प्रत्यक्षनामा

द्वितीय: परिच्छेद:

{प्रमाणस्य द्वैविध्यप्रदर्शनपूर्वकं}

तत्र संख्याविप्रतिपत्तिनिराकरणम्‌

मानं द्विविधं विषयद्वैविध्यात्‌; शक्त्यक्तित:।

अर्थक्रियायाम्‌; केशादिर्नार्थोऽनर्थाधिमोक्षत:।।1।।

सदृशासदृशत्वाच्च विषयाविषयत्वत:।

शब्दस्यान्यनिमित्तानां भावे धीसदसत्त्वत:*।।2।। (पा0टि0- *धी:0सदसत्वत:-रा0)

{सत्यद्वयविचार:}

अर्थक्रियासमर्थं यत्‌ तदत्र परमार्थसत्‌।

अन्यत्‌ संवृतिसत्‌ प्रोक्तम्‌; ते स्वसामान्यलक्षणे।।3।।

{सामान्यतत्कल्पनानिरास:}

अशक्तं सर्वमिति चेद् बीजादेरङ्‌कुरादिषु।

दृष्टा शक्ति:; मता सा चेत्‌ संवृत्याऽस्तु यथा तथा।।4।।

{सामान्यविचार:}

सास्ति सर्वत्र चेद् बुद्धेर्नान्वयव्यतिरेकयो:।

सामान्यलक्षणेऽदृष्टे: चक्षूरूपादिबुद्धिवत्‌।।5।।

एतेन समयाभोगाद्यन्तरङ्‌गानुरोधत:।

घटोत्क्षेपणसामान्यसंख्यादिषु धियो गता:।।6।।

केशादयो न सामान्यमनर्थाभिनिवेशत:।

ज्ञेयत्वेन ग्रहाद् दोषो नाभावेषु प्रसज्यते।।7।।

तेषामपि तथाभावेऽप्रतिषेधात्‌; स्फुटाभता।

ज्ञानरूपतयार्थत्वात्‌; केशादीति मति: पुन:।।8।।

सामान्यविषया; केशप्रतिभासमनर्थकम्‌।

ज्ञानरूपतयार्थत्वे सामान्ये चेत्‌ प्रसज्यते ?।।9।।

तथेष्टत्वाददोष:; अर्थरूपत्वेन समानता।

सर्वत्र समरूपत्वात्‌ तद्व्यावृत्तिसमाश्रयात्‌।।10।।

न तद् वस्त्वभिधेयत्वात्‌ साफल्यादक्षसंहते:।

नामादिवचने वक्तृश्रोतृवाच्यानुबन्धिनि।।11।।

असम्बन्धिनि नामादावर्थे स्यादप्रवर्त्तनम्‌।

सारूप्याद् भ्रान्तितो वृत्तिरर्थे चेत्‌ स्यान्न सर्वदा।।12।।

 

देशभ्रान्तिश्च, न ज्ञाने तुल्यमुत्पत्तितो धिय:।

तथाविधाया:; अन्यत्र तत्रानुपगमाद् धिय:।।13।।

बाह्यार्थप्रतिभासाया उपाये वाऽप्रमाणता।

विज्ञानव्यतिरिक्तस्य; व्यतिरेकाप्रसिद्धित:।।14।।

सर्वज्ञानार्थवत्त्वाच्चेत्‌ स्वप्नादावन्यथेक्षणात्‌।

अयुक्तम्‌, न च संस्कारान्नीलादिप्रतिभासत:।।15।।

नीलाद्यप्रतिघातान्न; ज्ञानं तद् योग्यदेशकै:।

अज्ञातस्य स्वयं ज्ञानात्‌, नामाद्येतेन वर्णितम्‌।।16।।

सैवेष्टार्थवती केन चक्षुरादिमति: स्मृता।

अर्थसामर्थ्यदृष्टेश्चेदन्यत्‌ प्राप्तमनर्थकम्‌।।17।।

अप्रवृत्तिरसम्बन्धेऽप्यर्थसम्बन्धवद् यदि।

अतीतानागतं वाच्यं न स्यादर्थेन तत्क्षयात्‌।।18।।

सामान्यग्रहणाच्छब्दादप्रसङ्‌गो मतो यदि।

तन्न केवलसामान्याग्रहणाद् ग्रहणेऽपि वा।।19।।

अतत्समानताव्यक्ती तेन नित्योपलम्भनम्‌।

नित्यत्वाच्च यदि व्यक्तिर्व्यक्ते: प्रत्यक्षतां प्रति।।20।।

आत्मनि ज्ञानजनने यच्छक्तं शक्तमेव तत्‌।

अथाशक्तं कदाचिच्चेदशक्तं सर्वदैव तत्‌।।21।।

तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता।

नित्यत्वादपि किं तस्य कस्तां क्षपयितुं क्षम: !।।22।।

तच्च सामान्यविज्ञानमनुरुन्धन्‌ विभाव्यते।

नीलाद्याकारलेशो य: स तस्मिन्‌ केन निर्मित:।।23।।

प्रत्यक्षप्रत्ययार्थत्वान्नाक्षाणां व्यर्थतेति चेत्‌।

सैवैकरूपाच्छब्दादेर्भिन्नाभासा मति: कुत:।।24।।

न जातिर्जातिमद् व्यक्तिरूपं येनापराश्रयम्‌।

सिद्धम्‌; पृथक्‌ चेत्‌ कार्यत्वं ह्यपेक्षेत्यभिधीयते।।25।।

निष्पत्तेरपराधीनमपि कार्यं स्वहेतुत:।

सम्बध्यते कल्पनया किमकार्यं कथञ्चन।।26।।

अन्यत्वे तदसम्बद्धं सिद्धाऽतो नि:स्वभावता।

जातिप्रसङ्‌गोऽभावस्य न; अपेक्षाभावतस्तयो:।।27।।

तस्मादरूपा रूपाणां नाश्रयेणोपकल्पिता।

तद्विशेषावगाहार्थैर्जाति: शब्दै: प्रकाश्यते।।28।।

तस्यां रूपावभासोऽयं तत्त्वेनार्थस्य वा ग्रह:।

भ्रान्ति: सा; अनादिकालीनदर्शनाभ्यासनिर्मिता।।29।।

अर्थानां यच्च सामान्यमन्यव्यावृत्तिलक्षणम्‌।

यन्निष्ठास्त इमे शब्दा न रूपं तस्य किञ्चन।।30।।

सामान्यबुद्धौ सामान्येनारूपायामवीक्षणात्‌।

अर्थभ्रान्तिरपीष्येत सामान्यं सापि; अभिप्लवात्‌।।31।।

अर्थरूपतया तत्त्वेनाभावाच्च न रूपिणी।

नि:स्वभावतयाऽवाच्यं कुतश्चिद् वचनान्मतम्‌।।32।।

यदि वस्तुनि वस्तूनामवाच्यत्वं कथञ्चन।

नैव वाच्यमुपादानभेदाद् भेदोपचारत:।।33।।

अतीतानागतेऽप्यर्थे सामान्यविनिबन्धना:।

श्रुतयो निविशन्ते सदसद्धर्म: कथं भवेत्‌ !।।34।।

उपचारात्‌ तदिष्टं चेद् वर्त्तमानघटस्य का।

प्रत्यासत्तिरभावेन या पटादौ न विद्यते।।35।।

बुद्धेरस्खलिता वृत्तिर्मुख्यारोपितयो: सदा।

सिंहे माणवके तद्वद् घोषणाप्यस्ति लौकिकी।।36।।

यत्र रूढ्याऽसदर्थोऽपि जनै: शब्दो निवेशित:।

स मुख्यस्तत्र तत्साम्याद् गौणोऽन्यत्र स्खलद्गति:।।37।।

यथा भावेऽप्यभावाख्यां यथाकल्पनमेव वा।

कुर्यादशक्ते शक्ते वा प्रधानादिश्रुतिं जन:।।38।।

शब्देभ्यो यादृशी बुद्धिर्नष्टेऽनष्टेऽपि दृश्यते।

तादृश्येव, सदर्थानां नैतच्छ्रोत्रादिचेतसाम्‌।।39।।

सामान्यमात्रग्रहणात्‌ सामान्यं चेतसोर्द्वयो:।

तस्यापि केवलस्य प्राग्‌ ग्रहणं विनिवारितम्‌ ।।40।।

परस्परविशिष्टानामविशिष्टं कथं भवेत्‌ !।

तथा द्विरूपतायां वा तद् वस्त्वेकं कथं भवेत्‌ ! ।।41।।

ताभ्यां तदन्यदेव स्याद् यदि रूपं समं तयो:।

तयोरिति न सम्बन्धो व्यावृत्तिस्तु न दुष्यति।।42।।

तस्मात्‌ समानतैवास्मिन्‌ सामान्येऽवस्तुलक्षणम्‌।

कार्यं चेत्‌ तदनेकं स्यान्नश्वरं च न तन्मतम्‌।।43।।

वस्तुमात्रानुबन्धित्वाद् विनाशस्य न नित्यता।

असम्बन्धश्च जातीनामकार्यत्वादरूपता।।44।।

यच्च वस्तुबलाज्ज्ञानं जायते तदपेक्षते।

न संकेतं न सामान्यबुद्धिष्वेतद् विभाव्यते।।45।।

याप्यभेदानुगा बुद्धि: काचिद् वस्तुद्वयेक्षणे।

संकेतेन विना सार्थप्रत्यासत्तिनिबन्धना।।46।।

प्रत्यासत्तिर्विना जात्या यथेष्टा चक्षुरादिषु।

ज्ञानकार्येषु जातिर्वा यथान्वेति विभागत:।।47।।

कथञ्चिदपि विज्ञाने तद्रूपानवभासत:।

यदि नामेन्द्रियाणां स्याद् द्रष्टा भासेत तद्वपु:।।48।।

रूपवत्त्वात्‌;  न जातीनां केवलानामदर्शनात्‌।

व्यक्तिग्रहे च तच्छब्दरूपादन्यन्न दृश्यते।।49।।

ज्ञानमात्रार्थकरणेऽप्ययोग्यमत एव तत्‌।

तदयोग्यतयाऽरूपं तद्ध्यवस्तुषु लक्षणम्‌।।50।।

यथोक्तविपरीतं यत्‌ तत्‌ स्वलक्षणमिष्यते।

सामान्यं त्रिविधम्‌, तच्च भावाभावोभयाश्रयात्‌।।51।।

यदि भावाश्रयं ज्ञानं भावे भावानुबन्धत:।

नोक्तोत्तरत्वाद् दृष्टत्वाद्; अतीतादिषु चान्यथा।।52।।

भावधर्मत्वहानिश्चेत्‌ भावग्रहणपूर्वकम्‌।

तज्ज्ञानमित्यदोषोऽयम्‌, मेयं त्वेकं स्वलक्षणम्‌।।53।।

तस्मादर्थक्रियासिद्धे: सदसत्ताविचारणात्‌।

तस्य स्वपररूपाभ्यां गतेर्मेयद्वयं मतम्‌।।54।।

{अनुमानविचार:}

अयथाभिनिवेशेन द्वितीया भ्रान्तिरिष्यते।

गतिश्चेत्‌ पररूपेण न च भ्रान्ते: प्रमाणता।।55।।

अभिप्रायाविसंवादादपि भ्रान्ते: प्रमाणता।

गतिरप्यन्यथा दृष्टा, पक्षश्चायं कृतोत्तर:।।56।।

मणिप्रदीपप्रभयोर्मणिबुद्ध्याभिधावतो:।

मिथ्याज्ञानाविशेषेऽपि विशेषोऽर्थक्रियां प्रति।।57।।

यथा तथाऽयथार्थत्वेऽप्यनुमानतदाभयो:।

अर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम्‌।।58।।

बुद्धिर्यत्रार्थसामर्थ्यादन्वयव्यतिरेकिणी।

तस्य स्वतन्त्रं ग्रहणमतोऽन्यद् वस्त्वतीन्द्रियम्‌।।59।।

 

तस्यादृष्टात्मरूपस्य गतेरन्योऽर्थ आश्रय:।

तदाश्रयेण सम्बन्धी यदि स्याद् गमकस्तदा।।60।।

गमकानुगसामान्यरूपेणैव तदा गति:।

तस्मात्‌ सर्व: परोक्षोऽर्थो विशेषेण न गम्यते।।61।।

या च सम्बन्धिनो धर्माद् भूतिर्धर्मिणि ज्ञायते।

सानुमानं परोक्षाणामेकान्तेनैव साधनम्‌।।62।।

न प्रत्यक्षपरोक्षाभ्यां मेयस्यान्यस्य सम्भव:।

तस्मात्‌ प्रमेयद्वित्वेन प्रमाणद्वित्वमिष्यते।।63।।

त्र्येकसंख्यानिरासो वा प्रमेयद्वयदर्शनात्‌।

एकमेवाप्रमेयत्वादसतश्चेन्मतं च न:।।64।।

अनेकान्तोऽप्रमेयत्वेऽसद्भावस्य विनिश्चय:।

तन्निश्चयप्रमाणं वा द्वितीयम्‌; नाक्षजा मति:।।65।।

अभावेऽर्थबलाज्जातेरर्थशक्त्यनपेक्षणे।

व्यवधानादिभावेऽपि जायेतेन्द्रियजा मति:।।66।।

अभावे विनिवृत्तिश्चेत्‌ प्रत्यक्षस्यैव निश्चय:।

विरुद्धं सैव वा लिङ्‌गमन्वयव्यतिरेकिणी।।67।।

सिद्धं च परचैतन्यप्रतिपत्ते: प्रमाद्वयम्‌।

व्यवहारादौ प्रवृत्तेश्च सिद्धस्तद्भावनिश्चय:।।68।।

प्रमाणमविसंवादात्‌ तत्‌ क्वचिद् व्यभिचारत:।

नाश्वास इति चेल्लिङ्‌गं दुर्दृष्टिरेतदीदृशम्‌।।69।।

यत: कदाचित्‌ सिद्धाऽस्य प्रतीतिर्वस्तुन: क्वचित्‌।

तदवश्यं ततो जातं तत्स्वभावोऽपि वा भवेत्‌।।70।।

स्वनिमित्तात्‌ स्वभावाद् वा विना नार्थस्य सम्भव:।

यच्च रूपं तयोर्दृष्टं तदेवान्यत्र लक्षणम्‌।।71।।

स्वभावे स्वनिमित्ते वा दृश्ये दर्शनहेतुषु।

अन्येषु सत्स्वदृश्ये च सत्ता वा तद्वत: कथम्‌!।।72।।

अप्रामाण्ये च सामान्यबुद्धेस्तल्लोप आगत:।

प्रेत्यभाववद्; अक्षैस्तत्‌ पर्यायेण प्रतीयते।।73।।

तच्च नेन्द्रियशक्त्यादावक्षबुद्धेरसम्भवात्‌।

अभावप्रतिपत्तौ स्याद् बुद्धेर्जन्मानिमित्तकम्‌।।74।।

स्वलक्षणे च प्रत्यक्षमविकल्पतया विना।

विकल्पेन न सामान्यग्रहस्तस्मिंस्ततोऽनुमा।।75।।

प्रमेयनियमे वर्णानित्यता न प्रतीयते।

प्रमाणमन्यत्‌ तद्बुद्धिर्विना लिङ्‌गेन सम्भवात्‌।।76।।

विशेषदृष्टे लिङ्‌गस्य सम्बन्धस्याप्रसिद्धित:।

तत्‌ प्रमाणान्तरं मेयबहुत्वाद् बहुतापि वा।।77।।

प्रमाणानामनेकस्य वृत्तेरेकत्र वा यथा।

विशेषदृष्टेरेकत्रिसंख्यापोहो न वा भवेत्‌।।78।।

विषयानियमादन्यप्रमेयस्य च सम्भवात?

योजनाद् वर्णसामान्ये नायं दोष: प्रसज्यते।।79।।

नावस्तुरूपं तस्यैव तथा सिद्धे:* प्रसाधनात्‌।

अन्यत्र नान्यसिद्धिश्चेन्न तस्यैव प्रसिद्धित:।।80।। पा0टि0- *सिद्धे-रा0)

यो हि भावो यथाभूतो स तादृग्लिङ्‌गचेतस:।

हेतुस्तज्जा तथाभूते तस्माद् वस्तुनि लिङ्गिधी:।।81।।

लिङ्‌गलिङ्गिधियोरेवं पारम्पर्येण वस्तुनि।

प्रतिबन्धात्‌ तदाभासशून्ययोरप्यवञ्चनम्‌।।82।।

तद्रूपाध्यवसायाच्च तयोस्तद्रूपशून्ययो:।

तद्रूपावञ्‌चकत्वेऽपि कृता भ्रान्तिव्यवस्थिति:।।83।।

तस्माद् वस्तुनि बोद्धव्ये व्यापकं व्याप्यचेतस:।

निमित्तं तत्स्वभावो वा कारणम्‌, तञ्च तद्धिय:।।84।।

{अनुपलब्धिविचार:}

प्रतिषेधस्तु सर्वत्र साध्यतेऽनुपलम्भत:।

सिद्धिं प्रमाणैर्वदतामर्थादेव विपर्ययात्‌।।85।।

दृष्टा विरुद्धधर्मोक्तिस्तस्य तत्कारणस्य वा।

निषेधे यापि तस्यैव साऽप्रमाणत्वसूचना।।86।।

अन्यथैकस्य धर्मस्य स्वभावोक्त्या परस्य तत्‌।

नास्तित्वं केन गम्येत; विरोधाच्चेद्, असावपि।।87।।

सिद्ध: केनासहस्थानादिति चेत्‌, तत्‌ कुतो मतम्‌ !।

दृश्यस्य दर्शनाभावादिति चेत्‌, साऽप्रमाणता।।88।।

तस्मात्‌ स्वशब्देनोक्तापि साऽभावस्य प्रसाधिका।

यस्याप्रमाणं साऽवाच्यो निषेधस्तेन सर्वथा।।89।।

एतेन तद्विरुद्धार्थकार्योक्तिरुपवर्णिता।

प्रयोग: केवलं भिन्न: सर्वत्रार्थो न भिद्यते।।90।।

विरुद्धं तच्च सोपायमविधायापिधाय च।

प्रमाणोक्तिर्निषेधे या न साम्नायानुसारिणी।।91।।

उक्त्यादे: सर्ववित्प्रेत्यभावादिप्रतिषेधवत्‌।

अतीन्द्रियाणामर्थानां विरोधस्याप्रसिद्धित:।।92।।

बाध्यबाधकभाव: क: स्यातां यद्युक्तिसंविदौ।

तादृशोऽनुपलब्धेश्चेद्, उच्यतां सैव साधनम्‌।।93।।

अनिश्चयकरं प्रोक्तमीदृक्‌ क्वानुपलम्भनम्‌।

तन्नात्यन्तपरोक्षेषु सदसत्ताविनिश्चयौ।।94।।

भिन्नोऽभिन्नोऽपि वा धर्म: स विरुद्ध: प्रयुज्यते*।

यथाऽग्निरहिमे साध्ये सत्ता वा जन्मबाधनी।।95।। (पा0टि0- *प्रसज्यते-पाठा0)

यथा वस्त्वेव वस्तूनां साधने साधनं मतम्‌।

तथा वस्त्वेव वस्तूनां स्वनिवृत्तौ निवर्त्तकम्‌।।96।।

एतेन कल्नान्यस्तो यत्र क्वचन सम्भवात्‌।

धर्म: पक्षसपक्षान्यतरत्वादिरपोदित:।।97।।

तत्रापि व्यापको धर्मो निवृत्तेर्गमको मत:।

व्याप्यस्य स्वनिवृत्तिश्चेत्‌ परिच्छिन्ना कथञ्चन।।98।।

यदप्रमाणताऽभावे लिङ्‌गं तस्यैव कथ्यते।

तदत्यन्तविमूढार्थम्‌; आगोपालमसंवृते:*।।99।।( पा0टि0- *मसंवृत्ते:-रा0। एवं वृत्तावपि)

एतावन्निश्चयफलमभावेऽनुपलम्भनम्‌।

तच्च हेतौ स्वभावे वाऽदृश्ये दृश्यतया मते।।100।।

अनुमानादनित्यादेर्ग्रहणेऽयं क्रमो मत:।

प्रामाण्यमेव नान्यत्र गृहीतग्रहणान्मतम्‌।।101।।

नान्यास्यानित्यता भावात्‌ पूर्वं सिद्ध: स चैन्द्रियात्‌।

नानेकरूपो वाच्योऽसौ; वाच्यो धर्मो विकल्पज:।।102।।

सामान्याश्रयसंसिद्धौ सामान्यं सिद्धमेव तत्‌।

तदसिद्धौ तथास्यैव ह्यनुमानं प्रवर्तते।।103।।

क्वचित्‌ तदपरिज्ञानं सदृशापरसम्भवात्‌।

भ्रान्तेरपश्यतो भेदं मायागोलकभेदवत्‌।।104।।

तथा ह्यलिङ्‌गमाबालमसंश्लिष्टोत्तरोदयम्‌।

पश्यन्‌ परिच्छिनत्त्येव दीपादि नाशिनं जन:।।105।।

भावस्वभावभूतायामपि शक्तौ फलेऽदृश:।

अनानन्तर्यतो मोहो विनिश्चेतुरपाटवात्‌।।106।।

तस्यैव विनिवृत्त्यर्थमनुमानोपवर्णनम्‌।

व्यवस्यन्तीक्षणादेव सर्वाकारान्‌ महाधिय:।।107।।

व्यावृत्ते सर्वतस्तस्मिन्‌ व्यावृत्तिविनिबन्धना।

बुद्धयोऽर्थे प्रवर्त्तन्तेऽभिन्ने भिन्नाश्रया इव।।108।।

यथाचोदनमाख्याश्च सोऽसति भ्रान्तिकारणे।

प्रतिभा: प्रतिसन्धत्ते स्वानुरूपा: स्वभावत:।।109।।

सिद्धोऽत्राप्यथवा ध्वंसो लिङ्‌गादनुपलम्भनात्‌।

प्राग्भूत्वा ह्यभवन्‌* भावोऽनित्य इत्यभिधीयते।।110।। (पा0टि0- *ह्यमवद्-रा0)

यस्योभयान्तव्यवधिसत्तासम्बन्धवाचिनी।

अनित्यताश्रुतिस्तेन तावन्ताविति कौ स्मृतौ।।111

प्राक्‌ पश्चादप्यभावश्चेत्‌ स एवानित्यता न किम्‌!

षष्ठ्याद्ययोगादिति चेद् अन्तयो: स कथं भवेत्‌ !।।112।।

सत्ता सम्बन्धयोर्ध्रौव्यादन्ताभ्यां न विशेषणम्‌।

अविशेषणमेव स्यादन्तौ चेत्‌ कार्यकारणे।।113।।

असम्बन्धान्न भावस्य प्रागभावं स वाञ्छति।

तदुपाधिसमाख्याने तेऽप्यस्य च न सिध्यत:।।114।।

सत्ता स्वकारणाश्लेषकरणात्‌ कारणं किल।

सा सत्ता स च सम्बन्धो नित्यौ कार्यमथेह किम्‌।।115।।

यस्याभाव: क्रियेतासौ न भाव: प्रागभाववान्‌।

सम्बन्धानभ्युपगमान्नित्यं विश्वमिदं तत:।।116।।

तस्मादनर्थास्कन्दिन्योऽभिन्नार्थाभिमतेष्वपि।

शब्देषु वाच्यभेदिन्यो व्यतिरेकास्पदं धिय:।।117।।

विशेषप्रत्यभिज्ञानं न प्रतिक्षणभेदत:।

न वा विशेषविषयं दृष्टसाम्येन तद्ग्रहात्‌।।118।।

निदर्शनं तदेवेति सामान्याग्रहणं यदि।

निदर्शनत्वात्‌ सिद्धस्य प्रमाणेनास्य किं पुन:।।119।।

विस्मृत्वाददोषश्चेत्‌ तत एवानिदर्शनम्‌।

दृष्टे तद्भावसिद्धिश्चेत्‌ प्रमाणाद्; अन्यवस्तुनि।।120।।

तत्त्वारोपे विपर्यासस्तत्सिद्धेरप्रमाणता।

प्रत्यक्षेतरयोरैक्यादेकसिद्धिर्द्वयोरपि।।121।।

सन्धीयमानं चान्येन व्यवसायं स्मृतिं विदु:।

तल्लिङ्‌गापेक्षणान्नो चेत्‌ स्मृतिर्न व्यभिचारत:।।122।।

 

{प्रत्यक्षविचार:}

{लक्षणविप्रतिपत्तिनिराकरणम्‌}

प्रत्यक्षं कल्पनापोढं प्रत्यक्षेणैव सिध्यति।

प्रत्यात्मवेद्य: सर्वेषां विकल्पो नामसंश्रय:।।123।।

संहृत्य सर्वतश्चिन्तां स्तिमितेनान्तरात्मना।

स्थितोऽपि चक्षुषा रूपमीक्षते साक्षजा मति:।।124।।

पुनर्विकल्पयन्‌ किञ्चिदासीन्मे कल्पनेदृशी।

वेत्ति चेति न पूर्वोक्तावस्थायामिन्द्रियाद् गतौ।।125।।

एकत्र दृष्टो भेदो हि क्वचिन्नान्यत्र दृश्यते।

न तस्माद् भिन्नमस्त्यन्यत्‌ सामान्यं बुद्ध्यभेदत:।।126।।

तस्माद् विशेषविषया सर्वैवेन्द्रियजा मति:।

न विशेषेषु शब्दानां प्रवृत्तावस्ति सम्भव:।।127।।

अनन्वयाद् विशेषाणां सङ्‌केतस्याप्रवृत्तित:।

विषयो यश्च शब्दानां संयोज्येत स एव तै:।।128।।

अस्येदमिति सम्बन्धे यावर्थौ प्रतिभासिनौ।

तयोरेव हि सम्बन्धो न तदेन्द्रियगोचर:।।129।।

विशदप्रतिभासस्य तदार्थस्याविभावनाद्।

विज्ञानाभासभेदो* हि* पदार्थानां विशेषक:।।130।।(पा0टि0- **0भेदश्च-रा0)

चक्षुषाऽर्थावभासेऽपि यं परोऽस्येति शंसति।

स एव योज्यते शब्दैर्न खल्विन्द्रियगोचर:।।131।।

अव्यापृतेन्द्रियस्यान्यवाङ्‌मात्रेणाविभावनात्‌।

न चानुदितसम्बन्ध: स्वयं ज्ञानप्रसङ्‌गत:।।132।।

मनसो युगपद्-वृत्ते: सविकल्पाविकल्पयो:।

विमूढो लघुवृत्तेर्वा तयोरैक्यं व्यवस्यति।।133।।

विकल्पव्यवधानेन विच्छिन्नं दर्शनं भवेत्‌।

इति चेद्, भिन्नजातीयविकल्पेऽन्यस्य वा कथम्‌।।134।।

अलातदृष्टिवद् भावपक्षश्चेद् बलवान्‌ मत:।

अन्यत्रापि समानं तद् वर्णयोर्वा सकृच्छ्रुति:।।135।।

{न्यायमतदूषणम्‌}

सकृत्‌ सङ्‌गतशब्दार्थेष्विन्द्रियेष्विह सत्स्वपि।

पञ्चभिर्व्यवधानेऽपि भात्यव्यवहितेव या।।136।।

सा मतिर्नामपर्यन्तक्षणिकज्ञानमिश्रणात्‌।

विच्छिन्नाभेति तच्चित्रं तस्मात्‌ सन्तु सकृद्धिय:।।137।।

प्रतिभासाविशेषश्च सान्तरानन्तरे कथम्‌।

शुद्धे मनोविकल्पे च न क्रमग्रहणं भवेत्‌।।138।।

योऽग्रह: सङ्‌गतेऽप्यर्थे क्वचिदासक्तचेतस:।

सक्त्यान्योत्पत्तिवैगुण्याच्चोद्यं वै तद् द्वयोरपि।।139।।

शीघ्रवृत्तेरलातादेरन्वयप्रतिघातिनी।

चक्रभ्रान्तिं दृगाधत्ते न दृशां घटनेन सा।।140।।

{शङ्‌करस्वामिप्रभृतिमतखण्डनम्‌}

केचिदिन्द्रियजत्वादेर्बालधीवदकल्पनाम्‌।

आहुर्बालाविकल्पे च हेतुं संकेतमन्दताम्‌।।141।।

तेषां प्रत्यक्षमेव स्याद् बालानामविकल्पनात्‌।

संकेतोपायविगमात्‌ पश्चादपि भवेन्न स:।।142।।

मनो व्युत्पन्नसंकेतमस्ति तेन स चेन्मत:।

एवमिन्द्रियजेऽपि स्याद् शेषवच्चेदमीदृशम्‌।।143।।

यदेव साधनं बाले तदेवात्रापि कथ्यताम्‌।

साम्यादक्षधियामुक्तमनेनानुभवादिकम्‌।।144।।

{सामान्यनिराकरणम्‌}

विशेषणं विशेष्यञ्च सम्बन्धं लौकिकीं स्थितिम्‌।

गृहीत्वा सङ्‌कलय्यैतत्‌ तथा प्रत्येति नान्यथा।।145।।

यथा दण्डिनि जात्यादेर्विवेकेनानिरूपणात्‌।

तद्वता योजना नास्ति कल्पनाप्यत्र नास्त्यत:।।146।।

यदप्यन्वयि विज्ञानं शब्दव्यक्त्यवभासि तत्‌।

वर्णाकृत्यक्षराकारशून्यं गोत्वं हि वर्ण्यते।।147।।

समानत्वेऽपि तस्यैव नेक्षणं नेत्रगोचरे।

प्रतिभासद्वयाभावात्‌ बुद्धेर्भेदश्च दुर्लभ:।।148।।

समवायाग्रहादक्षै: सम्बन्धादर्शनं स्थितिम्‌।

{अवयविनिराकरणम्‌}

पटस्तन्तुष्विहेत्यादिशब्दाश्चेमे स्वयं कृता:।।149।।

शृङ्‌गं गवीति लोके स्यात्‌ शृङ्‌गे गौरित्यलौकिकम्‌।

गवाख्यपरिशिष्टाङ्‌गविच्छेदानुपलम्भनात्‌।।150।।

तैस्तन्तुभिरियं शाटीत्युत्तरं कार्यमुच्यते।

तन्तुसंस्कारसम्भूतं नैककालं कथञ्‌चन।।151।।

कारणारोपत: कश्चिद् एकापोद्धारतोऽपि वा।

तन्त्वाख्यां वर्तयेत्‌ कार्ये दर्शयन्‌ नाश्रयं श्रुते:।।152।।

उपकार्योपकारित्वं विच्छेदाद् दृष्टिरेव वा।

मुख्यं यदस्खलज्ज्ञानमादिसंकेतगोचर:।।153।।

{अनुमानतो न जातिसिद्धि:}

अनुमानं च जात्यादौ वस्तुनो नास्ति भेदिनि।

सर्वत्र व्यपदेशो हि दण्डादेरपि सांवृतात्‌।।154।।

वस्तुप्रासादमालादिशब्दाश्चान्यानपेक्षिण:।

गेहो यद्यपि संयोगस्तन्माला किन्नु* तद् भवेत्‌।।155।।( पा0टि0-*किन्तु- रा0। एवं वृत्तावपि।)

जातिश्चेद् गेह एकोऽपि मालेत्युच्येत वृक्षवत्‌।

मालाबहुत्वे तच्छब्द: कथं जातेरजातित:।।156।।

मालादौ च महत्त्वादिरिष्टो यश्चौपचारिक:।

मुख्याविशिष्टविज्ञानग्राह्यत्वान्नौपचारिक:।।157।।

अनन्यहेतुता तुल्या सा मुख्याभिमतेष्वपि।

पदार्थशब्द: कं हेतुमन्यं षट्‌सु* समीक्षते।।158।। (पा0टि0-*षटकं-रा0।)

यो यथा रूढित:* सिद्धस्तत्साम्याद् यस्तथोच्यते।।

मुख्यो** गौणश्च भावेष्वप्यभावस्योपचारत:।।159।।( पा0टि0- *रूठित:-रा0। ** यत्र-रा0)

संकेतान्वयिनी रूढिर्वक्तुरिच्छान्वयी च स:।

क्रियते व्यवहारार्थं छन्द:शब्दांशनामवत्‌*।।160।। ( पा0टि0- *शब्दाङ्‌ग:-पाठा0)

वस्तुधर्मतयैवार्थास्तादृग्विज्ञानकारणम्‌।

भेदेऽपि यत्र तज्ज्ञानं* ताँस्तथा प्रतिपद्यते।।161।। ( पा0टि0-*तज्ज्ञानात्‌-रा0)

ज्ञानान्यपि तथा भेदेऽभेदप्रत्यवमर्शने।

इत्यतत्कार्यविश्लेषस्यान्वयो नैकवस्तुन:।।162।।

वस्तूनां विद्यते तस्मात्‌ तन्निष्ठा वस्तुनि श्रुति:।

{अन्यापोहविचार:}

बाह्यशक्तिव्यवच्छेदनिष्ठाभावेऽपि तच्छ्रुति:।।163।।

विकल्पप्रतिबिम्बेषु तन्निष्ठेषु निबध्यते।

ततोऽन्यापोहनिष्ठत्वादुक्तान्यापोहकृत्‌ श्रुति:।।164।।

व्यतिरेकीव यज्ज्ञाने भात्यर्थप्रतिबिम्बकम्‌।

शब्दात्‌ तदपि नार्थात्मा भ्रान्ति: सा वासनोद्भवा*।।165।।( पा0टि0-*-वासनामयी-पाठा0।)

तस्याभिधाने श्रुतिभिरर्थे कोंऽशोऽवगम्यते।

तस्यागतौ च संकेतक्रिया व्यर्था तदर्थिका।।166।।

शब्दोऽर्थांशं* कमाहेति* तत्रान्यापोह उच्यते।

आकार: स च नार्थेऽस्ति तं वदन्नर्थभाक्‌ कथम्‌।।167।।( पा0टि0- **शब्दोऽर्थांशकमाहेति-रा0)

शब्दस्यान्वयिन: कार्यमर्थेनान्वयिना स च।

अनन्वयी धियोऽभेदाद् दर्शनाभ्यासनिर्मित:।।168।।

तद्रूपारोपगत्यान्यव्यावृत्ताधिगते: पुन:।

शब्दार्थोऽर्थ:* स एवेति वचने न विरुध्यते।।169।। (पा0टि0- *शब्दार्थार्थ:-रा0)

मिथ्यावभासिनो वैते प्रत्यया: शब्दनिर्मिता:।

अनुयान्तीममर्थांशमिति चापोहकृत्‌ श्रुति:।।170।।

तस्मात्‌ संकेतकालेऽपि; निर्दिष्टार्थेन संयुत:।

स्वप्रतीतिफलेनान्यापोह: सम्बध्यते श्रुतौ।।171।।

अन्यत्रादृष्ट्यत्वात्‌ क्वचित्तद्दृष्ट्यपेक्षणात्‌।

श्रुतौ सम्बध्यतेऽपोहो नैतद् वस्तुनि युज्यते।।172।।

तस्माद् जात्यादितद्योगा नार्थे तेषु च न श्रुति:।

संयुज्यतेऽन्यव्यावृत्तौ *शब्दानामेव योजनात्‌।।173।। (पा.टि.- *संजोज्यते-रा.।सम्बध्यते-पाठा.)

{प्रत्यक्षे शब्दकल्पनानिराकरणम्‌}

संकेतस्मरणोपायं दृष्टसंकलनात्मकम्‌।

पूर्वापरपरामर्शशून्ये तच्चाक्षुषे कथम्‌।।174।।

अन्यत्रगतचित्तोऽपि चक्षुषा रूपमीक्षते।

तत्संकेताग्रहस्तत्र स्पष्टस्तज्जा च कल्पना।।175।।

जायन्ते कल्पनास्तत्र यत्र शब्दो निवेशित:।

तेनेच्छात: प्रवर्त्तेरन्‌ नेक्षेरन्‌ बाह्यमक्षजा:।।176।।

रूपं रूपमितीक्षेत तद्धियं किमितीक्षते।

अस्ति चानुभवस्तस्या: सोऽविकल्प: कथं भवेत्‌।।177।।

तयैवानुभवे दृष्टं न विकल्पद्वयं सकृत्‌।

एतेन तुल्यकालान्यविज्ञानानुभवो गत:।।178।।

स्मृतिर्भवेदतीते च साऽगृहीते कथं भवेत्‌।

स्याच्चान्यधीपरिच्छेदाभिन्नरूपा स्वबुद्धिधी:।।179।।

अतीतमपदृष्टान्तमलिङ्‌गञ्‌चार्थवेदनम्‌।

सिद्धं तत्केन तस्मिन्‌ हि न प्रत्यक्षं न लैङ्गिकम्‌।।180।।

तत्स्वरूपावभासिन्या बुद्ध्यानन्तरया यदि।

रूपादिरिव गृह्येत; न स्यात्‌ तत्पूर्वधीग्रह:।।181।।

सोऽविकल्प: स्वविषयो विज्ञानानुभवो यथा।

अशक्यसमयं तद्वदन्यदप्यविकल्पकम्‌।।182।।

सामान्यवाचिन: शब्दास्तदेकार्था च कल्पना।

अभावे निर्विकल्पस्य विशेषाधिगम: कथम्‌।।183।।

अस्ति चेन्निर्विकल्पं च किञ्चित्‌ तत्तुल्यहेतुकम्‌।

सर्वं तथैव हेतोर्हि भेदाद् भेद: फलात्मनाम्‌।।184।।

अनपेक्षितबाह्यार्था योजना समयस्मृते:।

तथानपेक्ष्य समयं वस्तुशक्त्यैव नेत्रधी:।।185।।

संकेतस्मरणापेक्षं रूपं यद्यक्षचेतसि।

अनपेक्ष्य न चेच्छक्तं स्यात्‌ स्मृतावेव लिंगवत्‌।।186।।

तस्यास्तत्संगमोत्पत्तेरक्षधी: स्यात्‌ स्मृतेर्न वा।

तत: कालान्तरेऽपि स्यात्‌ क्वचिद् व्याक्षेपसम्भवात्‌।।187।।

क्रमेणोभयहेतुश्चेत्‌ प्रागेव स्यादभेदत:।

अन्योऽक्षबुद्धिहेतुश्चेत्‌ स्मृतिस्तत्राप्यनर्थिका।।188।।

यथासमितसिद्ध्यर्थमिष्यते समयस्मृति:।

भेदश्चासमितो ग्राह्य: स्मृतिस्तत्र किमर्थिका। ! ।।189।।

सामान्यमात्रग्रहणे भेदापेक्षा न युज्यते।

तस्माच्चक्षुश्च रूपं च प्रतीत्योदेति नेत्रधी:।।190।।

साक्षाच्च* ज्ञानजनने  समर्थो विषयोऽक्षवत्‌। (पा0टि0-*-साक्षाच्चेत्‌-रा0)

{प्रत्यक्षभेदा:}

{इन्द्रियप्रत्यक्षम्‌}

अथ कस्माद् द्वयाधीनजन्म तत्‌ तेन नोच्यते।।191।।

समीक्ष्य गमकत्वं हि व्यपदेशे नियुज्यते*। (पा0टि0- *न गृह्यते-रा0)

तच्चाक्षव्यपदेशेऽस्ति तद्धर्मश्च नियोज्यताम्‌।।192।।

ततो लिंगस्वभावोऽत्र व्यपदेशे नियोज्यताम्‌।

निवर्त्तते व्यापकस्य स्वभावस्य निवृत्तित:।।193।।

सञ्चित: समुदाय: स सामान्यं तत्र चाक्षधी:।

सामान्यबुद्धिश्चावश्यं विकल्पेनानुबध्यते?।।194।।

अर्थान्तराभिसम्बन्धाज्जायन्ते येऽणवोऽपरे।

उक्तास्ते सञ्चितास्ते हि निमित्तं ज्ञानजन्मन:।।195।।

अणूनां स विशेषश्च नान्तरेणापरानणून्‌।

तदेकानियमाज्ज्ञानमुक्तं सामान्यगोचरम्‌।।196।।

अथैकायतनत्वेऽपि नानेकं दृश्यते सकृत्‌।

सकृद्ग्रहावभास: किं वियुक्तेषु तिलादिषु।।197।।

प्रयुक्तं लाघवञ्चात्र तेष्वेव क्रमपातिषु।

किं नाक्रमग्रहस्तुल्यकाला: सर्वाश्च बुद्धय:।।198।।

काश्चित्‌ तास्वक्रमाभासा: क्रमवत्योऽपराश्च किम्‌।

सर्वार्थग्रहणे तस्मादक्रमोऽयं प्रसज्यते।।199।।

नैकं चित्रपतंगादि रूपं वा दृश्यते कथम्‌।

चित्रं तदेकमिति चेदिदं चित्रतरं तत:।।200।।

नैकं स्वभावं चित्रं हि मणिरूपं यथैव तत्‌।

नीलादिप्रतिभासश्च तुल्यश्चित्रपटादिषु।।201।।

तत्रावयवरूपं चेत्‌ केवलं दृश्यते तथा।

नीलादीनि निरस्यान्यच्चित्रं चित्रं यदीक्षसे।।202।।

तुल्यार्थाकारकालत्वेनोपलक्षितयोर्द्वयो:

नानार्था क्रमवत्येका किमेकार्थाऽक्रमापरा।।203।।

वैश्वरूप्याद् धियामेव भावानां विश्वरूपता।

तच्चेदनङ्‌गं केनेयं सिद्धा भेदव्यवस्थिति:!।।204।।

विजातीनामनारम्भादालेख्यादौ न चित्रधी:।

अरूपत्वान्न संयोगश्चित्रो भक्तेश्च नाश्रय:।।205।।

प्रत्येकमविचित्रत्वाद् गृहीतेषु क्रमेण च।

न चित्रधीसङ्‌कलनमनेकस्यैकयाऽग्रहात्‌।।206।।

नानार्थैका भवेत्‌ तस्मात्‌ सिद्धाऽतोऽप्यविकल्पिका।

विकल्पयन्नेकमर्थं* यतोऽन्यदपि पश्यति।।207।।

( पा0टि0- *विकल्पन्नायेकार्थं-रा0। विकल्पयन्नप्येकार्थं-पाठा0)

{चित्रैकत्वविचार:}

चित्रावभासेष्वर्थेषु यद्येकत्वं न युज्यते।

सैव तावत्‌ कथं बुद्धिरेका चित्रावभासिनी।।208।।

इदं वस्तुबलायातं यद् वदन्ति विपश्चित:।

यथा यथार्थाश्चिन्त्यन्ते विशीर्यन्ते* तथा तथा।।209।।( पा0टि0- *विविच्यन्ते-पाठा0)

किं स्यात्‌ सा चित्रतैकस्याम्‌; न स्यात्‌ तस्यां मतावपि।

यदीदं स्वयमर्थानां रोचते तत्र के वयम्‌।।210।।

तस्मान्नार्थेषु न ज्ञाने स्थूलाभासस्तदात्मन:।

एकत्र प्रतिषिद्धत्वाद् बहुष्वपि न सम्भव:।।211।।

परिच्छेदोऽन्तरन्योऽयं भागो बहिरिव स्थित:।

ज्ञानस्याभेदिनौ भिन्नौ प्रतिभासो ह्युपप्लव:।।212।।

तत्रैकस्याप्यभावेन द्वयमप्यवहीयते।

तस्मात्‌ तदेव तस्यापि तत्त्वं या द्वयशून्यता।।213।।

तद्भेदाश्रयिणी चेयं भावानां भेदसंस्थिति:।

तदुपप्लवभावे च तेषां भेदोऽप्युपप्लव:।।214।।

न ग्राह्यग्राहकाकारबाह्यमस्ति च लक्षणम्‌।

अतो लक्षणशून्यत्वान्नि:स्वभावा: प्रकाशिता:।।215।।

व्यापारोपाधिकं सर्वं स्कन्धादीनां विशेषत:।

लक्षणं स च तत्त्वं न तेनाप्येते विलक्षणा:।।216।।

यथास्वम्प्रत्ययापेक्षादविद्योपप्लुतात्मनाम्‌।

विज्ञप्तिर्वितथाकारा जायते तिमिरादिवत्‌।।217।।

असंविदिततत्त्वा च सा सर्वापरदर्शनै:।

असम्भवाद् विना तेषां ग्राह्यग्राहकविप्लवै:।।218।।

तदुपेक्षिततत्त्वार्थै: कृत्वा गजनिमीलनम्‌।

केवलं लोकबुद्ध्यैव बाह्यचिन्ता प्रतन्यते।।219।।

नीलादिश्चित्रविज्ञाने ज्ञानोपाधिरनन्यभाक्‌।

अशक्यदर्शन:; तं हि पतत्यर्थे विवेचयन्‌।।220।।

यद् यथा भासते ज्ञानं तत्‌ तथैव प्रकाशते।

इति नामैकभाव: स्याच्चित्राकारस्य चेतसि*।।221।। ( पा0टि0-*चेतस:- पाठा0)

पटादिरूपस्यैकत्वे तथा स्यादविवेकिता।

विवेकीनि निरस्यान्यदा विवेकि च नेक्षते*।।222।। (पा0टि0- *नेक्ष्यते-पाठा0)

को वा विरोधो बहव: सञ्जातातिशया: पृथक्‌*।

भवेयु: कारणं बुद्धेर्यदि नात्मेद्रियादिवत्‌।।223।। ( पा0टि0-*सकृद्-पाठा0।)

हेतुभावाद् ऋते नान्या ग्राह्यता नाम काचन।

तत्र बुद्धिर्यदाकारा तस्यास्तद् ग्राह्यमुच्यते।।224।।

कथं वाऽवयवी ग्राह्य: सकृत्‌ स्वावयवै: सह।

न हि गोप्रत्ययो दृष्ट: सास्नादीनामदर्शने।।225।।

गुणप्रधानाधिगम: सहाप्यभिमतो यदि।

सम्पूर्णाङ्‌गो न गृह्येत सकृन्नापि गुणादिमान्‌।।226।।

विवक्षापरतन्त्रत्वाद् विशेषणविशेष्ययो:।

यदङ्‌गभावेनोपात्तं तत्‌ तेनैव हि गृह्यते।।227।।

स्वतो वस्त्वन्तराभेदाद् गुणादेर्भेदकस्य च।

अग्रहादेकबुद्धि: स्यात्‌ पश्यतोऽपि परापरम्‌।।228।।

गुणादिभेदग्रहणान्नानात्वप्रतिपद् यदि।

अस्तु नाम तथाप्येषां भवेत्‌ सम्बन्धिसङ्‌कर:।।229।।

शब्दादीनामनेकत्वात्‌ सिद्धोऽनेकग्रह: सकृत्‌।

सन्निवेशग्रहायोगादग्रहे सन्निवेशिनाम्‌।।230।।

सर्वतो विनिवृत्तस्य विनिवृत्तिर्यतो यत:।

तद्भेदोन्नीतभेदा सा धर्मिणोऽनेकरूपता।।231।।

ते कल्पिता रूपभेदाद् निर्विकल्पस्य चेतस:।

न विचित्रस्य चित्राभा: कादाचित्कस्य गोचर:।।232।।

यद्यप्यस्ति सितत्वादि यादृगिन्द्रियगोचर:।

न सोऽभिधीयते शब्दैर्ज्ञानयो रूपभेदत:।।233।।

एकार्थत्वेऽपि बुद्धीनां नानाश्रयतया स चेत्‌।

श्रोत्रादिचित्तानीदानीं भिन्नार्थानीति तत्‌ कुत:।।234।।

जातो नामाश्रयोऽन्योऽन्य: चेतसा तस्य वस्तुन:।

एकस्यैव कुतो रूपं भिन्नाकारावभासि तत्‌।।235।।

वृत्तेर्दृश्यपरामर्शेनाभिधानविकल्पयो:।

दर्शनात्‌ प्रत्यभिज्ञानं गवादीनां निवारितम्‌।।236।।

अन्वयाच्चानुमानं यदभिधानविकल्पयो:।

दृश्ये गवादौ जात्यादेस्तदप्येतेन दूषितम्‌।।237।।

दर्शनान्येव भिन्नान्यप्येकां कुर्वन्ति कल्पनाम्‌।

प्रत्यभिज्ञानसंख्यातां स्वभावेनेति वर्णितम्‌।।238।।

{2- मानसप्रत्यक्षम्‌}

पूर्वानुभूतग्रहणे मानसस्याप्रमाणता।

अदृष्टग्रहणेऽन्धादेरपि स्यादर्थदर्शनम्‌।।239।।

क्षणिकत्वादतीतस्य दर्शनस्य* न सम्भव:। (पा0टि0-*दर्शने च-रा0)

वाच्यमक्षणिकत्वे स्याल्लक्षणं सविशेषणम्‌।।240।।

निष्पादितक्रिये कञ्चिद्* विशेषमसमादधत्‌।

कर्मण्यैन्द्रियमन्यद् वा साधनं किमितीष्यते।।241।। ( पा0टि0-*किञ्चिद-रा0।)

सकृद् भावश्च सर्वासां धियां तद्भावजन्मनाम्‌।

अन्यैरकार्यभेदस्य तदपेक्षाविरोधत:।।242।।

तस्मादिन्द्रियविज्ञानानन्तरप्रत्ययोद्भवम्‌।

मनोऽन्यमेव गृह्णाति विषयं नान्यदृक्‌ तत:।।243।।

स्वार्थान्वयार्थापेक्षैव हेतुरिन्द्रियजा मति:।

ततोऽन्यग्रहणेऽप्यस्य नियतग्राह्यता मता।।244।।

तदतुल्यक्रियाकाल: कथं स्वज्ञानकालिक:।

सहकारी भवेदर्थ इति चेदक्षचेतस: ?।।245।।

असत: प्रागसामर्थ्यात्‌ पश्चाच्चानुपयोगत:।

प्राग्भाव: सर्वहेतूनां नातोऽर्थ: स्वधिया सह।।246।।

भिन्नकालं कथं ग्राह्यमिति चेद् ग्राह्यतां विदु:।

हेतुत्वमेव युक्तिज्ञा ज्ञानाकारार्पणक्षमम्‌।।247।।

कार्यं ह्यनेकहेतुत्वेऽप्यनुकुर्वदुदेति यत्‌।

तत्‌ तेनाप्यत्र* तद्रूपं* गृहीतमिति चोच्यते।।248।। ( पा0टि0- **तेनार्पिततद्रूपं-पाठा0)

{3- स्वसंवेदनप्रत्यक्षम्‌}

अशक्यसमयो ह्यात्मा रागादीनामनन्यभाक्‌।

तेषामत: स्वसंवित्तिर्न्नाभिजल्पानुषङ्गिणी।।249।।

अवेदका: परस्यापि ते स्वरूपं कथं विदु:।

एकार्थाश्रयिणा वेद्या विज्ञानेनेति केचन।।250।।

तदतद्रूपिणो भावास्तदतद्रूपहेतुजा:।

तत्सुखादि किमज्ञानं विज्ञानाभिन्नहेतुजम्‌।।251।।

सार्थे सतीन्द्रिये योग्ये यथास्वमपि चेतसि।

दृष्टं जन्म सुखादीनां तत्‌ तुल्यं मनसामपि।।252।।

असत्सु सत्सु चैतेषु न जन्माजन्म वा क्वचित्‌।

दृष्टं सुखादेर्बुद्धेर्वा तत्‌ ततो नान्यतश्च ते।।253।।

सुखदु:खादिभेदश्च तेषामेव विशेषत:।

तस्या एव यथा बुद्धेर्मान्द्यपाटवसंश्रया:।।254।।

यस्यार्थस्य निपातेन ते जाता धीसुखादय:।

मुक्त्वा तं प्रतिपद्येत सुखादीनेव सा कथम्‌!।।255।।

अविच्छिन्ना* न* भासेत तत्संवित्ति: क्रमग्रहे।

तल्लाघवाच्चेत्‌ तत्तुल्यमित्यसंवेदनं न किम्‌ !।।256।। (पा0टि0-*अविच्छिन्नाथ-रा0)

न चैकया द्वयज्ञानं नियमादक्षचेतस:।

सुखाद्यभावेऽप्यर्थाच्च जातेस्तच्छक्त्यसिद्धित:।।257।।

पृथक्‌ पृथक्‌ च सामर्थ्ये द्वयोर्नीलादिवत्‌ सुखम्‌।

गृह्येत केवलम्‌; तस्य तद्धेत्वर्थमगृह्‌णत:।।258।।

न हि संवेदनं युक्तम्‌, अर्थेनैव सह ग्रहे।

किं सामर्थ्यं सुखादीनां नेष्टा धीर्यत्‌ तदुद्भवा।।259।।

विनार्थेन सुखादीनां वेदने चक्षुरादिभि:।

रूपादि: स्त्र्यादिभेदोऽक्ष्णा न गृह्येत कदाचन।।260।।

न हि सत्यन्तरङ्‌गेऽर्थे शक्ते धीर्बाह्यदर्शनी।

अर्थग्रहे सुखादीनां तज्जानां स्यादवेदनम्‌।।261।।

धियोर्युगपदुत्पत्तौ तत्तद्विषयसम्भवात्‌।

सुखदु:खविदौ स्यातां सकृदर्थस्य सम्भवे।।262।।

सत्यान्तरेऽप्युपादाने ज्ञाने दु:खादिसम्भव:।

नोपादानं विरुद्धस्य तच्चैकमिति चेन्मतम्‌।।263।।

तदज्ञानस्य विज्ञानं केनोपादानकारणम्‌।

आधिपत्यं तु कुर्वीत तद्विरुद्धेऽपि दृश्यते।।264

अक्ष्णोर्यथैक आलोको नक्तञ्चरतदन्ययो:।

रूपदर्शनवैगुण्यावैगुण्ये कुरुते सकृत्‌।।265।।

तस्मात्‌ सुखादयोऽर्थानां स्वसंक्रान्तावभासिनाम्‌।

वेदका: स्वात्मनश्चैषामर्थेभ्यो जन्म केवलम्‌।।266।।

अर्थात्मा स्वात्मभूतो हि तेषां तैरनुभूयते।

तेनार्थानुभावख्यातिरालम्बस्तु तदाभता।।267।।

{तत्र साङ्‌ख्यमतनिराकरणम्‌}

कश्चिद् बहि:स्थितानेव सुखादीनप्रचेतनान्‌।

ग्राह्यानाह, न तस्यापि सकृद् युक्तो द्वयग्रह:।।268।।

सुखाद्यभिन्नरूपत्वान्नीलादेश्चेत्‌ सकृद् ग्रह:।

भिन्नावभासिनोर्ग्राह्यं चेतसोस्तदभेदि किम्‌।।269।।

तस्याविशेषे बाह्यस्य भावनातारतम्यत:।

तारतम्यञ्च बुद्धौ स्यान्न प्रीतिपरितापयो:।।270।।

सुखाद्यात्मतया बुद्धेरपि यद्यविरोधिता।

स इदानीं कथं बाह्य: सुखाद्यात्मेति गम्यते ?।।271।।

अग्राह्यग्राहकत्वाच्चेद् भिन्नजातीययो: पुमान्‌।

अग्राहक: स्यात्‌ सर्वस्य ततो हीयेत्‌ भोक्तृता।।272।।

कार्यकारणतानेन प्रत्युक्ताऽकार्यकारणे।

ग्राह्यग्राहकताभावाद् भावेऽन्यत्रापि सा भवेत्‌।।273।।

तस्मात् त आन्तरा एव, संवेद्यत्वाच्च चेतना:।

संवेदनं न यद् रूपं न हि तत्‌ तस्य वेदनम्‌।।274।।

अतत्स्वभावोऽनुभवो बौद्धांस्तान्‌ सन्नवैति चेत्‌।

मुक्त्वाध्यक्षस्मृताकारां संवित्तिं बुद्धिरत्र का ।।275।।

ताँस्तानर्थानुपादाय सुखदु:खादिवेदनम्‌।

एकमाविर्भवद् दृष्टं न दृष्टं त्वन्यदन्तरा।।276।।

संसर्गादविभागश्चेदयोगोलोकवह्निवत्‌।

भेदाभेदव्यवस्थैवमुच्छिन्ना सर्ववस्तुषु।।277।।

अभिन्नवेदनस्यैक्यं यन्नैवं तद् विभेदवत्‌।

सिध्येदसाधनत्वेऽस्य न सिद्धं भेदसाधनम्‌।।278।।

भिन्नाभ: सितदु:खादिरभिन्नो बुद्धिवेदने।

अभिन्नाभे विभिन्ने चेत्‌ भेदाभेदौ किमाश्रयौ!।।279।।

तिरस्कृतानां पटुनाप्येकदाऽभेददर्शनात्‌।

प्रवाहे वित्तिभेदानां सिद्धा भेदव्यवस्थिति:।।280।।

{4- योगिज्ञानप्रत्यक्षम}

प्रागुक्तं योगिनां ज्ञानं तेषां तद् भावनामयम्‌।

विधूतकल्पनाजालं स्पष्टमेवावभासते।।281।।

कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुता:।

अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव।।282।।

न विकल्पानुबद्धस्यास्ति स्फुटार्थावभासिता।

स्वप्नेऽपि स्मर्यते स्मार्त्तं न च तत्‌ तादृगर्थवत्‌।।283।।

अशुभा पृथिवीकृत्स्नाद्यभूतमपि वर्ण्यते।

स्पष्टाभं निर्विकल्पच्च भावनाबलनिर्मितम्‌।।284।।

तस्माद् भूतमभूतं वा यद् यदेवाति* भाव्यते*।

भावनापरिनिष्पत्तौ तत्‌ स्फुटाकल्पधीफलम्‌।।285।। ( पा0टि0-*यदेवाभिभाव्यते-रा0)

तत्र प्रमाणं संवादि यत्‌ प्राङ्‌ निर्णीतवस्तुवत्‌।

तद् भावनाजं प्रत्यक्षमिष्टम्‌ शेषा उपप्लवा:।286।।

शब्दार्थग्राहि यद् यत्र तज्ज्ञानं तत्र कल्पना।

स्वरूपं च न शब्दार्थस्तत्राध्यक्षमतोऽखिलम्‌।।287।।

{प्रत्यक्षाभासविचार:}

त्रिविधं कल्पनाज्ञानमाश्रयोपप्लवोद्भवम्‌।

अविकल्पकमेकं च प्रत्यक्षाभं चतुर्विधम्‌।।288।।

अनक्षजत्वसिद्ध्यर्थमुक्ते द्वे भ्रान्तिदर्शनात्‌।

सिद्धानुमादिवचनं साधनायैव पूर्वयो:।।289।।

संकेतसंश्रयान्यार्थसमारोपविकल्पने।

न प्रत्यक्षानुवृत्तित्वात्‌ कदाचिद् भ्रान्तिकारणम्‌।।290।।

यथैवेयं परोक्षार्थकल्पना स्मरणात्मिका।

समयापेक्षिणी नार्थं प्रत्यक्षमध्यवस्यति।।291।।

तथानुभूतस्मरणमन्तरेण घटादिषु।

न प्रत्ययोऽनुयँस्तच्च प्रत्यक्षात्‌ परिहीयते।।292।।

अपवादश्चतुर्थोऽत्र तेनोक्तमुपघातजम्‌।

केवलं तत्र तिमिरमुपघातोपलक्षणम्‌।।293।।

मानसं तदपीत्येके तेषां ग्रन्थो विरुध्यते।

नीलद्विचन्द्रादिधियां हेतुरक्षाण्यपीत्ययम्‌।।294।।

पारम्पर्येण हेतुश्चेदिन्द्रियज्ञानगोचरे।

विचार्यमाणे प्रस्तावो मानसस्येह कीदृश:! ।।295।।

किं वैन्द्रियं यदक्षाणां भावाभावानुरोधि चेत्‌।

तत्‌ तुल्यं विक्रियावच्चेत्‌ सैवेयं किं निषिध्यते!।।296।।

सर्पादिभ्रान्तिवच्चास्या: स्यादक्षविकृतावपि।

निवृत्तिर्न निवर्त्तेत निवृत्तेऽप्यक्षविप्लवे।।297।।

कदाचिदन्यसन्ताने तथैवार्प्येत वाचकै:।

दृष्टस्मृतिमपेक्षेत न भासेत परिस्फुटम्‌।।298।।

सुप्तस्य जाग्रतो वापि यैव धी: स्फुटभासिनी।

सा निर्विकल्पोभयथाप्यन्यथैव विकल्पिका।।299।।

तस्मात्‌ तस्याविकल्पेऽपि प्रामाण्यं प्रतिषिध्यते।

विसंवादात्‌ तदर्थं च प्रत्यक्षाभं द्विधोदितम्‌।।300।।

{प्रमाणफलविचार:}

क्रियासाधनमित्येव सर्वं सर्वस्य कर्मण:।

साधनं न हि तत्‌ तस्य साधनं या क्रिया यत:।।301।।

तत्रानुभवमात्रेण ज्ञानस्य सदृशात्मन:।

भाव्यं तेनात्मना येन प्रतिकर्म विभज्यते।।302।।

अनात्मभूतो भेदोऽस्य विद्यमानोऽपि हेतुषु।

भिन्ने कर्मण्यभिन्नस्य न भेदेन नियामक:।।303।।

तस्माद् यतोऽस्यात्मभेदादस्याधिगतिरित्ययम्‌।

क्रियाया: कर्मनियम: सिद्धा सा तत्प्रसाधना।।304।।

अर्थेन घटयत्येनां न हि मुक्त्वार्थरूपताम्‌।

अन्य: स्वभेदाज्ज्ञानस्य भेदकोऽपि कथञ्चन।।305।।

तस्मात्‌ प्रमेयाधिगते: साधनं मेयरूपता।

साधनेऽन्यत्र तत्कार्यसम्बन्धो न प्रसिध्यति।।306।।

सा च तस्यात्मभूतेव तेन नार्थान्तरं फलम्‌।

दधानं तच्च तामात्मर्न्थाधिगमनात्मना।।307।।

सव्यापारमिवाभाति व्यापारेण स्वकर्मणि।

तद्वशात्‌ तद्व्यवस्थानादकारकमपि स्वयम्‌।।308।।

यथा फलस्य हेतूनां सदृशात्मतयोद्भवात्‌।

हेतुरूपग्रहो लोकेऽक्रियावत्त्वेऽपि कथ्यते।।309।।

आलोचनाक्षसम्बन्धविशेषणधियामत:।

नेष्टं प्रामाण्यमेतेषां व्यवधानात्‌ क्रियां प्रति।।310।।

सर्वेषामुपयोगेऽपि कारकाणां क्रियां प्रति।

यदन्त्यं भेदकं तस्यास्तत्‌ साधकतमं मतम्‌।।311।।

सर्वसामान्यहेतुत्वादक्षाणामस्ति नेदृशम्‌।

तद्भेदेऽपि ह्यतद्रूपस्यास्येदमिति तत्‌ कुत:!।।312।।

एतेन शेषं व्याख्यातं विशेषणधियां पुन:।

अताद्रूप्ये न भेदोऽपि तद्वदन्यधियोऽपि वा।।313।।

नेष्टो विषयभेदोऽपि क्रियासाधनयोर्द्वयो:।

एकार्थत्वे द्वयं व्यर्थं न च स्यात्‌ क्रमभाविता।।314।।

साध्यसाधनताभाव: सकृद्भावे; धियोंऽशयो:।

तद्व्यवस्थाश्रयत्वेन साध्यसाधनसंस्थिति:।।315।।

सर्वात्मनापि सम्बद्धं कैश्चिदेवावगम्यते।

धर्मै: स नियमो  न स्यात्‌ सम्बन्धस्याविशेषत:।।316।।

तदभेदेऽपि भेदोऽयं यस्मात्‌ तस्य प्रमाणता।

संस्काराच्चेदताद्रूप्ये न तस्याप्यव्यवस्थिते:।।317।।

क्रियाकारणयोरैक्यविरोध इति चेद्, असत्‌।

धर्मभेदाभ्युपगमाद्; वस्त्वभिन्नमितीष्यते।।318।।

एवम्प्रकारा सर्वैव क्रियाकारकसंस्थिति:।

भावस्य भिन्नाभिमतेष्वप्यारोपेण वृत्तित:।।319।।

{विज्ञप्तिमात्रताविचार:}

{अर्थंसंवेदनम्‌}

काऽर्थसंविद् ? यदेवेदं प्रत्यक्षं प्रतिवेदनम्‌।

तदर्थवेदनं केन ताद्रूप्याद् व्यभिचारि तत्‌।।320।।

अथ सोऽनुभव: क्वास्य ? तदेवेदं विचार्यते।

सरूपयन्ति तत्‌ केन स्थूलाभासं च तेऽणव:।।321।।

तन्नार्थरूपता तस्य सत्यार्थाव्यभिचारिणी।

तत्सवंदेनभावस्य न समर्था प्रसाधने।।322।।

तत्सारूप्यतदुत्पत्ती यदि संवेद्यलक्षणम्‌।

संवेद्यं स्यात्‌ समानार्थं विज्ञानं समनन्तरम्‌।।323।।

इदं दृष्टं श्रुतं वेदम्‌इति यत्रावसायधी:।

न तस्यानुभव: सैव प्रत्यासत्तिर्विचार्यते।।324।।

दृश्यदर्शनयोर्येन तस्य तद् दर्शनं मतम्‌।

तयो: सम्बन्धमाश्रित्य द्रष्टुरेष विनिश्चय:।।325।।

आत्मा स तस्यानुभव: स च नान्यस्य कस्यचित्‌।

प्रत्यक्षप्रतिवेद्यत्वमपि तस्य तदात्मता।।326।।

नान्योऽनुभाव्यस्तेनास्ति तस्य नानुभवोऽपर:।

तस्यापि तुल्यचोद्यत्वात्‌ स्वयं सैव प्रकाशते।।327।।

नीलादिरूपस्तस्यासौ स्वभावोऽनुभवश्च स:।

नीलाद्यनुभवात्‌ ख्यात: स्वरूपानुभवोऽपि सन्‌।।328।।

प्रकाशमानस्तादात्म्यात्‌ स्वरूपस्य प्रकाशक:।

यथा प्रकाशोऽभिमतस्तथा धीरात्मवेदिनी।।329।।

तस्याश्चार्थान्तरे  वेद्ये दुर्घटौ वेद्यवेदकौ।

अवेद्यवेदकाकारा; यथा भ्रान्तैर्निरीक्ष्यते।।330।।

विभक्तलक्षणग्राह्यग्राहकाकारविप्लवा।

तथा कृतव्यवस्थेयं केशादिज्ञानभेदवत्‌।।331।।

यदा तदा न सच्चोद्यग्राह्यग्राहकलक्षणा।

तदान्यसंविदोऽभावात्‌ स्वसंवित्‌ फलमिष्यते।।332।।

यदि बाह्योऽनुभूयेत को दोषो नैव कश्चन।

इदमेव किमुक्तं स्यात्‌ स बाह्योऽर्थोऽनुभूयते।।333।।

यदि बुद्धिस्तदाकारा साऽस्त्याकारविशेषिणी।

सा बाह्यादन्यतो वेति विचारमिदमर्हति।।334।।

दर्शनोपाधिरहितस्याग्रहात्‌ तद्ग्रहे ग्रहाद्।

दर्शनं नीलनिर्भासम्‌; नार्थो बाह्योऽस्ति केवलम्‌।।335।।

कस्यचित्‌ किच्चिदेवान्तर्वासनाया: प्रबोधकम्‌।

ततो धियां विनियमो न बाह्यार्थव्यपेक्षया।।336।।

तस्माद् द्विरूपमस्त्येकं यदेवमनुभूयते।

स्मर्यते चोभयाकारस्यास्य संवेदनं फलम्‌।।337।।

यदा निष्पन्नतद्भाव इष्टोऽनिष्टोऽपि वा पर:।

विज्ञप्तिहेतुर्विषयस्तस्याश्चानुभवस्तथा।।338।।

यदा सविषयं ज्ञानं ज्ञानांशेऽर्थव्यवस्थिते:।

तदा य आत्मानुभव: स एवार्थविनिश्चय:।।339।।

यदीष्टाकार आत्मा स्यादन्यथा वानुभूयते।

इष्टोऽनिष्टोऽपि वा तेन भवत्यर्थ: प्रवेदित:।।340।।

विद्यमानेऽपि बाह्येऽर्थे यथानुभवमेव स:।

निश्चितात्मा स्वरूपेण नानेकात्मत्वदोषत:।।341।।

यदि बाह्यं न विद्येत कस्य संवेदनं भवेत्‌।

यद्यगत्या स्वरूपस्य बाह्यस्यैव न किं मतम्‌।।342।।

अभ्युपायेऽपि भेदेन न स्यादनुभवो द्वयो:।

अदृष्टावरणात्‌ स्यात्‌ चेन्न नामार्थवशा गति:।।343।।

तमनेकात्मकं भावमेकात्मत्वेन दर्शयत्‌।

तददृष्टं कथं नाम भवेदर्थस्य दर्शकम्‌।।344।।

इष्टानिष्टावभासिन्य: कल्पना नाक्षधीर्यदिं।

अनिष्टादावसन्धानं दृष्टं तत्रापि चेतसाम्‌।।345।।

तस्मात्‌ प्रमेये बाह्येऽपि युक्तं स्वानुभव: फलम्‌।

यत: स्वभावोऽस्य यथा तथैवार्थविनिश्चय:।।346।।

तदर्थाभासतैवास्य प्रमाणं न तु सन्नपि।

ग्राहकात्माऽपरार्थत्वाद् ब्राह्येष्वर्थेष्वपेक्षते।।347।।

यस्माद् यथा निविष्टोऽसावर्थात्मा प्रत्यये तथा।

निश्चीयते निविष्टोऽसावेवमित्यात्मसंविद:।।348।।

इत्यर्थसंवित्‌ सैवेष्टा यतोऽर्थात्मा न दृश्यते।

तस्माद् बुद्धिनिवेश्यार्थ: साधनं तस्य सा क्रिया।।349।।

यथा निविशते सोऽर्थो यत: सा प्रथते तथा।

अर्थस्थितेस्तदात्मत्वात्‌ स्वविदप्यर्थविन्मता।।350।।

तस्माद् विषयभेदोऽपि न; स्वसंवेदनं फलम्‌।

उक्तं स्वभावचिन्तायां तादात्म्यादर्थसंविद:।।351।।

तथावभासमानस्य तादृशोऽन्यादृशोऽपि वा।

ज्ञानस्य हेतुरर्थोऽपीत्यर्थस्येष्टा प्रमेयता।।352।।

यथाकथञ्चित्‌ तस्यार्थरूपं मुक्त्वावभासिन:।

अर्थग्रह: कथम्‌ ? सत्यं न जानेऽहमपीदृशम्‌।।353।।

अविभागोऽपि बुद्ध्यात्मविपर्यासितदर्शनै:।

ग्राह्यग्राहकसंवित्तिभेदवानिव लक्ष्यते।।354।।

मन्त्राद्युपप्लुताक्षाणां यथा मृच्छकलादय:।

अन्यथैवावभासन्ते तद्रूपरहिता अपि।।355।।

तथैव दर्शनात्‌ तेषामनुपप्लुतचक्षुषा*।

दूरे यथा वा मरुषु महानल्पोऽपि दृश्यते।।356।। ( पा0टि0- *0मनुपप्लुतचक्षुषाम्‌-रा0)

यथानुदर्शनं चेयं मेयमानफलस्थिति:।

क्रियतेऽविद्यमानापि ग्राह्यग्राहकसंविदाम्‌।।357।।

अन्यथैकस्य भावस्य नानारूपावभासिन:।

सत्यं कथं स्युराकारास्तदेकत्वस्य हानित:।।358।।

अन्यस्यान्यत्वहानेश्च; नाभेदो रूपदर्शनात्‌।

रूपाभेदं* च* पश्यन्ती धीरभेदं व्यवस्यति।।359।। (पा0टि0-**रूपाभेदेऽपि-रा0)

भावा येन निरूप्यन्ते तद्रूपं नास्ति तत्त्वत:।

यस्मादेकमनेकं च रूपं तेषां न विद्यते।।360।।

साधर्म्यदर्शनाल्लोके भ्रान्तिर्नामोपजायते।

अतदात्मनि तादात्म्यव्यवसायेन नेह तत्‌।।361।।

अदर्शनाज्जगत्यस्मिन्नेकस्यापि तदात्मन:।

अस्तीयमपि या त्वन्तरुपप्लवसमुद्भवा।।362।।

दोषोद्भवा प्रकृत्या सा वितथप्रतिभासिनी।

अनपेक्षितसाधर्म्यदृगादिस्तैमिरादिवत्‌।।363।।

तत्र बुद्धे: परिच्छेदो ग्राहकाकारसम्मत:।

तादात्म्यादात्मवित्‌ तस्य स तस्य साधनं तत:।।364।।

तत्रात्मविषये माने यथारागादि वेदनम्‌।

इयं सर्वत्र संयोज्या मानमेयफलस्थिति:।।365।।

तत्राप्यनुभवात्मत्वात्‌ ते योग्या स्वात्मसंविदि।

इति सा योग्यता मानमात्मा मेय: फलं स्ववित्‌।।366।।

ग्राहकाकारसंख्याता परिच्छेदात्मतात्मनि।

सा योग्यतेति च प्रोक्तं प्रमाणं स्वात्मवेदनम्‌।।367।।

सर्वमेह हि* विज्ञानं विषयेभ्य: समुद्भवद्।

तदन्यस्यापि** हेतुत्वे कथञ्चिद् विषयाकृति।।368।। (पा0टि0- *तु-पाठा0। **तदर्थस्यापि-पाठा0)

यथैवाहारकालादेर्हेतुत्वेऽपत्यजन्मनि।

पित्रोस्तदेकस्याकारं धत्ते नान्यस्य कस्यचित्‌।।369।।

तद्धेतुत्वेन तुल्येऽपि तदन्यैर्विषये मतम्‌।

विषयत्वं तदंशेन तदभावे न तद् भवेत्‌।।370।।

अनर्थाकारशङ्‌का स्यादप्यर्थवति चेतसि।

अतीतार्थग्रहे सिद्धे द्विरूपत्वात्मवेदने।।371।।

नीलाद्याभासभेदित्वान्नार्थो जातितद्वती।

सा चानित्या* न जाति: स्यान्नित्या वा जनिका कथम्।।372।। (पा0टि0-*वा नित्या—रा0।)

नामादिकं निषिद्धं प्राङ् नायमर्थवतां क्रम:।

इच्छामात्रानुरोधित्वादर्थशक्तिर्न सिध्यति।।373।।

{स्मृतिविचार:}

स्मृतिश्चेदृग्विधं ज्ञानं तस्याश्चानुभवाद् भव:।

स चार्थाकाररहित: सेदानीं तद्वती कथम्!।।374।।

नार्थाद् भावस्तदाभावात् स्यात्तथानुभवेऽपि स:।

आकार: स च नार्थस्य स्पष्टाकारविवेकत:।।375।।

व्यतिरिक्तं तदाकारं प्रतीयादपरस्तदा।

नित्यमात्मनि सम्बन्धे प्रतीयात् कथितं च न।।376।।

एकैकेनाभिसम्बन्धे प्रतिसन्धिर्न युज्यते।

एकार्थाभिनिवेशात्मा प्रवक्तृश्रोतृचेतसो:।।377।।

तदेकव्यवहारश्चेत् सादृश्यादतदाभयो:।

भिन्नात्मार्थ: कथं ग्राह्यस्तदा स्याद्धीरनर्थिका।।378।।

तच्चानुभवविज्ञानेनोभयांशावलम्बिना।

एकाकारविशेषेण तज्ज्ञानेनानुबध्यते।।379।।

अन्यथा ह्यतथारूपं* कथं ज्ञानेऽधिरोहति। (*ह्यतथाकारं—पाठा0।

एकाकारोत्तरं ज्ञानं तथा ह्युत्तरमुत्तरम्।।380।।

तस्यार्थरूपेणाकारावात्माकारश्च कश्चन।

द्वितीयस्य तृतीयेन ज्ञानेन हि विविच्यते।।381।।

अर्थकार्यतया ज्ञानस्मृतावर्थस्मृतेर्यदि।

भ्रान्त्या सङ्कलनम्; ज्योतिर्मनस्कारे च सा भवेत्।।382।।

सर्वेषामपि कार्याणां कारणै: स्यात् तथा ग्रह:।

कुलालादिविवेकेन न स्मर्येत घटस्तत:।।383।।

यस्मादतिशयाज् ज्ञानमर्थसंसर्गभाजनम्।

सारूप्यात्तत् किमन्यत् स्याद् दृष्टेश्च यमलादिषु।।384।।

आद्यानुभयरूपत्वे ह्येकरूपे* व्यवस्थितम्।

द्वितीयं व्यतिरिच्येत न परामर्शचेतसा।।385।।

अर्थसंकलनाश्लेषां धीर्द्वितीयावलम्बते। (पा0टि0-*अर्थसंकलनाश्लेषा—रा0)

नीलादिरूपेण धियं भासमानां पुरस्तत:।।386।।

अन्यथा ह्याद्यमेवैकं संयोज्येतार्थसम्भवात्।

ज्ञानं नादृष्टसम्बन्धं पूर्वार्थेनोत्तरोत्तरम्।।387।।

सकृत् संवेद्यमानस्य नियमेन धिया सह।

विषयस्य ततोऽन्यत्वं केनाकारेण सिध्यति।।388।।

भेदश्च भ्रान्तविज्ञानैर्दृश्येतेन्दाविवाद्वये।

संवित्तिनियमो नास्ति भिन्नयोर्नीलपीतयो:।।389।।

नार्थोऽसंवेदन: कश्चिदनर्थं वापि वेदनम्।

दृष्टं संवेद्यमानं तत् तयोर्नास्ति विवेकिता।।390।।

तस्मादर्थस्य दुर्वारं ज्ञानकालावभासिन:।

ज्ञानादव्यतिरेकित्वम्; हेतुभेदानुमा भवेत्।।391।।

अभावादक्षबुद्धीनां सत्स्वप्यन्येषु हेतुषु।

नियमं यदि न ब्रूयाद् प्रत्ययात् समनन्तरात्।।392।।

बीजादंकुरजन्माग्नेर्धूमात् सिद्धिरितीदृशी।

बाह्यार्थाश्रयिणी यापि कारणज्ञापकस्थिति:।।393।।

सापि तद्रूपनिर्भासा तथा नियतसङ्गमा:।

बुद्धीराश्रित्य कल्प्येत यदि किं वा विरुध्यते।।394।।

अनग्निजन्यो धूम: स्यात् तत्कार्यात् कारणेऽगति:।

न स्यात् कारणतायां वा कुत एकान्ततो गति:।।395।।

तत्रापि धूमाभासा धी: प्रबोधपटुवासनाम्।

गमयेदग्निनिर्भासां धियमेव न पावकम्।।396।।

तद्योग्यवासनागर्भ एव धूमावभासिनीम्।

व्यनक्ति चित्तसन्तानो धियं धूमोऽग्नितस्तत:।।397।।

{ज्ञानस्य द्वैरूप्यसाधनम्}

अस्त्येष विदुषां वादो बाह्यं त्वाश्रित्य वर्ण्यते।

द्वैरूप्यं सहसंवित्तिनियमात् तञ्च सिध्यति।।398।।

ज्ञानमिन्द्रियभेदेन  पटुमन्दाविलादिकाम्।

प्रतिभासभिदामर्थे बिभ्रदेकत्र दृश्यते।399।।

अर्थस्याभिन्नरूपत्वादेकरूपं भवेन्मन:।

सर्वं तदर्थमर्थाच्चेत् तस्य नास्ति तदाभता।।400।।

अर्थाश्रयेणोद्भवस्तद्रूपमनकुर्वत:।

तस्य केनचिदंशेन परतोऽपि भिदा भवेत्।।401।।

तथा ह्याश्रित्य पितरं तद्रूपोऽपि* सुत: पितु:।

भेदं केनचिदंशेन कुतश्चिदवलम्बते।।402।। (पा0टि0-*तद्रूपो हि—रा0)

मयूरचन्द्रकाकारं नीललोहितभास्वरम्।

सम्पश्यन्ति प्रदीपादेर्मण्डलं मन्दचक्षुष:।।403।।

तस्य तद्बाह्यरूपत्वे का प्रसन्नेक्षणेऽक्षमा।

भूतं पश्यँश्च तद्दर्शी कथं चोपहतेन्द्रिय:।।404।।

शोधितं तिमिरेणास्‍य व्यक्तं चक्षुरतीन्द्रियम्।

पश्यतोऽन्याक्षदृश्येऽर्थे तदव्यक्तं कथं पुन:।।405।।

आलोकाक्षमनस्कारादन्यस्यैकस्य गम्यते।

शक्तिर्हेतुस्ततो नान्योऽहेतुश्च विषय: कथम्!।।406।।

स एव यदि धीहेतु: किं प्रदीपमपेक्षते।

दीपमात्रेण धीभावादुभयं नापि कारणम्।।407।।

दूरासन्नादिभेदेन व्यक्ताव्यक्तं न युज्यते।

तत् स्यादालोकभेदाच्चेत् तत्पिधानापिधानयो:।।408।।

तुल्या दृष्टिरदृष्टिर्वा सूक्ष्मोंऽशस्तस्य कश्चन।

आलोकेन च मन्देन दृश्यतेऽतो भिदा यदि।।409।।

एकत्वेऽर्थस्य बाह्यस्य दृश्यादृश्यभिदा कुत:।

अनेकत्वेऽणुशो भिन्‍ने दृश्यादृश्यभिदा कुत:।।।410।।

मान्द्यपाटवभेदेन भासो बुद्धिभिदा यदि।

भिन्नेऽन्यस्मिन्नभिन्नस्य कुतो भेदेन भासनम्।।411।।

मन्दं तदपि तेज: किमावृतेरिह सा न किम्।

तनुत्वं तेजसोऽप्येतदस्त्यन्यत्राप्यतानवम्।।412।।

अत्यासन्ने च सुव्यक्तं तेजस्तत् स्यादतिस्फुटम्।

तत्राप्यदृष्टमाश्रित्य भवेद् रूपान्तरं यदि ? ।।413।।

अन्योन्यावरणात् तेषां स्यात् तेजोविहतिस्तत:।

तत्रैकमेव दृश्येत तस्यानावरणे सकृत्।।414।।

पश्येत् स्फुटास्फुटं रूपमेकोऽदृष्टेन वारणे।

अर्थानथौ न येन स्तस्तददृष्टं करोति किम्।।415।।

तस्मात् संविद्‌ यथाहेतु जायमानार्थसंश्रयात्।

प्रतिभासभिदां धत्ते, शेषा: कुमतिदुर्नया:।।416।।

ज्ञानशब्दप्रदीपानां प्रत्यक्षस्येतरस्य वा।

जनकत्वेन पूर्वेषां क्षणिकानां विनाशत:।।417।।

व्यक्ति: कुतोऽसतां ज्ञानाद्; अन्यस्यानुपकारिण:।

व्यक्तौ व्यज्येत सर्वोऽर्थस्तद्धेतोर्नियमो यदि।।418।।

नैषापि कल्पना ज्ञाने ज्ञानं त्वर्थावभासत:।

तं व्यनक्तीति कथ्येत तदभावेऽपि तत्कृतम्।।419।।

नाकारयति चान्योऽर्थोऽनुपकारात् सहोदित:।

*व्यक्तोऽनाकारयन् ज्ञानं स्वाकारेण कथं भवेत् ! ।।420।। (*नाकारयज्ज्ञानं—रा0)

{अक्षणिकव्यक्तेरसम्भवत्वम्}   

वज्रोपलादिरप्यर्थ: स्थिर: सोऽन्यानपेक्षणात्।

सकृत् सर्वस्य* जनयेज्ज्ञानानि जगत: समम्।1421।। (*स्वयम्—पाठा0)

क्रमाद् भवन्ति तान्यस्य सहकार्युपकार्यत:।

आहु: प्रतिक्षणं भेदं स दोषोऽत्रापि पूर्ववत्।।422।।

{स्वसंवेदनविचार:}   

संवेदनस्य तादात्म्ये न विवादोऽस्ति कस्यचित्।

तस्यार्थरूपताऽसिद्धा सापि सिध्यति संस्मृते:।।423।।

भेदेनाननुभूतेऽस्मिन्नविभक्ते स्वगोचरै:।

एवमेतन्न खल्वेवमिति सा स्यान्न भेदिनी।।424।।

न चानुभवमात्रेण कश्चित् भेदौ विवेचक:।

विवेकिनी न चास्पष्टभेदे धीर्यमलादिवत्।।425।।

द्वैरूप्यसाधनेमापि प्राय: सिद्धं स्ववेदनम्।

स्वरूपभूताभासस्य तदा संवेदनेक्षणात्।।426।।

धियाऽतद्रूपया ज्ञाने निरुद्धेऽनुभव: *कथम्। (पा0टि0-*कुत:—पाठा0)

स्वं च रूपं न सा *वेत्तीत्युत्सन्नोऽनुभवोऽखिल:।।427।। (पा0टि0-*0ऽर्थिन:—पाठा0)

बर्हिमुखं च तज्ज्ञानं भात्यर्थप्रतिभासवत्।

बुद्धेश्च ग्राहिका वित्तिर्नित्यमन्तर्मुखात्मनि।।428।।

यो यस्य विषयाभासस्तं वेत्ति न तदित्यपि।

प्राप्ता का संविदन्यास्ति ताद्रूप्यादिति चेन्मतम्।।429।।

प्राप्तं संवेदनं सर्वसदृशानां परस्परम्।

बुद्धि: सरूपा तद्विच्चेत् नेदानीं वित् सरूपिका।।430।।

स्वयं सोऽनुभवस्तस्या न स सारूप्यकारण:।

क्रियाकर्मव्यवस्थायास्तल्लोके स्यान्निबन्धनम्।।431।।

स्वभावभूततद्रूपसंविदारोपविप्लवात्।

नीलादेरनुभूताख्या नानुभूते: परात्मन:।।432।।

धियो नीलादिरूपत्वे बाह्योऽर्थ: किम्प्रमाणक:।

धियोऽनीलादिरूपत्वे स तस्यानुभव: कथम्!।।433।।

यदा संवेदनात्मत्वं न सारूप्यनिबन्धनम्।

सिद्धं तत् स्वत एवास्य किमर्थेनोपनीयते!।।434।।

न च *सर्वात्मना साम्यमज्ञानत्वप्रसङ्गत:।

न च केनचिदंशेन सर्वं सर्वस्य वेदनम्।।435।।

(*पा0टि0-"सर्वात्मना हि सारूप्ये ज्ञानमज्ञानतां व्रजेत। साम्ये केनचिदंशेन स्यात् सर्वे सर्ववेदनम्।।" —पाठा0।)

यथा नीलादिरूपत्वान्नीलाद्यनुभवो मत:।

तथानुभवरूपत्वात् तस्याप्यनुभवो भवेत्।।436।।

नानुभूतोऽनुभव इत्यर्थवद्धि विनिश्चय:।

तस्माददोष इति चेत् नार्थेऽप्यस्त्येष सर्वदा।।437।।

कस्माद् वानुभवे नास्ति सति सत्तानिबन्धने।

अपि चेदं यदाभाति दृश्यमाने सितादिके।।438।।

पुंस: सिताद्यभिव्यक्तिरूपंसंवेदनं स्फुटम्।

तत् किं सिताद्यभिव्यक्ते: पररूपमथात्मन:।।439।।

पररूपेऽप्रकाशायां व्यक्तौ व्यक्तं कथं सितम्।

ज्ञानं व्यक्तिर्न सा व्यक्तेत्यव्यक्तमखिलं जगत्।।440।।

व्यक्तेर्व्यक्त्यन्तरव्यक्तावपि दोषप्रसङ्गत:।

दृष्ट्या वाज्ञातसम्बन्धं विशिनष्टि तया कथम्!।।441।।

यस्माद् द्वयोरेकगतौ न द्वितीयस्य दर्शनम्।

द्वयो: संसृष्टयोर्दृष्टौ स्याद् दृष्टमिति निश्चय:।।442।।

सरूपं दर्शनं यस्य दृश्यतेऽन्येन चेतसा।

दृष्टाख्या* तत्र चेत्; सिद्धं सारूप्येऽस्य स्ववेदनम्।।443।। (पा0टि0-*दृष्टाख्येति न—रा0)

अथात्मरूपं नो वेत्ति पररूपस्य चित् कथम्।

सारूप्याद् वेदनाख्या च प्रागेव प्रतिवर्णिता।।444।।

दृष्टयोरेव सारूप्‍यग्रहोऽर्थ च न दृष्टवान्।

प्राक् कथं दर्शनेनास्य सारूप्यं सोऽध्यवस्यति।।445।।

सारूप्यमपि नेच्छेद् यस्तस्य नोभयदर्शनम्।

तदार्थो ज्ञानमिति च ज्ञाते चेति गता कथा।।446।।

अथ स्वरूपम्, सा तर्हि स्वयमेव प्रकाशते।

यत् तस्यामप्रकाशायामर्थ: स्यादप्रकाशित:।।447।।

एतेनानात्मवित्पक्षे सर्वार्थादर्शनेन ये।

अप्रत्यक्षा धियं प्राहुस्तेऽपि निर्वर्णितोत्तरा:।।448।।

आश्रयालम्बनाभ्यासभेदाद् भिन्‍नप्रवृत्तय:।

सुखदु:खाभिलाषादिभेदा बुद्धय एव ता:।।449।।

प्रत्यक्षा:, तद्विविक्तं च नान्यत् किञ्चिद्विभाव्यते।

यत्तज्ज्ञानं परोऽप्येतान् भुञ्जीतान्येन विद् यदि।।450।।

तज्जा तत्प्रतिभासा वा यदि धीर्वेत्ति नापरा

आलम्बमानस्यान्यस्याप्यस्त्यवश्यमिदं द्वयम्।।451।।

अथ नोत्पद्यते तस्मान्न च तत्प्रतिभासिनी।

सा धीर्निर्विषया प्राप्ता; सामान्यं च तदग्रहे।।452।।

न गृह्यत इति प्रोक्तम्; न च तद्वस्तु किञ्चन।

तस्मादर्थावभासोऽसौ नान्यस्तस्या धियस्तत:।।453।।

सिद्धे प्रत्यक्षभावात्मविदौ; गृह्णाति तान्* पुन:। (*पा0टि0-तत्—रा0)

नाध्यक्षमिति चेदेष कुतो भेद: समार्थयो:।।454।।

अदृष्टैकार्थयोगादे: संविदो नियमो यदि।

सर्वथान्यो न गृह्णीयात् संविद्भेदोऽप्यपोदित:।।455।।

येषां च योगिनोऽन्यस्य प्रत्यक्षेण सुखादिकम्।

विदन्ति तुल्यानुभवास्तद्वत् तेऽपि स्युरातुरा:।।456।।

विषयेन्द्रियसम्पाताभावात् तेषां तदुद्भवम्।

नोदेति दु:खमिति चेत् ? न वै दु:खसमुद्भव:।।457।।

दुखस्य वेदनं किन्तु *दु:खज्ञानसमुद्भव:।

न हि दु:खाद्यसंवेद्यं पीडानुग्रहकारणम्।।458।। (*पा0टि0-दु:खासंवेदनं—पाठा0)

भासमानं स्वरूपेण पीडा दु:खं स्वयं यदा।

न तदालम्बनं ज्ञानं न तदैवं प्रयुज्यते*।।459।। (पा0टि0-*प्रसज्यते—पाठा0)

भिन्ने ज्ञानस्य सर्वस्य तेनालम्बनवेदने।

अर्थसारूप्यमालम्ब आत्मा वित्ति: स्वयं स्फुटा।।460।।

अपि चाध्यक्षताऽभावे धिय: स्याल्लिङ्गतो गति:।

तच्चाक्षमर्थो धी: पूर्वो मनस्कारोऽपि वा भवेत्।।461।।

कार्यकारणसामग्र्यामस्यां सम्बन्धि नापरम्*।

सामर्थ्यादर्शनात् तत्र नेन्द्रियं व्यभिचारत:।।462।।(*पा0टि0-नापराम्—रा0)

तथार्थो धीमनस्कारौ ज्ञानं तौ च न सिध्यत:।

नाप्रसिद्धस्य लिङ्गत्वं व्यक्तिरर्थस्य चेन्मता।।463।।

लिङ्गम्; सैव ननु ज्ञानं व्यक्तोऽर्थोऽनेन वर्णित:।

व्यक्तावननुभूतायां तद्व्यक्तत्वाविनिश्चयात्।।464।।

अथार्थस्यैव कश्चित् स विशेषो व्यक्तिरिष्यते।

नानुत्पादव्ययवतो विशेषोऽर्थस्य कश्चन।।465।।

तदिष्टौ वा  प्रतिज्ञानं क्षणभङ्ग: प्रसज्यते।

स च जातोऽथ वाऽज्ञातो भवेज्ज्ञातस्य लिङ्गता।।466।।

यदि ज्ञानेऽपरिच्छिन्ने ज्ञातोऽसाविति तत् कुत:।

ज्ञातत्वेनापरिच्छिन्नमपि तद् गमकं कथम्।।467।।

अदृष्टदृष्टयोऽन्येन द्रष्ट्रा दृष्टा न हि क्वचित्।

विशेष: सोऽन्यदृष्टावप्यस्तीति स्यात् स्वधीगति:।।468।।

तस्मादनुमितिर्बुद्धे: स्वधर्मनिरपेक्षिण:।

केवलान्नार्थधर्मात् क: स्वधर्म: स्वधियो पर:।।469।।

प्रत्यक्षाधिगतो हेतु: तुल्यकारणजन्मन:।

तस्य भेद: कुतो बुद्धेर्व्यभिचार्यन्‍यजश्च स:।।470।।

रूपादीन् पञ्चविषयानिन्द्रियाण्युपलम्भनम्।

मुक्त्वा न कार्यमपरं तस्या: समुपलभ्यते।।471।।

तत्रात्यक्षं द्वयं पञ्चस्वर्थेष्वेकोऽपि नेक्ष्यते।

रूपदर्शनतो जातो योऽन्यथा व्यस्तसम्भव:।।472।।

यदेवमप्रतीतं तल्लिङ्गमित्यतिलौकिकम्।

विद्यमानेऽपि लिङ्गे तां तेन सार्धमपश्यत:।।473।।

कथं प्रतीतिर्लिङ्गं हि नादृष्टस्य प्रकाशकम्।

तत एवास्य लिङ्गात् प्राक् प्रसिद्धेरुपवर्णने।।474।।

दृष्टान्तान्तरसाध्यत्वं तस्यापीत्यनवस्थिति:।

इत्यर्थस्य धिय: सिद्धि: नार्थात् तस्या: कथञ्चन।।475।।

तदप्रसिद्धावर्थस्य स्वयमेवाप्रसिद्धित:।

प्रत्यक्षां च धियं दृष्ट्वा तस्याश्चेष्टाभिधादिकम्।।476।।

परचित्तानुमानं च न स्यादात्मन्यदर्शनात्।

सबन्धस्य, मनोबुद्धावर्थलिङ्‌गाप्रसिद्धित:।।477।।

प्रकाशिता कथं वा स्यात् बुद्धिर्बुद्ध्यन्तरेण व:।

अप्रकाशात्मनो: साम्याद् व्यङ्ग्यव्यञ्जकता कुत:।।478।।

विषयस्य कथं व्यक्ति: ? प्रकाशे रूपसंक्रमात्।

स च प्रकाशस्तद्रूप: स्वयमेव प्रकाशते।।479।।

तथाम्युपगमे बुद्धेर्बुद्धौ बुद्धि: स्ववेदिका।

सिद्धान्यथा तुल्यधर्मा विषयोऽपि धिया सह।।480।।

इति प्रकाशरूपा न: स्वयं धी: सम्प्रकाशते।

अन्योऽस्यां रूपसंक्रान्त्या प्रकाश: सन् प्रकाशते।।481।।

सादृश्येऽपि हि धीरन्या प्रकाश्या न तया मता।

स्वयं प्रकाशमानाऽर्थस्तद्रूपेण* प्रकाशते।।482।। (पा0टि0-*प्रकाशनाद्—पाठा0)

यथा प्रदीपयोर्दीपघटयोश्च तदाश्रय:।

व्यंग्यव्यञ्जकभेदेन व्यवहार: प्रतन्यते।।483।।

विषयेन्द्रियमात्रेण न दृष्टमिति निश्चय:।

तस्माद् यतोऽयं तस्यापि वाच्यमन्यस्य दर्शनम्।।484।।

{स्वसंवित्तिसिद्धि:}

स्मृतेरप्यात्मवित् सिद्धा ज्ञानस्या; ऽन्येन वेदने।

दीर्घादिग्रहणं न स्याद् बहुमात्रानवस्थिते:।।485।।

अवस्थितावक्रमायां सकृदाभासनान्मतौ।

वर्ण: स्यादक्रमोऽदीर्घ:; क्रमवानक्रमां कथम्।।486।।

उपकुर्यादसंश्लिष्यन् वर्णभाग: परस्परम्।

आन्त्यं पूर्वस्थितादूर्ध्व वर्धमानो ध्वनिर्भवेत्।। 487।।

अक्रमेण ग्रहादन्ते क्रमवद्धीश्च नो भवेत्।

धिय: स्वयं च न स्थानं तदूर्ध्वविषयास्थिते:।।488।।

स्थाने स्वयं न नश्येत् सा पश्चादप्यविशेषत:।

दोषोऽयं सकृदुत्पन्नाक्रमवर्णस्थितावपि।।489।।

सकृद्यत्नोद्भवाद् व्यर्थ: स्याद् यत्नश्चोत्तरोत्तर:।

व्यक्तावप्येष वर्णानां दोष: समनुषज्यते।।490।।

अनेकया तद्ग्रहणे यान्त्या धी: सानुभूयते।

न दीर्घग्राहिका सा च तन्न स्याद् दीर्घधीस्मृति:।।491।।

पृथक् पृथक् च बुद्धीनां संवित्तौ तद्ध्वनिश्रुते:*। (पा0टि-*तद्ध्वनि : श्रुतो: —रा0)

अविच्छिन्नाभता न स्याद् घटनं च निराकृतम्।।492।।

विच्छिन्नं श्रृण्वतोऽप्यस्य यद्यविच्छिन्नविभ्रम:।

ह्रस्वद्वयोच्चारणेऽपि  स्यादविच्छिन्नविभ्रम:।।493।।

विच्छिन्ने दर्शने चाक्षादविच्छिन्नाधिरोपणम्।

नाक्षात्, सर्वाक्षबुद्धीनां वितथत्वप्रसङ्गत:।।494।।

सर्वान्त्योऽपि हि वर्णात्मा निमेषतुलितस्थिति:।

स च क्रमादनेकाणुसम्बन्धेन नितिष्ठति।।495।।

एकाण्वत्ययकालश्च कालोऽल्पीयान् क्षणो मत:।

बुद्धिश्च क्षणिका तस्मात् क्रमाद् वर्णान् प्रपद्यते।।496।।

इति वर्णेऽपि रूपादावविच्छिन्नावभासिनी।

विच्छिन्नाप्यन्यया बुद्धि: सर्वा स्याद् वितथार्थिका।।497।।

घटनं यच्च भावानामन्यत्रेन्द्रियविभ्रमात्।

भेदालक्षणविभ्रान्तं स्मरणं तद् विकल्पकम्।।498।।

तस्य स्पष्टावभासित्वं जल्पसंसर्गिण: कुत:।

नाक्षग्राह्येऽस्ति शब्दानां योजनेति विवेचितम्।।499।

विच्छिन्नं पश्यतोऽप्यक्षैर्घटयेद् यदि कल्पना।

अर्थस्य तत्संवित्तेश्च सततं भासमानयो:।।500।।

बाधकेऽसति सन्न्याये विच्छिन्न इति तत् कुत:।

बुद्धीनां शक्तिनियमादिति चेत् स कुतो मत:!।।501।।

युगपद् बुद्ध्यदृष्टेश्चेत् ? तदेवेदं विचार्यते।

तासां समानजातीये सामर्थ्यनियमो भवेत्।।502।।

तथा हि सम्यग् लक्ष्यन्ते विकल्पा: क्रमभाविन:।

{प्रत्यभिज्ञाविचार:}

एतेन य: समक्षेऽर्थे प्रत्‍यभिज्ञानकल्पनाम्।।503।।

स्पष्टावभासां प्रत्यक्षां कल्पयेत् सोऽपि वारित:।

केशगोलकदीपादावपि स्पष्टावभासनात्।।504।।

प्रतीतभेदेऽप्यध्यक्षा धी: कथं तादृशी भवेत्।

तस्मान्न प्रत्यभिज्ञानाद् वर्णाद्येकत्वनिश्चय:।।505।।

पूर्वानुभूतस्मरणात् तद्धर्मारोपणाद् विना।

स एवायमिति ज्ञानं नास्ति तच्चाक्षजे कुत:।।506।।

न चार्थज्ञानसंवित्योर्युगपत् सम्भवो यत:।

लक्ष्येते* प्रतिभासौ द्वौ नार्थार्थज्ञानयो: पृथक्।।507।। (पा0टि0-*लक्ष्यते—रा0)

न ह्यर्थाभासि च ज्ञानमर्थो बाह्यश्च केवल:।

एकाकारमतिग्राह्ये भेदाभावप्रसङ्गत:।।508।।

सूपलक्षेण भेदेन यौ संवित्तौ न लक्षितौ।

अर्थार्थप्रत्ययौ पश्चात् स्मर्येते तौ पृथक् कथम्।।509।।

क्रमेणानुभवोत्पादेऽप्यर्थार्थमनसोरयम्।

प्रतिभासस्य नानात्वचोद्यदोषो दुरुद्धर:।।510।।

अर्थसंवेदनं तावत् ततोऽर्थाभासवेदनम्।

न हि संवेदनं शुद्धं भवेदर्थस्य वेदनम्।।511।।

तथा हि नीलाद्याकार एक एकं च वेदनम्।

लक्ष्यते न तु नीलाभे वेदने वेदनं परम्।।512।।

ज्ञानान्तरेणानुभवो भवेत् तत्रापि हि* स्मृति:। (पा0टि0-*च—रा0)

दृष्टा; तद्वेदनं केन तस्याप्यन्येन चेद् ? इमाम्।।513।।

मालां ज्ञानविदां कोऽयं जनयत्यनुबन्धिनीम्।

पूर्वा धी: सैव चेन्न स्यात् सञ्चारो विषयान्तरे।। 514 ।।    

तां ग्राह्यलक्षणप्राप्तामासन्नां जनिकां धियम्।

अगृहीत्वोत्तरं ज्ञानं गृह्णीयादपरं कथम्।।515।।

आत्मनि ज्ञानजनने स्वभावे नियतां च ताम्।

को नामान्या विबध्नीयाद् बहिरंगेऽन्तरङ्गिकाम्।।516।।

बाह्य: सन्निहितोऽप्यर्थस्तां विबध्‍नन् हि न प्रभु:।

धियं नानुभवेत् कश्चिदन्यथार्थस्य सन्निधौ।।517।।

न चासन्निहितार्थास्ति दशा काचिदतो धिय:।

उत्खातमूला स्मृतिरप्युत्सन्नेत्युज्ज्वलं मतम्।।518।।

अतीतादिविकल्पानां येषां नार्थस्य सन्निधि:।

सञ्चारकरणाभावाद् उत्सीदेदर्थचिन्तनम्।।519।।

आत्मविज्ञानजनने शक्तिसंक्षयत: शनै:।

विषयान्तरसञ्चारो यदि ? सैवार्थधी: कुत: !।।520।।

शक्तिक्षये पूर्वधियो न हि धी: प्राग्धिया विना।

अन्यार्थाशक्तिविगुणे ज्ञाने ज्ञानोदयागते:।।521।।

सकृद्विजातीयजातावप्येकेन पटीयसा।

चित्तेनाहितवैगुण्यादालयान्नान्यसम्भव:।।522।।

नापेक्षेतान्यथा साम्यं मनोवृत्तेर्मनोऽन्तरम्।

मनोज्ञानक्रमोत्पत्तिरप्यपेक्षा प्रसाधनी।।523।।

एकत्वान्मनसोऽन्यस्मिन् सक्तस्यान्यागतेर्यदि।

ज्ञानान्तरस्यानुदयो न कदाचित् सहोदयात्।।524।।

समवृत्तौ च तुल्यत्वात् सर्वदान्यागतिर्भवेत्।

जन्म वात्ममनोयोगमात्रजानां* सकृद् भवेत्।।525।। (पा0टि0-*चात्थमनो0—रा0)

एकैव चेत् क्रियैक: स्यात् किं दीपोऽनेकदर्शन:।

क्रमेणापि न शक्तं स्यात् पश्चादप्यविशेषत:।।526।।

अनेन देहपुरुषावुक्तौ संस्कारतो यदि।

नियम: स कुत: पश्चात् बुद्धेश्चेदस्तु सम्मतम्।।527।।

न ग्राह्यतान्या जननाज्जननं ग्राह्यलक्षणम्।

अग्राह्यं न हि तेजोऽस्ति; न च सौक्ष्म्याद्यनंशके।।528।।

ग्राह्यताशक्तिहानि: स्यात् नान्यस्य जननात्मन:।

ग्राह्यताया न खल्वन्यज्जननं ग्राह्यलक्षणे।।529।।

साक्षान्न ह्यन्यथा बुद्धे रूपादिरुपकारक:।

ग्राह्यतालक्षणादन्यस्तद्भावनियमोऽस्य क:।।530।।

बुद्धेरपि तदस्तीति सापि सत्त्वे व्यवस्थिता।

ग्राह्योपादानसंवित्ती चेतसो ग्राह्यलक्षणम्।।531।।

{योगिनां ज्ञानम्}

रूपादेश्चेतसश्चैवमविशुद्धधियं प्रति।

ग्राह्यलक्षणचिन्तेयमचिन्त्या योगिनां गति:।।532।।

तत्र सूक्ष्मादिभावेन ग्राह्यमग्राह्यतां व्रजेत्।

रूपादि बुद्धे: किं जातं पश्चाद् यत् प्राङ् न विद्यते।।533।।

सति स्वधीग्रहे तस्माद् यैवानन्तरहेतुता*।

चेतसो ग्राह्यता सैव ततो नार्थान्तरे गति:।।534।।(पा0टि0- *सैवानन्तर0-रा0)

नानेकशक्त्यभवेऽपि भावो नानेककार्यकृत्।

प्रकृत्यैवेति गदितम्, नानेकस्मान्न चेद् भवेत्।।535।।

{हेतुसामग्र्या: सर्वसम्भवत्वम्}

न किञ्चिदेकमेकस्मात्. सामग्र्या: सर्वसम्भव:।

एकं स्यादपि सामग्र्योरित्युक्तं तदनेककृत्।।536।।

अर्थं पूर्वञ्च विज्ञानं गृह्णीयाद् यदि धी: परा।

अभिलापद्वयं नित्यं स्याद् दृष्टक्रममक्रमम्।।537।।

पूर्वापरार्थभासित्वाच्चिन्तादावेकचेतसि।

द्विर्द्विरेकं च भासेत भासनादात्मतद्धियो:।।538।।

 

{आत्मानुभूतं प्रत्यक्षम्}

विषयान्तरसञ्चारे यद्यन्त्यं नानुभूयते।

परानुभूतवत् सर्वाननुभूति: प्रसज्यते।।539।।

आत्मानुभूतं प्रत्यक्षं नानुभूतं परै: यदि।

आत्मानुभूति: सा सिद्धा कुतो येनैवमुच्यते।।540।।

व्यक्तिहेत्वप्रसिद्धि: स्यात् न व्यक्तेर्व्यक्तमिच्छत:।

व्यक्त्यसिद्धावपि व्यक्तं यदि व्यक्तमिदं जगत्।।541।।