लीलांशुकमुनिविरचितदैवव्याख्याने पुरुषकारेऽस्य नामोल्लेख: उपलभ्यते। अत एव हरियोगी पुरुषकार-लीलाशुकमुने: प्राग्वर्ती विक्रमस्य १२ शतके आसीदिति प्रतीयते।
श्रीहरियोगिनो वंशादिवृत्तं न ज्ञायते। मद्रासराजकीयपुस्तकालयस्य भ्वादिप्रकरणस्यान्ते लिखितम्-
‘‘इति हरियोगिन: प्रोल्लनाचार्यस्य कृतौ शाब्दिकाभरणे शब्विकरण भूवादवो धातव: समाप्ता:।।’’
अनेन ज्ञायते यत् हरियोगिन: पितु: नाम प्रोल्लनाचार्य: आसीत्।
परन्तु तस्यैव हस्तलेखस्यान्ते-
‘‘इति हरियोगिन: शैलवाचार्यस्य कृतौ शाब्दिकाभरणे धातुप्रत्ययपञ्जिकायां सौत्रधातव: समाप्ता:।।’’
इति पाठ: उपलभ्यते। तत्रास्य पितुर्नाम शैलवाचार्य इति लिखितम्।
सरस्वतीभवनपुस्तकालयस्य हस्तलेखे प्रतिप्रकरणम् अन्ते-
‘‘इति हरियोगिन: प्रोल्लनाचार्यस्य कृतौ शाब्दिकाभरणे -----------धातव: समाप्ता:।।’’
इत्युल्लेख: प्राप्यते।
पितु: नाम्न: उल्लेख: स्वनाम्न: परं अनेकत्र क्रियते अत: हरियोगिन: पितु: नाम प्रोल्लनाचार्य: इति सरस्वतीभवनहस्तलेखस्य आधारेण वक्तुं शक्यते।
मद्रासहस्तलेखे शाब्दिकाभरणस्य नाम्ना सह धातुप्रत्ययपञ्जिकाया: नामान्तरमप्युपलभ्यते। एषा धातुप्रत्ययपञ्जिका शाब्दिकाभरणस्यैवान्तर्गता इति यस्यां केवलं धातुप्रकरणस्यैव व्याख्या विहिता।