प्रमाणसिद्धिनामा

प्रथम: परिच्छेद:

मङ्गलम्‌

विधूतकल्पनाजालगम्भीरोदारमूर्तये।

नम: समन्तभद्राय समन्तस्फरणत्विषे।।1।।

{अनुबन्धचतुष्टयनिरूपणम्‌}

प्राय: प्राकृतसक्तिरप्रतिबलप्रज्ञो जन: केवलम्‌।

नानर्थ्येव सुभाषितै: परिगतो विद्वेष्ट्‌यपीर्ष्यामलै:।

तेनायं न परोपकार इति नश्चिन्तापि चेतश्चिरम्*।

सूक्ताभ्यासविवर्धितव्यसनमित्यत्रानुबद्धस्पृहम्‌।।2।। (पा0टि0- *चेतस्तत:-रा0)

{प्रमाणलक्षणम्‌}

{1- अविसंवादिज्ञानं प्रमाणम्‌;}

प्रमाणमविसंवादिज्ञानम्‌;

{अविसंवादनशब्दनिरुक्ति: }

अर्थक्रियास्थिति:।

{अविसंवादनम्‌; }

{शाब्दे ज्ञानेऽपि प्रामाण्यम्‌}

शाब्देऽप्यभिप्रायनिवेदनात्‌।।3।।

वक्तृव्यापारविषयो योऽर्थो बुद्धौ प्रकाशते।

प्रामाण्यं तत्र शब्दस्य, नार्थतत्त्‍वनिबन्धनम्‌।।4।।

गृहीतग्रहणान्नेष्टं सांवृतम्‌, धीप्रमाणता।

प्रवृत्तेस्तत्प्रधानत्वात्‌ हेयोपादेयवस्तुनि।।5।।

विषयाकारभेदाच्च धियोऽधिगमभेदत:।

भावादेवास्य तद्भावे;

{मीमांसकमतखण्डनम्‌}

स्वरूपस्य स्वतो गति:।। 6 ।।

प्रामाण्यं व्यवहारेण;

{शास्त्रप्रणयनफलम्‌}

शास्त्रं मोहनिवर्तनम्‌।

{2- अज्ञातार्थप्रकाशकं ज्ञानं प्रमाणम्‌}

अज्ञातार्थप्रकाशो वा;

 

{सामान्यज्ञानेऽप्रामाण्यम्‌}

स्वरूपाधिगते: परम्‌।। 7 ।।

प्राप्तं सामान्यविज्ञानम्‌, अविज्ञाते स्वलक्षणे।

यज्ज्ञानमित्यभिप्रायात्‌; स्वलक्षणविचारत:।। 8 ।।

{भगवति प्रामाण्यम्‌}

तद्वत्‌ प्रमाणं भगवान्‌;  अभूतविनिवृत्तये।

भूतोक्ति:; साधनापेक्षा ततो युक्ता प्रमाणता।। 9 ।।

{ईश्वरादावप्रामाण्यम्‌}

{नित्येऽप्रामाण्यम्‌}

नित्यं प्रमाणं नैवास्ति प्रामाण्यात्‌; वस्तुसद्गते*:।।

ज्ञेयानित्यतया तस्या अध्रौव्यात्‌; क्रमजन्मनाम्‌।। 10 ।।(पा0टि0-*वस्तुसङ्गते:-रा0)

नित्यादुत्पत्तिविश्लेषादपेक्षाया अयोगत:।

कथञ्चिन्नोपकार्यत्वात्‌;

{अनित्येऽप्यप्रामाण्यम्‌}

अनित्येऽप्यप्रमाणता।।11।।

{ईश्वरसाधनदूषणम्‌}

{1- नैयायिकमतखण्डनम्‌}

स्थित्वा प्रवृत्ति:संस्थानविशेषार्थक्रियादिषु।

इष्टसिद्धि:; असिद्धिर्वा दृष्टान्ते संशयोऽथवा।। 12 ।।

सिद्धं यादृगधिष्ठातृभावाभावानुवृत्तिमत्‌।

सन्निवेशादि; तद्युक्तं तस्माद् यदनुमीयते।। 13।।

वस्तुभेदे प्रसिद्धस्य शब्दसाम्यादभेदिन:।

न युक्तानुमिति: पाण्डुद्रव्यादिव* हुताशने।। 14।।

(पा0टि0- *पाण्डुद्रव्यादिवद्-रा0। एवमेव टीकायामपि।)

अन्यथा कुम्भकारेण मृद्विकारस्य कस्यचित्‌।

घटादे: करणात्‌ सिध्येद् वल्मीकस्यापि तत्कृति:।। 15।।

साध्येनानुगमात्‌ कार्ये सामान्येनापि साधने।

सम्बन्धिभेदाद् भेदोक्तिदोष: कार्यसमो मत:।। 16।।

जात्यन्तरे प्रसिद्धस्य शब्दसामान्यदर्शनात्‌।

न युक्तं साधनं गोत्वाद् वागादीनां विषाणिवत्‌।। 17।।

विवक्षापरतन्त्रत्वान्न* शब्दा: सन्ति कुत्र वा।

तद्भावादर्थसिद्धौ तु सर्वं सर्वस्य सिध्यति।। 18।।(पा0टि0- *तदभावाद्; अर्थ0-रा0)

{2- साङ्ख्यमतखण्डनम्‌}

एतेन कापिलादीनामचैतन्यादि चिन्तितम्‌।

अनित्यादेश्च चैतन्यं मरणात्‌ त्वगपोहत:।। 19।।

वस्तुस्वरूपेऽसिद्धेऽयं न्याय: सिद्धे विशेषणम्‌।

अबाधकमसिद्धावप्याकाशाश्रयवद् ध्वने:।।20।।

असिद्धावपि शब्दस्य सिद्धे वस्तुनि सिद्ध्यति।

औलूक्यस्य यथा बौद्धेनोक्तं मूर्त्त्यादिसाधनम्‌।।21।।

तस्यैव व्यभिचारादौ शब्देऽप्यव्यभिचारिणि।

दोषवत्‌ साधनं ज्ञेयं वस्तुनो वस्तुसिद्धित:।।22।।

{ईश्वरबाधकं प्रमाणम्‌}

यथा तत्‌ कारणं वस्तु तथैव तदकारणम्‌।

यदा तत्‌ कारणं केन मतं नेष्टमकारणम्‌।।23।।

शस्त्रौषधाभिसम्बन्धाच्चैत्रस्य व्रणरोहणे।

असम्बद्धस्य किं स्थाणो: कारणत्वं न कल्प्यते।।24।।

स्वभावभेदेन विना व्यापारोऽपि न युज्यते।

नित्यस्याव्यतिरेकित्वात्‌ सामर्थ्यं च दुरन्वयम्‌।।25।।

येषु सत्सु भवत्येव यत्‌ तेभ्योऽन्यस्य कल्पने।

तद्धेतुत्वेन सर्वत्र हेतूनामनवस्थिति:।।26।।

स्वभावपरिणामेन हेतुरंकुरजन्मनि।

भूम्यादिस्तस्य संस्कारे तद्विशेषस्य दर्शनात्‌।।27।।

यथा विशेषेण विना विषयेन्द्रियसंहति:।

बुद्धेर्हेतुस्तथेदं चेन्न तत्रापि विशेषत:।।28।।

पृथक्‌ पृथगशक्तानां स्वभावातिशयेऽसति।

संहतावप्यसामर्थ्यं स्यात्‌ सिद्धोऽतिशयस्तत:।।29।।

तस्मात्‌ पृथगशक्तेषु येषु सम्भाव्यते गुण:।

संहतौ हेतुता तेषां नेश्वरादेरभेदत:।।30।।

{1- ज्ञानवत्त्वाद् भगवान्‌ प्रमाणम्‌}

{मीमांसकमतखण्डनम्‌}

प्रामाण्यञ्च परोक्षार्थज्ञानं तत्साधनस्य च।

अभावान्‌ नास्त्यनुष्ठानमिति केचित्‌ प्रचक्षते।।31।।

ज्ञानवान्‌ मृग्यते कश्चिद् तदुक्तप्रतिपत्तये।

अज्ञोपदेशकरणे विप्रलम्भनशङ्किभि:।।32।।

तस्मादनुष्ठेयगतं ज्ञानमस्य विचार्यताम्‌।

कीटसंख्यापरिज्ञानं तस्य न: क्वोपयुज्यते !।।33।।

{2- हेयोपादेयवेदकत्वादेव भगवान्‌ प्रमाणम्‌}

हेयोपादेयतत्त्‍वस्य साभ्युपायस्य वेदक:।

य: प्रमाणमसाविष्टो न तु सर्वस्य वेदक:।।34।।

दूरं पश्यतु वा मा वा तत्त्‍वमिष्टं तु पश्यतु।

प्रमाणं दूरदर्शी चेदेत गृध्रानुपास्महे !।।35।।

{3- कारुणिकत्वादपि भगवान्‌ प्रमाणम्‌}

{चार्वाकमतनिरसनपूर्वकं परलोकसाधनम्‌}

साधनं करुणाभ्यासात्‌ सा; बुद्धेर्देहसंश्रयात्‌।

असिद्धोऽभ्यास इति चेन्नाश्रयप्रतिषेधत:।।36।।

प्राणापानेन्द्रियधियां देहादेव न केवलात्‌।

सजातिनिरपेक्षाणां जन्म जन्मपरिग्रहे।।37।।

अतिप्रसङ्गात्‌; यद् दृष्टं प्रतिसन्धानशक्तमित्‌।

किमासीत्‌ तस्य यन्नास्ति पश्चाद् येन न सन्धिमत्‌।।38।।

न स कश्चित्‌ पृथिव्यादेरंशो यत्र न जन्तव:।

संस्वेदजाद्या जायन्ते सर्वं बीजात्मकं तत:।।39।।

तत्‌ सजात्यनपेक्षाणामक्षादीनां* समुद्भवे।

परिणामो यथैकस्य स्यात्‌ सर्वस्याविशेषत:।।40।। (पा0टि0-* स्वजात्य0—रा0)

प्रत्येकमुपघातेऽपि  नेन्द्रियाणां मनोमते:।

उपघातोऽस्ति; भङ्गेऽस्यास्तेषां भङ्गश्च दृश्यते।।41।।

तस्मात्‌ स्थित्याश्रयो बुद्धेर्बुद्धिमेव समाश्रित:।

कश्चिन्निमित्तमक्षाणां तस्मादक्षाणि बुद्धित:।।42।।  

यादृश्याक्षेपिका साऽसीत्‌ पश्चादप्यस्तु तादृशी।

तज्ज्ञानैरुपकार्यत्वादुक्तं कायाश्रितं मन:।।43।।

यद्यप्यक्षैर्विना बुद्धिर्न तान्यपि तया विना।

तथाप्यन्योऽऽन्यहेतुत्वं ततोऽप्यन्योऽन्यहेतुके।।44।।

{विज्ञानसिद्धि:}

नाक्रमात्‌ क्रमिणो भावो नाप्यपेक्षाऽविशेषिण:।

क्रमाद् भवन्ती धी: कायात्‌ क्रमन्तस्यापि* शंसति।।45।। (पा0टि0-*क्रमं तस्यापि0-रा0।)

प्रतिक्षणमपूर्वस्य पूर्व: पूर्व: क्षणो भवेत्‌।

तस्य हेतुरतो हेतुर्दृष्ट एवास्तु सर्वदा।।46।।

चित्तान्तरस्य सन्धाने को विरोधोऽन्त्यचेतस:।

तद्वदप्यर्हतश्चित्तमसन्धानं कुतो मतम्‌।।47।।

असिद्धार्थ: प्रमाणेन किं सिद्धान्तोऽनुगम्यते।

हेतोर्वैकल्यतस्तच्चेत्‌ किं तदेवाऽत्र नोदितम्‌।।48।।

तद्धीवद् ग्रहणप्राप्तेर्मनोज्ञानं न सेन्द्रियात्‌।

ज्ञानोत्पादनसामर्थ्यभेदान्न सकलादपि।।49।।

अचेतनत्वान्नन्यस्माद्; हेत्वभेदात्‌ सहस्थिति:।

अक्षवद् रूपरसवद् अर्थद्वारेण विक्रिया।।50।।

सत्तोपकारिणी यस्य नित्यं तदनुबन्धत:।

स हेतु: सप्तमी तस्मादुत्पादादिति चोच्यते।।51।।

अस्तूपकारको वापि कदाचिच्चित्तसन्तते:।

वह्नयादिवद् घटादीनां विनिवृत्तिर्न तावता।।52।।

अनिवृत्तिप्रसङ्गश्च देहे तिष्ठति चेतस:।

तद्भावभावाद् वश्यत्वात्‌ प्राणापानौ ततो न तत्‌।।53।।

प्रेरणाकर्षणे वायो: प्रयत्नेन विना कुत:।

निर्ह्रासातिशयापत्तिर्निर्ह्रासातिशयात्‌ तयो:।।54।।

तुल्य: प्रसङ्गोऽपि तयो:; न तुल्यं चित्तकारणे।

स्थित्यावेधकमन्यच्च यत: कारणमिष्यते।।55।।

न दोषैर्विगुणो देहो हेतुर्वर्त्यादिवद् यदि।

मृते शमीकृते दोषे पुनरुज्जीवनं भवेत्‌।।56।।

निवृत्तेऽप्यनले काष्ठविकाराविनिवृत्तिवत्‌।

तस्यानिवृत्तिरिति चेन्न चिकित्साप्रयोगत:।।57।।

अपुनर्भावत: किञ्चिद् विकारजननं क्वचित्‌।

किञ्चिद् विपर्ययादग्निर्यथा काष्ठसुवर्णयो:।।58।।

आद्यस्याल्पोऽप्यसंहार्य: प्रत्यानेयस्तु यत्कृत:।

विकार: स्यात्‌ पुनर्भाव: तस्य हेम्नि खरत्ववत्‌।।59।।

दुर्लभत्वात्‌ समाधातुरसाध्यं किञ्चिदीरितम्‌।

आयु:क्षयाद् वा; दोषे तु केवले नास्त्यसाध्यता।।60।।

मृते विषादिसंहारात्‌ तद्दंशच्छेदतोऽपि वा।

विकारहेतोर्विगमे स नोच्छ्‌वसिति किं पुन:।।61।।

उपादानाविकारेण नोपादेयस्य विक्रिया।

कर्तुं शक्याऽविकारेण मृद: कुण्डादिनो यथा।।62।।     

अविकृत्य हि यद् वस्तु य: पदार्थो विकार्यते।

उपादानं न तत्‌ तस्य युक्तं गोगवयादिवत्‌।।63।।

चेत:शरीरयोरेवम्‌, तद्धेतो: कार्यजन्मन:।

सहकारात्‌ सहस्थानमग्निताम्रद्रवत्ववत्‌।।64।।

अनाश्रयात्‌ सदसतोर्नाश्रय: स्थितिकारणम्‌।

सतश्चेदाश्रयो नास्या: स्थातुरव्यतिरेकत:।।65।।

व्यतिरेकेऽपि तद्धेतुस्तेन भावस्य किं कृतम्‌।

अविनाशप्रसङ्ग: स नाशहेतोर्मतो यदि।।66।।

तुल्य: प्रसङ्गस्तत्रापि; किं पुन: स्थितिहेतुना।

आ नाशकागमात्‌ स्थानं ततश्चेद् वस्तुधर्मता।।67।।

नाशस्य; सत्यबाधोऽसाविति किं स्थितिहेतुना।

यथा जलादेराधार इति चेत्‌ तुल्यमत्र च।।68।।

प्रतिक्षणविनाशे हि भावानां भावसन्तते:।       

तथोत्पत्ते: सहेतुत्वादाश्रयोऽयुक्तमन्यथा।।69।।

स्यादाधारो जलादीनां गमनप्रतिबन्धत:।

अगतीनां किमाधारैर्गुणसामान्यकर्मणाम्‌।।70।।

एतेन समवायश्च समवायि च कारणम्‌।

व्यवस्थितत्वं जात्यादेर्निरस्तमनपाश्रयात्‌।।71।।

परतो भावनाशश्चेत्‌ तस्य किं स्थितिहेतुना।

स विनश्येद् विनाऽप्यन्यैरशक्ता: स्थितिहेतव:।।72।।

स्थितिमान्‌ नाश्रय: सर्व: सर्वोत्पत्तौ च साश्रय:।

तस्मात्‌ सर्वस्य भावस्य न विनाश: कदाचन।।73।।

स्वयं विनश्वरात्मा चेत्‌ तस्य क: स्थापक: पर।

स्वयं न नश्वरात्मा चेत्‌ तस्य क: स्थापक: पर:।।74।।

बुद्धिव्यापारभेदेन निर्ह्रासातिशयावपि।

प्रज्ञादेर्भवतो देहनिर्ह्रासातिशयौ विना।।75।।

इदं दीपप्रभादीनामाश्रितानां न विद्यते।

स्यात्‌ ततोऽपि विशेषोऽस्य न चित्तेऽनुपकारिणि।।76।।

रागादिवृद्धि: पुष्ट्यादे: कदाचित्‌ सुखदु:खजा।

तयोश्च धातुसाम्यादेरन्तरर्थस्य सन्निधे:।।77।।

एतेन सन्निपातादे: स्मृतिभ्रंशादयो गता:।

विकारयति धीरेव ह्यन्तरर्थविशेषजा।।78।।

शार्दूलशोणितादीनां सन्तानातिशये क्वचित्‌।

मोहादय: सम्भवन्ति श्रवणेक्षणतो यथा।।79।।

तस्मात्‌ स्वस्यैव संस्कारं नियमेनानुवर्तते।

तन्नान्तरीयकं चित्तमतश्चित्तसमाश्रितम्‌।।80।।

यथा श्रुतादिसंस्कार: कृतश्चेतसि चेतसि।

कालेन व्यज्यतेऽभेदात्‌ स्याद् देहेऽपि ततो गुण:।।81।।

{पुनर्जन्मसिद्धि:}

अनन्यसत्त्‍वनेयस्य हीनस्थानपरिग्रह:।

आत्मस्नेहवतो दु:खसुखत्यागाप्तिवाञ्छया।।82।।

दु:खे विपर्यासमति: तृष्णा चाऽऽबन्धकारणम्‌।

जन्मिनो यस्य ते न स्तो न स जन्माधिगच्छति।।83।।

गत्यागती न दृष्टे चेदिन्द्रियाणामपाटवात्‌।

अदृष्टिर्मन्दनेत्रस्य तनुधूमागतिर्यथा।84।।

तनुत्वान्मूर्तमपि तु किञ्चित्‌ क्वचिदशक्तिमत्‌।

जलवत्‌ सूतवद्धेम्नि नादृष्टेनासदेव वा।।85।।

पाण्यादिकम्पे सर्वस्य कम्पप्राप्तेर्विरोधिन:।

एकस्मिन्‌ कर्मणोऽयोगात्‌ स्यात्‌ पृथक्‌ सिद्धिरन्यथा।।86।।

एकस्य चावृतौ सर्वस्यावृति स्यादनावृतौ।

दृश्येत रक्ते चैकस्मिन्‌ रागोऽरक्तस्य वाऽगति:।।87।।

नास्त्येकसमुदायोऽस्मादनेकत्वेऽपि पूर्ववत्‌।

अविशेषादणुत्वाच्च न गतिश्चेन्न सिध्यति।।88।।

अविशेष:; विशिष्टानामैन्द्रियत्वमतोऽनणु:।

एतेनावरणादीनामभावश्च निराकृत:।।89।।

कथं वा सूतहेमादिमिश्रं तप्तोपलादि वा।

दृश्यम्‌ ? पृथगशक्तानामक्षादीनां गति: कथम्‌।।90।।

संयोगाच्चेत्‌; समानोऽत्र प्रसङ्गो हेमसूतयो:।

दृश्य: संयोग इति चेत्‌ कुतोऽदृश्याश्रये गति:!।।91।।

रसरूपादियोगश्च संयोग उपचारत:।

इष्टश्चेद् बुद्धिभेदोऽस्तु पंक्तिदीर्घेति वा कथम्‌!।।92।।

संख्यासंयोगकर्मादेरपि तद्वत्‌ स्वरूपत:।

अभिलापाच्च भेदेन रूपं बुद्धौ न भासते।।93।।

शब्दज्ञाने विकल्पेन वस्तुभेदानुसारिणा।

गुणादिष्विव कल्प्यार्थे नष्टाजातेषु वा यथा।।94।।

मतो यद्युपचारोऽत्र स इष्टो यन्निबन्धन:।

स एव सर्वभावेषु हेतु: किं नेष्यते तयो:।।95।।

उपचारो न सर्वत्र यदि भिन्नविशेषणम्‌।

मुख्यमित्येव च कुतोऽभिन्ने भिन्नार्थतेति चेत्‌ !।।96।।       

अनर्थान्तरहेतुत्वेऽप्यपर्याय: सितादिषु।

संख्यादियोगिन: शब्दास्तत्राप्यर्थान्तरं यदि।।97।।

गुणद्रव्याविशेष: स्याद् भिन्नो व्यावृत्तिभेदत:।

स्यादनर्थान्तरार्थत्वेऽप्यकर्माद्रव्यशब्दवत्‌।।98।।

व्यतिरेकीव यच्चापि सूच्यते भाववाचिभि:।

संख्यादितद्वत: शब्दैस्तद्धर्मान्तरभेदकम्‌।।99।।

श्रुतिस्तन्मात्रजिज्ञासोरनाक्षिप्ताखिलापरा।

भिन्नं धर्ममिवाचष्टे योगोऽङ्गुल्या इति क्वचित्‌।। 100।।

युक्ताङ्गुलीति सर्वेषामाक्षेपाद् धर्मिवाचिनी।

ख्यातैकार्थाभिधानेऽपि तथा विहितसंस्थिति:।। 101।।

रूपादिशक्तिभेदानामनाक्षेपेण वर्त्तते।

तत्समानफलाऽहेतुव्यवच्छेदे घटश्रुति:।। 102।।

अतो न रूपं घट इत्येकाधिकरणा श्रुति:।

भेदोऽयमीदृशो जातिसमुदायाभिधायिनो:।। 103।।      

रूपादयो घटस्येति तत्सामान्योपसर्जना:।

तच्छक्तिभेदा: ख्याप्यन्ते वाच्योऽन्योऽपि दिशानया।। 104।।

हेतुत्वे च समस्तानामेकाङ्गविकलेऽपि न।

प्रत्येकमपि सामर्थ्ये युगपद् बहुसम्भव:।। 105।।

नानेकत्वस्य तुल्यत्वात्‌ प्राणापानौ नियामकौ।

एकत्वेऽपि बहुव्यक्तिस्तद्धेतोर्नित्यसन्निधे:।। 106।।

नानेकहेतुरिति चेन्नाविशेषात्‌ क्रमादपि।

नैकप्राणेऽप्यनेकार्थग्रहणान्नियमस्तत:।। 107।।

एकयाऽनेकविज्ञाने बुद्ध्याऽस्तु सकृदेव तत्‌।

अविरोधात्‌; क्रमेणापि मा भूत्‌ तदविशेषत:।। 108।।

बहव: क्षणिका: प्राणा अस्वजातीयकालिका:।

तादृशामेव चित्तानां कल्प्यते यदि कारणम्‌।। 109।।

क्रमवन्त: कथं ते स्यु: क्रमवद्धेतुना विना।

पूर्वस्वजातिहेतुत्वे न स्यादाद्यस्य सम्भव:।। 110।।

तद्धेतुस्तादृशो नास्ति सति वाऽनेकता ध्रुवम्‌।

प्राणानां भिन्नदेशत्वात्‌ सकृज्जन्म धियामत:।। 111।।

यद्येककालिकोऽनेकोऽप्येकचैतन्यकारणम्‌।

एकस्यापि न वैकल्ये स्यान्मन्दश्वसितादिषु।। 112।।

अथ हेतुर्यथाभावं ज्ञानेऽपि स्याद् विशिष्टता।

न हि तत्‌ तस्य कार्यं यद् यस्य* भेदान्न भिद्यते।। 113 ।। (पा0टि0 *-तस्य-रा0)

विज्ञानं शक्तिनियमादेकमेकस्य कारणम्‌।

अन्यार्थासक्तिविगुणे ज्ञाने नार्थान्तराग्रहात्‌।। 114।।

{कर्मसिद्धि:}

शरीरात्‌ सकृदुत्पन्ना धी: स्वजात्या नियम्यते।

परतश्चेत्‌ समर्थस्य देहस्य विरति: कुत:।। 115।।

अनाश्रयान्निवृत्ते स्याच्छरीरे चेतस: स्थिति:।

केवलस्येति चेच्चित्तसन्तानस्थितिकारणम्‌।। 116।।

तद्धेतुवृत्तिलाभाय नाङ्गतां यदि गच्छति।

हेतुर्देहान्तरोत्पत्तौ पञ्चायतनमैहिकम्‌।। 117।।

तदङ्गभावहेतुत्वनिषेधेऽनुपलम्भनम्‌।

अनिश्चयकरं प्रोक्तं इन्द्रियाद्यपि शेषवत्‌।। 118।।    

दृष्टा च शक्ति: पूर्वेषामिन्द्रियाणां स्वजातिषु।

विकारदर्शनात्‌ सिद्धमपरापरजन्म च।। 119।।

शरीराद् यदि तज्जन्म प्रसङ्ग: पूर्ववद् भवेत्‌।

चित्ताच्चेत्‌ तत एवास्तु जन्म देहान्तरस्य च।। 120।।

तस्मान्न हेतुवैकल्यात्‌ सर्वेषामन्त्यचेतसाम्‌।

असन्धिरीदृशं तेन शेषवत्‌ साधनं मतम्‌।। 121।।

अभ्यासेन विशेषेऽपि लङ्घनोदकतापवत्‌।

स्वभावातिक्रमो मा भूदिति चेद्; आहित: स चेत्‌।। 122।।

पुनर्यत्नमपेक्षेत यदि स्याच्चास्थिराश्रय:।

विशेषो नैव वर्धेत स्वभावश्च न तादृश:।। 123।।

तत्रोपयुक्तशक्तीनां विशेषानुत्तरान्‌ प्रति।

साधनानामसामर्थ्यान्नित्यं चानाश्रयस्थिते:।। 124।।

विशेषस्यास्वभावत्वाद् वृद्धावप्याहितो* यदा।

नापेक्षेत पुनर्यत्नं यत्नोऽन्‍य: स्याद् विशेषकृत्‌।। 125।। (पा0टि0- *वप्याहिता-रा0)

काष्ठपारदहेमादेरग्न्यादेरिव चेतस:।

अभ्यासजा: प्रवर्त्तन्ते स्वरसेन कृपादय:।। 126।।

तस्मात्‌ स तेषामुत्पन्न: स्वभावो जायते गुण:।

तदुत्तरोत्तरो यत्नो विशेषस्य विधायक:।।127।।

यस्माच्च तुल्यजातीयपूर्वबीजप्रवृद्धय:।

कृपादिबुद्धयस्तासां सत्यभ्यासे कुत: स्थिति: ! ।।128।।

न चैवं लङ्घनादेव लङ्घनं बलयत्नयो:।

तद्धेत्वो: स्थितशक्तित्वाल्लङ्घनस्य स्थितात्मता।।129।।

तस्यादौ देहवैगुण्यात्‌ पश्चाद्वदविलङ्घनम्‌।

शनैर्यत्नेन वैगुण्ये निरस्ते स्वबले स्थिति:।।130।।

कृपा स्वबीजप्रभवा स्वबीजप्रभवैर्न चेत्‌।

विपक्षैर्बाध्यते चित्ते प्रयात्यत्यन्तसात्मताम्‌।।131।।

तथा हि मूलमभ्यास: पूर्व: पूर्व: परस्य तु।

कृपावैराग्यबोधादेश्चित्तधर्मस्य पाटवे।।132।।

कृपात्मकत्वमभ्यासाद् घृणावैराग्यरागवत्‌।

निष्पन्न:* करुणोत्कर्ष: परदु:खाक्षमेरित:*।।133।।

(पा0टि0- *निष्पन्नकरुणोत्कर्षपरदु:खक्षमेरित:-रा0)

{4- शास्तृत्वाच्च भगवान्‌ प्रमाणम्‌}

{शास्तृत्वपदनिर्वचनम्‌}

दयावान्‌ दु:खहानार्थमुपायेष्वभियुज्यते।

परोक्षोपेयद्धेतोस्तदाख्यानं हि दुष्करम्‌।।134।।

{दु:खहेतुपरीक्षा}

युक्त्यागमाभ्यां विमृशन्‌ दु:खहेतुं परीक्षते।

तस्यानित्यादिरूपं च दु:खस्यैव विशेषणै:।।135।।

यतस्तथा स्थिते हेतौ निवृत्तिर्नेति पश्यति।

फलस्य हेतोर्हानार्थं तद्विपक्षं परीक्षते।।136।।

साध्यते तद्विपक्षोऽपि हेतो रूपावबोधत:।

आत्मात्मीयग्रहकृत: स्नेह: संस्कारगोचर:।।137।।

हेतुर्विरोधि नैरात्म्यदर्शनं तस्य बाधकम्‌।

बहुशो बहुधोपायं कालेन बहुनास्य च।।138।।

गच्छन्त्यभ्यस्यतस्तत्र गुणदोषा: प्रकाशताम्‌।

बुद्धेश्च पाटवाद्धेतोर्वासनात: प्रहीयते।।139।।

{प्रत्येकबुद्धादिभ्यो बुद्धस्य वैशिष्ट्यम्‌}

परार्थवृत्ते: खङ्गादेर्विशेषोऽयं महामुने:।

उपायाभ्यास एवायं तादर्थ्याच्छासनं मतम्‌।।140।।

निष्पत्ते: प्रथमं भावाद्धेतुरुक्तमिदं द्वयम्‌।

{5- सुगतत्वाद् भगवान्‌ प्रमाणम्‌}

{त्रिगुणं सुगतत्वम्‌}

हेतो: प्रहाणं त्रिगुणं सुगतत्वमनि:श्रयात्‌।।141।।

दु:खस्य शस्तं नैरात्म्यदृटेश्च* युक्तितोऽपि* वा।

पुनरावृत्तिरित्युक्तौ जन्मदोषसमुद्भवौ।।142।। (पा0टि0-*दृष्टेस्तद्यक्ति0-पाठा0)

आत्मदर्शनबीजस्य हानादपुनरागम:।

तद्भूतभिन्नात्मतया शेषमक्लेशनिर्ज्वरम्‌।।143।।

कायवाग्बुद्धिवैगुण्यं मार्गोक्त्यपटुतापि वा।

अशेषहानमभ्यासाद्;

{सर्वज्ञबाधने जैमिनीयमतम्‌}

उक्त्यादेर्दोषसंक्षय:।।144।।

नेत्येके;

{तत्प्रतिवचनम्‌}

व्यतिरेकोऽस्य सन्दिग्धो व्यभिचार्यत:।

अक्षयित्वं च दोषाणां नित्यत्वादनुपायत:।।145।।

उपायस्यापरिज्ञानादपि* वा परिकल्पयेत्‌।

हेतुमत्त्वाद् विरुद्धस्य हेतोरभ्यासत: क्षयात्‌।।146।।(पा0टि0-* परिज्ञानादिति-पाठा0)

हेतुस्वभावज्ञानेन तज्ज्ञानमपि साध्यते।

{6- तायित्वाद् भगवान्‌ प्रमाणम्‌}

ताय: स्वदृष्टमार्गोक्ति:, वैफल्याद् वक्ति नानृतम्‌।।147।।

दयालुत्वात्‌ परार्थञ्च सर्वारम्भाभियोगत:।

तस्मात्‌*  प्रमाणम्‌; तायो वा चतु:सत्यप्रकाशनम्‌।।148।।(पा0टि0-* तत:-पाठा0)

{चतुरार्यसत्यनिरूपणम्‌}

{1- दु:खसत्यम्‌}

दु:खं संसारिण: स्कन्धा:; रागादे: पाटवेक्षणात्‌।

अभ्यासान्न यदृच्छातोऽहेतोर्जन्मविरोधत:।।149।।

व्यभिचारान्न वातादिधर्म: प्रकृतिसङ्करात्‌।

अदोषश्च तदन्योऽपि धर्म: किं तस्य नेक्ष्यते।।150।।

न सर्वधर्म: सर्वेषां समरागप्रसङ्गत:।

रूपादिवददोषश्चेत्‌ तुल्यं तत्रापि चोदनम्‌।।151।।

आधिपत्यं विशिष्टानां यदि तत्र न कर्मणाम्‌।

विशेषेऽपि च दोषाणामविशेषाद्; असिद्धता।।152।।

न विकाराद् विकारेण सर्वेषाम्‌, न च सर्वजा:।

कारणे वर्धमाने च कार्यहानिर्न युज्यते।।153।।

तापादिष्विव; रागादेर्विकारोऽपि सुखादिज:।

वैषम्यजेन दु:खेन रागस्यानुद्भवो यदि।।154।।

वाच्यं केनोद्भव: साम्यान्मदवृद्धि: स्मरस्तत:।

रागी विषमदोषोऽपि दृष्ट: साम्येऽपि नापर:।।155।।

क्षयादसृक्‌स्रुतोऽप्यन्ये; नैकस्त्रीनियतो मद:।

तेनैकस्यां न तीव्र: स्याद्, अङ्‌गं रूपाद्यपीति चेत्‌।।156।।

न सर्वेषामनेकान्तान्न चाप्यनियतो भवेत्‌।

अगुणग्राहिणोऽपि स्यात्‌; अङ्‌गं सोऽपि गुणग्रह:।।157।।

यदि सर्वो गुणग्राही स्याद्, हेतोरविशेषत:।

यदवस्थो मतो रागी न द्वेषी स्याच्च तादृश:।।158।।

तयोरसमरूपत्वान्नियमश्चात्र नेक्ष्यते।

सजातिवासनाभेदप्रतिबद्धप्रवृत्तय:।।159।।

यस्य रागादयस्तस्य नैते दोषा: प्रसङ्गिन:।

एतेन भूतधर्मत्वं निषिद्धम्‌; नि:श्रयस्य च।।160।।

निषेधान्न पृथिव्यादिनि:श्रिता धवलादय:।

तदुपादाय शब्दश्च हेत्वर्थ: स्वाश्रयेण च।।161।।

अविनिर्भागवर्तित्वाद् रूपादेराश्रयोऽपि वा।

मदादिशक्तेरिव चेद् विनिर्भाग:; न वस्तुन:।।162।।

शक्तिरर्थान्तरं वस्तु नश्येन्नाश्रितमाश्रये।

तिष्ठत्यविकले याति, तत्तुल्यं चेन्न भेदत:।।163।।

भूतचेतनयो:; भिन्नप्रतिभासावबोधत:।

आविकारञ्च कायस्य तुल्यरूपं भवेन्मन:।।164।।

रूपादिवत्‌; विकल्पस्य कैवार्थपरतन्त्रता।

अनपेक्ष्य यदा कायं वासनाबोधकारणम्‌।।165।।

ज्ञानं स्यात्‌ कस्यचित्‌ किञ्चित्‌ कुतश्चित्‌ तेन किञ्चन।

अविज्ञानस्य विज्ञानानुपादानाच्च सिध्यति।।166।।

विज्ञानशक्तिसम्बन्धादिष्टं चेत्‌ सर्ववस्तुन:।

एतत्‌ सांख्यपशो: कोऽन्य: सलज्जो वक्तुमीहते।।167।।

अदृष्टपूर्वमस्तीति तृणाग्रे करिणां शतम्‌।

यद् रूपं दृश्यतां यातं तद् रूपं प्राङ् न दृश्यते।।168।।

शतधा विप्रकीर्णेऽपि हेतौ तद् विद्यते कथम्‌।

रागाद्यनियमोऽपूर्वप्रादुर्भावे प्रसज्यते।।169।।

भूतात्मताऽनतिक्रान्त: सर्वो रागादिमान्‌ यदि।

सर्व: समानराग: स्याद् भूतातिशयतो न चेत्‌।।170।।

भूतानां प्राणिताऽभेदेऽप्ययं भेदो यदाश्रय:।

तन्निर्ह्रासातिशयवत्‌ तद्भावात्‌ तानि हापयेत्‌।।171।।

न चेद् भेदेऽपि रागादिहेतुतुल्यात्मताक्षय:।

सर्वत्र राग: सदृश: स्याद्धेतोस्सदृशात्मन:।।172।।

न हि गोप्रत्ययस्यास्ति समानात्मभुव: क्वचित्‌।

तारतम्यं पृथिव्यादौ प्राणितादेरिहापि वा।।173।।

औष्ण्यस्य तारतम्येऽपि नानुष्णोऽग्नि: कदाचन।

तथेहापीति चेन्नाग्नेरौष्ण्याद् भेदनिषेधत:।।174।।

तारतम्यानुभविनो यस्यान्यस्य सतो गुणा:।

ते क्वचित्‌ प्रतिहन्यन्ते तद्भेदे धवलादिवत्‌।।175।।

रूपादिवन्न नियमस्तेषां भूताविभागत:।

तत्‌ तुल्यं चेन्न रागादे: सहोत्पत्तिप्रसङ्गत:।।176।।

विकल्प्यविषयत्वाच्च विषया न नियामका:।

सभागहेतुविरहाद् रागादेर्नियमो न वा।।177।।

सर्वदा सर्वबुद्धीनां जन्म वा हेतुसन्निधे:।

{दु:खसत्यस्य चतुराकारत्वम्‌}

कदाचिदुपलम्भात्‌ तदध्रुवं दोषनि:श्रयात्‌।।178।।

दु:खं हेतुवशत्वाच्च न चात्मा नाप्यधिष्ठितम्‌।

नाकारणमधिष्ठाता नित्यं वा कारणं* कथम्‌।।179।। (पा0टि0-*जनकं-पाठा0)

तस्मादनेकमेकस्माद् भिन्नकालं न जायते।

कार्यानुत्पादतोऽन्येषु सङ्गतेष्वपि हेतुषु।।180।।

हेत्वन्तरानुमानं स्यान्नैतन्‌ नित्येषु विद्यते।

{2- चतुराकारं समुदयसत्यम्‌}

कादाचित्कतया सिद्धा दु:खस्यास्य सहेतुता।।181।।

नित्यं सत्त्‍वमसत्त्‍वं वा हेतोर्बाह्यनपेक्षणात्‌*।(पा0टि0-*हेतोरन्यानपे0-पाठा0)

{स्वभाववादखण्डनम्‌}

तैक्ष्ण्यादीनां यथा नास्ति कारणं कण्टकादिषु।।182।।

तथाऽकारणमेतत्‌ स्याद्इति केचित्‌ प्रचक्षते।

सत्येव यस्मिन्‌ यज्जन्म विकारे वापि विक्रिया।।183।।

तत्‌ तस्य कारणं प्राहुस्तत्‌ तेषामपि विद्यते।

स्पर्शस्य रूपहेतुत्वाद् दर्शनेऽस्ति निमित्तता।184।।

नित्यानां प्रतिषेधेन नेश्वरादेश्च सम्भव:।

असामर्थ्यादतो हेतुर्भववाञ्छा; परिग्रह:।।185।।

यस्माद् देशविशेषस्य तत्प्राप्त्याशाकृतो नृणाम्‌।

सा भवेच्छाप्त्यनाप्तीच्छो: प्रवृत्ति: सुखदु:खयो:।।186।।

यतोऽपि प्राणिन: कामविभवेच्छे च ते मते।

सर्वत्र चात्मस्नेहस्य हेतुत्वात्‌ सम्प्रवर्तते।।187।।

असुखे सुखसंज्ञस्य; तस्मात्‌ तृष्णा भवाश्रय:।

विरक्तजन्मादृष्टेरित्याचार्या: सम्प्रचक्षते।।188।।

अदेहरागादृष्टेश्च देहाद् रागसमुद्भव:।

निमित्तोपगमादिष्टमुपादानं तु वार्यते।।189।।

इमां तु युक्तिमन्विच्छन्‌ बाधते स्वमतं स्वयम्‌।

जन्मना सहभावश्चेत्‌ जातानां रागदर्शनात्‌।।190।।

सभागजाते: प्राक्‌ सिद्धि:; कारणत्वेऽपि नोदितम्‌।

अज्ञानम्‌, उक्ता तृष्णैव सन्तानप्रेरणाद् भवे।।191

आनन्तर्याच्च कर्मापि सति तस्मिन्नसम्भवात्‌।

तदनात्यन्तिकं हेतो: प्रतिबन्धादिसम्भवात्‌।।192।।

{चतुराकारं निरोधसत्यम्‌}

संसारित्वादनिर्मोक्षो नेष्टत्वादप्रसिद्धित:।

यावच्चात्मनि* न प्रेम्णो हानि: स परितस्यति।।193।।(पा0टि0-*यावदात्मवि-पाठा0)

तावद् दु:खितमारोप्य न च स्वस्थोऽवतिष्ठते।

मिथ्याध्यारोपहानार्थं यत्नोऽसत्यपि मोक्तरि।।194।।

अवस्था वीतरागाणं दयया कर्मणाऽपि वा।

आक्षिप्तेऽविनिवृत्तीष्टे:; सहकारिक्षयादलम्‌।।195।।

नाक्षेप्तुमपरं कर्म भवतृष्णाविलङ्घिनाम्‌।

दु:खज्ञानेऽविरुद्धस्य पूर्वसंस्कारवाहिनी।।196।।

वस्तुधर्मों दयोत्पत्तिर्न सा सत्त्‍वानुरोधिनी।

आत्मान्तरसमारोपाद् रागो धर्मेऽतदात्मके।।197।।

दु:खसन्तानसंस्पर्शमात्रेणैवं दयोदय:।

मोहश्च मूलं दोषाणां स च सत्त्‍वग्रह:; विना।।198।।

तेनाद्यहेतौ न द्वेषो, न दोषोऽत: कृपा मता।

नामुक्ति: पूर्वसंस्कारक्षयेऽन्याप्रतिसन्धित:।।199।।

अक्षीणशक्ति: संस्कारो येषां तिष्ठन्ति तेऽनघा:।

मन्दत्वात्‌ करुणायाश्च न यत्न: स्थापने महान्‌।।200।।

तिष्ठन्त्येव पराधीना येषां तु महती कृपा।

सत्कायदृष्टेर्विगमादाद्य एवाभवो भवेत्‌।।201।।

मार्गे चेत्‌ सहजाहानेर्न हानौ वा भव: कुत:।

सुखी भवेयं दु:खी वा मा भूवमिति तृष्यत:।।202।।

यैवाऽहमिति धी: सैव सहजं सत्त्‍वदर्शनम्‌।

न ह्यपश्यन्नहमिति कश्चिदात्मनि स्निह्यति।।203।।

न चात्मनि विना प्रेम्णा सुखकामोऽभिधावति।

दु:खस्योत्पादहेतुत्वं बन्ध:, नित्यस्य तत्‌ कुत:!।।204।।

अदु:खोत्पादहेतुत्वं मोक्ष:, नित्यस्य तत्‌ कुत:।

अनित्यत्वेन योऽवाच्य: स हेतुर्न हि कस्यचित्‌।।205।।

बन्धमोक्षावप्यवाच्ये न युज्येते कथञ्चन।

नित्यं तमाहुर्विद्वांसो य: स्वभावो न नश्यति।।206।।

त्यक्त्वेमां ह्रेपणीं दृष्टिमतोऽनित्य: स उच्यताम्‌।

{चतुराकारं मार्गसत्यम्‌}

उक्तो मार्ग:, तदभ्यासादाश्रय: परिवर्त्तते।।207।।

सात्म्येऽपि दोषभावश्चेन्मार्गवत्‌, नाविभुत्वत:।

विषयग्रहणं धर्मो विज्ञानस्य यथास्ति स:।।208।।

गृह्यते सोऽस्य जनको विद्यमानात्मनेति च।

एषा प्रकृतिरस्यास्तन्निमित्तान्तरत: स्खलत्‌।।209।।

व्यावृत्तौ प्रत्ययापेक्षमदृढं सर्पबुद्धिवत्‌।

प्रभास्वरमिदं चित्तं प्रकृत्यागन्तवो मला:।।210।।

तत्प्रागप्यसमर्थानां पश्चाच्छक्ति: क्व तन्मये।

नालं प्ररोढुमत्यन्तं स्यन्दिन्यामग्निवद् भुवि।।211।।

बाधकोत्पत्तिसामर्थ्यगर्भे शक्तोऽपि वस्तुनि।

निरुपद्रवभूतार्थस्वभावस्य विपर्ययै:।।212।।

न बाधा यत्नवत्त्‍वेऽपि बुद्धेस्तत्पक्षपातत:।

आत्मग्रहैकयोनित्वात्‌, कार्यकारणभावत:।।213।।

रागप्रतिघयोर्बाधा भेदेऽपि न परस्परम्‌।

मोहाविरोधान्मैत्र्यादेर्नात्यन्तं दोषनिग्रह:।।214।।

तन्मूलाश्च मला: सर्वे; स च सत्कायदर्शनम्‌।

विद्याया: प्रतिपक्षत्वाच्चैत्तत्वेनोपलब्धित।।215।।

मिथ्योपलब्धिरज्ञानं युक्तेश्चान्यदयुक्तिमत्‌।

व्याख्येयोऽत्र विरोधो य:; तद्विरोधाच्च तन्मयै:।।216।।

विरोध: शून्यतादृष्टे: सर्वदोषै: प्रसिध्यति।

नाक्षय: प्राणिधर्मत्वाद् रूपादिवदसिद्धित:।।217।।

सम्बन्धे प्रतिपक्षस्य त्यागस्यादर्शनादपि*।

न काठिन्यवदुत्पत्ति: पुनर्दोषविरोधिन:।।218।। (पा0टि0- *त्यागसंसर्जनादपि-पाठा0)

सात्मत्वेनानपायत्वात्‌ अनेकान्ताञ्च भस्मवत्‌।

य: पश्यत्यात्मानं तत्रास्याहमिति शाश्वत: स्नेह:।।219।।

स्नेहात्‌ सुखेषु तृष्यति, तृष्णा दोषांस्तिरस्कुरुते*।

गुणदर्शी परितृष्यन्‌ ममेति तत्साधनान्युपादत्ते।।220।।(पा0टि0-*दोषास्थिरीकुरुते-पाठा0)

तेनात्माभिनिवेशो यावत्‌ तावत्‌ स संसारे।

आत्मनि सति परसंज्ञा, स्वपरविभागात्‌ परिग्रहद्वेषौ।।221।।

अनयो: सम्प्रतिबद्धा: सर्वे दोषा: प्रजायन्ते।

नियमेनात्मनि स्निह्यंस्तदीये न विरज्यते।।222।।

न चास्त्यात्मनि निर्दोषे स्नेहापगमकारणम्‌।

स्नेह: सदोष इति चेत्‌ तत: किं तस्य वर्जनम्‌।।223।।

अदूषितेऽस्य विषये न शक्यं तस्य वर्जनम्‌।

प्रहाणिरिच्छाद्वेषादेर्गुणदोषानुबन्धिन:।।224।।

तयोरदृष्टिर्विषये; न तु बाह्येषु य: क्रम:।

न हि स्नेहगुणात्‌ स्नेह: किन्त्वर्थगुणदर्शनात्‌।।225।।

कारणेऽविकले तस्मिन्‌ कार्यं केन निवार्यते।

का वा सदोषता दृष्टा स्नेहे दु:खसमाश्रय:।।226।।

तथापि न विरागोऽत्र स्वत्वदृष्टेर्यथात्मनि।

न तैर्विना दु:खहेतुरात्मा चेत्‌ तेऽपि तादृशा:।।227।।

निर्दोषं द्वयमप्येवं वैराग्यान्न द्वयोस्तत:।

दु:खभावनया स्याच्चेदहिदष्टाङ्गहानिवत्‌।।228।।

आत्मीयबुद्धिहान्याऽत्र त्यागो न तु विपर्यये।

उपभोगाश्रयत्वेन गृहीतेष्विन्द्रियादिषु।।229।।

स्वत्वधी: केन वार्येत वैराग्यं तत्र तत्‌ कुत:।

प्रत्यक्षमेव सर्वस्य केशादिषु कलेवरात्‌।।230।।

च्युतेषु सघृणा बुद्धिर्जायतेऽन्येषु सस्पृहा।

समवायादिसम्बन्धजनिता तत्र हि स्वधी:।।231

स तथैवेति सा दोषदृष्टावपि न हीयते।

समवायाद्यभावेऽपि सर्वत्रास्त्युपकारिता।।232।।

दु:खोपकारान्न भवेदंगुल्यामिव चेत्‌ स्वधी:।

न ह्येकान्तेन तद् दु:खं भूयसा सविषान्नवत्‌।।233।।

विशिष्टसुखसङ्गात्‌ स्यात्‌ तद्विरुद्धे विरागिता।

किञ्चित्‌ परित्यजेत्‌ सौख्यं विशिष्टसुखतृष्णया।।234।।

नैरात्म्ये तु यथालाभमात्मस्नेहात्‌ प्रवर्तते।

अलाभे मत्तकासिन्या दृष्टा तिर्यक्षु कामिता।।235।।

यस्यात्मा वल्लभस्तस्य स नाशं कथमिच्छति !

निवृत्तसर्वानुभवव्यवहारगुणाश्रयम्‌।।236।।

इच्छेत्‌ प्रेम कथम्‌; प्रेम्ण: प्रकृतिर्न हि तादृशी।

सर्वथात्मग्रह: स्नेहमात्मनि द्रढयत्यलम्‌।।237।।

आत्मीयस्नेहबीजं तु तदवस्थं व्यवस्थितम्‌।

यत्नेऽप्यात्मीयवैराग्यं गुणलेशसमाश्रयात्‌।।238।।

वृत्तिमान् प्रतिबध्नाति, तद्दोषान्‌ संवृणोति च।

आत्मन्यपि विरागश्चेदिदानीं यो विरज्यते।।239।।

त्यजत्यसौ यथात्मानं व्यर्थाऽतो दु:खभावना।

दु:खभावनयाऽप्येष दु:खमेव विभावयेत्‌।।240।।

प्रत्यक्षं पूर्वमपि तत्‌ तथापि न विरागवान्‌।

यद्यप्येकत्र दोषेण तत्क्षणं चलिता मति:।।241।।

विरक्तो नैव तत्रापि कामीव वनितान्तरे।

त्याज्योपादेयभेदे हि सक्तिर्यैवैकभाविनी।।242।।

सा बीजं सर्वसक्तीनां पर्यायेण समुद्भवे।

निर्दोषविषय: स्नेहो निर्दोष: साधनानि च।।243।।

एतावदेव च जगत्‌ क्वेदानीं स विरज्यते।

सदोषताऽपि चेत्‌ तस्य, तत्रात्मन्यपि सा समा।।244।।

तत्राविरक्तस्तद्दोषे क्वेदानीं स विरज्यते।

गुणदर्शनसम्भूतं स्नेहं बाधितदोषदृक्‌।।245।।

स चेन्द्रियादौ न त्वेवं बालादेरपि सम्भवात्‌।

दोषवत्यपि सद्भावात्‌ स्वभावाद् गुणवत्यपि।।246।।

अन्यत्रात्मीयतायां वा व्यतीतादौ विहानित:।

तत एव च नात्मीयबुद्धेरपि गुणेक्षणम्‌।।247।।

कारणम्‌; हीयते सापि तस्मान्नागुणदर्शनात्‌।

अपि चासद्गुणारोप: स्नेहात्‌ तत्र हि दृश्यते।।248।।

तस्मात्‌ तत्कारणाबाधी विविधस्तं बाधते कथम्‌।

परापरप्रार्थनातो विनाशोत्पादबुद्धित:।।249।।

इन्द्रियादौ पृथग्भूतमात्मानं वेत्त्‍ययं जन:।

तस्मान्नैकत्वदृष्ट्यापि स्नेह: स्निह्यन् स आत्मनि।।250।।

उपलम्भान्तरङ्गेषु प्रकृत्यैवानुरज्यते।

प्रत्युत्पन्नात्‌ तु यो दु:खान्निर्वेदो द्वेष ईदृश:।।251।।

न वैराग्यम्‌; तदाप्यस्य स्नेहोऽवस्थान्तरेषणात्‌।

द्वेषस्य दु:खयोनित्वात्‌ स तावन्मात्रसंस्थिति:।।252।।

तस्मिन्‌ निवृत्ते प्रकृतिं स्वामेव भजते पुन:।

औदासीन्यं तु सर्वत्र त्यागोपादानहानित:।।253।।

वासीचन्दनकल्पानां वैराग्यं नाम कथ्यते।

संस्कारदु:खतां मत्वा कथिता दु:खभावना।254।।

सा च न: प्रत्ययोत्पत्ति: सा नैरात्म्यदृगाश्रय:।

मुक्तिस्तु शून्यतादृष्टेस्तदर्था: शेषभावना:।।255।।

अनित्यात्‌ प्राह तेनैव दु:खं दु:खान्निरात्मताम्‌।

अविरक्तश्च तृष्णावान्‌ सर्वारम्भसमाश्रित:।।256।।

सोऽमुक्त: क्लेशकर्मभ्यां संसारी नाम तादृश:।

आत्मीयमेव यो नेच्छेद् भोक्ताप्यस्य न विद्यते।।257।।

आत्मापि न तदा तस्य क्रियाभोगौ हि लक्षणम्‌।

तस्मादनादिसन्तानतुल्यजातीयबीजिकाम्‌।।258।।

उत्खातमूलां कुरुत सत्त्‍वदृष्टिं मुमुक्षव:।

आगमस्य तथाभावनिबन्धनमपश्यताम्‌।।259।।

मुक्तिमागममात्रेण वदन्न परितोषकृद्।

{मोक्षे दीक्षाविधिरकिञ्चित्कर:}

नालं बीजादिसंसिद्धो विधि: पुंसामजन्मने।।260।।

तैलाभ्यङ्गाग्निदाहादेरपि मुक्तिप्रसङ्गत:।

प्राग्‌ गुरोर्लाघवात्‌ पश्चान्न पापहरणं कृतम्‌।।261।।

मा भूद् गौरवमेवास्य न पापं गुर्वमूर्त्तित:।

मिथ्याज्ञानतदुद्भूततर्षसञ्चेतनावशात्‌।।262।।

हीनस्थानगतिर्जन्म ततस्तच्छिन्न जायते।

तयोरेव हि सामर्थ्यं जातौ तन्मात्रभावत:।।263।।

ते चेतने स्वयं कर्मेत्यखण्डं जन्मकारणम्‌।

'गतिप्रतीत्यो: करणान्याश्रयास्तान्यदृष्टत:।।264।।

अदृष्टनाशादगति: तत्संस्‍कारो न चेतना' ?

सामर्थ्यं करणोत्पत्तेर्भावाभावानुवृत्तित:।।265।।

दृष्टं बुद्धेर्न चान्यस्य सन्ति तानि नयन्ति किम्‌।

धारणप्रेरणक्षोभनिरोधाश्चेतनावशा:।।266।।

न स्युस्तेषामसामर्थ्ये तस्य दीक्षाद्यनन्तरम्‌।

अथ बुद्धेस्तदाभावान्न स्यु: सन्धीयते मलै:।।267।।

बुद्धेस्तेषामसामर्थ्ये जीवतोऽपि स्युरक्षमा:।

निर्ह्रासातिशयात्‌ पुष्टौ प्रतिपक्षस्वपक्षयो:।।268।।

दोषा: स्वबीजसन्ताना दीक्षितेऽप्यनिवारिता:।

नित्यस्य निरपेक्षत्वात्‌ क्रमोत्पत्तिर्विरुध्यते।।269।।

क्रियायामक्रियायाञ्च क्रिययो: सदृशात्मन:।

ऐक्यञ्च हेतुफलयोर्व्यतिरेकस्ततस्तयो:।।270।।

कर्तृभोक्तृत्वहानि: स्यात्‌ सामर्थ्यं च न सिध्यति।

अन्यस्मरणभोगादिप्रसङ्गाश्च न बाधका:।।271।।

अस्मृते:; कस्यचित्‌ तेन ह्यनुभूते: स्मृतोद्भव:।

स्थिरं सुखं ममाहं चेत्यादिसत्यचतुष्टये।।272।।

अभूतान्‌ षोडशाकारान्‌ आरोप्य परितृष्यति।

{नैरात्म्यदृष्टिस्तृष्णाक्षये हेतु:}

तत्रैव तद्विरुद्धार्थतत्त्‍वाकारानुरोधिनी।।273।।

हन्ति सानुचरां तृष्णां सम्यग्दृष्टि: सुभाविता।

त्रिहेतोर्नोद्भव: कर्मदेहयो: स्थितयोरपि।।274।।

एकाभावाद् विना बीजं नांकुरस्येव सम्भव:।

असम्भवाद् विपक्षस्य न हानि: कर्मदेहयो:।।275।।

अशक्यत्वाच्च तृष्णायां स्थितायां पुनरुद्भवात्‌।

द्वयक्षयार्थं यत्ने च व्यर्थ: कर्मक्षये श्रम:।।276।।

फलवैचित्र्यदृष्टेश्च शक्तिभेदोऽनुमीयते।

कर्मणां तापसंक्लेशात्‌ नैकरूपात्‌ तत: क्षय:।।277।।

फलं कथञ्चित् तज्जन्यमल्पं स्यान्न विजातिमत्‌।

अथापि तपस: शक्त्या शक्तिसङ्करसंक्षयै:।।278।।

क्लेशात्‌ कुतश्चिद्धीयेताशेषमक्लेशलेशत:।

यदीष्टमपरं क्लेशात्‌ तत्‌ तप: क्लेश एव चेत्‌।।279।।

तत्‌ कर्मफलमित्यस्मान्न शक्ते: सङ्करादिकम्‌।

उत्पित्सुदोषनिर्घाताद् येऽपि दोषविरोधिन:।।280।।

तज्जे कर्मणि शक्ता: स्यु: कृतिहानि: कथं भवेत्‌।

दोषा न कर्मणो दुष्ट: करोति न विपर्ययात्‌।।281।।

मिथ्याविकल्पेन विना नाभिलाष: सुखादपि।

तायात्‌ तत्त्‍वस्थिराशेषज्ञानसाधनम्‌।।282।।

बोधार्थत्वाद् गमे:; बाह्यशैक्षाशैक्षाधिकस्तत:।

परार्थज्ञानघटनं तस्मात्‌ तच्छासनं तत:।।283।।

दयापरार्थतन्त्रत्वम्‌; सिद्धार्थस्याविरामत:।

दयया श्रेय आचष्टे; ज्ञानात्‌ सत्यं ससाधनम्‌।।284।।

तच्चाभियोगवान्‌ वक्तुं यतस्तस्मात्‌ प्रमाणता।

{7- संवादकत्वाद् भगवान्‌ प्रमाणम्‌}

उपदेशतथाभावस्तुतिस्तदुपदेशत:।।285।।

प्रमाणतत्त्‍वसिद्ध्यर्थम्‌; अनुमानेऽप्यवारणात्‌।

प्रयोगदर्शनाद् वाऽस्य; ‘यत्‌ किञ्चिदुदयात्मकम्‌।।286।।

निरोधधर्मकं सर्वं तद्इत्यादावनेकधा।

अनुमानाश्रयो लिङ्गमविनाभावलक्षणम्‌।।

व्याप्तिप्रदर्शनाद्धेतो: साध्येनोक्तञ्च तत्‌ स्फुटम्‌।।287