पूर्णमदः पूर्णमिदं पूर्णात् पूर्णमुदच्यते।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते।।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते।।
(1)
सिन्धुदेशमुल्लङ्घ्य आश्विनमासे विशाखः काश्मीरदेशं प्राप। हिमालयस्य पादप्रदेशेषु यदा याति स्म तदा शीतं न बाधते स्म।अन्यथा हिमालयमेखलासु गमने कदाचित् वर्षाः, कदाचित् हिमपातः कदाचिच्च शीतलहर्यः प्राणान् निःसारयन्तीव।
वितस्तायास्तटेऽसौ सञ्चरति स्म। सर्वत्र सरलद्रुमाणां सघनानि वनानि मनो हरन्ति। सिकतासु रत्नमुष्टिभिः क्रीडन्ति कन्याः। इदमेवासीत् किन्नरपुरम्। इदमेव गन्तव्यमासीत्। रमणीयानि लघूनि गृहाणि, प्रशस्ताः रथ्याः, सङ्क्षिप्ताः आपणाः। नगराद् बहिरासीदुपवनम्। नानाविधैः पुष्पैराचितम्।उपवने स्थित्वैव विश्राम्यामीति विचार्य विशाखो उपवनद्वारं प्राप। प्रविशन्तं तं निवार्य उद्यानपालः अत्यन्तं कर्कशेन स्वरेणापृच्छत् - अरे कुत्र यासि, कथं प्रविशसि? इदं मदीयम् उपवनम्।
शिरसि रक्तमुष्णीषम्, दक्षिणहस्ते कुन्तः। नयनयोः रोषः। विकटे कुञ्चिते भ्रुवौ। आकारेणैव यमदूतः प्रतिभाति। तथापि संस्कृतेन भाषते।
कर्णयोर्विशालौ केयूरौ। सुश्लिष्टसन्धिबन्धं शरीरम्। नयने तु लघुनी। वलिभिः ईषदाक्रान्तं मुखम्। कर्णान्तिकं केशाः पलिताः।
विशाखस्तस्य रूक्षतया आहत इव सविनयमाह - पान्थोऽस्मि आर्य! मुहूर्तमात्रमिह श्रान्तिं विनोदयामि -
- अरे, आर्य इति किमर्थं कथयसि माम्? - अहमार्यो नास्मि ...
-- सत्यमार्य, नास्ति भवानार्यः।
-- अरे पुनरपि त्वया अहमार्य इति कथितः। अहमार्यो नास्मि। अहमस्मि नागः।
-- मर्षयन्तु मर्षयन्तु भवन्तः। सत्यं भवानार्यो नास्ति, नागो भवान्। अभ्यासवशाज्जिह्वाया आर्यशब्दो विनिर्गतः। अस्माकं देशे सज्जनाः आर्यशब्देन सम्बोध्यन्ते। वैदेशिकोऽस्मि। दूरात् समागतोऽस्मि।
-दूराद्वा समागतः निकषा वा आगतः। इतोऽपसर। इदं मदीयमुद्यानम्।
- अस्तु तावत्। मा भवान् रुष्यतु। अन्यत्र गमिष्यामि।
नागजातीया जनाः सर्पपूजका भवन्ति, ते प्रकृत्या क्रूराः इति विशाखेन श्रुतमासीत्। इदानीमनुभूतम्।
मध्याह्नप्रखर आतपः। स्वेदस्य धारा देहे प्रवहति। उपवनं तु रम्यं प्रतीयते। तत्रत्या वृक्षा निमन्त्रयन्ति। तथापि अस्य दुष्टस्य उद्यानपालस्य कारणादन्तःप्रवेशो न स्यात्।
अन्यत्र गत्वा पश्यामि यदि क्वचित् पान्थशाला सत्रागारो वा स्यात् - अयं तु पृष्टोऽपि न किमपि सूचयेत्।
यावत् स ततः प्रचलति तावत् स नागः तं पुनर्निवार्य अपृच्छत् - कस्माद् देशात् समागतः, किमत्र आगमनप्रयोजनम्?
-- भद्र, विशाखो नाम विप्रोऽस्मि तैत्तिरीयशाखाध्वर्युः। आगमनप्रयोजनं वर्तते आचार्याणाम् अश्वघोषवर्याणां वसुमित्राणां च दर्शनम्। तैरेव कार्यम्। आचार्याणां वसुमित्राणां कृते मम गुरुचरणैः किमपि पत्रं प्रेषितम्, तत् तेभ्योऽर्पणीयम् -
-- किमिति किमिति - कस्य नाम गृहीतं भवता?
विशाखेन लक्षितं यत् तस्य नागस्य वचोभङ्गी एव परिवर्तिता।
स पुनः स्वागमनप्रयोजनं व्याचष्ट।
नागोऽवदत् - यदि भवान् आचार्यचरणस्य अश्वघोषस्यकृते आगतस्तर्हि पूज्यः। आगच्छतु - उद्याने विश्राम्यतु।
-- "आगच्छतु आगच्छतु, प्रविशतु स्वैरं प्रविशतु" - इति कथयतस्तस्य नागस्य दक्षिणे करतले विशाखस्य दृष्टिः पतिता। दक्षिणे करे विधृतः कुन्तकस्तेन अस्मिन् समये वामकरे निहितः, विशाखम् आमन्त्रयितुमसौ दक्षिणेन
करेण सङ्केतं कुरुते स्म।विशाखस्य मुखात् आकस्मिकतयैव एते शब्दाः स्फुटिताः -अयि भोः, भाग्यरेखा तु भवतो वर्तते प्रबलैव, परन्तु कश्चन धूर्तो भवन्तं वञ्चयति। स भवतोऽन्नम् अत्ति, भवते च भक्षयितुं न ददाति।
स नागः स्तब्धश्चकितचकितः क्षणं च निर्वर्णयन् स्थितः, अनन्तरं च तस्य पादयोर्निपपात। -- अरे, अरे! किं करोति भवान्, भवानायुषा ज्येष्ठः अहं तावद् बालकः - इति विशाखस्तं न्यवारयत्।
नागोऽवदत्-- अरे मया न ज्ञातं भवन्तः सर्वज्ञाः। सत्यमेतत्। ममैव अन्नम् अत्ति कश्चन धूर्तः। न च मत्कुटुम्बाय अत्तुं ददाति।
विशाख आश्वस्तः। पित्रा कदाचित् किञ्चित् सामुद्रिकशास्त्रं शिक्षित आसीत् सः। तच्छास्त्रम् इदानीं सहायकं जातम्।
विशाखस्तेन सह उद्याने समागतः। उद्याने आसीन्महान् सरोवरः। परितो वृक्षाः, तेषां मध्ये नभोऽवतीर्य यथा वृक्षाणां पादेषु तूष्णीं निपतितम्। मध्ये मध्ये सुश्रवाः अवदत् - अत्र स्नातुं शक्यते। विशाखः सरोवरे स्नानायावतीर्णः। उद्यानपावो नागस्तं स्नान्तं वीक्ष्य पुनःस्वनियोगमशून्यं कर्तुं गतवान्।
आगत्य पृच्छति स्म - किमपि वस्तु अपेक्ष्यते चेत् सूचनीयं, भगवन्।अस्मिन्नेव उद्याने एकस्मिन् कोणे वर्तते मदीयं कुटीरम्।
गङ्गे च यमुने चैव गोदावरि सरस्वति!
नर्मदे सिन्धु कावेरि जलेऽस्मिन् यान्तु सन्निधिम्।।
नर्मदे सिन्धु कावेरि जलेऽस्मिन् यान्तु सन्निधिम्।।
काश्मीरेषु स स्नाति। पुराणश्लोकमिमं पठति। श्लोकोऽयं सूतवर्यस्य मुखाच्छ्रुतः। सोऽशुद्धं वदति स्म - नर्मदा सिन्धु कावेरी जलेऽस्मिन् सन्निधिं कुरु इति। पूर्वार्धेऽपि, सरस्वतीति अन्तिमस्वरस्य दीर्घस्योच्चारणं करोति स्म। विशाखस्तेन बहोः कालं यावत् विवादमकरोत्। सर्वमशुद्धं पठति भवानिति। यदि सर्वाणि पदानि सम्बोधनपराणि तर्हि सरस्वति इति सम्बोधने स्यात्, तथैव उत्तरार्धेऽपि नर्मदे सिन्धुकावेर्यौ इत्येव तिसॄणामपि नदीनां कृते सम्बोधनं घटेत। यतो हि सप्तनद्यः सम्बोधिताः, अतः सन्निधिं कुरु इति एकस्याः कृते निर्देशो न युज्यते, अतो जलेऽस्मिन् यान्तु सन्निधिम् इत्येव पाठः साधीयान् स्यात्। मुहुर्मुहुराक्षिप्तोऽपि सूतवर्यस्तस्य प्रस्तावितं संशोधनं न स्वीकृतवान्, द्विस्त्रिः संशोधितस्य पाठस्य अभ्यासं कृत्वाप्यन्ततो यथा स्मृतम् अशुद्धमेव स्नानकाले पठति स्म। मम पितृपादैरेवमेवाहं पाठितः, तथैव मम जिह्वायां संश्लिष्टः पाठः। शुद्धं वा स्यादशुद्धं वा स्यात्। विशाखस्तस्मै कुप्यति स्म। सूतवर्योऽपि तेन विवदते स्म - सरस्वति इत्येतादृशः ह्रस्वः कथं स्यात्? इकारस्य ह्रस्वत्वं सम्बोधने कथम्? वयं यदा कमपि सम्बोधयाम आह्वयामो वा तदा दीर्घमेव अन्तिमं स्वरं प्रयुञ्ज्महे। यदा अहं गोदावरीमाह्वयामि सरस्वतीं वा आह्वयामि तदा ई-ई इति कृत्वैव आह्वयामि। तदा एव एते नद्यौ मम आह्वानं शृणुतः। ह्रस्वे उच्चारिते ते कथं शृणुयाताम्?ताभ्यां तव व्याकरणमपि नाधीतम्। सम्बोधने अन्तिमस्वरस्यह्रस्वत्वमिति नियमः केन कृतः?येन केनापि कृतः, स न जानाति जनाः कथमुच्चारयन्ति सम्बोधनपदम्।
इदानीं स्नानं कुर्वन् स सूतस्य वचांसि स्मरति, इदानीं कोपो नोदेति, चित्तं सूतवर्यस्य स्मृत्या आह्लादितं भवति। कियज्ज्ञानं तेन तस्मात् प्राप्तम्। सहस्रशो दुर्लभाः पुराणश्लोकाः। भारतवर्षस्य सर्वस्य ऐतिह्यं, नदीपर्वततीर्थानां च ज्ञानम्। परन्तु अस्मिन् स्नानसमये न केवलं सूतवर्यस्य स्मृतिस्तदीयं मनः प्रसादयति, श्लोकस्यास्य पाठेन सविशेषम् आह्लादोच्छ्वासो भवति। अस्मिन् काश्मीरदेशे किन्नरपुरस्य सरसि स्नामि, अस्मिन् मम भावनया सप्तानामपि नदीनां जलं विच्छुरितमिति।
तस्मिन् स आपरितोषं स्नानं विधाय मध्याह्नसवनं कृतवान्। सहसा सोऽस्मरत् - अद्य तु वर्तते आश्वयुजी पूर्णिमा। पशुपतये शिवाय स्थालीपाकं विरच्य आहुतिर्देया। कामं स भवतु अनाहिताग्निः,परमेतद् अनुष्ठानं तु धर्मसूत्रकारैः ब्रह्मचारिणः कृतेऽप्युपदिष्टमेव।
विशाखस्य अनुरोधेनसुश्रवाः कुशान् त्रिविधानि च पुष्पाणि आनीय तस्मै अददात्। उत्तमाः समिधोऽपि तेन प्राप्ताः। अस्मिन् प्रदेशे तु देवदारुवृक्षाणां समिध उपलभ्यन्ते इति विशेषः।
किञ्चित्कालं स महता भक्तिभावेन विशाखं हवनं कुर्वन्तमपश्यत्। अथ कानिचित् फलानि तस्मै उपहारीकृत्य - अस्तु ब्राह्मणदेव, फलानि गृहीत्वा मुहूर्तं विश्राम्यतु भवान्, अस्मिन् शिलापट्टके उपविशतु, शयनं वा करोतु।मया गन्तव्यम्। आचार्यस्य वसुमित्रस्य भदन्तस्य अश्वघोषस्य च वार्तां सन्धाय प्रहरमात्रानन्तरं परावर्तिष्ये। इति कथयित्वा स कुन्तकं करे दधान उद्यानाद् विनिर्गतः।
नभोमध्येललाटन्तपं तपति स्म भास्करः। स्थितो मध्याह्नः। उदरे बुभुक्षा सन्धुक्षिता। विशाखः सुश्रवसा उपहृतानि फलानि खादितुमारब्धवान्।
-- चन्द्रे, अलं माम् उदकेन ताडयित्वा।
कस्याश्चित् रमण्याः स्वर आसीत्। एतादृशः स्वरो विशाखेन न कदाचिच्छ्रुतः। यथा यौवनमदविह्वलायाः प्रमदायाः करस्थाः शतं कनकवलयाः युगपत् खनखनायिताः। स्वरलहरी तदीये मनसि तरङ्गायिता।
विशाखः सरोवरतट एव स्थितः। अपरतटादेव ते अवतीर्णे स्याताम्। द्वे युवत्यौ। ताभ्यामसौ अस्मिन् तटे उपविष्टो नावलोकितः। स किं कुर्यात्? भोजनमारब्धवानस्ति सः। एवं तु उत्थातुं न शक्यते। उत्थाय क्व व्रजेत्? अस्योद्यानस्य पालको वर्तते सुश्रवा नाम नागः। स भवान् उपविशत्विति उक्त्वा गतः।
विशाखः फलानि खादन्नपि सकौतुकमवलोकयति। जिह्वा फलं स्वदते, नयने सौन्दर्यम्। तदानीं स्नान्त्योः युवत्योरेवमवलोकनं पापं स्यादिति भावो मनसि नागतः। ते क्रीडतः स्म। तयोः क्रीडायामासीत् निश्छल उन्मुक्तः पावन आनन्दः। मन्ये अप्सरसे द्युलोकादवतीर्णे। अपि नाम एवमेव तस्य माताऽप्यवतरेत्। स गुरुकुले विरचितं साक्षात्कृतं वा मातृसूक्तं स्मरति स्म। अचिन्तयच्च - अद्भुतमनयोः सौन्दर्यम्। दिष्ट्या नाहमेताभ्यामवलोकितः। अन्यथा मामवलोक्य भयचकिते अपलायिष्यताम्। मत्स्यकन्ये इव ते द्रुतं तरतः। गहनमवगाहनं कुरुतः। सरोवरे प्रगाढजले अवगाहने तयोर्भयं नास्ति। मन्ये प्रतिदिनमेते अस्मिन् जले स्नानं कुरुतः।
तन्वङ्ग्योस्तयोर्वपुःकान्त्या सरसो नीलजले सौवर्णी आभा विच्छुरिता। जलस्य तले सूर्यश्चन्द्रौ उदयतः अस्तं च व्रजत इति प्रतिभाति स्म।
क्षणाय तस्य अवधानं फलस्य स्वादे गतम्। अनन्तरं सरोवरस्य जलं प्रति दृष्टिर्गता। स चकितः। ते तत्र नास्ताम्। क्षणेनैव क्व विलीने? मन्ये देवाङ्गने स्याताम्। अत एव अन्तर्धानतां गते। आस्तां तावत्। किं वृथा तर्केणान्विष्यत इति विचार्य स आहारं समाप्य तस्मिन् शिलातले एव कन्थामास्तृणोत्,अशेत।
दिवा शयनं न कर्तव्यमिति धर्मशास्त्राणि प्रवदन्ति। तथापि बलवती श्रान्तिः तन्द्रा च अवशं करोति। कति क्रोशान् स पद्भ्यामागतः, योजनानां शतं पञ्चदशसु दिनेषु चलितः स्यात्।
(2)
सहसा मालती-यूथिका-कुन्दपुष्पाणां सुवासेन परिवेष्टितोऽस्मीति सोऽन्वभूत्। एतादृश एव आमोदोऽनुभूयते स्म यदा माता कुन्दपुष्पाणां वेणीं ग्रथ्नाति स्म। अपि नाम माता स्वर्गादवतीर्य मां स्पृष्टवतीति चकितचकितोऽसौ अचिन्तयत्। नयन उदमीलयत्। अविश्वासपुरस्सरम् अरे इति मुखान्निस्सृतम्। अहोकारे कृते एव पुनरपि शतं कनकवलयानां झटिति झणत्कार इव समजनि। ते युवत्यौ प्रहसिते। यथा हिमालयस्य मेखलासु शतं निर्झराः स्खलिताः स्युः। अनन्तरं च तस्य पादयोर्निपत्य --आर्य, प्रणमाव इति आहतुः।विशाखः सङ्कुचितः। प्रणमन्त्योस्तयोः वदने तस्य देहेन स्पृष्टे इव। समस्तोऽपि कायो विद्युता स्पृष्ट इव अकम्पत। विशाखेन इदम्प्रथमतया दृष्ट एतावान् गौरवर्णः। स्वर्णेन यथा चम्पकपुष्पस्य कान्तिः सङ्गता स्यात्।
- आर्ये, किमयम् अन्यायः क्रियते?स ते अवदत्।
तस्य वचः श्रुत्वा ते भयात् कम्पेते स्म। तयोः कनीयसी ज्यायसीं गद्गदबुद्बुदाक्षरैरालपितवती - भगिनि, कीदृशोऽनर्थो जातः?
विशाखोऽचिन्तयत् - अहो किं मया मूढेनाभिहितम्? मम समुदाचारसमन्वितं वचनमपि अनयोः कृते कष्टकरं जातम्! इदानीं किं ब्रवीमि?
इति किङ्कर्तव्यविमूढं तं तयोः कन्यकयोर्ज्यायसी सर्वं साहसं चित्वा अञ्जलिं बद्ध्वा अत्यन्तं कोमलेन स्वरेणोवाच - आर्य, अस्माकं पितृपादा अवदन् - कश्चन अत्यन्तं तेजस्वी विप्रः अस्माकम् उद्यानमागतः। स प्रणामेन सम्भावनीयः। इति तस्य वचनेन आवां भगवन्तं भवन्तं प्रणन्तुं समागते। स विप्रः अत्यन्तं शुचिः, अतः स्नानं कृत्वैव प्रणामस्तस्य कृते कार्यः इत्यपि पित्रा उक्तम्। अत आवाभ्यां स्नानमपि कृतम्। यदि आवाभ्यां कश्चन अपराधः कृतस्तर्हि मर्षयन्तु भगवन्तः। अस्माकं पितृपादः परमकोपनः,
तस्मै आवयोरपराधो न वक्तव्यः।
-- एवं तर्हि! सुश्रुवसो नागस्य कन्ये एते!
अथ विशाखो विहसन् ते अवदत् - भगवत्यौ, न युवयोः कश्चन अविनयः। अस्माकं देशे एतादृशः समुदाचारो यत् कन्याः पुरुषान् न प्रणमन्ति। प्रत्युत पुरुषा एव कन्याः प्रणमन्ति। इति स्वदेशीयम् आचारं विचार्य मया तथा उक्तम् - भवतीभ्यां नाहं प्रणन्तव्यः, मयैव भवत्यौ अभिवादनीये।
-- एवं नु किम्? - सा ज्यायसी अतितरां विस्मयं प्रकटयन्ती अवदत् - अस्माकं देशे तु एवं न भवति। पुरुषैः कन्या न प्रणम्यन्ते।
अथ स्वभगिनीं कूर्परेण दरं स्पृष्ट्वा कनीयसी कन्या अवदत् - अज्जुके, एवं कुर्वः। इदानीमेते आवां प्रणमन्तु येन एतेषां देशस्य आचारः पालितः स्यात्।
-- एवं क्रियेत किम्? यदि किमपि अन्यथा भवति तर्हि पिता रुष्टः स्यात्।
तयोः सारल्यं वीक्ष्य विशाखः प्रहसितः। प्रहसन्तं तं वीक्ष्य ते अपि मधुरं हसतः स्म। तयोर्हास्येन उद्यानं धावल्येन धौतमिव प्रत्यभात्।
-- भवत्यौ उद्यानपालकस्य सुश्रवसः पुत्र्यौ इति तु सुकरम् अनुमातुम्। परन्तु काभ्यां नामभ्यां भवत्यौ अलङ्कृते इति ज्ञातुमिच्छामि - विशाखस्ते अवदत्।
तस्य प्रश्नं श्रुत्वा उभे पुनः प्रहसिते। अथ ज्यायसी प्राह - आवां स्वस्वनामभ्यां नालङ्कृते। अस्माकं देशस्य अयमाचारः यन्नामभिः अलङ्करणं न भवति। केवलं नामभिः वयं परस्परं शब्दापयामः।
-- अरे कया भाषया अहमाभ्यां व्यवहरामीति चिन्तयति स्म विशाखः।
- अज्जुके, अहं मन्ये एते आवयोर्नामनी ज्ञातुमिच्छन्ति -- कनीयसी स्वभगिनी कथयति स्म।
--- एवम् एवम् - मम नाम विद्यते इरावती। इयं मम कनीयसी - अस्या नाम चन्द्रलेखा।
-- अहो शोभने नामनी। अहमस्मि विशाखनामधेयः तैत्तिरीयशाखाध्वर्युः -
-- अपि श्रीमन्तस्तृणधान्यं भक्षयिष्यन्ति?
कनीयस्याः चन्द्रलेखायाः विसंस्थुलं प्रश्नमिमं श्रुत्वा विशाखो दिग्भ्रान्त इव तामवलोकयति स्म। अथ च -"तृणधान्यम्?" इति तस्याः शब्दं पुनरावर्तयत।
-- अत्रैव उद्याने यत् प्ररूढं तदेव, तत् अतीव स्वादिष्टं भवति - किञ्चिद् आस्वाद्य परीक्ष्यताम् - सा पुनराह।
-- किन्तु अपक्वमेव?
-- तृणधान्यं तु अपक्वमेव स्वदते - इति कथयित्वा चन्द्रलेखा पुनः प्रहसिता।
कीदृशोऽयं देशः -कुत्रासौ समागतः? अत्रत्या जना अपक्वं तृणधान्यं भक्षयन्ति। मुनयः आश्रमेषु तृणधान्यं पचन्ति, एवमपक्वं तु न खादन्ति।
-- चन्द्रे, अहं मन्ये तृणधान्यमेतेभ्यो न रोचेत। वयमेव आहारं कुर्मः। इति चन्द्रलेखां व्याहृत्य ज्यायसी इरावती विशाखमवदत्- आर्य, यदि अनुमन्यते तर्हि आवाम् आहारं कुर्वः।
-- बाढम्। प्रथमः कल्पः।
उभे प्रहसन्त्यौ भूमौ प्ररूढात् शष्पाद् मञ्जरीः श्चित्वा चित्वा तृणधान्य खादतः स्म। तयोश्छवी विशाखस्य चेतसि गाढं निखाते इव, कीलिते इव जायेते स्म। अनुपमं सौन्दर्यम्, परन्तु पशुवद् तृणधान्यस्यैतादृशं भक्षणम्। उभे अनवरतं परस्परेण आलपन्त्यौ अहमहमिकया तृणधान्येभ्यो मञ्जर्यश्चित्वा चित्वा मुखे निपातयतः।
अपि नाम एते पक्वान्नस्य स्वादं जानीतो वा न वा? अपि नाम अहम् एते पृच्छामि यन्मम स्यूतके ये सक्तवः सन्ति एतास्तान् भक्षयितुं वाञ्छन्ति किमिति।
स ते उपसृत्य अवदत् - मर्षयतां भवत्यौ। मम सविधे वर्तन्ते सक्तवः। सक्तूनामास्वादने भवत्योः रुचिरस्ति चेत् एतान् स्वीकुर्वन्तु।
-- सक्तवः?अत्यन्तं कौतुकेन चन्द्रलेखा अवदत्। शततन्त्र्यो वीणा इव झङ्कृताः। विशाखोऽवशं तस्या मुखे निबद्धदृष्टिः। तस्या विशाले नयने विस्मयेन विशालतरे जाते। अथ सा पुनराह - श्रूयते सिन्धुदेशवास्तव्याः आर्यावर्तदेशीया वा खादन्ति सक्तून्। कीदृशाः सक्तवो भवन्ति इति तु न जानामि।
यदा चन्द्रलेखा वदति तदा वितस्तायास्तरङ्गततिः पवनेन सङ्गत्य आलापं करोतीति प्रतीयते।
विशाखस्तस्या विस्मयविस्फारिताभ्यां लोचनाभ्यां निपीत इव। अथ पुनरसौ स्वप्रसेवकम् उद्घाट्य सक्तून् दर्शयन् अवदत् - ननु एते सन्ति सक्तवः। जानातु भवती कीदृशा भवन्ति सक्तव इति।
-- अहो अमी सक्तवः। चन्द्रलेखा पुनराह।
पुनरपि विशाखस्य चेतसि सहस्रशः शततन्त्र्यो वादिता इव। काश्मीरेषु समेत्यैव तेन शततन्त्रीवीणा श्रुता। अद्भुत एव निनादस्तस्याः। आकाशो धरायामवतीर्णो गायतीति हिमालयस्य कन्दराः समेत्य पवनेन गीते सङ्गतिं कुर्वन्तीति वा प्रतिभाति।
-- अज्जुके एते विप्राः। एते आदिशन्ति तर्हि सक्तवो ग्राह्याः। अपरञ्च सक्तूनधिकृत्य असकृत् चर्चा श्रुता, परन्तु न कदापि ते आस्वादिताः।
-- अस्तु तर्हि त्वमेवास्वादय।
विशाखस्य आग्रहं स्वीकृत्य प्रथमं ससङ्कोचं चन्द्रलेखा अनन्तरं च लज्जया गात्रेषु लीयमानेव इरावती तेन जलमादाय शर्करया विनिर्मितान् सक्तून् अगृह्णात्। अहो स्वादः, अत्यन्तं सुस्वादु इति अङ्गुलीर्लेलिहाने ते भणतः स्म।
सहसा चन्द्रलेखाया नयने वाष्पाकुले। सा कण्ठस्तम्भेन रोदनध्वनिं रुणद्धि स्म।
-- अयि किमर्थं रोदिषि? इरावती अपृच्छत्।
-पिता-- चन्द्रलेखाया मुखात् केवलमेतदेव एकः शब्दो विनिर्गतः।
इरावती तस्याः पृष्ठं हस्तेन संवाहयन्ती तामाश्वासयति स्म - अलं कार्पण्येन। पिता न रुष्येत। पक्वान्नं न भक्षणीयमिति नादेशः स्वस्य क्षेत्रस्य शस्यमादाय तन्निर्मितं पक्वान्नं न भक्षणीयमिति वर्तते आदेशः।
विशाखो दिग्भ्रान्तः। कीदृशी अत्रत्यानां जनानां चर्या - कीदृशमाचरणम्। क्षेत्राणि सन्ति, शस्यं प्ररूढम्, परन्तु पक्वान्नं नैव भक्षयन्ति, तर्हि क्षेत्रस्यापि शस्यमपक्वमेव भक्षयन्ति किमु?
स सङ्केतेन इरावतीमपृच्छत् - किमर्थं चन्द्रलेखा रोदितीति।
इरावती विहसन्ती अवदत् - एषा पितुर्बिभेति। सक्तवो भक्षिता इति पिता रुष्येत।
-- अहो अनयोः पितुर्भयम्। विशाखो मनसि अचिन्तयत्। अनन्तरं च विहसन् स ते अवदत् - अलं चिन्तया। अहं भवत्योः पितरं विज्ञापयिष्यामि-ममानुरोधेन सक्तवो बालिकाभ्यां भक्षिताः एताभ्यां मा कुप्यतु भवानिति।
श्रुत्वा चन्द्रलेखा प्रहसिता।
-- प्रष्टव्यं तावत् किमपि अस्ति।विशाख उभे स्वस्थे परिलक्ष्य इरावतीमाह।
-- पृच्छतु आर्यः।
-- उद्याने कलमा रोहन्ति इति मया दृष्टम्। अत्रत्याः सर्वे ओदनं पचन्ति वा न वा? भवतीभ्यां भोजनस्थाने किमर्थं तण्डुला न पच्यन्ते - किमर्थं तृणधान्यस्य आहारः -
श्रुत्वा इरावती क्षणं विचारमग्ना अतिष्ठत्। अथ प्राह -आर्य, ओदनम् आवाभ्यां पित्रे च न रोचते इति तु न। परन्तु केनचिद् व्रतेन आवां बद्धे, तथैव पिताऽपि। अस्माकमेव क्षेत्राद् धान्यं नेतुं न वयं शक्नुमः, तण्डुलान् ओदनं पक्तुमपि वयं निवारिताः। इतः परम् अलं पृच्छया। अस्तु। इत्युक्त्वा सा तूष्णीम्भूता।
सुश्रवसाऽपि कथितमासीत् - ममैव अन्नम् अत्ति कश्चन धूर्तः। न च मत्कुटुम्बाय अत्तुं ददातीति।
विशाखः किमपि असमञ्जसमन्वभूत्। मन्ये तादृशं प्रश्नं कृत्वा तेन किमप्यनौचित्त्यम् आचरितम्। सोऽपि तूष्णीम्भूतः।
अथ इरावती अवदत् - आवाभ्याम् आवश्यकानि कार्याणि निर्वर्तनीयानि गृहस्य। अनुजानातु आर्य, आवां, गमनाय। चन्द्रलेखे, एहि गच्छावः।
(3)
विशाखः किमपि वक्तुमिच्छति स्म, तस्य शब्दाः कण्ठ एव स्खलिताः। गते उभे। विशाखश्चिरं सरोवरतटे स्थितः किमपि ध्यायन्नास। आचार्यः अश्वघोषो मिलिष्यति वा न वा - राज्ञा कनिष्केण समागमः स्याद्वा न वा इति स चिन्तयति स्म। एवम् ऊहापोहनिमग्नस्य तस्य नयनयोरवशं तन्द्रा अवतीर्णा, तन्द्रायां च तेन दृष्टः स्वप्नः -अर्चा च शान्तिशीलश्च तमवलोक्य विहसतः। शान्तिशीलः कथयति स्म - विशाख, त्वया अहमुपहसितः, भिक्षो, का गतिस्ते जाता? अर्चां परित्यजन्नपि इदानीं त्वं तस्याः प्रणयपाशे बद्धः इति - परन्तु तव का गतिः? त्वं तु द्वयोः कन्यकयोः प्रणयपाशे युगपद् बद्धः -
-- न, न - शान्तिशील, भिक्षो! एवं नास्ति, ते नागकन्ये, मम ताभ्यां किम्? विशाख उत्स्वप्नायते स्म।
मम ताभ्यां किमपि नास्ति - इति पुनः कथयतस्तस्य तन्द्रा सहसा उच्छिन्ना। जागरितः स विचिन्तयति स्म- एतत् किं मया दृष्टम्?
शान्तिशीलस्य स्मृतिः मनश्चुलुकयति स्म। स्मृतिमुपयाता अलकायामन्तिमा सा रात्रिः। अर्चायाः कृते सत्यमेव आसीत् तस्य मनसि मोहः। परन्तु स तपस्वी तं न कदापि प्रकटीकृतवान्, सदैव आत्मानोऽपि गोपायति स्म। मेघस्फोटे अर्चायाः सर्वे परिजनाः मृताः। सा एकाकिनी विक्षिप्तेव विशाखेन शान्तिशीलेन च दृष्टा। शान्तिशीलं दृष्ट्वा सा चिरं निध्यायन्ती आस। शान्तिशीलस्तामवोचत् - अर्चे बान्धवि, धारय आत्मानम्...
श्रुत्वा अर्चा फूत्कृत्य रोदिति स्म। अथ सा सहसा शान्तिशीलं दृढमुपगूह्य - अपि इदानीमपि मां परिहरिष्यसि..
विशाखस्य नयने अर्चाया दशां दृष्ट्वा अश्रुप्लुते। स शान्तिशीलमाह - बन्धो, क्व यास्यति इयं तपस्विनी, अलकायां द्वित्राः पञ्चषा वा यक्षा अवशिष्टाः। ये चाण्डालाः सन्ति,
तेऽपि ग्रामं विहाय यान्ति, एनां नय --
शान्तिशीलोऽर्चायाः करं स्वकरेण गृहीत्वा अवदत् - विशाख, त्वं तु संस्कारान् वेत्ति, अद्यैव मामनया परिणयं सम्पादय।
धनपतिराहतः। अर्चाया माता मृता। उपरि गृध्रा डयन्ते। शृगालाः काकाश्च शवान् भक्षयन्ति। विशाखस्य स्मृतौ अलकायां महाविनाशस्य महाश्मशानस्य च परिधौ तेन कारितः स विवाहः मुहुर्मुहुः स्मृतौ अवतरति। परितः शवाः आसन्। मधुपुरं श्मशानायितम्। तस्मिन् तयोर्विवाहसंस्कारस्तेन कृतः।
काचन वृद्धा शृङ्गारसामग्रीमानीय अर्चाया हस्ते अददात्, आह च - पुत्रि, एतदञ्जनम्, अङ्गरागः, एतत् क्षोमं दुकूलम्।
एवं तरुणार्करागं वासो वसाना अर्चा ताभिः शान्तिशीलस्य सम्मुखमानीयत। एका चाण्डालस्त्री प्रोवाच - अत्र किमपि अवशिष्टं समञ्जनम्। यदि भगवन्तः अर्हत्पादाः इच्छन्ति तर्हि धारयन्तु।
शान्तिशीलः किमपि न वेत्ति स्म किं करणीयम्। विशाखेन यथा स्वमाता समञ्जनं मुखे ददती दृष्टा तत् स्मृत्वा तेनोक्तं - शान्तिशील, एतत् समञ्जनम्, मुखे बाहुद्वये च अर्पय।
शान्तिशीलस्तथा अकरोत्। विशाखो मन्त्रमिमं(म्) अपठत् -
समञ्जन्तु विश्वेदेवाः समापो हृदयानि नौ।
सं मातरिश्वा सं धाता समु देष्ट्री दधातु नौ।।
सं मातरिश्वा सं धाता समु देष्ट्री दधातु नौ।।
इदानीं वधूवरौ परस्परमीक्षेताम्। अयमग्निः, अत्र घृतस्याहुतिर्दीयताम्।
इयं सुमङ्गली वधूः मङ्गलस्नानविशुद्धगात्री प्राप्ता। एनां प्रतीच्छ। भद्रं तेऽस्तु। इदानीमस्याः पाणिं पाणिना गृह्णीष्व।
शान्तिशीलस्तथा कृतवान्। विशाखोऽपठत् -
गृह्णामि ते सौभगत्वाय हस्तं पत्या मया जरदष्टिर्यथासः।
गृह्णामि ते सौभगत्वाय हस्तं पत्या मया जरदष्टिर्यथासः।
शान्तिशील ऋचमेनां पुनरावर्तयामास।
उत्तरस्यां दिशि स्थापिता शिला। अर्चा अस्याः दक्षिणेन चरणेन आरोहणं करोतु। शान्तिशीलश्च कथयतु -
इममश्मानमारोहाश्मेव त्वं स्थिरा भव
सहस्व पृतनायतो ऽभितिष्ठ प्रतन्यते।।
सहस्व पृतनायतो ऽभितिष्ठ प्रतन्यते।।
अनन्तरं सप्तपदी कारिता।
इषे एकपदी भव। सा मामनुव्रता भव।
पुत्रान् विन्दावहै बहून्। ते सन्तु जगदष्टयः।
ऊर्जे द्विपदी भव। रायस्पोषाय त्रिपदी भव।
मायोभव्याय चतुष्पदी भव।
प्रजाभ्यः पञ्चपदी भव।
ऋतुभ्यः षट्पदी भव। सखा सप्तपदी भव।
पुत्रान् विन्दावहै बहून्। ते सन्तु जगदष्टयः।
ऊर्जे द्विपदी भव। रायस्पोषाय त्रिपदी भव।
मायोभव्याय चतुष्पदी भव।
प्रजाभ्यः पञ्चपदी भव।
ऋतुभ्यः षट्पदी भव। सखा सप्तपदी भव।
आकाश एव वितानं जातम्। वृक्षाः स्तम्भा जाताः। शिलातलमेव कौतुकवेदिकायितम्। मयूरास्तूर्यघोषमकार्षुः। मारुतपूर्णरन्ध्राः कीचकाः वंशीरवम् अतन्वन्। अर्चा कदाचिद् रोदिति स्म, कदाचित् हसति स्म।
चाण्डालाः अजानां दुग्धं मधु फलानि चानयन्। भगवन् एतद् गृह्यताम्, अस्माकमन्त्यजानामपि हस्तेभ्यः गृह्यमाणमिदं न दुष्येत।
विशाखेनोक्तमासीत् - अयं मधुपर्कः स्यात्। इदानीमर्चा अनेन मधुपर्केण वरस्य शान्तिशीलस्य आतिथ्यं करोतु।
अर्चाया हस्तात् शान्तिशीलेन मधुपर्कस्य शरावो गृहीतः। विशाख ऋचोऽपठत् -
मधु वाता ऋतायते मधु क्षरन्ति सिन्धवः।
माध्वीर्नः सन्त्वौषधीः।
मधु नक्तमुतोषसो मधुमत् पार्थिवं रजः।
माध्वीर्गावो भवन्तु नः।
मधु नक्तमुतोषसो मधुमत् पार्थिवं रजः।
मधु द्यौरस्तु नः पिता। मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः।
माध्वीर्गावो भवन्तु नः।
माध्वीर्नः सन्त्वौषधीः।
मधु नक्तमुतोषसो मधुमत् पार्थिवं रजः।
माध्वीर्गावो भवन्तु नः।
मधु नक्तमुतोषसो मधुमत् पार्थिवं रजः।
मधु द्यौरस्तु नः पिता। मधुमान्नो वनस्पतिर्मधुमाँ अस्तु सूर्यः।
माध्वीर्गावो भवन्तु नः।
शीतलः समीरः संवाहयति स्म गात्राणि। सम्मुखमासीत् पर्वतः। तस्य शिखरात् सूर्यः किरणजालं संहरन् शनैः शनैरधो याति।
विशाखो वदति स्म - सर्वदा अवियोगोऽस्तु युवयोः। सौभाग्यं च धनधान्यं चास्तु।
अर्चा वदति स्म - मम माता च पिता च उभौ गतौ। तौ न कदापि प्राप्स्येते। सर्वस्मात् वञ्चिता पुनः सर्वस्वं प्राप्तवती। नैनं त्यक्तुमिच्छामि।
सन्ध्या तिमिरसङ्कुला जाता। कडारे नभसि तमो घनीभूतम्। प्रस्थिता पश्चिमसन्ध्या।शनैरुन्मीलिते नयने यामिन्या। नक्षत्राणि भास्वन्ति भासन्ते स्म। यथा कश्चन विनाश एव न जातः। कियती शान्तिः, कियती भव्यता। नहि कदाचिदीदृशं जगत् इति सनातनेन सूतेवर्येणोक्तमासीत्। पुनरपि सर्वं तादृशमेव जातं यादृशमासीत् पुरा। किन्तु मधुपुरम् - तत् तु गतम्! विशाखेन किमपि स्मृत्वा कथितमासीत् - यथास्मृतं यथाशक्यं विवाहविधिर्मया सम्पादितः। केषुचित् गृह्यसूत्रेषु नक्षत्रदर्शनं ध्रुवदर्शनमपि वध्वा कारितं स्यादिति विधानम्। इमे सप्तर्षयः इयमरुन्धती, अयं च ध्रुवः। शान्तिशीलोऽवलोकयतु, इमां च अर्चामपि दर्शयतु।
शान्तिशीलस्तथा कृतवान्। विशाखः मन्त्रं पपाठ -
ध्रुवा द्यौर्ध्रुवा पृथिवी ध्रुवं विश्वमिदं जगत्।
ध्रुवासः पर्वता इमे ध्रुवा स्त्री पतिकुले इयम्।।
ध्रुवासः पर्वता इमे ध्रुवा स्त्री पतिकुले इयम्।।
सिद्धं कार्यम्। सम्पादितो विधिः। - विशाखः अन्ते प्राह।
(4)
-- अरे सिद्धं कार्यम् - इति कस्यचित् वाक्यम्।
विशाखः सहसा जागरूकः। तन्द्रा व्यपगता। सुश्रवा नागस्तस्य सम्मुखम् उपस्थित आसीत्।
-- अहं विहारं गतवान्। यस्य आचार्यस्य नाम भवद्भिः कीर्तितम्, सोऽत्रैव विहारे वर्तते।
-- किमाह भवान्? आचार्यो वसुमित्रोऽत्रैव वर्तते? विशाखस्य कराभ्याम् अञ्जलिः स्वयमेव बद्धः।
-- अथ किम्? सुश्रवा अवदत्। तस्य वसुमित्रं प्रति तथाविधम् आदरं वीक्ष्य सुश्रवा मनाक् चकितः। अनन्तरमवादीत्- तर्हि आचार्यं वसुमित्रं जानाति भवान्।
-- प्रत्यक्षं न जानामि। तेषां कीर्त्या समग्रा तक्षशिला सिताभा।
-- राज्ञः कनिष्कस्य तस्मिन् महती भक्तिः। तेनेव कोटिशः स्वर्णमुद्रा दत्वा अत्र यो विहारो निर्मितस्तत्र आचार्यो वसुमित्रः महास्थविरः इति स्थापितः।
धन्योऽस्मि - विशाखो गद्गदस्वरेणाह - भवता मम महत् कार्यं साधितम्। यदि आचार्यस्य वसुमित्रस्य दर्शनं भवति तर्हि जीवनं मे सार्थकम्। वस्तुतो मया पूर्वं न निवेदितम्। आचार्येण वसुमित्रेण किमपि कार्यमस्ति मे। तत् प्रथममेव सम्पादनीयम्।
-- श्वः गन्तुमर्हति भवान्। अद्य तु प्रवरपुरगमनं न सम्भाव्यते। मेघाः आवर्तन्ते नभसि। अथवा यदि आचार्यस्य वसुमित्रस्य दर्शनं करणीयं तर्हि श्वः तत्र विहारं यातु - परश्वः प्रवरपुरं च प्रयातु।
विशाखोऽवदत् - एवं भवतु तर्हि। अद्य कुत्रापि पान्थशालां गत्वा रात्रौ तिष्ठामि..
- पान्थशाला तु नास्ति किन्नरपुरे काऽपि।मम मित्रं वर्तते सुधन्वा - सोऽपि नागः, अद्य तस्य आवसथे भवान् निवसतु --
-- मम किम् - मम चिन्ता माऽस्तु।अहं कुत्रापि तरुतले शयिष्ये।
-- तरुतले शयनं न कर्तुं शक्यते। नास्ति अयमार्यावर्तदेशः। अत्र क्षणे क्षणे ऋतुर्विपरिवर्तते।सुधन्वनो गृहं गत्वा तस्य गृहे किमपि अश्नातु – अत्र अस्माकं गृहे तु भोजनं न स्यात् - इति किमपि अग्रे कथयन् स ससङ्कोचं मुद्रितोष्ठोऽतिष्ठत्।
सहसा मेघा नभसि व्यूहन्ते स्म। गर्जनमारब्धम्। अनन्तरं च सतडतडाशब्दं पूगस्थूलं वर्षितुमारब्ध मघवा। शीतलः पवनोऽपि कुन्त इव मर्म भिनत्ति स्म। प्राणा उत्क्रामन्तीति प्रतिभाति स्म।
सुश्रवा अवदत् - कुटीराभ्यन्तरमेतु। सम्प्रति तु कुत्रापि गमनं न सम्भवेत्।
कुटीराभ्यन्तरमेत्य पुनः प्राणाः प्रत्यागता इव। उपविष्ट एव तस्मिन् इरावती हसन्तीमानीतवती। निकषा हसन्तीं मातुरङ्क इव सुखदा उष्णता प्रतीयते स्म। सुश्रवा नागोऽपि विशाखस्य पार्श्वे एव उपविष्टः। स विशाखं पृच्छति स्म - इदानीं वदतु भवान् के के देशा भवता दृष्टाः - कुत्र कुत्र निवासः कृतः?
विशाखः तस्मै स्वानुभवानां मञ्जूषामुद्घाट्य निर्वचनं करोति स्म। इरावती दुग्धं क्वथयति। चन्द्रलेखा विस्फारितनयना विशाखं प्रवदन्तं शृणोति।
अथ सुश्रवा नागोऽवदत् - अहमपि अत्रगतां कथां श्रावयामि भवन्तम्। वयं नागाः भगवतः शेषस्य वंशजाः। अस्मिन् काश्मीरदेशे निवसतामस्माकं व्यतीतानि सहस्रं वर्षाणि। विष्णुना जलासुरस्य वधः कृतः, ततः प्रभृति शेषनागेनोक्तं यूयं मम वंशजा अत्र वसत।
"इदं नवकिन्नरपुरम्। इतो विंशतिक्रोशदूरं दक्षिणस्यां दिशि किन्नरपुरं वर्तते। विंशतिर्वर्षाणि अतीतानि। तत्र किन्नरो नामराजा शास्ति। किन्नर इव सुन्दराकृतिः, सुकुमारः सङ्गीते कलासु च मर्मज्ञः। तस्य राज्ञी आसीत् तूर्णा। सा गान्धारदेशीया। परमसुन्दरी। सा अधिधरित्रि कदापि चरणमेव न निदधाति। प्रासादेऽपि कमलानां शय्यायां चरणे निधाय सा याति स्म।यदि सा वदति तर्हि श्वेतमुक्तानां माला निस्सरन्तीति जनाः कथयन्ति स्म।
"सर्वं सुखमयमासीत्। राजा किन्नरः प्रजापालकः करुणार्द्रमनाः। स स्वयं शैवः, परन्तु गान्धार-देशीया सा तूर्णा सौगतमते श्रद्दधाति। सा भिक्षूणां प्रवचनानि शृणोति।
"विंशतिवर्षकल्पस्तदानीमहं स्याम्। मम भार्या रम्भा इमे च मे तनये चन्द्रा च इरा च। किन्नरपुरे मम उद्यानमासीत्। उद्यानस्य फलानां विक्रयेण उदरपोषणं भवति।
"निकषा किन्नरपुरं महाविशाल आसीत् विहारः। विहारोऽयं राज्ञा कनिष्केण निर्मापितः। तदानीं स्वल्पा एव भिक्षवस्तस्मिन् विहारे न्यवसन्। किन्नरपुरवास्तव्याः तेषां विषये अधिकं न जानन्ति, ते भिक्षाटनाय नगरमायान्ति अथवा धर्मोपदेशाय। अथैकदा कश्चन महास्थविरस्तस्मिन् विहारे आगतः यः परमसिद्धः। केचन कथयन्ति यत् स्वयं भगवता बुद्धेन अवतीर्णेन असौ अर्हत्पदे अभिषिक्तः।स साक्षात् तथागतस्य दर्शनं कर्तुम् अन्यांश्च कारयितुं प्रभवति। सर्वं भूतं च भविष्यं च जनस्य मुखाकृतिं दृष्ट्वैव वदतीति वार्ता किन्नरपुरे प्रसृता। जना अहमहमिकया तस्य दर्शनाय यान्ति। विहारे किन्नरपुरजनानां गतागतम् अवर्धत। अहमपि एकदा तस्य दर्शनाय गतः। स आसीत् कच्चायनो नाम भिक्खुः। वस्तुतः स यथा प्रतीयते स्म तथा नासीत्। तस्य स्वरः अत्यन्तं गम्भीरः। शनैः शनैः वदति। एकैकः शब्दस्तस्य मुखारविन्दाद् विनिर्गतो मनसि अवतरति श्लिष्यति च। तस्य उपदेशो मया श्रुतः। स कथयति - जीवनं वर्तते वीणा। अस्माकं सङ्कल्पाः विचारा एव अस्या वीणायास्तन्त्र्यः। एतास्तन्त्र्यो नाधिकं कर्षणीया नाधिकं शिथिलीकरणीयाः। अधिककर्षणेन एतास्त्रुटिताः स्युः, तेन वीणा वीणैव न स्यात्, शिथिलीकरणेन वीणा न वादयितुं शक्या। कच्चायनस्य संवादे रागः झङ्कृतो भवति स्म। अत आबालवृद्धस्त्रीजनास्तस्य प्रवचनं श्रोतुं यान्ति स्म। परन्तु शनैः शनैरन्यदपि रूपं तस्य प्रकटीभवति।महिलासु समधिकम् अवधानं तेन दीयते इति केचन पुरुषा वदन्ति स्म। यदस्तु तदस्तु। अहं तु स्वोद्याने स्वभार्यायां स्वतनययोश्च रतः। यदि कच्चायनः किमपि अनर्थं करोति तर्हि किं मे? परमनर्थं कृतवानसौ।"
मध्ये द्वित्रान् उच्छ्वासान् गृहीत्वा निःश्वासान् व्यमुञ्चत् सुश्रवा नागः। अथ पुनराह - "कच्चायनस्य प्रवचनेन प्रभाविताः बह्व्यः युवतयो विहारे दीक्षामगृह्णन्। किन्नरपुरस्य पुरुषाः कथयन्ति स्म - यद्येवम् अस्माकं कुलवध्वः कन्यका वा भिक्षुण्यो भविष्यन्ति तर्हि महानधर्मो वर्णसङ्करश्च स्यात्। एतेन विवाद आरब्धः।
"यदा श्रेष्ठिनो विभुदत्तस्य कन्या विहारं गता न पुनः परावृत्ता सा भिक्षुणी जातेति वार्ता प्रसृता तदा महान् कोलाहलोऽभवत्।नगरश्रेष्ठी बहुभिः भद्रपुरुषैः सार्धं राजानं गतवान्, अभ्यर्थनां च कृतवान्।
"राजा श्रुत्वापि किमपि न कृतवान्। जना राजानं गत्वा रक्षायै प्रार्थयन्। राजा प्राह - यदि युवत्यः स्वेच्छया भिक्षुण्यो भवन्ति तर्हि किं कर्तुं शक्यते?
"अथ राज्ञी तूर्णा कच्चायनस्य वशवर्तिनी जाता। सा एकदा विहारं गता, न न्यवर्तत। राजा कुपितो विहारमाक्रामत्। परन्तु ततः प्रागेव भिक्षुः कच्चायनः काश्चन महिला आदाय ततो विनिर्गतः, तासु तस्यापि राज्ञी आसीदेका। राजा क्रुद्धः विहारमग्निसादकारयत्। राज्ञां गतायां राजा किन्नर उन्मत्तो जातः। प्रतिदिनमेका युवती तस्य वासगृहे नीयते, स तां भुनक्ति अनन्तरं च निर्दयं तां हन्ति। अन्येद्युस्तस्याः शवो राजकुलाद् बहिर्नीयते।
"केचन मान्त्रिका राजानमाहुः वयं स्वविद्यया राज्ञी क्व वर्तते इति सूचयिष्यामः। एतेषु आसीत् पुरोहितो मल्लटो नाम। सः अत्यन्तं कुटिलो अनार्जवशीलः। परन्तु पर्वतेषु या या गुहाः सन्ति तासु तस्य अप्रतिहता गतिः। स सर्वत्र पर्वतोपत्यकासु तीर्थेषु नदीतटेषु सञ्चारं कृत्वा कच्चायनस्य राज्ञाश्च तूर्णाया निवासं ज्ञातवान्। राज्ञे चासूचयत् - अहं यत्र ते राज्ञी वर्तते तत्र त्वां नेतुं शक्नोमि। राजा पूर्वं तु प्राह - न मे तया बन्धक्या किमपि प्रयोजनम्, परन्तु पश्चात् अस्तु पश्यामि किं सा कुरुते तेन भिक्षिणा सार्धं वसन्ती इति कथयित्वा मल्लटेन सह प्रचलितः। स राजानं सोदरतीर्थं नीतवान्। तस्मिन् तीर्थे गुहायामेकस्यां राज्ञी तूर्णा तन्त्रसाधनां करोति स्म।
"इतः परं किं जातमिति सर्वथा सत्यतया न ज्ञायते। केचन कथयन्ति यत् राज्ञी मिलिता। राजैव तां जघान। अपरे ब्रुवन्ति सा एव राजानं दृष्ट्वा आत्मन उदरे क्षुरिका-प्रहारं कृत्वा मृतेति।
"अहं तु स समयः परं दुर्भाग्यमय इति स्मरामि। जीवनमेव विनष्टम्। किन्नरपुरं विनष्टम्। सर्वं विनष्टम्।
इति कथयित्वा अश्रुलवपूरितनयनः सुश्रवाः पुनः विरराम।
विशाखः अग्रे स कथयिष्यति स्वकथामिति प्रत्याशया तं पश्यंस्तूष्णीं स्थितः।
हसन्त्या उपरि स्थापिते भाजने दुग्धं क्वथितम्।
-- इरे, विप्रदेवाय दुग्धं देहि - सुश्रवा ज्यायसीं तनयामादिशत्।
इरावती एकस्मिन् शरावे दुग्धमानीय विशाखायाददात्।
- ततः किं जातम्? कथाश्रवणकौतुकेन विशाखः सुश्रवसमपृच्छत्।
-- सोदरतीर्थात् परावर्तते स्म राजा। तदानीमेव तुमुलः करकापातः सञ्जातः। किन्नरपुरमेव करकाभिः आच्छन्नम्। अहं स्वतनये रक्षितुमाश्रयमन्विष्यामि। मम कुटीरं भग्नम्, करकाभिरवस्कन्दितम्। नैके मृताः। यावत् कन्ये सुरक्षिते स्थापयित्वा परावर्ते तावत् पश्यामि यत् प्राणप्रिया कुटीरे एव समाधिं प्राप।
राजा तु मल्लटो यत् कथयति तत् करोति। मल्लटस्तमाह - राजन्, तव राज्ञ्याः भिक्षोः कच्चायनस्य च पापेन किन्नरपुरं विनष्टम्। इदं न पुनर्वासयोग्यम्। अन्यं पुरं स्थापय। ततस्तु राजा सपरिच्छदः किन्नरपुरात् प्रचलितः। प्रचलिते तस्मिन् अवशिष्टा अपि जनास्तस्मात् पुरात् चल-चलेति चेलुः। नवीनं पुरं स्थापितं राज्ञा। इदमेव तत् नवकिन्नरपुरम्।
इह सर्वम् उपपन्नम्। कापि बाधा नास्ति। केवलं स महालम्पटो मल्लटोऽस्माकं जीवनस्य
महाकण्टको जातः।
-- किं करोति सः?
-- स इदानीं निरङ्कुशो जातः। स यत् कथयति तद् राजा करोति। नवकिन्नरपुरस्य सुखसमृद्धये यज्ञानुष्ठानं करणीयम्। तत्र अपेक्षिता भवन्ति धान्यानां सम्भाराः। अतः कोऽपि स्वधान्यक्षेत्राद् धान्यं नेतुं न शक्नोति। यावद् यज्ञो न भवति पूर्णस्तावत् कोऽपि कृषीवलः कर्षणकर्ता वा स्वक्षेत्रे कलमानां कर्तनं धान्यसङ्ग्रहं न कुर्यात्, न केवलमेतदेव धान्यस्य भक्षणमपि निषिद्धम्। नवीनं धान्यं कोऽपि न पचेदिति आदेशः। तत्परिपालनाय मल्लटस्य पुरुषाः सर्वाणि क्षेत्राणि निरीक्षमाणाः सञ्चरन्ति। अस्माकं गृहे तु गतवर्षस्य धान्यमेव नास्ति, अस्मिन् वर्षे प्रचुरं शस्यं जातम् - तेन इति स्वस्यैव क्षेत्रस्य धान्यं न भोक्तुमर्हामः।"
गड्डारिकायाः उष्णं दुग्धं निपीयासौ सुखं सुप्तः।
सुश्रवसो नागस्य कुटीर एव एकस्मिन् कोणे विशाखोऽशेत। अपरस्मिन् कोणे इरावती चन्द्रलेखा च पलालस्य शय्यां विरचय्य सुप्ते, मध्ये सुश्रवाः। एतेषाम् अविच्छिन्ना निःश्वासस्वराः मुहूर्तमश्रूयन्त। ऊर्णानिर्मिते उष्णप्रावारके आत्मानं सम्पीड्य असौ तथा निद्राधीनो जातो यथा कथं रात्रिर्व्यपगतेति किमपि नाज्ञायत।
(5)
प्रभाता रजनी। विहितनित्यकृत्यो विशाखः बुभुक्षितः एकं फलमादाय अभक्षयत्। तदानीमेव - "अरे क एष फलानि आदत्ते?" इति विकटः कटकटाशब्दोऽश्रूयत।
सम्मुखमुपस्थितौ याष्टिकौ द्वौ, तयोः पृष्ठतः नाग इव फूत्कुर्वन् त्रिपुण्डाङ्कितललाटः चन्दनचर्चितभालः कश्चन पुरोहितः। तेनैव क्रोधादेष प्रश्नः कृतः।
-- यस्य फलानि सन्ति तस्याज्ञा मया गृहीता। विशाखोऽवादीत्।
-- अरे डिम्भ, कस्त्वम्?
-- भगवन्, अयमस्माकम् अतिथिर्वर्तते। - तदानीमेव सुश्रवा नागस्तत्र समेत्य तस्मै प्रणामं विधाय सादरम् आह। उपांशु च विशाखमसूचयत् - अयमेव मल्लटः।
-- अतिथिः? कुत आगतः ? किमर्थमागतः? अस्यागमनम् अस्मभ्यं किमर्थं न सूचितम्?मल्लटो गर्जति स्म।
-- अतिथेरागमनं किमर्थं कस्याप्यन्यस्य कृते निवेदनीयम्? इदानीं विशाखः तं प्रत्यादिशन्नाह।
-- अरे डिम्भ, आत्मनो मृत्युमभिलषसि किम्?
-- मृत्युस्तु सर्वेषामवश्यम्भावी। यथा तव तथा मम।
विवादो वर्धते स्म। विवादपदानि श्रावं श्रावं कुटीरे स्थिता चन्द्रलेखा रोदिति। इरावती विशाखमाह - महाभाग, अलं कलहेन। मल्लटोऽयम्। राजा अस्य वशवर्ती।
तत्क्षणमेव याष्टिकौ द्वौ तत्पृष्ठतः स्थितौ पुरः समागत्य विशाखं विस्फारिताभ्यां चक्षुर्भ्यां निरीक्षमाणौ तर्जयतः स्म।
विशाखो मल्लटमवोचत् - भवता धर्मसाधना क्रियते युद्धं वा विधीयते?
-- अरे मारयत एनम् - इति यावत् स कथयति तावदेव विशाखः प्रहाराय झम्पां ददानयोः याष्टिकयोरेकतरं पादाङ्गुष्ठेन अन्यं चोदरे मुष्ट्या अहनत्। उभौ पीडया क्रन्दन्तौ भूम्यां निपतितौ। मल्लटः किमपि अवगच्छति
तावत् स विशाखेन ग्रीवायां निगृहीतः। विडालगृहीतो मूषक इव चीङ्-चीङेति रवं सोऽकरोत्।
-- पाषण्ड, तव पाखण्डं खण्ड-खण्डं करोमि अधुना - न त्वं धार्मिकः, अपितु दाम्भिकः। त्वरितमितोऽपेहि। नो चेत् तव च तव अनयोः शिष्ययोश्च महदकल्याणं स्यात्।
अपहस्तित सर्वस्व इव अपमानित इव मल्लटस्ततः याष्टिकाभ्यां प्रचलितः। गच्छता तेनोक्तम् - हताश, वेत्स्यस्यस्याविनयस्य फलम्।
विशाखः सुश्रवसा सह कुटीरान्तः समागतः। भवतः शरीरे तु किमपि क्षतं नाभूत्? चिन्तितःसुश्रवा विशाखं पृच्छति स्म।
-- अलं चिन्तया, अहं महाराजं कनिष्कं सूचयिष्यामि - अहं तत्र गमिष्यामि - आचार्यवसुमित्रेण सह वार्तां कर्तुम्, तस्मात् भदन्तस्य अश्वघोषस्य सङ्केतमवाप्स्यामि - स तु अवश्यमेव साहाय्यं करिष्यति -
चन्द्रलेखा इरावती च रुदतः। सुश्रवा विशाखस्य गमनाय सन्नाहं करोति - मार्गं बोधयति - पाथेयं सन्निधापयति - विशाखो निवारयति - "आर्य, मार्ग एव कियान् - इतो गतस्ततः प्राप्तः।"
इदानीम् आर्य इति सम्बोधनेन सुश्रवा न कुप्यति।
अस्मिन्नेव समये केचन नागयुवानः पञ्चवृद्धजनाश्च सुश्रवसो गृहं प्राप्ताः। ते सुश्रवसैव आकारिताः। सुश्रवास्तान् सम्प्रत्येव यत्किमपि जातम्, तत्सर्वं न्यवेदयत्। स विशाखस्य शौर्यं सोत्साहमवर्णयत्। तेषु वृद्धतमः तक्षकः प्राह --यज्जातम्, तज्जातम्, वासुकिरिदानीं नो रक्षकः। विप्रेणापि सावधानेन भाव्यम्। अयमितो गच्छति, अनेन सह को याति? इदानीं मल्लटस्तूष्णीं न स्थास्यति - अतः विशाखेनापि सावधानेन भवितव्यम् - कदाचित् स गूढं घातं कुर्यात् - इति सर्व आहुः।
खण्डकः, सुमन्तः, ककुत् इत्यते युवका मिलिताः। ते सर्वे विशाखस्य पराक्रमकथां श्रुत्वा श्रुत्वा अतितरामुत्साहिताः, वयं तु पूर्वमेव कथयामः स्म -अस्य मल्लटस्य अत्याचारो न सोढव्यः, इदानीं सन्नद्धा भवामः। अनन्तरं कथं सन्नाहः स्यादिति ते विमृशन्ति स्म।
पूर्वाह्णः जातः। इरावती-चन्द्रलेखयोः अत्यन्तं विषण्णे आकृती दृष्ट्वा प्रस्थितस्यविशाखस्यमन उत्कायितम्। स उभे सान्त्वयन्नाह - अहं शीघ्रमेवागमिष्यामि।
एकेनैव दिनेन कियान् स्नेहः सुश्रवसो नागस्य तस्मिन् प्ररूढः।
इरावती मन्दम् अजल्पत् - अन्तरायबहुलो मार्गः। अत्यन्तं सावधानेन भाव्यमार्येण।
-- भवतीभ्यां सावधानतया स्थातव्यम्, आत्मा रक्षणीयः तेभ्यः मल्लटादिभ्य इति स मुहुर्मुहुरुपदिशति स्म इरावतीं चन्द्रलेखां च।
अस्मत्कृते चिन्ता नो विधेया। स दुष्ट इदानीं भीतः, स किं कुर्यात् -
उटजद्वारि स्थिता इरावती तस्याः पृष्ठतश्च चन्द्रलेखा। प्रयान्तं तं विलोकयन्त्यौ स्थिते। विशाखेन अवशमिव परावर्त्य दृष्टम्। इरावत्याः नयनयोरासीत् करुणा स्नेहः, चन्द्रलेखायाः नयनयोः अव्यक्तोऽनिर्वाच्यः कश्चन भावः- चन्द्रलेखायाः नयने गाढं निखाते इव - स गच्छति - पृष्ठं स्पृशतीव तस्याः दृष्टिः ...पृष्ठे कण्डूरिव जायते -
जानीमो वयं यत्ते दुष्टा इदानीमस्मान् न मोक्ष्यन्ति -सुश्रवाः कथयति स्म। तथापि सन्नद्धा वयम्। विप्रवर्यस्य चिन्ता माऽस्तु। अहं जानामि किं करणीयमधुना। महत् कार्यमवशिष्यते। भवताम् उद्यमेनअस्माकमपि उद्धारः स्यात्।
कथमात्मरक्षा करणीया, राजद्रोहोऽपि परिहरणीयः, मल्लटेन प्रेरितो राजा यदि अस्मान् त्रासयति तर्हि वयमपि प्रतीकारं करिष्यामः –महाराजस्य कनिष्कस्य सविधे प्रार्थनां प्रेषयिष्यामः -- अयं राजा किन्नरस्तस्य अधीनतां स्वीकृतवान्, यदि स सन्दिशति तर्हि अन्यथा न करिष्यति - केवलं श्रूयते यत् महाराजः कनिष्कस्तु विजयार्थं सुदूरं निर्गतः -
विशाखः तक्षशिलायां दृष्टां कनिष्कस्य तेजोमयीं मूर्तिं स्मरति - तेन सह स्वसंवादमपि स्मरति स्म। महाराजः कनिष्कस्तु तम् इदानीं यावत् स्मरेत् इति न सम्भाव्यते
"चिन्ता न कार्या - विप्रवर्यो भदन्तेन अश्वघोषेण सङ्गमिष्यति। भदन्तश्च महाराजाय कनिष्काय कथयेत्। तदा सर्वं समाहितं स्यात्"-- सुश्रवा पुनः सोत्साहं सर्वान् वदति स्म।
विशाखेन सह पञ्च नागयुवानः अगच्छन्।
एकेन प्रहरेण स किन्नरपुरस्य विहारं प्राप्तवान्। सरलवृक्षाणां देवदारूणां वा परितः पङ्क्तयः। नानाविधानि फलानि वृक्षेषु लम्बन्ते। विशाख एतेषां सर्वेषां फलानां नामान्यपि न जानाति। बहिः आतपस्य स्वर्णराशिर्विकीर्णः।
भिक्षवः भिक्षापात्रमादाय सञ्चरन्ति, केषाञ्चित् भिक्षापात्रेषु फलानि सन्ति - उज्ज्वलानि स्वर्णवर्णानि फलानि। वृक्षेभ्यः स्वतो यानि फलानि पतन्ति तान्येव एते गृह्णन्ति।
विशाखो विहारं प्राप्तवान्। तत्र कोऽपि किमपि न पृच्छति। सर्वे स्वात्मन्येव रताः। परमा प्रशान्तिरनुभूयते।
तेन समं समागता नागयुवानस्तं विहारद्वारं यावत् प्रापय्य तत्रैव स्थिताः।
विशाखो विहारान्तः समेत्य शनैरतिमन्दस्वरेण तेन एको भिक्षुः पृष्टः - भगवन्, आचार्यस्य वसुमित्रस्य दर्शनाय समागतोऽयं जनः।
स किमपि नावोचत्। क्षणं विशाखम् निध्यायन् स्थितः। अनन्तरं क्षीणं स्मितं तस्य अधरे समुदितम्। इङ्गितमात्रेणैव स विशाखं अनुवर्तनाय निरदिशत्।
विशाखस्तेन सह प्रचलितः।
ये भिक्षवो विशाखेन परित उद्याने भिक्षां गृह्णन्तो दृष्टास्ते इदानीं परावृत्ताः। भोजनग्रहणात् प्राक् ते बुद्धस्य वन्दनं कुर्वन्ति स्म। आतपे स्वर्णिमप्रभायां कषायवस्त्राणि वर्णस्य अत्यन्तं विचित्रं सम्भेदं विरचयन्ति।
(6)
प्राङ्गणे उपविष्टाः भिक्षवः। ते धम्मपदं पठन्ति स्म। अनन्तरं तेषां शिरांसि अवनतानि। विस्मयस्तब्धो विशाखो विलोकयति, अद्भुतमेव दृश्यम्। सहसा सौम्यदेवानां गुरुकुलनिवासदिनेषु कदाचित् विपाकस्य मुखात् श्रुता इयं गाथा तस्य स्मृतौ उदिता -
कीरमुहसच्छद्देहि रेहइ वसुहा पलासकुसुमेहिं।
बुद्धस्स चलणवंदननिपतितैरिव भिक्खुसंघैः।।
बुद्धस्स चलणवंदननिपतितैरिव भिक्खुसंघैः।।
पलाशवने तेन गाथेयं गीता। श्रुत्वा विशाखस्तदानीं चकितः। उक्तमासीत्तेन -- विपाक, इयं गाथा त्वया कुतः श्रुता? इयं तु भाषायां नास्ति! विपाकेन सा गाथा कस्यचित् दासस्य मुखात् श्रुता... तस्य दासस्य नामापि तेन तदानीं कथितमासीत्... खुल्ल इति। तेन विपाक उक्त आसीत् तदानीम् - त्वया प्राकृतगाथा गीता! यदि गुरुवो
जानीयुस्तर्हि ते अत्यन्तं कुप्येयुः। - गाथाया अर्थः कः इति पृष्टो विपाको भणति स्म - अर्थं तु अहमपि नावगच्छामि - विपाकेनोक्तमासीत्। मया खुल्लः पृष्टः - कोऽयं बुद्धः?कश्च तस्य सङ्घः? स आह - अरे बुद्धस्य भगवतः विषये न जानाति भवान्?बुद्धस्तु महाज्ञानी महात्मा, स एव भगवान्।
गुरुवर्याणां सौम्यदेवानाम् आश्रमस्य समीपे स्थितं तत् पलाशवनं तस्य स्मृतिपथमुपागतम्। तदानीं स न जानाति स्म कीदृशो भवति भिक्षुसङ्घः, कश्च भगवान् बुद्धः। पलाशवनं परितश्च स्रस्तर इव अधिधरित्रि आस्तृतं पलाशपुष्पपरिधानं पश्यति स्म। अत्र न वर्तते पलाशवनम्। वर्तते भिक्षुसङ्घः। गाथा समधिकतरं चेतसि चमत्कारमातनुते। तदानीमसौ बुद्धस्य विषये नाजानात् - कियान् कालोऽतीतः - विपाकस्तेन न दृष्टः!
विशाखो भिक्षुणा समं याति स्म। कक्ष्यातः कक्ष्यां लङ्घयन् तास्ताः सोपानश्रेणीरारुह्य विहारस्य उपरितमचतुर्थभूमिकाम् आरुह्य स भिक्षुःविरामाय सङ्केतमकरोत्।
तप्तकनकावदाता कान्तिमती मूर्तिः, नयनेभ्यः स्यन्दमानः करुणाया अजस्रः प्रवाहः। विशाख आचार्येभ्यः प्रणतिमकरोत्, स्वागमनप्रयोजनं न्यवेदयत्। मलिन्दपन्हो इति ग्रन्थस्य पुस्तकं च तेषां पुरः स्थापयामास।
आचार्या गद्गदभावेन पुस्तकं प्रणम्य अवदन् - भद्र विशाख, कियानुपकारो भवता विहितो मम एतत्पुस्तकमानीतवता।
बहोः कालं यावत् ते तक्षशिलाविद्यापीठस्य आचार्यान् पूर्वच्छात्रांश्चाधिकृत्य चर्चां कुर्वाणा आसन्। अश्वघोषस्य विषये तु ते अतितरां प्रशस्तिमुखराः।
महास्थविरस्य सङ्केतेन कश्चन सामनेरः फलमिश्रमर्घ्यमुपाहरत्। महास्थविर आह - प्रथमं किमपि अर्घ्यं स्वीकुर्वन्तु अनन्तरं वार्तालापः स्यात्।
अत्र भिक्षवः केवलं फलान्येव भक्षयन्ति। फलान्यपि केवलं तानि यानि स्वतो धरायां वृक्षेभ्यो निपतन्ति।
(7)
अश्वघोषस्य अवस्थितिर्ज्ञाता। सम्प्रति स प्रवरपुरे एकस्मिन् विहारे वसति। विशाखः तस्मै आचार्याणां भद्रबाहूनां पत्रं समर्प्य पुनः किन्नरपुरं प्रत्यागमिष्यामि इति निश्चयमकरोत्। आचार्यः सामनेरमवदत् - पुत्र, त्वया विशाखवर्येण सह गन्तव्यम्।
वसुमित्रेण सङ्गत्य विशाखः अत्यन्तं प्रसन्नः। काश्मीरेषु आगमनं सार्थकम्।
आचार्येभ्यः अनुज्ञां प्राप्य स बहिरागतः विहारद्वारे स्थितान् समं समागतान् नागयुवकानपश्यत्। स तानवदत् - मित्राणि, कार्यं सिद्धम्। इदानीं भदन्तस्य अश्वघोषस्यसकाशं यामि। इतः कश्चनमया सह याति। अतः भवन्तो निवर्तन्ताम्। अश्वघोषेण मिलित्वा अहं तथा प्रयतिष्ये यत् राजा कनिष्कः तेन प्रेरितः मल्लटात् तस्माद् राज्ञश्च नः सर्वान् रक्षेत।
नागयुवानस्तं प्रणम्य गताः।
स सामनेरेण साकं प्रचलति। सामनेरस्य नाम वर्तते शिल्हणः। स निकटवर्तिनि ग्रामे न्यवसत् - पिता भगवतो वसुमित्रस्य उपदेशेन भृशं प्रभावितः - सोऽपि प्रभावितः - अतः सङ्घं समागतः।
शिल्हणस्य गतिस्तीव्रा। तस्य अभ्यासो वर्तते उच्चावचे शिलासङ्कुले पथि गमनस्य। विशाखस्य मानसं क्वचित् चन्द्रलेखायाः स्मृतिरान्दोलयति, तेन तस्य गतिः शिथिला भवति - भवतीभ्यां सावधानतया स्थेयम्, आत्मा रक्षणीयः तेभ्यः मल्लटादिभ्य इति तेन यदा उभे भगिन्यौ उक्ते तदा चन्द्रलेखायाः आर्द्रनयनाभ्यां निरीक्षणम्। उटजद्वारि स्थिता इरावती तस्याः पृष्ठतश्च चन्द्रलेखा प्रयान्तं तं विलोकयतः स्म। चन्द्रलेखाया वक्रा दृष्टिस्तस्य हृदि गाढं निखातेव। स गच्छति - पृष्ठं स्पृशतीव तस्याः दृष्टिः...। पृष्ठे कण्डूरिव भवति स्म - स्मृत्वा स्मृत्वा इदानीमपि पृष्ठे कण्डूरिव भवति।
चिन्ता अपि मानसं मथ्नन्ति। अपि नाम स भदन्तम् अश्वघोषं पश्येत्, अपि नाम अश्वघोषस्तस्य अनुरोधं स्वीकुर्यात् - अपि नाम स महाराजं कनिष्कं नवकिन्नरपुर- किन्नर- पुरयोः रक्षायै प्रेरयेत् - यदि स कनिष्कं कथयेत् तर्हि सर्वमुपपन्नं स्यात्। कनिष्कः कदाचित् क्रूर आसीत्, तथागतमतमुरीकृत्य जातः करुणामयः। तस्य मनसि ममता वर्तते इति विशाखेन तदानीमपि अनुभूतं यदा कनिष्कस्य सङ्केतेनैव स तक्षशिलायां प्रवेशं प्राप्तवान्।
एतद् रहस्यं तस्मै उपालिना सूचितमासीत्। विशाखः तस्मिन् दिने तक्षशिलायां विद्यापीठद्वारे अन्तः प्रविशन्तं कनिष्कं चीत्कृत्य न्यवारयत्। कनिष्कस्य प्राणा रक्षिताः।
प्रवरपुरे सर्वत्र दृश्यन्ते अत्यन्तं रमणीया मूर्तयः। एतादृश्यो मूर्तयस्तेन मथुरायामपि दृष्टाः। इदानीमसौ जानाति यत् इयं कला गान्धारदेशीयानाम्। अश्वघोषः काश्मीरेषु गान्धारेऽपि च बोधिसत्त्व इव पूज्यते। न केवलमेतदेव, चीनदेशीयाः यात्रिकाः तस्य दर्शनाय समायान्ति।
परमरमणीयं प्रवरपुरम्। परितो हिमालयशृङ्खलाः, उत्तुङ्गाः सरलवृक्षाः। मेघाः शशा इव हरिणा इव सम्मुखं प्रधाव्य प्रधाव्य यान्ति।
शिल्हणेन साकं स राजविहारं प्राप्तवान्। अयं विहारः विशालतरः भव्यतरश्च। किन्नरपुरे यो विहारो दृष्टः स इदानीं लघुर्भाति। सामनेरः शिल्हणः गान्धारभाषया द्वित्रान् भिक्षून् किमपि अवदत्, ते सविनयं विशाखं दृष्ट्वा मार्गं निर्दिशन्ति।
अथ उभौ परमविशालायां शालायामेकस्यां प्राप्तवन्तौ। शालायां भित्तिषु विविधवर्णविचित्रितानि बोधिसत्त्वचरितनिदर्शनपराणि चित्राणि। मध्येशालं काष्ठासने विराजते कश्चन भिक्षुः।
-- अयं भदन्तः अश्वघोषः। - शिल्हणः कथयति स्म।
परिचिता प्रतिभाति आकृतिः।
-- अरे आर्य कौण्डिन्य! विशाखस्य मुखान्निर्गतम्।
-- स्वागतं भद्र विशाख! भवता मम पूर्वाश्रमनाम गृहीतम्, तेनाहं स्मृतवान्, तेषु दिनेषु आचार्यचरणानां सौम्यदेवानामाश्रमे भवान् मम सतीर्थ्यः।
स एव गम्भीरो मृदङ्गमांसलः स्वरः। सैव परिचिता आकृतिः, सौम्या आश्वासनकरी भयहरी। केवलं कपोलयोर्द्वित्रा वलयो दृश्यन्ते। विशाख उपसृत्य सादरं प्रणनाम। कौण्डिन्यः- अथवा - अश्वघोषस्तस्य हस्तौ गृहीत्वा तमुत्थापयामास।
भदन्तस्य अश्वघोषस्य भक्ताः चकिताः, अरे महास्थविरस्य आचार्यप्रवरस्यअश्वघोषस्य पूर्वाश्रमसखा कश्चन समागतः। ते अतिशयेन तस्मिन् आद्रियन्ते स्म।
विशाखस्य मनसो विस्मयमधुनाऽपि न निर्याति। तर्हि य आर्यः कौण्डिन्यस्तस्य सतीर्थ्यो ज्येष्ठान्तेवासी आसीत् सौम्यदेवस्य आश्रमे, यश्च विमलमतीनां गुरुचरणानां शिष्यत्वं प्राप, अनन्तरं च तक्षशिलायामधीते स्म, स एव कौण्डिन्यः अश्वघोषः। मनो न विश्वसिति। परं प्रत्यक्षं दृश्यते, सोऽयं कौण्डिन्यः इदानीमश्वघोषः!
अश्वघोषेण साकं चिरमालपन्नास विशाखः। सौम्यदेवानां गुरुकुलस्य दिनानि स्मरतोः, तत्रत्यानामन्तेवासिनां चर्चां कुर्वतोः अनयोः कः कालोऽतीत इति नाज्ञायत। अथ तक्षशिलायां यत् किमपि ज्ञानमर्जितं तस्यापि उभौ आकलनं कृतवन्तौ। अस्मिन् महादेशे एतावन्तो धर्मसम्प्रदायाः, एतावन्तो भेदाः, परस्परं कलहः। अयं कलहो निवारणीयः, यस्य मनो यं धर्ममभिनिविशते स तं धर्मं निर्वहतु, परन्तु अन्यस्य स्वातन्त्र्यं न छिनत्तु। मूलं तु सर्वेषां अयमेव मन्त्रः -- आत्मा प्रथमं ज्ञातव्यः।
मनस्तथा लग्नं यथा अन्यत् सर्वं विस्मृतम्। अश्वघोषेणैव स स्मारितः भद्र, तव
कार्यं वर्तते नवकिन्नरपुरे। यथाहं पश्यामि तत्र सङ्कटस्य छाया आसन्ना।
मनसः संशया विगलिताः। मम मते ब्राह्मणस्य अर्हतश्च न कश्चन विशेषः। ज्ञानाग्निना उभयोरपि कर्माणि भस्मसाज्जातानि तदा यः ब्राह्मणः स एवार्हत्, य एवार्हत् स एव ब्राह्मणः। - अश्वघोषःकथयति स्म - भद्र विशाख, कश्मीरदेशः अस्या भारतवसुन्धराया मस्तकम्। इदमेव व्रणजर्जरं भवति।राजा कनिष्कोऽयं बर्बर आक्रान्ता आसीत्, अनेन सौगतो मार्गः स्वीकृतः, इतः पूर्वं बहवः यवना अपि अस्माकं मातरं वसुन्धरामिमाम् आक्रान्तवन्तः। तेषु मिलिन्दादयः बहवो बुद्धस्य करुणायाः पात्रं जाताः।
परावर्तमानस्य विशाखस्य मनः पुनश्चिन्ताचर्चितम्। त्रयो दिवसा अतीताः, सः अत्यन्तं लघुवेगेन गतः, आचार्येण अश्वघोषेण कौण्डिन्येन शिबिका प्रदत्ता।
विशाखेनोक्तमासीत् - शिबिका किमर्थम्? यथा आगतस्तथा गच्छामि, न मे बाधा अनेन उच्चावचेन पथागमनेन, त्वरितमेव गमनीयम्।
अश्वघोषेणोक्तम् - मित्र विशाख, त्वरितं गमनीयमित्येव कथयामि शिबिका स्वीकार्या। एते शिबिका-वाहका अस्मिन् पार्वत्ये प्रदेशे गमनागमने अभ्यस्ताः। त्वम् इतः बहोः कालात् यात्रया क्लान्तः प्रतिभासि। महच्च त्वयि विद्यते दायित्वम्। यथाऽहं पश्यामि - इदानीं कश्चन समय आगतो यदा त्वया अस्मिन् देशे स्थित्वा शास्त्राणां समुद्धारः कार्यः। सैनिका अपि चलन्ति - आचार्यस्य वसुमित्रस्य कारुण्यं मनसि निहितम्, आर्यस्य कौण्डिन्यस्य अथवा भदन्तस्य अश्वघोषस्य सौहार्दम् -
शिबिकायां बहूनि ऊर्णावस्त्राणि आचार्येण अश्वघोषेण तस्मै उपहारीकृतानि, फलानां च सम्भाराः।सः अश्वघोषस्य उपकारेण अवनत इव आत्मानं मनुते।
अक्षोटैरङ्कोटैर्दाडिमैश्च पूर्वमेव एका मञ्जूषा तस्य सविधे वर्तते। इयं मञ्जूषाऽपि अक्षोटवृक्षस्य काष्ठेन निर्मिता, अत्यन्तं मनोहरा। अन्तः विविधानि फलानि स्थापयितुं पृथक् पृथक् खण्डाः निर्मिताः। शिविकावाहकाः सैनिकाः विशाखं मुहुर्मुहुः पृष्ट्वा मार्गस्थेभ्यो वृक्षेभ्यः फलानि चित्वा चित्वाऽस्मै उपहरन्ति, विशाखः प्रत्यादिशति, कथयति च - अयि भोः, न मया इष्यते किमपि वस्तु, केवलं त्वरितं प्रापयन्तु मां नवकिन्नरपुरम्।
शिबिकावाहकाः गीतानि गायन्ति। वड्ढकहायाः कथाः कथयन्ति। अत्र कथानां महान् प्रचारो वर्तते। अत्रत्याः सर्वेऽपि जनाः सङ्गीतप्रियाः। एतेषां वीणा अत्यन्तं मधुरं क्वणन्ति।यादृशो गौरो वर्णः, तादृशी भव्या आकृतिः, यादृशी भव्या आकृतिस्तादृशी गतिः, यादृशी गतिस्तादृशी धृतिश्च मतिश्च।
प्रातः प्रवरपुरात् प्रस्थितो विशाखः।तस्य मनसि मनोरथाः विपच्यन्ते – स सुधन्वना नागेन अन्यच्च इरावत्या चन्द्रलेखया च पुनः सङ्गतः स्यात् -ते उभे - इरावती चन्द्रलेखा च श्रावं श्रावं तदीयं सर्वं यात्रावृत्तान्तं कथं चकिते स्याताम् कथं स तयोः प्रशंसाभाजनं भविष्यति - अन्यच्च -
8
मध्याह्नो जातः। विशाखः नवकिन्नरपुरं परावृत्तः। इदानीं मार्गाः परिचिताः,नगरस्य दक्षिणे भागे नागानां वसतयः, तत्र सुधन्वनो नागस्य उद्यानम्। उद्याने तस्य उटजम्।
नगरस्य दक्षिणे भागे नागानां वसतिमतिक्रम्य स सुधन्वनो नागस्य उद्यानं प्राप्तवान्। शिबिकाया अवतीर्य सुधन्वन उटजं प्रति प्रधावितः। उटजं शून्यमासीत्। निःशब्दम्। स आकारयत्। कोऽपि नैव उत्तरयति। विशाखोऽन्तः प्रविष्टः। केवलमेकाकिनी आसीत् चन्द्रलेखा।
चन्द्रलेखा प्रतिपच्चन्द्रलेखेव क्षीणा। गृहे शून्यता। अव्यक्त इव हाहाकारो ध्वन्यते।
सा शून्याभ्यां नयनाभ्यां विशाखं निध्यायति। विशाखस्य हृदयं स्तब्धम्। इयं मां पश्यन्ती अपि न पश्यति। गृहं शून्यं, सुश्रवा न दृश्यते।
-- भवति, अपि नाम सर्वं कुशलम्, कुत्र वर्तन्ते तातवर्याः -
श्रुत्वा चन्द्रलेखा फूत्कृत्य रोदितुमारब्धवती।
विशाखो विकलः पृच्छति - लेखे, लेखे, देवि, किं जातम्, स्पष्टं ब्रूहि। पृष्टा सा पुनरपि विह्वलेव रोदिति। दुःखस्य पिहितं द्वारं यथा अपावृतं स्यात् तथा।
विशाखो भयसन्नः। अवश्यमेव किमपि अत्याहितम्। लेखे, अलं रोदनेन। यदि नाम न मह्यं निवेदयसि किं सञ्जातं तर्हि कथमहं जानीयां किं मया करणीयम्।
चन्द्रलेखा शनैः शनैः स्वयमेव विरतरोदना विशाखाय केसरदाडिमाङ्कोलादिभिर्विनिर्मितं पेयमानीय दत्तवती। विशाखेन निषेधः कृतः। चन्द्रलेखा अकथयत्- गृह्णन्तु। भवन्तो यात्रया अत्यन्तं श्रान्ताः।शरावं हस्ते गृहीत्वा विषण्णः स्थितः। बुभुक्षा पिपासा च व्यपगते। चन्द्रलेखां विषादमलिनां दर्शं दर्शं प्राणाः कण्ठमिवायान्ति।
स शरावं काष्ठपीठे निधाय बहिरागतः।
शिविकावाहकाः शिविकायाः तस्य वस्त्राणि फलानि अवतारयन्ति स्म। सामग्रीं ते अन्तरानीतवन्तः। ते चन्द्रलेखां तथाविधां रुदतीं दृष्ट्वा भयेन स्तब्धाः।
अश्वघोषेण प्रेषितेषु जनेषु मुख्यः छन्नः प्रणम्य विशाखमपृच्छत्- आर्य, किमपि अत्याहितम्। वयमत्र स्थिताः। यदि अस्माकं साहाय्यमावश्यकं तर्हि सूचयन्तु। भदन्तेन वयमादिष्टाः - सर्वथा श्रीमतां सेवा करणीया।
-- भद्र छन्न, अहमितो गतश्चागतश्च। अत्रान्तरे किमपि दुरापन्नम्। सर्वथा न ज्ञायते किमभूत्।क्षणं प्रतीक्षस्व, यावद् अत्रभवती सुस्था भवति, तावदहं जानीयां किमस्माभिः करणीयमिति।
चत्वारः शिविकावाहकाः,त्रयः सेवकाः छन्नश्च - एते बहिः स्थिताः।
विशाखः उटजं प्रविष्टः। चन्द्रलेखा विशाखस्य अंसे मस्तकं न्यस्य उच्चैररुदत्।
-- लेखे किमभवत्? - कुत्र वर्तते ते तातः?
चन्द्रलेखा अङ्गुल्या निरदिशत् - काचन आकृतिरेव वस्त्रावगुण्ठिता भूमौ शेते -
विशाख उपसृतः। अरे सुश्रवा एव वर्तते। आर्य, आर्य, विशाखस्तं समबोधयत्।
चन्द्रलेखा इदानीम् अश्रूणि प्रमार्ज्य तमवदत् - ते मूर्च्छायां मग्नाः, ज्येष्ठायाः किमपि न ज्ञायते -
सुश्रवा मध्ये मध्ये चक्षुषी उद्घाटयति, पश्यति, किमपि वक्तुमिच्छति, तस्य वाणी न प्रसरति। विशाखः सङ्केतेनैव तं समाश्वासयति - अलं चिन्तया, सर्वम् उपपन्नं स्यादिति। सुश्रवाः चन्द्रलेखां सङ्केतयन् किमपि वक्तुमिच्छति।
-- अपि नाम तेन मल्लटेन दुष्टेन महानयं घातः कृतः?
चन्द्रलेखा इदानीं स्तम्भितवाष्पवृत्तिकलुषेण कण्ठेनफूत्कृतीनामन्तराले त्रुट्य- द्विलीनाक्षरैरकथयत्-- नागाः सर्वे सन्नद्धाः आसन् -मल्लटोऽवश्यं घातं कुर्यादिति। मल्लटस्य सैनिकाः इदमुद्यानं परितो व्यूहन्ते स्म। तातेन कथितम्, अहं राजानं किन्नरं गत्वा कथयामि मा भूदयम् अनर्थः, स मल्लटं बोधयतु। आवाभ्यां पिता वारं वारं कथितः - राजाऽपि तस्यैव वशवर्ती वर्तते, किं तं प्रति कथनेन। यावत् तातः पञ्चभिर्नागयुवभिः सह राजानमवलोकयितुम् उद्यानान्निर्गतः, तावदेव मल्लटस्य सैनिकैः परिवारितः। नागा अपि शौर्येण युध्यन्ति स्म। अन्ततः ते पुनरपि पराजिताः, मल्लटः पलायितः। पञ्च नागा अपि मृताः, तातेन भृशं प्रहाराः प्राप्ताः...
अत्रान्तरे राजा किन्नरः कैश्चिद् वृद्धैरमात्यैर्बोधितः स्वयमुपेत्य मा भूदयं नरसंहारः, विरम्यतामुभयपक्षैरिति सर्वानाह। ततः प्रभृति प्रशान्तः कलहडम्बरः। परं तातस्येयमवस्था...
प्रथमं तावत् चिकित्सा चिन्तनीया। अपि नामात्र वर्तते कश्चन वैद्यः?
विशाखः सुश्रवसम् उपचरति स्म। वैद्यः नागच्छामीति निषेधं कृतवान्। तस्य मल्लटे भक्तिरस्ति।
-- चन्द्रे, मम सकाशमेको वस्त्रग्रन्थिरासीत् यदाऽहमागतः अस्मिन्नुद्याने - स दृश्यते?
- स मया अस्यां मञ्जूषायां स्थापितः-
चन्द्रलेखा एकां मञ्जूषामानीय विशाखाय दत्तवती।
- इदमस्ति औषधम् - अस्मिन् कुतपे - एतदस्ति व्रणविरोपणम् औषधम् - इदमेतस्य व्रणे लेपनीयम्।
व्रणविरोपणम् औषधं वैद्येन निधिदत्तेन भद्रपुर्यां सूतवर्यस्य व्रणे लिप्तमासीत्। इदानीं तेन एतदौषधस्य निर्माणविधिरपि विशाखाय विशदीकृतः। अनन्तरं तक्षशिलायाम् अधीयानेन विशाखेन एतादृशानामौषधानां निर्माणं साकल्येन ज्ञातम्। इङ्गुदीतैले सम्मिश्रितानिकेषाञ्चित् औषधानां चूर्णानि। अस्य प्रभावो विशाखेन अलकायाः समीपवर्तिन्यामुपत्यकायां शान्तिशीलेन सह निवसताऽपि प्रत्यक्षमनुभूतः।
-- अथ ज्येष्ठा क्वास्ते? विशाखः पितरमुपचरन्तीं चन्द्रलेखां पृच्छति स्म।
चन्द्रलेखा सुश्रवसो व्रणेषु लेपः ददाति स्म। सा विशाखस्य प्रश्नं श्रुतमपि अश्रुतं विहितवती।सुश्रवसो मुखात् वेदनया सीत्कारध्वनिर्निर्गच्छति।
विशाखः सोत्कण्ठं पुनरपृच्छत् - चन्द्रे, ज्येष्ठा क्वास्ते?
सा तं निध्यायन्ती तूष्णीं स्थिता। नयने तस्या वाष्पाम्बुपूर्णे। अथ सा शनैः स्वहस्ते धारितम् औषधस्य कुतपं विशाखाय पुनर्दत्तवती।
कालो याति। विशाखस्य मनोऽनुतापेन ज्वलति। कथं स त्वरितम् अश्वघोषस्य विहारान्नागतः? अत्र एतत्सर्वं विपर्यस्तं समजनि, स च ज्येष्ठेन सतीर्थ्येन स्मृतीनां चर्वितचर्वणं कुर्वन् रसमास्वादयति स्म। पुनः इरावत्या विषये पृष्टा कथमपि बाष्पं निगृह्य चन्द्रलेखा अवदत् - तातः भूमौ निपतितः, उत्थातुमपि न प्रभवति स्म। ज्येष्ठा उक्तवती - --चन्द्रे, त्वं तातम् अवेक्षस्व, तातेन अत्यन्तं विषमाः प्रहारा अवाप्ताः, अस्य कायो वर्तते व्रणजर्जरः, अहं गत्वा वसुदेवस्य वैद्यस्य गृहात् व्रणविरोपणम् औषधमानयामि.....। मया सा उक्ताप्यासीत् - अज्जुके, सायं समयः प्राप्तः, मल्लटस्य सहायका इतोऽपि आहिण्डमानाः स्युः... इदानीं व्रणेषु हरिद्रालेपो विहित एव। तातेनापि दुग्धं निपीतम्। इदानीं स्वपिति। श्वः प्रभातायामेव रजन्यां पश्यामः किं कर्तुं शक्यते इति। तया न श्रुतम्, विनिर्गता सा। निर्गता ... ततः न परावृत्ता। दिनद्वयं जातम् -- क्व स्याद् अज्जुका? किं तस्या जातम्, अहं विक्षिप्ता तामन्विष्यामि, अस्य पुरस्य वीथीषु, रथ्यासु, मार्गेषु, उद्यानेषु सरित्तडागेषु सर्वत्र अन्विष्टम्, एतेऽपि सर्वे तां मार्गयन्ति अस्माकं सहायका नागाः - अज्जुकायाः किमपि न ज्ञायते -
चन्द्रे, अलं विषादेन। मम ज्येष्ठान्तेवासी आर्यः कौण्डिन्यः....य इदानीम् अश्वघोषनाम्ना सर्वत्र प्रथते, अहं तस्मै सूचयिष्यामि। राजा कनिष्कस्तस्य पादौ सङ्गृह्णाति। तस्य कथनेन महाराजः कनिष्कः साहाय्यं कुर्यात् - रक्षकान् प्रेषयेत् - सेनामपि प्रेषयेत्।
विशाखेन अश्वघोषाय कौण्डिन्याय वा सर्वमपि इतोगतं वृत्तान्तं पत्रेण सूचितम्। तत्क्षणं छन्नः पत्रमादाय गतः।
अन्येद्युरेव अश्वघोषस्य प्रतिसन्देशः प्राप्तः। - मित्र विशाख, भवान् न जानाति - महाराजः कनिष्कः भवन्तं स्मरति - मया यदा भवन्तमधिकृत्य स विज्ञापितः, कथं च राजा किन्नरो भवतः प्रजां त्रासययतीति च निवेदितम्। - तक्षशिलायाः कश्चन स्नातकः वर्तते मम सतीर्थ्यः विशाखः - स मिलिन्दपन्होपुस्तकम् आनीय आचार्याय वसुमित्राय दत्तवान् - इति श्रुत्वा महाराजेनोक्तम् - विशाख! अरे स्मरामि तम्। एकदा अहं तक्षशिलां गतवान्, स तक्षशिलाविद्यापीठस्य द्वारे स्थित आसीत्, स मम प्राणानरक्षत्। महाराजः भवतोऽत्यन्तं स्नेहेन स्मरणं कृत्वा विहसितः। महती तस्य प्रीतिर्वर्तते भवन्तं प्रति।
विशाखेन सुश्रवसे सुधन्वने च पत्रस्य अभिप्रायः सूचितः। सुधन्वा सुश्रवसः परमं मित्रम्।
चन्द्रलेखा प्रतिपच्चन्द्रलेखेव म्लाना। तां दर्शं दर्शं विशाखस्य मनो दूयते। ज्येष्ठाया भगिन्याश्छत्रच्छायायां सा कथमुन्मुक्तं विहसन्ती दृष्टा! अत्यन्तं मुखरा - सर्वदा प्रागल्भ्यं वाचालत्वं च प्रकटयन्ती! इदानींसा अत्यन्तं गम्भीरा स्तोकभाषिणी जाता।
सुश्रवा इदानीं स्वास्थ्यं प्राप्तः। इरावत्या अन्तर्धानवृत्तं तस्मै न निवेदितम्। तस्य स्मृतिरपि प्राणघातकप्रहारैः किञ्चित् छिन्ना। विशाखं स प्रत्यभिज्ञातुं न प्रभवति - भवान् मम जामाता - इति कथयति। चन्द्रलेखां तु प्रत्यभिजानाति, परन्तु यदा चन्द्रलेखा तस्मै दुग्धं ददाति, सस्नेहं तस्य व्रणेषु औषधलेपं करोति तदा स कथयति - अरे इयं तु चन्द्रलेखाया माता वर्तते -इयं कुतः समागता?
(9)
दिनत्रयं व्यतीतम्। नागा इरावतीमन्विष्यन्ति। खण्डकः, सुमन्तः, पैलः, ककुत् - अन्ये च बहवो युवानः बालकाः पार्वत्योपत्यकासु रथ्यासु वीथीषु गेहेषु नदीतटं गत्वा गत्वा नद्यां चावगाह्य तां मार्गयन्ति।
सुश्रवाः शनैः शनैः आरोग्यं प्राप्तः। सोऽत्यन्तं कृशः परिलक्ष्यते, मुहुर्मुहुः विशाखं पश्यति, नयनयोरश्रुधारां प्रवाहयति, विशाखस्तं सान्त्वयति - अलं विषादेन, सर्वत्र भवतामनुगामिनो नागबालका देवीमिरावतीमन्विष्यन्ति, एते नागबालकास्तथा कुशला यत् यदि तां मल्लटस्य रक्षकास्ते क्रूरा नरपिशाचाः पातालमपि नीतवन्तस्तर्हि तामेते अन्विष्य आनेष्यन्ति।
तस्मिन् दिने सुधन्वा विशाखमाहूय अवदत् - वत्स विशाख, मम वचनम् अवधातव्यम् ... चन्द्रलेखा अत्यन्तं खिन्ना वर्तते, मम बाल्यसखा सुश्रवा एतादृशो जातः, सुश्रवसः चित्तं सुस्थं न वर्तते। स सङ्कोचवशात् किमपि वक्तुं न प्रभवति भवन्तम्। परन्तु स रुदित्वा रुदित्वा मह्यम् उक्तवान् - चन्द्रलेखापि एतदेवाभिलषति -
परन्तु सा किं ब्रूयात् -
विशाखः किमपि अनवबुध्यन् तं निर्वर्णयति -
मम तावदयमभिप्रायः - न केवलं मम - सर्वेषामस्माकं नागसमाजजनानामेव - अयमेव वर्तते मनसि सुश्रवसोऽपि - यत् भवान् चन्द्रलेखां परिणयतु -
विशाखश्चकितस्तं पश्यति - किमनेनोक्तम्?
विवाहः? चन्द्रलेखया? - चन्द्रलेखा रोचते तस्मै, परन्तु अस्मिन् देशे समागत्य स परिणीतः स्यात् इति तु न चिन्तितम्।
- नात्र विचारः करणीयः - सुधन्वा कथयति स्म।
कं पृच्छामि - अत्र मम कोऽपि नास्ति कुटुम्बी - विशाखः कथयति स्म। अथ स आत्मानमात्मना प्राह - अथवा आर्यं कौण्डिन्यं प्रक्ष्यामि - अश्वघोषम् -
अथ मध्याह्ने किमपि भुक्त्वा विशाखः सुधन्वना सह स्थितः। तदानीमेव खण्डक आगतः। खण्डकः धावने यथा कुशलस्तथा अन्यो नास्ति वसुमत्यामस्याम्। वानर इव हिमावृतेष्वपि मार्गेषु वृक्षाणां शाखासु वा स पवनवेगेन याति आयाति। त्वरया आगमनेन भस्त्रेव सत्त्वरं श्वसिति स्म। आगत्य स आह - अज्जुकायाः सङ्केतो ज्ञातः। सा विहारे वर्तते।
- विहारे - तत्र किमर्थम्? -
- सा भिक्षुणी जाता।
मुहुर्मुहुरनुरुद्धाऽपि इरावती विहारान्नागता। विहारे भिक्षुणीनां कृते पृथग् भवनं वर्तते।
विशाखो विहारं गतः। आचार्यं वसुमित्रं प्रार्थयामास। भिक्षुणीनां विहारः पृथग् वर्तते, तत्र पुरुषाणां प्रवेशाय अनुमतिर्नास्ति। परन्तु आचार्यवसुमित्रस्य आदेशेन विशाखः चन्द्रलेखा च इरावतीं द्रष्टुमशक्नुताम्।
इरावतीं दृष्ट्वा चन्द्रलेखा अज्जुके अज्जुके किमेतत् त्वया कृतमित्युक्त्वा उच्चैः रोदितुमारब्धवती। इरावती अनुजामालिङ्गितवती। तस्या अश्रूणि मार्जितवती। - अवदच्च - चन्द्रे, अलं रोदनेन।
एकस्य अक्षोटवृक्षस्य अधो वेदिका आसीत्. तस्यां त्रयोऽपि उपविष्टाः विशाखः, इरावती, चन्द्रकला च।
इरावती अत्यन्तं क्षीणस्वरेण मन्दं मन्दं जल्पति। या थेरी तामानीतवती तया तु उक्तमेव आसीत् - सा भिक्षुणी अस्वस्था वर्तते, आगन्तुमपि न प्रभवेत्। सा कमपि द्रष्टुं न वाञ्छति। तया सह महान् अनर्थः सञ्जातः। तथापि महाथेरस्य वसुमित्रस्य आदेशः वर्तते अतः कथञ्चित् तामानेतुं प्रयते।
इरावत्याः दीर्घाः केशाः गताः। स चकितचकितस्तां निध्यायति, द्वाभ्यां दिवसाभ्यां एतावत् किं तथा घटितं यत् सर्वमेव परिवर्तितम्।
इरावती स्व पितुर्विषये पृच्छति स्म। चन्द्रकला रुदती अवदत् - सोऽनिशं त्वां स्मरति।अहं किं कथयेयं तम्? अज्जुका अत्रैव वर्तते, उद्याने गता - आगमिष्यति - इत्येव वारं वारं कथयामि - कियत्पर्यन्तं तमहम् आश्वासयामि मिथ्याभाषणैः - अज्जुके अधुना गृहमेहि -
चन्द्रलेखा अत्यन्तम् उद्विग्ना - अज्जुके! अज्जुके! किमेतत् त्वया कृतम्, तातस्य कृते औषधमानेतुं गता , ततो न निवृत्ता - अनन्तरम् एतादृशी ते दशा - केन किं कथितम् - किं कारणम् --
- चन्द्रे, गते शोको न कर्तव्यः सर्वम् उपपन्नं स्यात्।
शनैः शनैः इरावती तस्यां कालरात्रौ यद् घटितं तत् सङ्क्षेपेण कथञ्चिद् विरम्य विरम्य सकष्टोच्छ्वासं गदितवती।
तस्यां रात्रौ सा वैद्यस्य गृहं प्रति प्रचलिता, मार्गे एव चत्वारो युवानस्तां निगृहीतवन्तः।
- भ्रातरः अलं मां त्रासयित्वा। मम तातः रुग्णस्तस्य कृते औषधमानेतुं यामि।
मुहुर्मुहुरनुरुद्धैरपि तैः इरावत्या अनुरोधाः सोपहासं तिरस्कृताः।
तां कर्षन्तस्ते एकस्मिन् शून्यारण्ये स्थिते उटजे नीतवन्तः।
दिनद्वयं सा तेषां वन्दिनी।तैः सा निर्दयं भुक्ता, अर्धमूर्च्छिता च वितस्तायास्तटे त्यक्ता। ते मल्लटस्य अनुगामिन आसन्। ते विहसन्तः कथयन्ति स्म - अरे अस्माभिः प्रतिशोधो विहितः। इयं चिरण्टी अधुना म्रियताम्। इति मुहुर्मुहुरुक्त्वा ते अट्टहासमकुर्वन्।
यदा संज्ञा अवाप्ता तदा अहमात्मानमस्मिन् विहारे अपश्यम्।महाथेरी भद्रा मामुपचरति स्म। दिष्ट्या जीवति - सर्वथा स्वस्था भविष्यति- सा कथयति स्म।
महाथेरी मा बहुधा बोधयति स्म - गृहं परावर्तस्व - तव पिता चिन्तातुरः स्यादिति कथयति स्म। मयैव सा उक्ता - इदानीं कुत्रापि न गमिष्यामि। किं करोमि अस्य हतजीवितस्य -
- वयं तान् आततायिनोऽन्वेषयिष्यामः। ते अस्या निर्घृणतायाः परिणामं जानीयुः। - विशाखः अवदत्।
मयापि भद्रा थेरी एवमुक्ता आसीत्। तया किमुक्तम् - अपि जानीते भवान्?
-- किमुक्तं तया?
-- तया भगवतो बुद्धस्य एतद् वचनमेवोक्तम् -
नहि वेरेन वेराणि सम्मंतीह कुदाचनं।
अवेरेन च सम्मंति एस धम्मो सनंतनो।।
अवेरेन च सम्मंति एस धम्मो सनंतनो।।
मुहुर्मुहुरनुरुद्धाऽपि इरावती विहारं त्यक्त्वा संसारे स्वकीयं पुनरागमनं नानुमतवती।
तस्या वचांसि अरुन्तुदानि। मनसि शतगुणं शयं धारयन् विशाखो विहारात् निराशः प्रतिनिवृत्तः।
विशाखोऽवदत्-- देवि, भवत्या किं किं न सोढम्? विशाखः साश्रु अवदत् - भवती प्रणम्या।
इरावती प्राह - भद्र, अलं मां देवीपदे आरोपणेन। अहमतीव सामान्या भिक्षुणी। तथैव अत्र निवासं कामये। पुरुषाः मादृशीभिर्धिक्कृताभिः युवतीभिः स्वस्थभावेन व्यवहरन्तु इत्येव कामये। पुरुषाणामेषा प्रकृतिः। कदाचित्तु ते अस्मान् देवीपदे आरोपयन्ति, कदाचित् सर्वथा बलात्कारेण प्रधर्षयन्ति।
इरावत्याः कथनं मर्म भिनत्ति। पूर्वमपि कस्याश्चन एवविधं वचनं हृदयमर्मणि निखातमिव। भद्रपुरे कालिन्दी....
कालिन्दी अपि अपौरुषेयम् अनन्यसाधारणं साहसमनुष्ठितवती। तया एकाकिन्या स लम्बग्रीवस्तान्त्रिकः धरण्यां निपातितः। सा तदानीं चण्डीव प्रत्यभात्। विशाखः परस्तात् तां स्तौति स्म।
तदानीं तया उक्तमासीत् --विप्रवर, इयमेव रीतिः भवतां सर्वेषां पुरुषाणाम्। अस्मादृशो हतभाग् नारीजनो भवद्भिः कदाचित्तु एतावदधो निपात्यते यत् वयं दास्यः भवामो वा सर्वथाधिक्कृतास्तिरस्कृता वा तिष्ठामः। कदाचित् भवद्भिः वयं तथा उच्चैः स्थापयिष्यामहे यत्र वयम् आत्मानमपि विस्मरामः।
नागयुवानो विशाखस्य निदर्शने वाहिनीं निर्मितवन्तः। किन्नरपुरस्य नवकिन्नरपुरस्य च मार्गेषु नागवाहिनी सञ्चरति। इदानीं नागानां सन्नाहेन राजा किन्नरोऽपि भीतः। सोऽवसरं प्रतीक्षते। परन्तु एकतस्तु वार्धक्यम्, अपरतः नाना व्याधयः। जना एवमप्याहुर्यदसौ मृत्युशय्यायामस्ति शयानः।
(10)
चन्द्रलेखा शनैः शनैः स्वास्थ्यं प्राप्नोति। भगिन्या वियोगोऽरुन्तुदः।
सर्वे नागाः विशाखे दृढमनुरक्ताः। तैः मिलित्वा तस्य कृते सुरम्य आवासो निर्मितः। उद्यानं वर्तते।
विशाखः प्रतिदिनं वसुमित्रस्य विहारे गच्छति। नागसैनिकाः परिवार्य चलन्ति। शिविकामारुह्य चन्द्रलेखाऽपि साग्रहं तत्र याति। इरावत्या आलपति।
दिवसाः सुखदा जाताः, रात्रयो मादकाः। एतावत् सुखं जीवने न कदाप्यनुभूतम्। विशाखाय महाराजेन कनिष्केण किन्नरपुरं स्वायत्तीकृत्य अग्रहारत्वेन प्रदत्तम्। विशालं भवनं वर्तते। भूमिरस्ति, क्षेत्राणि सन्ति, कर्मकराः दासाः सर्वे विशाखमनुव्रताः।
अत्रान्तरे नवकिन्नरपुरे निधनमुपगते किन्नरे राज्ञि तस्य पुत्रो नरः राजपदेऽभिषिक्तः। सोऽत्यन्तं विलासी। कनिष्केण स परुषं शासितः, तस्य राज्यमपि केवलं नवकिन्नरपुरं यावत् भवेदिति व्यवस्था च दत्ता। इदानीं किन्नरपुरे तस्य अधिकारो नास्तीति स चेखिद्यते। स्वाधिकारप्रख्यापनाय यदा कदाचित् किन्नरपुरस्य रथ्यासु राजमार्गेषु वा इत्वर इव सञ्चरति,
किन्नरपुरं परिपालयति सम्प्रति विशाखः। शास्त्राणामनुशीलनं पुनरारब्धम्। विद्यापीठानि पुनः प्रचलन्ति। शैवाः शाक्ताः बौद्धाः सर्वे स्वं स्वं धर्मं पालयन्तः अवैरेण वसन्तु परस्परेण धर्मचर्चां कामं कुर्वन्तु, न विवादम् इति केवलं सङ्कल्पयति विशाखः। तस्य सङ्कल्पश्चरितार्थतामपि याति। केवलं नरः - नवकिन्नरपुरे तस्य प्रतिवेशी राजा - न तस्य अभ्युदयं सहते।
नवीनं धान्यं गृहमागतम्। कलमकण्डन्यः मुसलेन कण्डनं कुर्वन्ति। गीतिध्वनयो हुङ्कृतिभिः सार्धं समुत्थिताः। सायङ्काले द्वार एव चतुष्के धान्यराशिः आनीय सञ्चितः। चन्द्रलेखा उपरि छदेरवलोकयति। कश्चन अश्वः धान्यराशौ मुखं ददाति। चन्द्रलेखा नीचैरागत्य तमश्वं निवारयितुं प्रधाविता।
- अपसर, अपसर इति यावत् सा अश्वं वदति, तावत् अश्वारोहिणि दृष्टिर्गता।
चन्द्रलेखा स्तब्धा स्थिता।
-- आः, त्वमेवासि, तस्य ब्राह्मणस्य पत्नी। तस्य पत्नी वा राज्ञः कनिष्कस्य रक्षिता वा?ममापि रक्षिता भव।
राजा नर आसीत्। सोऽपि एकाकी! अहं त्वामवलोकयामि स्म, यदा त्वं तल्पस्थिता। रूपवती त्वम्। मम मनस्त्वयि निपतितम्।एहि मया सह। किं करिष्यसि अनेन ब्राह्मणेन? अहं ते सर्वं सुखं दास्यामि।
मदिराया गन्धस्तस्य मुखान्निस्सरति स्म, यदा स घृणितान् शब्दानिमान् वक्ति स्म।
जुगुप्सया चन्द्रलेखा गृहाभ्यन्तरं गन्तुमियेष, तदानीमेव स तस्या हस्तौ अगृह्णात्। "एहि, एहि" -इति चाह।चन्द्रलेखा तमपसार्य सरभसं गृहाभ्यन्तरमागता।
विशाखः क्षेत्रं गत आसीत्। यदा स परावृत्तः चन्द्रलेखा प्ररुदती तस्मै सर्वं वृत्तं निवेदितवती।
चन्द्रलेखा भयाक्रान्ता। विशाखं सा वदति स्म - इतः क्वचिद् गच्छामः।
विशाख आह - यत्रापि गमिष्यामः स नराधमो नरः समेष्यति। अत्रैव स्थित्वा युध्यामहे।
-- युध्यामहे? वयम्?
-- अथ किम्? प्राणा यास्यन्ति यान्तु नाम। परन्तु भयेन पलायनं न करिष्यामः।
चन्द्रलेखा बाष्पपूरितनयना तं निध्यायति। एतत् सर्वं जातम्? - पुना रुदतीअवरुद्धकण्ठेन अवोचत्।
-- चन्द्रे, न सादः कर्तव्यः।वयमपि सन्नद्धा भवामः। नरः किं कुर्यात् - स कापुरुषः किन्नर एव वर्तते।
-- कियत् कष्टं सोढं युष्माभिः अस्माकं कृते।
अथ नरेण सन्देशः प्रेषितः - अद्य सायं यावत् चन्द्रलेखां मम प्रासादे प्रेषय, अन्यथा सर्वंनाशं ते करिष्यामि।
विशाखश्चन्द्रलेखां किमपि नोक्तवान्। विशाखो विष्टिं न कारयति, सर्वेभ्यः प्रचुरं धान्यं ददाति, कर्मकराः प्रीताः। ते तस्य आज्ञया प्रस्तरान् आनीय छदौ स्थापयन्ति, चन्द्रलेखा पश्यति - अरे एतावन्तः प्रस्तराः, किमेभिः करिष्यते?
एभिर्युद्धं स्यात्- विशाखस्तामवदत्। विशाखेन महाराजाय कनिष्काय पत्रं प्रेषितम्।
स्थितो मध्याह्नः। चन्द्रलेखा व्यग्रा। भगिनी काषायं प्रतिपन्ना। पिता इदानीमपि रुग्णः, यः प्राणनाथः, तस्यापि प्राणाः सङ्कटग्रस्ताः। बहिः पवनः सनसनायते। अन्तर्मनसो भयं रिङ्गते।चन्द्रलेखा आत्मानं धारयितुं यतते, मुहुर्मुहुराश्वासयति स्वमनः। विशाखो नागसैनिकैः सार्धं तल्पे वर्तते। नरस्य सैन्यम् आगच्छतीति प्रतीयते। दूरादश्वानां खुरैर्धरित्री कम्पत इति प्रतीयते।
पत्रहारकः समायातः। प्रधाव्य प्रधाव्य असौ आगत आसीत्। प्रणामं कृत्वा पत्रं विशाखस्य हस्ते समार्पयत्। अरे आचार्यस्य अश्वघोषस्य पत्रम्, विशाखः प्रथमं शिरसि अलगयत्, अनन्तरमुद्घाट्य अपठत्। पत्रस्य भाषा संस्कृतम्, लिपिर्ब्राह्मी। विशाखोऽवाबुध्यत - सर्वं विचार्यैव आचार्यण अश्वघोषेण अस्यां लिप्यां पत्रं निबद्धम्। अत्रत्या जनाः खरोष्ट्रीं पठन्ति। समासादितेऽपि पत्रे अन्यः कश्चन पठितुमभिप्रायं वा वेत्तुं न प्रभवेत्। पत्रे लिखितमासीत् -
"स्वस्ति तत्रभवते विशाखाय। मन्ये कुशली तत्रभवान् सपरिग्रहः।महाराजस्य कनिष्कस्य दर्शनमद्यैव मया प्राप्तम्। नवकिन्नरपुरे यत्किमपि भवति तद्विषये ते निवेदिताः। तैः मत्समक्षमेव सेनापतिरादिष्टः-नरोऽस्मदधीनतां स्वीकृतवान्। स प्रजा न पीडयेदिति अवेक्षणीयम्। यदि स प्रजाः त्रासयति तर्हि दण्ड्यः।"
(11)
गृहं नरस्य सैनिकैः परिवारितम्। तल्पात् बाणाः तेषु निपतन्ति। सैनिकेषु केचित् मूर्च्छिता निपतन्ति, केचित् पलायन्ते। नरस्तानाह्वयति। अरेकियत् सामर्थ्यं तस्य दरिद्रब्राह्मणस्य, सुश्रवसो वा नागस्य -
विशाखेन अद्य ज्ञातं कियानुपकारः तक्षशिलायास्तस्मिन् वर्तते। या व्यूहरचना कौटिल्येन कदाचित् तक्षशिलायां निवसता विचारिता, यां च धनुर्वेदाचार्या विशालदेवा उपादिशन्, सा अद्य त्राणाय जाता।
प्रत्येकं गृहसङ्कुले एकः प्रच्छ्न्नो द्रङ्गः64 परिकल्पितः, यत्र स्थितः पुरुषः परितो यत्किमपि भवति तदवलोकयितुं शक्नुयात्, परन्तु तं न परितः सञ्चरन्तो जना अवलोकयेयुः। द्रङ्गस्थितेषु जनेषु एकः गूढं प्रधाव्य अपरस्मिन् द्रङ्गे स्थितान् जनान् सूचयति। ततश्च विशाखेन सर्वस्मिन् नवकिन्नरपुरे राजसैन्यस्यावस्थितिर्ज्ञायते।
सुश्रवसो नागस्य गृहं दुर्गायितम्, परितः प्राङ्गणं युद्धभूमिरभवत्। गृहस्य गवाक्षा एव कपिशीर्षकायिताः।65
परितः स्थितेषु गृहेषु प्रतितल्पं दश वा पञ्चदश वा नागाः धनुर्बाणधारिणः स्थिताः। सर्वाधिकं शरणस्थलमभवत् तल्पम्। तल्पे प्रस्तरनिचयः तत्पृष्ठतो पञ्चविंशतिर्नागा निषण्णाः।
नगरस्य रथ्यासु वीथीषु राजमार्गेषु नागबालकाः गुप्ताः सञ्चरन्ति। ते सैनिकान् परीक्षन्ते, सैन्यं कुतः समायातीति जानन्ति, ततश्च तेषां नायको वर्तते रल्लको नाम किशोरः। अत्यन्तं विचक्षणः।
विशाखो गेहाद् बहिः अष्टसु कोणेषु षोडश नागान् अस्थापयत्, परन्तु मुख्ये द्वारे कोऽपि नास्ति। स जानाति स्म राज्ञः सैन्यं मुख्यं द्वारं भङ्क्त्वा प्रविशेत्।
नरः स्वयमेवाग्रे अग्रे प्रयाति स्म। बहव आसन् नागबालकाः ये प्रतिक्षणं सूचयन्ति स्म, राज्ञः सैन्यं कुत्र वर्तते।
नरस्य दशसहस्रसैनिकाः नवकिन्नरपुरस्य रथ्याः राजमार्गांश्च रुन्धाना आस्कन्दन्तः प्रचलिताः।
अथ प्रविष्टे सैन्ये विशाखेन शङ्खनादः कृतः।
सहसा अष्टभ्यः कोणेभ्यः समीरवत् सृताः बाणाः। नरस्य सैनिकाः परिवारिताः, कैः परिवारिता इति ते नावलोकयन्ति, कुतो बाणवृष्टिरेवं भवति इति ते न पश्यन्ति। चिरात् युद्धाभ्यासस्तैर्न विहितः, कोऽपि सेनानी नास्ति। नरेण चिन्तितमासीद् यत् विशाखः निर्बलो ब्राह्मणः, तस्य केचन सहायकाः सन्ति, केचन सुश्रवसो नागस्य यष्टिधारकाः सन्ति, ते किं कुर्युः।
-- अरे गृहाभ्यन्तरं जनाः सन्ति। ते बाणान् प्रक्षिपन्ति, समस्तं गृहं परिवारयत। - नरश्चीत्करोति स्म।
सहस्रं सैनिकाः भवनं परिवार्य मुख्यद्वारभञ्जनाय यतन्ते स्म। तदानीमेव तल्पात् प्रस्तराणां वृष्टिरभवत्। तल्पस्थिताः नागा विशाखस्य नेतृत्वे तानवलोकयन्ति, ते तल्पस्थितान् प्रस्तरक्षेपिणो जनान् न पश्यन्ति। तदानीमेव परितः स्थितेभ्यः गृहेभ्यः नरस्य सैनिकेषु बाणप्रहारः आरब्धः।
तथापि नर इदानीमपि नावबुध्यत् यत् केवलं संख्यया विजयो न भवतीति।
नरस्य सैनिकेषु सम्भ्रमो जातः। विद्रवे ते परस्परमेव घ्नन्ति।
तदानीमेव करकापात आरब्धः। आकाशाद् बाणा इव करका पतन्ति। सैनिका न विदुः विशाखस्य सैनिका बाणैः प्रहरन्ति, मघवा वा करकाभिस्तान् प्रहरति। शतशः सैनिकाः करकापातेन मृताः।
एकस्मिन् प्रहरे सर्वं समाप्तम्।नरः कुत्र पलायित इति न ज्ञायते। चन्द्रलेखा सर्वमवलोकयति। विशाखः कुत्रापि नास्ति।
सा विह्वला आह्वयति सहायकान् - सुमन्त, पैल, ककुत् - कुत्र वर्तते भर्ता -
सुमन्तो ब्रूते - अत्रैवासीत् भर्ता - -इतो गतः, ततो गतः अनन्तरं न दृष्टः!
पैल आह- भर्ता पृष्ठद्वारेण विनिर्गच्छन् मया दृष्टः।
चन्द्रलेखा पृष्ठद्वारं प्रधाविता, सत्यं पृष्ठद्वारं भग्नमासीत्। द्वारे एव खण्डकः भूमौ पतितो दृष्टः।
-- खण्डक, किं जातं ते, अपि नाम क्षतिरवाप्ता? अपि नाम भर्ता दृष्टः?
खण्डकः अत्यन्तं कष्टेन मध्ये मध्ये विरम्य विरम्य अवदत् - तेन नीचेन नरेण पृष्ठद्वारे घातो विहितः। पृष्ठद्वारे कमपि ध्वनिं श्रुत्वा भर्ता अत्र समागत आसीत्। तदानीमेव ...
चन्द्रलेखा आर्ता तमपृच्छत् - खण्डक! किं सञ्जातं कथमेवं नाम दृश्यसे -
खण्डकः तर्जन्या दक्षिणां दिशं सङ्केतयन् किमपि वक्ति -
पेलेन दृष्टम् - खण्डकस्य पृष्ठे निखाता वर्तते असिधेनुका - स सावेगमाह - अरे किमपि क्रियताम्--अयं तपस्वी म्रियेत -
चन्द्रलेखा कम्पमाना व्रणविरोपणीमानीतवती - अन्यानि चौषधानि आनीतवती।
अनन्तरं सा यस्यां दिशि खण्डकेन सङ्केतो विहित आसीत् तस्यां प्रधाविता। पृष्ठतः एकाकिनी मा गच्छतु स्वामिनी इति वदन्तः केचन सेवकाः धावन्ति स्म।
धावन्ती चन्द्रलेखा सहसा सम्मुखं जनान् दृष्ट्वा विरम्य स्थिता। विशाखः एकाकी नरस्य सैनिकैः परिवारितः, परन्तु नरस्य ग्रीवा तस्य मुष्टौ।
नरस्य द्वित्राः सैनिका- विशाखं प्रहर्तुं सन्नद्धाः, विशाखश्च नरस्य ग्रीवां स्वकरतलेन सन्दंशे गृहीत्वा तान् कथयति स्म- अरे नीच, एतान् सर्वान् वद - शस्त्राणि धरायां क्षिपन्तु - वयं शरणागताः इति च वदन्तु, नो चेत् अहं ग्रीवामोटनं ते करोमि -
नरः कथयति स्म - सर्वे शस्त्राणि धारायां निदधतु।
चन्द्रलेखा स्तब्धश्वासं पश्यति। तदानीमेव काचित् छुरिका तीव्रगत्या विशाखस्य पृष्ठे लग्ना। प्रहारकर्तारं चन्द्रलेखा प्रत्यभ्यजानात्। - अरे गृह्णीत एनम् - अयं तु मल्लटःचन्द्रलेखा चीत्कृतवती।
मल्लटः पलायते स्म। विशाखस्तस्य च्छुरिकाप्रहारेण धरायां निपतितः।
पृष्ठतः सुमन्त- पैल- ककुत्-प्रभृतयः धावन्तः समागताः, तानवलोक्य नरः शिष्टैःस्वसैनिकैः सह पलायितः।
चन्द्रलेखा विशाखं स्वहस्ताभ्यामुत्थापितवती। विशाखोऽवदत् - अहं चलितुं शक्नोमि, केवलं मां धारय। छुरिकायाः प्रहारेण निर्मितो व्रणस्तथा गम्भीरो नासीत्।
चन्द्रलेखा विशाखेन यथा शिक्षिता आसीत् - पृष्ठात् छुरिकां निष्कास्य व्रणविरोपणीमानीय तस्य व्रणमुपचरति स्म। मातः - इति विशाखस्य मुखान्निःसृतम्। सहसा पूर्वं साक्षात्कृतस्य मातृसूक्तस्य मन्त्राः स्वयमेव तस्य अधरोष्ठयोर्विनिर्गन्तुमारब्धाः।
सूनृतानां गिरां कर्त्रीं मङ्गलानां च मातरम्।
जगद्वन्द्यां जगत्स्रष्ट्रीं मातरं तां नु धीमहि।
स्वर्णवर्णां सुवर्णाक्षीं वर्णाम्नायसमन्विताम्।
श्रीरूपिण्यै नमो मात्रे धियं माता पुनातु मे।।
सदा सत्यमयं यस्या हृदयं सुविराजते।
सा मे माता स्वपुत्रस्य हृदये स्यात्प्रतिष्ठिता।।
ऋषिस्त्वं च कविस्त्वं च सत्यरूपा ऋतम्भरा।
सुव्रता मृत्युहन्त्री त्वं सावित्री परिनिष्ठिता।।
स्मयमाना द्योतमाना स्वर्या वर्या मनस्विनी।
वसुदा वसुधानी याविमृग्वरी विभावरी।
आविरस्तु स्वयं माता पुत्रस्यास्य पुरस्तु सा।।
सा ददातु स्वयं स्वीयं माता पुत्राय मे पयः।
माता सत्यमेव उपस्थिता इति स मनुते स्म।
जगद्वन्द्यां जगत्स्रष्ट्रीं मातरं तां नु धीमहि।
स्वर्णवर्णां सुवर्णाक्षीं वर्णाम्नायसमन्विताम्।
श्रीरूपिण्यै नमो मात्रे धियं माता पुनातु मे।।
सदा सत्यमयं यस्या हृदयं सुविराजते।
सा मे माता स्वपुत्रस्य हृदये स्यात्प्रतिष्ठिता।।
ऋषिस्त्वं च कविस्त्वं च सत्यरूपा ऋतम्भरा।
सुव्रता मृत्युहन्त्री त्वं सावित्री परिनिष्ठिता।।
स्मयमाना द्योतमाना स्वर्या वर्या मनस्विनी।
वसुदा वसुधानी याविमृग्वरी विभावरी।
आविरस्तु स्वयं माता पुत्रस्यास्य पुरस्तु सा।।
सा ददातु स्वयं स्वीयं माता पुत्राय मे पयः।
माता सत्यमेव उपस्थिता इति स मनुते स्म।
तदानीमेव सुश्रवा आगतः। स आह - इदानीं सर्वमुपपन्नं जातम्। कनिष्कस्य सैन्यं पृष्ठत आगतम्। पलायमानो नरो विधृतः।
।।इति।।
1- तुलनीयम् - पक्षस्य मासस्य वा प्रख्यातेऽहनि सरस्वत्या भवने नियुक्तानां नित्यं समाजः। -(कामसूत्रे 1.4.15)
2- ठक्कुरः उ ग्रामप्रधानः, अस्मिन् उपन्यासे ग्रामणीत्यर्थे ठक्कुरशब्दस्य प्रयोग कृतः। ठक्कुरशब्दस्य अस्मिन् अर्थे प्रथमः प्रयोगो दामोदरभट्टेन अष्टमशतके स्वीये कुट्टनीमतमहाकाव्ये विहितः।
3- तुम्बिकम् अलाबुना निर्मितं जलपात्रम्
4- सव्यहस्तनिपातः स्यात् शम्या तालस्य वामतः। (नाट्यशास्त्रे)
5- हस्तयोस्तु समः पातः सन्निपात इति स्मृतः।। (नाट्यशास्त्रे)
6- ईशावास्योपनिषदि इमौ मन्त्रौ वर्तेते, ओर्ध्वदेहिककृत्यावसरे पठनीये इति परम्परा।
7- कुण्डस्य लक्षणं द्र. गौतमधर्मसूत्रे।
8- तुलनीयम् - तया सह पुष्पावचयं ग्रथनं गृहकं दुहितृकाक्रीडायोजनं भक्तपानकरणमिति कुर्वीत। परिचयस्य वयसश्चानुरूप्यात्। आकर्षक्रीडा पट्टिकाक्रीडा मुष्टिद्यूतक्षुल्लकादिद्यूतानि मध्यमाङ्गुलिग्रहणं षट्पाषाणकादीनि च देश्यानि तत्सात्म्यात् तदाप्तदासचेटिकाभिस्तया च सहानुक्रीडेत। क्ष्वेडितकानि सुनिमीलिकामारब्धिकां लक्षणवीथिकामनिलताडितकां गोधूमपुञ्जिकामङ्गुलिताडितकां सखीभिरन्यानि च देश्यानि। (कामसूत्रे, 3.3.6-8)
9- गाहासतसई, 1.10
सखि ईदृश्येव गतिर्मा रोदीस्तिर्यग्वलितमुखचन्द्रम्।
एतेषां बालकर्कटीतन्तुकुटिलाणां प्रेम्णाम्।।इति संस्कृतच्छाया।
एतेषां बालकर्कटीतन्तुकुटिलाणां प्रेम्णाम्।।इति संस्कृतच्छाया।
10- गाहासतसई, 1.17
एष्यति सोऽपि प्रोषितोऽहं च कुपिष्यामि सोऽप्यनुनेष्यति।
इति कस्या अपि फलति मनोरथानां माला प्रियतमे।। इति संस्कृतच्छाया।
इति कस्या अपि फलति मनोरथानां माला प्रियतमे।। इति संस्कृतच्छाया।
11- गाहासत्तसई 4.8
कीरमुखसदृक्षै राजते वसुधा पलाशकुसुमैः।
बुद्धस्य चरणवन्दननिपतितैरिव भिक्षुसंघैः।। इति संस्कृतच्छाया।
बुद्धस्य चरणवन्दननिपतितैरिव भिक्षुसंघैः।। इति संस्कृतच्छाया।
12-
विशीर्णा विदला ह्रस्वावक्राः स्थूलाः द्विधाकृताः।
समिदादाय दीर्घाश्च समिधो नैव कारयेत्।।
समिदादाय दीर्घाश्च समिधो नैव कारयेत्।।
प्रथमः खण्डः/217
विशीर्णायुःक्षयं कुर्याद् द्विदला पुत्रनाशिनी।
ह्रस्वा नाशयते पत्नीं वक्रा बन्धुविनाशिनी।।
ह्रस्वा नाशयते पत्नीं वक्रा बन्धुविनाशिनी।।
कृमिदष्टा रोगकरी विद्वेषकरणी द्विधा।
बन्धून् मारयते दीर्घा स्थूला चार्थविनाशिनी।। वाचस्यपत्यम्, षष्ठोभागः, पृ. 5239
बन्धून् मारयते दीर्घा स्थूला चार्थविनाशिनी।। वाचस्यपत्यम्, षष्ठोभागः, पृ. 5239
13- ऋग्वेदे 2.38.14
14- शिवसङ्कल्पसूक्तम् - यजुर्वेदे
15- विविधशाखामयः पादपः
16- प्रतिस्तम्बिनी -- लताविशेषः
17- शश उ लोध्रवृक्षः
18- प्रतन्वती उ
19- वीरुत्-- प्रसरणशीला लता, गुल्मविशेषो वा
20- अलसाला --भूमौ विस्तीर्यमाणा लता
21- व्रततिः उ भूमौ विस्तीर्यमाणा बहुशाखामयी लता
22- फलिनी उ प्रियङ्गुलता,
23 - रसो रतिः प्रीतिर्भावो रागो वेगः समाप्तिरिति रतिपर्यायाः। सम्प्रयोगो रतं रहःशयनं मोहनं सुरतपर्यायाः।कामसूत्रे, 2.1.31
24- तक्षशिला गान्धारदेशस्य राजधानी। साम्प्रतिकात् पाकिस्थानान्तर्वर्तिनः रावलपिण्डीनगरात् पश्चिमदिशि 30- किलोमीटरदूरं स्थिता आसीत्। अस्यामेव नगर्यां स्थितं तक्षशिलाविद्यापीठम्।
25- आन्वीक्षिकी - न्यायशास्त्रम्, तर्कविद्या।
26- सतीर्थ्यः उ समानगुरुकुलस्य छात्रः
26- सतीर्थ्यः उ समानगुरुकुलस्य छात्रः
27- शृङ्गाटकः उ चौराहा (Cross road)
28- तु. - तत्र भवनमासन्नोदकं वृक्षवाटिकावद्विभक्तकर्मदक्षं द्विवासगृहं कारयेत्। बाह्ये च वासगृहे सुश्लक्ष्णमुभयोपधानं मध्ये विनतं शुक्लोत्तरच्छदं शयनीयं स्यात्। प्रतिशय्यिका च। तस्य शिरोभागे कूर्चस्थानम् वेदिका च। तत्र रात्रिशेषमनुलेपनं माल्यं सिक्थकरण्डकं सौगन्धिकपुटिका मातुलुङ्गत्वचस्ताम्बूलानि च स्युः। भूमौ पतद्ग्रहः। नागदन्तावसक्ता वीणा, चित्रफलकम्, वर्तिकासमुद्गकः, यः कश्चित् पुस्तकः कुरण्टकमालाश्च। नातिदूरे भूमौ वृत्तास्तरणं समस्तकम्। आकर्षफलकं द्यूतफलकं च। तस्य बहिः क्रीडाशकुनिपञ्जराणि। एकान्ते च तक्षणस्थानमन्यासां च क्रीडानाम्, स्वास्तीर्णा प्रेङ्खादोला
अन्यच्च/218
वृक्षवाटिकायां सप्रच्छाया। स्थलपीठिका च सकुसुमेति भवनविन्यासः।।कामसूत्रे1.4.4।।
29- पतद्ग्रहः उ उगालदान, Spittoon
30-वृत्तास्तरणं समस्तकम् उ मसनद, गावतकिया इतिहिन्दीभाषायाम्। पा.टि. 28तमा द्रष्टव्या।
31- सुश्रुतसंहितया तुलनीयम्।
32- भविष्यपु. उ.प. 4. अ.7.195
33- गाहासतसई, 2.14
निष्कृप जायाभीरुक दुर्दर्शन निम्बकीटसदृक्ष।
ग्रामो ग्रामणीनन्दन तव कृते तथापि तनुकायते।। इति छाया।
ग्रामो ग्रामणीनन्दन तव कृते तथापि तनुकायते।। इति छाया।
34-गाहासतसई, 1.30
प्रहरव्रणमार्गविषमे जाया कृच्छ्रेण लभते तस्य निद्राम्।
ग्रामणीपुत्रस्योरसि पल्ली पुनः सा सुखं स्वपिति।। इति छाया।
ग्रामणीपुत्रस्योरसि पल्ली पुनः सा सुखं स्वपिति।। इति छाया।
35- नाट्यशास्त्रम्
श्रावकोऽथ घन: स्निग्धो मधुरो ह्यवधानवान्।
त्रिस्थानशोभीत्येवं तु षट्कण्ठस्य गुणा: स्मृता:।। नाशा. 33.12,
त्रिस्थानशोभीत्येवं तु षट्कण्ठस्य गुणा: स्मृता:।। नाशा. 33.12,
36- नाशा. 33.5-6,
37 -
नलसावित्रीषोडशराजोपचारवत् प्रबन्धान्तः।
अन्यप्रबोधनार्थं यदुपाख्याति तदुपाख्यानम्।।
आख्यानसत्तां तल्लभते यद्यभिनन् पठन् गायन्।
ग्रन्थिक एकः कथयति गोविन्दवदवहिते सदसि।
अन्यप्रबोधनार्थं यदुपाख्याति तदुपाख्यानम्।।
आख्यानसत्तां तल्लभते यद्यभिनन् पठन् गायन्।
ग्रन्थिक एकः कथयति गोविन्दवदवहिते सदसि।
(भोजस्य शृङ्गारप्रकाशे)
38- गाहासत्तसई
39- गाहासत्तसई
40- शालाक्यं नाम ऊर्ध्वजत्रुगतानां रोगाणां श्रवण-नयन-वदन-घ्राणादिसंश्रितानां व्याधीनां शमनार्थमिति सुश्रुतसंहितायाम्। जत्रु उ कण्ठस्य अधोभागे उभयपार्श्वयोः स्थिते अस्थिनी)
41- कायचिकित्सा सर्वाङ्गसंसृतानां व्याधीनां ज्वरातीसार- रक्तपित्त- शोषोन्मादापस्मार- कुष्ठ-मेहादीनामुपशमनार्यमिति सुश्रुतसंहितायाम्।
42- अगदतन्त्रं विषचिकित्सा
43- कौमारभृत्यं - शिशुरोगचिकित्सा
44- तुलनीयम् - सुश्रुतसंहिता - सूत्रस्थाने अ. 20
प्रथमः खण्डः/219
45- व्रणप्रच्छानाय निर्मलं सूक्ष्मं वस्त्रम्।
46- ऋषिरसा आधुनिककाले सिरसा इति कथ्यते। अयं ग्रामः प्रयागसमीपम्।
47 -पर्णशाला आधुनिककाले पनासा इति कथ्यते। अयमपि ग्रामः प्रयागसमीपम्।
48- पुष्कलपुरं (आधुनिकं पेशावरनगरम्)
49- इरावती सम्प्रति रावीति कथ्यते।
50- अङ्कोलः उ पिश्ता इति भाषायाम्
51-अक्षोट उ अखरोट इति भाषायाम्
52- शाकलपुरम् - आधुनिकं स्यालकोटनगरम्
53- परिवेणः उ विद्यालयः (बौद्धपरम्परायाम्)।
54- उपहस्तिका उ बटुवा (Purse) इति भाषायाम्।दण्डिना दशकुमारचरितेऽस्मिन्नर्थे प्रयुक्तोऽयं शब्दः।
55- गाथेयं थेरगाथाया उद्धृता।
56- कोलाहलस्य कुतुपस्य लक्षणं द्रष्टव्यं नाट्यशास्त्रीयग्रन्थेषु।
57- मेघज्योतिरिरम्मद इति अमरकोशे।
58-61- इमे अंशाः ऋग्वेदे सूर्यासूक्तेधर्मशास्त्रेषु विवाहविधिना च तुलनीयाः।
62-ऋग्वेदे 1.90.6-8
63- हसन्ती उ अँगीठी इति हिन्दीभाषायाम्। बिल्हणेन विक्रमाङ्कदेवचरिते कल्हणेन राजतरङ्गिण्यां च काश्मीरप्रसङ्गे हसन्ती वर्णिता।
64- द्रङ्गो नाम सीमान्तचतुष्कः। हिन्दीभाषायां चौकी इति कथ्यते, तत्र सैनिका प्रतीहारा इव तिष्ठन्ति।
65- कपिशीर्षकम् - बुर्ज इति हिन्द्याम्।
---------