अहम् ईक्षे
पक्षपातीनि मन्तव्यानि
I witness – Partial Observations
इत्यस्य काव्यसङ्ग्रहस्यानुवादः
I witness – Partial Observations
इत्यस्य काव्यसङ्ग्रहस्यानुवादः
प्रणेता
कपिल- सिब्बलः
कपिल- सिब्बलः
अनुवादकः
राधावल्लभः त्रिपाठी
राधावल्लभः त्रिपाठी
अहं साक्षी (I Witness) इति आङ्ग्लभाषायां निबद्धं मम काव्यसङ्कलनं संस्कृतानुवादेन प्रकाशम् एतीति हर्षमनुभवामि। अथ इयं पुरातनी भाषा संस्कृतम्, एतस्याः साहित्यपरम्पराश्च नवयुगोन्मेषसहचारिण्यो जायन्ते, प्रचुरं च मौलिकम् अनूदितं वा साहित्यं सम्प्रति संस्कृते विरच्यत इत्यपि गौरवस्य विषयः। स्वयमेव विश्रुतः साहित्यकारः श्रीराधावल्लभः त्रिपाठी मम प्रथमकाव्यसङ्कलनस्य संस्कृतानुवादकः। सङ्कलनगताः सर्वाः चतुरशीतिकविताः तेन प्रायः शब्दशः पङ्क्तिशश्च अनूदिता इत्यपि तेन अहं सूचितः।
मम कवितानाम् अस्य अनुवादस्य संस्कृतज्ञानां संसारे स्वागतं स्यात्, अयम् चानुवादः नवसंस्कृतसर्जनायाम् उत्प्रेरकः स्यात् इति आशासे।
कपिल-सिब्बलः
माननीयैः श्रीकपिलसिब्लमहोदयैराङ्ग्लभाषया विरचितः काव्यसङ्ग्रहः आचार्यराधावल्लभत्रिपाठिकृतसंस्कृतानुवादरूपेण मया सम्यगवलोकितः। भाव-गाम्भीर्यमस्य हृदयं स्पृशति। काले काले यत् कविनानुभूतं तदेवात्र सहृदयहृदय- हारिण्या मधुमय्या वाचोपन्यस्तम्। सर्वमेवात्र सहजम्। पर्वतान्निर्झर इव वाग्झरो -त्र स्वयं निःसृतः। यद्यप्याचार्यैः दण्डिभिः प्रतिभा नैसर्गिकी समाम्नाता, मम्मटैश्च शक्तिर्लोकशास्त्रकाव्याद्यवेक्षणजनिता निपुणता काव्यज्ञशिक्षयाभ्यास इति काव्यो-द्भवे हेतुरित्युक्तस्तथापि शक्तेः प्रथमं निर्देशात् तस्या एव तत्र प्राधान्यम्। प्रतिभा-पराभिधानायाः शक्तेरभावे कुतः काव्योद्भवसम्भवः। इयं शक्तिरेव विधिशास्त्र- पारङ्गतान् मान्यवर्यान् काव्यरचनायां प्रैरिरत्। तत्र सहायिका भूल्लोकाद्यवेक्षण- निपुणता। दीर्घानुभवस्तेषां तत्र। लोके या या विषमता विसङ्गतयो वा तैरक्षिलक्षी- कृतास्तास्ता अत्र काव्यबन्धे सम्यगुपन्यस्ताः।
काव्यबन्धोऽयम् आचार्यराधावल्लभत्रिपाठिभिः संस्कृतेनानूदित इति महदुपकृतं तैः संस्कृतजगतः। एतेनाङ्ग्लभाषानभिज्ञाः संस्कृतज्ञा मान्यवर्याणां कपिलसिब्बलमहाभागानां काव्यरसमास्वादयितुं शक्नुयुः। अनुवादो हि नामाति-कठिनं कर्म। अनुवादकेन मूलग्रन्थस्याशयो यथायथं प्रस्तोतव्यो भवति परन्तु यया भाषया स प्रस्तोतव्यो भवति तत्स्वारस्यमपि मनसि करणीयं भवति। उभयदृष्ट्या- पि साधिष्ठो यं प्रयास इति ते सुतरामभिनन्दनार्हाः।
नवदिल्ली, 25.08.2012
कस्यचिदन्वेषणशीलस्य सक्रियस्य च मानसस्य रचनाः सन्ति इमाः कविताः इति अहं मन्ये। डिफाइनिंग मोमेंट्स इति कविता तत्र मूर्धाभिषिक्ता यत्र कपिलः स्वकीयं विलक्षणं हास्यं सङ्क्रान्तवान्। अयं कवितासङ्ग्रहः विधि-न्यायालय-राजनीति-क्षेत्रे सम्प्राप्तैः अनुभवैः अधिगतानां महत्त्वपूर्णसामाजिकविचाराणां सञ्चयो वर्तते।
ए.पी.जे. अब्दुलकलामः
विधि-राजनीत्योः अपेक्षया समधिकं परिपूर्णतां काव्ये कपिलसिब्बलः प्राप्नोति। क्रिकेट-भ्रष्टाचार-राजनीतिककपालक्रिया-प्रकृति-प्रणय-प्रेमादिषु प्रसृतः तस्य कवितानां परिधिः व्यापकः । विषयः को पि स्यात्, तस्य रचनायां नर्म, व्यङ्ग्यम्, हास्यं, करुणा च अनिर्बाधं भवन्ति। तस्य काव्यानां वाचनम् अद्भुत एव अनुभवः।
खुशवन्तसिहः
कपिलसिब्बलस्य काव्यानि आ वैयक्तिकजीवनाद् आ राजनीतेः प्रसृतानि। तानि प्रायो मनः स्पृशन्ति, तीक्ष्णं पर्यवेक्षणं विचारोत्तेजकता च सदैव तेषु विद्यते। अथ च तेषु जनानां कृते जनतायाः योगक्षेमाय च कृते तादृशस्य जनप्रतिनिधेः चिन्ता भावनाभरिता परिलक्ष्यते यः आन्तरिकः कविरपि विद्यते। अयं काव्यसङ्ग्रहः पाठे पुनः पाठे च पुरस्कारप्रदायकः, बहूनि पद्यानि अत्र उच्चैः पाठे आनन्दप्रदानि सन्ति।
शशिः थरूरः
मम मातुः कृते
यया मह्यम्
इदं जीवनम्
उपहारीकृतम्।
मम पितुः कृते
येनाहं तस्य जीवनस्य
अर्थं बोधितः।
मम पौत्रस्य कृते
यो मयि जीवनोपहारस्य
पुनरुज्जीवनाय
सामर्थ्यं निदधाति।
यया मह्यम्
इदं जीवनम्
उपहारीकृतम्।
मम पितुः कृते
येनाहं तस्य जीवनस्य
अर्थं बोधितः।
मम पौत्रस्य कृते
यो मयि जीवनोपहारस्य
पुनरुज्जीवनाय
सामर्थ्यं निदधाति।
कृतज्ञताप्रकाशः (कवेः)
(सङ्क्षिप्तीकृतः)
(सङ्क्षिप्तीकृतः)
अस्य काव्यसङ्कलनस्य प्रथमं प्रारूपं यन्निर्मितम्, तत्तु प्रकाशनाय न दत्तम्। इयं मम अन्तर्यात्रा, अस्याः प्रकाशनाय बहूनां साहाय्यमपेक्षितमासीत्। एतादृशे कर्मणि केचन वाक्यानां पदानां च परिष्कारं कुर्वन्ति, अपरे पुस्तककलेवरं निरूपयन्ति, अन्ये च मुद्रणानन्तरमस्य स्वरूपं निर्धारयन्ति। पुस्तकरचना इव भवति तेषामपि कौशलस्य अवदानम्। मदीयम् अनतिसाधारणं सौभाग्यमेतदासीत्, यन्मया बहूनि मित्राणि एवंविधानां कर्मणां निष्पादनाय सम्प्राप्तानि।
खुशवन्तस्य उत्साहवर्धनं विना पुस्तकस्य प्रारूपं मत्सकाशमेव जीर्णतां प्रायास्यत्। अत्यन्तं तस्यौदार्यम्, यत् प्रकाशनीयमेतदिति स निर्बन्धं व्यदधात्। पुस्तकस्य संशोधनाय तस्य सान्निध्ये ये क्षणाः मया यापिताः ते सर्वदा स्मरणार्हाः। रीतादेव्या अपि अहम् अधमर्णोस्मि, या खुशवन्तसिंहाय पुस्तकम् अवलोकनार्थम् अर्पणीयम् - इति परामर्शं मह्यम् अददात्।
मम परिवारजनानतिरिच्य मालासिंहवर्या तस्याः पतिः जुगनुश्च पुस्तकस्यास्य प्रकाशनव्यतिकरे इदम्प्रथमतया आखेटतां प्रयातौ। मालायाः सततसाहाय्यं विना पुस्तकमेतदसम्भाव्यमेव अभविष्यत्।
पवनवर्मणेपि धन्यवादान् प्रयच्छामि यस्य टिप्पणीभिर्मम पाण्डुलिपिः उपकृता। नमितागोखलेवर्यायाः परामर्शाः टीकाश्च मां सर्वथा अनुकम्पापात्रं व्यदधुः। तस्याः सम्पादनकर्मणोवदानं पुस्तकस्यास्य गुणवत्तां समृद्धिमनयत्। तस्याः शोधसहायिका शुभदाखन्ना अपि मम धन्यवादपात्रम्।
शुमितादीदीः सन्धुश्च कासाञ्चित् कवितानां पाठं श्रुत्वा पुस्तकस्य प्रकाशने अभिनिविष्टौ। आपरितोषात् शुमिता परिष्कारकर्म साधु न अमंस्त। मम सचिवः राजेशः सर्वाधिकं कठिनं कर्म समपादयत्, क्वचिच्च परिष्कारमपि प्रास्तावीत्। प्रत्येकं जनात् शिक्षा ग्रहीतुं शक्यत इति मया अनुभूतम्। तेनाहं विनयं नीतः। तस्य धैर्यं च निष्ठां च अहं प्रशंसामि।
निर्मलसिंहः आज़ममियाँ चापि धन्यवादार्हौ, ताभ्यां क्वचित् पुस्तकांशाः श्रुताः, सस्मितं मौनं चावलम्बितम्।
मम पूर्वपत्न्या नीनाया अनुपस्थिता उपस्थितिः नैकासु कवितासु दरीदृश्येत। मम पुत्रौ अखिलः अमितश्च यद्यपि न सर्वथा सहमतौ अस्य प्रकाशनाय, तथापि मां प्रोत्साहितवन्तौ। मम पुत्रवध्वौ पावनी शिवानी च सर्वथा अग्रे सर्तुं मां प्रेरितवत्यौ। गीताञ्जलिः, अनुराधा प्रिया च मां प्रमोदयन्ति स्म इति एता अपि धन्यवादपात्रम्। अस्मिन् प्रकाशनोपक्रमे मम पत्नी प्रोमिला सर्वाधिकं कष्टं सोढवती। कदाचित् चलदूरवाण्या चिरम् आलपति मयि सा मया सह बहुकालं सम्पर्काद् वञ्चिता, क्वचिच्च अहं मौनविधौ स्थितः। तस्याः प्रगाढस्नेहेन अगाधधैर्येण वस्तुतोऽ हम् अनुगृहीतः। तया काश्चन कविताः श्रुता अपि, तस्या विचक्षणता पाककलावैशारदी च मामुपकृतवती।
प्रकाशकेन मम आत्मविश्वासो वर्धित इति तस्याप्यहं कृतज्ञोऽस्मि।
अयं खलु अनीप्सितः प्रयासः। एतावत्सु वर्षेसु यदा कदा अहं किमपि व्यरचयम्, सदैव काव्यमेव व्यरचयम्। सेवानिवृत्तिं प्राप्ते कस्मिंश्चित् न्यायाधीशे सर्वोच्चन्यायालयस्य अधिवक्तृपरिषदः अध्यक्षत्वेन अहं सदैव तस्मै कवितामेकां काष्ठावरणमण्डितां विधाय अददम्। तस्यां कवितायां न्यायाधीशवर्यस्य प्रशंसा तदीयकार्यकालस्य च निरूपणमभवत्। एतन्मम श्लाघाकर्म अद्यापि केषाञ्चित् स्मृतौ तिष्ठतीति मन्ये। यदि न्यायाधीशस्य स्वविवेकनिष्पन्नः कश्चन लाभो ग्राह्यस्तर्हि स सातिशयं प्रशंसनीय इति न्यायालये अयमेव स्वर्णिमो नियमः। न्यायाधीशानां सेवानिवृत्तिसमये अहम् एतस्य नियमस्य उल्लङ्घनं कर्तुं नैच्छम्।
तथैव च कदाचित् अहं स्वविचारान् विच्छिन्नेषु कर्गदखण्डेषु न्यवेशयम्। ते खण्डाः प्रायशः व्यलुप्यन्त। ये केचन परस्तात् प्राप्तास्ते अन्यैः जनैः धारिताः मह्यं च समर्पिताः। मम बहूनि एतादृशानि बहुमूल्यानि पत्राणि आवासगृहानां परिवर्तने विलुप्तानि। काव्यरचनायै समयः एकान्तश्च अपेक्ष्यते। परन्तु यथा यथा समयः अत्येति स्म, द्वौ अपि मत्कृते दुर्लभौ जातौ। तथापि काश्चन तादृश्यः घटनाः घटिताः याभिः स्फुटकाव्यानां रक्षणाय अहं प्रेरितः। लेखनी कर्गदश्च तत्र शिथिले माध्यमे, यतो हि मम मनः लेखन्याः अपेक्षया द्रुततरम् अधावत्। तेन यत्किमपि अलिखम्, तत् परस्तात् अपठनीयमभूत्। मया सरलं किमपि माध्यमं अपेक्ष्यते स्म, येन अहं सुकरं स्वात्मानमभिव्यङ्क्तुं क्षमः स्याम्।
एवं स्थिते चलदूरवाणी स्वप्नस्य चरितार्थता इव हस्तगता। एतया अहं यात्राकाले एकान्ते स्थितः किमपि रचयितुं प्राभवम्। जनानामपि कापि विचिकित्सा नाभूत्। मया लेखनकाले स्वस्कन्धयोः
उपरि अवलोकनीयं नाभूत्। अथ च लिखिते एकस्मिन् वस्तुनि मत्सकाशं तस्य सुपाठ्यं प्रारूपमपि सुरक्षितमभवत्।
एकदा तु सार्धद्विहोरापर्यन्तायां विमानयात्रायां मया चल- दूरवाणी स्थगिता, ततश्च तस्यां विप्रकीर्णान् स्वविचारान् निधाप-यितुमहं प्रवृत्तः। चिरादहं लेखितुमुत्कः आसम्, विशिष्य नैकाः प्रसङ्गास्तादृशा उद्घाटिता आसन्, ये न केवलं जनानां चिन्ताविषया अपितु ममापि मानसम् आन्दोलयन्ति स्म। अहम् आ नेनोप्रविधेः वृष्ट्यवसाननिसर्गनिश्चलतां यावद् विविधविषयानाश्रित्य लेखनाय प्रवृत्तः।
अयं नवाचारमयो माध्यमः मां नवयात्रायामारोहयत्। जीवनस्य अन्यादृशं रूपं मया गृहीतम्। मम मनसः अवकाशेषु निहिताः बिम्बाः अनुभवाश्च सजीवा भूत्वा अवतीर्णाः। मां परितो विततो राजनीतिसंसारः, तदतिरिच्य नवीनप्रौद्योगिकीनाम् अपाराः सम्भावनाः, अधिवक्तृत्वेन रोमाञ्चकराणि मम वर्षाणि, क्रिकेटक्रीडां प्रति ममानुरागः, तथा च मम जीवनस्य अन्तरङ्गाः के पि क्षणाः एतत्सर्वं तस्मिन् डिझिटलमाध्यमे सन्निवेशितम्।
मुक्तच्छन्दसि विचाराणां सारः सुकरं स्थापयितुं शक्यते। तथापि मत्कृते छान्दसो लयः समधिकतरम् आकर्षकः। अयं मह्यं प्रसङ्गानां सुसमञ्जसे परिप्रेक्ष्ये प्रकटीकरणाय सामर्थ्यं ददाति, तेन च महतः आनन्दस्य स्रोतो निष्पद्यते। मम बहवो विचाराः निबन्धाः टिप्पण्यो भवितुमर्हन्ति स्म। परन्तु कविता मां स्वसंवेदनेन समधिकतरं सुश्लिष्टतया आत्माभिव्यक्तिक्षमं व्यदधात्। तेन दीर्घं गद्यवितानं कल्पनीयं नाभूत्।
अहमेतेषु ‘आंशिक-पर्यवेक्षितेषु’ केषाञ्चित् स्वपरिवारजनैः इष्टमित्रैरपि च साकं संविभागं कर्तुं निरुत्सुक आसम्। तेषां स्पष्टं मन्तव्यं मां हतोत्साहं कुर्यादिति चिन्ता आसीत्। ये मम निकटसम्पर्के तिष्ठन्ति, ते सदैव रचनात्मका आलोचकाः क्रूरतया च ऋजवः सन्ति। यत्किमपि मया लिखितं, तत् ते आस्वादितवन्तः। एतेन अहं स्वोपज्ञानि कानिचित् काव्यानि खुशवन्तसिंहाय अश्रावयम्। स तेभ्यः
कांश्चन अंशान् विद मेलिस टुवर्ड्स वन एण्ड आल ऽएकस्य सर्वेषां कृते च द्वेषः) इति स्वकीये सुप्रथिते स्तम्भे प्राकाशयत्। मत्कृते स प्रस्थानपरिवर्तनबिन्दुरभवत्।
प्रायः मम विचाराः साम्प्रतिकसमाजाय मम चिन्तायाः अभिव्यक्तयः सन्ति। अत्र कश्चन द्वेषो नास्ति। व्यक्तिविशेषमधिकृत्य एकमेव काव्यमत्र वर्तते, तत्तु अटलजीविषयम्। तदपि राज्यसभायाः
कार्यवृत्तस्य अंशभूतम्, यतो हि मया तत् विवादकाले उद्धृतम्। ‘द मैन बिहाइण्ड द मास्क’ ऽप्रतिमुखस्य पृष्ठे..) इति काव्यं मत्कृते सदैव रहस्यमयं तिष्ठेत्। सर्वेषु जनेषु अयं प्रतिशीर्षकधारी जनः प्रांशुतम इति अहम् अनुभवामि, स्वकीयस्य दलस्य कठोरनीतिनिर्णयानां विषये तस्य द्वैधवृत्तिः व्यक्तिं गता। तूष्णीम्भूतोपि स इङ्गितैरभाषत। भविष्यत्काले इतिहासस्तस्य नेतृत्वमधिकृत्य निर्णयं दास्यति। कदाचित् प्रकीर्णा विचाराः जीवनमिव विस्तारं गृह्णन्ति। लिखितो विचारः आत्मनो गतिं वृणुते, एवं स्थिते अभिव्यक्तिं गच्छन्ती विधा मां चमत्करोति स्म। स्वकीयराजनीतिकप्रतिबद्धतासु विशिष्य स्थितासु इयं यात्रा मया आस्वादिता । मम कार्यालयदायित्वानि एतस्य रोमाञ्चकरस्य साहसिकाभियानस्य कृते अवकाशं नैव अददुः।
एतत् अस्थायितया भवद्भ्यः समर्पये, भवन्तश्च एतत् आस्वादयिष्यन्तीति आशासे।
कवेः कपिल- सिब्बलस्य अहम् ईक्षे इति काव्यसङ्कलनं संस्कृतेन अनुवदनीयमिति सङ्कल्पं यदा अहं कृतवान् तदा कियत् कठिनमेतत् कर्म मत्कृते भविष्तीति नैव अनुमितमासीत्। अयं कश्चन समाह्वयो मत्कृते जातः। मया अयं समाह्वयः सुखेन वृतः, यतो हि एतेन संस्कृते सर्जनस्य नवीनाः सम्भावना उन्मीलिताः। कपिलसिब्बलस्य बहूनि काव्यानि अत्यन्तं साम्प्रतिकान् प्रसङ्गानुद्घाटयन्ति, नवीनप्रौद्योगिकीतत्त्वानि विषयीकुर्वन्ति। तेन बहूनां नवीनवस्तूनां कृते संस्कृतशब्दाः गवेषणीया अभवन्।
कपिलसिब्बलस्य भाषा अत्यन्तं सम्पन्ना, आधुनिकपरिवेशः वर्तमान-जीवनस्य अनुभवास्तत्र सूक्ष्मं विशदं च विवृताः। नैके शब्दाः प्रत्यग्रोन्मेषजिह्मायाः आङ्ग्लभाषायाः अत्र सन्ति प्रयुक्ताः, ये कोशग्रन्थेष्वपि दुर्लभाः। अथ च वैविध्यं कपिलसिब्बलस्य काव्यजगति वरीवर्ति। कविताः समग्रं जीवनं समकालिकं सम्पूर्णं संसारं विषयी -कुर्वन्ति। बह्व्यः कविताः साम्प्रतिकीं राजनीतिकीं सामाजिकीं च स्थितिं सोत्प्रासं व्यङ्ग्यगर्भया शैल्या प्रभविष्णुतया निरूपयन्ति। तथाहि
Elections are no time for
Sacrifice and abstention.
Sacrifice and abstention.
No time for dialogue
Or time for comprehension.
Or time for comprehension.
Or issues of the moment
Crying out for attention.
Crying out for attention.
Ideologies in the dustbin
Seek mafia protection.
Seek mafia protection.
Our fractured democracy
An art in self delusion.
An art in self delusion.
Most electoral victories
An ephemeral illusion. ऽp. 82-83)
An ephemeral illusion. ऽp. 82-83)
निर्वाचनं नाम
नास्ति कालस्तपसः न वा अपरिग्रहस्य
नास्ति कालस्तपसः न वा अपरिग्रहस्य
निर्वाचनं नाम
अकालः संवादस्य
अकालः अवबोधस्य
अकालः संवादस्य
अकालः अवबोधस्य
तात्कालिकीनां समस्यानां कृते
अयमस्ति चीत्कारः
अयमस्ति चीत्कारः
आदर्शा अवस्करे प्रक्षिप्ताः
विधिविरोधकानां संरक्षणं मार्गयन्ते
अस्थिभङ्गेन पीडितं प्रजातन्त्रम्
आत्मप्रवञ्चनायाः कृत्यमेकम्
विधिविरोधकानां संरक्षणं मार्गयन्ते
अस्थिभङ्गेन पीडितं प्रजातन्त्रम्
आत्मप्रवञ्चनायाः कृत्यमेकम्
प्रायो निर्वाचनेषु विजयाः
क्षणभङ्गुरा भ्रमाः
क्षणभङ्गुरा भ्रमाः
वस्तुतः कपिलसिब्बलस्य काव्ये यथा बाह्यं जगत् तथैव अन्तर्जगत् समन्वितम्। तथा यथा साम्प्रतिकसमाजस्य विकृतीनां समुद्घाटने तथैव आन्तरिकीनामनुभूतीनां व्यक्तये कविरयं सूक्ष्मदर्शितां प्रकटीकरोति। जीवनस्य रहस्यानि अनायासं विशदं सूक्ष्मं च उन्मील्यन्ते तदीये काव्ये। तथाहि -
Each day a celebration of life
Starts with a gentle caress
Starts with a gentle caress
प्रतिदिनं जीवनोत्सवः
मृदुना लालनेन आरभ्यते
मृदुना लालनेन आरभ्यते
एतस्य कवेः बहूनि काव्यानि वैयक्तिकं जीवनं विषयीकुर्वन्ति। अनुभवानां तत्र समृद्धिः वर्तते। अस्य सङ्कलनस्य आत्मकथात्मिकायां स्मृतिदंशः ऽNostalgia) इति प्रथमकवितायाम् एव शिशोः चेष्टाः परिजनानां च लालनानि प्रत्यक्षमिव साकारतां नीतानि। तद्यथा -
When I gurgled
Familiar faces
Looked on dotingly
Kissed all over,
My hands and feet,
Whispered, cooing at me.
Familiar faces
Looked on dotingly
Kissed all over,
My hands and feet,
Whispered, cooing at me.
यदा अहं गण्डूषरवमकार्षम्,
परिचितानि वदनानि
पश्यन्ति मन्त्रमुग्धाः
अहं चुम्बितः प्रत्यङ्गं – करयोरपि चरणयोरपि
उपांशुजापं सम्बोधितः
कूहूकारम् आलपितः
परिचितानि वदनानि
पश्यन्ति मन्त्रमुग्धाः
अहं चुम्बितः प्रत्यङ्गं – करयोरपि चरणयोरपि
उपांशुजापं सम्बोधितः
कूहूकारम् आलपितः
क्वचिदयं कविः प्रेम्णः सूक्ष्मातिसूक्ष्मा अनुभूतीः प्रकटीकरोति कालातिक्रान्तं च भावं व्यनक्ति -
Footprints you have left behind
Snapshots of a broken life
sustaining us in different ways
Cherished memories survive. ऽp. 26)
Snapshots of a broken life
sustaining us in different ways
Cherished memories survive. ऽp. 26)
पदचिह्नानि यानि त्वया पृष्ठत उज्झितानि
भग्नजीवनस्य कतिचन च्छायाचित्राणि
विविधं नौ जीवनाश्वासं ददति
हृदयवासिताः स्मृतयः
अतिक्रामन्ति कालम्।
विविधं नौ जीवनाश्वासं ददति
हृदयवासिताः स्मृतयः
अतिक्रामन्ति कालम्।
Did you hear my foot steps say
Never been through this tortuous way
Where demons lurk of yesterdays
To magnify your present fears?
Never been through this tortuous way
Where demons lurk of yesterdays
To magnify your present fears?
अपि नाम त्वया मम पदचिह्नानि
‘एतादृशे यन्त्रणादायके पथि
न वयं कदापि प्रचलितानि’
इति निगदन्ति श्रुतानि
यत्र विगतदिवसानाम्
आसुरः छद्माघातः
अस्माकं वर्तमानभीतीः
विराड्रूपतां नयति
‘एतादृशे यन्त्रणादायके पथि
न वयं कदापि प्रचलितानि’
इति निगदन्ति श्रुतानि
यत्र विगतदिवसानाम्
आसुरः छद्माघातः
अस्माकं वर्तमानभीतीः
विराड्रूपतां नयति
कवेरस्य जीवनदर्शनं सन्तुलनं प्रकृत्या सामञ्जस्यं च व्यवस्थापयति। अयं पर्यावरणसन्तुलनभङ्गविभीषिकाः निर्दिशति, निसर्गेण सामञ्जस्याय आह्वयति साम्प्रतिकीं मानवताम् । तद्यथा-
The eco-system’s splendid wonders
Governed by nature’s flawless lays
Let them not be torn asunder
By brazen men’s exploiting ways.
Governed by nature’s flawless lays
Let them not be torn asunder
By brazen men’s exploiting ways.
इयमद्भुता विस्मयावहा व्यवस्था नैसर्गिकी
प्रकृतेः प्रकृष्टैर्विधानैर्विहिता
नेयं सर्वग्रासं नाशं नेया
निर्लज्जमानवानां
शोषणतन्त्रैः।
नेयं सर्वग्रासं नाशं नेया
निर्लज्जमानवानां
शोषणतन्त्रैः।
यद्यपि अयम् अत्यन्तम् आधुनिकः नवयुगस्य आकाङ्क्षाणां नवगायकः, तथापि नायं परम्परां विरुणद्धि। आधुनिकजीवनस्य विकृतीः परामृशन्नयं परम्पराणां पुनराविष्कारमपि अपेक्षितं मनुते। वस्तुतो भारतीयसंस्कारा अस्य काव्ये जाग्रति।
अयं कविः महानगरेषु उत्थापितानां गगनचुम्बिनीनां भवनावलीनां दृश्यानि विषयीकरोति, तेषां परम्परायाश्च विच्छेदं विभावयति। तथात्वे अस्य अभिव्यक्तयः परिकरालङ्कारेण यथार्थकथनेन संवलिताः नितरां हृदयावर्जिकाः। तद्यथा-
Inanimate lifeless
Geometric and heartless
Breathing the blue sky
Architecturally spineless
Supinely listless
Eternally dry
Geometric and heartless
Breathing the blue sky
Architecturally spineless
Supinely listless
Eternally dry
शवा इव जीवनरहिताः
ज्यामितीयाश्च हृदयविहीनाः
श्वसन्ति नीले नभसि
वास्तुदृशा मेरुदण्डहीनाः
उत्ताना उदासीनाः
नित्यशुष्काः
ज्यामितीयाश्च हृदयविहीनाः
श्वसन्ति नीले नभसि
वास्तुदृशा मेरुदण्डहीनाः
उत्ताना उदासीनाः
नित्यशुष्काः
Such structures ignoble’
Culture now global
Culture now global
Whither art and tradition
We need to preserve our cultural curves
With modern rendition.
We need to preserve our cultural curves
With modern rendition.
एतादृश्यः संरचनाः
अनुदात्ताः
संस्कृतिरिदानीं वैश्विकी
क्व गता कला क्व च परम्परा
संरक्षणीयाः खलु अस्माभिः
सांस्कृतिकानि प्रस्थानानि
आधुनिकैः रूपान्तरैः
अनुदात्ताः
संस्कृतिरिदानीं वैश्विकी
क्व गता कला क्व च परम्परा
संरक्षणीयाः खलु अस्माभिः
सांस्कृतिकानि प्रस्थानानि
आधुनिकैः रूपान्तरैः
कविः कपिलसिब्बलः आधुनिकयान्त्रिकपद्धतिषु नदीष्णः। तथापि जीवनं यान्त्रिकं भवेदिति नासौ कदापि कामयते। आधुनिकीं यान्त्रिकीं सभ्यतामयं विरुणद्धि, यया जीवनमेव कृत्रिमतां गमितम्। स्वयं चलदूरवाण्या कवयति, तथापि प्रेमपत्राणि चलदूरवाण्या प्रेषणीयानीति न कदापि वाञ्छति -
Write me not
A quick SMS
Professing that
You love me.
A quick SMS
Professing that
You love me.
I do not want
To be erased
Thus quickly from
Your memory
I would rather have your written word
In long hand
Your very own.
To be erased
Thus quickly from
Your memory
I would rather have your written word
In long hand
Your very own.
न लिख मां
चलदूरवाणीलघुसन्देशेषु
तव मयि वर्तते प्रेम इति उद्घोषयत्सु
नेच्छाम्यहं स्वकीयं सद्योलोपम्
तव स्मृतिभ्यः।
अत एवाहं समीहे
त्वया स्वहस्ताक्षरैर्विलिखितं
दीर्घं पत्रम्
यल्लघुहस्तलिप्यां न स्यात्
दीर्घहस्तलिप्यामेव स्यात्।
यत् त्वदीयं स्वीयं स्यात्
चलदूरवाणीलघुसन्देशेषु
तव मयि वर्तते प्रेम इति उद्घोषयत्सु
नेच्छाम्यहं स्वकीयं सद्योलोपम्
तव स्मृतिभ्यः।
अत एवाहं समीहे
त्वया स्वहस्ताक्षरैर्विलिखितं
दीर्घं पत्रम्
यल्लघुहस्तलिप्यां न स्यात्
दीर्घहस्तलिप्यामेव स्यात्।
यत् त्वदीयं स्वीयं स्यात्
अस्य कवेः वैश्विकी दृष्टिः सर्वत्र प्रतिफलति। अन्तार्कटिका -महाद्वीपमधिकृत्य विरचिते काव्ये अयमाह -
The icy veins
Of that frozen world
Are witness to antiquity.
Of that frozen world
Are witness to antiquity.
श्वेतः सागरः
कर्कशकोटरेषु
गोपायन् स्थितः
सृष्टेः रहस्यानि।
कर्कशकोटरेषु
गोपायन् स्थितः
सृष्टेः रहस्यानि।
Disemboweling
Efforts will
Impact
Rapaciously.
Efforts will
Impact
Rapaciously.
अस्य अन्त्राणां निष्कासनप्रयासाः
दुष्प्रभावं जनयेयुः गृध्नुतया।
दुष्प्रभावं जनयेयुः गृध्नुतया।
क्वचिच्च दार्शनिकी दृष्टिरस्य भावधारायां सङ्गमिता –
The Span of our life
Like a shooting star
Shines as it fades away
We seek to pretend
Ignoring the end.
Like a shooting star
Shines as it fades away
We seek to pretend
Ignoring the end.
जीवनयात्रा अस्माकम्
निपतन्ती तारा इव वरीवर्ति
दीप्त्या स्फुरति क्षणं
तत्क्षणं च निर्वापिता
वयम् आत्मप्रवञ्चनायां जीवामः अन्तकालमुपेक्षमाणाः
निपतन्ती तारा इव वरीवर्ति
दीप्त्या स्फुरति क्षणं
तत्क्षणं च निर्वापिता
वयम् आत्मप्रवञ्चनायां जीवामः अन्तकालमुपेक्षमाणाः
कवेः कपिलसिब्बलस्य प्रेमकविताः अत्यन्तं भावसान्द्राः, अन्तरङ्गं संसारं च तदीयं निष्छलतया उद्घाटयन्ति। दिङ्मात्रम् उदाह्रियते -
You left me stranded
Hopelessly inadequate
Pitifully ill –equipped
Internally
Consumed,
Internally bitter
Subsumed by despair.
Nerve you displayed
With quiet eloquence,
Hopelessly inadequate
Pitifully ill –equipped
Internally
Consumed,
Internally bitter
Subsumed by despair.
Nerve you displayed
With quiet eloquence,
Resolve of purpose,
Unusual dignity,
Buddhist equanimity
None could dare.
Unusual dignity,
Buddhist equanimity
None could dare.
त्वया अहम्
असहायस्त्यक्तः
आशाविकलः तथा अपूर्णः
दीनः साधनहीनः
आत्मनि जीर्णः
गभीरं कटुतया चीर्णः
नैराश्येन निगीर्णः।
असहायस्त्यक्तः
आशाविकलः तथा अपूर्णः
दीनः साधनहीनः
आत्मनि जीर्णः
गभीरं कटुतया चीर्णः
नैराश्येन निगीर्णः।
त्वया यः साहसः प्रदर्शितः
प्रशान्तया प्रगल्भतया
त्वया यो लक्ष्यसङ्कल्पो धृतः
प्रशान्तया प्रगल्भतया
त्वया यो लक्ष्यसङ्कल्पो धृतः
असाधारणेन गौरवेण
बुद्धस्य मध्यममार्गं श्रयन्त्या
कोपि नार्हति –
तस्य तुलाम्।
बुद्धस्य मध्यममार्गं श्रयन्त्या
कोपि नार्हति –
तस्य तुलाम्।
कविरयं धर्मस्य सङ्कीर्णं रूपं विरुणद्धि, पाखण्डाय रूढिभ्यश्च द्रुह्यति, धर्मस्य वास्तविकं मानवीयं रूपमाविष्कर्तुं समीहते। धर्ममधिकृत्य अस्य विचारा निर्भीकाः सुस्पष्टाश्च सन्ति। तथाहि -
Religion attracts
most simple folks
who need a crutch to live
most simple folks
who need a crutch to live
dependent upon
almighty God
with powers
to forgive
almighty God
with powers
to forgive
धर्मः
सर्वथा मुग्धान् जनानाकर्षति
ये जीवननिर्वाहाय पाददण्डमेकम्
अपेक्षन्ते
सर्वशक्तिमन्तं प्रभुं समाश्रिताः
यः सकलानपराधान् क्षाम्येत।
सर्वथा मुग्धान् जनानाकर्षति
ये जीवननिर्वाहाय पाददण्डमेकम्
अपेक्षन्ते
सर्वशक्तिमन्तं प्रभुं समाश्रिताः
यः सकलानपराधान् क्षाम्येत।
Religion first
propagates
belief
then seeks to
realize it
whereas
reason must be
the foudadation
of this edifice
of faith
propagates
belief
then seeks to
realize it
whereas
reason must be
the foudadation
of this edifice
of faith
धर्मः आदौ
विश्वासं प्रचारयति
ततस्तस्य विश्वासस्य अनुभूतिं द्रढयति
परन्तु तर्केण भवितव्यं
आस्थाया मूलाधारत्वेन
विश्वासं प्रचारयति
ततस्तस्य विश्वासस्य अनुभूतिं द्रढयति
परन्तु तर्केण भवितव्यं
आस्थाया मूलाधारत्वेन
Irrational belief
leads to
leads to
blind
adherence
culminating in
a value system
which becomes
the basis of
an intolerant society
adherence
culminating in
a value system
which becomes
the basis of
an intolerant society
तर्कहीनो विश्वासः
अन्धानुयायित्वं प्रगुणयति
एतस्य परिणतिर्भवति
तस्यां मूल्यव्यवस्थायां
या जायते आधारः
असहिष्णुसमाजस्य।
अन्धानुयायित्वं प्रगुणयति
एतस्य परिणतिर्भवति
तस्यां मूल्यव्यवस्थायां
या जायते आधारः
असहिष्णुसमाजस्य।
कपिलसिब्बलः परितो विजृम्भमाणं राजनीतिकं ताण्डवं पश्यति, तथापि संवेदनासंवलितं मनः अस्य सुकुमारान् भावान् निगूढं रक्षति व्यनक्ति च। दिङ्मात्रमुदाह्रियते -
As with nature, seasons change,
New spring is in the air,
Tender buds aching to bloom,
We nurture them with care.
New spring is in the air,
Tender buds aching to bloom,
We nurture them with care.
निसर्गेण सह परिवर्तन्ते ऋतवः
नवो वसन्तो सरीसर्ति समीरणे
सुकुमारासु कलिकासु उत्कलिका जागर्ति
उत्फुल्लीभवितुम्
आवां ताः लालयामः
स्नेहेन चोत्कण्ठया।
नवो वसन्तो सरीसर्ति समीरणे
सुकुमारासु कलिकासु उत्कलिका जागर्ति
उत्फुल्लीभवितुम्
आवां ताः लालयामः
स्नेहेन चोत्कण्ठया।
अहम् ईक्षे ऽI witness) इत्याख्यस्य काव्यसङ्कलनस्य चतुरशीति- कवितासु अन्तिमां कवितां विहाय शिष्टानां त्र्यशीतिकवितानां प्रत्येकं कवितायाः अनुवादो मया शब्दशः कृतः। अन्तिमकवितायां कासाञ्चित् पङ्क्तीनां भावानुवादो निवेशितः।
बोधसौकर्याय सन्धीनाम् आग्रहः क्वचित् शिथिलीकृतः। नवीनाः शब्दा अपि विनिर्मिताः तद्यथा -
अग्निस्फोटकानि Fireworks
अभिकल्पिता उत्पादाः - Designer brands
उड्डयनच्छत्रम् - Parachute
काष्ठावरणम् - photo-frame
कूटयोजकः racketeer
कृष्णव्यवहारः - blackmailing
केशसन्दंशः - Clip
गर्भगृहम् - well of the house
घाटिका - Nape
जीर्णबसयानानि - Vintage Bus
जीवनसुरक्षाभ्यर्थना - Insurance claim
तटान्तम् - Edge
तानवम् - Tension
दंशाभिक्रम - String operation
दर्शनसंख्याबिन्दुः - TRP
दूरसंवेदनक्षमाणि अन्तरिक्षयानानि- Remote sensing satellittes
द्रोण्यः – Buckets
निवेशविनिमयापणः - Stock exchange market,
न्याधारः - Chassis
पाददण्डः - Crutch
प्रतिभूतिः - bail
प्रमाणचिह्नानि- Hallmarks,
प्रायोवादः - Catchy word
महानायकः - Icon,
अभिकल्पिता उत्पादाः - Designer brands
उड्डयनच्छत्रम् - Parachute
काष्ठावरणम् - photo-frame
कूटयोजकः racketeer
कृष्णव्यवहारः - blackmailing
केशसन्दंशः - Clip
गर्भगृहम् - well of the house
घाटिका - Nape
जीर्णबसयानानि - Vintage Bus
जीवनसुरक्षाभ्यर्थना - Insurance claim
तटान्तम् - Edge
तानवम् - Tension
दंशाभिक्रम - String operation
दर्शनसंख्याबिन्दुः - TRP
दूरसंवेदनक्षमाणि अन्तरिक्षयानानि- Remote sensing satellittes
द्रोण्यः – Buckets
निवेशविनिमयापणः - Stock exchange market,
न्याधारः - Chassis
पाददण्डः - Crutch
प्रतिभूतिः - bail
प्रमाणचिह्नानि- Hallmarks,
प्रायोवादः - Catchy word
महानायकः - Icon,
मृदुतन्त्रम् - Soft ware
मूल्यभावः - Bargaining
राशिभण्डारविनिमयः - Stock exchange-
वास्तुशास्त्रीयानि आकल्पनानि - Designs
वाहनचक्रवलयाः - Tiers,
विद्युज्झिङ्गिनी - Torch
शारः - Dice
शिलान्तः - Precipice
शृङ्गारगृहम् - Boutique
सङ्गरोधः – quarantine
समस्तकम् cushion,
सम्पन्नविक्रयशाला plush mall
सुधारः - reform,
सूक्ष्ममानगणितम् - calculus,
हस्तकम् – knocking,
Portals and interface
हिमफलसन्तानिका - fruity
मूल्यभावः - Bargaining
राशिभण्डारविनिमयः - Stock exchange-
वास्तुशास्त्रीयानि आकल्पनानि - Designs
वाहनचक्रवलयाः - Tiers,
विद्युज्झिङ्गिनी - Torch
शारः - Dice
शिलान्तः - Precipice
शृङ्गारगृहम् - Boutique
सङ्गरोधः – quarantine
समस्तकम् cushion,
सम्पन्नविक्रयशाला plush mall
सुधारः - reform,
सूक्ष्ममानगणितम् - calculus,
हस्तकम् – knocking,
Portals and interface
हिमफलसन्तानिका - fruity
अथ केचन शब्दा अन्यासां भाषाणां यथावत् प्रयुक्ताः, यथा – डिझिटल्, जेली-ऽमत्स्यः), टूना-ऽमत्स्यः), सुनामी, इडली, समोषः, दोषा इत्यादयः।
हिन्दीभाषायां अशोकचक्रधरेण केषाञ्चित् कपिलसिब्बल -काव्यानां छायानुवादः कृतः, किस किस की जय हो इति शीर्षकेण प्रकाशितश्च। मत्कृते अस्मिन् संस्कृतानुवादे अपरिचिता आभाणकाः दृश्येरन्। कपिलसिब्बलस्य आङ्ग्लभाषा प्रोक्तिभिः आभाणकैः च सम्पन्ना वरीवर्त्यते। क्वचित् मया तेषां आभाणकां शाब्दिको नुवादो विहितः। तथाहि -- चाटुकारः ऽSycophant) इति कवितायाम् -
I weave my way to greet him
इयं पङ्क्तिर्मया शब्दश एवानूदिता –
प्रत्युद्गमनाय अहं स्वमार्गं वयामि
सर्वासां कवितानामेषामनुवादकर्म मत्कृते उत्तेजक उपादेयश्चानुभवः अभवत्। आधुनिकसंस्कृतरचनानुरागिणः पाठका अपि तथैव एताननुवादान् अभिनन्दयिष्यन्तीति आशासे।
--राधावल्लभः त्रिपाठी
कृतज्ञताप्रकाशः
(अनुवादकस्य)
(अनुवादकस्य)
कविना कपिलसिब्बलेन स्वस्य काव्यसङ्ग्रहस्य संस्कृतानुवादाय मह्यमनुमतिः प्रादायि, सङ्ग्रहस्य पाण्डुलिपिं वीक्ष्य स्वकीया शुभाशंसाऽपि प्रेषितेति एतस्य अनुग्रहस्य कृते अहं कृतज्ञोऽस्मि।
राष्ट्रियसंस्कृतसंस्थाने मुक्तस्वाध्यायपीठस्य निदेशकेन डा. रमाकान्त-पाण्डेयेन विदुषा नारायणदाशेन च प्रकाशनात् प्राक् अनुवादस्यास्य पुस्तकं पठित्वा संशोधनानि सूचितानि इति उभौ मम आशिषः साधुवादानां च पात्रम्। पद्मभूषणमहाकविश्रीसत्यव्रतशास्त्रिणां, सुकवेः रमाकान्तशुक्लवर्यस्यापि च दृष्ट्या अनुवादोऽयं प्रकाशनात् प्राक् पावित इति आत्मानं कृतार्थं मन्ये।
राधावल्लभः
स्मरामि दह्यमानस्य कच्चरचयस्य गन्धानाम्,
देवालयघण्टानादस्य प्रजागराह्वानानाम्,
देवालयघण्टानादस्य प्रजागराह्वानानाम्,
विक्रेiÉßणाम्, यैर्विहिता मया आलापाः
यैः मूल्यभावो विहितः।
यैः मूल्यभावो विहितः।
धूलिमयाः समीरणाः, सविता प्लोषपरायणः
व्यस्तमार्गस्य सुरभिः
फेनिलानि शीतलपेयानि
घर्मविजयाय सन्नद्धानि।
व्यस्तमार्गस्य सुरभिः
फेनिलानि शीतलपेयानि
घर्मविजयाय सन्नद्धानि।
एकपार्श्वे नतो न्याधारः
रिङ्गन्ति यान्ति जीर्णबसयानानि
तैर्विहिता यात्राः
स्वेदपरिप्लुताश्च धूमाक्ताश्च।
रिक्तजलनलानां सीत्कृतिः
बिन्दुशः स्रवन्ति जलानि
पूर्यन्ते द्रोण्यः
निदाघे विहितास्ते घोरपरिश्रमाः
पुनरावर्त्यमानैर्गतागतैः।
रिङ्गन्ति यान्ति जीर्णबसयानानि
तैर्विहिता यात्राः
स्वेदपरिप्लुताश्च धूमाक्ताश्च।
रिक्तजलनलानां सीत्कृतिः
बिन्दुशः स्रवन्ति जलानि
पूर्यन्ते द्रोण्यः
निदाघे विहितास्ते घोरपरिश्रमाः
पुनरावर्त्यमानैर्गतागतैः।
प्रक्षालयति प्रावृषः सीकरततिः
धूसरवृक्षेषु लग्नाः शुष्कधूलीः
तृषार्ता प्रकृतिः हरिताभा
पवनस्पर्शैर्धूयमाना शनैः।
धूसरवृक्षेषु लग्नाः शुष्कधूलीः
तृषार्ता प्रकृतिः हरिताभा
पवनस्पर्शैर्धूयमाना शनैः।
निशि छदिभ्यः जलधाराणां स्रवणम्
कुट्टिमे जलगर्त्ताः, अवरुद्धाः प्रणाल्यः
जलौघरुद्धाः मार्गाः, स्तम्भितानि कारयानानि
द्विचक्रारूढानां जनानां वर्षासु प्रगमनम्।
जलौघरुद्धाः मार्गाः, स्तम्भितानि कारयानानि
द्विचक्रारूढानां जनानां वर्षासु प्रगमनम्।
दरिद्रा नो निध्यायन्ति शून्ये
ऋतुभिर्ध्वंसते तेषां जिजीविषा
ते निःसत्त्वाः
अनिशं जीवन्ति सभयाः।
ऋतुभिर्ध्वंसते तेषां जिजीविषा
ते निःसत्त्वाः
अनिशं जीवन्ति सभयाः।
दीपावली आयाति स्म अग्निस्फोटकैः
शरदाकाशं विद्योतयन्ती
वैश्विकबन्धुतायाः स कालः
कुटुम्बसम्बन्धानां नवीकरणस्य स कालः।
शरदाकाशं विद्योतयन्ती
वैश्विकबन्धुतायाः स कालः
कुटुम्बसम्बन्धानां नवीकरणस्य स कालः।
हिमानी मृद्वी च हेमन्तवात्या
आलिङ्गतो निगूढं परस्परम्,
पुण्याग्निं परितः सङ्कुलाः
जनानां ता मूर्त्तयः।
आलिङ्गतो निगूढं परस्परम्,
पुण्याग्निं परितः सङ्कुलाः
जनानां ता मूर्त्तयः।
विदीर्यते कुज्झटिका
प्रकृतिः पुनः सन्नह्यते
प्रवत्स्यमानो हं स्मरामि
तासां तासां दृश्यावलीनाम्
प्रकृतिः पुनः सन्नह्यते
प्रवत्स्यमानो हं स्मरामि
तासां तासां दृश्यावलीनाम्
आवरणानां स्तराणि, यद्युद्धाट्येरन्
तर्हि अवरोधाः प्रकाश्येरन्,
अहं स्वीकरोमि
रहस्यानि गोपायन् अन्तसि
अन्ये अवबुध्येरन्निति आशासानः।
तर्हि अवरोधाः प्रकाश्येरन्,
अहं स्वीकरोमि
रहस्यानि गोपायन् अन्तसि
अन्ये अवबुध्येरन्निति आशासानः।
गच्छति दिने दिने,
ये व्रणाः क्वथन्ते अन्तसि तान्
निपुणं छद्मना लयं नयामः
अशक्ताः निराकर्तुम्, उपेक्षां वृणीमहे
भाविनमाशङ्क्य नैराश्यग्रस्ताः।
ये व्रणाः क्वथन्ते अन्तसि तान्
निपुणं छद्मना लयं नयामः
अशक्ताः निराकर्तुम्, उपेक्षां वृणीमहे
भाविनमाशङ्क्य नैराश्यग्रस्ताः।
इतिहासमिव वहन्ति ताः कथाः
व्रणचिह्नानि
याः प्रभावयन्ति जीवनं नः,
अनुक्ताः कथाः उद्धाटयितुमिच्छामः
शल्यचिकित्सकस्य च्छुरिकयैव तान् कर्तयामः
व्रणचिह्नानि
याः प्रभावयन्ति जीवनं नः,
अनुक्ताः कथाः उद्धाटयितुमिच्छामः
शल्यचिकित्सकस्य च्छुरिकयैव तान् कर्तयामः
प्रभातसूर्यः निरस्यति निशां
सर्वमाकुलं यज्जातं तस्यापि निरासाय अस्मान् प्रभविष्णून्
विदधाति
प्रतिदिनं जीवनोत्सवः
मृदुना लालनेन आरभ्यते
सर्वमाकुलं यज्जातं तस्यापि निरासाय अस्मान् प्रभविष्णून्
विदधाति
प्रतिदिनं जीवनोत्सवः
मृदुना लालनेन आरभ्यते