वैद्यकग्रन्थकारौ चरकसुश्रुतमहाभागौ अभूताम्, ययो: कृति: सर्वत्र प्रचरिताऽस्ति। अनयोर्ग्रेन्थयोरनुवादो यदा अरबदेशे प्रचरितोऽभवत्तमालक्ष्यैव अरबदेशीया वैद्यकविद्यायामनुरागिणोऽभूवन्, इति।’’
'त्रिदोषपद्धति:’ (वातपित्तकफान्यवलम्ब्य चिकित्साऽऽरम्भ:) या हि भारतीय-चिकित्साप्रणाल्या मूलाधार:, सा सर्वैरेव विचारशीलै: शनै:शनैरिदानीमभिमन्यते। भूयान् समयो व्यतीतो यदा हि वैदेशिकचिकित्सकैरेतस्या: पद्धतेरुपरि नानाशङ्का:, अनेके तर्काश्चोत्थापिता:, किन्तु भारतीयैरायुर्वेदविशारदैस्ते इमे तर्का: सर्वत: समाहिता:, शङ्काश्चेमा: प्रत्यक्षपरीक्षाद्वारा समूलमुपशमिता:। आङ्गलशासनकाले वैदेशिकचिकित्सापक्षपाति-भिरायुर्वेदस्य विषये भूयस्तरां विरोध इव प्रदर्शित:, एतत्कृते स्थाने स्थाने वैदेशिका: पक्षपातिनो दृढीकृता:, किन्तु तस्मिन्नपि समये वैद्यसम्मेलनादिभि: प्राचीनै: संस्थानैरेतस्य प्रतीकार: पूर्णतया कृत:। आयोगादि ('कमीशन’) द्वारा महामहतां वैद्यचिकित्सकानां साक्ष्यादिभिरायुर्वेदचिकित्साप्रणाली सेयं वैज्ञानिकी साधिता। साम्प्रतं तु शनै:शनैरनुभवेन विरोधिनोऽपि तामिमामङ्गीकुर्वते। विश्राम्यतु विस्तर:। सेयम् आर्षी चिकित्सापद्धति:, तदिदमायुर्वेदविज्ञानमपि, संस्कृतभारतीमिमामभिमण्डयतीति प्रत्यक्षं प्रेक्षावताम्।
नीतिशास्त्रं यद्धि भारतस्यैकं सुप्रसिद्धं वस्त्वस्ति, तदप्यस्यामेव भाषायामुद्भवम-वाप्तवत्। कौटिलीयमर्थशास्त्रं, यस्य खलु महत्त्वं स्वल्पादेव कालाज्जनैरवगतम्, एतामेव संस्कृतसरस्वतीमामण्डयतीति नास्ति किमेतस्या महत्त्वम्? कोऽपि भाषान्तरपक्षपाती किमद्याऽपि कौटिलीयनीतिशास्त्रसदृशं भाषान्तरे पुस्तकं दर्शयितुं प्रभवति? एतस्य गुणगौरवं वदन्त: पाश्चात्त्या: सुस्पष्टं समर्थयन्ते- ''यस्मिन् काले तदिदमर्थशास्त्रं निर्मितमभूत्तस्मिन् समये अन्येषु देशेषु एतावती सभ्यतैव नाऽऽसीत्प्रचरिता, दूरे तु निर्माणकथा।’’
एवमेकैकविषये संस्कृतभाषेयमनन्तानि पुस्तकानि धारयति। कियत्परिगण्यन्ता-मस्माभि:! नास्ति कोऽपि तादृशो विषयो यत्र खलु संस्कृतभाषाया: सुविस्तृता विचारलहरी न प्रवृत्ता भवेत्। महामहागभीरं दर्शनविषयमारभ्य, भोजननिर्माणम्, गृहनिर्माणम्, पटादिनिर्माणम्, इत्यादिव्यावहारिकविषयपर्यन्तं सर्वेष्वेव विषयेषु संस्कृतभाषायां पर:शता ग्रन्था: सन्ति। किं बहूना, कामशास्त्रेऽपि तत्तादृशानि पुस्तकानि सन्ति, येषां साम्यं भाषान्तरेषु नाऽद्यापि समुपलभ्यते। कामसूत्रं यद्धि वात्स्यायनमुनिप्रणीतमस्ति, तादृश: सूत्रग्रन्थ: किमस्ति भाषास्वन्यासु? पूर्वं तु सोऽयं विषय एवैतादृशो यत्साधारणतया न भवति सर्वत्रैव तद्बोध:। सति बोधे च न कोऽपि प्रामाणिकरूपेण तद्विषयान् शासनरूपेण प्रकाशयितुं प्रभवेत्। एतस्मिन् सर्वस्मिन् सत्यपि, वात्स्यायनसूत्राणां भाषा च तन्निबन्धनशैली च एवंविधाऽस्ति यत् प्राचीनान् सूत्रग्रन्थान् विहाय सा नोपलभ्यते कुत्रचित्।
इदानीं सुमधुरतमे संस्कृतभाषाया: काव्यविषये दीयतां दृष्टि:। निष्कर्षरूपेण तदिदं प्रवक्तुं शक्यते यत् कविताग्रन्था यावन्त: संस्कृतभाषायां सन्ति, तावन्तो नाऽन्यस्यां भूमण्डलस्य कस्याञ्चिदपि भाषायां विलोक्येरन्। अस्यां हि तत्तादृशान्युत्तमकाव्यानि व्यलिख्यन्त महाकविभिर्येषां साम्यमद्यापि देशान्तरेषु नाऽवाप्तुं शक्यते। महाकवे: कालिदासस्य, भवभूते:, सुबन्धो:, दण्डिन:, माघस्य, श्रीहर्षस्य, भारवे:, बिह्लणस्य, भर्तृहरे:, भल्लटस्य, भट्टे:, बाणस्य, जगद्धरस्य, त्रिविक्रमस्य, क्षेमेन्द्रस्य, जयदेवस्य, मयूरस्य, राजशेखरस्य, कविकर्णपूरस्य, पण्डितराजस्य जगन्नाथस्य, कस्य कस्य वा नामान्युल्लिख्यन्तां नाम? को वा ईदृश: सभ्यदेशो भविष्यति यत्र महाकवे: कालिदासस्य रसमयी वाणी नाऽऽदृता भवेत्? यदा ह्यनुवादरूपेण श्रीमत: कालिदासस्याऽभिज्ञानशाकुन्तलं पाश्चात्त्येषु प्रसृतं तदा तैरभिज्ञातम्- 'अहो भारतीया नाटकलेखप्रणाल्यां कीदृशा: पारगामिनोऽभूवन्’ इति। ये खलु संस्कृतरसाऽभिज्ञा: पाश्चात्त्या: सन्ति ते हि शाकुन्तलस्य प्रत्येकं भावम्, प्रत्येकपात्रस्य स्वभावप्रकाशनपद्धतिं च तथा प्रशंसन्ति यथा शाकुन्तलं सर्वनाटकमौलिभूतं स्पष्टं प्रमाणितं भवति।
पाश्चात्त्यपण्डितस्य गेटेमहादेयस्य शाकुन्तलविषये यत्किल मनीषितम्, यश्च हार्दिक: प्रमोद:, तदिदं सर्वं साम्प्रतिकै: शिक्षितमहाभागै: स्वयमवगतम्। न तस्याऽऽम्रेडनस्य भवेदत्राऽऽवश्यकता। गेटेमहाभागस्योक्ते: सङ्क्षिप्त: सार: 'पं. वासुदेव विष्णु मिराशी’ महोदयेन संस्कृतपद्ये सन्दृब्ध:। सोऽयमवगम्यतां संस्कृतपरिशीलकैर्नूनम्-
'वासन्तं कुसुमं फलं च युगपद् ग्रीष्मस्य सर्वं च यद्
यच्चाऽन्यन्मनसो रसायनमत: सन्तर्पणं मोहनम्।
एकीभूतमभूतपूर्वमथवा स्वर्लोक-भूलोकयो-
रैश्वर्यं यदि वाञ्छसि, प्रियसखे! शाकुन्तलं सेव्यताम्।।’
यच्चाऽन्यन्मनसो रसायनमत: सन्तर्पणं मोहनम्।
एकीभूतमभूतपूर्वमथवा स्वर्लोक-भूलोकयो-
रैश्वर्यं यदि वाञ्छसि, प्रियसखे! शाकुन्तलं सेव्यताम्।।’
सुदूरदूरतमानां पाश्चात्त्यानामेवंविधां सम्मतिं पठतो जनस्य मनसि संस्कृतभाषा-सम्बन्धिन्या: काव्यकलाया गौरवं मन्ये सुस्पष्टमभिव्यक्तं भवेत्। अस्तु,
संस्कृतभाषायां कवितायास्तावानादरोऽस्ति यावान् अन्यासु भाषासु नाऽवलोक्येत गवेषणेनाऽपि। अत्रत्या: कवय: कवितारचने तथा सिद्धहस्ता आसन् यथैते स्वल्पमप्यायासं न प्रतीयु: कठिनतमच्छन्दोनिबद्धानामपि कवितानां निर्माणे। अयं विशेष: केवलमस्यामेव भाषायामवलोक्येत यत् शब्दार्थबोधक: कोषोऽपि छन्दोनिबद्धायां कवितायामेवाऽस्ति। अनेन चायं लाभो भवति यत्- स्वल्पवयस्का: शिशवोऽपि छन्दोनिबद्धमिमं कोषं सुखेन घोषयन्ति। पुनश्च प्रौढदशायां शिशुहृदये सुदृढीकृतेनाऽनेन महान्तं लाभमनुभवन्ति। पारस्यभाषाकोषकारैर्यत् आत्मन: 'खालिकबारी’ प्रभृतय: कोषा: कवितायां समुपनिबद्धास्तदिदमस्माकमनुकरणेनैव, इति हि सर्वैरेवाऽन्वेषकै: सिद्धान्तितम्। अयमपि संस्कृतभाषायामेव विशेषो विलोक्येत यत् धर्मपुस्तकान्यपि कवितायामेव सन्ति। वेदा:, स्मृतय:, पुराणानि, सर्वाणीमानि कवितानिबद्धान्येव। प्रतिदिनं सायं प्रात: परमेश्वरं प्रति या प्रार्थना क्रियते, सापि कवितागुम्फितैव। एतस्या: कृते भारतीयानां सविधे संस्कृतभाषामयानि परश्शतानि'स्तोत्राणि’ सन्ति, भक्तिपरिप्लुतानि यानि परमेश्वरस्य सविधे आत्मनिवेदनमिव, कवितातत्त्वज्ञानामन्तिके काव्यचमत्कारकृते हार्दं मोदमपि प्रकामं प्रकटयन्ति। वैदिकानि स्तोत्राण्यारभ्य, आर्षाणि, देवप्रसादलब्धानि दिव्यचमत्कारसूचकानि (मूकपञ्चाशिका महिम्न: स्तोत्रलक्ष्मीसहस्रप्रभृतीनि), भगवच्छङ्कराचार्य-श्रीरामानुजाचार्य-श्रीमद्वल्लभाचार्यकृतान्येकानि स्तोत्राणि, समर्थकविनिबद्धानि 'स्तुति-कुसुमाञ्जलि’-'पादुकासहस्र’-'सूर्यशतक’ (मयूरभट्टकृत)-चण्डीशतक (बाण)-आलवन्दारु-स्तोत्र-कविकर्णामृत (लीलाशुककृत) पण्डितराजजगन्नाथकृत- 'करुणालहरी’-प्रभृतिपञ्चलहरी-जैनस्तोत्र-'भक्तामर’-'कल्याणमन्दिर’- प्रभृतीनि अनेकानि सन्ति, यानि तत्तत्समाजे प्रकामं प्रसिद्धानि।
समग्रेऽपि भूमण्डले यावत्य: सभ्यभाषा: प्रचरिता: सन्ति, न तासु सोऽयं विशेष: समवाप्येत इति गौरवपुरस्सरमहमद्य वच्मि।
एवमस्या: संस्कृतभाषाया: सुविस्तीर्णमस्ति साहित्यक्षेत्रम्। यस्या: खलु भाषाया: साहित्यं यादृग् विस्तीर्णं भवति, तावदेव भाषाया महत्त्वं स्थिरीभवतीति सर्वदेशीयानां विदुषां सिद्धान्त:। इदानीं कथयत! भूमण्डलेऽस्ति काचिदीदृशी भाषा यस्या: साहित्यं संस्कृतभाषाया: साहित्यं तुलयेत्? साहित्यस्य सर्वाण्यपि अङ्गानि सुपूर्णानि सन्त्यस्याम्। जगति ईदृश: कोऽप्यावश्यको विषयो नास्ति यस्य ग्रन्था: संस्कृतभाषायां नोपलभ्येरन्। अनन्ताऽनन्ता ग्रन्थास्तु नष्टा:, नाशिताश्च। नाधुनाप्युपलभ्यन्ते। केषाञ्चन नाममात्रमेव विदितम्, केषाञ्चित्तु नाममात्रमपि वयं न जानीम:। म्लेच्छराजानां शासनसमये बहून् वारानस्माकं पुस्तकालया: पावके अदाह्यन्त। बख्तियारखिलजी नामकस्य म्लेच्छराजस्य सेनानायको मुहम्मदबिनसामाख्य: उदन्तपुरी-बिहार-नालन्दा-बुद्ध-गयासु स्थितान् महापुस्तकालयानदाहयदिति स्पष्टमितिहासेषूपलभ्यते। एवं बहुवारं ग्रन्थरत्नानां लुण्ठने, ध्वंसने सत्यपि, यावन्त: खलु ग्रन्था: सन्त्यवशिष्टास्तावन्त एव भाषाया अस्या गौरवं प्रमाणयितुं पर्याप्ता: सन्ति।
मान्या: साहित्यानुरागिणो महाभागा:! एतदवधि संस्कृतभाषाया ये ये गुणा मया निवेदिता: तेषु अयमप्येकतमो विशेषोऽस्ति, यदस्यां भाषायां कस्या अपि भाषायाश्छन्दांसि निर्मीयन्तां नाम, परं न तानि विरूपाणि प्रतीयेरन्, प्रत्युत मनोहरतमानि जायन्ते समाजे। नैष गुण: सर्वासु भाषासु विलोक्येत। अधिकं किम्- अस्यां शताब्द्याम् उन्नेतश्चरमसीमानमधिरूढा, नवशिक्षितमहोदयानां विज्ञानसर्वस्वभूता, इंग्लिशभाषैव गृह्यतां पूर्वम्। अस्यां यदि संस्कृतभाषाया: शिखरिणीपुष्पिताग्रादीनिच्छन्दांसि निबन्धीयात्कश्चित्तर्हि किं तेषु, तच्छन्दोगतमाधुर्यमभिव्यङ्क्तुं कवि: सफलो भवेत्? परं संस्कृतभाषायां तादृश: प्रभावोऽस्तीति मया स्वयमनुभूय प्रोच्यते श्रीमतामग्रत:। बहव: पाश्चात्त्यप्रभावप्रभाविता नवशिक्षितमहाभागा: प्रवदन्ति यदियं संस्कृतभाषा मृतास्तीति। प्रकरणमिदं पृथक्। पृथगेवाऽस्य उत्तरसमारम्भ:। किन्तु लाञ्छनेऽस्मिन्-एकामिमामपि युक्तिं ते प्रददति यत्संस्कृतभाषा नियमादिभ्यस्तथा दृढा, जडीभूतेव सम्पन्ना, यदस्यां सामयिकसाहित्यनिर्माणसमुचिता मृदुता एव नि:शेषीभूता। यद्यस्यां हिन्द्यादिभाषासमादृतानिच्छन्दांसि निबन्धुं प्रयासश्चेत् क्रियेत्, तर्हि न शक्येत साफल्यं लब्धुम्।
एतदुपरि जयपुरराज्यस्य शिक्षाविभागस्य महामहति प्रकाश्यसम्मेलने, सर्वविधभाषापरिनिष्ठितानां विविधभाषाकवीनां समाजे, मया मध्येसभं प्रत्यक्षं प्रदर्शितं यत्संस्कृतभाषायामस्यां विश्वस्य कस्या अपि भाषाया: किञ्चिदपिच्छन्दस्तद्गतमाधुर्यनिर्वाहपूर्वकं सुखेनैव शक्यते निबन्धुम्, चेत्कविमहाभागस्य भाषाया उपरि भवेदधिकार:। मया हि प्रायो बहूनामेव भाषाणां छन्दांसि गीर्वाणभाषायां रचितानि। भारतीयेषु सर्वष्वेव विश्वविद्यालयेषु तद्विषयकविशिष्टविद्वद्भि: परीक्ष्य समर्थितानि च। अस्तु, विषयस्याऽस्य उपस्थापनं विषयान्तरं भवेत्। अतएव तद्भाषापरिनिष्ठितै: परीक्षितं ब्रज (हिन्दी) भाषायाश्छन्दोद्वयं 'वर्णिका’ रूपेण निवेद्य प्रघट्टकमिदमुपसंहारामि। अयं किल वसन्त: प्रारप्स्यमान:। अस्य हि वर्णनं न तावदप्रासङ्गिकम्, अरोचकं च भवेदिति विश्वसिमि-
'कोरकिता: किंशुका विकासमुपयातं किल
कर्णिकार-कुरबककाननं प्रकाशते
स्रुतसहकाररससीकरसुरभिसुखा:
सुमितसमीरभरा: सुभगमुपासते।
मञ्जुनाथ मानय मनोभूमहिमानमिमं
मारशरमुग्धतया मुनय उदासते।
वापीतट-वाटिका-विहङ्गम-विटपि-विथी-
वारिजवनेषु वै वसन्तविभा भासते।।’
कर्णिकार-कुरबककाननं प्रकाशते
स्रुतसहकाररससीकरसुरभिसुखा:
सुमितसमीरभरा: सुभगमुपासते।
मञ्जुनाथ मानय मनोभूमहिमानमिमं
मारशरमुग्धतया मुनय उदासते।
वापीतट-वाटिका-विहङ्गम-विटपि-विथी-
वारिजवनेषु वै वसन्तविभा भासते।।’
इदं हि घनाक्षरीछन्द:। अस्मिन् एकविंशद्वर्णा भवन्ति। रूपकघनाक्षरीच्छन्दो द्वात्रिंशद्वर्णानां भवति। परमिदानीं त्रयस्त्रिंशद्वर्णानां देवघनाक्षरीच्छन्दो निवेद्यते। एतस्य ग्रथनं हिन्दी (व्रज) भाषायामपि कठिनमेव परिगण्यते। शक्तिशालिन: कवय एव एतद् रचयितुं प्रबभूवु:। अत एव नाऽधिकमस्य प्रचार:। अस्मिन् हि अन्ते त्रयोऽपि वर्णा लघवो भवन्ति, तेषां च द्विरावृत्तिर्भवति। यथा व्रजभाषायाम्-
१. स्रुत:य: सहकार (आम्र) रस: (मकरन्द:), तस्य सीकरै: सुरभय: सुगन्धिता: अत एव सुखकारका:। परिमिता: पवनभरा: सुखं यथा स्यात्तथा उपासते। उदासते तपश्चयति: तटस्था भवन्ति।
''झिल्ली झनकारैं पिक चातक पुकारैं बन।
मोरनि गुहारैं उठैं जुगनूं चमकि चमकि।।’’
मोरनि गुहारैं उठैं जुगनूं चमकि चमकि।।’’
एवं किल हृस्ववर्णानामन्ते द्विरावृत्तिरन्यस्यां भाषायां कठिनतयैव सङ्ग्रथ्यते इति रचनाश्रमवेदिनो जानीयु:। परमस्माकममरभारती, इदं देवघनाक्षरीच्छन्दोऽपि सुखं ग्रथयितुं प्रभवति- यथा-
'वनविटपेषु भूरि शोभते कुसुमघटा
रोचते सरोजखण्डसुषमा सरसि सरसि
भाति सहकारे कलकोकिलकुहूनां रवो
मधुकरयूनां स्वन: सरसां पयसि पयसि।
मञ्जुनाथ रसिकमन:सुमदलक्ष्मीर्भाति
दृशमुपयाति कामचर्चाऽसौ रहसि रहसि
मन्ये मधुपर्वणि मनोभूर्मदजन्मोन्माद
मङ्कते विशङ्कं निजमुद्रया मनसि मनसि।।’
रोचते सरोजखण्डसुषमा सरसि सरसि
भाति सहकारे कलकोकिलकुहूनां रवो
मधुकरयूनां स्वन: सरसां पयसि पयसि।
मञ्जुनाथ रसिकमन:सुमदलक्ष्मीर्भाति
दृशमुपयाति कामचर्चाऽसौ रहसि रहसि
मन्ये मधुपर्वणि मनोभूर्मदजन्मोन्माद
मङ्कते विशङ्कं निजमुद्रया मनसि मनसि।।’
१. कलानां मधुरगभीराणां कोकिलशब्दानां ध्वनि:।
२. मनोभू: काम: मधु (वसन्त:) रूपे पर्वणि पुण्यसमये, मनसि मनसि प्रत्येकजनस्य चित्ते मदजन्मानम् उन्मादं निजमुद्रया अङ्कितं करोति।