धातुपाठा: तेषां प्रवक्तारश्च (संक्षिप्त: उल्लेख:)

व्याकरणशास्त्रे पञ्चानामङ्गानां परम्परा दृश्यते। अत एव पञ्चाङ्गं व्याकरणम्‌ इत्यपि प्रथितम्‌। पञ्च अङ्गानि इमानि सन्ति - सूत्रपाठ: धातुपाठ: गणपाठ: उणादिपाठ: लिङ्गानुशासनञ्चेति। एतेषु पञ्चसु अङ्गेषु धातुपाठ: अतिमहत्वपूर्णं स्थानं भजते। प्रायेण संस्कृतशब्दा: व्युत्पन्ना: इति प्रसिद्धा परम्परा । प्रायेण सर्वेषां शब्दानां व्युत्पत्ति: धातुभि: एव प्रदर्श्यते। उच्यते च - सर्वं च नाम धातुजमाह । अत एव संस्कृतव्याकरणे धातूनां महत्त्वं सर्वथा अतिशेते।

बहव: वैयाकरणा: धातूनां प्रवचनम्‌ अकार्षु:। श्रीमता युधिष्ठिरमीमांसकेन व्याकरणशास्त्रेतिहासग्रन्थे षड्विंशते: वैयाकरणानाम् उल्लेख: कृत:। तेषां व्याकरणानि सम्प्रति नोपलभ्यन्ते अत: तेषु केन केन धातुप्रवचनं कृतमिति निश्चप्रचं वक्तुमशक्यम्‌। किञ्च प्रकृतिप्रत्ययविभागकल्पनां विना व्याकरणप्रवृत्ति: न सम्भवति इति धिया प्रायेण तै: सर्वैरपि धातुप्रवचनं कृतं स्यादिति ऊहितुं शक्यते। युधिष्ठिरमीमांसकवर्यै: पाणिनिपूर्ववर्तिनां धातुपाठप्रवक्तॄणां येषां धातुपाठविषये काचित्‌ सूचना कुतश्चित्‌ लब्धा तेषां संक्षेपेण विवरणं प्रादायि। एतेषु इन्द्र: वायु: भागुरि: काशकृत्स्न: शाकटायन: आपिशलि: इत्येते प्रमुखा: विद्यन्ते।

संस्कृतवाङ्‌मये पाणिने: शब्दानुशासनं पञ्चभि: अवयवै: परिपूर्णं समुपलभ्यते। पाणिनीयव्याकरणसम्प्रदाये य: धातुपाठ: पठनपाठनयो: समुपयुज्यते स: पाणिनिप्रोक्त: इति बहुभि: वैयाकरणै: मन्यते। यद्यपि न्यासकार: जिनेन्द्रबुद्धि: पाणिनीयसम्प्रदाये प्रचलितधातुपाठस्य पाणिनिप्रोक्तत्वं नैव स्वीकरोति। किञ्च व्याकरणशास्त्रेतिहासकारा: अन्ये च विद्वांस: जिनेन्द्रबुद्धे: मतमेतन्नाद्रियन्ते । सम्प्रति पाणिनीयधातुपाठनाम्ना प्रसिद्ध: धातुपाठ: पाणिनिना प्रोक्त: इत्येव सिद्धान्त: मन्यते।

पाणिनीयधातुपाठः काशकृत्स्नधातुपाठ: चान्द्रधातुपाठः जैनेन्द्रधातुपाठ: कातन्त्रधातुपाठ: शाकटायनधातुपाठ: हैमधातुपाठ: कविकल्पद्रुमधातुपाठ: