भारतवैभवम्
भट्टश्रीमथुरानाथशास्त्रिणां संस्कृतकथासर्जनकालोऽभूत् १९०४ ई. त आरभ्य १९६४ ई. पर्यन्तम्। तेषां प्रारम्भिकं कथासाहित्यं १९०४ ई. त: आरभ्य १९३० ई. पर्यन्तमभूत् प्रमुखत: सृष्टं, किन्तु तदनन्तरं १९३०ई. त आरभ्य भारतस्वातन्त्र्यप्राप्तिं यावत्तै: संस्कृतसाहित्ये कथोपन्यास-निबन्ध-व्याख्या-टीका-काव्य-समीक्षा-विनोदवार्तादेर्या विपुला सृष्टिव्र्यधायि तस्या आकलनं विस्माययति पाठकान्। कालखण्डेऽस्मिन् काव्यानि, विमर्शग्रन्थादयश्च तु व्यलेखिषतैव, भारतेतिहाससम्बद्धा लघुकथा अपि भूयस्यां संख्यायां व्यलिख्यन्त। आसीत् स काल: स्वातन्त्र्यसङ्ग्रामस्य, राष्ट्रियान्दोलनस्य।
राष्ट्रियान्दोलनस्याङ्गभूतमवैकं कार्यमभूत्साहित्यकाराणां यत्ते भारतस्य महिमानं, स्वदेशस्य गरिमाणं प्रख्यापयन्ती रचना: प्रसारयेयुर्येन स्वातन्त्र्यसेनानीनां प्रोत्साहनं स्यात्। हिन्दीकविवर्यस्य राष्ट्रकवेर्मैथिलीशरणगुप्तस्य काव्यं ''भारतभारती’ इत्यस्य तथ्यस्य प्रमुखं निदर्शनं यत्र भारतस्य प्राचीनं गौरवमवर्णयत, पारतन्त्र्योत्तरवर्तिनी दुर्दशा चाप्यवर्णयत। भट्टपादैरस्मिन्नेव साहित्याभियाने भूयस्यो लघुकथा भारतेतिहासविषयिण्यो लिखिता:, पत्रपत्रिकासु प्रमुखत: संस्कृतरत्नाकरे च ता: प्रकाशमाप्ता:। बुद्धकालिकस्याङ्गुलिमालस्य कथामारभ्य मध्यकालीनानां राजपुत्राणां शौर्यं, स्वामिभक्तिं, राष्ट्रप्रेमाणं, देशस्य कृते समर्पणमात्मबलिदानं, पारदैशिकानामाक्रामकाणां च विरोधं कथावस्तुरूपेण प्रस्तुवन्तीनामनेकासां कथानां सृष्टिरस्मिन् स्वातन्त्र्यपूर्वकालेऽभूत्।
एतासां कथानां सङ्कलनं ग्रन्थाकारे प्रकाश्येत येन भारतेतिहासस्य महिमा प्रसरेदित्येषां वाञ्छाऽभूत्। सङ्कलनस्यास्य पूर्वभागरूपेण भारतस्य वेदकालादारभ्याधुनिककालपर्यन्तं या सामाजिकी स्थितिरभूत्तस्याश्चित्रणपरा काचन सामग्री अवश्यं प्रकाश्या, इति तेषां सुहृद्भि: परामृष्टम्। अत एव भारतस्य प्राचीनमितिहासं सङ्क्षिप्य वर्णयन्ती काचनेतिहासरूपरेखा तैर्विलेखितुमारब्धा यस्यां तत्कालीनस्य स्वातन्त्र्यसमरस्य, राष्ट्रियतान्दोलनस्य च भावभूमि: परोक्षरूपेण, प्रच्छन्नरूपेण चानुस्यूता स्यात्। आङ्ग्लानामियं मान्यता तदानीं शोधविद्वद्भि: प्रत्याख्याताऽभूद् यद् भारते खल्वार्या अन्यत: कस्माच्चन प्रदेशादागत्याक्रम्य च स्वराज्यं स्थापयामासु:, तदा वेदान् प्रणिन्युरित्यादि। आर्या भारत एवाभूवन्निति साधयन्तो बहवो ग्रन्था: प्राकाश्यन्त हिन्द्यामाङ्ग्लभाषायां च। भट्टमहोदयैरपि आर्याणां मूलतो भारतीयत्त्वं प्रख्यापयन्तीतिहासरूपरेखा व्यलेखि। अत्रैव वेदा दृष्टा महर्षिभिरिति तत्र प्रत्यष्ठापि। तदनन्तरं प्राक्तनेतिहासस्य, साम्राज्यानां च वैभवमवर्णयत, मध्यकालिकी स्थितिरप्यवर्णयत। कथं सोमनाथोपरि यवनाक्रमणमभूत्, कथं भारतीयानामैक्यस्याभावादाक्रामकैरस्माकं प्रदेशेषु विजयो लब्ध:, मोगलकाले दासत्वावधावपि कथं संस्कृतगिरा संस्कृतिश्चात्रत्यानां देशभक्तानामुत्सर्गवशात् साधनावशाच्चाक्षुण्णतया सातत्यमावहत्, सर्वमिदं सङ्क्षिप्य कतिपयनिबन्धरूपेण तैर्व्यलेख्यत।
एतस्या: इतिहाससामग्य्रा: प्रकाशनं पूर्वभागे भवेत्, उत्तरभागे चैतिहासिकीनां लघुकथानां समावेश: स्यात्, एवं चैको ग्रन्थो 'भारतवैभव’ नाम्रा (साहित्यवैभव-जयपुरवैभव-गोविन्दवैभवेति वैभवत्रय्या अनन्तरं चतुर्थं वैभवं प्रतिनिदधान:।) प्रकाश्येतेति तेषामभूदभिलाषो यत्तेषां जीवनकाले नाऽग्रहीन्मूर्तरूपम्। ऐतिहासिका: कथा: पत्रिकासु प्राकाश्यन्त किन्त्वितिहासरूपरेखाया भूयान् भागोऽप्रकाशित एवाऽस्थात्।
यदा मञ्जुनाथग्रन्थावल्या: प्रकाशनस्य सङ्कल्पो मूर्तं रूपं गृन्नभूत्, तदा मयाऽनुभूतं यदैतिहासिक्य: कथास्तु समग्रे कथासङ्ग्रहे प्रकाश्येरन्नेव यासु सामाजिक्य:, विनोदपरा:, प्रतीकात्मिका, ऐतिहासिका: सर्वविधा: कथा: समावेश्येरन् किन्तु भारतेतिहासस्य यानि यानि स्थलानि यान् यान् कालान् विशेषान् वा वर्णयन्तस्तेषां लेखा आसंस्तेषां 'भारतवैभव’ शीर्षकान्तर्गतमेव प्रकाशनमस्यां ग्रन्थावल्यां स्याच्चेत्तदौचित्यं स्पष्टं प्रतीयेत। अत: सर्वस्य तस्य भागस्य पुनरुद्धारं, सङ्कलनं संशोधनं च कृत्वा, प्रारम्भे राष्ट्रगौरववर्णनपरा गीती: प्रस्तूय (टीकया सहिता:) 'भारतवैभव’ शीर्षको ग्रन्थो ग्रन्थावल्या अस्मिन् भागे प्रस्तूयते। अत्र वेदकालिकी देशस्यास्य स्थिति:, वेदकालिक इतिहास:, अर्याणामादिदेशत्वेन भारतस्यैव स्थापना, मध्यकालिकी सङ्घर्षस्थिति:, देशभक्तानां प्रेरककथा:, भारतस्य समृद्धि:, शौर्यं च कथं विश्वविख्यातमभूदित्यादेर्वर्णनं समाविष्टमस्ति। यत्र कुत्रचन मध्यकालेऽपि कतिपयेषां मोगलसम्राजां भारतस्नेह उपवर्णित: प्रतीयेत। तस्य कारणमिदमेव यद् यदा राष्ट्रीयस्वातन्त्र्यसमरे हिन्दवो-मोगलाश्च (बहादुरशाहजफरादय:) ब्रिटिशसाम्राज्यस्य विरोधे ऐक्यं प्रादर्शयंतदा साहित्यकाराणामियं मानसिकी वृत्तिर्बहुधा प्रतिफलिताऽदृश्यत यदस्यां भूमौ ये केऽपि निवसन्ति ये चेमां स्वकीयां मातृभूमिं मन्यन्ते तेषां सर्वेषामेकमनस्कत्वं साहित्यस्य साध्यमस्तु। इत्थं हि 'भारतवैभव’स्य सर्जनप्रयोजनं स्वातन्त्र्यसमरावसरे भारतेतिहासगरिम्ण: प्रतिष्ठापनमभूदिति पाठका: परिचेष्यन्ति सामग्रीमिमां सकृदवलोक्यैव।
अस्यामेव पृष्ठभूमौ तदानीं विलिखितस्य 'भारतवैभव’स्य सम्पादने मया यत्र कुत्रचन टिप्पणीरूपेण स्वातन्त्र्योत्तरकालीना स्थितिरपि विलिखिताऽस्ति। एवंविधा टिप्पणी यदि दृश्येत चेत्पाठकास्तां सम्पादनकालिकीं स्थितिमेव परिज्ञास्यन्तीति किमधिकनिवेदनेन।
(देवर्षिकलानाथशास्त्री)
क) भारतीयं गौरवम्
ख) भारतस्य सीमा
ग) आर्याणामावास:
घ) मध्यकाल:
ङ) सोमनाथे यवनाक्रमणम्
च) नादिरशाहस्याक्रमणम्
छ) मोगलकाल:
ज) स्वातन्त्र्यात् पूर्वं भारतस्य प्रान्ता:
झ) आर्यावर्तस्य राष्ट्रिया एकता
भारतवैभवम्
(निबन्धसङ्ग्रहः)
उपोद्घात:
मातृभूमङ्गलम्
भारत-वसुन्धरा
दोहा- हिमगिरि-छत्रतले त्रिदश-नदी-हारि सुखकारि।
जलधि-धौतचरणं भजे भारतमनय-निवारि।।१।।
जलधि-धौतचरणं भजे भारतमनय-निवारि।।१।।
कुण्डलिया- भारत-जननी-ज्योतिषा जगती जयमुपयाति।
ज्ञानाऽऽलोकलवादयं लोक: सभ्यो भाति।
लोक: सभ्यो भाति भौतिकं ज्ञानं फलयन्।
आध्यात्मिकविषये तु मौनमुद्रामिव कलयन्।
सत्यं ज्ञानमनन्तमित्यहो लोकध्वननी।
भुवनतले निखिलेऽपि भासते भारतजननी।।२।।
ज्ञानाऽऽलोकलवादयं लोक: सभ्यो भाति।
लोक: सभ्यो भाति भौतिकं ज्ञानं फलयन्।
आध्यात्मिकविषये तु मौनमुद्रामिव कलयन्।
सत्यं ज्ञानमनन्तमित्यहो लोकध्वननी।
भुवनतले निखिलेऽपि भासते भारतजननी।।२।।
घनाक्षरी- मानव-समाजे सभ्यताया: साधयित्री सेय-
ममितमगाधज्ञानराशि-जनयित्रीयम्।
विश्वमण्डलेऽस्मिन्निखिलेऽपि प्रभवित्री बभौ
भरत-भगीरथादि भूपोद्भावयित्रीयम्।
श्रीमद्-राम-कृष्ण-पदपङ्कजै: पवित्रीकृता
भीष्मप्रमुखाणां धर्मधीराणां सवित्रीयम्।
वीराणां वरित्री चिन्तनीयचरितानां चारु
चेतसि चरित्री भाति भारतधरित्रीयम्।।३।।
ममितमगाधज्ञानराशि-जनयित्रीयम्।
विश्वमण्डलेऽस्मिन्निखिलेऽपि प्रभवित्री बभौ
भरत-भगीरथादि भूपोद्भावयित्रीयम्।
श्रीमद्-राम-कृष्ण-पदपङ्कजै: पवित्रीकृता
भीष्मप्रमुखाणां धर्मधीराणां सवित्रीयम्।
वीराणां वरित्री चिन्तनीयचरितानां चारु
चेतसि चरित्री भाति भारतधरित्रीयम्।।३।।
विद्रुमेन्द्रनीलमणि-मुक्ता-पद्मरागभृता
गारुत्मत-गर्भि-हारि-हीरक-युगन्धरा।
गारुत्मत-गर्भि-हारि-हीरक-युगन्धरा।
१. तूलिकाभि: 'लिहाफ, सौड़, गद्दा’ प्रभृतिभिर्निवीता आच्छन्ना:। २. शिशिरर्तौ शीतले पवने प्रवाति प्रवहति सति वह्नितापा रोचन्ते इत्यर्थ:। ३. गिरिभि: स्थेयसी सुस्थिरा पर्वतबहुलेत्यर्थ:।
रजत-हिरण्य-लोह-ताम्र-हरिताल-रङ्ग
हिङ्गुल-गिरिज-गन्धकाद्याकरबन्धुरा।
महित-महार्घ-मर्मराऽऽकरोऽयमेव जने
काननघनेषु सेयं सूयमानसिन्धुरा।
सुरभि-सुगन्ध-निलयेन मलयेन भृता
भूमि-वलयेऽस्मिन् भाति भारतवसुन्धरा।।४।।
हिङ्गुल-गिरिज-गन्धकाद्याकरबन्धुरा।
महित-महार्घ-मर्मराऽऽकरोऽयमेव जने
काननघनेषु सेयं सूयमानसिन्धुरा।
सुरभि-सुगन्ध-निलयेन मलयेन भृता
भूमि-वलयेऽस्मिन् भाति भारतवसुन्धरा।।४।।
नाना-वृक्षवल्लर्योऽत्र रोहन्ते वसन्ते, ततो
ग्रीष्मे दिग्दिगन्ते रश्मिमाली दीप्तिमास्तृणाति।
परित: प्रभूत-भूमिकर्षा भान्ति वर्षा यत्र
शरदि शशाङ्करुक्-प्रकर्षाद् भूर्मुदं दधाति।
तूलिकानिवीता यत्र हेमन्ते रमन्ते जना:
शिशिरे स्वदन्ते वह्नितापा: पवने प्रवाति।
श्रेयसी समग्रसमयेषु गिरिस्थेयसीयं
प्रेयसी प्रकृतिदेव्या भारतधरित्री भाति।।५।।
ग्रीष्मे दिग्दिगन्ते रश्मिमाली दीप्तिमास्तृणाति।
परित: प्रभूत-भूमिकर्षा भान्ति वर्षा यत्र
शरदि शशाङ्करुक्-प्रकर्षाद् भूर्मुदं दधाति।
तूलिकानिवीता यत्र हेमन्ते रमन्ते जना:
शिशिरे स्वदन्ते वह्नितापा: पवने प्रवाति।
श्रेयसी समग्रसमयेषु गिरिस्थेयसीयं
प्रेयसी प्रकृतिदेव्या भारतधरित्री भाति।।५।।
सरसरसालमुकुलाऽग्रभ्रमद्भृङ्गकुला
फुल्लद्बकुलाऽसौ संचकास्ति वञ्जुलाऽवनी
दीव्यद्दक्षिणस्यां परिणद्ध्पूगपाटलायां
सिन्धुमेखलायां मिलदेला मलयाऽवनी।
सेयमुत्तरस्यां मृगनाभिसौरभायां मिल-
द्द्राक्षामञ्जुकुञ्जा द्युतिपुञ्जा कुङ्कुमावनी
फुल्लद्बकुलाऽसौ संचकास्ति वञ्जुलाऽवनी
दीव्यद्दक्षिणस्यां परिणद्ध्पूगपाटलायां
सिन्धुमेखलायां मिलदेला मलयाऽवनी।
सेयमुत्तरस्यां मृगनाभिसौरभायां मिल-
द्द्राक्षामञ्जुकुञ्जा द्युतिपुञ्जा कुङ्कुमावनी
४. फुल्लन्तो बकुला: ''मौलिसिरीति ख्याता वृक्षा यस्याम्, आम्र-बकुलादि वृक्षा अस्यामेव रोहन्ते इत्याशय:। ५. वञ्जुलानामशोकानाम् अवनी भूमि:। ६. परिणद्धा विशालीभूता: ( सर्वत: प्रसृता इत्याशय:) पूग (सुपारी) , पाटला ('पाटलि, अमोद्या’ इत्यादि पर्यायो वृक्षविशेष:) प्रभृतयो यस्यां सा ( तस्यां दक्षिणायां दिशि)। ७. समुद्रो मेखलास्थानीय: पर्यन्तभागो यस्या:। ८. केशरभूमि:, केशरा: काश्मीरे एव भवन्तीति साभिमानमाह विह्लण:- 'सहोदरा: कुङ्कुमकेसराणां भवन्ति नूनं कविताविलासा:’ इत्यादि। ९. चम्पकादीनाम् उद्भेद: विकासो यस्याम्। कमल-केतकादीनामनन्तकुसुमानामामोदं सौरभं वहन्ती भारतमेदिनी।
१०. सर्वत: पूर्वं विकासं सभ्यताम्। ११. ज्ञानबीजम् उवाप उप्तवती। १२. जातिदेशनिर्विशेषं सकललोकानां कल्याणं भावयन्त्या भारतधराया एव सत्या विश्वमैत्रीत्यर्थ:। १३. जगति एकमात्रा धैर्यवती। १४. अस्या एव सकाशादार्या विनिर्गम्य यूरोपादिदेशेषु जग्मुरिति आर्याणामादिदेशत्वादार्यभूरियम्।
श्रीमत्या: प्रकृत्या: स्फुरदुज्ज्वलविलासवनी
पुण्यपावनीयं भुवि भाति भारतावनी।।६।।
पुण्यपावनीयं भुवि भाति भारतावनी।।६।।
कमलकेतकीकुन्दकुटजकुरबक-ततितुष्टा
मिलन्मालती-मधुकमल्लिकामाधविजुष्टा।
एलालकुचलवङ्ग-पूगपाटल-परिणद्धा
शालशिरीषाशोकतिलक-तरुणी-परिरब्धा।
दलदतिमुक्तकनवमालिकायूथिचम्पकोद्भेदिनी
इयमनवधिकुसुमाऽऽमोदिनी भव्या भारतमेदिनी।।७।।
मिलन्मालती-मधुकमल्लिकामाधविजुष्टा।
एलालकुचलवङ्ग-पूगपाटल-परिणद्धा
शालशिरीषाशोकतिलक-तरुणी-परिरब्धा।
दलदतिमुक्तकनवमालिकायूथिचम्पकोद्भेदिनी
इयमनवधिकुसुमाऽऽमोदिनी भव्या भारतमेदिनी।।७।।
आर्यवसुमती सर्वत: प्रथमविकासमवाप।
तत: सकललोकालये संविद्बीजमुवाप।।
संविद्बीजमुवाप सकलकल्याणं विदती।
जगति सभ्यतां दधौ विश्वमैत्रीमवदधती।।
मानवताद्युतिजागराय जगदेकधृतिमती।
द्वीपे द्वीपे दीप्तिमदादियमार्यवसुमती।।८।।
तत: सकललोकालये संविद्बीजमुवाप।।
संविद्बीजमुवाप सकलकल्याणं विदती।
जगति सभ्यतां दधौ विश्वमैत्रीमवदधती।।
मानवताद्युतिजागराय जगदेकधृतिमती।
द्वीपे द्वीपे दीप्तिमदादियमार्यवसुमती।।८।।
वीरनृपसङ्घे भूरि शृङ्गारं, विरोधिगणे
वीरं, प्राणिमात्रे किं च करुणं हृदा दधाति
अद्भुतमचिन्त्यशक्तौ, हास्यं वीरमानिगणे,
भीषणभयानकं विधर्मिषु तु याऽनुयाति।
बीभत्सं विरुद्धयुद्धमांसवसापृक्ते रणे
रौद्रं कितवेषु, शान्तमन्त:करणे पुनाति
मह्यतां मदीयं साधुसाहित्योदयीयं यशो
यद् रसमयीयं भूरि भारतमही यं पाति।।९।।
वीरं, प्राणिमात्रे किं च करुणं हृदा दधाति
अद्भुतमचिन्त्यशक्तौ, हास्यं वीरमानिगणे,
भीषणभयानकं विधर्मिषु तु याऽनुयाति।
बीभत्सं विरुद्धयुद्धमांसवसापृक्ते रणे
रौद्रं कितवेषु, शान्तमन्त:करणे पुनाति
मह्यतां मदीयं साधुसाहित्योदयीयं यशो
यद् रसमयीयं भूरि भारतमही यं पाति।।९।।
अचिन्त्यशक्तौ अपरिसीमायाम् अध्यात्मशक्तौ। विरुद्धयुद्धे. दूरादागतानां दस्यूनां मांसवसाभिव्र्याप्ते संग्रामे। मह्यताम्. मम उत्तमसाहित्यसंबन्धि यश: अवश्यं मह्यतां प्रशस्यताम् यत: नवरसमयी इयं भारतमही यम् (अर्थात् माम्) पाति। अन्यदेशवासिकवीनामपेक्षया साहित्य-विषये ममैव यश: प्रशंसनीयं यस्य मे रक्षिका भारतभू: अपि नवरसमयी। नवरसभावुकस्य कवेर्यदि रक्षकोपि नवरसप्रचुर: स्यात्तदा कथं नास्य भागधेयं श्लाघ्य-मित्याशय:।।९।।
शिखरिणी- नरेन्द्रे शृङ्गारं, रिपुषु बत वीरं च करुणं
व्यथार्ते, योगे चाऽद्भुतमुरसि हास्यं, भयभरम्।
अधर्मे बीभत्सं द्विषदसृजि, रौद्रं ह्यरिगणे
मुनौ शान्तं यान्ती नवरसमयी भारतमही।।१०।।
व्यथार्ते, योगे चाऽद्भुतमुरसि हास्यं, भयभरम्।
अधर्मे बीभत्सं द्विषदसृजि, रौद्रं ह्यरिगणे
मुनौ शान्तं यान्ती नवरसमयी भारतमही।।१०।।
नरेन्द्रे शृङ्गारं यान्तीत्यादि: सर्वत्रान्वय:।।
घनाक्षरी- विश्वमण्डलेऽस्मिन् गुरुगौरवं वहन्ती सेय-
मार्यवैजयन्ती जगन्मौलौ परित: प्रवातु
सर्वतोऽपि पूर्वं मानवीयसभ्यताया गुरु-
र्देशो दत्तसभ्यतोपदेशो मङ्गलं दधातु।
नित्यं नीतिनैपुणेन नीचैर्नमयन्ती शठान्
दूरं दमयन्ती भटान् प्रेमभरात्संपृणातु
पूर्णपरतन्त्रतामपास्याऽमोघमन्त्रतया
सर्वत: स्वतन्त्रतया भारतविभा विभातु।।१२।।
घनाक्षरी- विश्वमण्डलेऽस्मिन् गुरुगौरवं वहन्ती सेय-
मार्यवैजयन्ती जगन्मौलौ परित: प्रवातु
सर्वतोऽपि पूर्वं मानवीयसभ्यताया गुरु-
र्देशो दत्तसभ्यतोपदेशो मङ्गलं दधातु।
नित्यं नीतिनैपुणेन नीचैर्नमयन्ती शठान्
दूरं दमयन्ती भटान् प्रेमभरात्संपृणातु
पूर्णपरतन्त्रतामपास्याऽमोघमन्त्रतया
सर्वत: स्वतन्त्रतया भारतविभा विभातु।।१२।।
आर्याणां वैजयन्ती राजपताका जगतां मस्तके प्रवातु प्रस्फुरतु। दत्त: सभ्यताया उपदेशो येनेदृश:। संपृणातु लोकान् प्रीणयतु 'पृ पालनपूरणयो:’ (भारत विभा)। पूर्वां परतन्त्रताम् अपास्य दूरीकृत्य। अमोघ: (अनिष्फल:) मन्त्र: मन्त्रणा यस्य सोऽमोघमन्त्र: तत्तया राष्ट्रशासने मन्त्रणायास्तत्साफल्यस्य च सुभृशमपेक्षेति सूचितम्।१२
चित्तौड़दुर्गमहिमा
वीरक्षत्रियाणां रणकौशलधरेषु यत्र
तुङ्गशिखरेषु काप्यपूर्वविभा भ्राजते
प्रतिपदमेव यत्र साँगा-गोरा-बादलादे-
र्महाराणाप्रतापस्य प्रतापभा विभासते।
क्षत्रकुलरीते राजवंशदृढनीतेरिद-
मार्यसंस्कृतेश्च रक्षाकवचं प्रकाशते
विविधविधर्मिगण-चित्तोडं स्वदेशिजन-
चित्तोढं तदेतद्दुर्गचित्तौडं विराजते।
वीरक्षत्रियाणां रणकौशलधरेषु यत्र
तुङ्गशिखरेषु काप्यपूर्वविभा भ्राजते
प्रतिपदमेव यत्र साँगा-गोरा-बादलादे-
र्महाराणाप्रतापस्य प्रतापभा विभासते।
क्षत्रकुलरीते राजवंशदृढनीतेरिद-
मार्यसंस्कृतेश्च रक्षाकवचं प्रकाशते
विविधविधर्मिगण-चित्तोडं स्वदेशिजन-
चित्तोढं तदेतद्दुर्गचित्तौडं विराजते।
***
अहो! श्रीभारताभिख्योऽतिमुख्यो दिव्यदेशोऽयम्।
अपि ध्यायेत् सुरेशो यं स भूमे: सन्निवेशोऽयम्।।१।।
अपि ध्यायेत् सुरेशो यं स भूमे: सन्निवेशोऽयम्।।१।।
जगज्जीवातवे जाताऽनुयाता जाह्नवी यस्मिन्।
प्रसर्पत्पुण्यपीयूषप्रवेशो भूप्रदेशोऽयम्।।२।।
प्रसर्पत्पुण्यपीयूषप्रवेशो भूप्रदेशोऽयम्।।२।।
त्रिलोकाऽधीश्वरो यस्मिन् हरो वाराणसीवासी।
प्रहासी स्वर्गसौख्यानां, विभासी भूमिवेशोऽयम्।।३।।
प्रहासी स्वर्गसौख्यानां, विभासी भूमिवेशोऽयम्।।३।।
हरिर्यस्मिन् बहून्-वारानुरीचक्रेऽवतारांस्तान्।
ध्रुवं मन्ये महिम्ना नाकलोकस्यापदेशोऽयम्।।४।।
ध्रुवं मन्ये महिम्ना नाकलोकस्यापदेशोऽयम्।।४।।
अमुष्मिन् वद्र्धिताऽऽनन्दो मुकुन्दो मोदमातेने।
तदीयाऽलङ्घ्यलीलाभिर्विलीनाऽलीकलेशोऽयम्।।५।।
तदीयाऽलङ्घ्यलीलाभिर्विलीनाऽलीकलेशोऽयम्।।५।।
ध्रियन्तेऽस्मिन्निधिप्रख्या: सुविख्याता अमी वेदा:।
भृशं भूमण्डले ख्यातोऽवदातो यन्निदेशोऽयम्।।६।।
भृशं भूमण्डले ख्यातोऽवदातो यन्निदेशोऽयम्।।६।।
अमुष्मिन्नेव सर्वादौ दिदीपे ज्ञानदीपोऽयम्।
सदा ह्माध्यात्मविद्यायां बुधानां श्मश्रुकेशोऽयम्।।७।।
सदा ह्माध्यात्मविद्यायां बुधानां श्मश्रुकेशोऽयम्।।७।।
हिमाद्रि: प्रोन्नते मौलौ चकासच्चामरं धत्ते।
उदन्वद्धौतपादाग्रो नरेशानां नरेशोऽयम्।।८।।
उदन्वद्धौतपादाग्रो नरेशानां नरेशोऽयम्।।८।।
विराजत्कुङ्कुमक्षेत्रो विजैत्रोऽशेषदेशानाम्।
स वै काश्मीरदेशोऽस्मिन् समिन्धे स्वर्गशेषोऽयम्।।९।।
स वै काश्मीरदेशोऽस्मिन् समिन्धे स्वर्गशेषोऽयम्।।९।।
कलाविद्यागृहं यस्मिन् जयाऽऽद्यं तत्पुरं रम्यम्।
स धीमान् मानसिंहाऽऽख्योऽधितिष्ठत्यम्बरेशोऽयम्।।१०।।
स धीमान् मानसिंहाऽऽख्योऽधितिष्ठत्यम्बरेशोऽयम्।।१०।।
अमुष्मिन्नुष्णशीताऽऽद्या: प्रतीता: स्युर्यथाकालम्।
अहो क्रीडास्थलं देव्या: प्रकृत्या: पुण्यवेशोऽयम्।।११।।
अहो क्रीडास्थलं देव्या: प्रकृत्या: पुण्यवेशोऽयम्।।११।।
रसालाऽक्षोटनारङ्गाऽम्बुजद्राक्षेक्षुजम्बीरम्।
फलं यस्मिन्नलं सिध्येत्स कश्चिद्भूविशेषोऽयम्।।१२।।
फलं यस्मिन्नलं सिध्येत्स कश्चिद्भूविशेषोऽयम्।।१२।।
भृतो नानाविधैर्धान्यै: किलान्यैर्यानि गीयन्ते।
अहो सर्वानुजीव्याऽनन्तत्सम्पत्संप्रवेशोऽयम्।।१३।।
अहो सर्वानुजीव्याऽनन्तत्सम्पत्संप्रवेशोऽयम्।।१३।।
खनिभ्यो हीरकं सूते प्रभूतेलासनाथोऽयम्।
ध्रुवं नानाऽऽकराऽधीशो धनेशानां धनेशोऽयम्।।१४।।
ध्रुवं नानाऽऽकराऽधीशो धनेशानां धनेशोऽयम्।।१४।।
हिमाद्रिर्मस्तकं, बाहू इमौ पूर्वाऽपरौ देशौ।
हृदा ध्येयाऽङ्गसंस्थानं दधानोऽस्मत्परेशोऽयम्।।१५।।
हृदा ध्येयाऽङ्गसंस्थानं दधानोऽस्मत्परेशोऽयम्।।१५।।
हिमाद्रौ मस्तके गङ्गा, भुजङ्गा भूरि भासन्ते।
सदा धर्माऽनुयातोऽङ्गेवदातो व्योमकेशोऽयम्।।१६।।
सदा धर्माऽनुयातोऽङ्गेवदातो व्योमकेशोऽयम्।।१६।।
कियद् गीतानि गायामो न तृप्यामो गुणै: किन्तु।
करेणाऽऽपाद्यतेदानीं स्वदेशो हा! विदेशोऽयम्।।१७।।
करेणाऽऽपाद्यतेदानीं स्वदेशो हा! विदेशोऽयम्।।१७।।
सखे मे मञ्जुनाथाऽलं मुधा मा यापये: कालम्।
कदाचित् संस्कृतोपेतो न रोचेतोपदेशोऽयम्।।१८।।
कदाचित् संस्कृतोपेतो न रोचेतोपदेशोऽयम्।।१८।।
यं (भूसन्निवेशम्) इन्द्रोऽपि ध्यायेत्स भूमे: सन्निवेश: अयमस्ति।।१।। जगतां जीवनौषधाय जाता जाह्नवी यस्मिन्देशेऽनुयाता, अत एव प्रसर्पत: पुण्यरूपपीयूषस्य प्रवेशो यस्मिन्नीदृशोऽयं भूप्रदेश:।।२।। उरीचक्रे स्वीचकार। महिम्ना स्वर्गलोकस्यापि अपदेश:। विलीन: अलीकस्य मिथ्यापराधादेर्लेश: यस्मिन्।।५।। निधिप्रख्या: निधिसदृशा:। येषाम् (वेदानाम् अवदात: पवित्रो निदेश: (आज्ञा) सर्वत्र ख्यात:।।६।। श्मश्रुकेश: (कीर्तिरक्षणे श्मश्रुसदृश: 'मूछों के बाल’)’।।७।। हिमालय: अस्य मस्तके चकासत् देदीप्यमानं चामरं धारयति। उदन्वता (समुद्रेषु) धौतं पादाग्रं यस्य समुद्रपर्यन्तं विस्तृत इत्यर्थ:। अत एव चामरादिभिश्चिह्नैरयं राज्ञामपि राजा।।८।। विराजन्ति कुङ्कुमस्य (केशरस्य) क्षेत्राणि यस्मिन्। स्वर्गशेष: ( स्वर्गसदृश:) काश्मीरदेश: अस्मिन् (भारते) समिन्धे प्रकाशते।।९।। कलानां विद्यानां च गृहं जयाद्यं पुरं जयपुरम्। अम्बरेश: आम्बेरराज्याधीश्वर:।।१०।। रसालाऽक्षोटेत्यादि समाहारद्वन्द्व:। अक्षोट 'अखरोट’। भूविशेष: विशिष्टा भू:।।१२।। यानि धान्यानि अन्यदेशीयैर्बहिर्नीयन्ते। अत एव सर्वैरनुजीव्यानाम् अनन्तानां सम्पदां सम्प्रवेशो यस्मिन्नीदृशोऽयम्।।१३।। प्रभूतेला. प्रभूता या इला (पृथ्वी) तया सनाथ: विस्तृत इत्यर्थ:। नाना आकराणां (स्वर्ण-हीरकादिखनीनाम्) ईश: स्वामी।।१४।। हृदा हृदयेन ध्येयम् अङ्गसंस्थानम् (अवयवसन्निवेश:) यस्य ईदृश: अस्माकं परमेश्वर:। उपास्यबुद्धया हृदये ध्येय इत्यर्थ:।।१५।। अयं भारतदेशो व्योमकेश: (शिव:) अस्ति, तदेवाऽऽह-हिमाद्रिरुपे मस्तके गङ्गा, भुजङ्गा: (मर्मदंशका: बहिर्देशेभ्य आगता:) भूरि भासन्ते प्रकाशन्ते। अयं धर्मेण मुक्त:, अङ्गे पवित्रोऽस्तीति शिवरूपकम्। शिवपक्षे तु- धर्मेण वृषेण अनुयात:, अङ्गे अवदात: श्वेत: अन्यत् स्पष्टम्।।१६।। स्वदेशोऽपि स्वहस्तेन विदेश: आपाद्यत अक्रियत। वयं तथा विशृङ्खला यथा स्वदेशोऽपि विदेशवत् पारतन्त्र्य-दु:खानुभावको जात इत्याशय:।।१७।। संस्कृतभाषानिर्मित: उपदेश: न रोचेत।।१८।।
माननीयमहोदया:। शृणुयात मे विनयं न किम्।
सम्प्रदायस्यथ नम्रनीतिनिवेदने समयं न किम्?।।१।।
सम्प्रदायस्यथ नम्रनीतिनिवेदने समयं न किम्?।।१।।
श्रीमतामयमेव देश उपागतो गुरुतां चिरात्।
यद्बलेन हि दैशिकी जनता गताऽभ्युदयं न किम्?।।२।।
यद्बलेन हि दैशिकी जनता गताऽभ्युदयं न किम्?।।२।।
आर्यजातिरियं महामहिता सतामुदये हिता।
ज्ञानगौरवतो जगाम जनेषु सा विनयं न किम्?।।३।।
ज्ञानगौरवतो जगाम जनेषु सा विनयं न किम्?।।३।।
तामुदग्रतमाल-ताल-रसाल-सालभृतां भुवम्।
आर्यदेशभवामुपास्य नवा अभूम वयं न किम्?।।४।।
आर्यदेशभवामुपास्य नवा अभूम वयं न किम्?।।४।।
पूर्वगौरवमुत्सृजन् नवसभ्यतामभिमण्डयन्।
भावयन्तु भवत्समाज उपागतोऽपचयं न किम्?।।५।।
भावयन्तु भवत्समाज उपागतोऽपचयं न किम्?।।५।।
ज्ञानगौरवमण्डितं बत धर्मगौरवमेव न:।
आर्यदेशमुपेयुषां प्रजुहाव लोकचयं न किम्?।।६।।
आर्यदेशमुपेयुषां प्रजुहाव लोकचयं न किम्?।।६।।
विद्यया सह धम्र्यभावमवेक्ष्य पूर्वजनस्य न:।
सर्व एव हि सभ्यदेशजनो दिदेश जयं न किम्?।।७।।
सर्व एव हि सभ्यदेशजनो दिदेश जयं न किम्?।।७।।
नूनमद्य परस्पर सहयोगतो, दृढनिश्चयात्।
प्राप्नुयाज्जनता नितान्तमियं महाविजयं न किम्?।।८।।
प्राप्नुयाज्जनता नितान्तमियं महाविजयं न किम्?।।८।।
वीक्ष्यतां नयने प्रसार्य-जगद्गति: किल किंमुखा?
स्पद्र्धया प्रसरज्जवाद् बत धास्यते विलयं न किम्?।।९।।
स्पद्र्धया प्रसरज्जवाद् बत धास्यते विलयं न किम्?।।९।।
अस्तु, सर्वमपैतु, सारमुदेतु न: सारस्वतम्।
विद्यया तिमिरेऽपयाति वहामहे सुनये न किम्?।।१०।।
विद्यया तिमिरेऽपयाति वहामहे सुनये न किम्?।।१०।।
मञ्जुनाथनिवेदनेन भवेदनेन न किं फलम्?
दुन्दुभौ ध्वनितोऽपि याति रव: श्रुतेर्विषयं न किम्?।।११।।
दुन्दुभौ ध्वनितोऽपि याति रव: श्रुतेर्विषयं न किम्?।।११।।
'एतद्देशप्रसूतस्य सकाशादग्रजन्मन:। स्वं स्वं चरित्रं शिक्षेरन् पृथिव्यां सर्वमानवा:।।’ इति चिरात्प्रथितम्। दैशिकी भारतदेशभवा जनता।।२।। भूतदयावशात् सर्वेषाम् उदये कल्याणे हितकारिणी।।३।। उदग्रा: उन्नता: ये तमालादयो वृक्षा:, तै: भृतां पूर्णाम्। उपास्य आश्रित्य सर्वविधै: सुखै:, उत्साहेन च नवा इव बलोत्साहशालिन: वयं न अभूम? अपितु अवश्यं सुखिनो जाता:।।४।। किन्तु वैदेशिकशासनजातया नवशिक्षया आर्यसभ्यतागतं महत्त्वं विस्मरन्, नवां वैदेशिकसभ्यतां च भूषयन् अयं भवत्समाज: अपचयं क्षयं न उपागत:? पूर्वगौरवविस्मरणेन आत्मदुर्बलतया क्षयमेव प्राप्तवानित्याशय:।।५।। अस्माकं धार्मिकगौरवेण साकम् आध्यात्मिक-ज्ञानस्य गौरवमप्यतुलमासीत्। अत एव अस्मिन् आर्यदेशे चीन-तिब्बत-नेपाल प्रभृतिभ्यो विद्याध्ययनार्थं लोकसमूहम् आजुहाव आकारयामास-ह्वेन्साङ्ग प्रभृतयो यात्रिण: कष्टान्यपि सहित्वा समाजग्मु:।।६।। अत एव विद्यया सह भगवतो बुद्धस्य, अन्येषां च धार्मिकं भावं समीक्ष्य अन्येषां सर्वेषामपि तुलनायाम् आध्यात्मिकमुत्कर्षमवलोक्य सर्वेषामपि देशानां जना अत्र विनयेन समागच्छन्त: अस्माकं पूर्वजानां विजयं दिदिशु:, सभ्यदेशा अस्माकं जयघोषं चक्रिरे।।७।। अद्यापि सहयोगेन विजयं प्राप्रुयादेव।।८।। अद्य जगत: प्रवृत्ति: कीदृशीति दृश्यताम्। यदि परस्परवास्माभि: कृता स्पर्धा तर्हि तूर्णमेव प्रखरजवेन प्रलय: स्यात्।।९।। यत्किमपि स्यात् वयं तु सारस्वतप्रतिभया विद्यया च तिमिरापनयनं करिष्याम:। तेनैव सन्नीति: प्राप्स्यते।।१०।। स्पष्टमिमं दुन्दुभिध्वानं शृणुत फलं स्यादेव।।११।।
हे गणेयगुणावधे करुणानिधे ह्यवधीयताम्।
दृष्टिरुज्जवलभा-रते तव भारते विनिधीयताम्।।१।।
दृष्टिरुज्जवलभा-रते तव भारते विनिधीयताम्।।१।।
एष भूवलये विशेषविधोऽस्ति देशवरश्चिरात्।
सर्वसभ्यसमाज एष विभाति यद्रमणीयताम्।।२।।
सर्वसभ्यसमाज एष विभाति यद्रमणीयताम्।।२।।
किं नु कोपि निदर्शयेद् बत देशमीदृशमुन्नतम्।
यस्य वाङ्मयमावहेन्निगमागमैस्तुलनीयताम्।।३।।
यस्य वाङ्मयमावहेन्निगमागमैस्तुलनीयताम्।।३।।
यत्र कुङ्कुमकेसरा: कलयन्ति कामपि सुच्छविम्।
देश ईदृश ईक्ष्यते किमिहाऽपरोऽपि? विचीयताम्।।४।।
देश ईदृश ईक्ष्यते किमिहाऽपरोऽपि? विचीयताम्।।४।।
रत्नराशिरलुण्ठि लुण्ठनतत्परैर्बहुधा परै:।
किन्तु साम्प्रतमप्यसौ वहते परां महनीयताम्।।५।।
किन्तु साम्प्रतमप्यसौ वहते परां महनीयताम्।।५।।
कूटनीतिनियन्त्रणै: परतन्त्रता नाऽभूद्यदा।
देश एष दधौ तदा तव देव! दुर्दमनीयताम्।।६।।
देश एष दधौ तदा तव देव! दुर्दमनीयताम्।।६।।
अस्य खड्गतले बलेन परै: शिरो नमितं पुरा।
काममद्य विनम्रनीतिपरो ह्ययं परिचीयताम्।।७।।
काममद्य विनम्रनीतिपरो ह्ययं परिचीयताम्।।७।।
किन्तु सभ्यवरा:। समेत्य भवद्भिरेव विचार्यताम्।
एकतामवलम्ब्य कार्यपथे यथावदुदीयताम्।।८।।
एकतामवलम्ब्य कार्यपथे यथावदुदीयताम्।।८।।
वक्तृतां परिहाय सम्प्रति कर्तृतां कलयेम चेत्।
उन्नति: स्वयमावृणीत मनागिदं परिचीयताम्।।९।।
उन्नति: स्वयमावृणीत मनागिदं परिचीयताम्।।९।।
निर्मले यमुनातटे निकटे कदम्बमहीभृताम्।
अत्र वै विहरन् हरिर्विदधे महाकमनीयताम्।।१०।।
अत्र वै विहरन् हरिर्विदधे महाकमनीयताम्।।१०।।
किन्तु सैव विहारभू: परिहारभूर्जनिताऽधुना।
हेलयाऽपि दयानिधान! दयादृगत्र विधीयताम्।।११।।
हेलयाऽपि दयानिधान! दयादृगत्र विधीयताम्।।११।।
तावकीं करुणामुपेत्य न वेत्त्यसौ हृदि वेदनाम्।
धार्मिकेषु दयावता भवता द्रुतं समुदीयताम्।।१२।।
धार्मिकेषु दयावता भवता द्रुतं समुदीयताम्।।१२।।
गीयते निगमाऽऽगमैर्गुणगौरवं तव सर्वदा।
नाथ! सम्प्रति मञ्जुनाथगिरा कियद् बत गीयताम्?।।१३।।
नाथ! सम्प्रति मञ्जुनाथगिरा कियद् बत गीयताम्?।।१३।।
गणनीयानां (श्रेष्ठतया माननीयानां) गुणानाम् अवधि: (परकाष्ठा) सदृश! 'गणनीयं नु गणेयम्’ अमर:। उज्ज्वलायां भायाम् (कान्तौ) रते, सत्कार्य करणे न कीर्तिसम्पादके इत्याशय:। तव ( त्वदीयतया प्रख्याते) भारते कृपादृष्टि: स्थाप्यताम्।।१।। विभाति जानाति।।२।।
निदर्शयेत् निदर्शन (दृष्टान्त) विधया सूचयेत्-निगमागमै: वेदोपनिषदादिभि:।।३ ।। कुङ्कुमस्य काश्मीरजस्य केसरा: किञ्जल्का: 'गुच्छे’।।४।। असौ भारतदेश:, महनीयतां संपन्नताम्।।५।। तव एष देश: दुर्दमनीयताम् अजेयतां दधौ।।६।। पूर्वं वीरतायुगे खड्गो धृत:। सम्प्रति नम्रतायुगम्।।७।। वक्तृतां सभासु केवलं भाषणम्। कर्तृतां सर्वै: सङ्गत्य देशहिते कार्य पद्धतिं स्वीकुर्याम।।९।। विहारस्य भूमि: भारतं सम्प्रति परिहारस्य त्यागस्य भूमि: किमिति कृता? अवतीर्यतां पुनरपि।।१०।।
भारते गणतन्त्रमद्य हि भारतीय-सुमेधसाम्।
देश एष निदेशगोस्ति हि भारतीयसचेतसाम्।।१।।
देश एष निदेशगोस्ति हि भारतीयसचेतसाम्।।१।।
शासनेन स्वदेशगानामद्य नन्दति मानसम्।
स्वागतं पुरत: स्वयं बत सन्दधाति सचेतसाम्।।२।।
स्वागतं पुरत: स्वयं बत सन्दधाति सचेतसाम्।।२।।
भास्वत: किरणैरित: प्रविषह्य नीतेयं निशा।
सम्प्रकाशमवाप्य सम्प्रति लीयते तिमिरं दिशाम्।।३।।
सम्प्रकाशमवाप्य सम्प्रति लीयते तिमिरं दिशाम्।।३।।
लोकलोचनरोधकं प्रतियातु वैकृतमासुरम्।
सन्ततं समुदेतु चेतसि भाव एष दिवौकसाम्।।४।।
सन्ततं समुदेतु चेतसि भाव एष दिवौकसाम्।।४।।
पश्यत क्षणमग्रतोऽपि किमस्ति न: पुरतो धृतम्।
क्षेत्रमत्र हि कर्मणामिदमस्ति नित्यनिरेनसाम्।।५।।
क्षेत्रमत्र हि कर्मणामिदमस्ति नित्यनिरेनसाम्।।५।।
जातय: सकला अपीह समादृताऽतुलसाहसा:।
अग्रत: प्रसरन्ति वृत्तिमुपेत्य सन्नतवेतसाम्।।६।।
अग्रत: प्रसरन्ति वृत्तिमुपेत्य सन्नतवेतसाम्।।६।।
तर्हि किं मुनिवंशजैर्नु भवद्भिरेव उदास्यताम्?
किं चिरेण? विबुध्यताम्! पदमेत संयतरेतसाम्।।७।।
किं चिरेण? विबुध्यताम्! पदमेत संयतरेतसाम्।।७।।
हे चराचरनायक! प्रणिदर्शयस्व दिशं कृतौ।
नम्रनीतिनिवेदनं शृणु सर्वमान्यसचेतसाम्।।८।।
नम्रनीतिनिवेदनं शृणु सर्वमान्यसचेतसाम्।।८।।
भारतीयानां सुमेधसां बुद्धिशालिनां देशनेतृणाम्। निदेशे शासने गच्छति चलतीति निदेशग:, 'निदेश: शासनं च स:’ इत्यमर:। सचेतसां सहृदयानाम्।।१।। स्वयमेव स्वागतम् अग्रत: विसृत्य स्वीकारं सन्दधाति कुरुते।।२।। भास्वत: किरणैरियं निशा नीता, अद्यावधि वैदेशिकशासनजा नैराश्याऽन्धकारपूर्णा रात्रिरासीत्। अद्य आर्यशासनजं सुप्रकाशमवाप्य दिशामपि अज्ञाननैराश्यरूपं तिमिरं लीयते लुप्तं भवति। 'दिशा’ मित्यनेन न केवलं भारतस्यैव, अपि तु अस्य परित: अन्यान्यदेशै: सह य: किल पारस्परिक-सम्बन्धकृत: अत्याचार: आसीत् सोऽपि स्वदेश-शासनेन निवृत्त इत्यर्थ:।।३।। आसुरं पारस्परिकहिंसादिदरूपं वैकृतं विकार:। दिवौकसां भाव: (देवभाव: प्रेम-परोपकारादि:)।।४।। नित्यं निरेनसाम् कपट-प्रतिहिंसादिपापशून्यानां कार्याणामिदं क्षेत्रं कर्तव्यस्थलम्।।५।। जातय: रूस-अमेरिका-जापान प्रभृतिदेशवास्तव्या: भारतीयेतरजातय: विज्ञानादिषु असामान्यं साहसम् आहृत्य (अवलम्ब्य), सन्नतो वेतसो वेत्रवृक्षो यस्याम् एवंविधां वृत्तिं चर्याम्, नम्रतामिति यावत्। उपेत्य कार्यक्षेत्रे अग्रत: प्रवद्र्धन्ते।।६।। त्याग-सहनशीलतादिसम्पन्नै: भवद्भि: एव उदास्यताम्? उदासीनतया ताटस्थ्यमवलम्ब्यताम्? संयतरेतसाम् ऊध्र्वरेतसां वशिनामित्यर्थ:, पदम् एव, कृतसंयमानां संयतवृत्तीनां पदं स्थानम् अधिकुरुत।।७।। कृतौ दिशं दर्शयस्व, कार्यस्य दिक् काऽस्तीति निर्दिश, सर्वेषां निवेदनं शृणु।
***
भारतवैभवम्