(३०)
आम्बेरे विराजमाना शिलामयी
अम्बरधराधिपतिपूज्यपादपङ्केरुहा
तुङ्गे शैलशृङ्गे स्थिता राजहर्म्यधामिनी
चिबुकनिषण्णहारिहीरकविमण्डिता या
भूषणैर्विभाति मेघगेव दिव्यदामिनी।
मञ्जुनाथ मानमहीपालमनोवाञ्छितदा
चेतसि चकास्ति भावुकानां भवभामिनी
नूनं नरदेवीयति यस्या: पदसेवी पुमान्
सेयं शिलादेवी भातु मे वीक्षणगामिनी।।८१।।
अम्बरधराधिपति: आम्बेरमहाराज:। राजहर्म्याणि धाम यस्या: सा तथा च आम्बेरराजहम्र्यमालाया: प्रमुखभागे स्थितेति सूच्यते। चिबुके निषण्णो यो मनोहारी हीरक: तेन विभूषिता। मेघगेव दिव्य.- श्यामशिलामय्या यस्या: शरीरे स्वर्णहीरकादिभूषणानि दामिनी (विद्युत्) इव विराजन्ते इति भाव:। मानमहीपाल.- वर्तमानमहाराजस्य मनोरथपूरिका, तथा इतिहासप्रसिद्धस्य प्राक्तनमानसिंहमहाराजस्य वरदा तत् प्रतिष्ठापिता च सेयमिति सूच्यते। यस्या: पदसेवी पुरुष: नरदेवीयति नरदेवं राजानमिव आत्मानमाचरति, धराधीशायते इत्याशय:।।८१।।
(३१)
अन्तसमये भगवत: प्रार्थना
लीना देहशक्तिरपि हीना सुखवासना मे
तनुरनधीना नाथ! कियदिव नीयताम्
चक्षुषोरुपैति घनतिमिरमिवाद्य नाथ
श्रवसोरपैति शक्तिरलमवधीयताम्।
मञ्जुना त्वदङ्घ्रिकञ्जलम्बनेन मञ्जुनाथ
धृतिरुपयाति हृदि करुणा विधीयताम्
एतस्मिन्नमन्दपुण्यसमयेऽरविन्द-
समलोचन! मुकुन्द! नेत्रगोचर उदीयताम्।।८२।।
अस्मिन् समये देहशक्ति: लीना नष्टा। मम सुखवाञ्छापि हीना नष्टा। सुखेष्वपि मे मनो न गच्छति। सम्प्रति एषा तनु: शरीरम् अनधीना, मम वशे नास्ति। यथाहं वाञ्छामि तथा ममाङ्गानि कार्यं न कुर्वन्तीति भाव:। अतएव एषा तनु: कियत्पर्यन्तं नीयताम्, बलाद् आकृष्यताम् तदेवाह- चक्षुषो: नेत्रयोर्मध्ये घनं तिमिरमिव अन्धकार: उपैति। श्रवसो: कर्णयो: शक्ति: अपैति गच्छति। अलं यथा स्यात्तथा अवधीयताम्। इदानीं मम गमने विलम्बो नास्ति। अतएव सावधानं स्थीयतामित्याशय:। हे मञ्जुनाथ! मञ्जुना सर्वापेक्षया उत्कृष्टेन त्वच्चरणारविन्दाश्रयणेन हृदि धृति: धैर्यम् उपयाति। सुखादीनां वाञ्छा गता। शरीरशक्तिरपि क्रमशो मां त्यजति। इदानीं केवलं त्वच्चरणध्यानेनैव शान्तिर्भवति अतएव करुणा क्रियताम्। का सा दया? तदाह- हे अरविन्दसमलोचन! मुकुन्द! एतस्मिन् अमन्दे पुण्यसमये मम नेत्रयो: समक्षे उदीयताम् आगम्यताम्। ''त्वया आगम्यताम्’’ इत्यनेन अहं तु उत्क्रमणसमयनिकटत्वात् लुप्तदृष्टिर्न सम्यक् द्रष्टुं शक्नोमि। अतएव श्रीमतैव यथाहं पश्यामि तथा मद्दृशोर्गोचरे आगम्यताम् इति आत्मव्यापारं त्यक्त्वा भगवदालम्बनामात्रमभिव्यज्यते। पुण्यसमयोऽप्यस्मादधिक: कीदृशो भविष्यति, यन्मम आत्मन: उत्क्रमणं भवति अहं च त्वां दिदृक्षु: सम्बन्धिभिर्भूमौ अवतारित:, नि:स्पन्दं पतितोऽस्मि। अतएव केवलं त्वद्दर्शनमात्रेणैव ममोद्धार:। एवंविधादनुग्रहसमयादन्य: पुण्यसमय: को भवेत्? 'कमललोचन’ इत्युक्त्या 'मम दृष्टिस्तु लुप्ता, किंतु आयतलोचनस्त्वं तु मामवश्यं द्रक्ष्यसीति’ भावो ध्वन्यते।।८२।।
(३२)
शान्तरस:
भूमि: स्रस्तरोऽस्ति महदम्बरं वितानमिद-
मेता मदयन्ति दिशा नन्दितनिशाकरा:
पर इव कोऽपि न प्रतीयतेऽद्य पर्यन्तेऽपि
दृश्यन्ते प्रमोदकरा: सकलचराचरा:।
मञ्जुनाथ चित्तमपि प्रीयते प्रसादोदया-
दन्त: प्रवहन्ति पुनरात्मरसनिर्झरा:
निर्भरप्रमोदानात्मजन्याननुशीलयतो
ध्यानधियानन्या यान्तु धन्या मम वासरा:।।८३।।
स्रस्तर: आस्तरणम्। इदम् अम्बरम् आकाशम् महद् वितानम् चँदोवेति भाषायां प्रसिद्धम्। नन्दित: पूर्ण इति यावत् निशाकर: चन्द्रो यासु ता:। सूर्यस्याप्युपलक्षणमेतत्। एता: दिश:। 'दिशा:’ अत्र भागुरेराप्। मदयन्ति हर्षयन्ति। कोऽपि जन: पर इव न प्रतीयते। सर्वेष्वात्मबुद्धिर्जातेत्याशय:। प्रसादस्य नैर्मल्यस्य, आत्मगताया: प्रसन्नताया: वा उदयात् चित्तं प्रसन्नं भवति। अन्त: हृदये आत्मनो रसस्य आनन्दस्य निर्झरा: प्रवहन्ति। अतएव आत्मजन्यान् आत्मनि उद्भूतान् निर्भरप्रमोदान् अनिर्वचनीयानन्दान् अनुशीलयत: अनुभवत: मम। ध्यानधिया अनन्या: विचारे कृते नास्ति कोऽप्यन्यो येषु तादृशा:। परमार्थविचारेण द्वैतबुद्धिर्यत्र तिरोधीयते तादृशा:। अतएव धन्या: अभिनन्दनीया: मम दिवसा: गच्छन्तु। पूर्णचन्द्रप्रकाशे प्राकृतिकदृश्यावलोकनेन आत्मानन्दमग्नस्य योगिन: कस्यचिदुक्ति:।।८३।।
(३३)
कालस्य कुटिलता
पारमुपनीता पूर्वपद्धति: प्रवीणैरद्य
चलिता चतुर्दिङ् नवशैली निरुपेहितम्
आडम्बरमात्रं वंशमर्यादामवैति जनो
वादायैव सम्प्रदायवृत्तमधुनेरितम्।
मञ्जुनाथ मीलति मनस्वी निजमानसेऽद्य
कस्मै कथयेत निजवृत्तमिदमेधितम्
खेलत्खलजाले बत वर्तमानकाले कलौ
भद्रजनभाले भूतभर्त:! किमालेखितम्?।।८४।।
चतुरैरपि नवै: पूर्वरीति: पारं नीता, दूरीकृतेत्यर्थ:। समन्ताद् नवीना परिपाटी निरुपाधि निर्निरोधं प्रचलिता। ईरितं कथितं वैष्णवशैवादिसम्प्रदायानां वृत्तं विवादायैव। मानी जन: निजमनस्येव मीलति विषादं गच्छति। एधितं वृद्धिं गतं दीर्घमिति यावत् निजं वृत्तान्तं कस्मै कथयेत? क: प्रतीकारं कुर्यात्? खेलन्त: प्रमोदमाना: खलसमूहा यत्र तस्मिन्। भद्रलोकानां ललाटे वेधसो हस्तेन किमिदं लेखितम्? भवान् हि भूतानां प्राणिनां भर्ता, अतएव प्रार्थ्यते।।८४।।
धार्मिका ध्रियन्ते बत वैदिका विलीयन्तेऽथ
क्रन्दन्ते कुलीना: क्वचित्कोणे कृतवेपितम्
दातारो दरिद्रा दु:खदग्धा दयावन्तो जना
वेपन्ते विनीता बुधा बध्यन्ते सहेलितम्।
साधव: सदु:खा: पुण्यवन्तो दम्भवन्तोऽभवन्
मञ्जुनाथ मार्मिका: प्रयान्ति परिदेवितम्
खेलत्खलजाले बत वर्तमानकाले कलौ
भद्रजनभाले भूतभर्त: किमालेखितम्?।।८५।।
ध्रियन्ते निगृह्यन्ते। विलीयन्ते न्यूना भवन्ति। कस्मिन्नपि कोणे कृतकम्पं यथा स्यात्तथा कुलीना: क्रन्दन्ति। सहेलितं सतिरस्कारम्, बध्यन्ते बद्धा: क्रियन्ते पुण्यं कुर्वन्तो जना: दाम्भिका: परिगण्यन्ते। मार्मिका: मर्मवेदिन: तत्त्वपरीक्षका: परिदेवनं प्रयान्ति, विलपन्तीत्यर्थ:।।८६।।
भूरिधनराशिं विना विद्या दुर्लभैवाधुना
तत्रापि च विज्ञानं विनाद्य कियच्छिक्षितम्?
लब्धभूरिविद्योऽपि च विन्दते न सद्यो धनं
यस्माद् धनवद्भिर्लाभवत्र्म समावेष्टितम्।
एवं भूरिचिन्ताभिर्व्यतीतपुरुषायुषस्य
नूनमस्य भाग्ये सुखं कियदवरेखितम्?
खेलत्खलजाले बत वर्तमानकाले कलौ
भद्रजनभाले भूतभर्त:! किमालेखितम्?।।८६।।
वैदेशिकभाषाबहुला वर्तमानकालिकी विद्या बहुतरद्रव्यव्ययं विना दुर्लभैव। शिक्षायामपि विज्ञानं ('साइन्स’) विना अद्य शिक्षा कियती? न किमपीत्यर्थ:। 'साइन्स’-पठनमेव सम्प्रति उत्तमशिक्षा। साइन्सादिविद्यासमुपार्जनेऽपि शिक्षित: स्वल्पकाले एव धनं न विन्दति प्राप्नोति। यस्माद् ये हि धनवन्त: तैर्लाभस्य मार्ग आक्रान्त:। वैदेशिका अन्ये च ये प्रचुरधनस्वामिन:, तैर्व्यापारादीनां द्वाराणि रुद्धानि। तेषां प्रति स्पर्द्धायां द्रव्यार्जनस्य मार्गे व्यापारादौ सफलता सुतरां कठिनेत्याशय:। पूर्वं शिक्षणचिन्ता, तदनन्तरं परीक्षोत्तरणचिन्ता, तदनन्तरं द्रव्यार्जनचिन्ता, एवमादिभिर्भूरिचिन्ताभिव्र्यतिगमितसमग्रायुष: अस्य (जनस्य) भाग्ये सुखं कियद् अवरेखितम् रेखाद्वारा अङ्कितम्? न किंचिदपीत्यर्थ:।।८६।।
(३४)
शिक्षापरिपाटी
बाल्यादेव भूरि-भूरि पुस्तकानि घोषन्तोऽपि
शिक्षायां न संतोषं सृजन्ति जना मीयताम्
पूर्वजपरिचयाय पाठ्यमितिहासाद्यपि
देशभाषां त्यक्त्वा हूणभाषया ह्यधीयताम्।
सर्वमेतत् सोढ्वापि च भ्रम्यतां बुभुक्षावशा-
च्छिक्षाफलमाध्यात्मिकशान्ति: क्वोपनीयताम्?
मन्दतममाटीकितविद्यावृक्षवाटीसुखा
वर्तमानशिक्षापरिपाटीयं निपीयताम्।।८७।।
शिक्षाविषये संतोषं न सृजन्ति नाधिगच्छन्ति, मीयताम् अनुमीयतामित्यर्थ:। पूर्वजानां परिचयाय पठनीयम् इतिहास-भूगोलाद्यपि। हूणभाषा अंग्रेजी-भाषा। एतं शिक्षापरिश्रमं सहित्वापि वेतनकार्यस्यालाभे बुभुक्षापरवशैर्भ्रम्यताम्। ततश्च शिक्षाया: फलं या आध्यात्मिकी शान्ति: सा क्व प्राप्यताम्? शिक्षाप्राप्तावपि शिक्षाया: फलभूता आत्मन: शान्तिस्तु न प्राप्तेत्याशय:। अतिमन्दम् (अतिन्यूनं यथा स्यात्तथा) आटीकितं प्राप्तं विद्यारूपाया: वृक्षवाट्या: (उपवनस्य) सुखं यथा। निपीयतां परिशील्यताम्।।८७।।
(३५)
वर्तमाना स्त्रीशिक्षा
अन्यदीयदेशनारीशिक्षामनुकृत्य निज-
नारीभ्योऽपि दापयन्ति वैदेशिकशिक्षितम्
शिक्षिताश्च पारितपरीक्षिताश्च नार्य इमा:
सोल्लुण्ठं त्यजन्ति गृहकार्यमसमीक्षितम्।
पूर्वं किल पारतन्त्र्यमासीत् स्वस्य देश एव
साम्प्रतं स्वगेहेऽपि च पारतन्त्र्यमीक्षितम्
नूतनयुगेऽस्मिन् नवशिक्षितनराणामद्य
नारीशिक्षणेऽपि ननु नूतनत्वमीक्षितम्।।८८।।
इंग्लैंडाद्यन्यदेशस्य नारीशिक्षाया अनुकरणेन निजनारीभ्योऽपि आङ्ग्लभाषामयीं वैदेशिकीं शिक्षां दापयन्ति। पारितं समापितम् उत्तीर्णम् परीक्षितं परीक्षा याभि: परीक्षोत्तीर्णा: ता इमा: नार्य:, सावहेलनम् असमीक्षितम् पूर्वापरम् अविचार्यैव गृहकार्यं त्यजन्ति। एवं स्थितौ पूर्वं स्वदेशे एव अस्माकं परतन्त्रता आसीत्। साम्प्रतं स्वगृहेऽपि परतन्त्रता ईक्षिता वाञ्छिता। त्रीभि: स्वगृहकार्ये त्यक्ते वयं कर्मकराणां भृत्यानां वशगा भविष्याम इति भोजनाच्छादनविषयेऽपि स्पष्टं परतन्त्रता भवेदित्याशय:।।८८।।
वेत्रदण्डमादायाद्य वाक्कीलत्वमेति वधू
राजकर्मचारितां च सेयमाप्यतेतमाम्
सुन्दरीसमाजेनाद्य स्वीयदलं संगृह्याथ
राजगृहद्वारे बलात् स्वत्वमीप्स्यतेतमाम्।
मञ्जुनाथ साम्प्रतं तु सैनिकत्वमाप्य सैव
शस्त्रै: सुसज्जा समरार्थं नह्यतेतमाम्
या वै गृहलक्ष्मी: पुरा मामण्डीति गेहमिदं
साम्प्रतं तु सैव रणचण्डी चित्र्यतेतमाम्।।८९।।
वाक्कीलतासूचकं वेत्रदण्डं हस्ते आदाय वधू: नारी वाक्कीलत्वं प्राप्नोति। ('अदालत’ प्रभृतिशासनविभागे) सेयं नारी राजकर्मचारितां प्राप्यते (णिजन्तात्कर्मणि)। स्वीयं दलं संगृह्य संघटितं कृत्वा पुरुषवर्गसमानं स्वस्य स्वत्वम् अधिकार: याच्यते। युद्धार्थं नह्यतेतमाम् अतिशयेन वद्धपरिकरा भवतीत्यर्थ:। पुरा पूर्वम् गृहं मामण्डीति अतिशयेन मण्डयति स्म सैव अस्माभि: रणचण्डीरूपे चित्रिता क्रियते। मामण्डीति 'मडि’ धातो: णिज्विकल्पे यङ्लुगन्तस्य रूपम्। 'पुरि लुङ् चास्मै’ इति पुरायोगे लट्।।८९।।
षट्पदी (छप्पय)
पत्नी प्रियतममाप्य वन्दनं वचसा कुरुते।
पतिसुहृत्सु संयत्सु करोन्मद्र्दनमातनुते।।
पतिव्र्यलीके कृते क्षमाशब्दं बत वर्हति।
पतिवस्तुनि दत्ते च धन्यवादानियमर्हति।।
अर्द्धाङ्गिनीति गौरवपदं प्राणसमेति च सम्पदम्।
युक्त्यापहृत्य ददते नरा: कृत्रिमोपचारापदम्।।९०।।
पत्नी प्रियतमं आसम्मुखे आप्य वचनेन 'गुडमोर्निङ्ग, नमस्ते’ इत्यादिना वन्दनं करोति। पत्यु: सुहृत्सु सम्मिलत्सु तै: सह करमर्द्दनम् ('शेकहैण्ड’) आतनोति करोति। किंचिद् अप्रिये कृते सति पति: 'क्षमस्व’ इति क्षमाशब्दम् उच्चारयति। इयं पत्नी भूमौ पतिते पतिवस्तुनि उत्थाप्य समर्पिते सति धन्यवादान् (थैंक्स) अर्हति। प्रियतमस्य पत्नी 'अर्द्धाङ्गिनी’ इति गौरवस्य पदम्, प्राणै: समा दयिता इति वाञ्छनीयां सम्पत्तिं युक्त्या चातुर्येण अपहृत्य पुरुषा: स्त्रीभ्य: कृत्रिमोपचार (बाह्यशिष्टाचार) रूपाम् आपत्तिं ददते समर्पयन्ति। सम्पत्तिम् अपहृत्य आपत्तिप्रदानेऽपि स्त्रीणां प्रसन्नता पुरुषाणां युक्तिकौशलमेवेत्यर्थ:। परिवृत्ति:।।९०।।
(३६)
श्रीमहालक्ष्मी:
यस्या: करुणालवेन जगति जघन्यो जनो
लोके धन्यधन्यो भाति परित: परीक्ष्यताम्
किं बहुना दैत्यदलनाय देवनायकोऽपि
यत्कृपां प्रतीच्छतीति कोऽपि कृती वीक्षताम्।
सर्वविधसौख्यसर्वसम्पत्समवापनाय
सपदि समीपगता दीपाली प्रतीक्ष्यताम्
क्लेशनिकुरम्बादिह सम्बाधेत किं वा भयं
लक्ष्मीर्जगदम्बा कृपालम्बात्क्षणमीक्षताम्।।
करुणालवेन दयालेशेन। जघन्यो नीच:, धन्यधन्य: श्रेष्ठादपि श्रेष्ठतर:। प्रतीच्छति प्रतीक्षते इति प्रत्येक: कृती शिक्षित: देववृत्तान्तेषु पश्यतु। समवापनाय प्राप्तये। क्लेशनिकुरम्बात् नानाविधदु:खसमूहात् किं भयं कीदृशं भयं बाधां कुर्यात्? श्रीलक्ष्मी: कृपालम्बाद् दीनेषु कृपाम् अङ्गीकृत्य क्षणकालार्थं वीक्षताम्। लक्ष्म्या: कृपादृष्टौ जातायां क्लेशसमूहात् किंचिदपि भयं न भवतीत्यर्थ:।।
दो.- सदा संनिधिं विदधती भूरि भारतं पातु।
महितमहालक्ष्मीर्मुदं सुखसम्पदं ददातु।।
सर्वदा सामीप्यं दधती, सर्वदैव समीपे निवसन्तीत्यर्थ:। महिता सर्वै: पूजिता।।
(३७)
सवैयास्तबक:
ललितं ललनासु निभालयत-
स्त्वरितं हि शिर: पलितं पुरु मे
न दधामि पदे तव हृत् प्रमदेन
तदेतदहो दुरितं गुरु मे।
करुणं तव वीक्ष्य तु देव मनाक्
समुदेति हि धैर्यमुरस्युरु मे
मुनिमानसमोदविवर्द्धन हे
मुरमर्दन मोहमपाकुरु मे।।१।।
स्त्रीषु ललितं विलासविशेषम् निभालयत: पश्यत: मे शिर: पुरु अधिकं यथा तथा पलितं जरया श्वेतमभवत्। तव पदे प्रमदेन हर्षेण हृत् हृदयं न दधामि। उरसि उरु बहु धैर्यम्।।१।।
सुचिरात् तव तल्पतलोपगतं
परिलोकय देव दृशा जितकुन्द!
भवदाश्रितमेतमपास्यसि किं
प्रविधास्यसि किं प्रचलन्मुचुकुन्द।
किमु वच्मि मुखान्न वशोऽसि हि मे
परमत्यलसोऽसि करे धृततुन्द!
न विनिन्दय दीनदयालुपदं
भवदङ्घ्रितले नय नाथ मुकुन्द।।२।।
तव तल्पस्य शयनमञ्चस्य तले नीचै: उपगतं प्रार्थनार्थमागतं माम्। दृष्ट्या, श्वेततायां जितं कुन्दपुष्पं येन तत्सम्बुद्धौ। भवदाश्रितम् एतं माम् किम् अपास्यसि, त्यजसि त्यागो नोचित इत्यर्थ:। प्रचलन् मुचुकुन्द: तन्नामको राजा यस्मात्ते तत्सम्बुद्धौ। मायया मुचुकुन्दोऽपि त्वया विचालित:, अतएव त्वत्तो बहुकालं शयनमेव स वृतवान्। एवं प्रभावशालिन्! त्वं किं विधास्यसि? मद्विषये का ते चिकीर्षेत्यर्थ:। अहं मुखात् किं कथयामि, त्वं मे वश: वशीभूत: नासि। अवशत्वादहं तुभ्यं मुखागतमपि न वदामि। परं करे धृत: तुन्द: फुल्लमुदरम् येन तत्सम्बुद्धौ। त्वमत्यन्तमलसोऽसि। ममोद्धारार्थं विचारमेव कुर्वंस्त्वमत्यलसोऽसि। उपालम्भं वदन्नपि प्रकटं निषिध्यतीत्याक्षेपालङ्कार:।।२।।
१. उपजाति:
धनजायाजनेषु निलीनमिमं
तव मायाविमोहैर्न चालय माम्
भवबन्धान्निवत्र्यं निरीहतमं
त्वदमन्ददृशा त्वधिलालय माम्।
करुणामवकण्र्यं ते दीनजने
शरणागतमेतं प्रपालय माम्
विषयेषु रतिर्बत बधिका मे
ननु राधिकाकान्त! निभालय माम्।।३।।
त्वदमन्ददृशा तव कृपादृष्ट्या तु अधिलालय आह्लादय। दीनजने ते तव करुणाम् आकण्र्य।।३।।
वरवाग् वितता ललिते लुलिते
पलितेन शिर: सिततामनुयाति
नृपनागरनैगमनेतृनये
बत येन कृता कृतिता प्रतिभाति।
यदि मञ्जुलनाथ मतिर्न गता
जगतामधिपे तदपार्थकताति
परिशोचय तं बत यस्य दृशो-
व्र्रजराजकिशोरविभा न विभाति।।४।।
वरवाक् श्रेष्ठा वाणी ललिते लुलिते शृङ्गारप्रधानकाव्ये एव वितता व्याप्ता। नागरा: पौरा:। नैगमा: वणिज:। नेतार: प्रजाप्रमुखा:, एतेषां नये नीतौ यत्कृता कृतिता चातुरी भाति। जगतामधिपे ईश्वरे यदि मतिर्न गता, तत् तदा अति अपार्थकता निरर्थकता। यस्य नेत्रयो: श्रीकृष्णस्य विभा शोभा न भाति, तं जनं परिशोचय।।४।।
वनवीथिषु यो विहरन् व्यदधाद्
व्रजवासिमुदं वसुधाभरहारी
कटुकालियमौलिषु केलिमय-
न्नभवद्रमयन् यमुनातटचारी।
इह मञ्जुलनाथमनस्यभवद्
भयपुञ्जहर: स निकुञ्जविहारी
परिमाज्र्य मतिं मम मोहरतां
निजगोचरतां गमयेद् गिरिधारी।।५।।
कालियसर्पमस्तकेषु नृत्यकेलिं कुर्वन् यमुनातटचारी य: लोकान् मोदयन् अभवत्। 'धातुसम्बन्धे प्रत्यया:’ इति भूते शतृ। मोहलग्नां मे मतिं परिशोध्य गिरिधारी मां निजगोचरतां गमयेत् स्वकीयतां नयेदित्यर्थ:।।५।।
येन पुरा प्रतिपत्तिपरा वनवह्निभरादविता पशुपाली
यो हि विपत्तिगते समभूद् द्विरदे दययैव पुरा प्रतिपाली।
वीक्ष्य हरेश्चरितानि मनागिह मञ्जुलनाथ उपाश्रयशाली
पङ्कजिनीसदृशा स दृशा मम हीनदृशां विमृशेद्वनमाली।।६।।
प्रतिपत्ति: शरणागति:। पशुपानां गोपानामाली पङ्क्ति: दावानलाद् अविता रक्षिता। द्विरदे गजे, प्रतिपाली प्रतिपालक:। उपाश्रयशाली आश्रयग्राहीत्यर्थ:।।६।।
मायिकमोहमरीचिकया मथितं लघु मां व्यथितं परितर्पय
देव दयामृतपूर्णदृशा द्रुतमेतदहो दुरितं त्वपदर्पय।
मञ्जुलनाथमनाथमिमं निकटे तव नाथ मनागुपसर्पय
रङ्कजनस्य कलङ्कहरं पदपङ्कजमेतदशङ्कितमर्पय।।७।।
मायाजनितमोहसम्बन्धिन्या मृगतृष्णया मथितं व्याकुलीकृतं मां लघु शीघ्रं परितर्पयं संतोषय। दुरितं तु अपदर्पय विगतगर्व कुरु, दमयेत्यर्थ:। उपसर्पय प्रापय। रङ्कजनस्य दीनजनस्य सर्वविधकलङ्कहरम्।।७।।
गणिकागुहगृध्रगजादिषु किं
कलिता न कृपा वद दृप्यदपोहन
किमु दुर्बलदुष्कृतिदीनजनान्
विजहासि वदेरयि दोहददोहन।
अयि मञ्जुलनाथ चिरान्मृगये
तदये मम मानसतो ह्यवरोह न
मयि सम्प्रति ते तरुणाब्जसखीं
करुणादृशमर्पय मन्मथमोहन।।८।।
दृप्यतां गर्वं कुर्वतां जनानाम् अपोहन बहिष्कारक! त्वं वद। दोहद-दोहन कामपूरक! किमु दुर्बल-दुष्कृत्यादीन् विजहासि? अपि तु न विजहासि। तर्हि मामेव किं त्यजसीत्याशय:। मृगये अन्विष्यामि। न अवरोह न गच्छ।।८।।
मूर्द्धनि मञ्जुमयूरशिखा श्रवसो: किल कुण्डलयुग्ममुदञ्चतु
वक्षसि ते वनमाल्यमुदेतु मुखे मुरलीसुषमा परिचञ्चतु।
काञ्चिरुदञ्चतु पीतपटे मणिनूपुरमङ्घ्रितटे बत मुञ्चतु
मानसमन्दिरमध्यमियं तव मञ्जुलमूर्तिरहर्निशमञ्चतु।।९।।
मयूरशिखा मयूरपिच्छम्। चञ्चतु दीप्यताम्। अङ्घ्रितटे नूपुरं मुञ्चतु स्थापयतु।।९।।
मम बन्धुगणो विमुखत्वमयात्त्वमपीह दयामय चञ्चसि किम्
विषयैर्जननावधिवञ्चितमेनमहो त्वमपि प्रिय वञ्चसि किम्।
भृशमन्तिकमन्तकरोऽयमुपेत्य रुजामकरोच्चिरमञ्चसि किम्
अमुना श्वसनेन वपुर्व्यधुनादधुना यदुनायक मुञ्चसि किम्।।१०।।
चञ्चसि त्यक्त्वा गच्छसि। अन्तकर: काल: अन्तिकमेत्य भृशं रुजां पीडाम् अकरोद् इदानीं चिरं विलम्बं किम् अञ्चसि अवलम्बसे। अयमन्तकर: अमुना श्वासेन में शरीरं व्यधुनात् अकम्पयत्।।१०।।
रसवद्वचना रचना रचना विगुणा रचना त्वरुचिन्यसना
भुवनाधिपते: पदसंकलना कलनास्ति परा जगदुज्जसना।
प्रभुसद्गुणसंघटना घटना त्वपरा घटना जनताहसना
इतरा रसना विफलव्यसना हरिनामधना रसना रसना।।११।।
रसवन्ति वचनानि यस्याम् ईदृशी रचना कविता रचनापदवाच्या। पदसंकलना चरणाश्रयणं कलना (क्रिया)- पदवाच्या। जगत: उज्जसना पीडयित्री। जनताहसना जनताया हसनं यस्या: सकाशाद्। हरिनामस्मरणमेव धनं यस्या: ईदृशी रसना जिह्वा।।११।।
बहुदुर्मददैत्यगणैर्दलितं सततं भुवनं परिपासितमाम्
नयनिर्बलनिस्सहनिस्स्वजनस्य निहंसि सदा विपदामसमाम्।
ननु वेद्मि न वेत्सि ममाकुलतां मदमोहभृतां निदधासि रमाम्
अपि चर्चितचन्दन कंसनिकन्दन हे यदुनन्दन नन्दय माम्।।१२।।
नयनिर्ब.- नये नीत्यां निर्बल:, अतएव निस्सहो यो निर्धनजन: तस्य असमाम् असाधारणीं विपदां विपत्तिम् (भागुरेराप्)। त्वं मम आकुलतां न वेत्सि इति वेद्मि, यतो मदमोहपूर्णां (जडधनरूपां) लक्ष्मीं वक्षसि निदधासि। लक्ष्मीयुक्ता मदेन मोहेन च दीनानां व्याकुलतां न परिजानन्ति।।
भवबन्धकरेषु रमे नितरां चपलं मे मनश्चपलालवलेहि
न च साधुजनेषु निलीनं क्वचिन्मम दीनं वचोऽप्यधमे बत 'देहि’।
सुकृतस्य लवोऽपि न संध्रियते चरिते मम नाथ न दृष्टिं निधेहि
क्व विशालो ममास्ति कपालो मुकुन्द तथापि दयालो दयां प्रविधेहि।।१३।।
चपला.- चपलाया लक्ष्म्या लवं लेढि सतृष्णमनुधावति तच्छीलम्। मम मन: साधुजनेषु क्वचिदपि न लीनम्। अधमेऽपि 'बत देहि’ इति मम दीनं वच:। क्व विशाल: सुकृताद्यभावान्मम विशाल: कपाल: अर्थात् विशिष्टं भागधेयम् क्वास्ति।।१३।।
२. मत्तगयंद (मालती) इंदव
जन्मनि नेह कृतं सुकृतं
दुरितानि तु दीनमिमं दमयन्ते
दुर्गुणदुर्गमवेत्य हि मां
परिवृत्तधिय: सुधियस्तृणयन्ते।
नाथ! न पश्यसि किं नु? जना
बत मञ्जुलनाथमनाथमयन्ते
देहि सशोकशिशोरवने
व्रजराजकिशोर! कटाक्षकणं ते।।१४।।
मया इह अस्मिन् जन्मनि सुकृतम् न कृतम्। पापानि दीनम् इमम् मां दमयन्ते अभिभवन्ति। दुर्गुणानां दोषाणां दुर्गं दृढरक्षास्थानम् अवेत्य ज्ञात्वा, परिवृत्ता मत्सकाशाद् विमुखीभूता धी: बुद्धि: येषां ते सुधिय: सज्जना: मां तृणवत् तिरस्कारयोग्यम् कुर्वन्ति तत्करोतीति णिच्। 'दुर्ग’ पदेन-दुर्गै यथा निर्भयं निवसन्ति तथा मयि पातकानि दृढतया निवसन्तीति दोषातिशयो ध्वन्यते। हे नाथ किं त्वं न पश्यसि? यत् जना: माम् मञ्जुनाथम् अनाथम् अयन्ते जानन्ति। अरक्षितं ज्ञात्वां पीडयन्तीत्यर्थ:। सशोकस्य अस्य शिशो: बालकस्य मम अवने रक्षणे दृष्टे: लवमपि देहि।।१४।।
३. चकोर
दुर्भरदम्भभृतं सुतमां बत मामिह सूरिषु को न निनिन्द
भूरि भयेन विरौमितमामयि मञ्जुलनाथ! दयां मयि विन्द।
दुर्भगदीनदरिद्रकृते प्रथिता तव वत्सलता यदुनन्द!
निन्दसि किं ननु नन्दय मां मतिमन्दमिमं दययैव मुकुन्द।।१५।।
सुतमाम् अत्यन्तम् 'सु’ इत्यव्ययात्तमप्। दुर्भरेण दम्भेन भृतम् माम् पण्डितेषु को वा न निनिन्द अपि तु सर्वेऽपि। भयवशाद् अहम् अतितमां रोदिमि। हे मञ्जुनाथ हरे! मयि दयां विन्द भज, कुरु। दुर्भाग्यनिर्धनदीनानां कृते तव वात्सल्यं प्रसिद्धम्। यदून् नन्दयति तत्सम्बुद्धौ। मन्दमतिम् इमं मां किं निन्दसि? हे मुकुन्द! दयाद्वारा मां नन्दय सुखितं कुरु। पुण्यबलं बुद्ध्यादिकं वा मत्सविधे नास्ति। तव दयामेवालम्ब्य सुखितो भवितुमिच्छामीति निस्साधनतां सूचयित्वा भगवदनुग्रह: प्रार्थ्यते।।१५।।
४. मुक्तहरा
दृशोरुपगच्छति मे तिमिरं बधिरं श्रुतियुग्ममिहायसि नैव
शनैरपगच्छति चेतनता भवतारण! सम्प्रति धावसि नैव?
क्षणादपि देव! तनुर्निपतेदधुना तु विहातुमिहार्हसि नैव
अये मम संविरते: समयेऽपि हि नाथ! नयेन निभालसि नैव।।१६।।
अन्तसमये भगवत: प्रार्थना-मम दृशो: नेत्रयो: अन्धकार: आगच्छति। मम कर्णद्वयं बधिरं (जातम्) इति न अयसि जानासि; हे भवात् तारक! अस्मिन् करुणसमयेऽपि उद्धारार्थं न धावसि। अधुना तु मां त्यक्तुं न अर्हसि। मम संविरते: उपरामस्य, लोकान्तरगमनस्य समये अपि दयानुकूलेन न्यायेन मां न निभालयसि पश्यसि? 'भाल’ धातुभ्र्वादि: (आकृतिगण:)।।१६।।
५. सुन्दरी (मल्ली, सुखदानी)
निजनिर्भरणे निरत: सकलो विकलोपरि केन दयाऽऽचरणीया
न च धर्ममधर्ममवैति जनो धनिलोकमनोऽनुगता धरणीया।
न सनातनरीतिषु रज्यति कोऽपि कथं नु जनैद्र्विजताऽऽदरणीया
अधुना बत मञ्जुलनाथहिते भवता यदुनाथ! कृपा करणीया।।१७।।
निजस्य परिपूरणे तत्पर:। विकलस्य पीडितस्योपरि दया केन करणीया? न केनापि क्रियते। अवैति जानाति। केवलं धनिलोकानां मनस: अनुगामिता अनुसरणम् स्वीकरणीया। रज्यति अनुरक्तो भवति। तदा जनैर्मम ब्राह्मणता कथमादरणीया? द्विज इतिबुद्ध्या न कोऽप्यादरं कुर्यादित्यर्थ:।।१७।।
६. अरविन्द
अयि देव विलोकय दीनदशां
विवशां विवहामि तनूमवधेहि
तव दर्शनलालसया ह्यनया
हृदि धैर्यमुदेति सुधालवलेहि।
भवदागमनोत्कलिकासु मनो
वितनोति मनोरथकोटिमवेहि
अरविन्दविलोचन नाथ मुकुन्द!
विनन्दय मानसमाकुलमेहि।।१८।।
अवशां तनूम् शरीरम् धारयामि, इति अवधेहि। किंतु तव दर्शनं शीघ्रं भविष्यतीति लालसया अमृतलेशचुम्बि धैर्यं भवति। भवत: आगमनविषये नानाविधा उत्कण्ठा भवन्ति, तद्विषये मम मन: एवम् एवम् करिष्यामीति अनन्तान् मनोरथान् करोति, इति जानीहि। आगमनस्य विचार एव सेयं दशा, त्वल्लाभे तु कावस्था भवेदित्युत्कण्ठातिशयो ध्वन्यते। हे मुकुन्द एहि मानसमानन्दितं कुरु।।१८।।
७. लवङ्गलता
प्रात:काले भगवत्स्मरणम्
विहायसि निर्मलरोचिरुदेति,
निरेति तम: प्रशम: पदमृच्छति
पुरंदरदिक्प्रमदावदनं
नवरागघनं सुषमामभिगच्छति।
जगत्स्वपि जागृतिरेति मनागपि
मञ्जुलनाथमनो मुदमिच्छति
उषा भुवनेश्वरभावपुषा
वपुषा प्रमदं विदुषामभियच्छति।।१९।।
आकाशे स्वच्छं रोचि: तेज: उदेति, तम: निर्गच्छति, (स्वभावत एव प्रात:) शान्ति: पदम् स्थानम् ऋ च्छति प्राप्नोति करोति। पूर्वदिग्रूपाया वध्वा: मुखम् उषारागेण नवरागयुक्तं सत् शोभां गच्छति। 'जागृति:’ एति भवति, इति लोकव्यवहारानुसारम्, अन्यथा 'जागर्ति:’ इति स्यात्। मञ्जुनाथस्यापि मन: मोदं वाञ्छति। सेयं उषा प्रात:काल: जगदीश्वरम् प्रति भावम् भक्तिम् पुष्णाति ईदृशेन स्वशरीरेण विदुषाम् तत्त्वज्ञानां भक्तानाम् प्रमोदं ददाति। 'उषा’ इति वैदिक: शब्दोऽपि साहित्ये प्रयुज्यते। प्रात:कालो भगवन्तं प्रति भावनामाकर्षतीति सूच्यते।।१९।।
८. सुख (किशोर, कुन्दलता)
परिकर्षति कामकषायभरो
विकरोति मदो मयि मानसमीरय
सुखवासनया ह्यनया परितो-
ऽधरितोऽस्मि न नाथ मनागवधीरय।
वद केन यथा परियामि विभो
भवभोगतृषं तरसा बत तीरय
अयि भो भवतारण दु:खविदारण!
जीवितधारणरीतिमुदीरय।।२०।।
कामवासनासमूह: मां स्वाभिमुखम् आकर्षति। मदो मयि विकारमुत्पादयति। हे विभो मयि मद्विषये भवच्चित्तं प्रेरय। सुखप्राप्ते: वासनया समन्तत: अधरीकृतोऽस्मि तिरस्कृतोऽस्मि, अतएव तिरस्कृतं मां त्वं न तिरस्कुरु। तरसा शीघ्रम् मम भवभोगतृष्णां तीरय समापय। अतएव परित: व्याकुलोऽहं जीवितं कथं धारयेयम् इति रीतिं त्वमेव उपदिश।।
९. वाम (मञ्जरी, मकरन्द, माधवी)
पार्वतीत: प्रार्थना
नदन्ति गृहे मददन्तिघटा
विसृजन्ति जनोपरि दानपयोदम्
भरन्ति गुणैर्भुवनानि मनाग्
विहरन्ति मनोज्ञवनेष्वनुगोदम्।
वहन्ति मनोरमकाव्यकलां
तव दासजना जनयन्ति विनोदम्
त्वदन्तिकतो हि जयन्ति शिवे!
घटयन्ति समस्तमियन्ति समोदम्।।२१।।
गृहे मदयुक्तानां दन्तिनाम् हस्तिनाम् घटा: समूहा:। नादं कुर्वन्ति। ते लोकानामुपरि दानरूपं मेघं वर्षन्ति। निजगुणै: भुवनानि पूरयन्ति। गोदाम् अनु गोदावरीनदीतटे मनोज्ञेषु वनेषु विहरन्ति। (गोदावरीतटं प्राकृतसौन्दर्यार्थं प्रसिद्धम्।) तव दासजना: काव्यकलाद्वारा लोकानां मनोविनोदं कुर्वन्ति। त्वत्सकाशाद् इयन्ति एतावन्ति राजत्वकवित्वादीनि घटयन्ति सम्पादयन्ति।।२१।।
१०. किरीट
श्रीगङ्गात: प्रार्थना
जन्मनि जातु कृतं न हितं मम
देवगणो दुरितं किमपोहतु
जाह्नवि! कं शरणं परियामि
ममोद्धरणं किल क: परिशोचतु।
दीनमुपायविहीनमिमं
दयया परिगृह्य गिरं मम बोधतु
देहविमोकदिने भुवनेश्वरि!
गात्रमिदं पुलिने तव लोठतु।।२२।।
आत्मन: परेषां च हितं न कृतम्। देवगणो मम पातकं किमिति दूरीकरोतु? न कुर्यात्। हे गङ्गे! ममोद्धारस्य कस्य हृदये चिन्तास्ति? न कस्यापि। साधनहीनम् इमं दीनं दयाद्वारा स्वीकृत्य मम वाणीम् प्रार्थनाम् भवती एव शृणोतु। का सा प्रार्थना? हे 'भुवनाधीश्वरि गङ्गे! देहत्यागदिने मम इदं शरीरं तव तटसैकते लोठतु’।।२२।।
११. अरसात
पातकपुञ्जमपोहयितुं भुवि
याभिययौ व्यपदिश्य भगीरथम्
खेलदवारितवीचिघटा च
जटासु जगाम निमीलितमन्मथम्।
मञ्जुलनाथ! न शोच मना-
गधुनापि पुनाति भवादृशमुद्व्यथम्
देवधुनी तव सा विधुनीत
मनोमधुनीतमलीकमनोरथम्।।२३।।
लोकानां पातकसमूहम् अपोहीयितुं दूरीकर्तुं भगीरथं व्यपदिश्य भगीरथं नृपं निमित्तीकृत्य या भुवि अवततार। खेलन्ती अवारिता (अप्रतिरुद्धा) तरङ्गवटा यस्या: ईदृशी या गङ्गा निमीलितमन्मथं संहृतकामदेवं शिवं जटासु जटानामुपरि जगाम प्राप। त्वं शोकं मा कुरु, अधुनापि सा गङ्गा भवादृशम् उद्व्यथम् उत् उच्चै: अधिका व्यथा यस्य तादृशं जनं पवित्रीकरोति। सा देवनदी मनोमधुना नीतम् नम: कल्पितम् मधु मनोमोदकमितिवत् यत् अलीकसुखम् तेन नीतम् सम्पादितम् मिथ्याभिलाषम् विधुनीत अपनयेत्। मन:कल्पितसांसारिकमधुरमनोरथस्य वशात् त्वं विषयेषु निबद्धो भवसि। गङ्गा तमेव ते विषयाभिलाषं दूरीकुर्यादित्याशय:।।२३।।
१२. दुर्मिल
जननावधि लौकिकसंघटना-
गतचित्तमनामयहीनमिमम्
सदनावनिवित्तयशोललना-
दिसमानयनानिशलीनमिमम्।
अपि मञ्जुलनाथ! दयाविधिना
कुरु ते चरणाभिमुखीनमिमम्
अधुना दवदु:खघनाकुलितं
यदुनाथ! सनाथय दीनमिमम्।।२४।।
जननावधि जन्मन आरभ्यैव लोकस्य कार्यपरम्परासु गतं चित्तं यस्य। अतएव अनामयहीनम् आमयाभावेन रोगाद्युपद्रवाभावेन रहितम् आमयसहितमिति यावतृ। गृह-भूमि-धन-कीर्ति-स्त्री-प्रभृतीनां संग्रहे नित्यरतम्। दववत् (वनवह्नि) यद् दु:खघनं दु:खसम्भार: तेन व्याकुलितम् इमं दीनं सनाथय सर्वापद्भ्यो रक्षेति भाव:।।२४।।
(३८)
अश्वधाटी
संदाहिनित्यपरनिन्दादिपापकृतिकन्दाधिरोपमुपयन्
किं दानलोभलवसंदानितो भ्रमसि मन्दालयेषु नितराम्।
त्वं दास्यमेत्य मुनिवृन्दार्चनीयमघबन्धात्ययाय भज भो
मन्दारमञ्जुमकरन्दालिमेदुरमुकुन्दाङ्घ्रिकञ्जमनिशम्।।१।।
संदाहिनां हृदयदाहकराणां परनिन्दादिपापकार्याणां य: कन्द: मूलम् तस्यारोपणम् उपयन् कुर्वन्। संदानितो बद्ध:। अघबन्धात्ययाय पापबन्धनदूरीकरणाय। मन्दार.- पारिजातस्य मञ्जुर्या मकरन्दालि: मकरन्दराशि: तया मेदुरम् सान्द्रस्निग्धम् अङ्घ्रिकमलम् भज।।१।।
भालानतावपि करालास्यमज्ञमहिपालाग्र्यमेनमयसे
कालातिपातिमदहालावमत्तधनपालालयेषु विचरन्।
बालायितोऽसि बुधमालार्चितोऽपि न ममालापमुत्सृज सखे
व्यालालिकेऽपि रुचिजालावभासिव्रजपालाङ्घ्रिमर्चय चिरम्।।२।।
भाला.- मस्तकनमनेऽपि करालमुखम् एनम् अज्ञम् महीपालश्रेष्ठम् अयसे उपगच्छसि। काला.- कालक्षेपका:, मदमद्येन अवमत्ता ये धनपाला: धनिन:। व्याला.- कालियसर्पस्य मस्तकेऽपि कान्तिसमूहेन अवभासिनम् प्रकाशिनम् श्रीकृष्णस्य चरणम्।।२।।
भारीभवद्भुवनचारीद्धदु:खविनिवारी व्रजावनिपति:
पारीन्द्रदन्तपरिदारीन्द्रगर्वपरिहारी हरेत विपदम्।
नारीजनेन परिवारी दिवाकरकुमारीतटे मुदमयन्
हारीन्द्रनीलरुचिहारी गरिष्ठगिरिधारी धिनोतु सततम्।।३।।
भारी.- भारायितं यद् भुवनचारिणाम् इद्धं प्रवृद्धं दु:खं तस्य निवारक:। पारी.- पारीन्द्रो हस्ती (कुवलयापीड:) तस्य दन्तविदारक:। हारी.- हारी (मनोहारी) य इन्द्रनील: तस्य रुचिं हरति विडम्बयति। धिनोतु प्रीणयतु।।३।।
आयासहेतुसुतजायाधनादिदुरुपायाय धावसि चिरं
कायावशोषिदृढदायाददु:खमवसायान्तरे तु तुदसे।
आयाहि सर्वमपहायावसादमयि! मायाप्ररोहणहर:
पायादशेषदुरपायादसौ जलधिजाया धवोऽनवरतम्।।४।।
आया.- धनादीनां दुरुपायाय दुष्टोपायार्थम्। अवसायपर्यन्ते ज्ञात्वा। तुदसे व्यथसे। आयाहि.- अयि सर्वम् अवसादं दु:खम् अपहाय आयाहि। माया.- मायाया: प्ररोहणम् अभिवृद्धिं हरति। जल.- जलधिजाया: लक्ष्म्या: धव: पति:।।४।।
अंसावरोहितनृशंसावलीविहितशंसाप्रसारमुदितो
हंसावदातभवनं साधयस्यतिरिरंसापहिंसितमना:।
त्वं सारशून्यपरहिंसापरेष्वथ च किं साभिमानमयसे
संसारसारमिह संसाधयस्व किल कंसारिपादकमलम्।।५।।
अंसा.- स्कन्धे स्थापिता: अत्यादरभाजनानि इत्याशय:। येन नृशंसास्तद्विहिता शंसा प्रशंसा। रिरंसा.- रन्तुमिच्छया बलाद्धिंसितम् अर्थात् हीनीकृतम् मनो यस्य, ईदृशस्त्वम्। परहिंसातत्परेषु दुष्टेषु साभिमानम् किम् अयसे गच्छसि।।५।।
शालीनवंशरुचिशालीष्टगोपवनितालीमयन् प्रणयतो
यालीकलोकपरिणालीमपास्य चिरमालीयताङ्घ्रिकमले।
कालीभवत्कुटिलकालीयपन्नगफणालीषु नर्तनपटु-
स्तालीवने विपिनपालीप्रमोदिवनमाली मुदं दिशतु मे।।६।।
शालीने विनम्रे वंशे रुचिशालिनी इष्टा च या गोपवनितानाम् आली पङ्क्ति: तां प्रणयत: प्रेम्णा अयन् प्राप्नुवन्। या वनिताली अलीकां लोकप्रणालीम् अपास्य चिरम् चरणकमले आलीयत लीनाभवत्। काली.- कालरूपेण परिणमन् य: कुटिलकालियसर्पस्तस्य फणापङ्क्तिषु। विपिन.- विपिनं वनं पालयन्ति ता विपिनपाल्य: ताभि: प्रमोदते तच्छीलो वनमाली।।६।।
संतापहेतुधनसंतानलाभसुखसंतानलोलुपमना
हिन्तालतालतरुकुन्तावृतासु हरिदन्ताटवीषु रमसे।
अन्तावसायिगृहचिन्ताशतस्य तव हन्तारमाश्रयसि कं?
किं तावदीप्ससिदुरन्ताढ्यमेहि हरिचिन्तामणिं श्रय सखे।।७।।
धनादीनां लाभस्य य: सुखसंतान: सुखपरम्परा तस्यां लोलुपचित्त:। हिन्ता.- हिन्तालादयस्तरव एव कुन्ता भल्लास्तै: आवृतासु। हरिद.- दिगन्ताटवीषु दूरपर्यन्तव्याप्तेषु वनेषु। अन्ता.- अन्ते अवसीयते समाप्यते तादृशस्य तव गृहचिन्ताशतस्य। हन्तारं नाशकम् कम् आश्रयसे? कोऽपि ते गृहचिन्तानिवारको नास्तीत्यर्थ:। दुरन्ता.-दुरन्तम् भयंकरम् आढ्यं धनिनं किम् ईप्ससि वाञ्छसि। हरिरूपं चिन्तामणिं श्रय।।७।।
आताम्रमञ्जुमणिवातायनस्थमनुयाता भवान् नरपतिं
धातापि यत्र नुतिधाता भवेत्तमनुयातास्म्यहं व्रजपतिम्।
आतापहेतुरवपातादिकृद्यदि तु दाता तवास्ति नृपति-
भ्र्राता बलस्य परिपाता व्रजस्य मम दाता शिवस्य स भवेत्।।८।।
भवान्.- भवान् नरपतिम् अनुयाता (तृन्), तर्हि यत्र विधातापि स्तुतिस्थापक: ईदृशं व्रजपतिमहमनुयातास्मि अनुयास्यामि (लुट्)। अवपाता.- क्रोधे सति अध: पातादिं करोति। बलस्य बलभद्रस्य।।८।।
छन्दातिवर्तिजननिन्दापरो ह्यहममन्दाभियोगनिरत:
क्रन्दामि नित्यमघवृन्दाधिपत्यमुपयन् दास्यदु:खितमना:।
नन्दालये ध्रुवमलिन्दान्तरस्थितमिलिन्दायितं जनहितं
विन्दामि नूनमरविन्दायताक्षमिह वृन्दावनेशमनिशम्।।९।।
छन्दातिवर्तिनो निजाभिप्रायबहिर्भूतस्य जनस्य निन्दापर: अहम् अमन्दे तीव्रे अभियोगे निरत:। अघ.- पापराशे: आधिपत्यं स्वामित्वं प्राप्नुवन् दासभावदु:खित: क्रन्दामि। अलिन्दा- द्वारप्रकोष्ठकान्तरस्थितमिलिन्द (भ्रमर) सदृशम्।।९।।
(३९)
नारायणनर्कुटकम्
जय जलधिप्रसूतकमलामुखलालसदृक्
जय जलजाभिजात चरणानतभक्ततते।
जय जडजङ्गमादिजननस्थितिसंहृतिकृत्
जय जनतापहारक जगन्महनीय हरे।।१।।
कमलामुखे लालसा साभिलाषा दृक् यस्य तत्सम्बुद्धौ। जलजवत् अभिजातौ सुन्दरौ यौ चरणौ तयोरानता भक्तततिर्यस्य।।१।।
कति कति वा न घोरपुरुपातकिनो भवता
दयित दयावशेन भवसागरतो ह्यविता:।
इममतिदीनमङ्ग मतिहीनतमं रहयन्
कथमु दधासि नाथ करुणावरुणालयताम्।।२।।
घोरा: पुष्कलपातकयुक्ता:। अङ्ग सम्बोधने। अतिदीनम्, मति.- मत्या अत्यन्तं हीनम् इमं माम् रहयन् दूरे कुर्वन्।।२।।
सततमलीकलोभलवमोहमरीचिकया
गुरुगहने भ्रमामि भवभीमवने विमना:।
प्रदिश दयावतार तव पादतलोपगते
दलदरुणाम्बुजाततरुणां करुणाद्र्रदृशम्।।३।।
अलीको यो लोभलव: तेन, मोहमरीचिकया च। अथवा लोभलवश्च मोहश्च तयोर्मृगतृष्णिकया, गुरौ गहने भवरूपे भीमे वने विमना: सन् भ्रमामि। दलद.- दलत् विकसत् यत् अरुणम् अम्बुजातम् कमलम् तद्वत् तरुणां नवीनाम् तव करुणाद्र्रां दृशं पादपतिते मयि प्रदिश देहि।।३।।
भ्रमिमुपगत्य भूरि भवभीमवने गहने
चिरमियमद्ययावदुपयातवती विपदम्।
रतिमुपगच्छतान्मतिरशान्तिशताकुलिता
मम यमुनातटीतरुविहारपटीयसि सा।।४।।
इयम् मम मति: भवरूपे गहने भीमे (भयंकरे) वने भूरि भ्रमिम् भ्रमणम् उपगत्य अद्ययावत् (अद्यपर्यन्तम्) चिरं विपदम् नानाविधजन्मादिविडम्बनाम् उपयातवती प्राप्तवती। अशान्तिशतेन आकुलिता सेयं मति: यमुनातटवर्तिवनविहारपटुतमे श्रीकृष्णे रतिं लभताम्। खिन्नस्य वनविहारनिपुणे रतिलाभ: समुचित एवेत्याशय:।।४।।
पुरुपरितापतान्तजनतागुरुतापहृते
य इह ततान तारणधृतामवतारधुराम्।
व्रजवनिताहिताय नवरासभृतां वरिता
भुवि भवतान्मदीयकवितास्वविता स हरि:।।५।।
पुरु (पुष्कल) परितापेन तान्ता खिन्ना या जनता तस्या गुरुपरितापस्य हृते हरणाय, भावे क्विप्। य: हरि: तारणाय लोकानामुद्धाराय धृताम् अवतारधुराम् अवताररूपं भारम् ततान दधारेति यावत्। रासभृतां रासविलासिनां वरिता वर:। हरि: मम कवितासु अविता सर्वविधरक्षायां जागरूको भूयादित्याशंसा।।५।।
किमु कुटिलाशयेषु बत फल्गुफलस्पृहया
सततमनादृतोऽपि परिधावसि धर्षितधी:।
परिहर पङ्किले पथि पदोपगमप्रसरं
परिचर मञ्जुनाथ! यदुनाथपदाम्बुरुहम्।।६।।
निस्सारस्य फलस्य वाञ्छया अनादृत: अतएव धर्षितधी: कुण्ठीकृतबुद्धि: सकपटचित्तेषु किं धावसि? पदोप.- पादक्षेपम्।।६।।
मुनिमनसामगम्यगुणगीतिगतिर्नितरां
व्रजजनजीवनाय इयाय धरावलये।
मनसि मनोरथप्रचिततापशताकुलिते
जलभृतनीलनीरदतनु: स हरिर्विहरेत्।।७।।
मुनिमनसामपि अगम्या अबोध्या गुणा गीतय: यशांसि गतय: चिकीर्षामार्गाश्च यस्य। मनोर.- नानाभिलाषै: संचितं यत् तापशतं तेन आकुलिते। तापाकुलस्य सजलजलदविहारेण स्वाभाविकमेव सुखमित्याशय:।।७।।
भुवमवगम्य भूरितरपापभराकुलिता-
मवितुमवातरद् य इह दीनदयाविवश:।
निबिडनृशंसकंसमदहिंसन केलिधरो
मयि स कृपामपारभवपारकर: कुरुतात्।।८।।
दीनेषु दयापरवशो य: अवितुं दीनान् रक्षितुम् अवातरत्। अपारभव.- अपारस्य भवस्य पारे करोति स मयि कृपां कुरुतात्।।८।।
(४०)
चतुष्पदीचयनम्
(मदनविजय:)
शिरसि बर्हिचन्द्रकचयशोभी। विलुलितकुन्तललोचनलोभी।।
श्रवसि मिलन्मणिकुण्डलधारी। चिबुकचुम्बिहीरकरुचिहारी।।१।।
उरसि मालतीदामसुगन्धे। मिलन्मञ्जुगुञ्जाचयबन्धे।।
सितदुकूलमावृतमहमूहे। नैशतुहिनमिव कुसुमसमूहे।।२।।
श्रोणिपिहितपीताम्बरशोभा। मनसि मुनेरपि विलुलितलोभा।।
पदनलिने मणिनूपुरनादी। स्मरमाह्वातुमिवानकवादी।।३।।
शरदि पूर्णशशधररुचिशाली। प्रपदचुम्बिलम्बितवनमाली।।
जयति हरिर्नवरासविहारी। मुदितमनोजगर्वपरिहारी।।४।।
मदनमनोहारी हरिर्नवनटवरवेषेण।
जयति कलानिधिमपि जयन्मुखसुषमालेशेन।।५।।
चन्द्रकचय: पिच्छाग्रभागसमूह:। विलुलितै: कुन्तलैर्लोचने लोभयति तच्छील:। हीरकरुच्या (कान्त्या) मनोहारी।।१।। गुञ्जाचयस्य बन्धो यस्मिन् उरसि। उरसि आवृतं दुकूलं कुसुमसमूहे नैशम् निशासम्बन्धि तुहिनं नीहारमिव अहम् ऊहे उत्प्रेक्षे।।२।। श्रोणौ कट्याम्। विलुलित (कृत) लोभा। निजप्रभावं दर्शयितुं मदनम् आह्वातुं आनकं दुन्दुभिं वादयति तच्छील:, नुपूरनादो नास्ति मदनाह्वानाय दुन्दुभिघोष: सोऽयमित्याशय:।।३।। प्रपदं पादाग्रभाग:।।४।।
सुरभिकुसुमशेखरपरिराजी। कर्णकलितकुण्डलविभ्राजी।।
कनककलितकेयूरविभासी। मध्यमिलितमाणिक्यचकासी।।
मधुरमुखो मणिकुण्डलभासा। नवमणिना विभ्राजति नासा।।
कम्बुकण्ठराजन्मणिदामा। वदनविजितशारदशशिधामा।।७।।
कनकवलयशोभिनि मणिबन्धे। रत्नविभा नयनानि निरुन्धे।।
पीतपटे मणिरशना रम्या। सांध्यनभसि तारालिरदम्या।।
जङ्घायुगलमुदञ्चति ललितम्। नूनमनिन्द्यनीलमणिकलितम्।।
युवतिमनोहररूपविभासी। राजति मुररिपुरतुलविलासी।।
मधुरमण्डनेनामुना यमुनापुलिनमुपेत्य।
वेणुं ध्वनयन् सस्मितं जयति हरिर्मुदमेत्य।।१०।।
शेखरेण शिरोभूषणेन राजति तच्छील:। केयूराभ्यां भुजभूषणाभ्यां विभासते। मध्ये केयूरयोर्मध्ये जटितं यन्माणिक्यं तेन चकास्ति।।६।। कुण्डलयोर्भासा कान्त्या। कम्बुसदृशे कण्ठे राजत् मणिदाम रत्नस्रक् यस्य। धाम तेज:।।७।। मणिबन्धे प्रकोष्ठे। निरुन्धे चाकचक्यमुत्पादयति। तारालि: तारकपङ्क्ति:, पीतपटे मणिकाञ्ची सांध्यगगने पीततया तारकपङ्क्तिरिवेत्याशय:।।८।। नीलं जङ्घायुगं नूनं (मन्ये) नीलमणिनिर्मितमित्यर्थ:।।।९।। अमुना सुभगवेषेण (उपलक्षित:) मुदं हर्षम् एत्य प्राप्य वेणुं वादयन्।।१०।।
मुरलीस्वरलहरी प्रचरन्ती। युवतिनिकेतमगान्मदयन्ती।
श्रवसि जगौ प्रियतमसंदेशम्। जनयन्ती हृदि मदनावेशम्।।
गृहकार्याणि विमुच्य सहेलम्। ययुर्गोपिका हरिमनुवेलम्।।
अपदविहितभूषणविन्यासा। सरभसमचलद्युवतिसभा सा।।
श्रोणितटे दधती मणिहारम्। उरसि दधौ काञ्चीमविचारम्।।
भुजयो: कापि नूपुरे निदधौ। पदयुगले केयूरे विदधौ।।
काचिदुत्तरीयं परिदधती। शिरसि शाटिकां निदधौ युवती।।
एवं प्रणयसम्भ्रमाधीना। युवतिमण्डली हरिमनुलीना।।
पप्रच्छागमहेतुममृतगिरा रमयन् हरि:।
ता विहारमभ्येतुमैच्छन् हृच्छयमोहिता:।।१५।।
प्रचरन्ती गगने भ्राम्यन्ती। निकेतं निवासम्। मदयन्ती गोपिका मत्ता: कुर्वती।।११।। अनुवेलम् शीघ्रमिति यावत्। अपदे अस्थाने विहिती भूषणविन्यासो यया। युवतीनां सभा मण्डली।।१२।। अविचारम् अविचार्यैवेत्यर्थ:।।१३।। उत्तरीयमुपरिवस्त्रम्, परिदधती शाटिकास्थाने धारयन्ती। हरिमनु हरिसमीपे, लीना प्राप्तेत्यर्थ:।।१४।। अमृतगिरा अमृतमधुरया वाण्या, रमयन् प्रीणयन्। हृच्छयमोहिता: मदनवशीकृता: ता: गोप्य: विहारं रतिक्रीडाम् अभ्येतुं प्राप्तुमैच्छन् रासविलासमर्थितवत्य इत्यर्थ:।।१५।।
प्रणयमहेतुमयन् वनमाली। तोषमियेष वेणुरवशाली।।
राकापतिरम्बरमधिभेजे। अमृतमयै: किरणै: परिरेजे।।
गो. वै. ८
विमलपुलिनमतुलां द्युतिमागात्। चन्द्रचूर्णचयरचितमिवाभात्।।
विकचकुमुदिनी निर्भरगन्धी। ववौ मारुतो मानसबन्धी।।
मधुरमालतीसुरभिसमीपे। युवतिमनसि मदनोऽनुदिदीपे।।
तास्त्रिलोकसुन्दरधृतकामा:। हरिसमीपमीयुव्र्रजवामा:।।
वशीकारिविभ्रमशतशाली। रमणमोदमाधाद् वनमाली।।
मनसि मनोजभावसंरब्धा। प्रतिवनिता दयिताय विलुब्धा।
हरिरतुलां रतिमात्मगां रमणीनामनुमाय।
महिलामण्डलमध्यगो रमणविनोदमियाय।।२०।।
अहेतुम् अकारणं स्वाभाविकमित्याशय:। तासां प्रणयम् अयन् जानन्! तोषम् इयेष तासां गोपीनां प्रसन्नतामवाञ्छत्। राकापति: पूर्णिमाचन्द्र: आकाशमधिरुरोह।।१६।। चमत्कुर्वद्रेणुकणशालि पुलिनम् असंख्यचन्द्राणां चूर्णचयेन क्षोदराशिना निर्मितमिव अभात् भाति स्म।।१७।। मालतीसुरभे: घ्राणतर्पणगन्धस्य समीपे मालतीसौरभमाघ्रायेत्यर्थ:। त्रिलोकसुन्दरी हरौ धृत: कामोऽभिलाषो याभि:।।१८।। रमणमोदं रमणं कृत्वा प्रमोदम् आधात् चकार। मनोजभावेन कामविकारेण संरब्धा संरम्भशालिनी प्रत्येकवनिता दयितार्थं विलुब्धा उत्कठिता।।१९।। रमणीनां आत्म (स्व) गतां प्रीतिं ज्ञात्वा। रमणविनोदम् इयाय चक्रे इत्याशय:।।२०।।
त्रिभुवनमोहनमहिमानयने। मानसमोदमदिशतां नयने।।
रतिविलासकामालसलीला। मदयामास मोदमदशीला।।
नाभिनितम्बनीविपरिधर्षी। रमयामास रमणिगणहर्षी।।
भुजपरिरम्भनर्मपरिहासा। रसिकसभा रेमे सविलासा।।
अधरकपोलनाभिकुचदेशे। स्पृशन् मोहयति मदनावेशे।।
एवं युवतिघटा रममाणा। प्रबभौ प्रियसङ्गाद् धृतमाना।।
मनसि मनसिज: स्वं बहु मेने। हरिरिह हसन् खर्वमातेने।।
महिलानां शमयन्नभिमानम्। स्वीचकार हरिरन्तर्धानम्।।
सहसा हरिमन्तर्हितं वीक्ष्य रमणविरहेण।
विकला व्रजवनिता वनेऽन्वैष्यन् प्रियमचिरेण।।२५।।
त्रिभुवनमोहकं महिमानम् आनयत:, त्रिभुवनवशीकरणप्रभावसम्पन्ने इत्यर्थ:। रतिविलासेन या कामालसा (कामालसानां वा) लीला। मोद: मद: (मत्तता) च शीलं स्वभावो यस्या: सा।।२१।। परिधर्षी परिमर्दक:। भुजपरिरम्भ: नर्मणा परिहासश्च यस्या: सा। रसिकानां गोप्यादीनां सभा मण्डली।।२२।। प्रियस्य (श्रीकृष्णस्य) सङ्गाद् धारिताभिमाना।।२३।। स्वम् आत्मानम् बहु मेने, मया हरिं रमणीनां विलासवशंवदं कृत्वा विजयो लब्ध: इति गर्वं चकारेत्यर्थ:। हसन् हरि: तं कामम् खर्वं विनतम् आतेने चकार। (अतएव) श्रीकृष्णं निजवशगं मन्वानां महिलानां गर्वं परिहरन्।।२४।। रमणस्य (प्रेष्ठस्य) विरहेण विकला: अन्वैष्यन् अन्विष्यन्ति स्म।।२५।।
वञ्जुलविपिनवीथिवनकुञ्जे। वापीविटपिवाटिकापुञ्जे।।
वंशगुल्मवानीरनिकाये। विविधवह्निवीरुत्समुदाये।।२६।।
विचरन्त्यो व्रजवनिता: कामम्। प्रियं व्यचैषुरनिशमभिरामम्।।
कुटजकुन्दकुरुविन्दमगच्छन्। निचुलनीपनीवारमपृच्छन्।।२७।।
एवं हरिपरिदर्शनकामा। युवतिराजिरभ्रमदविरामा।।
हृदयदयितमनवाप्य विषण्णा। यमुनारोधसि निभृतनिषण्णा।।२८।।
व्रजवामाततिरन्तरधामा। हरिचरितान्यनुचक्रे क्षामा।।
अन्ते दीपितदारुणविरहा। सुस्वरमरुदन्निर्भरमसहा।।२९।।
स्वगतहृदयतां योषितां विह्वलतां विरहेण।।
तासां वीक्ष्य हरिर्हसन्नाविरभूदचिरेण।।३०।।
वञ्जुलविपिनम् अशोकवनम्। वनकुञ्जे इत्यादि समाहारे क्लीबमेकवचनं च। वानीरनिकाये वेतसपुञ्जे। वीरुत् प्रतानिनी (दीर्घविस्तारयुक्ता) लता।।२६।। व्यचैषु: अन्वैषयन्। कुटजकुन्देत्यादिद्वन्द्वयो: 'विभाषा वृक्षमृग.’ इत्यादिना एकवद्भाव:।।२७।। अविरामा नास्ति विश्रामो यस्या: ईदृशी अभ्रमत्। निभृते एकान्ते स्थिता।।२८।। अन्तरे हृदयाभ्यन्तरे धाम हरेर्निवासो यस्या:। क्षामा विरहकृशा। हरिचरितानि अनुचक्रे एका गोपी कृष्णभूमिकामधारयत् अन्या पूतना समवर्तिष्टेत्यादिलीला अनुचक्ररित्यर्थ:। निर्भरम् अत्यन्तं असहा विरहासहिष्णु:।।२९।। योषितां व्रजस्त्रीणां स्वगतहृदयतां हरिसमर्पितचित्तताम्।।३०।।
हृदयदयितमागतमवपश्यन्। गोपीराशिरुदस्थाद्धृष्यन्।।
कापि हरेर्भुजमंसे निदधौ। कापि तदङ्घ्रिमुरोजे विदधौ।।३१।।
दृक्पथतो हरिमन्तर्दधती। कापि पुलकिताप्रीयत सुदती।।
सत्यं प्रणयमेवमनुरुन्धन्। मदनदर्पशममेवं विन्दन्।।३२।।
प्रीतो हरिरारेभे रासम्। अन्योन्यादृतबाहुविलासम्।।
गोपीयुगमध्ये हरिरासीत्। हरियुगले गोपी समभासीत्।।३३।।
गोपीकरमादाद् गिरिधारी। गिरिधरकरमवहद् व्रजनारी।।
एवं व्रजपतिगोपीमाला। पुलिनेऽस्मिन् विजहार विशाला।।३४।।
अनुपमशोभावैभवं रमणीरासविलासि।।
व्रजजनताजीवननिधेर्जयति जगत्त्रयभासि।।३५।।
हृष्यन् हृष्ट: सन् उदस्थात् उदतिष्ठत्।।३१।। दृक्पथतो हरिम् अन्त: दधती नयनयोर्मार्गेण हृदयाभ्यन्तरे हरिं स्थापयन्ती कापि सुदती अप्रीयत। एवं प्रणयम् अनुरुन्धन् प्रणयस्यानुरोधं रक्षन्। मदनस्य गर्वशमनम् एवं प्राप्नुवन् मदनविजयमेवं कुर्र्वन्नित्याशय:।।३२।। आदृतो बाहुविलासो यस्मिन्, अन्योन्याबद्धभुजमित्यर्थ:। समभासीत् सम् अभासीत् अशोभत।।३३।। व्रजजनजीवनधनस्य हरे रमणीनां रासे विलसति तच्छीलं अनुपमं शोभावैभवं जयतीति समाप्तिमङ्गलम्।।३५।।
(४१)
'कुण्डलिया’-खण्ड:
वाणीगुणमिममर्थये येन यदुपतिं स्तौमि।
चरणनलिनसेवापरो हेवाकादभिनौमि।।
हेवाकादभिनौमि सर्वत: सुकृतमुदयते।
व्रजपतिलीलाशीलनेन लोको मुदमयते।।
एतदेव याचामि देव विनिबध्नन् पाणी।
भवच्चरणगुणवर्णनेन रमतां मम वाणी।।१।।
वाण्या गुणम् इममेव अर्थये प्रार्थये यद्द्वारा भगवन्तं स्तौमि। हेवाकात् अभिलाषातिशयात्। व्रजप.- व्रजनायकस्य श्रीकृष्णस्य लीलानां परिशीलनेन पुन: पुनर्गानेन श्रवणेन च प्रेमिजनो मोदम् अयते प्राप्नोति। पाणी विनिबध्रन् प्रार्थनाञ्जलिं कुर्वन्।।१।।
मधुसूदनपदपङ्कजे रज्यच्चिन्मधुपस्य।
देवा अपि सेवां दधति भूरिभाग्यविभवस्य।।
भूरिभाग्यविभवस्य यस्य हरिनामसनाथा।
रसना रसनालीव सदा प्रवहद्गुणगाथा।।
चरणकमलपतितोऽस्मि पश्य हे कंसनिषूदन।
तदिह देहि तव सदयदृशं मय्यपि मधुसूदन।।२।।
रज्यच्चि.- अनुरज्यन् चेतनारूपो मधुकरो यस्य तादृशस्य बहुभाग्यवैभवस्य पुरुषस्य देवा अपि सेवां कुर्वन्ति। रसस्य आस्वाद्यस्य आनन्दस्य नालिकेव सर्वदा प्रवहन्ती भगवतो गुणगाथा यस्याम् हरिनामसनाथायाम् आनन्दस्य नालिकायामिव यस्यां जिह्वायां भगवतो गुणसंकथा सर्वदा प्रवहति इत्याशय:। इह एतस्मिन् मयि अपि यथा पूर्वचरणे कथितं माहात्म्यमाविर्भवति तथा सदयां दृष्टिं देहि।।२।।
गोवर्द्धनधारी सकलसुरसुखकारी भाति।
य: किल रासक्रीडया रवितनयामनुयाति।।
रवितनयामनुयाति कोटिकामद्युतिशाली।
व्रजवनिताह्वानाय रणद्वेणुर्वनमाली।।
भक्तभीतिहरणाय सदा व्रजविपिनविहारी।
कर्णे कलयतु दीनगिरं गोवर्द्धनधारी।।३।।
रासक्रीडाया: हेतुना यमुनामनुगच्छति। आह्वानाय रणन् शब्दं कुर्वन् वेणु: वंशीवाद्यम् यस्य स:। दीनानां दीनां वा गिरम् वाणीम् कर्णे करोतु शृणोतु इत्यर्थ:।।३।।
कालिन्दीपुलिने पथिक! तरुणतमालमुपेहि।
शिरसि यस्य बर्ही लसति, तदनु शुकं दृशि देहि।।
तदनु शुकं दृशि देहि, कपोतस्तदधो राजति।
कुसुमराशिरस्यान्तिके हि सुभृशं विभ्राजति।।
विद्युद् द्युतिमुपयाति हंसमुखरे नवनलिने।
मञ्जुनाथ नय मानसं नु कालिन्दीपुलिने।।४।।
तरुणतमालम् अर्थात् श्रीकृष्णम् शरणम गच्छ। बर्ही बर्हिपक्षयुक्तं मुकुटम्। दृशि दृष्टौ शुकं देहि, नासिकां पश्य। तस्य अध:, कपोत: कपोतसदृशसंस्थान: कण्ठ:। अस्य कण्ठस्य समीपे कुसुमराशि: कुसुमगुम्फिता वनमाला। हंसाभ्यां मुखरे शब्दायमाने नवनलिने हीरकनिर्मिताभ्यां हंसकाभ्यां चरणवलयाभ्यां सशब्दे कमलसदृशे चरणयुगले। विद्युत् विद्युत्सदृश: पीतपट: कान्तिं याति। अतएव एतादृक्शोभादर्शनाय मानसं यमुनातटे नय।। रूपकातिशयोक्ति:।।४।।
जय जलभृतनवनीरधर सुन्दर नन्दकुमार।
कालिन्दीतटनिकटभुवि विरचितरासविहार।।
विरचितरासविहार मारसुषमामदहारक।
व्रजवनिताशतमोहनाय नानातनुधारक।।
चपलाशतपरिवृतश्यामघनशतशोभामय।
वृन्दावनवसुधाविनोदिलीलाधर जय जय।।५।।
जलेन भृत: पूर्ण: नीरधर: मेघ:। मार: कामदेव:। अनन्तगोपिकानां मोहनाय स्वयमप्यनेकमूर्तिधारक। अतएव प्रत्येकगोप्या: सविधे एकैक: कृष्ण:। नानामूर्तिधारणेन विद्युच्छतपरिवृतं यत् श्यामघनानां शतं तच्छोभामय। विनोदिनी या लीला।।५।।
व्रजनायकनयनाञ्चलं न्यञ्चति चेद् विभवेन।।
भूरिभयानकभवविपद् विलयमुपैति पलेन।।
विलयमुपैति पलेन रश्मिरोधकघनतिमिरम्।
भाग्यभानुरभिभाति याति शोकानां शिबिरम्।।
दुष्टदैत्यदलदलन देवगणमङ्गलदायक।
कोटिकोटिकन्दर्परुचिर जय जय व्रजनायक।।६।।
भाग्यवैभवेन हरेर्नयनाञ्चलं यदि न्यञ्चति मदुपरि पतति। तिमिरं दौर्भाग्यरूपम्, अज्ञानरूपम् वा। शिबिरं समूह:।।६।।
रूपमुग्धा गोपी
वनमाली विहरति वने जलदाली जटिलास्ति।
याति चांशुमाली शमं चपला नभसि चकास्ति।।
चपला नभसि चकास्ति कास्ति तव नारी निकटे।
को मार्गं तव बोधयेत मार्गेऽस्मिन् विकटे।।
यदवधि नन्दात्मजोऽलोकि मुरलीरवशाली।
तदवधि संदानिता नैति वृन्दावनमाली।।७।।
जलदानाम् आली घटा। अंशुमाली सूर्य: शमम् अस्तं याति। का नारी सहायिका। अन्यस्या निजसख्या वृत्तान्तं सूचयित्वा सखी परिबोधयति यत् तया मे प्रियसख्या मुरलीवादनशाली हरि: यदवधि अलौकि दृष्ट: तदवधि संदानिता प्रेमपाशबद्धा सा आली वृन्दावनं नैति, अपितु गृहं विहाय नन्दसूनोरनुसारेण वनाद्वनं विचरतीत्यर्थ:।।७।।
(४२)
षट्पद (छप्पय)- पटलम्
जयति जलधिपरिरचितशेषशय्योपरिशायी ।
नाभिनलिननिस्सरच्चतुर्मुखनुतिपरिचायी ।।
कमलाकरकमलाभिजातसंवाहनशाली ।
कौस्तुभमणिविभ्राजदुरसि विलुठद्वनमाली।।
य: प्रणमदमरमुकुटच्छटानीराजितचरणो लसति।
स हि सकललोकविलसितविभो विभुर्विश्वरूपो जयति।।१।।
चतुर्मुखस्य नुतिं स्तुतिं परिचिनोति स्वीकरोतीति यावत्। कमलाया: करकमलाभ्यां संजातं यत्संवाहनं पदसंवाहनम्। विभ्राजमाने उरसि विलुठन्ती वनमाला यस्य। सकलेषु लोकेषु विलसिता विभा कान्तिर्यस्य। भगवत्कलां विना लोकानां स्थितिरेव न।।१।।
जय जलजासनविहितरम्यसामस्तुतिभासिन्।
जय जलनिधिजाहृदयवसतिवैकुण्ठविलासिन्।।
जय जलजोपमचरणचञ्चरीकायितमुनिचय।
जय जलजायितनयननाट्यनिष्पाद्यजगत्त्रय।।
जय जलधरनिभनीलरुचिरोचितमञ्जुलमूर्तिधर।
जय जडजङ्गमविश्वचर दामोदर दैतेयहर।।२।।
कमलासनेन ब्रह्मणा विहिता या साम्ना सामवेदेन स्तुति:। सागरकन्यका (लक्ष्मी) हृदयनिवासी चासौ वैकुण्ठविलासी चेति कर्म धारय:। कमलसदृशस्य नयनस्य नाट्येन इङ्गितेन निष्पाद्यं प्रादुर्भावनीयं जगत्त्रयं यस्य। नीलरुच्या रोचिता प्रकाशिता या मञ्जुला मूर्ति:। जडे जङ्गमे च विश्वस्मिन् संसारे चरति।।२।।
चिन्तामणिचयरचितचारुपीठस्थितचरणे ।
कलकौस्तुभमणिकिरणकर्बुरितदिव्याभरणे।।
प्रणतलोकपालप्रतीक्ष्यकरुणाद्र्रविलोके ।
शिवविरञ्चिदेवाधिदेवविरचितविश्लोके।।
जयविजयपारिषदपाणिना पिहितपुरंदरगतिजवे।
मम मानस! मुदितमुपेयतामस्मिन् मुरजिति माधवे।।३।।
चिन्तामणीनां चयेन राशिना रचितं यत् चारुपीठं चरणस्थापनार्थं चतुष्किका तत्र स्थितौ चरणौ यस्य तस्मिन्। कल: सुन्दर:। किरणै: कर्बुरितानि चित्रीकृतानि दिव्याभरणानि यस्य तस्मिन्। लोकपालै: प्रतीक्षणीय: करुणया आद्र्र: विलोक: दृष्टिपातो यस्य। शिवश्च विरञ्चिश्चेति यौ देवानामधिदेवौ ताभ्यामपि विरचितो विश्लोक: स्तुति: यस्य। पिहित: अवरुद्ध: पुरंदरस्य इन्द्रस्यापि गतेर्वेगो यत्र। इन्द्रोऽपि पारिषदाज्ञयैव अन्तर्गन्तुं शक्नोति। अन्यथा तु सोऽपि द्वारे एव रुद्धगतिर्भवतीत्यर्थ:। मुरविजेतरि माधवे मुदितं प्रमोद: उपेयतां प्राप्यताम्। अनुभूयतामिति यावत्।।३।।
हस्तमेकमुन्नयन् गहनगिरिराजोद्धरणे।
कटितटमपरं करं नयन्नृत्यायोत्तरणे।।
मञ्जुलगुञ्जामाल्यमुरसि विलुलितमावहते।
मूर्द्धनि मणिमयमुकुटमाविनम्रं यो धरते।।
नृत्यचलच्चरणं सकलभक्ताभयकरणं व्रजे।
वनमालाभरणं सदा गोवर्द्धनधरणं भजे।।४।।
गहनो विशाल:। नृत्याय नृत्यं कर्तुम् उत्तरणे रङ्गस्थलावतरणे अपरं करं कटितटम् (कटितटे) नयन्। आविनम्रं अभिमुखभागे ईषद्विनतम् 'श्रीनाथ’ मूर्तेर्ध्यानम्।।४।।
निस्साधनशरणेन येन मर्यादा वितता।
दुर्विनीतदुर्दान्तदलान्निजजनततिरविता ।।
कौरवकुलमभिभूय पाण्डुसुतविपदपनीता।
भारतनाटकसूत्रकृता भुवि नीता गीता।।
निजवचनं विगणय्य निजभक्तवचनमविलङ्घयन्।
जयति पार्थसारथिरयं निखिलदुर्जनान् निर्जयन्।।५।।
वितता सर्वत: प्रसारिता। दुर्दान्तदलात् भक्तजनमण्डली अविता रक्षिता। नाटकसूत्रधारेण येन भुवि नीता, अनेन गीताया दिव्यत्वं ध्वन्यते। निजवच.- अतएव शग्रहणस्य निजां प्रतिज्ञामुल्लङ्घ्य निजभक्तस्य भीष्मस्य वचनं (अहं समरे हरिणा शस्त्रं ग्राहयिष्यामि) अविलङ्घयन् सत्यीकुर्वन् पार्थसारथि: श्रीकृष्ण:।।५।।
सकलसूरिरसनावनीषु बत या परिखेलति।
भक्तिभावमधिगम्य सुजनसम्मुखमुद्वेलति।।
यत्प्रसङ्गतोऽप्याशु कलुषनिचया विनिरस्या:।
परमहंसहर्षाय संनिकर्षावनिरस्या:।।
मञ्जुनाथमानसमिदं जपति निर्भरं गामिमाम्।
अवगाहे गोविन्दगुणगानगहनगङ्गामिमाम्।।६।।
भक्तिभावमुपगम्य सुजनानां सम्मुखे उद्वेलति वर्द्धते, गङ्गापि जातिविशेषस्य गानकीर्तनादिना उद्वेलतीति प्रसिद्धम्। यत्प्रसङ्गमात्रेण पापसमहा:। दूरीकार्या: भवन्ति। अस्या: गङ्गाया: समीपभूमि: हंसानां योगिनां मरालानां च हर्षाय। इदं मे मन: इमां गाम् एतद्वचनम् रटति। किं तत्? आह- गोविन्दगुणगानरूपां गभीरां पूर्वोक्तां गङ्गामवगाहे स्नानार्थं विलोडयामि।।६।।
(४३)
'बरवै’- विलास:
स किल कलानिधिरुदितो व्रजविभवाय।
लोचनगोचरमयतां मत्प्रमदाय।।१।।
वृन्दावनघनवीथीविहरणशालि ।
व्रजभूभाग्यं भवतान्मम परिपालि।।२।।
त्रिभुवनजनक जनार्दन जय जगदीश।
जय करुणावरुणालय देवाधीश।।३।।
व्रजवैभवाय उदित: अवतीर्ण: कलानिधि: श्रीकृष्णचन्द्र:। व्रजभुवो भाग्यं भागधेयं (श्रीकृष्ण:)।।१-३।।
संस्कृत-हिन्दीभाषासमकम्
कोटिकामसमसुन्दर नन्दकिशोर।
जय जय श्रीराधामुखचन्द्रचकोर।।४।।
जय वृषभानुकिशोरीनयनानन्द।
जय विह्वलव्रजवनितालीलाकंद।।५।।
जय जय जगदानन्दन नन्दकुमार।
भवबाधाहर राधाप्राणाधार।।६।।
व्रजवनितानां या लीला: तासां कन्द मूलकारण!।।५।। भव-बाधाहरेति कृष्णसम्बोधनम्। अथवा भवबाधाहरा या राधा तस्या: प्राणाधार।।६।।
संकीर्तन-प्रार्थनम्
कालियकेशिनिषूदन कंसनिकन्द।
कोटिकामकमनीयक यदुकुलकंद।।७।।
गरुडगामिगोवर्द्धनगिरिवरधार ।
गोगोपीगणगोपक गोष्ठाधार।।८।।
माधव मधुमुरमर्दन मञ्जुमुकुन्द।
मुखमुरलीधर मनसिजमाननिकन्द।।९।।
चरितचकितचतुराननगापितगीत ।
वाणीपरिवृढवाणीविभवातीत।।१०।।
पुण्डरीकपुरुलोचन पुरुष पुराण!।
पद्मनाभ पीताम्बर पद्माप्राण!।।११।।
कमनीय एव कमनीयक: स्वार्थे कन्।।७।। गरुडगामी चासौ गोवर्द्धनाख्यगिरेर्धारकश्चेति कर्मधारय:। गणस्य गोपक: गोप्ता।।८।। मुखे मुरल्या: धारक।।९।। नवीनवत्साविष्करणलीलया चकितो यश्चतुरानन: ब्रह्मा तेन गापितानि गीतानि येन स:। वाण्या: परिवृढस्य अधिपते: बृहस्पते: या वाणी तस्या विभवमपि अतीत, वाग्विभवातीतेत्यर्थ:।।१०।। पुण्डरीकवत् पुरुणी विशाले लोचने यस्य तत्सम्बुद्धि:।।११।।
शोभा
माधवमूर्द्धनि मुकुटं द्युतिमुपयाति।
तरुणतमाले तिष्ठन् शिखीव भाति।।१२।।
चिकुरकलापे चञ्चत्कुण्डलभास्ति।
नक्षत्रं ननु नीले नभसि चकास्ति।।१३।।
करकमले हरिमुरली मञ्जु ननाद।
कूजन्निव पिकपोतोऽम्बुरुहि ससाद।।१४।।
मौक्तिकमाला विलसति वक्षसि भूरि।
नूनं नीलनभोऽङ्गणमुडुभिरपूरि।।१५।।
श्यामवर्णस्य श्रीकृष्णस्य मस्तके मयूरपिच्छानां मुकुटं मयूर इव भातीत्यर्थ:।।१२।। चञ्चत्.- चमत्कुर्वत: कुण्डलस्य भा कान्ति: अस्ति।।१३।। हस्तकमले शब्दायमाना मुरली तथा शोभते यथा कूजन् कोकिल-शावक: अम्बुरुहे ससाद (निषसाद, तस्थौ)।।१४।। उडुभि: नक्षत्रै:। श्यामवर्णे वक्ष:स्थले मुक्तासमूहस्तारकासमूह इव राजतीत्यर्थ:।।१५।।
मुरली
मुरलीधर तव मुरली करलीनापि।
चित्रं तरलीकुरुतेऽधरलीढापि।।१६।।
अयि मोहन तव मुरलीस्वरलीनापि।
दीना सा गतिहीना तापमवापि।।१७।।
सखि वृन्दावनवसतेर्दूरमपेहि।
गच्छसि यदि हरिमुरली श्रवसि न देहि।।१८।।
नग्रा सा श्रुतिलग्रा रतिमपहन्ति।
येन हि गृहधनसुजना दूरमयन्ति।।१९।।
करे लीना लग्ना, अधरेण लीढा आस्वादितापि गोपीजनान् तरलान् (चञ्चलान्) कुरुते इति चित्रम्। दूरे स्थिताया:, अन्येन पीताया अपि लोकानां विह्वलीकरणमाश्चर्यमित्यर्थ:।।१६।। मुरलीस्वर.- तव मुरलीस्वरमात्रेणापि सा निश्चला जाता, संतापं च प्रापिता। तव साक्षात्सम्बन्धे तु न जाने तस्या: का दशा स्यादित्याशय:।।१७।। वृन्दावनस्य निवासाद् दूरमपसर। श्रवसि न देहि कर्णे मा कुरु।।१८।। नग्रा निर्लज्जा सा कर्णयोर्लग्रा सती रतिं सांसारिकनिर्वृतिं नाशयति, येन च गृहादीनां विरहो भवति। भगवदेकाश्रयो भवतीति ध्वनि:।।१९।।
कारुण्यप्रार्थना
नन्दतनय विनयं मे किं न शृणोषि।
कर्णे करुणाक्रन्दं किं न करोषि।।२०।।
दीनान् दीनानाथोऽपि यदि जहाति।
तव विरुदे विश्वासं कोऽभ्युपयाति।।२१।।
करुणां करुणाजलधे सपदि विधेहि।
आशोणं दृक्कोणं मयि विनिधेहि।।२२।।
क्षणमपि करुणाकोणाद् यदि वीक्ष्येत।
तर्हि नाथ मम भाग्यं सुपरीक्ष्येत।।२३।।
करुणा.- करुणाजनकम् आक्रन्दम् विलापम्।।२०।। दीनानां आ (समन्तात्) नाथम् इति भाषाप्रसिद्धं नाम। विरुदे दीनोद्धारकेत्यादिस्तुतौ।।२१।। आशोणम् ईषदरुणम्।।२२।। मम भाग्यं सुपरीक्ष्येत, तव दृष्टिकोणपाते एव अहं ब्रह्मादीनामपि प्रशंसनीयो भवेयमिति मम भाग्यपरीक्षां कुर्वित्यर्थ:।।२३।।
भ्रमिभृतभूरिभयानकभवपतितस्य ।
तव पदतरणि: शरणं जगति जनस्य।।२४।।
तव पदसरसिजसेवाहेवाकेन।
ध्रियतामरतिरनल्पा मम हृदयेन।।२५।।
स्वामिनि सर्वसमर्थे किं ध्वनयामि।
दीन: साधनहीनस्त्विति निगदामि।।२६।।
पापाकीर्णं जीर्णं न मामुपेहि।
चरणरेणुकणमात्रात् कृपां विधेहि।।२७।।
भ्रमिभि: आवतैंर्भृतो यो भव: संसारसागर: तन्निपतितस्य। चरणरूपा तरणि: नौका।।२४।। मम हृदयेन तव पदकमलस्य या सेवा तस्या हेवाकेन औत्कण्ठ्येन करणभूतेर्न, हेतुना वा अरति: अनिर्वृति: ध्रियताम्। अहं तव चरणसेवां विना विह्वलस्तिष्ठेयं तथा मह्यं भक्तिं वितरेति प्रार्थना। 'हेवाक’ उत्कण्ठातिशय: 'प्रियप्रणयहेवाकि यतो मानवतीमन:’- (कथासरित्सागर:)।।२५।। स्वामिनि.- त्वं सर्वसमर्थ: स्वामी, अतएव त्वयि किं व्यञ्जयामि। अहं दीन:, तदुपरि साधनैर्हीन इति तु वदामि।।२६।। पापा.- पापिनो जराजीर्णस्य च मम सविधे आगमनपरिश्रमस्य नावश्यकता, पदधूले: कणमात्रं प्रदाय कृपां कुर्वित्यर्थ:।।२७।।
त्रस्त: सकलनिरस्तस्तावदुपैमि।
कृपालोकलवलाभे कस्य बिभेमि?।।२८।।
कं स्मरामि कं यामि च कं विनयामि।
नाथ त्वमेव बोधय, किं कलयामि?।।२९।।
त्वां विहाय विगतेर्मे त्राता कोऽस्ति।
दीननाथ दीनानां दाता कोऽस्ति?।।३०।।
चेद् विचिनोषि चरित्रं नाथ मृतोऽस्मि।
विरुदं तव परिपालय शरणमितोऽस्मि।।३१।।
करुणादृक् तव तरुणाम्भोजसमैव।
शीतलयति भवतप्तान् या सहसैव।।३२।।
सकलै: देवादिभिर्निरस्त: तिरस्कृत: अतएव त्रस्त: सन् त्वामुपैमि तव सविधे आगतोऽस्मि। तव कृपापूर्णो य आलोक: दृष्टिपात: तस्य लाभे सति अहं कस्माद् बिभेमि? न कस्माच्चिदपि भयस्यावश्यकतेत्यर्थ:।।२८।। विनयामि अनुनयामि।।२९।। विगते: गतिरहितस्य।।३०।। यदि मे चरित्रम् अन्विष्यसि तर्हि हे नाथ अहं मृत:, पापिनो मे पुण्यं चरित्रं नास्तीत्याशय:। तव विरुदम् 'अधमोद्धारक’ इति। शरणम् इत: प्राप्तोऽस्मि।।३१।। तरुणं प्रफुल्लं यद अम्भोजं तत्समाना, अतएव भवतप्तान् जनान् सद्य एव शीतलीकरोति।।३२।।
स्वोद्धारप्रार्थने युक्ति:
ग्राहाद् गजपतिरक्षा भवेत् कृतैव।
नूनमजामिलगुप्ति: कृता त्वयैव।।३३।।
गणिकागृध्रगुहादिस्त्वया ह्यगोपि।
कुगतिव्रातत: स्यादपरोऽपि।।३४।।
किंतु नाथ चेत् क्षाम्यसि किमपि वदामि।
पूर्वां गाथां जीर्णामिह जानामि।।३५।।
प्रत्यक्षं हि परोक्षात् प्रबलमुशन्ति।
प्राक्तनविभवान्नूत्नं मधुरमयन्ति।।३६।।
तद् यदि यदुकुलमण्डन! मामवितासि।
अधमोद्धारकविरुदं भूषयितासि।।३७।।
गजपतिरक्षा अवश्यं कृतैव, यद्यपि मया न दृष्टा तथापि शब्दप्रामाण्यात्सा सत्यैव। अजामिलस्य गुप्ति: गोपनम्।।३३।। कुगतीनां कुत्सितगतियुक्तजनानां व्रात: समूह:।।३४।। पूर्वा.- पुरातनी सा कथा जीर्णां जातेति जानामि।।३५।। प्रत्यक्षम्.- ग्राहादीनां रक्षणं परोक्षम्। ततश्च परोक्षात् प्रत्यक्षमेव प्रबलं उशन्ति वाञ्छन्ति जानन्ति। ग्राहादीनां रक्षारूपं ते वैभवं पुरातनम्, प्राचीनवैभवापेक्षया नवीनं वैभवमधिकप्रियं भवति।।३६।। ततश्च यदि त्वं माम् रक्षिष्यसि तर्हि निजविरुदं न केवलं सत्यापयिष्यसि अपि तु पूर्वतोऽप्यधिकप्रमाणितत्वादलंकृतं करिष्यसीत्याशय:।।३७।।
मन: प्रबोधनम्
हृदये हरिपदपङ्कजमङ्कय तात।
विफलं किमिति कलङ्कसि रङ्कसि वाथ।।३८।।
भूरि भ्रमसि भवार्णववीचिवशेन।
हरिचरणाम्बुजनौकां किं श्रयसे न।।३९।।
कितव कियत् कटुकृतिभि: कीर्तिरपोषि।
हरिपरिचरणे रचनां किं न करोषि।।४०।।
तात! निष्फलं किमिति जनसमाजस्य कलङ्क इव भवसि, किमिति च रङ्क इव दीन इवाचरसि। हृदये भगवच्चरणकमलमुद्रां धारय। कलङ्कसीत्यादि आचारे क्विप्।। वीचीनां वशेन वशीभावेन।।३८-३९।। सांसारिकीभि: कट्वीभि: कृतिभि: कियत्कीर्ति: अपोषि उपार्जिता न किंचिदपीत्यर्थ:। भगवदाराधने वाग्रचनां किं न प्रवर्तयसि।।४०।।
भगवन्महिमा
येऽमी लोकपतीनां पदमुपयन्ति।
ते तव दृग्विभवानां लवा जयन्ति।।४१।।
वैज्ञानिकबलदृप्तान्यतिविभवानि ।
पश्यसि पश्चिमराष्ट्राण्याजिगतानि।।४२।।
विलयनशीला तेऽसौ भ्रूलीलास्ति।
नाथ भवद्विभवाग्रे कोऽत्र चकास्ति।।४३।।
येऽमी साधका: इन्द्रादिलोकपालानां पदं प्राप्नुवन्ति ते तव दृष्टिवैभवानां लेशा:। दृष्टिलवप्राप्त्यैव दिव्यविभूति: सुलभेत्याशय:।।४१।। अस्मिन् समये वैज्ञानिकबलगर्विष्ठानि भूरिवैभवानि जर्मनी-रशिया-इंगलैण्डादि पाश्चात्यराष्ट्राणि आजि (युद्ध)-गतानि यत्पश्यसि, असौ लोकानां प्रलयकरणशीला तव भ्रूलीला। तव भु्रकुटि: सम्प्रत्येषां विलयं वाञ्छतीत्यत एवैते अभिमानमत्ता युद्ध्यन्ते इत्यर्थ:। १९४१-४२-४३ तम ख्रिष्टीयवत्सरेषु प्रचलतो यूरोप (जर्मनी) युद्धस्य तदिदं स्मरणम्।।४२-४३।।
यशोदां प्रति गोप्युपालम्भ:
नन्दगृहिणि! निजतनय: किमिदमबोधि।
अमुना यमुनारोधसि सरणिररोधि।।४४।।
निजपुत्र: किमिदं शिक्षितो यत् अमुना यमुनातटे मार्ग एवावरुद्ध:।।४४।।
द्वादशमासी१
मार्गे मुररिपुमुरली मानमुदस्य।
मङ्क्षु मोदमङ्कुरयति मनसि न कस्य।।४५।।
पौषे शीतलपवना जवना वान्ति।
मोहनमालिङ्गन्त्यो मुदमुपयान्ति।।४६।।
माघमासि यमुनायामुषसि निमज्ज्य।
महिला मधुरिपुमवृणन् भृशमनुरज्य।।४७।।
फाल्गुन फलयसि कामान् व्रजवामासु।
कलयति होलाखेलां हरिरेतासु।।४८।।
चैत्रे चित्रं चन्द्रो निशि समुदेति।
सखि सोऽयं व्रजचन्द्रोऽनिशमुदमेति।।५९।।
वैशाखेऽत्र विशाखे! सीदसि केन।
किं न मोदमुपयाया व्रजरसिकेन।।५०।।
ज्येष्ठे प्रेष्ठमुखेन्दुं दृशि विनिधाय।
गोपी ग्रीष्मं मेने मनसि तृणाय।।५१।।
जनयति मुहुरभिलाषानाषाढोऽपि।
आशां पूरयतान्नवजलद: कोऽपि।।५२।।
श्रावण! जगदानन्दति हिन्दोलेन।
किं दोलयसि मनो मे हरिविरहेण।।५३।।
भाद्रे भूमिर्हरिताम्बुभृतानेन।
स्यान्मे हृद्भूर्हरिता हरितानेन।।५४।।
आश्विनमासि हिमांशुर्नभसि विभातु।
मम तु श्यामसुधांशुर्मुदमुपयातु।।५५।।
कार्तिकदीपालीयं व्यालीयेत।
मम हृदि यदि वनमाली नालीयेत।।५६।।
१. द्वादशमासेषु नायिकादेर्विरहादिवर्णनपर: संदर्भो 'बारहमासी’ नाम्ना भाषायां विश्रुत:। तदनुसारेण सेयं 'दामोदरद्वादशमासी’। द्वादशमासानां समाहार:।
द्वादशमासी महतां महिता याति।
हरिचरितामृतसरिता यत्र पुनाति।।५७।।
मार्गे आग्रहायणमासे, अध्वनि इत्यपि ध्वनि:। मानिनीनां मानम् उदस्य दूरीकृत्य।।४५।। जवना: जव (वेग) युक्ता:। मोहनसंयोगिन्यो नायिका: प्रसीदन्ति, विरहिण्यश्च विषीदन्तीत्याशय:।।४६।। व्रजमहिला अनुरक्ता भूत्वा माघस्नानफलत्वेन श्रीकृष्णमेव वृण्वन्ति स्म।।४७।। हे फाल्गुन! व्रजनारीणां कामान् त्वं सफलान् करोषि यद् हरि: एतासु व्रजनारीषु होलिकाक्रीडां करोति।।४८।। विशाखा. एतन्नाम्नी राधासखी। व्रजस्यैकमात्ररसिकेन श्रीकृष्णेन मोदं आनन्दम् किं न प्राप्नोषि?।।५०।। आषाढमास: उत्कण्ठावशान् नानामनोरथान् जनयति, किंतु मम आशां नवीनो जलद: श्रीकृष्ण: पूर्यात्।।५२।। जगदानन्द.- जगत् हिन्दोलाक्रीडया आनन्दति आनन्दितं भवति।।५३।। इयं भू: अनेन अम्बुभृता मेघेन हरिता हरितवर्णा, मम हृदयभूमिस्तु हरे: तानेन वंशीस्वरलहर्या हरिता प्रफुल्ला स्यात्। मम तु.- मम तु मनसि श्यामरूपश्चन्द्रो मोदताम्।।५५।। मम हृदये यदि वनमालीं न आलीयेत लीनो भवेत् माम् न आलिङ्गेत्। तर्हि कार्तिकमासस्य दीपावली व्यालीयेत व्यालीव आचरेत्, सर्पिणीव मां हृदये पीडयेदित्यर्थ:।।५६।। महतां पुण्यकृताम् द्वादशमासी (द्वादशमासा:) महिता अभिनन्दनीया सती व्यत्येति, यत्र हरिचरित्रनदी पवित्रयति।।५७।।