पार्श्वपरिवर्तनम् -
मल्लानां व्यायामः
शृगालस्य वर्णपरिवर्तनानि
ये रसिकतया सानन्दं प्रेक्षन्ते –
तेषां कृते अविरामो भिरामो नाट्योल्लासः।
शृगालस्य वर्णपरिवर्तनानि
ये रसिकतया सानन्दं प्रेक्षन्ते –
तेषां कृते अविरामो भिरामो नाट्योल्लासः।
परिपूर्णः प्रवाहः
भङ्गिमानः विच्छित्तयः
सनातनमर्यादानां प्रत्यादेशाः
अस्थैर्यं स्थितीनाम्,
रुचिकराणि
कलात्मकानि प्रदर्शनानि
भङ्गिमानः विच्छित्तयः
सनातनमर्यादानां प्रत्यादेशाः
अस्थैर्यं स्थितीनाम्,
रुचिकराणि
कलात्मकानि प्रदर्शनानि
अस्मासु ये अनिपुणाः
ग्राम्यरीत्या कुर्वन्ति
पार्श्वपरिवर्तनम्,
ते शिक्षन्ताम्,
मुकुटायमानानां पार्श्वपरिवर्तनानां पद्धतिम्,
परन्तु कालसहं तत्।
ग्राम्यरीत्या कुर्वन्ति
पार्श्वपरिवर्तनम्,
ते शिक्षन्ताम्,
मुकुटायमानानां पार्श्वपरिवर्तनानां पद्धतिम्,
परन्तु कालसहं तत्।
यदि शिक्षाभ्यासाभावे
विधत्से पार्श्वपरिवर्तनम्
तर्हि मुखबलेन धराशायी भवितासि
कलात्मकशब्दानां प्रयोगाभावे
असहायः अवमानितः प्रत्येष्यसि।
विधत्से पार्श्वपरिवर्तनम्
तर्हि मुखबलेन धराशायी भवितासि
कलात्मकशब्दानां प्रयोगाभावे
असहायः अवमानितः प्रत्येष्यसि।
राजनैतिकी अवसरवादिता
एषा पार्श्वपरिवर्तनपद्धतिः
अभ्यासेन तर्केण च
अनायासं साध्या भवति।
तथात्वे विसङ्गतानि स्थानकानि
न भविष्यन्ति
अप्रीतिकराणि।
अभ्यासेन तर्केण च
अनायासं साध्या भवति।
तथात्वे विसङ्गतानि स्थानकानि
न भविष्यन्ति
अप्रीतिकराणि।
दूरादेव यथाहं तमवलोकयामि,
प्रत्युद्गमनाय अहं स्वमार्गं वयामि
अहं सुनिपुणं प्रत्येकं पदं निदधामि सकौशलं
न खलु तेन मिलनात् अहं विच्युतः स्याम्।
प्रत्युद्गमनाय अहं स्वमार्गं वयामि
अहं सुनिपुणं प्रत्येकं पदं निदधामि सकौशलं
न खलु तेन मिलनात् अहं विच्युतः स्याम्।
व्रजति तस्मिन् मम नयने तमनुसन्धत्तः
दिक्परिवर्तनं कुर्वति तस्मिन्
अहमपि नाटयामि पथपरावर्तनम्
अस्खलितं च प्रायः समग्रं च।
दिक्परिवर्तनं कुर्वति तस्मिन्
अहमपि नाटयामि पथपरावर्तनम्
अस्खलितं च प्रायः समग्रं च।
कटाक्षपातस्तस्य, शिरसः किञ्चिच्चलनं तदीयम्
अहो, सहसा तेन प्रेरिता मयि दृष्टिः
अयमेवावसरः – अञ्जलिं निबद्ध्य
अहं तमुपसर्पामि, नमस्ते इति स्वागतं व्याहरन्।
अहो, सहसा तेन प्रेरिता मयि दृष्टिः
अयमेवावसरः – अञ्जलिं निबद्ध्य
अहं तमुपसर्पामि, नमस्ते इति स्वागतं व्याहरन्।
नाहमिदानीं समयक्षतिं कर्तुमीहे, अहं वच्मि तम् –
अहो कियत् चारु श्रीमतामासीद् भाषणम्,
अहो भङ्गिमा अहो शब्दसौष्ठवम्,
अहो प्रौढिः
अहो कियत् चारु श्रीमतामासीद् भाषणम्,
अहो भङ्गिमा अहो शब्दसौष्ठवम्,
अहो प्रौढिः
अहो कियान् समीचीनो --
लय आसीद् भाषणस्य भवताम्,
जनतया साकं
सम्पर्कसेतुर्विनिर्मितो भवद्भिः
जनास्तु उन्मादिता एव
श्रीमतां वचनसुधारसैः,
यदकथितं तेन तु ते सर्वथा अभिमुखीकृताः
इदमेवाभवत् भवतां विजयाभियानम्।
जनतया साकं
सम्पर्कसेतुर्विनिर्मितो भवद्भिः
जनास्तु उन्मादिता एव
श्रीमतां वचनसुधारसैः,
यदकथितं तेन तु ते सर्वथा अभिमुखीकृताः
इदमेवाभवत् भवतां विजयाभियानम्।
अस्मयत नेता,
मम दिनं सफलमभवत्।
अहं भूमौ अर्धशयित इव
सालसं द्वित्राणि पदानि पृष्ठतो दधामि,
अथ च पुनः स्वीयं मार्गं पुनरनुसन्दधामि
मम दिनं सफलमभवत्।
अहं भूमौ अर्धशयित इव
सालसं द्वित्राणि पदानि पृष्ठतो दधामि,
अथ च पुनः स्वीयं मार्गं पुनरनुसन्दधामि
नेता मननशीलो दयालुश्च आसीत्
स मां काङ्क्षतीति मया अनुभूयते,
स सङ्कटापन्नः प्राणी वर्तते
अत एव यद्वा तद्वा भवेदस्य –
इति तु नाहमनुमंस्ये।
स मां काङ्क्षतीति मया अनुभूयते,
स सङ्कटापन्नः प्राणी वर्तते
अत एव यद्वा तद्वा भवेदस्य –
इति तु नाहमनुमंस्ये।
अहमुत्थितः
व्यवहारमधिकृत्य
स्वतर्कानुपस्थापयितुम्
न्यायाधीशस्य मुखाकृतेरध्ययनाय चेष्टमानः
आकूतिरहिता तदीया आकृतिः
एतदेव सम्प्रेषयति स्म –
यत् स मम प्रकरणं निराकर्तुं सन्नह्यते स्म।
व्यवहारमधिकृत्य
स्वतर्कानुपस्थापयितुम्
न्यायाधीशस्य मुखाकृतेरध्ययनाय चेष्टमानः
आकूतिरहिता तदीया आकृतिः
एतदेव सम्प्रेषयति स्म –
यत् स मम प्रकरणं निराकर्तुं सन्नह्यते स्म।
प्राप्ता निष्कर्षा मया तस्मै निवेदिताः
साक्ष्यानि प्रस्तुतानि
तथ्यानां ततिस्तस्य समक्षं विस्तारिता
अवरन्यायालयेभ्यो यास्त्रुटयो विहिताः,
ताः सूचिताः।
साक्ष्यानि प्रस्तुतानि
तथ्यानां ततिस्तस्य समक्षं विस्तारिता
अवरन्यायालयेभ्यो यास्त्रुटयो विहिताः,
ताः सूचिताः।
सोऽ वादीत् - पुनर्विचारप्रार्थनायाम्
अतिरिक्तेनोत्साहेन तर्का न कार्याः
अवरन्यायालयैः प्रचुराणि साक्ष्यानि लब्धचराणि
मम वादिनो विरुद्धानि,
निश्चिता तदीया नियतिः।
अतिरिक्तेनोत्साहेन तर्का न कार्याः
अवरन्यायालयैः प्रचुराणि साक्ष्यानि लब्धचराणि
मम वादिनो विरुद्धानि,
निश्चिता तदीया नियतिः।
अथ पुनराह –
सुस्पष्टो वरीवर्ति विधिः
तत्र न्यायालयाः
न प्रभवन्ति हस्तक्षेपं विधातुम्।
तत्र न्यायालयाः
न प्रभवन्ति हस्तक्षेपं विधातुम्।
न्यायो नाम परीक्षणीयं लक्ष्यम्,
परिपूर्णतां सर्वथा जहाति सः,
येषु तस्य सञ्चालनाय कार्यभारो न्यस्तः,
ते परिष्कारमर्हन्ति।
परिपूर्णतां सर्वथा जहाति सः,
येषु तस्य सञ्चालनाय कार्यभारो न्यस्तः,
ते परिष्कारमर्हन्ति।
न्यायालयशरणम्,
लोकानां शाश्वतोऽ धिकारः
सामान्यजनानां कृते सोऽ पि अप्राप्यः
लक्षशो जना असहाया उज्झिताः
तेषां मूलभूता अधिकारा विनिहताः।
लोकानां शाश्वतोऽ धिकारः
सामान्यजनानां कृते सोऽ पि अप्राप्यः
लक्षशो जना असहाया उज्झिताः
तेषां मूलभूता अधिकारा विनिहताः।
सम्यगभिवक्तृत्वं परिहीयते,
कस्यचित् कुटुम्बस्य प्रभविष्णता तत्र जायते
धनकोशाः न्यायालयेषु प्रभवन्ति
स्थगनादेशान् सौकर्येण साधयन्ति।
कस्यचित् कुटुम्बस्य प्रभविष्णता तत्र जायते
धनकोशाः न्यायालयेषु प्रभवन्ति
स्थगनादेशान् सौकर्येण साधयन्ति।
पीडिताः अकिञ्चनाः प्रतीक्षन्ते
यथा यथा न्यायः पथभ्रष्टो भवति
अभिभूयते न्यायाधीशः
अनिर्णीतप्रकरणानां सम्भारैः।
वादिभिर्दातव्यमेव भवति
उत्कोचराशिः
यथा यथा न्यायः पथभ्रष्टो भवति
अभिभूयते न्यायाधीशः
अनिर्णीतप्रकरणानां सम्भारैः।
वादिभिर्दातव्यमेव भवति
उत्कोचराशिः
इयं महागाथा वरीवर्ति यन्त्रणायाः
समाधानमस्याः मृग्यमेव अस्माभिः
इयं यथास्थितिस्तथा विनिवार्या
यथा तात्त्विको न्यायः दातुं शक्येत।
समाधानमस्याः मृग्यमेव अस्माभिः
इयं यथास्थितिस्तथा विनिवार्या
यथा तात्त्विको न्यायः दातुं शक्येत।
अस्माकं जनता अर्हति सूचनाधिकारम्,
सूचनाधिकारविधानम् इदानीं विनियुक्तम्,
जनसैवकैः स्वीया स्वीया सम्पत्तिः
तस्याः स्रोतांसि चोद्घोषणीयानि।
सूचनाधिकारविधानम् इदानीं विनियुक्तम्,
जनसैवकैः स्वीया स्वीया सम्पत्तिः
तस्याः स्रोतांसि चोद्घोषणीयानि।
लोकजीवने पारदर्शिता
प्रजातान्त्रिको मानदण्डः
तस्य परुषतया विनियोगः
निश्चाययिष्यति
पूर्वसङ्कल्पितान् सुधारान् ।
प्रजातान्त्रिको मानदण्डः
तस्य परुषतया विनियोगः
निश्चाययिष्यति
पूर्वसङ्कल्पितान् सुधारान् ।
न्यायाधीशा अपि सन्ति जनसेवकाः।
न्यायालयैरेव एतदुद्घोषितम्।
एतावता तेषां न स्युर्विशिष्टा मानलाभाः
सर्वे समानाः भवन्ति जनसेवकाः।
न्यायालयैरेव एतदुद्घोषितम्।
एतावता तेषां न स्युर्विशिष्टा मानलाभाः
सर्वे समानाः भवन्ति जनसेवकाः।
भारतीयमुख्यन्यायाधीशसमक्षम्
न्यायाधीशानां सम्पत्तेः उद्घोषणा
यदि विधीयते, सोऽ पि न जानीयात्
कथम् एतावत् बहुमूल्यं तथ्यजातं परीक्षणीयम्।
न्यायाधीशानां सम्पत्तेः उद्घोषणा
यदि विधीयते, सोऽ पि न जानीयात्
कथम् एतावत् बहुमूल्यं तथ्यजातं परीक्षणीयम्।
स सर्वं तथ्यजातं कस्मैचित्
प्रामाणिकाय निकायाय दद्यात् परीक्षणाय
यः खलु संशयितानां विवादग्रस्तानाम्
प्रकटीकृतरहस्यानाम् अन्वेषणं विदध्यात्
प्रामाणिकाय निकायाय दद्यात् परीक्षणाय
यः खलु संशयितानां विवादग्रस्तानाम्
प्रकटीकृतरहस्यानाम् अन्वेषणं विदध्यात्
यदि व्यवस्था न समीचीना
अस्माभिः पुनश्चिन्तनं करणीयम्,
एतत् सांस्थानिकं परिवर्तनमपेक्षते
न आहार्यम्।
अस्माभिः पुनश्चिन्तनं करणीयम्,
एतत् सांस्थानिकं परिवर्तनमपेक्षते
न आहार्यम्।
भ्रष्टाचारस्य पूतिको व्रणः
नवेन अभिगमेन चिकित्स्यः
यथा जानन्त्येव भवन्तः
यद् आत्मकल्याणसाधनाय
न्यायाधीशः स्यात्
इति तु नोचितम्।
नवेन अभिगमेन चिकित्स्यः
यथा जानन्त्येव भवन्तः
यद् आत्मकल्याणसाधनाय
न्यायाधीशः स्यात्
इति तु नोचितम्।
माननीयाः!
एकं प्रसङ्गविन्दुम् उत्थापयामि,
विधिः क्वचिदेव भवति रासभः
यदि क्वचिद् भवेदपि
यत्र अज्ञानम् एव परमानन्दः
तत्र अहमेतदेव कथयेयम् – हन्त, बत...
एकं प्रसङ्गविन्दुम् उत्थापयामि,
विधिः क्वचिदेव भवति रासभः
यदि क्वचिद् भवेदपि
यत्र अज्ञानम् एव परमानन्दः
तत्र अहमेतदेव कथयेयम् – हन्त, बत...
पूर्वसूरयो न्यायाधीशाः
विधौ प्रवीणा अभूवन्
ते त्वरया प्रकरणं न निरस्यन्ति स्म।
काले प्रकरणं निर्णयन्ति स्म।
सत्यपि प्रभवत्सु आग्रहेषु
तेषां तर्काः सदैव परिशुद्धा अभूवन्।
विधौ प्रवीणा अभूवन्
ते त्वरया प्रकरणं न निरस्यन्ति स्म।
काले प्रकरणं निर्णयन्ति स्म।
सत्यपि प्रभवत्सु आग्रहेषु
तेषां तर्काः सदैव परिशुद्धा अभूवन्।
अस्माकं सुनिपुणा न्यायाधीशाः
ये आसन्दान् अधितिष्ठन्ति
ते नितराम् उत्सुकाः भवन्ति वादस्य निरासाय
ते तत्र किमपि प्रक्रियागतं छिद्रं मार्गयन्ति
येन वादो भवति छिन्नः
सीदति च वादी।
ये आसन्दान् अधितिष्ठन्ति
ते नितराम् उत्सुकाः भवन्ति वादस्य निरासाय
ते तत्र किमपि प्रक्रियागतं छिद्रं मार्गयन्ति
येन वादो भवति छिन्नः
सीदति च वादी।
न्यायप्रदानं नामदेवकार्यम्
अपेक्षते तत् दिक्कालम्।
उभयपक्षाभ्यामेतत् ज्ञातव्यं
यत् न्यायः परिशुद्धतया लब्धस्ताभ्याम्।
तेनैव न्यायस्य गरिमा रक्ष्येत।
अपेक्षते तत् दिक्कालम्।
उभयपक्षाभ्यामेतत् ज्ञातव्यं
यत् न्यायः परिशुद्धतया लब्धस्ताभ्याम्।
तेनैव न्यायस्य गरिमा रक्ष्येत।
क्वचिद् अहं विमृशामि
यत्किं नाम साधारण्यं पत्रकारेषु अभिभाषकेषु च
तत्र एतदेव सुस्पष्टमुत्तरम्-
उभयोर्व्यवसाययोः
जागर्ति परजीव्यः प्रपञ्चः।
यत्किं नाम साधारण्यं पत्रकारेषु अभिभाषकेषु च
तत्र एतदेव सुस्पष्टमुत्तरम्-
उभयोर्व्यवसाययोः
जागर्ति परजीव्यः प्रपञ्चः।
एकः स्वपाठकानाम्
तृषां शमयितुम्
अन्वेषणं विधत्ते
स बुभुक्षते रोमाञ्चकरीः वार्ताः
अन्यः कथां वयति
न्यायालये न्यायप्रदानाय।
तृषां शमयितुम्
अन्वेषणं विधत्ते
स बुभुक्षते रोमाञ्चकरीः वार्ताः
अन्यः कथां वयति
न्यायालये न्यायप्रदानाय।
उभौ गौणवार्तानां विश्लेषणं कुरुतः
येन विश्वसनीयो वृत्तान्तो विनिर्मीयेत
यत्र प्राय एव
लम्पटतापरिप्लुतानि विवरणानि
उन्मत्तं विचारप्रवाहं जनयन्ति
येन विश्वसनीयो वृत्तान्तो विनिर्मीयेत
यत्र प्राय एव
लम्पटतापरिप्लुतानि विवरणानि
उन्मत्तं विचारप्रवाहं जनयन्ति
शक्तिहीनेभ्यो लक्ष्येभ्यः पुष्टिमश्नुवानौ
ऽप्रायः अरक्षणीयस्य)
रक्षायै सङ्कल्पं दधानौ
एतौ आस्थानाट्यसूत्रधारौ
न विश्वसनीयौ।
ऽप्रायः अरक्षणीयस्य)
रक्षायै सङ्कल्पं दधानौ
एतौ आस्थानाट्यसूत्रधारौ
न विश्वसनीयौ।
विचारेषु तर्कशीलता
शुचिता तथा कर्मणः
समाजस्य प्रमाणचिह्नानि सन्ति
शुचिता तथा कर्मणः
समाजस्य प्रमाणचिह्नानि सन्ति
एतानि उदाहरन्ति निर्लज्जं
ते एव
ये स्वकीयानाम् अशुचिकर्मणां
प्रमाणीकरणाय प्रवर्तन्ते।
ते एव
ये स्वकीयानाम् अशुचिकर्मणां
प्रमाणीकरणाय प्रवर्तन्ते।
तर्कस्य विनियोगः
सन्दिग्धपरिणामानां पुष्ट्यै
विधीयमानः
खलतां नयति।
सन्दिग्धपरिणामानां पुष्ट्यै
विधीयमानः
खलतां नयति।
कर्मणां शुचिता
प्रदूषितैरभिप्रायैर्विगलति
तेन सभ्यसमाजस्य
अस्तित्वाय तर्कयुक्तय एव विपर्यस्यन्ति।
प्रदूषितैरभिप्रायैर्विगलति
तेन सभ्यसमाजस्य
अस्तित्वाय तर्कयुक्तय एव विपर्यस्यन्ति।
न्यायालयाः
सन्ति विचाराणां शुचितायाः
कर्मणां तर्कसङ्गतेश्च
प्रतीकभूताः
त एव केवलं
प्रददति
आशाया भ्रमम्।
सन्ति विचाराणां शुचितायाः
कर्मणां तर्कसङ्गतेश्च
प्रतीकभूताः
त एव केवलं
प्रददति
आशाया भ्रमम्।
विवेकशून्यो विश्वासः
आस्था
भवति।
आस्था
भवति।
अन्धाम् आस्थाम्
प्रचारयन्ति
बहवो धर्मसम्प्रदायाः।
प्रचारयन्ति
बहवो धर्मसम्प्रदायाः।
धर्मगुरवः
स्वीयैरुपदेशैः
बन्धीकुर्वन्ति जनान्।
स्वीयैरुपदेशैः
बन्धीकुर्वन्ति जनान्।
युवजनमानसानि
अनुप्राणितानि भवन्ति
भावोद्रेकैः।
अनुप्राणितानि भवन्ति
भावोद्रेकैः।
स्वीयान् आदर्शान्
परेषां कृते
ते दृढं प्रमाणीकुर्वन्ति।
परेषां कृते
ते दृढं प्रमाणीकुर्वन्ति।
निर्मान्ति भूमिम्
पूर्वाग्रहाणाम्
घृणायाश्च।
पूर्वाग्रहाणाम्
घृणायाश्च।
काठिन्येन प्राप्ताः
स्वतन्त्रताः
स्वतन्त्रताः
हन्त! अन्ततः एतेन विगलिताः स्युः
ननु त्यजत ननुनचकारम्
सम्प्राप्तोऽ यम्
युद्धसमाह्वयः द्वारेषु नः।
सम्प्राप्तोऽ यम्
युद्धसमाह्वयः द्वारेषु नः।
युद्ध्यध्वं
विवेकपक्षतः
यावन्न भवति
अतिविलम्बः।
विवेकपक्षतः
यावन्न भवति
अतिविलम्बः।
विवेक एव केवलम्
परावर्तयिष्येत ?
पथभ्रष्टं भागधेयम्।
परावर्तयिष्येत ?
पथभ्रष्टं भागधेयम्।
पत्रकारिता मोचनीया
धनपतिसमुदायैर्दत्तेभ्यः
बन्धनेभ्यः।
धनपतिसमुदायैर्दत्तेभ्यः
बन्धनेभ्यः।
वार्ता उत्पाद्यन्ते
यथा इतरभोग्यवस्तूनि
विक्रीयन्ते चापणे।
यथा इतरभोग्यवस्तूनि
विक्रीयन्ते चापणे।
विज्ञापनजनितधनकोशः
दूरं निरस्यति
सन्तोषम्।
दूरं निरस्यति
सन्तोषम्।
वाणिज्यस्वार्थसाधनानि
निर्लज्जं प्राप्नुवन्ति
अनुचितं प्रचारम्।
निर्लज्जं प्राप्नुवन्ति
अनुचितं प्रचारम्।
वैद्युतीयमाध्यमानि
कुर्वन्ति मूर्तनम्
वासनोद्बोधनाय।
कुर्वन्ति मूर्तनम्
वासनोद्बोधनाय।
अस्मिन् क्रमे
ध्वंसते
तेषां विश्वसनीयता।
ध्वंसते
तेषां विश्वसनीयता।
बालिवुड्जगदुच्चैः आरोहयति
क्रिकेटक्रीडामहानायकान्।
क्रिकेटक्रीडामहानायकान्।
तानधिकृत्य
विराड् भवन्ति
वार्तानां शीर्षकाणि।
वार्तानां शीर्षकाणि।
नक्षत्राणां राशयः
किमादिशन्ति
इति तु च्छलमेव
पाखण्डिनाम्।
मिथ्याशाजननाय।
किमादिशन्ति
इति तु च्छलमेव
पाखण्डिनाम्।
मिथ्याशाजननाय।
दूरदर्शनप्रसारणानां
धारावाहिनीनां च
दर्शनसंख्याबिन्दुः एव प्रसिद्धेर्मानदण्डः
धारावाहिनीनां च
दर्शनसंख्याबिन्दुः एव प्रसिद्धेर्मानदण्डः
गम्भीराणां सारभूतानां वार्तानाम्
अस्मिन् व्यतिकरे
मूल्यं स्वल्पमेव।
अस्मिन् व्यतिकरे
मूल्यं स्वल्पमेव।
सर्वा सूचना
अन्तर्जालसिद्धैव
आशुकाफीपेयवत्
समयो नास्ति पेयं क्वथयितुम्
अन्तर्जालसिद्धैव
आशुकाफीपेयवत्
समयो नास्ति पेयं क्वथयितुम्
वास्तविक्यः कथाः
उपेक्षया निराकृताः
न कश्चन भवति शङ्खनादः
ताः अधिकृत्य
विश्लेषणं विना
निर्धाप्यन्ते मन्तव्यानि
न तेषु भवति दर्शनम्
उत्तरदायिनी पत्रकारिता
उपेक्षया निराकृताः
न कश्चन भवति शङ्खनादः
ताः अधिकृत्य
विश्लेषणं विना
निर्धाप्यन्ते मन्तव्यानि
न तेषु भवति दर्शनम्
उत्तरदायिनी पत्रकारिता
अवाञ्छनीया जाता
अथ च नास्ति स्वतन्त्रा।
अथ च नास्ति स्वतन्त्रा।