जुलाईमासस्य द्वाविंशतितमं दिनम् –
स्मरणीयं दिनम् –
विश्वासघातस्य कृते
विश्वासस्य कृते च।
प्रस्तावो विजितोऽ स्माभिः
कोलाहलमध्ये
विजयस्तु
स्पष्टं पृथुलम्।
स्मरणीयं दिनम् –
विश्वासघातस्य कृते
विश्वासस्य कृते च।
प्रस्तावो विजितोऽ स्माभिः
कोलाहलमध्ये
विजयस्तु
स्पष्टं पृथुलम्।
विश्वासघातो व्यजृम्भत
लज्जताम्, लज्जतामित्युद्घोषैः सह
मतदातारः क्रीताः
इति आरोपैः सह
कार्यजातं विकारितं
ये ज्ञातार आसन्
त आहुः
परिणामः शून्यतां नेयः।
लज्जताम्, लज्जतामित्युद्घोषैः सह
मतदातारः क्रीताः
इति आरोपैः सह
कार्यजातं विकारितं
ये ज्ञातार आसन्
त आहुः
परिणामः शून्यतां नेयः।
ऐतिहासिकं दिनमासीत् तत्
सर्वकारः सुखेन उच्छ्वसितवान्
सङ्घर्षः अतीव कठिन आसीत्।
सर्वकारः सुखेन उच्छ्वसितवान्
सङ्घर्षः अतीव कठिन आसीत्।
केचन सदस्या अचिन्तयन्
यदि प्रस्तावो निपतति
तर्हि
अस्माकं कृते भवति
क्रीडाया अवसरः।
यदि प्रस्तावो निपतति
तर्हि
अस्माकं कृते भवति
क्रीडाया अवसरः।
कैश्चित् निर्वाचितैरुक्तम्
पापमाचरितम् –
यद् अस्मभ्यम् उत्कोचदानाय प्रयासो विहितः
माध्यमजनाः सन्नद्धाः
देशाभिमानिनां समेषां भारतीयानां कृते
अयं वस्तुत एव घात आसीत्।
पापमाचरितम् –
यद् अस्मभ्यम् उत्कोचदानाय प्रयासो विहितः
माध्यमजनाः सन्नद्धाः
देशाभिमानिनां समेषां भारतीयानां कृते
अयं वस्तुत एव घात आसीत्।
अयं दंशाभिक्रम आसीत्
ये चास्य लक्ष्यभूतास्ते आहुः –
यदियं सर्वापि कथा मिथ्याप्रपञ्चभूता
ये खेदं गमितास्तैः आरक्षिभ्यः सूचना दातव्या आसीत्
ते एवं न कृतवन्त इति तु आश्चर्यमेव।
ये चास्य लक्ष्यभूतास्ते आहुः –
यदियं सर्वापि कथा मिथ्याप्रपञ्चभूता
ये खेदं गमितास्तैः आरक्षिभ्यः सूचना दातव्या आसीत्
ते एवं न कृतवन्त इति तु आश्चर्यमेव।
होराद्वयमवशिष्टम्
इदानीं तु मतं परास्तमिति
एतत् तदानीं सर्वे अमन्यन्त
तैरेव इयं सर्वा नटचर्या कारिता
ससंदो गर्भगृहे
ते एतन् न विदुः
यत् एतस्य सर्वः परिणामः पर्यन्तपरितापी स्यात्।
इदानीं तु मतं परास्तमिति
एतत् तदानीं सर्वे अमन्यन्त
तैरेव इयं सर्वा नटचर्या कारिता
ससंदो गर्भगृहे
ते एतन् न विदुः
यत् एतस्य सर्वः परिणामः पर्यन्तपरितापी स्यात्।
यदि अध्यक्षवर्यं गत्वा
प्रागेव आसूचयिष्यन्
तर्हि स पूर्वमेवास्य
यथोचितं समाधानमकरिष्यत्
सर्वस्य धनराशेर्निक्षेपं स्वीकृत्य
अस्मिन् प्रकरणे लिप्तानां समेषाम्
वक्तव्यानि आलेखापयिष्यत्
एतत्प्रकरणं सर्वथा तस्य वशगतमभविष्यत्।
परन्तु एतत् तेषां कृते अनुकूलं नासीत्
प्रागेव आसूचयिष्यन्
तर्हि स पूर्वमेवास्य
यथोचितं समाधानमकरिष्यत्
सर्वस्य धनराशेर्निक्षेपं स्वीकृत्य
अस्मिन् प्रकरणे लिप्तानां समेषाम्
वक्तव्यानि आलेखापयिष्यत्
एतत्प्रकरणं सर्वथा तस्य वशगतमभविष्यत्।
परन्तु एतत् तेषां कृते अनुकूलं नासीत्
ये सर्वकारस्य खेदाय बद्धकरा अभूवन्
तस्मिन् दिने।
अधिराजनीतिं विलेपितम्
आवरणं विनिर्गतम्
धनराशेः मुद्राणां विकृतं प्रदर्शनमेव
राजनीतिरिति प्रत्यभात्।
तस्मिन् दिने।
अधिराजनीतिं विलेपितम्
आवरणं विनिर्गतम्
धनराशेः मुद्राणां विकृतं प्रदर्शनमेव
राजनीतिरिति प्रत्यभात्।
सर्वे वयं चकितस्तब्धाः
वञ्चिता वयम् इति अन्वभूम
अस्माकं गौरवं तैरेव अधःपातितम्
ये अस्माभिः सगौरवं समादृताः आसन्
वञ्चिता वयम् इति अन्वभूम
अस्माकं गौरवं तैरेव अधःपातितम्
ये अस्माभिः सगौरवं समादृताः आसन्
राष्ट्राभिमाने सन्धिः कर्तुं न शक्यते
राष्ट्रस्य व्यवस्थानां लघूकरणं न सह्येत
राष्ट्रस्य चिरकालिकं गौरवं उपरि न स्थाप्येत
इति न सह्यम्
राष्ट्रस्य व्यवस्थानां लघूकरणं न सह्येत
राष्ट्रस्य चिरकालिकं गौरवं उपरि न स्थाप्येत
इति न सह्यम्
सर्वकारो विजिग्ये
परन्तु
प्रजातन्त्रं तस्मिन् दिने पराजितम्
राजनीतिश्च सम्पूर्णाङ्गं विवस्त्रा जाता
न्यायस्य देवालयः
अर्थपिशाचेन आक्रान्तः
परन्तु राष्ट्रं तु पथच्युतं न स्यात्।
परन्तु
प्रजातन्त्रं तस्मिन् दिने पराजितम्
राजनीतिश्च सम्पूर्णाङ्गं विवस्त्रा जाता
न्यायस्य देवालयः
अर्थपिशाचेन आक्रान्तः
परन्तु राष्ट्रं तु पथच्युतं न स्यात्।
भारतामेरिकयोः आणविकसन्धिः
सम्प्रति विवादविषयो जातः
भाजपा-दलस्य विवर्तनेन
वामदलानाम् आशङ्काभिः
सम्प्रति विवादविषयो जातः
भाजपा-दलस्य विवर्तनेन
वामदलानाम् आशङ्काभिः
साम्राज्यवादिन्यो नीतयः
अस्य पृष्ठभूमौ निहिता इति वामदलीया आशङ्कन्ते
वयमाशास्महे स्म – यत् तेषाम् आदर्शाः
रूपान्तरणेन विकासं याताः।
अस्य पृष्ठभूमौ निहिता इति वामदलीया आशङ्कन्ते
वयमाशास्महे स्म – यत् तेषाम् आदर्शाः
रूपान्तरणेन विकासं याताः।
बर्लिनभित्तेर्ध्वंसः
लौहजवनिकायाः निपतनम्,
गार्बाचोवस्य नास्ति भारतीयः अवतारः
बसोरनन्तरं भविष्यमेव सन्दिग्धम्।
लौहजवनिकायाः निपतनम्,
गार्बाचोवस्य नास्ति भारतीयः अवतारः
बसोरनन्तरं भविष्यमेव सन्दिग्धम्।
आणविकनिर्माण्यः सन्ति नः सकाशम्,
ताः अर्धेन सामर्थ्येनैव प्रचाल्यन्ते
आणविक्या ऊर्जाया आपूर्तिर्न्यूना
वयं दूरदर्शितामपेक्षामहे स्म ।
ताः अर्धेन सामर्थ्येनैव प्रचाल्यन्ते
आणविक्या ऊर्जाया आपूर्तिर्न्यूना
वयं दूरदर्शितामपेक्षामहे स्म ।
ऊर्जायाः उत्पादनाय विकल्पा यावन्तो विविधाः
तावदेव राष्ट्रहितं साध्येत
विद्युच्छक्तेः प्रवाहो वर्धेत
इति आशा नश्यति।
तावदेव राष्ट्रहितं साध्येत
विद्युच्छक्तेः प्रवाहो वर्धेत
इति आशा नश्यति।
प्रतिष्ठिता वैज्ञानिकाः
एनं सन्धिं महदवसरं मन्यन्ते
एतदस्ति निषेधसाम्राज्यस्योन्मूलनम्
एनं सन्धिं महदवसरं मन्यन्ते
एतदस्ति निषेधसाम्राज्यस्योन्मूलनम्
अयमस्ति सम्प्रभुताया अविसंवादः
ये सन्ति पक्षधराः
आणविकास्त्रोन्मूलनस्य
ते सम्प्रति अणुबमपरीक्षणस्य
अधिकारं समर्थयन्ति
वाजपेयिवर्य उन्मुक्तम् उदघोषयद्
एतस्य समर्थनम्
तेन प्राशाम्यत क्षुद्रा राजनीतिः
आणविकास्त्रोन्मूलनस्य
ते सम्प्रति अणुबमपरीक्षणस्य
अधिकारं समर्थयन्ति
वाजपेयिवर्य उन्मुक्तम् उदघोषयद्
एतस्य समर्थनम्
तेन प्राशाम्यत क्षुद्रा राजनीतिः
सम्मिश्रदलानां राजनीतिरेतादृशी भवति
यत्र केवलं विरोधाय विरोधो विजृम्भते
विच्छिन्नेव भग्नेव नीतिर्जायते
पणीक्रियते परमकल्याणम्।
यत्र केवलं विरोधाय विरोधो विजृम्भते
विच्छिन्नेव भग्नेव नीतिर्जायते
पणीक्रियते परमकल्याणम्।
विरोधाः समर्पणीयाः
अर्पयन्तु स्वविरोधभावान्
अस्मै सन्धये यः सहायभूतः स्यात्
तासां प्रौद्यौगिकीनाम् अधिगमे
यैरस्माकं ज्ञानकोशो वर्धेत।
अर्पयन्तु स्वविरोधभावान्
अस्मै सन्धये यः सहायभूतः स्यात्
तासां प्रौद्यौगिकीनाम् अधिगमे
यैरस्माकं ज्ञानकोशो वर्धेत।
*अनुच्छेदः 123 – अन्यैः देशैः सहयोग इति शीर्षकान्वितः 1954वर्षस्य संयुक्तराज्यामेरिकायाः आणविकोर्जानियमः, यत्र अमेरिकाया अन्यदेशैः सार्धं आणविकसाधनानां विषये सन्धेः व्यवस्था वर्तते। इदानीं यावत् प्रायः पञ्चविंशतिदैशैः अमेरिका एनं सन्धिं विहितवती।
यदा यदा
आतङ्कः प्रभवति
तदा तदा
राजनीतिज्ञाः उच्चैरुद्घोषं कुर्वन्ति
निर्वाचनानि यदा सन्निकृष्टानि
तदा महद्लाभार्जनमनेन स्यात्
इति ते मन्यन्ते
आतङ्कः प्रभवति
तदा तदा
राजनीतिज्ञाः उच्चैरुद्घोषं कुर्वन्ति
निर्वाचनानि यदा सन्निकृष्टानि
तदा महद्लाभार्जनमनेन स्यात्
इति ते मन्यन्ते
ते विश्वसन्ति यदिमे आतङ्कवादिनः
पापविग्रहाः
पोटानियमेन भीताः
नरसंहाराद् विरताः स्युः
पापविग्रहाः
पोटानियमेन भीताः
नरसंहाराद् विरताः स्युः
वैश्विकीम् आतङ्कवादप्रवृत्तिं न जानाति
अहो बालिशा अस्माकं मतिः
अहो बालिशा अस्माकं मतिः
जीवन्तो मानवबमाः विवेकहीनाः
यदि ते सजीवा अपि गृहीताश्चेत् तेन किम्
यदि ते सजीवा अपि गृहीताश्चेत् तेन किम्
एतादृशनियमानां य आसन् पक्षपातिनः
तेऽ पि स्वहठाग्रहं शिथिलीचक्रुः
यदा ते स्वयमेव
कन्दहारासुरं विमोचितवन्तः
तदानीमपि
पोटानियमः प्रभवति स्म।
तेऽ पि स्वहठाग्रहं शिथिलीचक्रुः
यदा ते स्वयमेव
कन्दहारासुरं विमोचितवन्तः
तदानीमपि
पोटानियमः प्रभवति स्म।
पोटानियमो न्यवसद्
विधिपुस्तकेषु
विधिपुस्तकेषु
अक्षरधाम्नि च आक्रमणमभवत्
भगवद्भक्तेषु आखेटो विहितः
शमः शान्तिश्च विनाशिते।
भगवद्भक्तेषु आखेटो विहितः
शमः शान्तिश्च विनाशिते।
रघुमन्दिरे कालूचके च
अमरनाथतीर्थयात्रार्थं यदा प्रस्थानं विदधति स्म भक्ताः
पोटानियमस्तदानीं
रक्तकाण्डनिवारणाय नाभवदलम्।
अमरनाथतीर्थयात्रार्थं यदा प्रस्थानं विदधति स्म भक्ताः
पोटानियमस्तदानीं
रक्तकाण्डनिवारणाय नाभवदलम्।
पोटाभक्ताः काङ्क्षन्ति –
अपराद्धा निगृह्येरन्
ये कारायां पुनः प्रेषिताः
तेभ्यः अपराधस्वीकृतिः प्राप्येत।
अपराद्धा निगृह्येरन्
ये कारायां पुनः प्रेषिताः
तेभ्यः अपराधस्वीकृतिः प्राप्येत।
तादृशा नियमाः नितान्तं दुरुपयुज्यन्ते
यदा प्रभवति स्म पोटानियमः
तदा अल्पवयस्कास्तदन्तर्गतं निगृहीताः
तेषु अभियोगाः प्रचालिताः
अथ च ते तपस्विनः
विधिसाहाय्यमपि न प्रापुः
यदा प्रभवति स्म पोटानियमः
तदा अल्पवयस्कास्तदन्तर्गतं निगृहीताः
तेषु अभियोगाः प्रचालिताः
अथ च ते तपस्विनः
विधिसाहाय्यमपि न प्रापुः
प्रतिभूतेः प्रावधानानि
सन्ति अत्यधिकं कठोराणि
अभियोक्तारः दुरुपयुञ्जते तानि
विधिः एतेषामेव
अभियोHßòणाम्
अनुमतिमपेक्षते प्रतिभूतये
तां विना न्यायाधीशाः
निगृहीतानां निस्तारम्
नानुमन्येरन्
सन्ति अत्यधिकं कठोराणि
अभियोक्तारः दुरुपयुञ्जते तानि
विधिः एतेषामेव
अभियोHßòणाम्
अनुमतिमपेक्षते प्रतिभूतये
तां विना न्यायाधीशाः
निगृहीतानां निस्तारम्
नानुमन्येरन्
उदारं प्रजातन्त्रम्
एतादृशानभियोगान् कथमनुमन्येत
पोटा इति राजनियमस्तु एक एवास्य अपवादः
इति निर्विवादम्।
एतादृशानभियोगान् कथमनुमन्येत
पोटा इति राजनियमस्तु एक एवास्य अपवादः
इति निर्विवादम्।
इयं रूढा मुद्रा भञ्जनीया
राजनीतौ परिवर्तनमानेयम्
परिणामाश्चिन्तनीयाः
वैयक्तिकी स्वाधीनता सङ्कटग्रस्ता आस्ते।
राजनीतौ परिवर्तनमानेयम्
परिणामाश्चिन्तनीयाः
वैयक्तिकी स्वाधीनता सङ्कटग्रस्ता आस्ते।
* पोटा – आतङ्कवादनिवारकनियमः, 2002 वर्षे प्रचालितः विधिः
प्रिय अटलवर्य,
एतन्मया स्वीकरणीयम्,
यदयं समयः समुपागतः
अस्य सर्वस्य कर्दमस्य परिष्काराय
एतन्मया स्वीकरणीयम्,
यदयं समयः समुपागतः
अस्य सर्वस्य कर्दमस्य परिष्काराय
अपूरितानि कार्याणि
समापनीयानि
अवलोकनीयः
प्रतिमुखस्य पृष्ठतो मनुष्यः
समापनीयानि
अवलोकनीयः
प्रतिमुखस्य पृष्ठतो मनुष्यः
षष्ठे दिसम्बरे
दृष्टं राष्ट्रेण
अधिनियमानां क्रूरम् उल्लङ्घनम्
दृष्टं राष्ट्रेण
अधिनियमानां क्रूरम् उल्लङ्घनम्
सिंहावलोकनं कुर्वाणेन भवता
उक्तम् – यदियमासीदभिव्यक्तिः
सर्वस्य देशस्य भावनायाः
उक्तम् – यदियमासीदभिव्यक्तिः
सर्वस्य देशस्य भावनायाः
वस्तुतः अयमासीदपराधः
राज्यविरुद्धं विहितः
रुषा प्रेरितः
सन्धुक्षयन् घृणां वैमनस्यं च।
राज्यविरुद्धं विहितः
रुषा प्रेरितः
सन्धुक्षयन् घृणां वैमनस्यं च।
ये आदर्शाः सम्प्रति भवतां मान्याः
ते तात्कालिकराजनीतिकलाभार्थम्
उदाह्रियन्ते
ते तात्कालिकराजनीतिकलाभार्थम्
उदाह्रियन्ते
मतानां धनागाराय
भाजपादलस्य राजनीतिः प्रवर्तते
राष्ट्रस्य नियत्या क्रीडनं तत्।
राष्ट्रस्य नियत्या क्रीडनं तत्।
मन्दिरमवश्यं निर्मान्तु
परन्तु स्वकीये हृदये
राष्ट्रं मा विभजतु।
परन्तु स्वकीये हृदये
राष्ट्रं मा विभजतु।
शुचिर्भूत्वा आगच्छतु भवान्
प्रदर्शयतु भवान्
यदिदानीमपि भवानस्ति
प्रजातन्त्रवादी।
प्रदर्शयतु भवान्
यदिदानीमपि भवानस्ति
प्रजातन्त्रवादी।
कलाकारस्य दृष्टिः
सूक्ष्मं निरीक्षते
तदीयायां भावकण्डूतौ
भवति गर्भितः
कश्चन स्वकीयोऽ र्थः।
सूक्ष्मं निरीक्षते
तदीयायां भावकण्डूतौ
भवति गर्भितः
कश्चन स्वकीयोऽ र्थः।
कलाया भोक्तारः
अलं प्रकटीकुर्वन्ति
कलाकारस्य स्वातन्त्र्याय
स्वकीयं समर्थनम्
गूढा च भव्या च भवति तेषां पद्धतिः।
अलं प्रकटीकुर्वन्ति
कलाकारस्य स्वातन्त्र्याय
स्वकीयं समर्थनम्
गूढा च भव्या च भवति तेषां पद्धतिः।
कलाया लुण्ठाकाः
कलाया रीतिं विकारयन्ति
ते न्यस्तस्वार्थान् साधयन्ति।
कलाया रीतिं विकारयन्ति
ते न्यस्तस्वार्थान् साधयन्ति।
अपि नाम
उच्छूनाद् अश्लक्ष्णाद्
महार्घाद्
अर्धोरुकाद् विनिर्गतौ पादौ
वलिभिराक्रान्तौ
पुरातनपादपस्य काण्डौ इव
सोर्जं स्वेदश्लथौ
पुनर्नवीभवितुकामौ
सत्यमेव अश्लीलौ?
उच्छूनाद् अश्लक्ष्णाद्
महार्घाद्
अर्धोरुकाद् विनिर्गतौ पादौ
वलिभिराक्रान्तौ
पुरातनपादपस्य काण्डौ इव
सोर्जं स्वेदश्लथौ
पुनर्नवीभवितुकामौ
सत्यमेव अश्लीलौ?
इमौ तावन्तौ एव अश्लीलौ
यावन्तौ -
सुनम्यौ
युवानौ पादौ
वस्त्रेण अल्पमावृतौ
श्लक्ष्णमसृणाभ्याम् ऊरुभ्याम् अधिष्ठितौ
निपुणं निकृत्तैर्नखैर्मण्डितौ
ध्यानमाकर्षन्तौ
कामोद्दीपकौ भवतः।
यावन्तौ -
सुनम्यौ
युवानौ पादौ
वस्त्रेण अल्पमावृतौ
श्लक्ष्णमसृणाभ्याम् ऊरुभ्याम् अधिष्ठितौ
निपुणं निकृत्तैर्नखैर्मण्डितौ
ध्यानमाकर्षन्तौ
कामोद्दीपकौ भवतः।
न ततोऽ धिकं न ततो न्यूनम्।
स एव न्यायाधीशः साधुः
यः सर्वान् शृणोति
परन्तु शृणुते
केवलं तद् यद् स्वात्मा आह।
यः सर्वान् शृणोति
परन्तु शृणुते
केवलं तद् यद् स्वात्मा आह।
स एव अधिवक्ता साधुः
य आत्मविरुद्धं त्यजति
असम्भावितं सन्देग्धि
सम्भावितं सम्भावयति
तर्कसम्मतं प्रस्तौति।
य आत्मविरुद्धं त्यजति
असम्भावितं सन्देग्धि
सम्भावितं सम्भावयति
तर्कसम्मतं प्रस्तौति।
स एव पत्रकारः साधुः
यस्तर्कसम्मतम् अस्वीकुरुते
सम्भावितं सन्देग्धि
असम्भावितं समालिङ्गते
आत्मविरुद्धमन्विष्यति।
यस्तर्कसम्मतम् अस्वीकुरुते
सम्भावितं सन्देग्धि
असम्भावितं समालिङ्गते
आत्मविरुद्धमन्विष्यति।
स एव राजनीतिज्ञः सफलः
य आत्मविरुद्धं तर्कसम्मतत्वेन स्थापयति,
तर्कसम्मतं च आत्मविरुद्धत्वेन।
य आत्मविरुद्धं तर्कसम्मतत्वेन स्थापयति,
तर्कसम्मतं च आत्मविरुद्धत्वेन।
निर्वाचने विजयमाप्तुं
न सन्ति कान्यपि सूत्राणि
न सन्ति कान्यपि सूत्राणि
केचन अतिसन्दधति
अपरे वञ्चयन्ति,
अपरे वञ्चयन्ति,
ते विप्रतीपाः वार्ताः प्ररोपयन्ति
येन नकारात्मकफलानि जन्येरन्,
येन नकारात्मकफलानि जन्येरन्,
अपरे विरोधिनोऽ भियुञ्जते
निर्दयानां प्रमादानां कृते
यदि तेन लक्ष्यं न सिद्ध्यति
तर्हि ते घोरस्य व्यतिक्रमस्य दोषमारोपयन्ति
आचारसंहिताया उल्लङ्घनं जातमिति –
निर्वाचनापकर्षणं जातमिति वा।
निर्दयानां प्रमादानां कृते
यदि तेन लक्ष्यं न सिद्ध्यति
तर्हि ते घोरस्य व्यतिक्रमस्य दोषमारोपयन्ति
आचारसंहिताया उल्लङ्घनं जातमिति –
निर्वाचनापकर्षणं जातमिति वा।
चलचित्रनायकाः भवन्ति
स्वागतार्हाणि आकर्षणानि
स्वागतार्हाणि आकर्षणानि
नाट्यायितैः
जनसमूहा कथं नोदनीया
इति नीतिः
जनसमूहा कथं नोदनीया
इति नीतिः
अवसराः मृग्यन्ते
सामूहिकदलपरिवर्तनाय
सन्नह्यते
सामूहिकदलपरिवर्तनाय
सन्नह्यते
ये अन्तःप्रवेशकलां जानन्ति
तेषां कृते स्वर्गः।
तेषां कृते स्वर्गः।
ये क्षुद्राः समर्थकाः
तेषां मनोरञ्जनम्।
तेषां मनोरञ्जनम्।
कृष्णव्यवहारपराः कार्यकराः
दलत्यागस्य विभीषिकां दर्शयन्ति
दलत्यागस्य विभीषिकां दर्शयन्ति
भुशुण्डीप्रदर्शका लुण्ठाकाः
अवपीडनस्य माध्यमभूताः
अवपीडनस्य माध्यमभूताः
धर्मोन्मादग्रस्ताः बाहुल्येन
समधिकं स्वकीयं विरोधं सञ्चिन्वन्ति
हिंसां प्रोत्साहयन्तः
ते साम्प्रदायिकं तानवं तन्वन्ति
समधिकं स्वकीयं विरोधं सञ्चिन्वन्ति
हिंसां प्रोत्साहयन्तः
ते साम्प्रदायिकं तानवं तन्वन्ति
निर्वाचनं नाम
नास्ति कालस्तपसः,
न वा अपरिग्रहस्य
नास्ति कालस्तपसः,
न वा अपरिग्रहस्य
निर्वाचनं नाम अकालः संवादस्य
अकालः अवबोधस्य
तात्कालिकीनां समस्यानां कृते
अयमस्ति चीत्कारः
अकालः अवबोधस्य
तात्कालिकीनां समस्यानां कृते
अयमस्ति चीत्कारः
आदर्शा अवस्करे प्रक्षिप्ताः
विधिविरोधकानां संरक्षणं मार्गयन्ते
विधिविरोधकानां संरक्षणं मार्गयन्ते
अस्थिभङ्गेन पीडितं प्रजातन्त्रम्
आत्मप्रवञ्चनायाः कृत्यमेकम्
प्रायो निर्वाचनेषु विजयाः
क्षणभङ्गुरा भ्रमाः
आत्मप्रवञ्चनायाः कृत्यमेकम्
प्रायो निर्वाचनेषु विजयाः
क्षणभङ्गुरा भ्रमाः
क्षणं यदि भवान् अवलोक्येत
तर्हि केचन चिन्तयेयुः
यदेतेन भवद्दर्शनेन नूनं प्राप्ता
नर-वानरयोर्मध्ये विलुप्ता सन्धिशृङ्खला
तर्हि केचन चिन्तयेयुः
यदेतेन भवद्दर्शनेन नूनं प्राप्ता
नर-वानरयोर्मध्ये विलुप्ता सन्धिशृङ्खला
रोषकषायिते अक्षिणी
चिपिटनासिका
घाटिकायां दीर्घाः अयालाः ।
मन्ये कश्चन स्यात् डयनशीलः वानरः
चिपिटनासिका
घाटिकायां दीर्घाः अयालाः ।
मन्ये कश्चन स्यात् डयनशीलः वानरः
यः कालः विलुप्तः
भवतामुपस्थितिः
तस्य छविः
भवतामुपस्थितिः
तस्य छविः
वानरस्य नरं प्रति
एतस्य उत्फालस्य
विशेषाः
भवत्साहाय्येन
बोद्धुं यतामहे
एतस्य उत्फालस्य
विशेषाः
भवत्साहाय्येन
बोद्धुं यतामहे
बा-बा- इति कण्ठात् स्खलितो ध्वनिः
भवतः
सम्बद्ध्यते आदिममानवेन
भवतः
सम्बद्ध्यते आदिममानवेन
वनमानुषाः
यदा वृषायमाणाः
तेषामपि
बा-बा- इति ध्वनिः
न तथा विशदः
यदा वृषायमाणाः
तेषामपि
बा-बा- इति ध्वनिः
न तथा विशदः
कर्णयोरुद्गताः
केशाङ्कुराः
वनमानुषैः भवतः साम्यं
कृतार्थयन्ति।
केशाङ्कुराः
वनमानुषैः भवतः साम्यं
कृतार्थयन्ति।
कर्तितास्ते भवन्तं प्रकटीकुर्वन्ति
तथा
वन्यजीवनपुस्तकाद् गृहीता
काचन छविर्यथा स्यात् उन्मीलिता
तथा
वन्यजीवनपुस्तकाद् गृहीता
काचन छविर्यथा स्यात् उन्मीलिता
बभ्रु त्वक्
समतलं न्यक्तरं मुखम्
प्रलम्बौ बाहू
लघू पादौ
इयं सर्वा वनमानुषस्य कृपा
समतलं न्यक्तरं मुखम्
प्रलम्बौ बाहू
लघू पादौ
इयं सर्वा वनमानुषस्य कृपा
क्रीडावसरे भवान् यदा
खेलति
स खलु जायते
वनमानुषदिवसः
खेलति
स खलु जायते
वनमानुषदिवसः
भवता वयं गर्वान्विताः
अये केशाढ्य,
अहं विस्मये
कथं सर्वमिदमारब्धम्
अये केशाढ्य,
अहं विस्मये
कथं सर्वमिदमारब्धम्
अस्माकं प्रश्नाधिकारिभिः
अन्ततः न्यूटनस्य
सुप्रसिद्धो गतिनियमः पुनरपि सत्यापितः।
अन्ततः न्यूटनस्य
सुप्रसिद्धो गतिनियमः पुनरपि सत्यापितः।
सकारात्मकानि सर्वाणि कार्याणि
तुल्यबलेन प्रबलेन नकारात्मकप्रतिकर्मणा
निरोद्धव्यानि
तुल्यबलेन प्रबलेन नकारात्मकप्रतिकर्मणा
निरोद्धव्यानि
यथोचितानि
नीतिनिर्धारणानि
मन्त्रिणा यदा विशदीक्रियन्ते
तदा
गुरुत्वाकर्षणनियममनुपालयन्तः
ते पत्रावल्याः सञ्चारं शिथिलयन्ति
नीतिनिर्धारणानि
मन्त्रिणा यदा विशदीक्रियन्ते
तदा
गुरुत्वाकर्षणनियममनुपालयन्तः
ते पत्रावल्याः सञ्चारं शिथिलयन्ति
यानि प्रकरणानि गुरूणि भवन्ति
तत्कालमुत्तरमपेक्षन्ते
तानि पत्रावल्याः सञ्चये
तावदेव अधो यान्ति
तत्कालमुत्तरमपेक्षन्ते
तानि पत्रावल्याः सञ्चये
तावदेव अधो यान्ति
आपत्तीनां शृङ्खलां निर्मान्ति प्रशासकाः
यासां समाधानं दुःशकम्।
यासां समाधानं दुःशकम्।
कुण्डलीकृताः
पुरातननियमाः
सहजतथ्यानि न सहन्ते
पुरातननियमाः
सहजतथ्यानि न सहन्ते
मन्त्री बोद्धव्यः
स बहुप्रयोजनीयतां प्रचालयेदिति
अथ शिथिलीकरणाधिकारं प्रयुञ्जीत इति च,
स बहुप्रयोजनीयतां प्रचालयेदिति
अथ शिथिलीकरणाधिकारं प्रयुञ्जीत इति च,
अनन्तरं मतमिदं प्रकटीकरणीयम् –
एतादृशं शिथिलीकरणाधिकारम्
मन्त्रिवर्यः प्रयुङ्क्ते चेत्,
तर्हि सः,
यदि न दोषारोपणस्य तर्हि
शङ्कानां पात्रम् अवश्यं स्यात्।
एतादृशं शिथिलीकरणाधिकारम्
मन्त्रिवर्यः प्रयुङ्क्ते चेत्,
तर्हि सः,
यदि न दोषारोपणस्य तर्हि
शङ्कानां पात्रम् अवश्यं स्यात्।
अस्माकं प्रायशः सर्वा राष्ट्रिया योजनाः
कालेन अलं परिपक्वा भविष्यन्ति।
कालेन अलं परिपक्वा भविष्यन्ति।
शम्बूकस्य गत्या चलनीयमित्येव
प्रशासकाधिकारिणां
मनोऽ नुमनुते।
प्रशासकाधिकारिणां
मनोऽ नुमनुते।
योजनानां क्रियान्वयनकाले
सर्वे आधारभूता मानदण्डाः
परिवर्तनं यान्ति
तदानीं प्रशासकाधिकारिणः
मन्त्रिणे प्रतिमन्त्रणां ददति
पुनः प्रकरणस्य आरम्भः
आदित एव करणीयः स्यादिति।
सर्वे आधारभूता मानदण्डाः
परिवर्तनं यान्ति
तदानीं प्रशासकाधिकारिणः
मन्त्रिणे प्रतिमन्त्रणां ददति
पुनः प्रकरणस्य आरम्भः
आदित एव करणीयः स्यादिति।
नवीनं साहसिकं विश्वम्
केषाञ्चन कृते समतलं प्रतिभाति
विराडाकाशे राजमार्गाणाम्
इष्टकादारुविहीना निर्मितिरिव
यत्र केवलमन्वेषणयन्त्राणि
आन्तर्जालानि
केषाञ्चन कृते समतलं प्रतिभाति
विराडाकाशे राजमार्गाणाम्
इष्टकादारुविहीना निर्मितिरिव
यत्र केवलमन्वेषणयन्त्राणि
आन्तर्जालानि
यत्र प्रवहति सूचना
अस्मान् परितः प्रसृते वास्तविके संसारे
समस्ता सा भवति सीवनहीनं प्रदर्शनम्
निरन्तरं सम्बद्धा
विचाराणां विवर्तनैः
राजमार्गेषु यान्ती
अस्मान् परितः प्रसृते वास्तविके संसारे
समस्ता सा भवति सीवनहीनं प्रदर्शनम्
निरन्तरं सम्बद्धा
विचाराणां विवर्तनैः
राजमार्गेषु यान्ती
ज्ञानस्य विनियोगः
अप्रतिमकौशलेन
यस्मिन् केवलं द्वित्रा एवाधिकृताः
यत्र विषमताया व्यूहा विनिर्मिताः
येन तव च मम च मध्ये
उत्पद्यते विच्छेदः
अप्रतिमकौशलेन
यस्मिन् केवलं द्वित्रा एवाधिकृताः
यत्र विषमताया व्यूहा विनिर्मिताः
येन तव च मम च मध्ये
उत्पद्यते विच्छेदः
भूमण्डलीकरणं नाम
प्रायोवादः
अस्य आशयो द्यापि अस्पष्ट एव
केषाञ्चन कृते इदं समृद्धेः आपादनम्
अपरे एतस्माद् बिभ्यति
प्रायोवादः
अस्य आशयो द्यापि अस्पष्ट एव
केषाञ्चन कृते इदं समृद्धेः आपादनम्
अपरे एतस्माद् बिभ्यति
विक्रयमूल्यानां न्यूनीकरणम् वाणिज्यस्य विस्तारः
नवोदारवादिनः अनेन प्रमुदिताः
उत्पाद्यवस्तूनाम् उन्मुक्तः प्रवाहः
विकल्पानां समृद्धिः
नवोदारवादिनः अनेन प्रमुदिताः
उत्पाद्यवस्तूनाम् उन्मुक्तः प्रवाहः
विकल्पानां समृद्धिः
अभिकल्पिता उत्पादाः प्रदर्शनाय सज्जिताः
सम्पन्नविक्रयशालासु शृङ्गारगृहेषु च
चाकचिक्यमयेषु सम्पन्नापणभण्डारेषु
सर्वाण्येतानि प्रतीकानि सन्ति
समतलीभूतस्य संसारस्य
यत्र भूमण्डलीयाः धनाढ्याः सङ्गठिताः
असंख्यैरुपायैः अन्तःक्रियां सम्पादयन्ति
सर्वमेतत् घृणास्पदमेव
सम्पन्नविक्रयशालासु शृङ्गारगृहेषु च
चाकचिक्यमयेषु सम्पन्नापणभण्डारेषु
सर्वाण्येतानि प्रतीकानि सन्ति
समतलीभूतस्य संसारस्य
यत्र भूमण्डलीयाः धनाढ्याः सङ्गठिताः
असंख्यैरुपायैः अन्तःक्रियां सम्पादयन्ति
सर्वमेतत् घृणास्पदमेव
वयं चत्वारिंशत्कोटिमिताः जनाः
ये दारिद्र्यग्रस्ताः
अस्माकं वर्तते विषमं विश्वम्
मालिन्यस्य, अभावानां, दैन्यस्य च
ये दारिद्र्यग्रस्ताः
अस्माकं वर्तते विषमं विश्वम्
मालिन्यस्य, अभावानां, दैन्यस्य च
यत्र लघवो देवपुत्राः
दैनन्दिनस्थितये कर्म कुर्वन्ति
भूमण्डलसंसारे मलवाहकास्ते
यत्र अपरिग्रहे एव पुण्यम्
दैनन्दिनस्थितये कर्म कुर्वन्ति
भूमण्डलसंसारे मलवाहकास्ते
यत्र अपरिग्रहे एव पुण्यम्
विद्यालयगमनं दुराशैव
विद्यालयपरित्यागो नित्या स्थितिः
चिकित्सकानां शुल्कस्य दाने महत् काठिन्यम्
परिचकिता मातरः सर्वतो भ्रष्टा इव दृश्यन्ते।
विद्यालयपरित्यागो नित्या स्थितिः
चिकित्सकानां शुल्कस्य दाने महत् काठिन्यम्
परिचकिता मातरः सर्वतो भ्रष्टा इव दृश्यन्ते।
नैके एतासु भूमण्डललहरीषु आरूढाः
ते स्वरुचिभोजनेषु सङ्गणकसामग्रीषु च संसक्ताः
शिष्टाः सोत्कण्ठं विलोयकन्तः
स्वनियतये समर्पणं कृतवन्तः
ते स्वरुचिभोजनेषु सङ्गणकसामग्रीषु च संसक्ताः
शिष्टाः सोत्कण्ठं विलोयकन्तः
स्वनियतये समर्पणं कृतवन्तः
आक्सफोर्डमार्गे
समागमात् अहं भयाक्रान्तोऽ स्मि
तान्येव पुरातनानि वदनानि
परस्परं कृतानि तान्येवाभिवादनानि
तान्येव पृष्ठसंवाहनानि
समागमात् अहं भयाक्रान्तोऽ स्मि
तान्येव पुरातनानि वदनानि
परस्परं कृतानि तान्येवाभिवादनानि
तान्येव पृष्ठसंवाहनानि
बन्धो, कथं रोचते तुभ्यम्
ऋतुरयम् – इति स एव प्रश्नः
ऋतुरयम् – इति स एव प्रश्नः
मम कुटुम्बो मिलितः
ग्रीष्माद् दूरं वर्तते सः
अवकाशस्य आनन्दः समग्रः
पत्नी व्यापृता वर्तते
आपणे क्रयकर्मणि
तेन सा हृष्टा
शिशूनां कृते सा किमपि क्रेष्यति
तेन ते हर्षोन्मत्ता भविष्यन्ति
आपणात् काकिणीमूल्येन वस्त्राणां क्रयः..
परमाह्लादजनकः।
ग्रीष्माद् दूरं वर्तते सः
अवकाशस्य आनन्दः समग्रः
पत्नी व्यापृता वर्तते
आपणे क्रयकर्मणि
तेन सा हृष्टा
शिशूनां कृते सा किमपि क्रेष्यति
तेन ते हर्षोन्मत्ता भविष्यन्ति
आपणात् काकिणीमूल्येन वस्त्राणां क्रयः..
परमाह्लादजनकः।
महाशय, एतस्य सर्वस्य सारं त्विदम् –
यत् एतद् अस्मद्गृहमिव प्रतीयते
विराड् वर्तते लन्दनम्
यत् एतद् अस्मद्गृहमिव प्रतीयते
विराड् वर्तते लन्दनम्
यथा भारतम् –
प्रत्येकं ग्रीष्मः अत्र व्यत्यापितः
सुखदः शैत्यकरः
पुराणमित्रैः सह समागमो पि तथैव।
सग्धिः इडलीदोषादिकस्य
प्रत्येकं ग्रीष्मः अत्र व्यत्यापितः
सुखदः शैत्यकरः
पुराणमित्रैः सह समागमो पि तथैव।
सग्धिः इडलीदोषादिकस्य
तथैव सम्भृतस्य समोषस्य
आदर्शोऽ यमवकाशः
अत्र किमपि सांस्कृतिकी पथच्युतिर्नास्ति
अत्र किमपि सांस्कृतिकी पथच्युतिर्नास्ति
भूमण्डलीयदिग्वलयबिम्बाः
डिझिटल्-माध्यमेन प्रकटीभूताः
अतितरां प्रभविष्णुतया
आत्मावलोकनस्य सामर्थ्यं जनयन्ति
डिझिटल्-माध्यमेन प्रकटीभूताः
अतितरां प्रभविष्णुतया
आत्मावलोकनस्य सामर्थ्यं जनयन्ति
दूरसंवेदनक्षमाणि अन्तरिक्षयानानि
सूक्ष्मविशदानि
भूमण्डलस्य कुट्टिमं मापयन्ति
भूमण्डलीयदिग्वलयवितानात्
सूक्ष्मविशदानि
भूमण्डलस्य कुट्टिमं मापयन्ति
भूमण्डलीयदिग्वलयवितानात्
भूमण्डलीयदिग्वलयप्रौद्योगिकी
सूचनातन्त्रविधिं विनैव
वास्तविके समये
त्र्यायामस्य
दृश्यस्य अङ्कनं करोति
सूचनातन्त्रविधिं विनैव
वास्तविके समये
त्र्यायामस्य
दृश्यस्य अङ्कनं करोति
तथ्यजातस्य समन्वयः
भूमण्डलीयदिग्वलयक्षेत्रे क्रियमाणः
जनसञ्चारक्षेत्रे
विविधेषु उपयोगेषु परिणमति
भूमण्डलीयदिग्वलयक्षेत्रे क्रियमाणः
जनसञ्चारक्षेत्रे
विविधेषु उपयोगेषु परिणमति
भूमण्डलीयदिग्वलयोत्पादनानि
वाणिज्यलाभाय विक्रीतानि
बहुराष्ट्रियसंस्थानैः
न्युयार्क राशिभण्डारविनिमयमध्ये
वाणिज्यलाभाय विक्रीतानि
बहुराष्ट्रियसंस्थानैः
न्युयार्क राशिभण्डारविनिमयमध्ये
भूमण्डलीयदिग्वलये मृदुतन्त्रनैपुणी
वास्तुशास्त्रीयानि आकल्पनानि
वास्तुशास्त्रीयानि आकल्पनानि
अभियान्त्रिक्याः समाह्वयाःव उद्वेलयन्ति
आयतिविषये चिन्तितानां जनानां मानसानि
आयतिविषये चिन्तितानां जनानां मानसानि
भूमण्डलीयदिग्वलयसमाधानानि
तेषु समुन्मिषन्ती नवीना कला
दृश्यसंरचनानां प्रयोगः
अन्तःक्रियापरकः स्फूर्तिप्रदः।
तेषु समुन्मिषन्ती नवीना कला
दृश्यसंरचनानां प्रयोगः
अन्तःक्रियापरकः स्फूर्तिप्रदः।
अप्रतिमानि भूमण्डलीयदिग्वलयपदचिह्नानि
अन्तर्जालात् सम्प्राप्तानि
यत्र प्रौद्योगिकीनां समागमो जायते,
येन अस्माकं मानसिकी संरचना प्रभाव्यते।
अन्तर्जालात् सम्प्राप्तानि
यत्र प्रौद्योगिकीनां समागमो जायते,
येन अस्माकं मानसिकी संरचना प्रभाव्यते।
उत्तेजके ज्ञानक्षमे
अकथिताः सम्भावनाः
प्रक्रियाणामुपयोगः
अस्मिन् भूमण्डलीयदिग्वलयसंसारे।
अकथिताः सम्भावनाः
प्रक्रियाणामुपयोगः
अस्मिन् भूमण्डलीयदिग्वलयसंसारे।
न लिख माम्
त्वरितचलदूरवाणीसन्देशेषु
तव मयि वर्तते प्रेम इति उद्घोषयत्सु
त्वरितचलदूरवाणीसन्देशेषु
तव मयि वर्तते प्रेम इति उद्घोषयत्सु
नेच्छाम्यहं स्वकीयं सद्यो लोपम्
तव स्मृतिभ्यः।
तव स्मृतिभ्यः।
अत एवाहं समीहे
त्वया स्वहस्ताक्षरैर्विलिखितम्
दीर्घं पत्रम्
यल्लघुहस्तलिप्यां न स्यात्
दीर्घहस्तलिप्यामेव स्यात्।
यत् त्वदीयं स्वीयं स्यात्
त्वया स्वहस्ताक्षरैर्विलिखितम्
दीर्घं पत्रम्
यल्लघुहस्तलिप्यां न स्यात्
दीर्घहस्तलिप्यामेव स्यात्।
यत् त्वदीयं स्वीयं स्यात्
येन अहं त्वां स्मारयितुं शक्नुयां कदाचित्
तासां भावनानां याः त्वदीयाः सन्ति सम्प्रति
गते काले यास्त्वया अस्वीक्रियेरन्
तासां भावनानां याः त्वदीयाः सन्ति सम्प्रति
गते काले यास्त्वया अस्वीक्रियेरन्
मसिः कामं शुष्का
भावनास्तु न शोषं याताः
सन्ति ताः प्रत्यग्राः
प्रियाः स्मृतयः
नितान्तं स्वान्तं धारिताः
अन्तं यावत् सह वसन्ति।
भावनास्तु न शोषं याताः
सन्ति ताः प्रत्यग्राः
प्रियाः स्मृतयः
नितान्तं स्वान्तं धारिताः
अन्तं यावत् सह वसन्ति।
लिखितः शब्दः
लोपयितुमशक्यम्,
अतीतं तेन संसक्तं
लोपयितुमशक्यम्,
अतीतं तेन संसक्तं
निराकर्तुमशक्यम्।
डिझिटल्-शब्दास्तु
अभिज्ञानं न धारयन्ति
लिपिकारस्य लेखकस्य वा।
अभिज्ञानं न धारयन्ति
लिपिकारस्य लेखकस्य वा।
लिपिः तेषु न सम्प्रेषयति
साध्वसम्
भावानां तरङ्गसन्तरणं वा।
साध्वसम्
भावानां तरङ्गसन्तरणं वा।
कामं जीर्णे शीर्णे पत्रे स्यात्
तव शब्दानां सुगन्धमहमभिलषामि
तव शब्दानां सुगन्धमहमभिलषामि
यत् प्रेम प्रकटीकृतम्
तस्य जीवनाय
यदा वयं पुनर्मिलिष्यावः,
तस्य कृते।
तस्य जीवनाय
यदा वयं पुनर्मिलिष्यावः,
तस्य कृते।
प्रावृषः धारासाराः
धावयन्ति
आतङ्ककारिणं ग्रीष्मस्य घर्मम्,
प्रत्याशयाश्वस्तो निसर्गः
पुनरुज्जीवति
आवयोः पुनर्मिलनमिव।
धावयन्ति
आतङ्ककारिणं ग्रीष्मस्य घर्मम्,
प्रत्याशयाश्वस्तो निसर्गः
पुनरुज्जीवति
आवयोः पुनर्मिलनमिव।
त्रस्तो भूखण्डः
आशास्ते
आयास्यन्ति वर्षाः
तर्पयिष्यन्ति तदीयां तृषां च,
प्रिये, प्रत्येकं मिलनपर्यायस्त्वया सह
प्रथममिलनमिव नवनवायते।
आशास्ते
आयास्यन्ति वर्षाः
तर्पयिष्यन्ति तदीयां तृषां च,
प्रिये, प्रत्येकं मिलनपर्यायस्त्वया सह
प्रथममिलनमिव नवनवायते।
प्रेम्णः बिम्बाः ये तव मनसि
अङ्किताः स्वचिह्नानि दत्तवन्तः
आवां सावधानम् अग्रे सरावः
तस्मिन् पथि यदसंस्तुतम्।
अङ्किताः स्वचिह्नानि दत्तवन्तः
आवां सावधानम् अग्रे सरावः
तस्मिन् पथि यदसंस्तुतम्।
निसर्गेण सह परिवर्तन्ते ऋतवः
नवो वसन्तः सरीसर्ति समीरणे
सुकुमारासु कलिकासु उत्कलिका जागर्ति
उत्फुल्लीभवितुम्
आवां ताः लालयामः
स्नेहेन चोत्कण्ठया।
नवो वसन्तः सरीसर्ति समीरणे
सुकुमारासु कलिकासु उत्कलिका जागर्ति
उत्फुल्लीभवितुम्
आवां ताः लालयामः
स्नेहेन चोत्कण्ठया।
एतावता गहनवेगेन वर्षाः
तथापि तासु सन्निहिता सुकुमारता
यथा नारीत्वम्।
त्वदीयानि बुद्बुदाक्षराण्यपि
सन्ति वर्षाबिन्दव इव
सुकुमाराणि।
तथापि तासु सन्निहिता सुकुमारता
यथा नारीत्वम्।
त्वदीयानि बुद्बुदाक्षराण्यपि
सन्ति वर्षाबिन्दव इव
सुकुमाराणि।
गतेः परिवर्तनम् –
इयं मृद्वी प्रवृत्तिर्वर्तते
गर्जनस्य तालिकया
इयं प्रकृतेः पद्धतिर्वर्तते
आत्मनिष्कृतेः कृते
ग्रीष्मारम्भे।
इयं मृद्वी प्रवृत्तिर्वर्तते
गर्जनस्य तालिकया
इयं प्रकृतेः पद्धतिर्वर्तते
आत्मनिष्कृतेः कृते
ग्रीष्मारम्भे।
कदाचिन्मृदुलः समीरझरः
स्वैरं सरति
परामृशति अस्माकं तनुं
जीवनं हर्षोत्फुल्लं विधत्ते
स्वैरं सरति
परामृशति अस्माकं तनुं
जीवनं हर्षोत्फुल्लं विधत्ते
अहमात्मानं मृदुलं समीरझरं मन्ये
यदा हं
विश्रान्तिमनुभवन्तीं भवतीं स्पृशामि,
भवत्यास्तनुमनुकूलयामि,
येन सा प्रवहतीव
अहं तदानीं भवत्याः अस्तित्वस्य
सीमान्तान् प्राप्नोमि।
यदा हं
विश्रान्तिमनुभवन्तीं भवतीं स्पृशामि,
भवत्यास्तनुमनुकूलयामि,
येन सा प्रवहतीव
अहं तदानीं भवत्याः अस्तित्वस्य
सीमान्तान् प्राप्नोमि।
अपि नाम अहम्
त्वां प्रति प्रेम प्रकटीकुर्याम्
क्षौमतन्तुभिर्गुम्फितैः शब्दैः?
ते शब्दाः
मम नयनयोर्गुञ्जन्ति
यदा त्वं मां निर्वर्णयसि।
त्वां प्रति प्रेम प्रकटीकुर्याम्
क्षौमतन्तुभिर्गुम्फितैः शब्दैः?
ते शब्दाः
मम नयनयोर्गुञ्जन्ति
यदा त्वं मां निर्वर्णयसि।
अथवा अपि नाम त्वं
मह्यमवसरं दास्यसि
यदहं तव मनसि क्वापि निलीये?
यत्र स्थितो हं स्मृतीः दोलयामि
पर्यङ्किकायाम्
आश्वस्तिकरं यत्र भवेत्
तव कृते मम सान्निध्यम्?
मह्यमवसरं दास्यसि
यदहं तव मनसि क्वापि निलीये?
यत्र स्थितो हं स्मृतीः दोलयामि
पर्यङ्किकायाम्
आश्वस्तिकरं यत्र भवेत्
तव कृते मम सान्निध्यम्?
प्रतिरोधाः भवन्ति
अविश्वासस्य दुर्गाः
ते आशाजनकानि
ऋतूनां परिवर्तनानि
न सहन्ते
अविश्वासस्य दुर्गाः
ते आशाजनकानि
ऋतूनां परिवर्तनानि
न सहन्ते
वात्याया वेगान्मा भैषीः
प्रशान्ते वात्यावेगे
अवतीर्णा शान्तिः
अस्माकम् अस्तित्वविच्छित्तीः
विस्तारयिष्यति।
प्रशान्ते वात्यावेगे
अवतीर्णा शान्तिः
अस्माकम् अस्तित्वविच्छित्तीः
विस्तारयिष्यति।
अकथितशब्दानां मौनम्
अभिभविष्यति नौ,
पराम्रक्ष्यति त्वाम्
अभिभविष्यति नौ,
पराम्रक्ष्यति त्वाम्
येन परितो विजृम्भमाणः
नवसंसारः प्रीतिकरः स्यात्।
नवसंसारः प्रीतिकरः स्यात्।
शब्दाः पर्याप्ता न सन्ति
चिरं यत् प्रेम मया अनुभूतम्
तस्य वर्णनाय।
चिरं यत् प्रेम मया अनुभूतम्
तस्य वर्णनाय।
प्रेम्णो भाषा वर्तते
परं नास्ति
तस्या भाषाया लिपिः
सा स्वरूपमाप्नोति
स्मिते वा अश्रुबिन्दौ वा।
परं नास्ति
तस्या भाषाया लिपिः
सा स्वरूपमाप्नोति
स्मिते वा अश्रुबिन्दौ वा।
अपि नाम स्मरसि
तं समयं
यस्मिन् मम मनः सम्भ्रान्तं
मम उत्कण्ठता सदैव
तिष्ठति स्म अधिकण्ठम् ?
तं समयं
यस्मिन् मम मनः सम्भ्रान्तं
मम उत्कण्ठता सदैव
तिष्ठति स्म अधिकण्ठम् ?
मया पथपरिवर्तनं न कृतम्,
जानासि त्वं कथमहनुभवामीति
मम सन्देशो विशद एव आसीत् सः
जानासि त्वं कथमहनुभवामीति
मम सन्देशो विशद एव आसीत् सः
त्वया अहं तत्र परामृष्टः
यत्र न कोऽ पि मां स्प्रष्टुमशक्नोत्
अहं जानामि स्म
यत् किमपि भयकारणं नास्ति आवयोः कृते।
यत्र न कोऽ पि मां स्प्रष्टुमशक्नोत्
अहं जानामि स्म
यत् किमपि भयकारणं नास्ति आवयोः कृते।
ये क्षणाः
आवाभ्यां परस्परेण विनिमापिताः
तानहमद्यापि धारये
नहि समयः अवर्तत सः
आवाभ्यां परस्परेण विनिमापिताः
तानहमद्यापि धारये
नहि समयः अवर्तत सः
यस्मिन्नावां साहसमकरवाव।
स ओघः शमं न प्रयातः
अद्यापि मम हृदयगतिर्भवति स्तब्धा
प्रिये, अद्यापि विजृम्भते
मम प्रेम्ण आवेगः।
अद्यापि मम हृदयगतिर्भवति स्तब्धा
प्रिये, अद्यापि विजृम्भते
मम प्रेम्ण आवेगः।