भू सत्तायाम्। उदात्त: परस्मैभाष:। भू इत्ययं धातु: सत्तायामर्थे वर्तते। भू इति स्थिते भूवादयो धातव: (पा०सू० १/३/१) भू इत्येवमादय: शब्दा: क्रियावाचिनो धातुसंज्ञा भवन्ति। साध्यमानरूपा हि क्रिया। सा च पूर्वापरीभूतावयवा तत्र पूर्वावयवोऽधिश्रयणादिरपर उदकसेकादि: पाकक्रियाया: एवमन्यासामपि यदि पूर्वापरीभूतावयवा क्रिया तद्वाचक: शब्दो धातु: कथं तर्हि भवतेरर्थस्य क्रियात्वम्। पूर्वापरीभावस्यैवासम्भवात्। तथाहि भवतिरयं सत्तार्थ:। सत्ता च नित्या नित्यस्य चाक्रियारूपत्वात् पौर्यापर्यं नास्ति कथं तद्वाचकस्य धातुसंज्ञा, तथा अभावो नाम विनाश: स कथं क्रिया भवेत्। नहि तस्य पौर्वापर्यमस्ति। कथं तद्वाचकस्य नशेर्धातुत्वम्। श्वेतसंयोगावपि गुणौगुणत्वाच्च पौर्यापर्यं नास्तीति कथंचित् कथं युजे: संयुजेश्च धातुत्वं समवायोऽपि नित्यत्वादक्रमत्वाच्च। क्रियातोत्यन्तभिन्न एवेति तद्वाचिन: समवपूर्वस्य इणो न धातुत्वमिति, उच्यते इह व्याकरणे सर्व साधनायत्तोदयमिति नित्यमपि वस्तु पूर्वापरीभावेनोच्यमानं क्रियात्वेनावभासते। अयमर्थ:-सत्तावत: पदार्थस्यार्थ: क्रियायां पूर्वापरीभावेन व्यापारोपलम्भात् तद्गता सत्तापि पूर्वापरीभूता बुद्ध्या कल्प्यते। तन्निबन्धनस्तस्यामपि क्रियाव्यवहार एवमभावादिष्वपि तथा वदनैकदेशे द्रव्येऽपि वर्तमानस्य गण्डे: पूर्ववद्धातुत्वम्। तेन गण्ड इति सिद्धम्। तथा बिदि अवयवे इति अवयवे द्रव्येऽपि बिन्दुरिति। अथवा अक्रियावाचिनामपि क्रियावाचिषु मध्येपाठाद्धातुत्वं वेदितव्यम्। नन्वङ्कुरो जायत इति कथमिदं, तथा हि प्रादुर्भाव: कर्तृत्वं चेति द्वितीयमिह न घटते प्रादुर्भावोह्यसत: उत्पत्ति: कर्तृत्वं च सत इति परस्परं विरुद्धयो: कर्मणोरेकं सन्धित्सतेऽन्यत् प्राच्यवत इति सत्यमेकस्य विरुद्धकर्मद्वयानुसन्धानं न घटते। अत्र तु द्वयमस्ति। सामान्यं विशेषश्च तत्राङ्कुरसामान्यं कर्तृ तद्विशिष्टा च व्यक्ति:। पूर्वमसति जायते अन्तस्तत्वगृहीत: पूर्वमदृष्टाङ्कुर: कर्ता बाह्यरूपतया च जन्म, जन्मनि चाभूतप्रादुर्भाव एवेति न वक्तव्यम् अन्य: कर्तान्यश्च बाह्ये जायते। ततो भिन्नविषयत्वादयुक्तमिति अन्तस्तत्वगृहीतस्य बाह्ये नैकत्वाध्यवसायात्। तथाहि य एव मयाध्यवसित: स एवायं दृश्यते बाह्य इति। दृश्यविकल्पयोरेकत्वेन व्यवहारो दृश्यते। यथोक्त दृश्यविकल्पार्थावेकीकृत्य व्यवहारप्रवृत्तेरिति सत्कार्यवादिनां तु मते कारणमेव कार्यरूपेण विपरिणमत इति युक्तम्। कर्तृत्वमङ्कुरादे: कारणावस्थायामेव कार्यस्य शक्तिरूपेण विद्यमानत्वात् आविर्भावश्च जन्मार्थ:। स च पूर्वमपि सत एवेति अभूतप्रादुर्भावो जन्मापि संगच्छत एवेति। एवमङ्कुरो भवति अथवा प्रकृतिविकार-भावविवक्षायां तु च्विप्रत्यय: बीजमङ्कुरीभवतीति। न खल्वत्यन्तमसत उत्पत्ति: प्रादुर्भाव: अपि तु जायते विशेषणोपलभ्यते। पत्रकाण्डनालादिभावेन स्फुटीभवतीत्यर्थ:। तथाहि प्राहुर्भाशब्द: प्रकाशेऽभिधानकाण्डेषु पठ्यते प्रकाशश्च सत एव भवति। अतोङ्कुरस्यैव कर्तृत्वमिति पूर्वापरीभावो हि जन्मनिपातादि-क्रियावद्विद्यत इति सर्वमनवद्यम्। सा च क्रिया द्विविधा परिस्पन्दनसाधनसाध्या अपरिस्पन्दनसाधनसाध्या। तत्र परिस्पन्दनसाधनसाध्यो धात्वर्थ: क्रियेत्युच्यते इतरस्तु भाव इति। सा पुनरपि द्विविधा कर्मस्था कर्तृस्था चेति। तत्र कर्मसमवायेनोत्पद्यमाना कर्मस्था क्रिया कुसूलं भिनत्तीति। कर्मस्थो भाव: ओदनं पचतीति। कर्तरि समवेतोत्पद्यमाना कर्तृस्था। गच्छति ग्राममिति कर्तृस्था क्रिया। आस्ते शेत इति कर्तृस्थो भाव:।
भू इत्येतस्य धातुसंज्ञायां क्रियाप्रधानत्वार्थविशेषणाय कालकारकविशेष-विवक्षायां तावद्वर्तमानकाल उपतिष्ठते। प्रत्ययार्थत्वेन कर्ता च ततो धातो: (पा०सू० ३/१/९०) इत्यधिकृत्य वर्तमाने लट् (पा०सू० ३/२/०२३)। कश्च वर्तमान: प्रारब्धापरिसमाप्तश्च वर्तमानस्तस्मिन् वर्तमानेऽर्थे वर्तमानाद्धातोः लट्प्रत्ययो भवति। कर्तरि कृत् (पा०सू० ३/४/६७) इत्यधिकृत्य ल: कर्मणि च भावे चाकर्मकेभ्य: (पा०सू० ३/४/६९) लकारा: सकर्मकेभ्य: कर्मणि अकर्मकेभ्यो भावे उभयेभ्यश्च कर्तरि भवन्तीति। ततो लट: प्रत्ययत्वेन परश्च (पा०सू० ३/१/२) इति धातो: परत्र कर्त्रर्थप्रयोगप्रसङ्गे ‘लस्य इत्यधिकृत्य तिप्तस्झिसिप्तस्थमिब्वसमस्ताताञ्झथासाथांध्वमिड्वहिमहिङ् (पा०सू०३/४/७८) तिबादयः अष्टादश प्रत्यया लस्य स्थाने भवन्ति। ततो युगपत्तिबादिसर्वप्रत्ययप्रसङ्गे शेषात् कर्तरि परस्मैपदम् (पा०सू० १/३/७८) कश्च शेष: उपयुक्तादन्य: शेष: येभ्यो धातुभ्यो येन विशेषणेनात्मनेपदं न विहितं शेष:। तत्र कर्तरि परस्मैपदं भवति। स च चतुर्विध:-
अर्थादुपपदाच्चैव तथा चैवानुबन्धनात्।
कारकाच्चेति विज्ञेय: तस्माच्छेषश्चतुर्विध:।।इति।
अर्थात् भुजपालनाभ्यवहारयोरित्येतस्मात् भुजोनऽवने इत्यवनादन्यत्रात्मनेपदविधानादवनार्थ: शेष: तथोपपदात् नेर्विश (पा०सू० १/३/१७ ) इति नेरुपपदात् विशेरात्मनेपदविधानात् अन्योपपदपूर्व: केवलश्च विशिश्शेष:। विशिग्रहणमुपलक्षणम्। अनुबन्धाच्छेष:। अनुदात्तङित: स्वरितञितश्च वर्षयित्वा योऽन्यो धातु: स शेष:। कारकाच्छेष:। शुद्ध: कर्ता कर्मकर्तरि शुद्धे कर्मणि भावेकर्तरि कर्मव्यतिहारविषये कर्तरि च यथाक्रमं कर्मवत्कर्मणा तुल्यक्रिय: (पा०सू० ३/१/८७) भावकर्मणो: (पा०सू० १/३/१३) कर्तरि कर्मव्यतिहारे (पा०सू० १/३/१४) इत्यात्मनेपदविधानात् तत्र भवते: कर्तरि परस्मैपदसंज्ञकेन वचनप्रसङ्गे शेषविवक्षायां शेषे प्रथम: (पा०सू० १/४/००७) कश्च शेष: उच्यते- युष्मदष्मदो: प्रयोगे समानाधिकरणयो: तत्प्रसंगे च मध्यमोत्तमपुरुषविधानात् ततोऽन्य: किंयत्तदेतद्भगवदादीनां प्रयोगप्रसङ्गे य: स शेष:। तत्र प्रथमपुरुष:, तत्र वचनत्रयप्रसङ्गे द्व्येकयोर्द्विवचनैकवचने (पा०सू० १/४/२२) प्रसङ्गे एकत्व विवक्षायां कर्तुरेकवचनम् लार्थाभिधानसमर्थस्तिबित्ययं शब्द: सानुबन्ध: प्रयुज्यते उच्चरितप्रध्वंसिनोऽनुबन्धा: कार्यार्था:। प्रकृतिप्रत्ययविकारागमेष्वनुबध्यन्ते तत तिङ्शित् सार्वधातुकम् (पा०सू० ३/४/००३) तिङ: शितश्च धात्वधिकारविहिता: प्रत्यया: सार्वधातुकसंज्ञा भवन्ति सार्वधातुके यक् (पा०सू० ३/१/६७) इति वर्तमाने कर्तरि शप् (पा०सू० ३/१/६८) शुद्धकर्तृवाचिनि सार्वधातुके परतो धातो: शप् प्रत्ययो भवति। इहैकयैव संज्ञया नेकं कार्यं क्रियत इति दर्शने लकारोत्पत्तिनिमित्तभूतामेव धातुसंज्ञामाश्रित्य भवते: शप् प्रत्यय: प्रतिकार्यं संज्ञाप्रवृत्तिरित्यस्मिन् दर्शने पुनरपि धातुसंज्ञा कर्तव्या यस्मात्प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गम् (पा०सू० १/४/०३) इत्यङ्गसंज्ञायां अङ्गस्य (पा०सू० ६/४/१) इत्यधिकृत्य सार्वधातुकार्धधातुकयो: (पा०सू० ७/३/८४) सार्वधातुके आर्धधातुके च परत: इगन्तस्याङ्गस्य गुणो भवतीति गुण: एचोऽयवायाव: (पा०सू० ६/१/७८) इत्यवादेश भवति। द्वित्वविवक्षायां भवत:। बह्वर्थविवक्षायां बहुषु बहुवचनम् (पा०सू० १/४/२०) इति बहुवचनं झोऽन्त: (पा०सू० ७/१/३) प्रत्यायादेर्झस्यान्त इत्ययमादेशो भवति। अकार उच्चारणार्थ: शपोकारेण अतो गुणे (पा०सू० ६/१/९७) पररूपत्वं सवर्णदीर्घो न भवत्यपदान्तत्वात् भवन्ति। भवसि। भवथ:। भवथ। उत्तमपुरुषे तदादिवचनस्यादिनुमर्थमिति वचनात् शब्विकरणस्याङ्गसंज्ञायां अतो दीर्घो यञि (पा०सू० ७/३/०००) अकारान्तस्याङ्गस्य यञादौ सार्वधातुके परतो दीर्घो भवति। भवामि। भवाव:। भवाम:। ‘भूते (पा०सू० ३/२/८४) इत्यधिकृत्य अनद्यतने लङ् (पा०सू० ३/२/०००) भूतानद्यतनविशिष्टेऽर्थे वर्तमानाद्धातो: लङ्प्रत्ययो भवति लुङ्लङ्लृङ्क्ष्वडुदात्त: (पा०सू० ६/४/७०) लुङ् लङ् लृङ् इत्येतेषु परतोङ्गस्याडागमो भवति परस्मैपदाधिकारे नित्यं ङित: (पा०सू० ३/४/९९) इत्यधिकृत्य इतश्च ङिल्लकारसंबंधिन: परस्मैपदेकारस्य लोपो भवति। अभवत्। नित्यं ङित: (पा०सू० ३/४/९९) इत्यधिकृत्य तस्थस्थमिपां तान्तन्ताम: (पा०सू० ३/४/१०१) ङिल्लकारसंबंधिनां तस्थस्थमिपां यथासङ्ख्यं ताम् तम् त अम् इत्येते आदेशा भवन्ति। अभवत। इतश्च लोपे कृते सुप्तिङन्तं पदम् (पा०सू० १/४/०४) इति पदसंज्ञायां संयोगान्तस्य लोप: (पा०सू० ८/२/२३) संयोगान्तस्य पदान्तस्य लोपो भवति इति तकारलोप: अभवत्। अभव:। अभवतम्। अभवत। अभवम्। नित्यं ङित: (पा०सू० ३/४/९९) ङिल्लकारसम्बन्धिन: उत्तमपुरुषसकारस्य नित्यं लोपो भवति, दीर्घ: पूर्ववत् अभवाव। अभवाम। विध्यादिष्वर्थेषु प्रत्ययार्थविशेषणेषु सत्सु तदधिकारे लोट् च (पा०सू० ३/३/०६२) विध्यादिष्वर्थेषु प्रत्ययार्थविशेषणभूतेषु धातोर्लोट् प्रत्ययो भवति। सर्वलकाराणामपवाद:। प्रैषादिसर्गप्राप्तकालेषु कृत्याश्च (पा०सू० ३/३/०६३) इति लोडित्यनुवर्तते। प्रैषादिष्वर्थेषु कृत्यप्रत्यया भवन्ति चकाराल्लोट् च आशिषि लिङ्लोटौ (पा०सू० ३/३/०७३) आशंसनमाशी: इष्टस्यार्थस्य प्राप्तुमिच्छाप्रकृत्त्यर्थविशेषणं चेतत् आशीर्विशिष्टेऽर्थ वर्तमानाद्धातोर्लिङ्लोटौ प्रत्ययौ भवत: क्रिसमभिहारे लोटो हिस्वौ वा च तद्ध्वमो: पौन: पुन्यं भृशार्थो वा क्रियासमभिव्याहार:। प्रकृत्यर्थविशेषणं चैतत् समभिव्याहारविशिष्टक्रियावचनाद्धातो: लोट् प्रत्ययो भवति। सर्वलकाराणमपवाद: तस्य लोट: हि स्व इत्येतावादेशौ भवत:। तत्र परस्मैपदिभ्यो धातुभ्यो परस्मैपदवचनापवादेन हिरादेश:। आत्मनेपदिभ्यस्तु स्वादेश: तद्ध्वम्भाविनस्तु वा भवत:। भवतेः धातुसंज्ञादि पूर्ववदनुसन्धेयम् एरु: (पा०सू० ३/४/८६) लोडित्येव लोडादेशानामिकारस्य उकारादेशो भवति। एकदेशविकारद्वारेण तिशब्दस्य स्थाने तु शब्द:। तथा चोक्तम्-
सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिने:।
एकदेशविकारे तु नित्यत्वं नोपपद्यते।। इति।
लोटो लङ्वत् (पा०सू० ३/४/८५) लोट् संबंधिनां लङ्वत् कार्यं भवति तच्च तामादय: सलोपश्च। भवताम्। भवन्तु। सेर्ह्यपिच्च (पा०सू० ३/४/८७) लोडित्येव लोडादेशस्य सेर्हिरादेशो भवति। आशिषिविषये तातङादेशो भवति अतो हे: (पा०सू० ६/४/१०५) अकारादङ्गादुत्तरस्य हेर्लुग्भवति। तत्र । आशिषि लोटि तुह्योस्तातङ्गाशिष्यन्यतरस्यां (पा०सू० ७/१/३५) तुहि इत्येतयो: आशिषि विषये तातङित्ययमादेशो भवति, भवतात् भवान्, भवतात् त्वं स्थानिवद्भावेन अतो हे: (पा०सू० ६/४/१०५) इति हिस्थानिकस्य तातङो लुङ् न भवति। तथा चोक्तम्-
तातङो ङित्वसामर्थ्यात् नायमन्त्यविधि: स्मृत:।
नतद्वदतनङादीनां तेन्त्यविकारजा:।।
भवतम्। भवत:। मेर्नि: (पा०सू० ३/४/८९) लोडादेशस्य मे: निरादेशो भवति। आडुत्तमस्य पिच्च (पा०सू० ३/४/९२) लोड्संबंधिन: उत्तमपुरुषस्याडागमो भवति। स चोत्तमपुरुष: पिद्वद् भवति। भवानि। नित्यं ङित (पा०सू०३/४/९९) स उत्तमस्येति वर्तमाने ङिल्लकारसम्बन्धिन उत्तमपुरुषसकारस्य नित्यं लोपो भवति। भवाव। भवाम। क्रियासमभिव्याहारेऽपि अनुभवानुभवेत्येवायमनुभवति। इमावनुभवत:। इमे अनुभवन्ति इत्यादि। सर्वलकारेषूदाहार्य:, परस्मैपदेष्वेव विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् (पा०सू०३/३/१६१) विध्यादिष्वर्थेषु धातोर्लिङ् प्रत्ययो भवति सर्वलकाराणामपवाद:। धातुसंज्ञादिपूर्ववत् यासुट् परस्मैपदेषूदात्तो ङिच्च (पा०सू० ३/४/१३) लिङित्यनुवर्तते परस्मैपदविषयस्य लिङो यासुडागमो भवति स च ङिद्वद्भवति। लिङो ङित्वविधानं ज्ञापकं तत्र तत्कार्याणामसम्भवात्। तेन लकाराश्रयङित्वमादेशानां न भवति अचिनवमसुनवमिति। भवयास् त् इति स्थिते लिङ: सलोपोऽनन्त्यस्य (पा०सू० ७/२/२९) सार्वधातुक इत्येवलिङ्सम्बन्धिन: सकारस्यानन्त्यस्य लोपो भवति। अतो येय: (पा०सू० ७/२/८०) अकारान्तादङ्गादुत्तरस्य या इत्येतस्य इय् इत्ययमादेशो भवति लोपो व्योर्वलि (पा०सू० ६/१/६४) धातोरधातोश्च यकारवकारयोर्लोपो भवति वलि परत:। भवेत् तसादीनां तामादय: भवेतां झेर्जुस् (पा०सू० ३/४/१०८) लिङ् इत्येव लिङादेशस्य झेर्जुसादेशो भवति। झोऽन्तापवाद:। भवेयु:। भवे:। भवेतम्। भवेत्। भवेयम्। नित्यं ङित: (पा०सू० ३/४/९९) इति सलोप: भवेव। भवेम। अकर्मका अपि धातव: सोपसर्गा: सकर्मका भवन्ति भवतेरनुपूर्वाद्यदा कर्मणि लकार: तदा सार्वधातुके यक् (पा०सू० ३/१/६७) भावकर्मणो: (पा०सू० ३/१/१३) इत्यनुवर्तते। भावकर्मवाचिनि सार्वधातुके परतो धातो: यक् प्रत्ययो भवति। भावकर्मणो: आत्मनेपदमिति वर्तते। भावकर्मविहितस्य लकारस्य स्थाने आत्मनेपदं भवति। टेरेत्वं। अनुभूयते लक्ष्मी: सार्वधातुकमपित् (पा०सू० १/२/४) ङित्येव, सार्वधातुकं यदपित् तत् ङिद्वत् भवति, आतो ङित: (पा०सू० ७/२/८१) अकारान्तादङ्गादुत्तरस्य ङितामकारस्य इय् इत्ययमादेशो भवति, वलि लोप: अनुभूयेते। अनुभूयन्ते। थास: से (पा०सू० ३/४/८०) टितो लकारस्य थास: से इत्ययमादेशो भवति से इत्येकारान्तादेशकरणं ज्ञापकं तदादेशानां टेरेत्वाभाव तेन वक्ता। वक्तारौ। वक्तार इति टेरेत्वं न भवति अनुभूयसे। अनुभूयेथे। अनुभूयध्वे। अनुभूय इ इति स्थिते टेरेत्वं अतो गुणे (पा०सू० ६/१/४४) पररूपत्वं अनुभूये। अतो दीर्घो यञि (पा०सू० ७/३/१०१) अनुभूयावहे। अनुभूयामहे। लङि अन्वभूयत। शेषं नेयम्। उत्तमैकवचने अन्वभूय इति स्थिते आद्गुण: (पा०सू० ६/१/८४) अन्वभूये। अन्वभूयावहि। अन्वभूयामहि लङि अन्वभूयत। लोटि टेरेत्वे कृते आमेत: (पा०सू० ३/४/९०) लोट्सम्बन्धिन एकारस्य आमित्ययमादेशो भवति अनुभूयतामित्यादि। मध्यमैकवचने से आदेशे कृते सवाभ्यां वामौ (पा०सू० ३/४/९१) लोट् सम्बन्धिन एकारस्य सकारवकाराभ्यामुत्तरस्य यथासङ्ख्यं व अम् इत्येतावादशौ भवत:। अमोपवाद:। अनुभूयस्व। उत्तमैकवचनस्य इट् एत्वे एत ऐ (पा०सू० ३/४/९३) लोट् सम्बन्धिन: एकारस्यैकारादेशो भवति। अमोपवाद: आडुत्तमस्य (पा०सू० ३/४/९२) इत्यादिना आट् आटश्च (पा०सू० ६/१/८७) इति वृद्धि:, अनुभूयै। अनुभूयावहै। अनुभूयामहै। लिङि लिङ: सीयुट् (पा०सू० ३/४/१०२) लिङादेशानां सीयुडागमो भवति आत्मनेपदविषये। उकारटकारावनुबन्धौ वलि लोप: सलोपश्च इकारेण आद्गुण (पा०सू० ६/१/८४) अनुभूयेत। झस्य रन् (पा०सू० ३/४/१०५) लिङादेशस्य झस्य रन्नित्ययमादशो भवति झोन्तापवाद:। अनुभूयेरन्। इटोत् (पा०सू० ३/४/१०६) लिङादेशस्येट: इत्ययमादेशो भवति। तकार: मुखसुखार्थ: नादेशावयव:। अनुभूयेय। अनुभूयेवहि। अनुभूयेमहि। भवते केवलाद्यदाभावे लकार: तदा भावस्यैकत्वादेकवचनमेव भूयते अभूयत इत्यादि योज्यम्। आशिषि लिङि कर्तरि भावकर्मणोश्च लिङाशिषि (पा०सू० ३/४/११६) आशिषि विषयो यो लिङ् तदादेशास्तिङार्धधातुकसंज्ञो भवति इत्यार्धधातुकत्वाद्विकरणाभाव: किदाशिषि (पा०सू० ३/४/१०४) आशिषि विषये यो लिङ् तस्य यासुट् किद्भवति प्रत्ययस्यैवेदं कित्वं नागमस्य कित्वङित्वयो: सम्प्रसारणे जागर्ति गुणे च विशेष: कित्वात् गुणाभाव: इतश्च लोप: स्को: संयोगाद्योरन्ते च (पा०सू० ८/२/२९) झलीत्येव पदान्ते य: संयोग: झलि परतो य: संयोग: तदाद्यो: सकारककारयोर्लोपो भवति इति सलोप: भूयात्। भूयास्ताम्। अत्र लिङ: सलोपोनन्त्यस्य (पा०सू० ७/२/२९) इति न भवति तस्य सार्वधातुकविषयत्वात् शेषं सुबोधम्। भावकर्मणोस्तु पूर्ववदात्मनेपदं सीयुट् तस्य स्स्यसिच्सीयुट्तासिषु भावकर्मणोः उपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (पा०सू० ६/४/६२) स्यसीयुट् तासि इत्येतेषु भावकर्मविषयेषु परत उपदेशेऽजन्तानां धातूनां हनग्रहदृशां च वा चिण्वदिट् भवतीति स्यसिच्सीयुट्तासीनामिडागमो विधीयते चिण्वद्भावश्च। उपदेशेजन्तानां मध्ये ये सेटस्तेषां चिण्वदिडभावपक्षे वलादिलक्षण इट् भवति। उपदेशेजन्तास्सनाद्यन्ताश्च भवन्ति। तेन णिजाद्यन्तानाम् अपि चिण्वद्भाव:। कानि पुनरस्य चिण्वद्भावस्य प्रयोजनानि -
चिण्वद्वृद्धियुक् च हन्तेश्च घत्वंदीर्घश्चोक्तोये मितां वा चिणिति।
इट्चासिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती।।
अस्यार्थ: चिण्वद्भावस्य अनुभाविषीष्टेत्यादौ वृद्धि: अतो युक्चिण्वकृतोरिति युक् घानिष्यत इत्यत्र होहन्तेर्णिन्नेष्वु (पा०सू० ७/३ ५४/) इति कुत्वं घकार:। शमिष्यत इत्यत्र अमन्तत्वेन मितां ह्रस्व: चिण्णमुलोदीर्घोन्यतरस्याम् (पा०सू० ६/४/९३) इति वा दीर्घ:। कथमत्र णिलोप:। यावता णेरनिटि (पा०सू० ६/४/५१) इत्याह इट् चासिद्धस्तेन मे लुप्यतेर्णि: णिलोपचिण्वद्भावयोः आभाच्छास्त्रीयत्वात् णिलोपे कर्तव्ये चिण्वदिदिडसिद्ध: तेन मे लुप्यतेर्णि:। ननु सेटापरत्वात् वालादिलक्षणेनेटा भवितव्यम्, नैतत् नित्यश्चायं कृताकृप्रसङ्गित्वेन वल्निमित्ते विघाती वल्निमित्त इडनित्य: विपर्ययात्। एवं शमिष्यते शामिष्यत इत्यत्र चिण्ण्मुलोरित्यादिना दीर्घविकल्पश्चेति एतानि प्रयोजनानीति संक्षेपार्थ:। सुट्तिथो: (पा०सू० ३/४/१०७) लिङ् इत्येव लिङ्सम्बन्धिनोस्तकारथकायो: सुडागमो भवति। षुटस्तकारथकारावागमिनौ। सीयुटस्तु लिङागमीति तेन भिन्नविषयत्वात् अनयोरविरोध:। अनयो: सकारस्य षत्वम्। अनुभाविषीष्ट। चिण्वदिडभावे अनुभविषीष्ट वलादिलक्षण इट् अनुभाविषीयास्ताम्। अनुभाविषीरन्। अनुभाविषीष्ठा:। अनुभाविषीयास्थां इण: षीध्वंलुङ्लिटांधोऽङ्गात् (पा०सू० ८/३/७८) इण्णन्तादङ्गादुत्तरेषां षीध्वं लुङ्लिटां धकास्य मूर्धन्यादेशो भवति। विभाषेट: (पा०सू० ८/३/७९) इणन्तादङ्गादुत्तरो य य इट् तत उत्तरेषां षीध्वंलुङ्लिटां धकारस्य विभाषा मूर्धन्यादेशो भवति। अनुभाविषीध्वम् अनुभाविषीढ्वम्। अनुभाविषीय। अनुभविषीवहि। अनुभविषीमहि। अनुभाविषीवहि। अनुभाविषीमहि। परोक्षे लिट् (पा०सू० ३/२/११५) भूतानद्यतनपरोक्षेर्थे वर्तमानाद्धातोर्लिट् प्रत्ययो भवति। परस्मैपदानां णलतुसुस्थलथुसणल्वमा: (पा०सू० ३/४/८२) लिट् इत्येव लिडादेशानां परस्मैपदवचनानां नवानां यथासंख्यं णल् अतुस् उस्। थल् अथुस् अ। णल् व म इत्येते नवादेशा भवन्ति। लिटि धातोरनभ्यासस्य (पा०सू० ६/१/८) लिटि परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्यैकाचो द्वितीयस्य वा यथायोगं द्वे भवत: इन्धिभवतिभ्याञ्च (पा०सू० १/२/६) इन्धि भवति इत्येताभ्यां परो लिट्प्रत्यय: किद्भवति। भुवो वुक् लुङ्लिटो: (पा०सू० ६/४/८८) ओरित्येव भुवोङ्गस्य वुगागमो भवति अजाद्यो: लुङ् लिटो: परत: भवतेर: (पा०सू० ७/४/७३) अभ्यासस्येत्येव भवतेरभ्यासस्य अकारादेशो भवति लिटि परत: अभ्यासे चर्च (पा०सू० ८/४/५३) अभ्यासे वर्तमानानां झलां चरादेशो भवति भकारस्य चकाराज्जश्त्वं बकार: तत्रायं क्रम: लिट: स्थाने तिप् प्रसङ्गे णल् तत: कित्वात् गुणवृद्ध्यभावो वुक ततो द्विर्वचनम् अभ्यासकार्यं चेति। सङ्क्रमार्थं भुव: कित्वं न कर्तव्यं वुको यदि नित्यत्वं स्यान्नचास्त्यैतदुवर्णान्तस्य वुग् विधे: शब्दान्तरस्य प्राप्त्या वा ततो वृद्धिगुणौ परौ प्राप्नुतो भवतेत्तस्मालिट: कित्वं पित: कृत:-
निर्दिष्टस्थानिकावृद्धि: कथं कित्वेन वार्यते।
कित्वाधिकारसामर्थ्यात् गुणवत् सा निषिध्यते।।
बभूव। बभूवतु:। बभूवु:। सिपि थलि। अत्र अनिट्
अनिट् स्वरान्तो भवतीति दृश्यताम्
इमांस्तु सेट: सम्प्रवदन्ति तद्विद:।
अदन्त शीङ्शिङावपि।
गणस्थमूदन्तमुताञ्च रुस्नुवौ क्षुवन्तथोर्णोतिमथो युनुक्ष्णुव:।
इति स्वरान्ता निपुणं समुच्चिता: ततो हलन्तानपि सन्निबोधत।।
अत्र गणस्थमूदन्तमिति वचनात् आर्धधातुकस्येड्वलादे: (पा०सू० ७/२/३५) वलादेरार्धधातुकस्य इडागमो भवतीति इडागम: कित्वादगुणं बभूविथ बभूथेति निगमे बभूथाततन्थजगृह्मेति वचनात्। शेषं नेयम् भावकर्मणो: (पा०सू० १/३/१३) लिटस्तज्झयोरेशिरेच् (पा०सू० ३/४/८१) लिडादेशयोस्तज्झयोरेश् इरेच् इत्येतावादेशौ भवत: भावे बभूवे। कर्मणि अनुबभूवे। अनुबभूवाते। अनुबभूविरे इत्यादि भूत (पा०सू० ३/२/८४) इत्यधिकृत्य लुङ् (पा०सू० ३/२/११०) भूतेऽर्थे वर्तमानाद्धातो: लुङ् प्रत्ययो भवति इतश्च (पा०सू० ३/४/१००) लोप: अडागम: च्लि लुङि (पा०सू० ३/१/४३) लुङि परत: श्च्लिप्रत्ययो भवति च्ले: सिच् (पा०सू० ३/१/४४) च्ले: सिजादेशो भवति अ भू स् त् इति स्थिते गातिस्थाघुपाभूभ्य: सिच: परस्मैपदेषु (पा०सू० २/४/७७) गापाग्रहणे इण्पिबत्योर्ग्रहणम् इण्पिबत्योर्ग्रहणे घुग्रहणेन डुदाञ् दाने। दो अवखण्डने। देङ् रक्षणे। दाञ् दाने। डुधाङ् दानधारणपोषणयो:। धेट् पाने। एषां ग्रहणम् गातिस्थादिभ्य: परस्य सिचो लुक् भवति तत: सार्वधातुकगुणे प्राप्ते भूसुवोस्तिङि (पा०सू० ७/३/८८) भू सू इत्येतयो: तिङि सार्वधातुके परतो गुणो न भवति अभूत्। तसादीनां तामादय:। अभूतां भुवो वुग् लुङ्लिटो: (पा०सू० ६/४/८८) इति वुक् अभूवन्। अत इति नियमात् जुस् न भवति भावकर्मणो: (पा०सू० १/३/१३) चिण् भावकर्मणो: धातो: परस्य च्लेश्चिणादेशो भवति। भावकर्मवाचिनि त शब्दे परत: चिणो लुक्। चिण उत्तरस्य तत्प्रत्ययस्य लुग्भवति अचो ञ्णिति (पा०सू० ७/२/११५) इति वृद्धि: अभावि देवदत्तेन। धनम् अन्वभावि लक्ष्मी:। आतामादौ सिजादेश: चिण्वदिट् च अन्वभाविषातामित्यादि। झस्य आत्मनेपदेष्वनत इत्यत् अन्वभाविषत अन्वभाविष्ठा: अन्वभाविषाथां ध्वमि धि च (पा०सू० ८/२/२५) इति सकारलोप: ‘विभाषेट’ इति मूर्धन्यादेश: अन्वभाविढ्वं अन्वभाविध्वं इत्यादि णौ चङि भवतेर्हेतुमण्णिजन्तस्य सनाद्यन्ता धातव (पा०सू० ३/१/३१) इति धातुसंज्ञायां लुङि णिश्रि० (पा०सू० ३/१/४८) इत्यादिना च्लेश्चङ् भावि अत् इति स्थिते णौ चङ्युपधाया ह्रस्व: (पा०सू० ७/४/१) चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वो भवतीति ह्रस्व:। चङीति द्विर्वचनं भू इत्येतस्य स्थानिवद्भावात्। ननु द्विर्वचननिमित्तं अण्यव्यवहित ज्ञापकात्। किं तत्ज्ञापकं ओ: पुयण्ज्यपर (पा०सू० ७/४/८०) इति द्विर्वचनं पवर्गयणि जकारे चावर्णपरे परत इवर्णान्तस्याभ्यासस्य सन्वद्भावे चर्त्त्वविधानम् उवर्णान्तत्वमभ्यासस्य सम्पादयितुं द्विर्वचनमित्तेऽपि स्थानिवद्भावमजादेशस्य ज्ञापयति तस्माद्. भू इत्येतस्य द्विर्वचनमभ्यासकार्यम् सन्वल्लघूनि (पा०सू० ७/४/९३) इति सन्वद्भाव: ओ: पुयण्ज्यपर (पा०सू० ७/४/८०) इत्यभ्यासस्येत्वं दीर्घो लघो: (पा०सू० ७/४/९४) लघुनीत्येव लघुनि धात्वक्षरे परतोऽभ्यासस्य दीर्घो भवतीति दीर्घ:। अबीभवत्। क्रियाफले कर्त्रभिप्राये णिचश्च (पा०सू० १/३/७४) इत्यात्मनेपदम् अबीभवत। लृट् शेषे च (पा०सू० ३/३/१३) भविष्यतीत्येव। ‘कश्च शेष:’ क्रियार्थोपपदादन्य: शेष:। शेषे शुद्धे भविष्यति काले चकारात् क्रियार्थायां चोपपदे धातोर्लिट् प्रत्ययो भवति। भविष्यामीति मन्यत इति क्रियार्थोपपदम् उदाहरणम्, शुद्धे तु भविष्यति काले भविष्यति भविष्यत: भविष्यन्तीत्यादि सुबोधम्। भावकर्मणो: (पा०सू० १/३/१३) भाविष्यते। भविष्यते। अनुभाविष्यते। अनुभविष्यते। अत्र स्यतासी लृलुटो: (पा०सू० ३/१/३३) इति स्य प्रत्यय:। परत्वादन्तरङ्गत्वाच्च यकं बाधते। लिङ्निमित्ते लृङ् क्रियातिपत्तौ (पा०सू० ३/३/१३९) भविष्यतीत्येव हेतुहेतुमद्भावादिकेऽर्थे लिङ्निमित्तं तत्र लिङ्निमित्ते भविष्यति काले लृङ्प्रत्ययो भवति क्रियातिपत्तौ सत्याम्। कुतश्चित् कारणवैगुण्यात् क्रियाया अनभिनिर्वृत्ति: क्रियातिपत्ति: विधुरप्रत्ययोपनिपात:। कारणवैकल्यं वा वैगुण्यम्, दक्षिणेन चेदास्यत् न शकटं पर्याभविष्यत् भविष्यत्कालविषयमेतद्वचनं भविष्यदपरिभवनं हेतुमत् तद्धेतुभूतं च कमलकाह्वानं बुद्ध्वा कोऽर्थ:। असकृत्प्राक्कमलकाह्वाने सति शकटापर्याभवनं दृष्ट्वा भाविनोऽपि कमलकाह्वानस्य शकटपर्याभवनहेतुत्वं लिङ्गेनबुद्ध्वा लिङ्गं पुन: लिङ्गेन पुन: कमलकाह्वा सामान्यधर्मा: तदतिपत्ति: कमलकाह्वानस्यातिपत्ति: कमलकस्य देशान्तरागमनालिङ्गेनाऽवगम्य शकटापर्याभवनातिपत्तिमपि शकटस्य गुरुतरभारारोपणादिनावगम्य वक्ता वाक्यं प्रयुङ्क्ते। भूते च लिङ्निमित्त इत्यादि सर्वमनुवर्तते। भूते च काले च पूर्वसूत्रविषये लृङ् प्रत्ययो भवति उताप्यो: (पा०सू० ३/३/१५२) इति आरण्यलिङ्निमित्तविधानमेतत् प्राक्ततो विकल्पं वक्ष्यति। उदाहरणं तु दृष्टो माया भवत: पुत्राणार्था चङ्क्रम्यमाण: इतरस्य ब्राह्मणार्थी यदि स तेन दृष्टो भविष्यत: अतो भोक्ष्यत: न भुक्तवान् अन्येन पथा स गत इति स्यतासी लृलुटो: (पा०सू० ३/१/३३) लृ इति लृङ् लृटो: सामान्येन ग्रहणं तयोर्लृङ्लृटो: यथासंख्यं स्यतासी भवत: कर्तरि अभविष्यत अभविष्यतामभविष्यन्नित्यादि भावकर्मणो: (पा०सू० ३/१/१३) चिण्वदिट् अचो ञ्णिति (पा०सू० ७/२/११५) इति वृद्धि: अभाविष्यत त्वया कर्मणि अन्वभाविष्यत, श्रीरित्यादि शेषं नेयम्। अनद्यतने लुट् (पा०सू० ३/३/१५) भविष्यतीत्येव। भविष्यदनद्यतनेऽर्थे वर्तमानाद्धातोर्लुट् प्रत्ययो भवति लृटोपवाद: लुट: प्रथमस्य डारौरस: (पा०सू० २/४/८५) लुडादेशस्य प्रथमपुरुषस्य परस्मैपदस्यात्मनेपदस्य च यथासंख्यं डारौरस इत्येते आदेशा भवन्ति। एकवचनादेशस्य डित्वात् तासन्तस्याङ्गस्य टिलोपेकृते भवित् आ इति स्थिते लघूपधगुण: प्राप्नुवन् दीधीवेवीटाम् (पा०सू० १/१/५) इति प्रतिषिध्यते भविता रि च (पा०सू० ७/४/५१) इति सलोप: भवितारौ भवितार: मध्यमैकवचने भवितास् इति स्थिते तासस्त्योर्लोप: (पा०सू० ७/४/५०) स: सीत्येव सकारादौ प्रत्यये परस्तासेरस्तेश्च सकारस्य लोपो भवति। भवितासि। भवितास्थ:। भवितास्थ। भवितास्मि। भवितास्व:। भवितास्म:। चिण्वदिटि भाविता। भाविता त्वया। शुद्धकर्मणि अनुभाविता अनुभविता श्री:। अनुभावितारौ। अनुभवितारौ। अनुभावितार:। अनुभवितार:। पूर्ववदनुबन्धलोप: थासस्से (पा०सू० ३/४/८०) अनुभावितासे। अनुभावितासाथे टेरेत्वं धि च (पा०सू० ८/२/२५) इति सकारलोप: ‘जश्त्वं वा अनुभाविताद्ध्वे। अनुभविताद्ध्वे। उत्तमैकवचनस्य टेरत्वे तासस्त्योर्लोप (पा०सू० ७/४/५०) इति वर्तमाने ह एति (पा०सू० ७/४/५२) तासेरस्तेश्च सकारस्य ह इत्ययमादेशो भवति एति परत:, अनुभाविताहे अनुभविताहे इत्यादि। धातो: कर्मण: समानकर्तृकादिच्छायां वा (पा०सू० ३/१/७) सनित्यनुवर्त्तते इषिकर्मयो धातुरिषिणैव समानकर्तृकस्तस्मादिच्छायां सन् प्रत्ययो भवति इको झल् (पा०सू० १/२/९) इगन्ताद्धातो: परे झलादि: सन् किद्भवतीति कित्वादगुणत्वं सनिग्रहगुहोश्च (पा०सू० ७/२/१२) सति परत: ग्रहगुह इत्येतयोरुगन्तानाञ्च इडागमो न भवति सन्यङो: (पा०सू० ६/१/९) सनन्तस्य यङन्तस्य च धातो: प्रथमस्यैकाचो द्वितीयस्य वा यथायोगं द्वे भवत:। भू स इत्येतस्य द्विर्वचनं हलादि शेष: (पा०सू० ७/४/६०) अभ्यासस्य हलादि: शिष्यते अनादिर्हल्लुप्यते अभ्यासस्य ह्रस्वत्वं इण्कोरिति षत्वं बुभूष इति स्थिते सनाद्यन्ता धातव: (पा०सू० ३/१/३२) सन् आदिर्येषां प्रत्यायानां ते सनादय: के पुनस्ते सनादय: सुप आत्मन क्यच् (पा०सू० ३/१/८) काम्यच्च (पा०सू० ३/१/९) उपमानादाचारे (पा०सू० ३/१/१०)कर्तु: क्यङ्सलोपश्च (पा०सू० ३/१/११) आचारेवगल्भ्यक्लीबहोढेभ्य: क्विब्वा वक्तव्य: सर्वप्रातिपदिकेभ्य इत्येके लोहितादिडज्भ्य: क्यष् नमोवरिवश्चित्रङ् क्यच् (पा०सू० ३/१/१९) पुच्छभाण्डचीवराण्णिङ् (पा०सू० ३/१/२०) मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् (पा०सू० ३/१/२१) धातोरेकाचो हलादे: क्रियासमभिव्याहारे यङ् (पा०सू० ३/१/२२) सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (पा०सू० ३/१/२५) कण्ड्वादिभ्यो यङ् (पा०सू० ३/१/२७) गुपूधूपविच्छिपणिपनिभ्य आय: (पा०सू० ३/१/२८) ऋतेरीयङ् (पा०सू० ३/१/२९) कमेर्णिङ् (पा०सू० ३/१/३०) इत्येते वा तदन्ता: समुदाया धातुसंज्ञा भवन्ति, ततो लडादय: बुभूषतीत्यादि सनोकारस्य प्रयोजनम् प्रतीतिषषतीति द्वितीयस्यैकाचो द्विर्वचनं धातोरेकाचो हलादे: क्रियासमभिव्याहारे यङ् (पा०सू० ३/१/२२) पौन: पुन्यं भृशार्थो वा क्रिया समभिव्याहार:। एकाचो हलादेधातो: समभिव्याहारविशिष्टक्रियायां वर्तमानाद्यङ्प्रत्ययो भवति, पूर्ववद्विर्वचनम् हलादि शेष: (पा०सू० ७/४/६०) अभ्यासकार्यं गुणो यङ्लुको: (पा०सू० ७/४/८२) यङ्लुकोपरतोऽभ्यासस्य गुणो भवति, बोभूय इति स्थिते सनाद्यन्ता धातव: (पा०सू० ३/१/३२) इति धातुसंज्ञायां लकारा: ङित्वादात्मनेपदं बोभूयते। अबोभूयत। बोभूयताम्। बोभूयेत। बोभूयिषीष्ट। बोभूयाञ्चक्रे। बोभूयिता। बोभूयिषते बोभूयाम्बभूवे। बोभूयामास। लुङि अबोभूयिष्ट। बोभूयिष्यते। अबोभूयिष्यत। बोभूयिष्यताम्। कर्मणि लुङि अबोभूयि इत्यादि योज्यम्। सनाद्यन्तधातूनामेतदनुसारेण यदेतदुपक्रान्तं तिङन्तपदसाधारणं तदुत्तरत्र यथासम्भवमनुसन्धेयं विशेषस्तु यथासम्भवं वक्ष्याम:।
एध वृद्धौ। वृद्धिशब्दो यद्यपि स्त्रियां क्तिन् (पा०सू० ३/३/९४) इति सिद्धार्थधर्मो व्युत्पादित:। तथापि साध्यरूप एव धात्वर्थस्तेन स्पष्टीक्रियत इति वेदितव्यम् एवमुत्तरत्रापि। टेरेत्वं लटि एधते आडजादीनाम् अजादीनामङ्गानाम् आडागमो भवति आटश्च (पा०सू० ६/१/९०) इति वृद्धि: ऐधत। लोटि एधताम्। लिङि एधेत। आशिषि एधिषीष्ट। लिटि इजादेश्च गुरुमतोऽनृच्छ: (पा०सू०३/१/३६) इजादिर्गुरुमान् ऋच्छतिवर्ज्जितो यो धातुस्तस्माल्लिट्यां प्रत्ययो भवति कृञ्चानुप्रयुज्यते लिटि (पा०सू०३/१/४०) कृभ्वस्तीनामनुप्रयोग: कार्य:। आम् प्रत्ययवत्कृञोऽनुप्रयोगस्य (पा०सू० १/३/६३) आम् प्रत्ययस्येव धातोरनुप्रयोगस्य कृञ आत्मनेपदं भवति। एधाञ्चक्रे। एधाम्बभूव। एधामास। लङि ऐधिष्ट। ऐधिषाताम्। ऐधिषत। णौ चङि एधि अत् इति स्थिते अत्र द्वितीय द्विर्वचनोपधाह्रस्वयो: प्राप्तयो: कृताकृतप्रसङ्गित्वेन नित्यत्वात् पूर्वं द्विर्वचनं प्राप्नोति तथा च ह्रस्वभाविन्युपधा नास्तीति ह्रस्वो न स्यात् ततश्च मा भवानिदिधदिति न सिध्येत्। तस्मान्नित्यमपि द्विर्वनमुपधाह्रस्वत्वेन बाध्यते ज्ञापकात्। किं तत् ओणेऋर्दित्करणम्। तद्धि नाग्लोपिशास्वृदिताम् (पा०सू० ७/४/२) इति उपधाह्रस्वप्रतिषेधो यथा स्यादिति क्रियते यदि पूर्वं द्वितीयद्विर्वचनं स्यात् ओणेर्ह्रस्वभाविन्युपधा नास्तीति ऋदित्करणमफलं स्यात्। तस्मादजादिषु पूर्वमुपधाह्रस्वत्वं ज्ञापकात्, हलादिषु तु अबीभवदपीपवदित्यादिषूभयोरपि नित्यत्वेन परत्वादुपधाह्रस्व इति व्यवस्था। ह्रस्वत्वमुपधाया णौ चङि यत्तद्धलादिषु द्विरुक्ते: प्राक्परत्वेन ज्ञापकेन त्वजादिषु। लृलुटो: एधिष्यते। ऐधिष्यत। एधिता। सनिडागमे सति द्वितीय द्विर्वचनं। सनन्तात्पूर्ववत् सन इत्यात्मनेपदम् एदिधिषते यङ् नास्त्यहलादित्वात्।
स्पर्ध सङ्घर्षे। स्पर्धते। अस्पर्धत। अस्पर्धताम्। स्पर्धेत। आशिषि स्पर्धिषीष्ट। शर्पूर्वा: खय: (पा०सू० ७/४/६१) अभ्यासे खय: शिष्यन्ते इतरे हलो लुप्यन्ते पस्पर्धे अस्पर्धत। पस्पर्धे। अस्पर्धिष्ट णौ चङि सन्वल्लघुनि चङ्परेऽनग्लोपे (पा०सू० ७/४/९३) लघुनि चङ्परे णौ सति सनीव कार्यं लघुनो धात्वक्षरस्य परत्वाभावेन सन्वद्भावो सन्यत इत्यभ्यास्य इत्वं न भवति। दीर्घो लघो: (पा०सू०७/४/९४) लघोरभ्यासस्य दीर्घो भवति। सन्वल्लघुनि चङ्परेऽनग्लोपे (पा०सू० ७/४/९३) इति लघुनोपधात्वक्षरस्य परत्वाभावादेव दीर्घो न भवति। अपस्पर्धत। लृलुटो: स्पर्धिष्यते। अस्पर्धिष्यत। स्पर्धिता। सनि पिस्पर्धिषति। यङि दीघोऽकित: (पा०सू० ७/४/८३) अकितोऽभ्यासस्य दीर्घो भवति। यङि परत: अकिद्ग्रहणेन नुगतोऽनुनासिकान्तस्य (पा०सू० ७/४/८५) इति यत्र नुक् यंयम्यते इत्यादौ तत्र न भवति। ननु दीर्घस्य नुगपवादो भविष्यतीति निरर्थकमकि ग्रहणम् एवं तर्हि एतदेव ज्ञापयति ‘अभ्यासविकारेष्वपवादो नोत्सर्गविधीन् बाधते’ इति पास्पर्ध्यते।
गाधृ प्रतिष्ठालिप्सयो: ग्रन्थे च। ऋकारो नाग्लोपिशास्वृदिताम् (पा०सू० ७/४/२) इति विशेषणार्थ:। गाधते। अगाधत इत्यादि। णौ चङि पूर्ववत् सन्वद्भावादित्वदीर्घयोरभाव:। णौ चङ्युपधाह्रस्वत्वे प्राप्ते नाग्लोपिशास्वृदिताम् (पा०सू० ७/४/२) अग्लोपिनामङ्गानां शासे: ऋदितां चोपधाह्रस्वो न भवति। अजगाधत। गाधिष्यते इत्यादि।
बाधृ लोडने। पूर्वेण तुल्यम्।
णाथृ नाधृ याच्ञोपतापैश्वर्याशी:षु। सकर्मकोऽकर्मकश्च। आशिषि नाथ इत्यौपसंख्यानिकनियमादाशिष्येवात्मनेपदम् इतरत्र शेषत्वात् परस्मैपदम्। आत्मनेपदपक्षे पूर्ववत्। इतरत्र नाथति। अनाथत्। नाथतु। नाथेत्। आशिषि नाथ्यात्। ननाथ। लुङि च्ले: सिच् इडागम:। अस्तिसिचोऽपृक्ते (पा०सू०७/३/९६) अस्तेरङ्गात् सिजन्ताच्चोत्तरस्यापृक्तप्रत्ययस्य सार्वधातुकस्य इडागमो भवति। इट ईटि (पा०सू० ८/२/२८) इट उत्तमस्य सकारस्य लोपो भवतीटि परत: सिज्लोप: एकादेशे सिद्धो वक्तव्य इति वचनात् सवर्णदीर्घ: सिचि वृद्धि: परस्मैपदेषु (पा०सू०७/२/१) इति प्राप्ता वृद्धिर्नेटीति प्रतिषिध्यते। अतो हलादेर्लघो: (पा०सू०७/२/७) इति पक्षे विधीयते अनाथीत् णोपदेशस्य फलम् उपसर्गादसमासेऽपि णोपदेशस्य (पा०सू० ८/४/१४) इति णत्वम्। लृटि नाथिष्यतीत्यादि।
दध धारणे। दधते। अदधत। दधताम्। दधेत। आशिषि दधिषीष्ट लिटि एत्वाभ्यासलौपौ देधे। लुङि अदधिष्ट णौ चङि अदीदधत् इत्यादि।
दद दाने। पूर्ववत्। लिटि न शसददवादिगुणानाम् (पा०सू० ६/४/१२६) इत्येत्वाभ्यासलोपप्रतिषेध: दददे।
वदि अभिवादनस्तुत्यो:। इदितो नुम्धातो: (पा०सू० ७/१/५८) इति नुम् वन्दते। अवन्दन्त। वन्दताम्। वन्देत। वन्दिषीष्ट। ववन्दे। अवन्दिष्ट। णौ चङि अववन्दत्। वन्दिष्यते। अवन्दिष्यत। वन्दिता। विवन्दिषते। वावन्द्यते।
भदि कल्याणे सुखे च।
मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु। अयं सकर्मकोऽकर्मकश्च।
स्पदि किञ्चिच्चलने। अकर्मक:। एते वन्दिवत्।
स्वद स्वर्द आस्वादने। स्वदते। अस्वदत। स्वदताम्। स्वदेत। स्वदिषीष्ट। सस्वदे। अस्वदिष्ट। णौ चङि असिस्वदत्। असिष्वददित्यन्ये। स्वदिष्यते। अस्वदिष्यत स्वदिता। सिस्वदिषते। सास्वद्यते। स्वर्दते। णौ चङि असस्वर्दत्। शेषं पूर्ववत्।
मुद हर्षे। लघूपधगुण: मोदते । अमोदत। मोदताम्। मोदेत। मोदिषीष्ट। असंयोगाल्लिट्कित् (पा०सू० १/२/५) गुणाभाव:। मुमुदे। अमोदिषीष्ट। अमोदिष्ट। अमूमुदत्। मोदिष्यते। अमोदिष्यत। इत्यादि सनि रलो व्युपधाद्धलादे: संश्च (पा०सू० १/२/२६) न क्त्वा सेट् (पा०सू० १/२/१८) किदित्येव इकारोपधादुकारोपधाद्धलादे: रलन्ताद्धातो: पर इडादि: संश्च क्त्वा च वा कितौ भवत: मुमुदिषते। मुमोदिषते। यङि गुणो यङ्लुको: (पा०सू० ७/४/८२) इत्यभ्यासस्य गुण: मोमुद्यते।
षूद क्षरणे हिंसायां च। धात्वादे: ष: स: (पा०सू० ६/१/६४) इति सत्वं सूदते। असूदत इत्यादि। लिटि इण्को: (पा०सू० ८/३/५७) इति षत्वं सुषूदे। असूदिष्ट। णौ चङि उपधाह्रस्व: दीर्घोलघोरित्यभ्यासस्य दीर्घ:। असूषुदत्।
ह्रादी ह्लादी अव्यक्ते शब्दे
ह्लादी सुखे च। ईकार: श्वीदितो निष्ठायाम् (पा०सू० ७/२/१४) इतीट् प्रतिषेधार्थ:। ह्लादते। अह्लादत। ह्लादताम्। ह्लादेत। ह्लादिषीष्ट। जह्लादे। अह्लादिष्ट। अजिह्लादत्।
स्वाद आस्वादने। आस्वादत अस्वादत इत्यादि पूर्ववत्।
पर्द कुत्सिते शब्दे। चङि अपपर्दत् । इतरत्र ह्लादिवत्।
यती प्रयत्ने। यतते। अययत। यतताम्। यतेत। आशिषि यतिषीष्ट। लिटि येते। लुङि अयतिष्ट इत्यादि।
विथृ वेधृ याचने। विधतिवेधत्यो: किति रूपे भेद:। वेथते। अवेथत इत्यादि आशिषि वेथिषीष्ट।
श्लथ शैथिल्ये। श्लथते। अश्लथत। श्लथताम् इत्यादि।
ग्रथ ग्रन्थ कौटिल्ये। ग्रथते। अग्रथत। ग्रथताम्। ग्रथेत्। आशिषि ग्रथिषीष्ट। जग्रथे। अग्रथिष्ट। णौ चङि अजग्रथत ग्रंथेस्तु अजग्रन्थत् शेषं ग्रथिवत्।
कत्थ श्लाघायाम्। कत्थते। अकत्थत। णौ चङि अचकत्थत।
।। भवत्यादय: सेट, एधत्यादयआत्मनेभाषा: अनुदात्तेतः:।।
अत सातत्यगमने। अतति। आतत्। अततु। अतेत्। अत्यात्। लिटि अत आदे:’(पा०सू० ७/४/७०) इत्यभ्यासदीर्घ: आत। आततु:। लुङि आडजादीनाम् (पा०सू० ६/४/७२) इत्याट् आटश्च (पा०सू० ६/१/९०) इति वृद्धि: इडागम:। सिच ईडागमोऽपृक्तस्य सिचो लोप:। आतीत्। आतिष्टाम्। सिजभ्यस्तविदिभ्यश्च (पा०सू० ३/४/१०९) इति आतिषु:।
चिती संज्ञाने। लघूपधगुण:। चेतति। चेतत:। चेतन्ति। आशिषि चित्यात्। लिटि चिचेत असंयोगाल्लिट्कित् (पा०सू० १/२/५) इति कित्वात् गुणाभाव: चिचिततु: चिचितु:। लुङि वदव्रजहलन्तस्याच: (पा०सू० ७/२/३)सिचिवृद्धि: परस्मैपदेषु (पा०सू० ७/२/१) इत्येव वदव्रज्योर्हलन्तानां चाङ्गानाम् अच: स्थाने वृद्धिर्भवति परस्मैपदे परे सिचि परत:। इति वृद्धौ प्राप्तायां नेटि (पा०सू० ७/२/४) इडादौ परस्मैपदे परे सिचि परतो हलन्तस्याङ्गस्याचो वृद्धिर्न भवतीति प्रतिषेध:। पूर्ववदिडादिकार्यम् अचेतीत्। अचेतिष्टामित्यादि। सनि रलो व्युपधात्० (पा०सू० १/२/२६) इति कित्वविकल्प: चिचितिषति। चिचेतिषति।
च्युतिर् क्षरणे। इरित्करणम् इरितो वा (पा०सू० ३/१/५७) इतीडर्थ लट् शप् लघूपधगुण: च्योतति। अच्योतत्। च्योततु। च्योततात्। आशिषि च्योत्यात्। लिटि चुच्योत। लुङि इरितो वा (पा०सू० ३/१/५७) इड्विकल्प: अश्च्युतत्। अश्चोतीत् इत्यादि सनि पूर्ववत् विकल्प: चुच्युतिषति। चुच्योतिषति। श्च्युतिर् क्षरण इति केचिद्रूपं तथैव।
कुथि पुथि नुथि लुथि मथ मथि हिंसासंक्लेशनयो:। इदित्वान्नुम्। मन्थति। अमन्थत् इत्यादि। एवं शेषेषूदाहरणमूह्यम्।
षिधु गत्याम्। उकार उदितो वा (पा०सू० ७/२/५६) इति विशेषणार्थ:।
षिधू शास्त्रे माङ्गल्ये च । ऊकार: स्वरतिसूतिसूयतिधूञूदितो वा (पा०सू० ७/२/४४) इति इड्विकल्पार्थ: एममुत्तरत्रापि षत्वम् उपसर्गादिना गतेरन्यत्र उपसर्गात्सुनोत्यादिना षत्वं गतौ तु सेधतेर्गताविति प्रतिषेधति लङि प्राक्सितादड्व्यवायेऽपि (पा०सू० ८/३/६३) इति षत्वं प्राक्सितीया धातव: उपसर्गात्सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वञ्जाम् (पा०सू० ८/३/६५) सदिरप्रते: (पा०सू० ८/३/६६) स्तन्भे: (पा०सू० ८/३/६७) अवाच्चालम्बनाविदूर्ययो: (पा०सू० ८/३/६८) वेश्च श्वनो भोजने (पा०सू० ८/३/६९) परिनिविभ्य: सेवसित० (पा०सू० ८/३/७०) इति सितशब्दपर्यन्ता गृह्यन्ते न्यषेधत् निषेधतु निषेधेत् निषिध्यात् निषेधिथ निषिषेध लिङि ऊदित्वादिड्विकल्प:। इट्पक्षे पूर्ववत् वृद्धिप्रतिषेध: लघूपधगुण: न्यषेधीत् अन्यत्र हलन्तलक्षणा सिचिवृद्धि: धकारस्य खरि च (पा०सू० ८/४/५५) इति चर्त्वं तकार: न्यषैत्सीत् झलो झलीति (पा०सू० ८/२/२६) सिज्लोप:। तसस्तां न्यषैद्धां सिजभ्यस्तविदिभ्यश्च(पा०सू० ३/४/१०९) इति झेर्जुस् न्यषैत्सु: णौ चङि न्यषीषिधत्। लृलुटो: ऊदित्वादिड्विकल्प: निषेधिष्यति। निषेत्स्यति। न्यषेधिष्यत। न्यषेत्स्यत्। निषेद्धा। निषेधिता। सनि रलोव्युपधाद्(पा०सू० १/२/२६) इति कित्वविकल्पादिट्पक्षे गुणस्य भावाभावौ स्तौति ण्योरेव षण्यभ्यासात् (पा०सू० ८/३/६१) स्तौतेर्ण्यन्तानां च सनि षत्वभूते च परत: अभ्यासापरस्यादेशसकारस्य षत्वं भवति सिद्धे सत्यारम्भो नियमार्थ: स्तौति ण्योरेव षण्यभ्यासात् (पा०सू० ८/३/६१) यथा स्यात् अन्यस्य मा भूत सिसिधिषति सिसेधिषति। उपसर्गादुत्तरस्य स्थादिष्वभ्यासे च चाभ्यासस्य (पा०सू० ८/३/६४) प्राक्सितात्० (पा०सू० ८/३/६३) इति वर्तते। स्थादिषु प्राक्सित संशब्दनाभ्यासव्यवायेऽपि मूर्धन्यादेशो भवति। अभ्यासकारस्य च मूर्धन्यादेशो भवति चाभ्यासेन व्यवायवचनं षोपदेशार्थं अवर्णान्ताभ्यासार्थं च षङि प्रतिषेधार्थं वेति वचनात् षत्वं निषिषेधिषति निषिषित्सति इडाभावे निषिषित्सति अत्र हलन्ताच्च (पा०सू० १/२/१०) इति कित्वाद् गुणाभाव:।
मृ मरणे । मरति अमरदित्यादि आशिषि रिङ् श्यङ्ग्लिक्षु (पा०सू० ७/४/२८) इत्येतेषु परतो रिङादेशो भवति। म्रियात्। लिटि ममार। लुङि अमार्षीत्। चङि अममरदित्यादि।
खादृ भक्षणे। खादति अखाददित्यादि णौ चङि ऋदित्वात् नाग्लोपिशास्वृदिताम् (पा०सू० ७/४/२) इत्यादिना उपधाह्रस्वप्रतिषेध: निमित्तभावान्नैमित्तिकस्याप्यभाव: अचखादत्।
वद खद स्थैर्ये। वदति। खदतीत्यादि। हिंसायां च वर्तते।
गद व्यक्तायां वाचि।
नद अव्यक्ते शब्दे। उपसर्गात्परस्य नेर्गदनद० (पा०सू० ८/४/७०) इत्यादिना णत्वं प्रणिगदतीत्यादि । वदतिप्रभृतीनां लुङि सिचि नेटीति हलन्तलक्षणायां वृद्धौ प्रतिसिद्धायां अतो हलादेर्लघो: (पा०सू० ७/२/७) इति वा वृद्धि: अनदीत्। अनादीदित्यादि।
रद विलेखने। पूर्ववत्।
नर्द गर्द हिंसायाम्। नर्दति। अनर्ददित्यादि।
अर्ध गतौ याचने च। अर्धतीत्यादि लिटि अत आदे: (पा०सू० ८/४/७०) इत्यभ्यासस्य दीर्घ: तस्मान्नुड्द्विहल: (पा०सू० ७/४/७१) इति नुट्। आनर्देत्यस्य रूपं। अन्यत्र सुबोध:।
अर्ध हिंसायाम्।
तर्द हिंसायाम्।
पर्द कुत्सिते शब्दे।
खर्ध कर्ध कुत्सिते शब्दे। खर्धति। दन्तशूके दन्तसुखे च। एषामुदाहरणमूह्यम्।
णिदि कुत्सायाम्। णो न: (पा०सू० ६/१/६५) उपसर्गात्परस्य वा निंसनिक्षनिन्दाम् (पा०सू० ८/४/३३) इति णत्व विकल्प: इदित्वात् नुम् प्रणिन्दति। प्रनिन्दति। अनिन्दत। निन्दतु। निन्देत्। निन्द्यात्। निनिन्द। अनिन्दत। चङि अनिनिन्दत् इत्यादि।
अति अदि बन्धने।
इदि परमैश्वर्ये।
बिदि अवयवे।
टुनदि समृद्धौ।
चदि आह्लादने दीप्तौ च।
त्रदि चेष्टायाम्।
क्रदि क्लदि आह्वाने रोदने च।
क्लिदि परिवेदने। एतेषां पूर्ववत्।
शुन्ध शुद्धौ। शुन्धति। अशुन्धदित्यादि। आशिषि अनिदिताम्० (पा०सू० ६/४/२४) इति नलोप: शुध्यात्। लिटि शुशुन्ध। लुङि अशुन्धीत्। णौ चङि अशुशुन्धत्। शुन्धिष्यतीत्यादि।
।। आतादीनां मध्ये मृ मरण इत्येकोऽनिट्।
सेधतेरिड्विकल्प: इतरे सेट: परस्मैभाषा:।।
सीकृ सेचने। सेकते। असेकत इत्यादि। णौ चङि असिसेकत्। ऋदित्त्वादुपधाह्रस्वाभाव:। एवमुत्तरत्रापि वेदितव्यम्।
लोकृ दर्शने। विलोकते। व्यलोकत। विलोकताम्। विलोकेत। आशिषि विलोकिषीष्ट। विलुलोके। व्यलोकिष्ट चङि व्यलुलोकत विलोकिष्यत इत्यादि।
श्लोकृ संघाते।
द्रेकृ ध्रेकृ शब्दोत्साहे।
रेकृ शङ्कायाम्।
श्रेकृ स्रेकृ गतौ। पूर्ववत्।
शकि शङ्कायाम्। इदित्त्वान्नुम् शङ्कते। अशङ्कत। शङ्किता। शङ्केत। आशिषि शङ्किषीष्ट। शशङ्के। अशङ्किष्ट। णौ चङि अशशङ्कत्। शङ्किष्यते इत्यादि।
अकि वकि लक्षणे।
वकि कौटिल्ये।
मकि मण्डने।
ककि लौल्ये। पूर्ववत्।
कुक वृक आदाने।
चक तृप्तौ प्रतीघाते च।
स्रक प्रतीघाते। एषामुदाहरणमूह्यम् ।
ढौकृ त्रौकृ ककि श्वकि त्रकि ष्वष्क मस्क टिकृ टीकृ रघि लघि गत्यर्था:। ढौकते त्रौकते टीकते ष्वक्कते वस्कते टीकते रङ्घते लङ्घते इति लडादिषु योज्यम्। णौ चङि अडुढौकत् अतुत्रौकदित्यादि। ष्वक्कते ‘सुब्धातुष्ठिवुष्क्कतीनां प्रतिषेधो वक्तव्य’ इति धात्वादे: सत्वाभाव:। रङ्घते। अरङ्घत।
लघि भोजने निवृत्तौ च।
श्लाघृ कत्थने। श्लाघते। अश्लाघत। श्लाघताम्। श्लाघेत। श्लाघिषीष्ट। शश्लाघे। अश्लाघिष्टेत्यादि।
।। सिकृप्रभृतय: सेट आत्मनेभाषा:।।
फक्क नीचैर्गतौ।
तक हसने।
तकि कृच्छ्रजीवने।
शुक गतौ।
बुक्क भाषणे।
कक्ख हसने।
रिख गतौ। फक्कतीत्याद्युदाहार्यम्।
त्वगि कम्पने। त्वंगति अत्वंगत् त्वंगतु त्वेगेत् त्वंग्यादित्यादि।
युगि जुगि बुगि वर्जने।
दघि पालने।
लघि शोषणे।
कख हसने।
।। एते सेट: परस्मैभाषा:।।
वर्च दीप्तौ। वर्चते। अवर्चत। वर्चताम्। वर्चेत इत्यादि।
लोचृ दर्शने। लोकृ दर्शने इतिवत्।
कच बन्धने।
कचि दीप्तिबन्धनयो:।
मचि धारणोच्छ्रायपूरणेषु।
पचि व्यक्तीकरणे। इदित्वान्नुम्।
एजृ कम्पने। एजते। ऐजत। एजताम्। एजेत। एजिषीष्ट। लिटि इजादेश्च गुरुमतोनृच्छ: (पा०सू० ३/१/३६) एजाञ्चक्रे इत्यादि। ऐजिष्ट। नास्योपधाह्रस्व:। द्विरुक्ति:। आट्वृद्धि:। ऐजिजत्।
एजृ रेजृ भाजृ दीप्तौ। रेजते। अरेजत रेजताम् रेजेत रिजिषीष्ट रिरेजे अरेजिष्ट। णौ चङि अरिरेजत् इत्यादि। भ्राजेर्णौ चङि भ्राजभासभाषदीपजीवमीलपीडामन्यतरस्याम् (पा०सू० ७/४/३) इत्युपधाह्रस्वविकल्प: अबिभ्रजत् अबभ्राजत् अत एव भ्राजभासो ऋदित्करणमपाणिनीयमिति वदन्ति, न हि ऋदित्करणस्य शास्त्र उपधाह्रस्वप्रतिषेधात् अन्यत् प्रयोजनं पश्याम:।
।। सेट आत्मनेभाषा:।।
शुच शोके शौचे च। शोचति। अशोचत्। शोचतु। शोचेत्। शुच्यात्। शुशोच नेटि (पा०सू० ७/२/४) इति वृद्धिप्रतिषेध:। अशोचीत्। अशूशुचत्। शोचिष्यति। अशोचिष्यत्। शोचिता। सनि रलो व्युपधात्० (पा०सू० १/२/२६) इति कित्व विकल्प:। शुशुचिषति। शुशोचिषति यङि शोशुच्यते।
कुच शब्दे तारे। पूर्ववत्।
कुञ्चु गतिकौटिल्याल्पीभावयो:। उकार उदितो वा (पा०सू० ७/२/५६) इति प्रत्यय इड्विकल्पार्थ: एवमुत्तरत्रापि। कुञ्चति आशिषि अनिदिताम्० (पा०सू० ६/४/२४) इति नलोप: कुच्यात् लिटि चुकुञ्च लुङि अकुञ्चीत् णौ चङि अचुकुञ्चत।
लुञ्च अपनयने। लुञ्चतीत्यादि।
अञ्चु गतिपूजनयो:। प्राञ्चति। प्राञ्चत् इत्यादि। आशिषि गतौ अनिदिताम्० (पा०सू० ६/४/२४) इति नलोप: प्राच्यात्। पूजायां तु नाञ्चे: पूजायाम् (पा०सू० ६/४/३०) इति प्रतिषेध: गुरुमञ्च्यात्। लिटि अभ्यासस्य अत आदे: (पा०सू० ७/४/७०) इति दीर्घ: तस्मान्नुड्द्विहल: (पा०सू० ७/४/७१) तस्मात् अत आदे: (पा०सू० ७/४/७०) इति कृतदीर्घादभ्यासात् परस्य द्विहलोङ्गस्य नुडागमो भवति इति नुट्। आनञ्च। लुङि प्राञ्चीत्। नकारस्यानुस्वारपरसवर्णौ प्राञ्चिष्टाम्। प्राञ्चिषु:। णौ चङि द्विरुक्तिश्च द्वितीयस्य शब्दस्य नकारस्य न भवति नन्द्रा: संयोगादय: (पा०सू० ६/१/३) इति निषेधात् प्राञ्चिचत्। प्राञ्चिष्यतीत्यादि योज्यम्।
वंचु चंचु तंचु त्वंचु ग्रंचु ग्लंचु स्रंचु श्लंचु म्रुचु म्लुचु गत्यर्था:।
ग्लुचु स्तेये।
ग्लुञ्चु गतौ। निम्रेचति न्यम्रोचत् निम्रोचतु निम्रोचेत् आशिषि निर्मुच्यात् निमुम्रोच लुङि जॄस्तम्भुम्रुचुम्लुचुग्रुचुग्लुचुग्लुञ्चुश्विभ्यश्च (पा०सू० ३/१/५८) वेत्येवं जॄ इत्येवमादिभ्य: परस्य च्लेर्वा अङादेशो भवति ङित्वादगुणत्वम् अम्रुचत् अम्रोचीत्। णौ चङि अमुम्रुचत्। म्रोचिष्यतीत्यादि। सनि प्राग्वत् कित्वविकल्प: निमुम्रुचिषति निमुम्रोचिषति। म्लुचुग्लुचो: सर्वं पूर्ववत्। ग्लुञ्चेस्तु ग्लुञ्चति। अग्लुञ्चत्। ग्लुञ्चतु। ग्लुञ्चेत्। आशिषि नलोप: ग्लुच्यात्। लिटि जुग्लुञ्च। लुङि च्लेरङि नलोप: अग्लुचत्। अग्लुञ्चीत्। णौचङि अजुग्लुञ्चत्। ग्लुञ्चिष्यतीत्यादि। सनि जुग्लुञ्चषतीत्यादि। वञ्चतेर्यङि नीग्वञ्चुस्रंसुध्वंसुभ्रंसुकसपतपदस्कन्दाम् (पा०सू० ७/४/८४) इति नीगागम: अनिदिताम्० (पा०सू० ६/४/२४) इति नलोप:। वनीवच्यते। वञ्चति। अवञ्चत्। वञ्चतु। वञ्चेत्। आशिषि नलोप: वच्यात्। लिटि ववञ्च। अवञ्चीत्। अवञ्चत्। वञ्चिष्यतीत्यादि। एवमितरेषूदाहार्यम्।
कुजि गुजि अव्यक्ते शब्दे। कुज्जति। गुज्जति इत्यादि।
अर्च पूजायाम्। अर्चति। आर्चत्। लिटि अभ्यासस्य दीर्घ: तस्मान्नुड्द्विहल: (पा०सू० ७/४/७१) आनर्च। आनर्चतु:। लुङि आर्चीत्। णौ चङि चिशब्दस्य द्वितीयस्य द्विर्वचनं न रेफस्य। नन्द्रा:० (पा०सू० ६/१/३) इति प्रतिषेधात्। आर्चिचत्।
म्लेच्छ अव्यक्तायां वाचि। म्लेच्छतीत्यादि।
लच्छि लाछि लक्षणे। नुम् लाञ्छतीत्यादि।
वाछि इच्छायाम्। वाञ्छति
ह्रीच्छ लज्जायाम्। ह्रीच्छतीत्यादि।
हूर्च्छ कौटिल्ये। हूर्च्छति।
मूर्च्छा मोहसमुच्छ्राययो:। आकार आदितश्च (पा०सू० ७/२/१६) इति निष्ठायामिटं प्रतिषेधयितुं मूर्च्छति।
कूज अव्यक्ते शब्दे। कूजति।
अर्ज्ज सर्ज अर्जने। अर्जति। आर्जत्। लिटि आनर्ज। आनर्जतु:। आनर्जु:।
गर्ज शब्दे। गर्जति अगर्जत्
तर्ज भर्त्सने। अततर्जत्
अज गतिक्षेपणयो:। अजति। आजत्। अजतु। अजेत्। आशिषि लिङाशिषि (पा०सू० ३/४/११६) इत्यार्धधातुकत्वात् अजेर्व्यघञपो: (पा०सू० २/४/५६) अज गतिक्षेपणयो: इत्यास्यार्धातुके परत: वि इत्ययमादेशो भवति घञमपं च वर्जयित्वा अकृत्सार्वधातुकायोर्दीर्घ: (पा०सू० ७/४/२५) अकृद्यकारे असार्वधातुकारे परतोऽजन्तस्याङ्गस्य दीर्घ: वीयात्। वीयास्ताम्। वीयासु:। लिटि आर्द्धधातुकत्वाद्वीभाव:। विवाय एरनेकाचोऽसंयोगपूर्वस्य (पा०सू० ६/४/८२) इति यणादेश: विव्यतु: विव्यु: सिपि थलि कृसृभृवृस्तुद्रुस्रुश्रुवो लिटि (पा०सू० ७/२/१३) नेटि (पा०सू० ७/२/४) इत्येवं लिटि परभूते क्रादीनामिण्न भवति किमर्थमिदं यावता डुकृञ् करणे। सृ गतौ। डुभृञ् भरणे। वृञ् वरणे। ष्टुञ् स्तुतौ। द्रु. गतौ। श्रु श्रवणे। स्रु गतौ। इत्येतेषाम् एकाच उपदेशेऽनुदात्तात् (पा०सू० ७/२/१०) इति प्रकृत्याश्रय: प्रतिषेधोऽस्ति सामान्येन वालादिलक्षणस्येट:।
वृङ् संभक्तौ।
वृञ् वरणे। एतयोरपि प्रत्ययाश्रय: श्र्युक: कितीति प्रतिषेधोऽस्ति तयो: सेट्त्वात् सिद्धे सत्यारम्भो नियमार्थ: क्रादय एव लिट्यनिटस्ततोऽन्ये लिटि सेट इति नियमादिटि प्राप्ते अचस्तास्वत्थल्यनिटो नित्यम् (पा०सू० ७/२/६१) अजन्तो यो धातुस्तासौ नित्यमनिट् तस्य तासाविव थलीडागमो न भवतीति थलि नित्यं प्रतिषेधे प्राप्ते ऋतो भारद्वाजस्य (पा०सू० ७/२/६३) थलीत्येव ऋकारान्तस्येव धातोर्भरद्वाजस्याचार्यस्य मतेन थलीडागमो न भवति अन्येषामजन्तानां धातूनां थलीडागमो भवति भारद्वाजस्य मतेन तदन्येषामाचार्याणां मतेनाजन्तानां तासौ नित्यानिटाम् ऋकारान्तवर्जितानां थलीडागमस्य पाक्षिकत्वं प्रतिपादितं क्रादीनां लिटि सर्वत्र प्रतिषेध एव नित्यम्। संग्रहश्लोक: -
क्रादिव्यवस्थाकरणे न सेट्त्वं यदत्वताम्।
लिट्यनृतां चापि नित्यानिटां तासि पदागमज्ञैरानीयते।।
तद्. थलि पाक्षिकत्वम्। अत्वतामित्यनेन उपदेशेऽत्वत (पा०सू० ७/२/६२) इत्यस्य विषय: सूचित:। तस्मादिड्विकल्प: विवेथ विवयिथ थलीड्विषये सर्वत्रायं न्याय: स्मरणीय:। लुङि सिचि वृद्धि:। अवैषीत् अवैष्टाम्। णौ चङि अवीवयत्। लृलुटो: वेष्यति। अवेष्यत्। वेता। विवीषति। वेवीयते। तथा भावकर्मणो: (पा०सू० १/३/१३) वीयते। अवीयत। वीयताम्। वीयेत। आशिषि चिण्वदिडागमविकल्प: वेषीष्ट वायिषीष्ट। लिटि विव्ये। लुङि अवायि अवेषाताम्। लृलुटो: वेष्यते अवेष्यत, वायिष्यते। अवेष्यत अवायिष्यत। वेता वायिता। एवमिकारान्तानामुत्तरत्रापि चिण्वदिटि रूपनय:।
खजि गतिवैकल्ये। खञ्जतीत्यादि।
एजृ कम्पने। एजति। ऐजत्। लिटि एजाञ्चकार।
टुओस्फूर्जा वज्रनिर्घोषे। टुशब्द: ट्वितोऽथुजित्यथुजर्थ:। ओकार ओदितश्च (पा०सू० ८/२/४५) इति निष्ठानत्वार्थ:। स्फूर्जति अस्फूर्जत्।
क्षि क्षये। क्षयति। अक्षयत्। आशिषि अकृत्सार्वधातुकयोर्दीर्घ: (पा०सू० ७/४/२५) क्षीयात्। लिटि चिक्षाय। चिक्षयिथ चिक्षेथ। अक्षैषीत् सनि चिक्षीषति। अत्र अज्झनगमां सनि (पा०सू० ६/४/१६) इति दीर्घ:।
युष प्रीतौ। योषति अयोषत्।
जज जजि युद्धे। जजतीत्यादि जञ्जतीत्यादि।
तुज तुजि हिंसायाम्। तोजति तुञ्जति।
वज व्रज गतौ। वजति अवजदित्यादि। व्रजति। अव्रजत्। व्रजतु। व्रजेत्। व्रज्यात्। लिटि वव्राज। लुङि हलन्तलक्षणायां वृद्धौ नेटीति नित्यप्रतिषेधे प्राप्ते अतो हलादेर्लघोः (पा०सू० ७/२/७) इति विकल्पप्रतिषेधप्रसङ्गाद् वदव्रज० (पा०सू० ७/२/३) इत्येव वृद्धि: अव्राजीत्। व्रजिष्यतीत्यादि।
।। अजिवर्जं सेट: परस्मैभाषा:।
अट्ट अतिक्रमणहिंसयो:। अट्टते। आट्टत। अट्टताम्। अट्टेत। अट्टिषीष्ट। लिटि आनट्टे। लुङि आट्टिष्ट।
वेष्ट वेष्टने। वेष्टते। अवेष्टत। वेष्टताम्। वेष्टेत। वेष्टिषीष्ट। विवेष्टे। अवेष्टिष्ट। णौ चङि विभाषा वेष्टिचेष्ट्यो: (पा०सू० ७/४/९६) इत्यस्येति अभ्यासस्य अत्वं अववेष्टत्।
चेष्ट चेष्टायाम्। चेष्टत इत्यादि। पूर्ववत्।
घट्ट चलने। घट्टते। अघट्टत। घट्टताम्। घटेत।
।। सेट आत्मनेभाषा:।।
अट पट गतौ। अटति। आटत्। अटतु। अटेत। अट्यात्। लिटि आट आटतु:। लुङि आटीत्। णौ चङि आटिटत्। अटिष्यति इत्यादि सनि अटिटिषति। यङि सूचिसूत्रिमूत्र्यघर्त्यशूर्णोतीनामुपसंख्यानमिति यङ् ट्य इत्येतस्य द्विर्वचनमभ्यासकार्यम् अटाट्यते। पटते पटति अपटत् लुङि अतो हलादेर्लघो: (पा०सू० ७/२/७) इति वा वृद्धि: अपाटीत् अपटीत् शेषं सुज्ञानम्।
वट वेष्टने।
जट जुट संघाते।
भट भृतौ।
तट उच्छ्राये
नट नृत्तौ।
सट अवयवे।
इट किट कटी गतौ। एषामुदाहरणमूह्यम्।
रुटि लुटि स्तेयकरणे। रुण्टति लुण्टतीत्यादि।
पठ व्यक्तायां वाचि। पठति। लुङि अतो हलादेर्लघो: (पा०सू० ७/२७/) इति वृद्धिप्रतिषेधविकल्प: अपठीत् अपाठीत्।
वठ मठ मदनिवासयो:। पूर्ववत्।
रठ परिभाषणे। पूर्ववत्।
रुठ लुठ उपतापे। उपरोठति। लोठति।
शठ कैतवे।
शुठि शोषणे। नुमादिकार्यमूह्यम्।
कीडृ विहारे। क्रीडति। अनु-परि-आङ्पूर्वात् कूजनादन्यत्र सम्पूर्वात् क्रीडोऽनुसंपरिभ्यश्च (पा०सू० १/३/२१) इत्यात्मनेपदम् अनुक्रीडते परिक्रीडते आक्रीडते संक्रीडते कुमार इति। लङि समक्रीडत। संक्रीडताम्। संक्रीडेत। संक्रीडिषीष्ट। सञ्चक्रीडे समक्रीडिष्ट इत्यादि।
गडि वदनैकदेशे। गण्डति।
।। सेट: परस्मैभाषा:।।
टुवेपृ कम्पने। वेपते। अवेपत। वेपताम्। वेपेत। वेपिषीष्ट विवेपे अवेपिष्ट। चङि अविवेपत्। ऋदित्वान्न ह्रस्वत्वम्। वेपिष्यत इत्यादि।
षेवृ केवृ गेवृ च सेवने। इत्यादि।
त्रपूष् लज्जायाम्। षकार: षिद्भिदादिभ्योऽङ् (पा०सू० ३/३/१०४) इत्यङर्थ:। त्रपते। अत्रपत। त्रपताम्। त्रपेत। आशिषि त्रपिषीष्ट। ऊदित्वादिड्विकल्प: त्रप्सीष्ट। लिटि तृफलभजत्रपश्च (पा०सू० ६/४/१२२) इत्येत्वाभ्यासलोपौ त्रेपे। त्रेपाते। लुङि अत्रप्त। अत्रपिष्ट। णौ चङि अतित्रपत्। लृलृटो: त्रप्स्यते त्रपिष्यते इत्यादि। सनि तित्रप्स्यते तित्रपिषते।
कपि चलने। कम्पते। अकम्पत। कम्पताम्। कम्पेत। कम्पिषीष्ट। चकम्पे। अकम्पिष्ट। अचकम्पत्। कम्पिष्यत इत्यादि।
रबि लबि अवस्रंसने। नुम्। रंवते लम्बते। अलम्बत इत्यादि।
क्लीबृ अधार्ष्ट्ये। क्लीबते। अक्लीबत। क्लीबेत। क्लीबताम्। क्लीबिषीष्ट। चिक्लीबे। अक्लीबिष्ट। चङि अचिक्लिबत।
क्षीबृ मदे। क्षीबत इत्यादि। पूर्ववत्।
चीभृ शीभृ कत्थने।
रेभृ शब्दे। रेभते। अरेभत।
ष्टभि स्तभि प्रतिबन्धे। नुमादि पूर्ववत् सत्वं च स्तम्भते। अस्तम्भत।
जभ जृभि गात्रविनामे। रधिजभोरचि (पा०सू० ७/१/६१) इति नुं जम्भते। अजम्भत। जृम्भते। अजृम्भत। जृम्भताम्। जृम्भेत। जृम्भिषीष्ट। जजृम्भे। अजृम्भिष्ट। चङि अजजृम्भत्। जृम्भिष्यत इत्यादि। यङि रीगृदुपधस्य च (पा०सू० ७/४/९०) इत्यत्र ऋत्वन्त इति वक्तव्यमिति वचनादभ्यासस्य रीगागम:। जरीजृभ्यते जम्भेस्तु लुपसदचरजपजभदहदशगृभ्यो भावगर्हायाम् (पा०सू० ३/१/२४) इति यङ् जपजभदहदशभञ्जपशां च (पा०सू० ७/४/८६) इत्यभ्यासस्य नुक् जञ्जम्भ्यते।
वल्भ भोजने। वल्भते अवल्भत।
गल्भ धार्ष्ट्ये। प्रगल्भते प्रागल्भत।
स्रंसु प्रमादे। स्रंसते। तासि आत्मनेभाषा:।
स्तन्भुस्तुन्भुस्कन्भुस्कुन्भुस्कुञ्संभेदासौत्रा धातव:।
स्तुच आवेशे। स्तोचते। अस्तोचत।
स्तुभ आवेगे। स्तोभति। अस्तोभत्।
षच समवाये। सत्वं सचते। असचत। सचति। असचत् इत्यादि शेषं नेयम्।
।। उभयतो भाषौ।।
गुपू रक्षणे। सार्वधातुकविषये गुपूधूपविच्छिपणिपनिभ्य आय: (पा०सू० ३/१/२८) इत्यायप्रत्यय: तस्य सनाद्यन्तत्वात् धातुसंज्ञा। गोपायति। अगोपायत्। आशिषि आयादय आर्धधातुके वा (पा०सू० ३/१/३१) इत्यायप्रत्ययविकल्प:। गुप्यात् गोपाय्यात्। लिटि प्रत्ययान्तधातुत्वात् कास्प्रत्ययादाममन्त्रे० (पा०सू० ३/१/३५) इत्याम् गोपायाञ्चकार। जुगोप। लङि ऊदित्वादिड्विकल्प: सिच आर्धधातुकत्वादायविकल्पश्च तेन त्रैरूप्यम् अगोपायीत्। नेटि (पा०सू० ७/२/४) इति वृद्धिप्रतिषेध: अगोपीत्। हलन्तलक्षणा वृद्धि: अगौप्सीत्। णौ चङि अजूगुपत् अजुगोपायत्। अतो लोपस्य स्थानिवत्वेनोपधाह्रस्वाभाव:।
धूप सन्तापे। अलघूपधत्वात् गुणाभाव:। लिटि पर्यन्तेषु गुपिवत्। लुङि अधूपायीत् अधूपीत्। णौ चङि अदूधुपत् अदूधुपायत्। धूपिष्यति धूपायिष्यतीत्यादि।
जप जल्प व्यक्तायां वाचि। जपति। अजपत्। लुङि अजापीत्। जपिष्यतीत्यादि। लुपसद० (पा०सू० ३/१/२४) इत्यादिना जपजभ० (पा०सू० ७/४/८६) इत्यादिनाभ्यासस्य नुक जञ्जप्यते। जल्पति। अजल्पत्। लुङि अजल्पीत्। जल्पिष्यतीत्यादि योज्यम्।
अप मानससान्त्वनयो:।
रप लप व्यक्तायां वाचि। लपति। अलपत्। लुङि अलपीत्। अलापीत्।
चुप मन्दायां गतौ। चोपति। लुङि नेटीति वृद्धिप्रतिषेधात् लघूपधगुण: अचोपीत् अचोपिष्टाम्। सनि कित्वविकल्प: चुचुपिषति चुचोपिषति।
चुबि वक्त्रसंयोगे। चुम्बति। अचुम्बत्। आशिषि चुम्ब्यात्। लिटि चुचुम्ब। अचुम्बीत्।
कुबि आच्छादने। पूर्ववत्।
कृ करणे। करति योषिषद्धि गुप्यादय:।
।। कृवर्जं सेट: परस्मैभाषा:।।
घुण घूर्ण भ्रमणे। घूर्णते। अघूर्णत इत्यादि। आशिषि घूर्णिषीष्ट। जुघूर्णे। अघूर्णिष्ट। णौ चङि अजुघूर्णत शेषं नेयम्।
पण व्यवहारे स्तुतौ च। गुपादि सूत्रेण स्तुत्यर्थस्य पणेरायप्रत्ययान्तस्य शेषत्वात् परस्मैपदम्। पणायति। अपणायत्। आशिषि आर्धधातुकत्वादायविकल्प: पणिषीष्ट। पणाय्यात्। लिटि पणायाञ्चकार। पेणे। पेणाते। लुङि अपणिष्ट। अपणायीत्। शेषं नेयम्। व्यवहारे तु पणते। अपणत इत्यादि।
पन च स्तुत्यर्थ एव। पूर्ववत्।
भाम क्रोधे। भामते।
क्षमूष् सहने। क्षमते। आशिषि ऊदित्वादिड्विकल्प: क्षंसीष्ट क्षमिषीष्ट। चक्षमे। लुङि अक्षंस्त अक्षमिष्ट।
कमु कान्तौ। कमेर्णिङ् (पा०सू० ३/१/३०) इति णिङ्। सनाद्यन्तो धातु:। अमन्तत्वात् जनीजॄषक्नसुरञ्जोमन्ताश्च इति इत्यादिना प्राप्तमित्संज्ञा क्रम्पति च मामिति निषिध्यते तेन अत उपधाया: इति वृद्धि:। ङित्वादात्मनेपदं कामयते आशिषि णिङ्विकल्प:। कमिषीष्ट कामयिषीष्ट। लिटि कामयामास चकमे। लुङि णिश्रि० (पा०सू० ३/१/४८) इत्यादिना कर्तरि चङ् अचीकमत। णिङभावे कमेरुपसंख्यानम् इति चङ् अचकमत। कमिष्यते कामयिष्यते इत्यादि। सनि चिकमिषते चिकामयिषते। यङि चङ्कम्यते। णिङ्पक्षे यङ् नास्ति अनेकाच्त्वात्।
शुभ शुम्भ शोभार्थे। शोभते अशोभतेत्यादि।
ऋत तथ्यभाषणे घृणायाञ्च। ऋते रीयङ् सौत्रो धातु: ऋतीयत इत्यादि।
।। क्षमिवर्जं नित्येट आत्मनेभाषा:।।
अण रण मण क्वण जण भण शब्दार्था:। अणति रणति मणतीत्याद्यूह्यम्।
ओणृ अपनयने। ओणतीत्यादि लिटि इजादित्वादामि ओणाञ्चकार णौ चङि ओदित्करणं ज्ञापकं नित्यमपि द्विर्वचनं उपधाह्रस्वत्वेन बाध्यत इति मा भवानुणिणत्।
वण भण शब्दे। भणति अभणत् यङि बंभण्यते।
कनी दीप्तिकान्तिगतिषु। कनति अकनत्।
स्तन वन मन शब्दे। स्तनतीत्यादि।
कणपणौ च। कणति पणति णौ चङि कणादीनां वा वक्तव्यम् इति वचनात् उपधाह्रस्वविकल्प:। अचकणत् अचीकणदित्यादि।
वन षण सम्भक्तौ। वनति। अवनत्। सनति। असनत्।
स्वन ध्वन शब्दे। स्वनति। वेरुपसर्गात्परस्य वेश्च स्वनो भोजने (पा०सू० ८/३/६९) इति षत्वं रषाभ्यां नोण: समानपदे (पा०सू० ८/४/१) इति णत्वं विष्वणति भुङ्क्ते इत्यर्थ: भोजनादन्यत्र विस्वनति अडभ्यासव्यवायेऽपि(पा०सू० ६/१/१३६) व्यष्वणत् च।
वमु छमु जमु झमु अदने। आङ्पूर्वस्य वमे: ष्ठिवुक्लमुचमाम् (पा०सू० ७/३/७५) इति दीर्घ: आवामति अन्यत्र वमति। लुङि ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् (पा०सू० ७/२/५) इति वृद्धिप्रतिषेध:। अवमीत्।
क्रमु पादविक्षेपे। क्रम: परस्मैपदेषु (पा०सू० ७/३/७६) इति दीर्घ: क्रामति वा भ्राशभ्लाशभ्रमुक्रमुक्लमुत्रसित्रुटिलष: (पा०सू० ३/१/७०) इति वा श्यन् पूर्ववद्दीर्घ: क्राम्यति इत्यादि। आशिषि क्रम्यात्। चक्राम लुङि ह्म्यन्त० (पा०सू० ७/२/५) इति वृद्धिप्रतिषेध:। अक्रमीत्। क्रमिष्यति। क्रमिता। चिक्रमिषति। नित्यं कौटिल्ये गतौ (पा०सू० ३/१/२३) इति यङ् चङ्क्रम्यते। वृत्त्यादिष्वर्थेषु वृत्तिसर्गतायनेषु क्रम: (पा०सू० १/३/३८) उपपराभ्याम् (पा०सू० १/३/३९) आङ् उद्वमने (पा०सू० १/३/४०) वे: पादविहरणे (पा०सू० १/३/४१) प्रोपाभ्यां समर्थाभ्याम् (पा०सू० १/३/४२) अनुसर्गाद्वा (पा०सू० १/३/४३) इति क्रमेरात्मनेपदं विहितं अत्र वलादावार्धधातुके स्नुक्रमोरनात्मनेपदनिमित्ते (पा०सू० ७/२/३६) इति इट् प्रतिषेधश्च तत्र वृत्तिरप्रतिबन्ध: सर्ग उत्साह: तायन: स्फीतता उपपूर्व: क्रमिरारम्भे परापूर्व: पराक्रमे तथाप्यत्र सोपसर्गात् उपपरापूर्वात् एव वृत्त्यादिष्वपि नियमार्थमिदम् आङ्पूर्वो ज्योतिरुद्गमने विपूर्व: पादविहरणे वर्तते प्रोपाभ्यां पर आरम्भे एभ्योऽन्यत्रानुपसर्गादक्रमेर्विकल्पेनात्मनेपदं वृत्तौ तावत् क्रमते। अक्रमत। आशिषि क्रंसीष्ट। लिटि चक्रमे। लुङि अक्रंस्त। क्रंस्यते। अक्रंस्यत। क्रन्ता। चिक्रंस्यते। एवमन्यत्रापि।
।। सेट: परस्मैभाषा:।।
अय वय षय मय चय दय तय नय गतौ।
तय रक्षणे।
दय दानगतिरक्षणेषु ।
रय गतौ च। प्रपरापूर्वस्यायते: उपसर्गस्यायतौ (पा०सू० ८/२/२९) इति लत्वं पलायते अपलायत आशिषि पलायिषीष्ट। लिटि दयायासश्च (पा०सू० ३/१/३७) आं पलायाञ्चक्रे आमित्येवमयादय:। अय आस इत्येतेषामां भवति पलायाञ्चक्रे। लुङि पलायिष्ट। पलायिष्यत्। पलायिष्यते। दयते। अदयत। आशिषि दयिषीष्ट। लिटि दयाञ्चक्रे। शेषेषूदाहरणमूह्यम्।
ऊयी तन्तुसन्ताने। ऊयते। औयत। आशिषि ऊयिषीष्ट। लिटि इजादित्वादाम् ऊयाञ्चक्रे। इत्यादि योज्यम्।
पूयी विशरणे दुर्गन्धे च। पूयते।
क्नूयी शब्दे। क्नूयते। णौ चङि अर्तिह्री० (पा०सू० ७/३/३६) इत्यादिना पुक् वलि लोप: गुण: उपधाह्रस्व: अभ्यासकार्यम् अचुक्नुपत्।
क्ष्मायी विधूनने। पूर्ववत्।
स्फायी ओप्यायी वृद्धौ। स्फाय्यते आप्यायत इत्यादि। लिटि लिङ्यङोश्च (पा०सू० ६/१/२९) इति पी इत्यादेश: एरनेकाच० (पा०सू० ६/४/८२) इत्यादिना यणादेश: पिप्ये लुङि दीपजनबुधपूरितायिप्यायिभ्यः अन्यतरस्याम् (पा०सू० ३/१/६१) इति कर्तरि वा च्लेश्चिणादेश: आप्यायि। आप्यायिष्ट। यङि प्सादेश: द्विरुक्ति: आपेपीयते स्फायतेरुदाहरणमूह्यम्।
तायृ सन्तानपालनपूजानिशामनेषु। प्यायतिवत्। सर्वं प्यादेशवर्जम् णौ चङि ऋदित्वाद्ध्रस्वत्वम् अततायत्।
वल वल्ल संवरणे सञ्चरणे। वलते अवलत। लिटि न शस० (पा०सू० ६/४/१२६) इत्याभ्यासलोप: प्रतिषेध:।
मल मल्ल धारणे।
बल प्रापणे।
भल भल्ल परिभाषणहिंसादानेषु।
कल शब्दसंख्यानयो:।
कल अव्यक्ते शब्दे। एषामुदाहरणमूह्यम्।
तेवृ देवृ देवने।
।। सेट: आत्मनेभाषा:।।
मव्य बन्धने। मव्यति।
सूर्क्ष्य ईर्क्ष्य ईर्ष्य ईर्ष्यार्था:। ईर्ष्यति। ऐर्ष्यत्। लिटि ईर्ष्याञ्चकार। ईर्षिष्यते सनि तृतीयस्य द्वे भवत इति वक्तव्यं कस्य तृतीयस्य केचिदाहु: व्यञ्जनस्येति तन्मते ईर्ष्यायियिषति अपरे पुनरेकाच इत्याचक्षते तन्मते ईर्ष्यषिषति इतरयोरुह्यम्।
हय गतौ।
अल भूषणपर्याप्तिवारणेषु।
ञिफला विशरणे। ञिशब्दो ञीत: क्त: (पा०सू० ३/२/१८७) इति विशेषणार्थ:। प्रयोजनं तु वर्तमाने क्तविधि:। फलति। अफलत्। लिटि पफाल। किति लिटि तृफलभजत्रपश्च (पा०सू० ६/४/१२२) इत्येत्वाभ्यासलोपौ फेलतु:। फेलु:। थलि च सेटि फेलिथ।
फल निष्पत्तौ। पूर्ववत्।
मील स्मील निमेषणे। निमीलति। लिटि निमिमील। लुङि न्यमीलीत्। णौ चङि भ्राजभ्रास० (पा०सू० ७/४/३) इत्यादिना चोपधाह्रस्व: न्यमिमीलत् न्यमीमिलत्। इतरस्य तु असिस्मिलत् शेषं समानम्।
शील समाधौ।
कील बन्धने।
शूल रुजायाम्।
तूल निष्कर्षे।
पूल संघाते।
मूल प्रतिष्ठायाम्। एषामुदाहरणमूह्यम्।
स्खल चलने। स्खलति। अस्खलत्।
खल सञ्चलने।
गल अदने।
अल विशरणे। अलति। लुङि अतो ल्रान्तस्य (पा०सू० ७/२/२) इति नित्यं वृद्धि: आलीत्।
त्सर छद्मगतौ। त्सरति। लिटि तत्सार लुङि पूर्वद्वृद्धि: अत्सारीत्।
क्वर चलने। क्वरति लुङि अक्वारीत्।
चर गतिभक्षणयो:। चरति पूर्ववद्वृद्धि: अचारीत् उत् पूर्वाच्चरतेस्तु उदश्चर: सकर्मकात् (पा०सू० १/३/५३) समस्तृतीयायुक्तात् (पा०सू० १/३/५३) इति सूत्रद्वयेनात्मनेपदं विहितम् उच्चरते अश्वेन सञ्चरते लुपसद० (पा०सू० ३/१/२४) इत्यादिना यङ् चरफलोश्च (पा०सू० ७/४/८७) इत्यभ्यासस्य नुक् अभ्यासात्परस्य उत्परस्यात इत्युत्वं हलि च (पा०सू० ८/२/७७) इति दीर्घ:। चञ्चूर्यते एवं फलतेरपि दीर्घवर्ज्जमूह्यम् पम्फल्यते।
ष्ठिवु निरसने। पूर्ववत्सत्व प्रतिषेध: ष्ठिवुक्लमुचमां शिति (पा०सू० ७/३/७५) इति दीर्घ: निष्ठीवति। निरष्ठीवत्। आशिषि हलि च (पा०सू० ८/२/७७) इति दीर्घ: निष्ठीव्यात्। लिटि अभ्यासस्य शर्पूर्वा: खय: शिष्यन्ते लघूपधगुणश्च यदायं थकारादि: तदा टिष्ठेव टिष्ठीवतु: टिष्ठिवु: टिष्टेविथ लुङि निष्ठीव सनि सनीवन्तर्धभ्रस्जदम्भुश्रिवृयूर्णुभरज्ञपिसनाम् (पा०सू० ७/२/४९) इवन्तानां धातूनां ऋघिसुप्रभृतीनां च सनि वेडागमो भवति भर इति शब्विकरणस्य ग्रहणं तिष्ठेविषति इडभावे हलान्ताच्च (पा०सू० १/२/१०) इति झलादित्वात्सन: कित्वं च्छ्वो: शूडनुनासिके (पा०सू० ६/४/१९) च सतुक्कस्य छकारस्य वकारस्य च यथासंख्यं शू ऊठ् बहिरङ्गयणादेशत्वमन्तरङ्गं वर्णाश्रयत्वात् असिद्धम् बहिरङ्ग इत्यूठोऽसिद्धत्वात् कथं यणादेश: नैतदस्ति नाजानन्तर्ये बहिरङ्गप्रक्लृप्तिरिति ज्ञापकात् क्वपुनरिदं ज्ञापकं अधिग् नित्येत्यत्र तु कर्तव्ये बहिरङ्गपरिभाषाया: प्रतिप्रसवाय षट्कारोऽसिद्ध इत्यत्रासिद्धवचनेन ततो द्विर्वचनं तुष्ठ्यूषति।
जि जये। जयति। आशिषि अकृत्सार्वधातुकर्योदीर्घ: जीयात्। लिटि ‘सनिलिटोर्जेरित्यभ्यासात्परस्य कुत्वं गकार: जिगाय। असंयोगाल्लिट् किद् (पा०सू० १/२/५) इति कुत्वं। एरनेकाच० (पा०सू० ६/४/८२) इत्यादिना यणादेश: जिग्यतु: जिग्यु:। थलि क्रादिनियमप्राप्तस्येट: अचस्तास्वत्थल्यनिटो नित्यम् (पा०सू० ७/२/६१) इति प्रतिषिद्धस्य ऋतो भारद्वाजस्य (पा०सू० ७/२/६३) इति विधानाज्जिगेथ जिगयिथ लुङि सिचि वृद्धि: अजैषीत् णौ चङि वृद्धि: क्रीङ् जीनाम्० (पा०सू० ६/१/४८) इत्यात्वं पुक् उपधाह्रस्व: द्विरुक्तिरिति कार्याणां क्रम:। यदि द्विर्वचने सत्युपधाह्रस्वत्वं क्रियते ततो सन्वल्लघुनि चङ्पर० (पा०सू० ७/४/९३) इति सन्वद्भावो विधीयमानो ह्रस्वस्य स्थानिवद्भावान्न स्यात् पूर्ववदुपधाह्रस्वत्वे कृते अनादिष्टादच: पूर्वविधिर्नास्तीति न भवति स्थानिवत्वमजादेशस्योपधाह्रस्वस्य ततो लघूपधात्वक्षरस्य परत्वे सन्वल्लघुनि चङ्पर० (पा०सू० ७/४/९३) इति सन्वद्भावादिकार्यं सिद्धम् अजीजपत् सनि इको झल् (पा०सू० १/२/९) इति कित्वात् गुणाभाव: अज्झनगमां सनि० (पा०सू० ६/४/१६) इति दीर्घ: पूर्ववत् कुत्वं जिगीषति विपरात् पूर्वात् विपराभ्यां जे: (पा०सू० १/३/१९) इति आत्मनेपदं विजयते। व्यजयत। आशिषि विजेषीष्ट। लिटि पूर्ववत्कुत्वं विजिग्ये। लुङि व्यजेष्ट।
जीव प्राणधारणे। जीवति। लुङि अजीवीत्। णौ चङि भ्राजभास० (पा०सू० ३/२/१७७) इत्यादिनोपधाह्रस्वविकल्प: अजिजीवत् अजीजिवत्।
पीव मीव स्थौल्ये। सर्वं पूर्ववत् णौ चङि अपीपिवत्।
क्षिवु निरसने। लघूपधगुण: क्षेवति। सनीवन्तत्वात् इड्विकल्प: चिक्षेविषति चिक्षिविषति।
तुर्वी थुर्वी दुर्वी धुर्वी हिंसार्था:।
गुर्वी उद्यमने।
तुर्वी बंधने। एषामुदाहरणमूह्यम्।
चर्व अदने हिंसायां च। चर्वति। अचर्वत्।
कर्व खर्व गर्व दर्पे इति व्याप्तौ। नुमागम: इन्वति द्रविणानि।
पिवि निवि मिवि सेचने। पिन्वंत्यापो मरुत: ।
इवि धिवि दिवि जिवि प्रीणनार्थे। इदित्वान्नुम्। धिन्विकृण्वोरच (पा०सू० ३/१/८०) इति उप्रत्यय: शपोपवाद: अकारश्चान्तादेशार्थ: अतो लोप (पा०सू० ६/४/४८) इति तस्य लोप सार्वधातुकगुण: धिनोति जिवीत्यस्माच्छप्। अपान्तचेतांसि जिन्वति।
कृवि हिंसाकरणयोश्च। धिनोतिवत् सर्वम्।
मव बन्धने। मवति।
अव रक्षणे गतिकान्तिप्रीतितृप्त्यवगमनप्रवेशस्वाम्यर्थयाचनक्रियेच्छादीप्तिवाह्यालिङ्गनहिंसाभाववृद्धिषु। अवतीत्यादि।
।। सेट: परस्मैभाषा:।।
धावु गतिशुद्धयो:। धावति। धावते।
।। सेट् उभयतोभाष:।।
धुक्ष धिक्ष सन्दीपनक्लेशनजीवनेषु। सन्धुक्षते।
वृक्ष आवरणे।
शिक्ष विद्योपादाने। शिक्षते। अशिक्षत।
भिक्ष याच्ञायाम् अलाभे लाभे च। भिक्षते। अभिक्षत
दीक्ष मौण्ड्योपनयननियमव्रतादेशेषु। दीक्षते। अदीक्षत।
ईक्ष दर्शने। ईक्षते। ऐक्षत। ईक्षताम्। ईक्षेत। आशिषि ईक्षिषीष्ट। लिटि ईक्षामास। लुङि ऐक्षिष्ट। ईक्षिष्यत इत्यादि।
भाष व्यक्तायां वाचि। भाषते। अभाषत। णौ चङि भ्राजभास० (पा०सू० ७/४/३) इत्युपधाह्रस्वविकल्प: अबभाषत् अबीभषत्।
हेषृ ह्रेषृ अव्यक्ते शब्दे। हेषते ह्रेषते अश्व:।
कासृ शब्दकुत्सायाम्। कासते लिटि कास्प्रत्ययादाममन्त्रे लिटि (पा०सू० ३/१/३५) इत्याम्। कासाञ्चक्रे।
भासृ दीप्तौ। भासते णौ चङि ह्रस्वविकल्प: अबभासत् अबीभसत्।
भासृ णासृ शब्दे।
रासृ दीप्तौ। उदाहरणमूह्यम्।
नस कौटिल्ये। म्रष्टाधीर्नसते।
भी भये।
ग्रसु ग्लसु अदने। ग्रसते। अग्रसत।
ईह चेष्टायाम्। ईहते। ऐहत। लिटि इदित्वादाम् ईहाञ्चक्रे।
गर्ह गर्त कुत्सने। गर्हते अगर्हत।
वर्ह वल्ह प्राधान्ये।
प्लह गतौ।
वेहृ जेहृ वाहृ प्रयत्ने। एषाम् उदाहरणमूह्यम्।
काशृ दीप्तौ। प्रकाशते।
वाशृ शब्दे। वाशते।
ऊह वितर्के। ऊहते। सोपसर्गत्वे सति उपसर्गादस्यत्यूह्योर्वाचनमिति पक्षे परस्मैपदं समूहते समूहति। लिटि समूहाञ्चक्रे समूहाञ्चकार। लुङि समौहिष्ट समौहीत्।
गाहू विलोडने। गाहते। अगाहत। गाहताम्। गाहेत। आशिषि ऊदित्वादिड्विकल्प: गाहिषीष्ट। इडभावे भष्त्वकत्वषत्वानि घाक्षिष्ट। लिटि जगाहे। लुङि इडभावे झलो झलि (पा०सू० ८/२/२६) इति सकारलोप: अघात्त अगाहिष्ट।
।। गाहिवर्जं नित्येट आत्मनेभाषा:। ।
घुषिर् शब्दार्थे। घोषति। अघोषत्। घोषतु। घोषेत्। घुष्यात्। जुघोष। लुङि इरितो वा (पा०सू० ३/१/५७) इत्यङ् अघोषीत्। अजघुषत्। चङि अजूघुषत्। घोषिष्यति। अघोषिष्यत्। घोषिता। जुघोषिषति। जुघुषिषति। जुघुष्यते।
अक्षू व्याप्तौ सङ्घाते च। स्वादिभ्य: श्नु: (पा०सू० ३/१/७३) अक्षोन्यतरस्याम् (पा०सू० ३/१/७५) इति पक्षे श्नु: अक्षति। अक्ष्णोति। लिटि आनक्ष। लुङि ऊदित्वादिड्विकल्प: मा भवानक्षीत्। इडभावपक्षे ककारस्य संयोगादेर्लोप: षढो: क: सि (पा०सू० ८/२/८१) इति षकारस्य कत्वम् आक्षीत्। झलि संयोगादेर्लोप: तकारस्य ष्टुत्वं आष्टाम्। आक्षु:।
तक्षू त्वक्षू तनूकरणे। स्वादिभ्य: श्नु: (पा०सू० ३/१/७३) तनूकरणे तक्ष: (पा०सू० ३/१/७६) इति श्नु: तक्ष्णोति काष्ठम्। अनेकार्थत्वाद्धातूनां तनूकरणादन्यत्र तक्षति अतक्षत् लुङि ऊदित्वादिड्विकल्प: नेटि (पा०सू० ७/२/४) इति वृद्धिप्रतिषेध: अतक्षीत्। इडभावे संयोगादिलोपकत्वषत्ववृद्धि: अताक्षीत्। चङि अततक्षत्। लृलुटो: तक्षिष्यति। इडभावे संयोगलोपादिकार्यं तक्ष्यति। अतक्ष्यत्। अतक्षिष्यत्। तक्षिता। तष्टा। सनिति तितक्षिषति। त्वक्षेरप्येवमूह्यम्।
उक्ष सेचने। प्रोक्षति। लिटि इजादित्वादाम् उक्षाञ्चकार प्रोक्षाम्बभूव लुङि औक्षीत्। णौ चङि औचिक्षत्। सनि उचिक्षिषति।
रक्ष पालने। रक्षति।
णिक्ष चुम्बने। णो न: रेफवदुपसर्गात् परस्य वा निंसनिक्षनिन्दाम् (पा०सू० ८/४/३३) इति णत्वविकल्पे प्रणिक्षति प्रनिक्षतीत्यादि।
मृक्ष संघाते। मृक्षति।
पक्ष परिग्रहे। पक्षति।
काक्षि वाक्षि माक्षि काङ्क्षायाम्। काङ्क्षति अकाङ्क्षत लिटि चकाङ्क्ष लुङि अकाङ्क्षीत् णौ चङि अचकाङ्क्षत।
द्राक्षि ध्राक्षि ध्वाक्षि घोरवाशिते च। ध्वाङ्क्षति।
चूष पाने। चूषति लिटि चुचूष।
तुष तुष्टौ। तोषति। लिटि तुतोष। लुङि अतोषीत्। तोषिष्यति। सनि कित्वविकल्प: तुतुषिषति तुतोषिषति। यङि तोतुष्यते।
मुष स्तेये। पूर्ववत्सनि। रुदविदमुषग्रहिस्वपिप्रच्छ: संश्च (पा०सू० १/२/८) नित्यं कित्वं मुमुषिषति।
वष पुष वृद्धौ।
कष शिष जिष झष वष रुष ऋष हिंसार्था:। कषति रुषति रिषोस्तादौ तीषसहलुभरुषरिष: (पा०सू० ७/२/४८) इतीड्विकल्प: रोष्टा रोषिता। रोष्टा रेषिता।
भष भर्त्सने। शब्दकर्मक:।
उष दाहे। ओषति औषत् लिटि उषविदजागृभ्योन्यतरस्याम् (पा०सू० ३/१/३८) इति आम् ओषामास इतरत्र णलि परत्वाल्लघूपधगुण: पश्चाद्विर्वचनं ओ ओष इति स्थिते अभ्यासस्यासवर्णे (पा०सू० ६/४/७८) इत्युवङि कर्तव्ये गुणस्याजादेशस्य स्थानिवद्भावात् न भवति। अनादिष्टादच: पूर्वस्य विधित्वादुवङ्: यस्माद्योनादिष्टादच: पूर्वस्य विधिं प्रति स्थानिवद्भाव: उवोष किति लिटि सवर्णदीर्घ: ऊषतु: ऊषु: थलि उवोषिथ लुङि औषीत्। आशिषि उष्यात्। लुङि अनिट्त्वात् सल्लुधूपधाद्. औविष्टाम्। णौ चङि मा भवानुषिषत् उषिष्यति इत्यादि।
पुष पुष्टौ। सर्वं तुषिवत्।
श्लिष्ट प्लुष्ट दाने।
प्रुष प्लुष दाहे। प्लोषति। अप्लोषत्। प्लोषतु। प्लोषेत्। आशिषि प्लुष्यात्। पुप्लोष। लुङि अनिट्त्वात् शल इगुपधादनिट: क्स: (पा०सू० ३/१/४५) शलन्तो यो धातुरिगुपधस्तस्मात् परस्यानिटश्च्ले: क्स इत्ययमादेशो भवति। अनिट इत्यस्य च्लि विशेषणत्वात् वैकल्पिकेटामपि धातूनां क्स: सिद्ध:। क्स: ककार: कित्कार्यार्थ:। कत्व-षत्वे कित्वादगुणत्वं अप्लुक्षत।
शिषिं पिषिं शुष्यति पुष्यतीत्विषिं तुष्यति-दुष्यतीद्विषिम्।
इमां दशैवोपदिशिंत्यनिद्विधो गुणेषु षान्तानूकृष कर्षती तथा।।
इति वचनादनिट्त्वं लिटि तु सर्वत्र क्रादिनियमात् नित्यं सेट्त्व लृलुटो: कत्वषत्वे प्लोक्ष्यति ष्टुत्वं प्लोष्टा। हलन्ताच्च (पा०सू० १/२/१०) इति कित्वं पुप्लुक्षति पोप्लुष्यते।
पृषु वृषु मृषु सेचने। शपि गुण: वर्षति। अवर्षत्। वर्षतु वर्षेत् आशिषि वृष्यात्। लिटि ववर्ष। ववृषतु:। ववृषु:। ववर्षिथ। अत्र क्रादिनियमेन इडागमो न प्रार्थनीय: सेट्त्वात्। ववृषथु:। ववृष। ववर्ष। ववृषिव। ववृषिम। लुङि अवर्षीत्। नेटि (पा०सू० ७/२/४) इति हलन्तलक्षणा वृद्धिर्निषिध्यते। णौ चङि वृषि अत् इति स्थिते लघूपधगुणे प्राप्ते उर्ऋत् (पा०सू० ७/४/७) वेत्येव चङ्परे णौ परत: उपधायाम् ऋवर्णस्य स्थाने ऋकारादेशो भवति। इतरामपवाद: इति यदा ऋकारादेशो तदा सन्वद्भावादिकार्यम् अवीवृषत्। अन्यत् लघुपधात्वक्षरपरत्वाभावान्न सन्वद्भाव: अववर्षत्। एवमुत्तरत्रापि वेदितव्यम् वर्षिष्यतीत्यादि।
पृषु मृषु। हिंसासंक्लेशनयोश्च।
मृषु सहने। एषामुदाहरणमूह्यम्।
धृषु संघर्षे।
मृषु अलीके। वृषिवत् शेषं नेयम्।
तुस ह्रस ह्लस रस शब्दे। रसति। लुङि अरसीत्। अरासीत्।
घस्लृ अदने। घसति अघसत् लिटि जघास। किति लिटि गमहनजनखनघसां लोप: क्ङित्यनङि (पा०सू० ६/४/९८) इत्युपधालोप: तस्य खरि च (पा०सू० ८/४/५५) इति चर्त्त्वे कर्तव्ये न स्थानिवदभूत्। न पदान्त० (पा०सू० १/१/५८) इत्यादिना स्थानिवद्भावप्रतिषेधात् शासिवसिघसीनां च (पा०सू० ८/३/६०) इति मूर्धन्य: जक्षतु:। जक्षु:। ऋतो भारद्वाजस्य (पा०सू० ७/२/६३) इति थलीड्विकल्प: जघसिथ इडभावे जघत्थ कथमिडभावो यावता क्रादिनियमात् नित्यमिटा भवितव्यम्। नैतदस्ति तस्योपदेशेऽत्वत इत्यधिकारे ऋतो भरद्वाजस्य (पा०सू० ७/२/६३) इति थलि विकल्पितत्वात् एवं तर्हि अचस्तास्वत्थलि० (पा०सू० ७/२/६१) इत्यत्र सूत्रे तासस्वदिति निर्देश तासौ सतस्थलि प्रतिषेधार्थ:। यो हि तासावसन् सोत्वाच्च नित्योऽनिट तस्य थलि प्रतिषेधो न भवति जघसिथेति वृत्तिकारवचनं विरुद्ध्यते। नैष दोष:। अदादेशमधिकृत्य तत्राभिधानात्।
शकिस्तु कान्तेष्वनियडेक इष्यते
धसिश्च शान्तेषु धि: प्रसारिणी।
रभिश्च भान्तेष्वथ मैथुने च
यस्तस्तृतीयोभिरेवनेतरे।।
इत्येतद्व्याख्यानावसरे घसि: प्रकृत्यन्तरमस्ति जपस्तेनोदाहृतत्वाच्च। लुङि पुषादिषु लृदित्वाद् पुषादिद्युताद्यलृदित: परस्मैपदेषु (पा०सू० ३/१/५५) इति च्लेरङ्। अघसत्। स: स्यार्धधातुके (पा०सू० ७/४/४९) इति तत्वम्। घत्स्यति। अघत्स्यत्। सनि जिघत्सति। यङि जाघत्स्यते।
लस श्लेषक्रीडनयो:। लसति लुङि अलसीत् अलासीत्।
हसे हसने। हसति लुङि एदित्वात् अतो हलादेर्लघो: (पा०सू० ७/२/७) इति प्राप्ता विकल्पवृद्धि: ह्म्यन्तक्षणश्वसजागृणिश्वेदिताम् (पा०सू० ७/२/५) इति प्रतिषिध्यते। तेन नेटि (पा०सू० ७/२/४) इति प्रतिषेध:। अहसीत् हसिष्यति।
शब गतौ।
शश प्लुतगतौ।
शसु हिंसायाम्। विशसति। लिटि विशशास। न शसददवादिगुणानाम् (पा०सू० ६/४/१२६) इत्येत्वाभ्यासलोपप्रतिषेध: विशशसतु:। विशशसु:। विशशसिथ।
शंसु स्तुतौ। प्रशंसति। प्राशंसत्। आशिषि नलोप: प्रशस्यात्। लिटि प्रशशंस। प्रशशंसिथ। लुङि अशंसीत्। शंसिष्यतीत्यादि।
मह पूजायाम्। महति।
रह त्यागे। रहति।
रहि गतौ। नुम् रंहति।
दृह दृहि बृह बृहि वृद्धौ। बृंहति।
बृहि शब्दे च। बृंहति हस्ती।
तुहिर् उहिर् अर्दने। तोहति। अपोहति।।
अर्ह पूजायाम्। अर्हति। आर्हत्। अर्हतु। अर्हेत्। अर्ह्यात् लिटि। अत आदे: (पा०सू० ७/४/७०) तस्मान्नुड्द्विहल: (पा०सू० ७/४/७१) आनर्ह। आनर्हिथ। लुङि आडागम: नेटि (पा०सू० ७/२/४) इति वृद्धिप्रतिषेध: आर्हीत्। णौ चङि हि शब्दस्य द्विर्वचनं आर्जिहत्। अर्हिष्यतीत्यादि।
ऊदिद्वर्जं नित्येट: परस्मैभाषा:।
इत: परे द्युतादय:। तेषामन्यत्र नित्यात्मनेपदानामपि लुङि द्युद्भ्यो लुङि (पा०सू० १/३/९१) इति स्यसनो: परत: वृद्भ्य: स्यसनो: (पा०सू० १/३/९२) इति, लुटि लुटि च क्लृप: (पा०सू० १/३/९३) इति सूत्रैर्यथायमात्मनेपदं विकल्प्यते तत्र परस्मैपदपक्षे पुषादिसूत्रेण च्लेरङादेश: इतरत्र सिजिति विभाग:। वृतु वर्तने। इत्यादीनां चतुर्णां स्यसनो: क्लृपेस्तु तयोस्तासि च परस्मैपदपक्षे गमेरिट् परस्मैपदेष्वित्यधिकारे न वृद्भ्यश्चतुर्भ्य: (पा०सू० ७/२/५९) तासि च क्लृप: (पा०सू० ७/२/६०) इतीडागम: प्रतिषिध्यते तथैवोदाहरिष्याम:।
द्युत दीप्तौ। लघूपधगुण:। द्योतते। अद्योतत। आशिषि द्योतिषीष्ट। लिटि अभ्यासाधिकारे हलादि: शेषापवादो द्युतिस्वाप्यो: सम्प्रसारणम् (पा०सू० ७/४/६७) इति यकारस्य सम्प्रसारणमितीकार: असंयोगाल्लिट् कित् (पा०सू० १/२/५) इति कित्वात् गुणाभाव:। दिद्युते। लुङि अद्युतत् अद्योतिष्ट। णौ चङि अदिद्युतत्। द्योतिष्यते। सनि रलोव्युपधात्० (पा०सू० १/२/२६) इति कित्वविकल्प:। दिद्युतिषते। दिद्योतिषते।
ञिमिदा स्नेहने। मेदते। लुङि अमिदत्। अमेदिष्ट। मेदिष्यते। सनि रलोव्युपधात्० (पा०सू० १/२/२६) इति कित्वविकल्प: मिमिदिषते मिमेदिषते।
श्विता वर्णे। श्वेतते। आशिषि श्वेतिषीष्ट। लिटि शिश्विते। लुङि अश्वितत्। अश्वेतिष्ट। चङि अशिश्वितत्।
ञिष्विदा स्नेहनमोहनमोचनयो:।
ञिस्विदा गात्रक्षरणे। पूर्ववत्।
रुचि दीप्तौ प्रीत्यां च। रोचते। अरोचत। रोचताम्। रोचेत। रोचिषीष्ट। रुरुचे। अरुचत्। अरोचिष्ट। अरूरुचत्। रोचिष्यते। सनि रुरुचिषते रुरोचिषते।
घुट पुट परिवर्तने। घोटते। अघोटत लुङि अघुटत् अघोटिष्ट।
रुट लुट दीप्तौ।
रुठ लुठ प्रतीघाते। लोठते अलोठत लुङि अलुठत् अलोठिष्ट एवं शेषं नेयम्।
शुभ दीप्तौ। शोभते। लुङि अशुभत्। अशोभिष्ट। सनि शुशुभिषते। शुशोभिषते।
क्षुभ सञ्चलने। क्षोभते इत्यादि पूर्ववत्।
नभ तुभ हिंसायाम्। नभते लुङि अनभत् अनभिष्ट।
स्रन्सु ध्वन्सु भ्रन्सु अवस्रंसने।
ध्वन्सु गतौ च।
स्रन्सु विश्वासे। नश्चापदान्तस्य झलि (पा०सू० ८/३/२४) इत्यनुस्वार: स्रंसते। अस्रंसत। स्रंसताम्। स्रंसेत। स्रंसिषीष्ट। सस्रंसे। च्लेरङि अनिदिताम्० (पा०सू० ६/४/२४) इति नलोप: अस्रसत्। अस्रंसिष्ट। णौ चङि णिलोपस्याच: परस्मिन्निति स्थानिवद्भावात् असिद्धवदत्राभात् (पा०सू० ६/४/२२) इत्यसिद्धत्वात् वा अनिदिताम्० (पा०सू० ६/४/२४) इति नलोपो न भवति। असस्रंसत। स्रंसिष्यते। यङि नीग्वञ्चुस्रंसु० (पा०सू० ७/४/८४) इत्यादिनाभ्यासस्य नीगागम: अनिदितामिति (पा०सू० ६/४/२४) नलोप: सनीस्रस्यते दनीध्वस्यते बनीभ्रस्यते एवमितरेषामपि योज्यम् स्रन्सेस्तु यङि सास्रभ्यते।
वृतु वर्तने। वर्तते। अवर्तत। वर्तताम्। वर्तेत। वर्तिषीष्ट। ववृते। अवृतत्। अवर्तिष्ट। णौ चङि णेरनिटि (पा०सू० ६/४/५१) इत्यादिकार्यम् अवीवृतत् अववर्तत्। वर्त्स्यति। वर्तिष्यते। अवर्त्स्यत् अवर्तिष्यत। वर्तिता। सनि हलन्ताच्च (पा०सू० १/२/१०) इति कित्वं विवृत्सति विवर्तिषते। यङि अभ्यासस्य रीगागम: वरीवृत्यते। अयं सकर्मकोऽकर्मकश्च।
वृधु वृद्धौ।
शृधु शब्दकुत्सायाम्। पूर्ववत्।
स्यन्दू प्रस्रवणे। स्यन्दते आशिषि ऊदित्वादिड्विकल्प: चर्त्वं स्यन्त्सीष्ट स्यन्दिषीष्ट। लिटि सस्यन्दे। लुङि अस्यन्दत्। अस्यन्दिष्ट। अस्यंस्त। णौ चङि असस्यन्दत्। स्यसनो: स्यन्देरुदिल्लक्षणमिड्विकल्पमन्तरङ्गमपि अयं प्रतिषेधश्चतुश्शब्दग्रहणात् बाधते स्यन्स्यति। अस्यन्स्यत्। लुटि स्यन्ता। स्यन्दिता सनि सिस्यन्सति। सिस्यनिषत।
कृपू सामर्थ्ये। गुणो रपरत्वं कल्पते आशिषि कल्पिषीष्ट। इडभावे इको झल् (पा०सू० १/२/९) हलन्ताच्च (पा०सू० १/२/१०) लिङ्सिचावात्मनेपदेषु (पा०सू० १/२/११) इति कित्वादगुणत्वं ऋकारस्याप्येकदेशविकारद्वारेण लकार: क्लृप्सीष्ट लिटि चक्लृपे। लुङि अक्लृपत्। अकल्पिष्ट। इडभावे पूर्ववत् कित्वं लत्वं च झलो झलि (पा०सू० ८/२/२६) इति सिज्लोप: अक्लृप्त। अक्लृप्साताम्। णौ चङि लत्वस्यासिद्धत्वाद्ध्रस्वत्वं गुणापवाद: अचिक्लपत्। अचकल्पत। कल्प्स्यति। कल्पिष्यते। अकल्प्स्यत्। अकल्पिष्यत। लुटि परस्मैपदपक्षे तासि च क्लृप (पा०सू० ७/२/६०) इति प्रतिषेध: कल्प्तासि अन्यत्र कल्पितासे सनि हलन्ताच्च (पा०सू० १/२/१०) इति कित्वं चिक्लृप्सति। चिकल्पिष्यते। यङि चरीक्लृप्यते।
।। द्युतादयो वृतादयश्च।। इत ऊर्ध्वं घटादय:।।
घट चेष्टायाम्। घटते।
व्यथ भयचलनयो:। व्यथते। लिटि व्यथो लिटि (पा०सू० ७/४/६८) इत्यभ्यासस्य सम्प्रसारणं विव्यथे।
प्रथ प्रख्याने। प्रथते अप्रथत विसमनरभ्रमि:। लुङि अप्रथिष्ट। णौ चङि प्रथ इ अत् इति स्थिते अत उपधाया (पा०सू० ७/२/११६) इति वृद्धि: घटादित्वात् मित्संज्ञायां मितां ह्रस्वत्वं प्राप्तं परत्वाल्लुङि च णौ चङ्युपधाह्रस्वो बाधते। ततो द्विरुक्ति: लघुधात्वक्षरपरत्वेन सन्वद्भावे सन्यत: (पा०सू० ७/४/७९) इति इत्वे प्राप्ते तदपवाद: अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम् (पा०सू० ७/२/९५) स्मृदृत्वरप्रथम्रदस्पृस्पस् इत्येतेषाम् इत्येतदादीना अभ्यासस्य अकारादेशो भवति चङ्परे णौ परत:। अपप्रथत्।
म्रद मर्दने। सर्वं पूर्ववत्।
पृथु विस्तारे।
शस प्रसवे।
स्खद खदने।
स्वद स्वर्दने।
खज गतिदानयो:।
दक्ष गतिहिंसनयो:।
कृप कृपायाम्। एषामुदाहरणमूह्यम्।
ञित्वरा संभ्रमे। त्वरते णौ चङि अतत्वरत्।
।। ऊदिद्वर्जं तासि नित्येट आत्मनेपदभाषा:।।
ज्वर रोगे। ज्वरति लुङि अतो ल्रान्तस्य (पा०सू० ७/२/२) इति नित्यं वृद्धि: अज्वारीत्।
गल सेचने। गलति।
हेल वेष्टने। हेलति।
नट नृत्तौ ।
वट तट परिभाषणे।
चक तृप्तौ।
ष्टक प्रतिघाते। एषामुदाहरणमूह्यम्।
कखे हसने। कखति लुङि एदित्वात् वृद्ध्यभाव: अकखीत्।
रगे शङ्कायां।
लगे सङ्गे।
अगे ह्रगे ह्लगे सङ्गे।
स्थगे संवरणे।
कगे नोच्यते।
अक अगि कुटिलायां गतौ।
वण श्रण दाने।
कथ मथ क्नथ क्लथ हिंसार्था:।
चण वन च नोच्यते।
ज्वल दीप्तौ। ज्वलति लुङि अज्वालीत्।
ज्वल ह्वल ह्मल चलने।
स्मृ आध्याने। स्मरति। अस्मरत्। स्मरतु। स्मरेत्। आशिषि लिङि रीङृत: (पा०सू० ७/४/२७) रिङ्शयग्लिङ्क्षु (पा०सू० ७/४/२८) गुणोर्तिसंयोगाद्यो: (पा०सू० ७/४/२८) इति गुण: स्मर्यात्। लिटि सस्मार। ऋतश्चसंयोगादेर्गुण: (पा०सू० ७/४/१०) इति गुण: सस्मरतु: सस्मरु: सस्मर्थ ऋतो भारद्वाजस्य (पा०सू० ७/२/६३) इति नियमादिड् न भवति लुङि सिचि वृद्धि: अस्मार्षीत्। णौ चङि पूर्ववदभ्यासस्यात्वं असस्मरत् ऋद्धनो: स्य (पा०सू० ७/३/७०) इतीट् स्मरिष्यति। अस्मरिष्यत। स्मर्ता। सनि अज्झनगमां सनि (पा०सू० ६/४/१६) इति दीर्घ इको झल् (पा०सू० १/२/९) इति कित्वं ऋत् इद्धातो: (पा०सू० ७/१/१००) उदोष्ठ्यपूर्वस्य (पा०सू० ७/१/१०२) इत्युत्वं हलि च (पा०सू० ८/२/७७) इति दीर्घ: अचो रहाभ्यां द्वे (पा०सू० ८/४/४६) इति द्विर्वचनं न भवति सकारस्य शरोऽचि (पा०सू० ८/४/४९) इति निषेधात् सनन्तात् ज्ञाश्रुस्मृदृशां सन: (पा०सू० १/३/५७) इत्यात्मनेपदं सुस्मूर्षते। यङि गुणोऽर्तिसंयोगाद्यो: (पा०सू० ७/४/२९) यङि चेति गुण: ततो द्विरुक्ति: अभ्यासदीर्घश्च सास्मर्यते।
दृ भये। दरति आशिषि ऋत् इद्धातो: (पा०सू० ७/१/१००) इत्वं हलि च (पा०सू० ८/२/७७) इति दीर्घ: दीर्यात्। लिटि ददार। शॄदॄप्रां ह्रस्वो व (पा०सू० ७/४/१२) इति ह्रस्व:। दद्रतु:। दद्रु:। पक्षे तेनैव गुण: ददरतु:। ददरु:। ददरिथ। लुङि अदारीत्। णौ चङि पूर्ववदभ्यासस्यात्वम् अददरत्। दरिष्यतीत्यादि।
नृ नयादिष्वर्थेषु। नरतीत्यादि। णौ चङि अनीरनत्।
श्रा पाके। अदादावुदाहरिष्याम:। इह पाठो मित्संज्ञार्थ:।
मारणतोषणनिशामनेषु
ज्ञा। मारणादिष्वर्थेषु जानातेर्मित्वम्।
कम्पने
चलिः मित्संज्ञो भवति।
छदिः ऊर्जने।
जिह्वानुबन्धने
लडि:।
छदिलडी चौरादिकौ।
मदी हर्षग्लपनयो: दैवादिक:।
जनीजृषुक्नसुरञ्जोमन्ताश्च।
जनीजॄषौ देवादिकौ।
णसि कौटिल्ये। अत्रत्य: रञ्जश्चामन्ताश्च धातव:। ज्वलह्वलह्मलस्वनध्वनरमनममनुसर्गाद्वा एते भौवादिका: श्लास्नावनुवमाश्च न कम्यमिचमाम् अमन्तत्वात्प्राप्तामित्संज्ञा निषिध्यते।
शमो दर्शने।
यमो परिवेषणे।
स्खदे रवपरिभ्यां च। घटादयो मित:। उत्तरे फणादय: सप्त तेषां लिटि थलि च सेटि एत्वाभ्यासलोपौ वा भवत: फणश्च सप्तानामित्यनेन।
फण गतौ। फणति। लिटि पफाण। फेणतु:। फेणु:। लिटि फेणिथ पफणिथ। लुङि अफाणीत अफणीत्।
।। ऋकारान्तवर्जं सेट: परस्मैभाषा:।
राजृ दीप्तौ। राजति। राजते। अराजत्। अराजत। राजतु। राजताम्। राजेत्। राजेत। राज्यात्। राजिषीष्ट। रराज। रेजे। रेरजे। रेजतु:। रराजतु:। रराजाते। रेजाजे। रेजु:। रराजु:। रेजिरे। रराजिरे। रराजिथ इत्यादि योज्यम्।
।। सेडुभयतो भाषा:।।
टुभ्राजृ टुभ्राशृ टुभ्लाशृ दीप्तौ। भ्राजते। लिटि भ्रेजे। बभ्राजे। वा भ्राश० (पा०सू० ३/१/७०) इत्यादिना पक्षे श्यन् भ्राशते भ्राश्यते। लिटि भ्रेशे बभ्राशे। भ्लेशे बभ्लाशे। णौ चङि अबभ्राशत् अबभ्लाशत्। ऋदित्वाद्ध्रस्वप्रतिषेध: भ्राजेस्तु विकल्प: अबभ्राजत् अबिभ्राशत्।
।। सेट आत्मनेभाषा:।।
स्यमु स्वन ध्वन शब्दे। स्यामति। लिटि सस्याम। स्येमतु: सस्यमतु:। स्येमु: सस्यमु:। स्येमिथ सस्यमिथ। लुङि ह्म्यन्त० (पा०सू० ७/२/५) इति वृद्धिप्रतिषेध: अस्यमीत्। यङि स्वपिस्यमिव्येञां यङि (पा०सू० ६/१/१९) इति सम्प्रसारणं सेसिम्यते स्वनति। ध्वनति। लिटि पूर्ववत्।
ज्वल दीप्तौ। घटादावुदाहृत:।
चल कम्पने।
जल धान्ये।
तल ट्वल वैकल्ये।
स्थल स्थाने।
हल विलेखने।
नल गन्धे।
पल गतौ।
बल प्राणने।
शल ह्वल गतौ। पूर्ववत्।
पुल महत्वे।
कुल संस्थाने। बन्धषु च। एषामुदाहरणमूह्यम्।
पत्लृ गतौ। पतति। लिटि पपात। पेततु:। पेतु:। पपत्थ पेपिथ। लुङि लृदित्वादङ् पत: पुम् (पा०सू० ७/४/१९) इति पुमागम: अपप्तत्। सनि सनीवन्तर्ध० (पा०सू० ७/२/४९) इत्यत्र तनिपतिदरिद्राणामितीड्विकल्प: पिपतिषति। इडभावे सनि सनि मीमाघुरभलभशकपतपदामच इस् (पा०सू० ७/४/५९) संयोगादिलोप: पित्सति यङि नीग्वञ्चुस्रंसु० (पा०सू० ७/४/८४) इत्यादिनाभ्यासस्य नीगागम: पनीपत्यते।
क्वथे निष्पाके। क्वथति लुङि एदित्वाद्ध्रस्वाभाव: अक्वथीत्। क्वथिष्यति इत्यादि।
मथे विलोडने।
पथे गतौ। पूर्ववत्।
टुवम् उद्गिरणे। वमति। लिटि ववाम। किति लिटि वादित्वात् न शसददवादिगुणानाम् (पा०सू० ६/४/१२६) इत्येत्वाभ्यासलोपौ न भवत: ववमतु:। ववमु:। ववमिथ। लुङि ह्म्यन्त० (पा०सू० ७/२/५) इति वृद्धिप्रतिषेध: अवमीत्। वमिष्यति।
भ्रमु चलने। वा भ्राशेति वा श्यन्। भ्रमति भ्राम्यति शमादीनामिति दीर्घ:। लिटि बभ्राम वाजॄभ्रमुत्रसाम् (पा०सू० ६/४/१२४) इत्येत्वाभ्यासलोपविकल्प: भ्रेमतु:। बभ्रमतु:। भ्रेमु:। बभ्रमु:। लुङि अभ्रमीत्। यङि अभ्यासस्य नुक् बम्भ्राम्यते।
क्षर सञ्चलने। सकर्मकोऽकर्मकश्च। क्षरति क्षीरं क्षरति गौ:। लुङि अतो ल्रान्तस्य (पा०सू० ७/२/२) अक्षारीत्।
।। तासि सेट: परस्मैभाषा:।।
षह मर्षणे। सत्वं सहते। परिनिविभ्य: परस्य परिनिविभ्य: सेवसितसयसिवुसहसुट्स्तुस्वञ्जाम् (पा०सू० ८/३/७०) इति षत्वं इण्को: आदेशप्रत्ययो: (पा०सू० ८/३/५९) इति प्राप्तस्य सात्पदाद्यो: (पा०सू० ८/३/१११) इति निषेधे प्राप्ते विधीयते विषहते लुङि सिवादीनां वाड्व्यवायेपि इति वा षत्वं व्यषहिष्ट व्यसहिष्ट एवमुत्तरत्रापि णौ चङि स्तम्भुसिवुसहां चङीति षत्वप्रतिषेध: व्यसीषहत्। सहिष्यते। असहिष्यत। लुटि तीषसह० (पा०सू० ७/२/४८) इत्यादिना इड्विकल्प: सहिता। इडभावे ढत्वष्टुत्वढलोपेषु सत्सु ढ्रलोपे पूर्वस्य दीर्घोऽण: (पा०सू० ६/३/१११) इत्यस्यापवाद: सहिवहोरोदवर्णस्य (पा०सू० ६/३/११२) इत्युत्वम् उपसर्गात् परस्य पूर्ववत् षत्वे प्राप्ते सोढ इत्यनेन प्रतिषेध: विसोढा।
रमु क्रीडायाम्। रमते। अरमत। रमताम्। रमेत। रंसीष्ट। रेमे। लुङि अरंस्त। रंस्यते। यङि रंरम्यते। यदा व्याङ्परिभ्यो रम: (पा०सू० १/३/८३) इति सूत्रविषये परस्मैपदं तदा विरमति। लुङि परस्मैपदाधिकारे यमरमनमातां सक्च (पा०सू० ७/२/७३) इति अङ्गस्य सक् च इडागमश्च व्यरंसीत्। व्यरंसिष्टाम्। व्यरंसिषु: सहिस्तकारादेरन्यत्र वलादावार्धधातुके सेट् निष्ठायामित्यनिट् तासौ विकल्पित: रमिस्तु
यमिर्नमन्तेष्यनिडेक इष्यते रमिश्च यश्च श्यनि पठ्यते मणि:।
नमिश्चतुर्थोहनिरेव पञ्चमो गमिस्तु षष्ठ: प्रतिषेधवाचिनाम्।।
।। इति नित्यानिट् आत्मनेभाष:।।
षद्लृ विशरणगत्यवसादनेषु। पाघ्राध्मास्थाम्नादाण्दृश्यर्तिसर्तिशदसदां पिबजिघ्रधमतिष्ठमनयच्छपश्यर्च्छधौशीयसीदा: (पा०सू० ७/३/७८) शितीत्येव पादीनां पिबादयो, एकादशानां यथासंख्यं पिबादय आदेशा भवन्ति। शिद्विषये अत्र अप्रतेरुपसर्गादिण: परस्य सदिरप्रते: (पा०सू० ८/३/६६) इति षत्वं निषीदति। अड्व्यवायेऽपि इति न्यषीदत् लिटि सदिस्वञ्ज्यो: परस्य लिटीत्यभ्यासात्परस्य षत्वप्रतिषेध:। निषसाद। निषेदतु:। निषेदु:। वलि उपदेशेत्वत (पा०सू० ७/२/६२) इति क्र्यादिनियमप्राप्तस्येट: प्रतिषेध: ऋतो भारद्वाजस्य (पा०सू० ७/२/६३) इति विभाष्यते अभ्यासे षत्वप्रतिषेध: निषसत्थ लुप्ते नास्ति निषेदिथ लुङि लृदित्वादङ् न्यषदत्।
शद्लृ शातने। शिद्विषये शदे: शित: (पा०सू० १/३/६०) इत्यात्मनेपदं तत्रैव शीयादेश: शीयते। अशीयत। शीयताम्। शीयेत। आशिषि शय्यात्। लिटि शशाद। लुङि अशदत्। णौ चङि शदेरन्यत्र शदेरगतौ त: (पा०सू० ७/३/४२) इति तत्त्वं अशीशतत्।
क्रुश आह्वाने रोदने च। क्रोशति। लिटि चुक्रोश। क्रादिनियमादिट् चुक्रोशिथ। लुङि शल इगुपधादनिट: क्स: (पा०सू० ३/१४५/) इति क्स:। षत्वकत्वषत्वानि कित्वादगुणत्वं सोयमाक्रुक्षत्। क्रोक्ष्यतीत्यादि।
क्रुचि संपर्चनकौटिल्यप्रतिष्टम्भनविलेखनेषु। आकुञ्चतीत्यादि।
बुध अवगमने। बोधति। लिटि बुबोध। बुबोधिथ। अबोधीत्। बोधिष्यतीत्यादि।
रुह बीजजन्मनि। रोहति। अरोहत्। लिटि रुरोह। रुरोहिथ। क्रादिनियमादिट्। लुङि च्ले: क्स: ढत्वकत्वषत्वानि अरुक्षत्। अरुक्षताम्। अरुक्षन्। णौ चङि रुह: पोऽन्यतरस्याम् (पा०सू० ७/३/४३) इति वा हकारस्य पकार: अरूरुहत् अरूरुपत्। रोक्ष्यतीत्यादि। सनि हलन्ताच्च (पा०सू० १/२/१०) इति कित्वात् गुणाभाव: आरुरुक्षति।
कस गतौ। कसति यङि अभ्यासस्य नीक्चनीकस्यते।
अदिं हदिं स्कंदि भिदिछिदिक्षुंदीन् रादिं स्विद्यति-
पद्यती खिदिं तुदि नुदि विद्यति विन्द इत्यपि।।
।। प्रत्यतीहि दांतान् दश पञ्च चानिट: इति।
शदि सदी अनिटौ।।
दृशिदिशिंदंशिमथोमृशिंस्पृशिंनुशिंरिशिंक्रोशतिं।
अष्टमंविशिं लिशिं च शांताननिट: पुराणगा:।
पठात् तेषु पाठेषु दशैव नेतरान्।
इति क्रोशति अनिट्
कुचिबुधीसेटौ कसिश्च दिहिदुहिर्महति
रोहतीवहिर्नहिस्तुषष्टो दहतिस्तथा लिहि:।
इमेऽनिटोष्टाविहमुक्तसंशया गणेषु हान्ता: प्रविभज्य कीर्तिता:।
।। इति रुहिरनिट् णविधौ ज्वलादय: कसन्ता: परस्मैभाषा:।।
हिक्क अव्यक्ते शब्दे। हिक्कति। हिक्कते।
अर्च गतौ याचने च।
अञ्चु गतावित्येके । अर्चति आर्चत्।
टुयाचृ याञ्चायाम्। याचति याचते। द्विकर्मक:।
चते चदे याचने। चतति। चतते। एदित्वाल्लुङि वृद्ध्यभाव: अचतीत्। अचतिष्ट। एवं चदेरपि।
प्रोथृ पर्याप्तौ। प्रोथति। प्रोथते। चङि अपुप्रोथत्।
मिदृ मेदृ मेधाहिंसयो:।
मिधृ मेधृ संगमे च।
सिदृ सेदृ कुत्सासन्निकर्षयो:।
शृधृ मृदृ उन्दे। उदाहरणमूह्यम्।
उबुन्दिर् निशामने। अनुबन्धयोर्मध्येधातुः . बुन्दति बुन्दते।
खनु अवदारणे। खनति। खनते। लिटि चखान। चख्ने। गमहन० (पा०सू० ६/४/९८) इत्यादिनोपधालोप: चख्नतु:। चख्नु:। चखनिथ। लुङि अखनीत् अखानीत्। अखनिष्ट। चङि अचीखनत्। खनिष्यति। सनि चिखनिषति। चिखनिषते। यङि जनसनखनां सञ्झलो: (पा०सू० ६/४/४२) इत्यधिकृत्य ये विभाषा (पा०सू० ६/४/४३) इत्यात्वविकल्प: चाखायते चंखन्यते।
चायृ पूजानिशामनयो:। चायति। चायते। यङि चाय: की (पा०सू० ६/१/४१) इति कीभाव: गुणो यङ्लुको: (पा०सू० ७/४/८२) चेकीयते।
व्यय गतौ। व्ययति। व्ययते। लिटि वव्याय। वव्यये। लुङि ह्म्यन्त० (पा०सू० ७/२/५) इति परस्मैपदे वृद्धिप्रतिषेध: अव्ययीत्। आत्मनेपदेषु वृद्धेर्लक्षणमेव नास्ति अव्ययिष्ट।
दाशृ दाने। दाशति दाशते।
लस दीप्तौ। लसति लसते।
स्पश बाधनस्पर्शनयो:। स्पशति। स्पशते लुङि अस्पशीत् अस्पाशीत् अस्पशिष्ट णौ चङि स्मृदॄत्वर० (पा०सू० ७/४/९५) इत्यभ्यासस्यात्वं अपस्पशत्।
लष कान्तौ। वा भ्राश० (पा०सू० ३/१/७०) इत्यादिना वा श्यन् अभिलषति। अभिलष्यति। अभिलषते। अभिलष्यते। लिटि अभिललाष। अभिलेषे। लुङि अभ्यलषत्। अभ्यलाषीत्। अभ्यलषिष्ट इत्यादि योज्यम्।
चष भक्षणे। चषति चषते।
मासृ माने। मासति मासते।
गुहू संवरणे। गुणविषये ऊदुपधाया गोह: (पा०सू० ६/४/८९) इत्युपधाया ऊत्वं निगूहति। निगूहते। न्यगूहत्। न्यगूहत। निगूहेत्। निगूहेत। आशिषि निगूह्यात्। ऊदित्वादिड्विकल्प: निगूहिष्ट। निगूहिषीष्ट इडभावे ढत्वभष्त्वकत्वानि लिङ् सिचावात्मनेपदेषु (पा०सू० १/२/११) इति कित्वात् गुणाभाव: तस्मादुत्वाभाव:। निघुक्षिष्ट। लिटि निजुगूह। निजुगूहतु:। निजुगूहु:। निजुगूहिथ। इडभावे पक्षे ढत्वधत्वष्टुत्वानि निजुगूढ। निजुगूहे। निजुगूहाते। लुङि इट्पक्षे न्यगूहीत्। इडभावे शल इगुपधादनिट: क्स: (पा०सू० ३/१/४५) ढत्वादि पूर्ववत् न्यघुक्षत्। इतरत्र क्सस्याचि (पा०सू० ७/३/७२) इत्यधिकृत्य लुग्वा दुहदिहलिहगुहामात्मनेपदे दन्त्ये (पा०सू० ७/३/७३) तवर्गादावात्मनेपदे परत: क्सस्य वा लुक् भवति इति लुक् पक्षे ढत्वादिकार्यं न्यगूढ। लुगभावे न्यघुक्षत। अजादौ प्रत्यये क्सस्याचि (पा०सू० ७/३/७२) इति क्सप्रत्ययान्तस्य लोप: न्यघुक्षताम्। न्यघुक्षत। न्यघुक्षथा:। लुक्पक्षे ढत्वधत्वष्टुत्वढ्रलोपदीर्घत्वानि न्यगूढा:। पूर्ववत् कसान्तलोप: न्यघुक्षाथाम्। न्यघूढ्वम्। न्यघुक्षध्वम्। कसान्तलोप: न्यघुक्षि वकारोपि दन्त्यो भवति न्यघुक्ष्वहि न्यघुक्षावहि। न्यघुक्ष्महि। इट्पक्षे न्यगूहिष्ट। न्यगूहिक्षाताम्। णौ चङि न्यजूगुहत्। निगूहिष्यति। निघुक्ष्यति। निगूहिष्यते। निघुक्ष्यते शेषमूह्यम्। सनि सनि ग्रहगुहोश्च (पा०सू० ७/२/१२) इतीट्प्रतिषेध: हलन्ताच्च (पा०सू० १/२/१०) इति कित्वं निजुघुक्षति। निजुघुक्षते। यङि निजोगुह्यते।
श्रिञ् सेवायाम्। श्रयति। श्रयते। आशिषि लिङ् अकृद्यकारे दीर्घ: श्रीयात् श्रयिषीष्ट।
अनिट् स्वरान्तो भवतीति दृश्यताम्
इमां स्रु सेट: प्रवदन्ति तद्विद:।
अदन्तमूदन्तमृतां च वृङ् वृङौ
श्विडीङ् इवर्णेष्वथ शीङ्श्रिञावपि।।
इति सेट्त्वं लिटि शिश्राय। शिश्रिये। लुङि णिश्रीत्यादिना च्लेश्चङ् चङि (पा०सू० ६/१/११) इति द्विर्वचनं। इयङ् अशिश्रियत्। अशिश्रयत। णौ चङि अशिश्रियत्। श्रयिष्यतीत्यादि। सनि सनीवन्तर्द्ध० (पा०सू० ७/२/४९) इतीड्विकल्प: शिश्रयिषति शिश्रीषति।
हृञ् हरणे। आर्धधातुकलिङि रिङ्शयलिङ्क्षु (पा०सू० ७/४/२८) इति रिङ् ह्रियात् उश्च (पा०सू० १/२/१२) इति कित्वात् गुणाभाव: हृषीष्ट। लिटि जहार। जह्वर्थ। जह्रे। लुङि सिचि वृद्धि: अहार्षीत्। उश्च (पा०सू० १/२/१२) इति कित्वं ह्रस्वादङ्गात् (पा०सू० ८/२/२७) इति सिचो लोप: अहृत। अहृषाताम्। ऋद्धनो: स्ये (पा०सू० ७/२/७०) इतीट् हरिष्यति। अहरिष्यत्। हरिष्यते। अहरिष्यत। हर्ता। सनि इको झल् (पा०सू० १/२/९) इति कित्वं दीर्घत्वादि च जिहीर्षति। यङि रीङृत: (पा०सू० ७/४/२७) इति रीङ् आदेश: जेह्रीयते अकर्त्रभिप्राये क्रियाफले ‘हरतेर्गतिताच्छील्ये’ इत्यात्मनेपदं पैतृकमश्वा अनुहरन्ते।
भृञ् भरणे। भरति भरते इत्यादि पूर्ववत्। सनि सनीवन्तर्द्धभ्रस्ज० (पा०सू० ७/२/४९) इत्यादिना इड्विकल्प: बिभरिषति इडभावे कित्वदीर्घयो: कृतयो: उदोष्ठ्यपूर्वस्य (पा०सू० ७/१/१०२) इत्युत्वं हलि च (पा०सू० ८/२/७७) इति दीर्घ: बुभूर्षति।
धृञ् धारणे। भरतिवत्सर्वम्।
णीञ् प्रापणे। णो न: (पा०सू० ६/१/६५) नयते: सम्माननादिष्वात्मनेपदं कर्त्रभिप्राये विहितम्। कर्त्रभिप्राये तु स्वरितञित इति अन्यत्र शेषात् कर्तरि परस्मैपदम्। नयति। नयते। आशिषि लिङि नीयात्। नेषीष्ट। नेषीयास्तम्। मध्यमबहुवचने इण: षीध्वंलुङ्लिटां धोऽङ्गात् (पा०सू० ८/३/७८) इणान्तादङ्गादुत्तरेषां षीध्वं लुङ्लिटान्धकारस्य मूर्धन्यादेशो भवति। नेषीढ्वम्। लिटि निनाय। एरनेकाच० (पा०सू० ६/४/८२) इति यण् निन्यतु:। निन्यु:। थलि ऋतो भारद्वाजस्य (पा०सू० ७/२/६३) इति नियमादिड्विकल्प: निनेथ निनयिथ। लुङि सिचि वृद्धि: अनैषीत्। अनेष्ट। अनेषाताम्। ध्वमिति पूर्ववन्मूर्धन्य: अनेड्ढ्वम्। लिटि तु विभाषेट: (पा०सू० ८/३/७९) इणन्तादङ्गादुत्तरो य इट् तत उत्तरेषां षीध्वं लुङ्लिटां धकारस्य विभाषा मूर्धन्यो भवति। अत्र क्र्यादिनियमादिट् निन्यिढ्वे निन्यिध्वे। एवमेतत्-सूत्रद्वय-पर्यालोचनेन इणन्तादङ्गात्परस्य षीध्वमादिधकारस्य सर्वत्र मूर्धन्यो विधेय:।
।। ऋदन्तनयतिवर्जं सेट उभयतोभाषा:।।
धेट् पाने। टकारो नासिकास्तनयोर्ध्माधेटो: (पा०सू० ३/२/२९) इति विशेषणार्थ:। धयति। अधयत् आर्धधातुके लङि आदेऽच उपदेशेऽशिति (पा०सू० ६/१/४५) इत्यात्वं घुमास्थागापाजहातिसां हलि (पा०सू० ६/४/६६) इतीत्वं एर्लिङि (पा०सू० ६/४/६७) इत्येत्वं धेयात्। लिटि तिपो णल् आत औ णल (पा०सू० ७/१/३४) इत्यौत्वं वृद्धि: दधौ आतो लोप इटि च (पा०सू० ६/४/६४) इत्याकारलोप: दधतु:। दध:। दधाथ दधिथ। विभाषाध्राधेट्शाच्छास: (पा०सू० २/४/७८) इति सिचो लुक् विभाषा धेट् स्यो: (पा०सू० ३/१४९/) इति च्लेश्चङि पक्षे तेन त्रैरूप्यं तत्र चङि (पा०सू० ६/१/११) इति द्विरुक्ति: आतो लोप इटि च (पा०सू० ६/४/६४) इत्याकारलोप: अदधत्। सिज्लुकि अधात्। द्व्योरभावे ईट् यमरम० (पा०सू० ७/२/७३) इत्यादिना सनिडागमौ अधासीत्। अधासिष्टाम्। सिजभ्यस्तविदिभ्यश्च (पा०सू० ३/४/१०९) इति झेर्जुस्। अधासिषु:। णौ चङि अदीधवत्। धास्यतीत्यादि सनि सनि मीमा० (पा०सू० ७/४/५४) इत्यादिना एत्वाभ्यासलोपौ स: स्यार्धधातुके (पा०सू० ७/४/४९) इति सस्य तत्त्वं धित्सति। यङि घुमास्था० (पा०सू० ६/४/६६) इत्यादिना इत्वं घुसंज्ञत्वात् ततो द्विरुक्ति: देधीयते।
ग्लै हर्षक्षये। ग्लायति। अग्लायत्। आशिषि एर्लिङि (पा०सू० ६/४/६७) इत्यधिकृत्य वान्यस्य संयोगादे: (पा०सू० ६/४/६८) ए आत इत्येव। घुमास्थादिभ्योऽन्यस्य आकारान्तस्य संयोगादेर्धातोरार्धधातुके लिङि वा एत्वं भवति। ग्लायात् ग्लेयात्। लिटि जग्लौ। जग्लाथ जग्लिथ। अत्र आतो लोप इटि च (पा०सू० ६/४/६४) इत्यत्रेट् ग्रहणादाकारलोप: लुङि अग्लासीत्। अग्लासिष्टाम्। णौ चङि ‘ग्लास्नावनुवमां च’ इति घटादिपाठान्मित्वेपि न, मितां ह्रस्व: (पा०सू० ६/४/९२) एव अजिग्लपत्।
म्लै गात्रविनामे।
द्यै न्यं विकरणे।
द्रै स्वप्ने।
ध्यै चिन्तायाम्।
रै शब्दे।
स्त्यै ष्ट्यै संघातशब्दयो:।
श्रै स्रै पाके।
क्षै वेष्टने।
क्षै क्षये। पूर्ववत्।
दैप् शोधने। पकारो दाधाघ्वदाप् (पा०सू० १/१/२०) इत्यत्र सामान्यग्रहणार्थ:। दायति। अदायत्। आशिषि दायात्। लिटि ददौ। लुङि अदासीत्। दास्यतीत्यादि।
दै न्यक्षरणे।
खै खनने।
खै जै क्षये।
पै ओवै वै शोषणे।
कै गै रै शब्दे। पूर्ववत्। गायते। आशिषि लिङि यङि चागीयात्। कायति गायति आशिषि गेयात् यङि जागीयते। जेगीयते इति रूपम्।
पा पाने। शिद्विषये पाघ्रादिसूत्रेण पिबादेश: पिबति। अपिबत्। पिबतु। पिबेत्। आशिषि घुमास्था० (पा०सू० ६/४/६६) इत्यादिना ईत्वापवाद: एर्लिङि (पा०सू० ६/४/६७) इत्येत्वं पेयात्। लिटि पपौ। लुङि गातिस्था० (पा०सू० २/४/७७) इत्यादिना सिचो लुक् अपात्। अपाताम्। आत: (पा०सू० ३/४/११०) इति झेर्जुस् उसि परे पररूपत्वम् अपु:। णौ चङि पा इ इति स्थिते शाच्छासाह्नाव्यावेपां युक् (पा०सू० ७/३/३७) शाच्छासाह्नाव्यावे पा इत्येतेषां णौ परतो युगागमो भवति। पुकोपवाद:। इति युक् णौ चङ्युपधायाह्रस्वापवाद: लोप: पिबतेरीच्चाभ्यासस्य (पा०सू० ७/४/४) इत्याल्लोप: ओ: पुयण्ज्यपर (पा०सू० ७/४/८०) इत्यत्र णौ कृतं स्थानिवद्भवतीति ज्ञापकात्। पा इत्यस्य द्विरुक्ति: अभ्यासकार्यं सन्वद्भावाद्यसम्भवादनेनाभ्यासेस्येत्वं विधीयते अपिप्यत्। पास्यति। अपास्यत्। पाता। सनि पिपासति। घुमास्थागा० (पा०सू० ६/४/६६) इत्यादिना ईत्वं द्विर्वचनम् पेपीयते। सर्वत्र सम्प्रसारणदीर्घवृद्धिगुणत्वादिषु कृतेषु पश्चाद्विर्वचनं विधेयम्।
घ्रा गन्धोपादाने। पाघ्रादिसूत्रेण जिघ्रादेश:। जिघ्रति। आशिषि वाऽन्यस्य० (पा०सू० ६/४/६८) इति वा एत्वं घ्रायात् घ्रेयाद्वा। लिटि जघ्रौ। थलि जघ्राथ जघ्रिथ। लुङि विभाषा घ्राधेट० (पा०सू० २/४/७८) इति वासिज्लुकि अघ्रात्। लुगभावे यमरम० (पा०सू० ७/२/७३) इति सगिटौ अघ्रासीत्। अघ्रासिष्टाम्। णौ चङि तिष्ठतेरित् (पा०सू० ७/४/५) जिघ्रतेर्वा (पा०सू० ७/४/६) इत्युपधाया इत्वं वा अजिघ्रपत्। शेषं नेयम्। यङि च ई घ्राध्मो: (पा०सू० ७/४/३१) इति ईकार: जेघ्रीयते।
ध्मा शब्दाग्निवक्त्रसंयोगयो:। अस्य पाघ्रादिसूत्रेण धमादेश: धमति पाणी। धमत्यग्निम्। अधमत्। धमतु। धमेत्। आशिषि वान्यस्य० (पा०सू० ६/४/६८) इति वैत्वं ध्मायात् ध्मेयात्। दध्मौ। लुङि अध्मासीत्। यङि पूर्ववदीत्वं देध्मीयते।
ष्ठा गतिनिवृत्तौ। पाघ्रादिसूत्रेण तिष्ठादेश: तिष्ठति। अतिष्ठत्। तिष्ठतु। तिष्ठेत्। अशिषि एर्लिङि (पा०सू० ६/४/६७) इत्येत्वं स्थेयात्। उपसर्गादिण उत्तरस्य उपसर्गात् सुनोति० (पा०सू० ८/३/६५) इति षत्वम् अभिष्ठीयात्। लिटि स्थादिष्वभ्यासेन चाभ्यासस्य (पा०सू० ८/३/६४) इति षत्वम् अधितष्ठौ। लुङि गातिस्था० (पा०सू० २/४/७७) इति सिचो लुक् प्राक्सितादड्व्यवायेऽपि (पा०सू० ८/३/६३) इति षत्वम् अध्यष्ठात्। णौ चङ्युपधाया विषये तिष्ठतेरितीत्वं अतिष्ठिपत्। अधिष्ठास्यतीत्यादि। तथा तिष्ठते: समवप्रविभ्य: स्थ: (पा०सू० १/३/२२) प्रकाशनस्थेयाख्ययोश्च (पा०सू० १/३/२३) । उदोनूर्ध्वकर्मणि (पा०सू० १/३/२४) । उद ईहायामिति वक्तव्यम्। आङ् स्थ: प्रतिज्ञायामिति वक्तव्यम्। उपान्मन्त्रकरणे (पा०सू० १/३/२५) उपाद्देवपूजासङ्गतिकरणमित्रकरणपथिष्विति वक्तव्यम् वा लिप्सायामिति वक्तव्यं अकर्मकाच्च (पा०सू० १/३/२६) इति सोपसंख्यानपाठ पञ्चसूत्र्या यथा स्वमात्मनेपदं विहितं तत्र सन्तिष्ठते। समतिष्ठत। सन्तिष्ठताम्। सन्तिष्ठेत। आशिषि संस्थासिष्ठ। सन्तस्थ। लुङि स्थाध्वो० (पा०सू० १/२/१७) इति इत्वमाकारस्य, सिच: कित्वं तेन गुणाभाव:। ह्रस्वादङ्गात् (पा०सू० ८/२/२७) इति सिज्लोप समस्थित। समस्थिषाताम्। एवमितरोपसर्गपूर्वस्यप्योदाहार्यम्।
म्ना अभ्यासे। मनादेश: आमनति। आमनत:। आमनन्ति। आशिषि आम्नायात्। लिटि आममौ लुङि आम्नासीत् इत्यादि।
दाण् दाने। यच्छादेश:। णकारो दाणश्च साचेदित्यादौ विशेषणार्थ: प्रयच्छति। प्रायच्छत्। दाणश्च सा चेच्चतुर्थ्थे (पा०सू० १/३/५५) इति कुत्सितदानविषय आत्मनेपदं संप्रयच्छते। आशिषि घुसंज्ञकत्वात् एर्लिङि (पा०सू० ६/४/६७) इत्येवमित्वापवाद: देयात्। कुत्सितविषये दासीष्ट। ददौ। ददे। गातिस्था० (पा०सू० २/४/७७) इति सिज्लुकि अदात्। अन्यत्र स्थाघ्वोरिच्च (पा०सू० १/२/१७) अदित। अदिषाताम्। दास्यतीत्यादि। सनि सनिमीमा० (पा०सू० ७/४/५४) इति इश अभ्यासलोपौ दित्सति दित्सते। यङि घुमास्था० (पा०सू० ६/४/६६) इतीत्वं देदीयते।
ह्वृ कौटिल्ये। ह्वरति। अह्वरत्। ह्वरतु। ह्वरेत्। रिङ् शयग्लिङ्क्षु (पा०सू० ७/१/२८) इति रिङादेशविषये गुणोर्तिसंयोगाद्यो: (पा०सू० ७/४/२९) इति गुण: ह्वर्यात्। यदा भावकर्मणो: (पा०सू० १/३/१३) इति आत्मनेपदं तदा इघ्रकरणे लिङ्सिचावात्मनेपदेषु (पा०सू० १/२/११) इत्यधिकृत्य। ऋतश्चसंयोगादे० (पा०सू० ७/४/१०) इतीड्विकल्प: ह्वरिषीष्ट। इडभावे लिङ्सिचावात्मनेपदेषु (पा०सू० १/२/११) उश्च (पा०सू० १/२/१२) इति कित्वं हृषीष्ट। लिटि जह्वार। ऋतश्च सयोगादेर्गुण: (पा०सू० ७/४/१०) इति गुण: जह्वरतु:। जह्वरु:। जह्वर्थ। लुङि सिचि वृद्धि:। अह्वार्षीत् यदात्मनेपदं तदा इड्विकल्प: अह्वृत। अह्वृषाताम्। इटि अह्वरिष्ट अह्वरिषाताम्। ऋद्धनो: स्य (पा०सू० ७/२/७०) इतीट् ह्वरिष्यतीत्यादि।
ध्वृ हूर्छने।
स्पृ शब्दोपतापयो:।
दृप प्रीणने।
स्मृ चिन्तायाम्। स्मरति। घटादौ निरूपितरूप: स्वरतिरन्योपसर्गपूर्वक: केवलश्च पूर्ववत्। संपूर्वात् समोगमृच्छि० (पा०सू० १/३/२९) इत्यादिनात्मनेपदं संस्मरते। समस्मरत। संस्मरताम्। संस्मरेत। आशिषि स्वरति० (पा०सू० ७/२/४४) इत्यादिसूत्रेणेड्विकल्प: संस्मृषीष्ट। संस्मरिषीष्ट। लिङि ऋतश्चसंयोगादेर्गुण: (पा०सू० ७/४/१०) संसस्मरे। लुङि समस्मृत। समस्मरिष्ट।
सृ गतौ। सर्तेर्वेगितायां गतौ शिति धावादेश: धावति। अन्यत्र सरति। असरत्। आशिषि स्रियात्। लिटि ससार। थलि ससर्थ। लुङि सर्त्तिशास्त्यर्तिभ्यश्च (पा०सू० ३/१/५६) इति च्लेरङ् ऋदृशोङिगुण:।
ऋ गतिप्रापणयो:। ऋच्छादेश:। ऋच्छति आर्छत्। ऋच्छतु। ऋच्छेत्। आशिषि गुणोर्तिसंयोगाद्यो: (पा०सू० ७/४/२९)। अर्यात् । लिटि आर। ऋच्छत्यॄताम् (पा०सू० ७/४/११) इति गुण:। आरतु:। आरु:। थलि ऋतो भारद्वाजस्य (पा०सू०७ २/६३/) इतीट्प्रतिषेधे प्राप्ते इडत्त्यर्तिव्ययतीनाम् (पा०सू० ७/२/६६) इति इट्। आर्द्धधातुकगुण:। आरिथ। लुङि सर्ता इत्यादिना च्लेरङ्। ऋदृशोङि गुण: (पा०सू० ७/४/१६)। आरत्। आरताम्। आरन्। णौ चङि अतिह्री० (पा०सू० ७/३/३६) इत्यादिना पुक् । पुगन्तलघूपधगुण: द्वितीयद्विर्वचनम् आर्पिपत्। ऋद्धनो: स्य (पा०सू० ७/२/७०) इतीट् अरिष्यति। सनि स्मिपूङ्रञ्ज्वशां सनि (पा०सू० ७/२/७४) इति इट् ततो द्वितीयद्विरुक्ति: अरिरिषति अघर्त्य ‘शूर्णोतीनामुपसंख्यानम्’ इति यङ् गुणोर्तिसंयोगाद्यो: (पा०सू० ७/४/२९) यङि च (पा०सू० ७/४/३०) इति गुण: नन्द्रा: संयोगादय: (पा०सू० ६/१/३) इति प्रतिषेधस्य यकारपरस्य रेफस्य प्रतिषेधवचनात् यशब्दो द्विरुच्यते दीर्घोकित: (पा०सू० ७/४/८३) इत्याभ्यासस्य दीर्घ: अरार्य्यते। सम्पूर्वात् समो गमृच्छि० (पा०सू० १/३/२९) इत्यादिनात्मनेपदं समृषीष्ट। उच्छ्र इति कित्वं ध्वमि नित्यमूर्धन्य: समृषीढ्वम्। लिटि ऋच्छत्यॄताम् (पा०सू० ७/४/११) इति गुण: समारे समाराते समारिरे लङि समारत। समारेताम्। समारन्त।
गृ घृ सेचने। अभिघरतीत्याद्यूह्यम्।
सु स्रु गतौ। स्रवति। अस्रवत्। स्रवतु। स्रवेत्। स्रूयात् सुस्राव। उवङ् सुस्रुवतु:। सुस्रुवु:। थलि भारद्वाजीयमिड्विकल्पं नेच्छतीति तेन क्र्यादिसूत्रेण नित्यं प्रतिषेध: सुस्रोथ। लुङि णिश्रि० (पा०सू० ३/१/४८) इत्यादिना चङ् उवङ् असुस्रुवत्। णौ चङि इत्यधिकारे स्रवतिशृणोतिद्रवतिप्रवतिप्लवतिच्यवतीनां वा (पा०सू० ७/४/८१) इत्यभ्यासस्य वा इत्वं असिस्रवत्। असुस्रुवत्। एवमितरेषामपि स्रोष्यतीत्यादि। सुवतेरूह्यमुदाहरणम्।
दु द्रु गतौ। द्रवति। पूर्ववद्द्रुवतेरूह्यम्।
ध्रुव स्थैर्ये। ध्रुवति। ध्रुवि: ।
।। सेट् इतरे अनिट: परस्मैभाषा:।।
ष्मिङ् ईषद्धसने। स्मयते। अस्मयत। स्मयताम्। स्मयेत। स्मेषीष्ट। स्मेषीढ्वम्। स्मयति: षोपदेश:। संयोगपूर्वत्वात् एरनेकाच्० (पा०सू० ६/४/८२) इति यण् न भवति इयङ् सिष्मिये सिष्मियाते। सिष्मियिरे। क्रादिनियमादिट् सिष्मियिषे। सिष्मियाथे। विभाषेट: (पा०सू० ८/३/७९) इति वा मूर्धन्य: सिष्मियिढ्वे सिष्मियिध्वे। लुङि अस्मेष्ट। अस्मेषाताम्। णौ चङि असिष्मयत्। हेतुभयविषये भीस्म्योर्हेतुभये (पा०सू० १/३/६८) अत्यादिना ण्यन्तादात्मनेपदं नित्यं स्मयतेरित्यात्वं पुक् व्यसिष्मयत। स्मेष्यते। सनि स्मिपूङ्० (पा०सू० ७/२/७४) इत्यादिना इट् सिष्मयिषते। अनादरे चायं वर्तते।
गुर्द अव्यक्ते शब्दे।
गाङ् गतौ।
च्युङ् प्रुङ् प्लुङ् गतौ। च्यवते। अच्यवत। च्यवताम्। च्यवेत। च्योषीष्ट। ध्वमि च्योषीढ्वम्। लिटि चुच्युवे। ध्वमि चुच्युविढ्वे चुच्युविध्वे। लुङि अच्योष्ट। अच्योषाताम्। ध्वमि अच्योढ्वम्। णौ चङि अचुच्यवत्। अचुच्युवत्। च्योष्यते। आयतानात् एवमितरयोरपि।
मेङ् प्रणिदाने। अपमयते। आशिषि लिङि आदेच० (पा०सू० ६/१/४५) इत्यात्वं मासीष्ट। ममे। लुङि अमास्त। अमासाताम्। णौ चङि अमीमवत्। मास्यते। सनि सनि मीमा० (पा०सू० ७/४/५४) इत्यादिकार्यं सस्य तत्वं मित्सते। यङि घुमास्था० (पा०सू० ६/४/६६) इत्यादिना ईत्वं मेमीयते।
देङ् रक्षणे। दयतेर्दिगि लिटि (पा०सू० ७/४/९) इत्यनेन दिग्यादेश: तेन द्विर्वचनम्। अवदिग्ये अवदिग्याते शेषं नेयम्।
श्यैङ् गतौ। श्यायते श्यासीष्ट। शस्ये। अश्यास्त।
प्यैङ् वृद्धौ। पूर्ववत्।
त्रैङ् पालने। त्रायते। अत्रायत।
पूङ् पवने। पवते। अपवत। आशिषि पविषीष्ट। पविषीढ्वं पविषीध्वम्। लिटि पुपुवे। पुपुवाते। पुपुविध्वे पुपुविढ्वे। लुङि अपविष्ट। अपविढ्वम् अपविध्वम्। णौ चङि सन्वद्भावात् ओ: पुयण्ज्परे (पा०सू० ७/४/८०) इत्यादिना अभ्यासस्येत्वं दीर्घो लघो: (पा०सू० ७/४/९४) अपीपवत्। पविष्यते। सनि स्मिपूङ्रञ्ज० (पा०सू० ७/२/७४) इत्यादिना इट् पूर्ववदिट्त्वं पपविषते।
डीङ् विहायसा गतौ। डयते। डयिषीष्ट। लिटि प्रकृतिजशो भवतीति अभ्यासस्य जश्त्वं डिड्ये। लुङि अडयिष्ट। डयिष्यते।
मूङ् बन्धने। पवतिवत्। सनि मुमूषति।
।। डयत्यन्तवर्जमनिट आत्मनेभाषा:।।
तॄ प्लवनतरणयो:। तरति। आशिषि ऋत इद्धातो: (पा०सू० ७/१/१००) इतीत्वं हलि च (पा०सू० ८/२/७७) इति दीर्घ: यकारस्य द्वित्वं तीर्यात्। लिटि ततार। किति लिटि कृतगुणत्वादकारस्य न शसददवादिगुणानाम् (पा०सू० ६/४/१२६) इति प्रतिषेधे प्राप्ते तॄफलभजत्रपश्च (पा०सू० ६/४/१२२) इत्येत्वाभ्यासलोपौ तेरतु:। तेरु:। अत्र ऋच्छज्यॄताम् (पा०सू० ७/४/११) इति गुण: थलि च सेटि (पा०सू० ६/४/१२१) तेरिथ। अत्रार्धधातुकगुण: सेट्त्वादिडागम: लुङि सिचि वृद्धि: अतारीत्। इमांस्तु सेट: प्रवदन्ति तद्विद:। अदन्तमॄदन्तमिति वचनात् सेट्त्वम्। वॄतो वा (पा०सू० ७/२/३८) वृङ्वृञ्भ्याम् ऋकारान्तेभ्यश्च परस्येटो वा दीर्घो भवति तरिष्यति तरीष्यति इत्यादि। सनि इट् सनि वा (पा०सू० ७/२/४१) इति इडागम: तस्य वॄतो वा (पा०सू० ७/२/४१) इति वा दीर्घ: तेन त्रैरूप्यं तितरिषति तितरीषति तितीर्षति। यङि तेतीर्यते।
।। सेट: परस्मैभाषा:।।
गुप गोपकुत्सनयो:।
तिज निशानक्षमयो:।
मान पूजायाम्।
बध बन्धने। गुपादयो निन्दाक्षमाजिज्ञासावैरूप्यवृत्तयोऽनुदात्तदोत्मने-पदिन: सनाद्यन्ता धातव: (पा०सू० ३/१/३२) गुप्तिज्किद्भ्य: सन् (पा०सू० ३/१/५) जुगुप्सते। अजुगुप्सत। जुगुप्सताम्। जुगुप्सेत। जुगुप्सीष्ट। लिटि प्रत्ययान्तं धातुत्वादां जुगुप्साञ्चक्रे। अजुगुप्सिष्ट। णौ चङि अनभ्यासाधिकारान्न द्विरुक्ति: अजुगुप्सत शेषं नेयम्। तितिक्षते। मीमांसते। बीभत्सते पूर्ववद्रूपं नेयम्। एषामिडभाव: सन आर्धधातुकत्वाभावात् अधात्वधिकारविहितत्वाच्च तदभाव:।
रभ राभस्ये। आरभते। आरभत। आरभताम्। आरभेत। आशिषि खरि च (पा०सू० ८/४/५५) इति चर्त्वम् आरप्सीष्ट। इडभावस्तु रभिश्चभान्तेष्वथमैनेवयस्ततस्तृतीया भिरेवनेतर इति वचनात् लिटि अत एकहल्मध्येनादेशादेलिटि (पा०सू० ६/४/१२०) इत्येत्वाभ्यासलोपौ आरेभे लुङि झलि सलोप: झषस्तथोर्धोध: (पा०सू० ८/२/४०) आरब्ध। खरि च (पा०सू० ८/४/५५) इति चर्त्वम् आरप्साताम् णौ चङि रभेरशब्लिटो: (पा०सू० ७/१/६३) इति नुम् आररम्भत्। आरप्स्यते। सनि सनि मीमा० (पा०सू० ७/४/५४) इत्यादिकार्यम् अत्र लोपोभ्यासस्य संयोगादिलोपचर्त्वे आरिप्सत।
डुलभष् प्राप्तौ। पूर्ववत्। णौ चङि लभेश्चेति नुम् अललम्भत्।
ष्वञ्ज परिष्वंगे। सत्वं उपसर्गात्परस्य उपसर्गात् सुनोति० (पा०सू० ८/३/६५) इत्यादिना षत्वं दंशसञ्जस्वञ्जांशपि (पा०सू० ६/४/२५) इत्यनुनासिकलोप: परिष्वजते। परिनिविभ्य: परस्य सिवादीनां ‘वाड्व्यवायेऽपि’ इति वा षत्वं पर्यष्वजत। पर्यस्वजत। परिष्वजताम्। परिष्वजेत। आशिषि चो: कु: (पा०सू० ८/२/८०) इति कुत्वं पर्यष्वक्षीष्ट। श्रन्थिग्रन्थिदन्भिस्वञ्जीनामिति वक्तव्यमिति लिटि कित्वे सति अनिदिताम्० (पा०सू० ६/४/२४) इति नलोप:। सदि स्वञ्ज्यो: परस्य लिटीत्यभ्यासात्परस्य षत्वप्रतिषेध: परिस्वजे। लुङि पर्यष्वङ्क्त। णौ चङि पर्यष्वजत। परिष्वङ्क्ष्यते। पर्यष्वङ्क्ष्यत। परिष्वङ्क्ता। सनि स्तौतिण्योरेव० (पा०सू० ८/३/६१) इति नियमादभ्यासात् परस्य षत्वाभाव: सिस्वङ्क्षते। स्थादिष्वभ्यासेन चाभ्यासस्य (पा०सू० ८/३/६४) इति उपसर्गपूर्वत्वे षत्वं परिषिष्वङ्क्षत।
हद पुरीषोत्सर्गे। हदते। आशिषि हत्सीष्ट इत्यादि योज्यम्।
।। अनिट आत्मनेभाषा:।।
ञिक्ष्विदा अव्यक्ते शब्दे। क्ष्वेदति।
स्कन्दिर् गतिशोषणयो:। वे: स्कन्देरनिष्ठायाम् (पा०सू० ७/३/७३) इति वा षत्वं परेश्च (पा०सू० ७/३/७४) इति च विष्कन्दति। विस्कन्दति परिष्कन्दति। परिस्कन्दति अड्व्यवाये न भवति व्यस्कन्दत। आशिषि अनिदिताम्० (पा०सू० ६/४/२४) इति नलोप: स्कन्द्यात्। चस्कन्द। स्कन्दिथ। चस्कन्थ। लुङि इरितो वा (पा०सू० ३/१/५७) इत्यङ् अस्कन्दत। अडभावे हलन्तलक्षणा सिचिवृद्धि: अस्कान्त्सीत्। णौ चङि अचस्कन्दत्। स्कन्त्स्यतीत्यादि। यमि नीगागम: चनीस्कन्द्यते।
यभ मैथुने। यभतीत्यादि।
णम प्रह्वत्वे शब्दे। कर्तृस्थक्रिय: कर्मस्थक्रियश्च न दुहस्नुनमां यक्चिणौ (पा०सू० ३/१/८९) इति यङ् चिणो: प्रतिषेध:। नमति शाखा नमति गुरुं लिटि ननाम नेमतु: नेमु:। नेमिथ ननन्थ लुङि यमरमनमेत्यादिनाङ्गस्य सगागम: अनंसीत् अनंसिष्टां यङि नंनम्यते।
गम्लृ गतौ। शिति इषुगमियमां छ: (पा०सू० ७/३/७७) इति तुक् गच्छति। अगच्छदित्यादि। आशिषि गम्यात्। अत्र सत्यपि यासुट: कित्वे गमहन० (पा०सू० ६/४/९८) इत्यादिना उपधालोपो न भवति अनङादित्वात् अनुदात्तोपदेश० (पा०सू० ६/४/३७) इत्यादिनाऽनुनासिकलोपोऽपि नास्ति अज्झलादित्वात् लिटि जगाम गमहन० (पा०सू० ६/४/९८) इत्युपधालोपस्य द्विर्वचनेऽचि (पा०सू० १/१/५९) इति स्थानिवद्भावात् द्विरुक्ति: जग्मु:। जगमिथ। जगन्थ। लुङि लृदित्वादङ् गमहन० (पा०सू० ६/४/९८) इत्यादि सूत्रेण ङीतिप्रतिषेधादुपधालोपाभाव: अगमत्। अगमताम्। सिज्वर्जिते सकारादिप्रत्यये परस्मैपदविषये गमेरिट् परस्मैपदविषये गमेरिट् परस्मैपदेषु (पा०सू० ७/२/५८) इति इट् गमिष्यति। अगमिष्यत्। गन्ता। गमिष्यति। नित्यं कौटिल्ये गतौ (पा०सू० ३/१/२३) इति यङ् अभ्यासस्य नुक् जंगम्यते न सम्पूर्वात् समो गमृच्छि० (पा०सू० १/३/२९) इत्यादिनात्मनेपदं संगच्छते। आशिषि वा गम: (पा०सू० १/२/१३) इति कित्वपक्षे अनुदात्तोपदेश० (पा०सू० ६/४/३७) इत्यादिनाऽनुनासिकलोप: सङ्गंसीष्ट कित्वाभावे संगसीष्ट लिटि गमहन० (पा०सू० ६/४/९८) इत्यादिनोपधालोप: संजग्माते लुङि पूर्ववत् कित्वपक्षेऽनुनासिकलोप: ह्रस्वादङ्गादिति सिज्लोप: समगत। समगसाताम्। समगसत। कित्वाभावे सिच: समगंस्त। समगंसाताम्। समगंसत। संगंस्यते। समगंस्यत। संगन्ता। सनि सञ्जगंसते वत्सो मात्रा अज्झनगमां सनि (पा०सू० ६/४/१६) इति दीर्घो न भवति इङादेशस्य तत्र ग्रहणात्।
सृपे: खल्वपि। सर्पति। असर्पत्। आशिषि सृप्यात्। लिटि ससर्प। ससृपु:। क्र्यादिनियमादिट् ससर्पिथ। लुङि असृपत्। णौ चङि असिसृपत्। अससर्पत्। लृलुटो: अनुदात्तस्य चर्दुपधान्यस्यान्यतरस्याम् (पा०सू० ६/१/५९) ऋकारोपधस्य धातोर्वा नुमागमो भवत्यनुदात्तोपदेशस्य झलादावकिति प्रत्यये परत: सृप्यति असर्प्यत् स्रप्ता सनि हलन्ताच्च (पा०सू० १/२/१०) इति कित्वं सिसर्पति यङि रीगृदुपधस्य च (पा०सू० ७/४/९०) इत्यभ्यासस्य रीगागम: सरीसृप्यते।
यम उपरमे। पूर्ववच्छादेश: यच्छति। अयच्छदित्यादि लिटि ययाम। येमतु:। येमु:। येमिथ। इडभावे ययत्थ। लुङि यमरम० (पा०सू० ७/२/७३) इत्यस्य सक् सिच इट् नेटीति वृद्धिप्रतिषेध: यंसीत्। अयंसिष्टाम्। यंस्यति। अयंस्यत्। यन्ता। यियंसति। यङि नुगतोनुनासिकान्तस्य (पा०सू० ७/४/८५) इतीत्यत्र नुग्रहणं अनुस्वारोपलक्षणार्थं तेन यंयम्यत इत्यादि सिद्धम्। यमेरुपपूर्वाद्विवाहे उपाद्यम: स्वकरणे (पा०सू० १/३/५६) इत्यात्मनेपदम् आङ्पूर्वादकर्मकात् स्वाङ्गम् ‘अकर्मकाच्च (पा०सू० १/३/२६) आङो यमहन: (पा०सू० १/३/२८) इति तथा सकर्मकत्वे समुदाङ्भ्यो यमोऽग्रन्थे (पा०सू० ७/३/७५) इति तत्र उपयच्छते। आयच्छते। पाणिं संयच्छते उद्यच्छते इत्याद्युदाहरणानि। आशिषि उद्यंसीष्ट। इत्यादीनि। लिटि उपयेमे इत्यादि। लुङि उपयमने विभाषोपयमने (पा०सू० ७/२/१६) इति वा सिच: कित्वं कित्वपक्षे अनुनासिकलोप: ह्रस्वादङ्गादिति सिज्लोप: उपायत कन्याम्। इतरत्र उपायंस्त कन्याम्। गन्धने तु यमो गन्धने (पा०सू० १/२/१५) इति नित्यं सिच: कित्वम् उदायत। उदायसाताम्। अन्यत्र समयंस्त। सारथि उदयंस्तद्युमणि: इत्यादि।
तप सन्तापे। तपति। लिटि तताप। तेपतु:। तेपु:। तेपिथ ततप्थ। लुङि हलन्तलक्षणा वृद्धि: अताप्सीत्।
तिपितपिं च मथो वपिं स्वपिं
लुपि लिपिं तृप्यति दृप्यती।
सृपि स्वरेणनीचन शपिं चुपिञ्जपीन्
प्रीहि पांतान् पतितां त्रयोदश।।
तपिरनिट् स्वाङ्गकर्मकत्वे तु उद्विपूर्वात्तपे: उद्विभ्यां तप: (पा०सू० १/३/२७) इत्यात्मनेपदं उत्तपते: पाणिं वितपते व्यतपतु। वितपताम्। वितपेत। वितप्सीष्ट। वितेपे। व्यतप्त। व्यतप्सातामित्यादि।
त्यज हानौ। अनिट्त्वं च
पचिं वचिं विचि रिचि रञ्जपृच्छतीन्।
णिजिं सिचिं मुचि भजि भञ्ज भृज्जतीन्।
त्यजिं यजिं युजि रुजि सञ्ज मज्जती।
भुजिं ध्वजिं सृजि मृजि विध्यनिट्स्वरान्।।
इति त्यजतीत्यादि।
संज संगे। षोपदेश: दंशसञ्जस्वञ्जां शपि (पा०सू० ६/४/२५) इत्यनुनासिकलोप: प्रसजति। उपसर्गादिण: परस्य उपसर्गात् सुनोति० (पा०सू० ८/३/६५) इत्यादिना षत्वं विषजति अड्व्यवायेपि व्यषजत् आशिषि अनिदिताम्० (पा०सू० ६/४/२४) इति नलोप: विषज्यात् लिटि ससञ्ज लुङि हलन्तलक्षणा वृद्धि: असाङ्क्षीत् शेषं नेयम्।
दंश दंशने। शपि नलोप: पूर्ववत्। दशति। आशिषि दश्यात् लिटि ददंश। ददंशतु:। ददंशु:। ददंशिथ। इडभावे व्रश्चादिना षत्वं ष्टुत्वं च ददंष्ट। लुङि षत्वकत्वपरसवर्णत्वानि वृद्धिश्च अदांक्षीत्। झलि सलोप: षत्वष्टुत्वे नात्र परसवर्ण: अदांष्टाम्। अदांक्षु:। दंक्ष्यतीत्यादि ‘लुपसद०’ इति यङ् जपजभ० (पा०सू० ७/४/८६) इति नुक् दंदश्यते।
कृष विलेखने। कर्षति। आशिषि कृष्यात्। लिटि चकर्ष। चकृषतु:। चकृषु:। थलि क्र्यादिनियामादिट् चकर्षिथ। लुङि शल इगुपधादनिट: क्स: (पा०सू० ३/१/४५) इति च्ले: क्सस्य नित्यं प्राप्तौ स्पृशमृशकृषतृपदृपीनां सिज्वेति वा सिच् हलन्तलक्षणा वृद्धि: तत्रैव अनुदात्तस्य चर्दुपधस्य (पा०सू० ६/१/५९) इत्यादिना वा अमागम: वृद्धि: अक्राक्षीत् पक्षे क्स: अकृक्षत्। णौ चङि उरदित्यादि अचीकृषत् अचकर्षत्। लृलुटो: पूर्ववदमागम: क्रक्ष्यति कर्क्ष्यति इत्यादि।
दृशिर् प्रेक्षणे। शिति पाघ्रादिसूत्रेण पश्यादेश: पश्यति। अपश्यत्। पश्यतु। पश्येत्। आशिषि दृश्यात्। लिटि ददर्श। ददृशतु:। ददृशु:। क्रादिनियमादिट्त्वं नित्यं प्राप्तं विभाषासृजिदृशो: (पा०सू० ७/२/६५) इतीट् विकल्प्यते दद्रष्ठ ददर्शिथ। लुङि इरित्वादङ् ऋदृशोऽङि गुण: अदर्शत्। अङभावे सिच् सृजिदृशोर्झल्यमकिति (पा०सू० ६/१/५८) इत्यमागम: यणादेश: अद्राक्षीत्। न दृश: (पा०सू० ३/१/४७) इति निषेधात् क्सादेशाभाव:। षत्वष्टुत्वाद्. द्राक्षाम्। अद्राक्षु:। षत्वकत्वषत्वानि द्रक्ष्यतीत्यादि। षत्वष्टुत्वे द्रष्टा। नित्यममागम:। गुणापवाद: सनि ज्ञाश्रुस्मृदृशां सन: (पा०सू० १/३/५७) इत्यात्मनेपदम् दिदृक्षते। सम्पूर्वात् समो गम्यृच्छि० (पा०सू० १/३/२९) इत्यत्र ‘दृशेश्च’ वक्तव्यमित्यात्मनेपदम् सम्पश्यते। समपश्यत। आशिषि इको झल् (पा०सू० १/२/९) हलन्ताच्च (पा०सू० १/२/१०) लिङ्सिचावात्मनेपदेषु (पा०सू० १/२/११) इति कित्वं तेन नामागम:। सन्दृक्षीष्ट। सन्ददृशे। लुङि सनि सलोप: षत्वष्टुत्वे कित्वं पूर्ववत् समदृष्ट तथा भावकर्मणो: (पा०सू० १/३/१३) इत्यात्मनेपदम्। यक: कित्वादगुणत्वं दृश्यते। अदृश्यत। आशिषि स्यसिच् सीयुड्तासिषु० (पा०सू० ६/४/६२) इत्यादिना वा चिण्वदिडागम: दर्शिषीष्ट। दृक्षीष्ट। लिटि ददृशे। लुङि त शब्दे चिण्भावकर्मणो: (पा०सू० ३/१/६६) इति च्लेश्चिण् चिणो लुक् अदर्शि। चिण्वत्पक्षे अदर्शिषाताम्। तदभावे अदृक्षाताम्। लृलुटो: द्रक्ष्यते। दर्शिष्यते। अद्रक्ष्यत अदर्शिष्यत। द्रष्टा दर्शिता।
दह भष्मीकरणे। दहति। लिटि ददाह। देहतु:। देहु:। देहिथ। ददग्ध। लुङि घषभष्त्वचर्त्वषत्वानि अधाक्षीत्। यङि दन्दह्यते।
मिह सेचने। मेहति। आशिषि मिह्यात्। मिमेह। मिमिहतु:। मिमिहु:। क्र्यादिनियमादिड् मिमेहिथ। लुङि च्ले: क्स: अमिक्षत्। मेक्ष्यतीत्यादि।
कित निवासे। अयं गणे परस्मैपदिषु पठ्यते वृत्तिन्यासकारव्याख्यान पर्यालोचनयास्माभिरात्मनेपदस्योदाहरणं प्रदर्श्यते। गुप्तिज्किद्भ्य: सन् (पा०सू० ३/१/५) इत्यत्र गुपादिष्वनुबन्धकरणमात्मनेपदार्थमिति वृत्तिकारवचनं तत्रैव न च कृतेप्यनुबन्धेन भवितव्यमेव तेभ्य: आत्मनेपदेन सनाव्यवहितत्वादिति चोद्यमुत्पाद्यनुबन्धकरणसामर्थ्यात् भवतीति न्यासकारै: परिहृतं गणे परस्मैपदपाठसामर्थ्यात् गुपादिष्विति केतयति व्यतिरिक्ताभिप्रायमिति केचित् न चिकित्सत इत्युभयत्र प्रयोगदर्शनात् गुपादि: सनन्तो धातुप्रकृतिश्चिकित्सते आशिषि चिकित्सिषीष्ट। चिकित्साञ्चक्रे इत्यादि।
।। सनन्तधातुवर्जनित्यानिट: परस्मैभाषा:।।
दान अवखण्डने।
शान तेजने। मान्बधदान्० (पा०सू० ३/१/६) इत्यादिना सनन्तौ धातू दीदांसते शीशांसते।
डुपचष् पाके। पचति। पचते। लिटि पपाच। पेचतु:। पेचु:। पेचिथ पपक्थ पेचे लुङि अपाक्षीत् अपाक्त शेषं नेयम्।
भज सेवायाम्। भजति। भजते। आशिषि भज्यात्। भक्षीष्ट। लिटि बभाज। आदेशादित्वात् अत एकहल्मध्य० (पा०सू० ६/४/१२०) इत्यस्य विषयत्वात् तॄफलभजत्रपश्च (पा०सू० ६/४/१२२) इत्येत्वाभ्यासलोपौ भेजतु:। भेजु:। भेजिथ। भभत्थ। भेजे। भेजाते। लुङि अभाक्षीत्। झलि सलोप: अभक्त। भक्ष्यति भक्ष्यते।
रञ्ज रागे। शपि रञ्जेश्च (पा०सू० ६/४/२६) इत्यनुनासिकलोप: रजति। रजते। आशिषि अनिदिताम्० (पा०सू० ६/४/२४) इत्यनुनासिकलोप: रज्यात् आर्धधातुकत्वात् कित्वाभावान्नानुनासिकलोप: कुत्वानुस्वारपरसवर्णा: रङ्क्षीष्ट। लिटि ररञ्ज। ररञ्जतु:। ररञ्जु:। ररञ्जिथ ररङ्क्थ। लुङि हलन्तवृद्धि: अरङ्क्षीत्। सिज्लोप: अरङ्क्त। अरङ्क्षाताम्। णौ चङि अररञ्जत्। मृगरमणविषये रञ्जेर्णौ मृगमण उपसंख्यानमिति णिच्यनुनासिकलोप: अत उपधाया इति वृद्धि: णौ चङ्युपधाया० (पा०सू० ७/४/१) इति ह्रस्व: केवल णौ मिती ह्रस्व: अरीरजत्। रङ्क्ष्यति। रङ्क्ष्यते।
शप आक्रोशे। शपति। अशपत्। शपतु। शपेत्। शप्यात्। शशाप। शेपतु:। शेपु:। शेपिथ। शशप्थ। लुङि अशापीत्। शप्स्यतीत्यादि। उपलम्भनार्थे शप उपालम्भन इत्युपसंख्यानादात्मनेपदं शपते। अशपत। य: करस्थं शपताम्। शपेत। शप्सीष्ट। शेपे। अशप्त।
त्विष दीप्तौ। त्वेषति। त्वेषते। आशिषि त्विष्यात्। त्विक्षीष्ट। लिङ्सिचावात्मनेपदेषु (पा०सू० १/२/११) इति कित्वम्। लिटि तित्वेष। थलि तित्वेषिथ। लुङि च्ले: क्स: अत्विक्षत् अत्विक्षत।
यज देवपूजासङ्गतिकरणदानेषु। यजति। यजते। आशिषि वचिस्वपियजादीनां किति (पा०सू० ६/१/१५) इति सम्प्रसारणम्।
यजो वपो वहश्चैव व्येञ् वेञोश्वयतिस्तथा।
वद्वसौ ह्वयतिश्चैव स्मृता नवयजादय:।।
इत: परं किति सम्प्रसारणमनेनैवागणपरिसमाप्ते:। अन्यत्र विशेषलक्षणा-भिधानात् इज्यात्। षत्वकत्वषत्वानि यक्षीष्ट। लिटि लिट्याभ्यासस्योभयेषाम् (पा०सू० ६/१/१७) इत्याभ्यासापेक्षत्वात् संप्रसारणस्य पूर्वं द्विर्वचनं इयाज। सम्प्रसारणमेकादेश: ईजतु:। ईजु:। इयजिथ। षत्वष्टुत्वे इयष्ठ। ईजे। ईजाते। लुङ् अयाक्षीत्। वीति अग्निहोत्रे अयष्ट। यक्ष्यति। यक्ष्यते।
टुवप बीजतन्तुसन्ताने। वपति। वपते। आशिषि उप्यात्। वप्सीष्ट। अभ्यासस्य सम्प्रसारणम् उवाप। सम्प्रसारणम् ऊपतु:। ऊपु:। उवपिथ उवप्थ। ऊपे। ऊपाते। लुङि अवाप्सीत्। अवप्त। वप्स्यति। वप्स्यते। सनि विवप्स्यति। यङि वावप्यते।
वह प्रापणे। वहति। वहते। आशिषि उह्यात्। वक्षीष्ट। लिटि उवाह। ऊहतु:। ऊहु:। उवहिथ। इडभावे ढत्वधत्वष्टुत्वढलोपेषु सहिवहोरोदवर्णस्य (पा०सू० ६/३/११२) इत्योत्वं उवोढ। ऊहे। ऊहाते। लुङि अवाक्षीत्। झलि सलोप: ढत्वादि पूर्ववत् अवोढ। ढत्वकत्वषत्वानि अवक्षाताम्। अवक्षत वक्ष्यति। वक्ष्यते। प्रपूर्वात् प्राद्वह: (पा०सू० १/३/८१) इति नित्यं परस्मैपदं प्रवहति।
।। सनन्तवर्जमनिट उभयतोभाषा:।।
वस निवासे। वसति। आशिषि सम्प्रसारणं शासिवसिघसीनां च (पा०सू० ८/३/६०) इति षत्वम् उष्यात्। लिटि उवास। षत्वं पूर्ववत् ऊषतु:। ऊषु: उवसिथ उवस्थ। लुङि च्ले: सिच् (पा०सू० ३/१/४४) स: स्यार्धधातुके (पा०सू० ७/४/४९) इति तत्वं वृद्धि: अवात्सीत्। वत्स्यति। अवत्स्यत्।
।। अनिट्परस्मैभाषा:।।
वेञ् तन्तुसन्ताने। वयति। वयते आशिषि सम्प्रसारणं अकृत्सार्वधातुकयोर्दीर्घ: (पा०सू० ७/४/२५) ऊयात्। लिटि लिट्यन्यतरस्याम् (पा०सू० २/४/४०) इत्यधिकृत्य वेञो वयि: (पा०सू० २/४/४१) इति वा वयिरादेश:। इकार उच्चारणार्थ:। अभ्यासस्य सम्प्रसारणं ‘न सम्प्रसारणम्’ इति ज्ञापकाद्यकारस्य प्राप्त: वयाय इति प्रतिषिध्यते तेन वकारस्य भवति हलादि शेष: ननु शेषविहितत्वात् सम्प्रसारणे कृतेनात्र हलादिभूतोऽस्ति कस्य शेषो विधीयते उच्यते नास्माभिरत्र सम्प्रसारणं कृत्वा पुनर्हलादे: शेषोवस्थानं विधीयते न च हलादिशेष इत्यनेन सूत्रेणादे: हलोवस्थानं विधीयते किं तर्हि नादेहलोर्लोप उवाय अथ अनेन सूत्रेण आदे: शेषोवस्थानं नियमार्थं विधीयते आदेरेव हलोऽवस्थानं नानादेरिति अनादिनिवृत्तिर्नियमफलं भवति नन्वेवं तर्हि हलादेरेवाभ्यासस्य अनादिलोप: स्यात् नाजादे:। नैष दोष:। अभ्यासजातेराश्रयणात् किति लिटि वयो य इत्यधिकृत्य पश्चस्वान्यतरस्यां किति पूर्वेण यस्य सम्प्रसारणं कृतं अस्य वयो यकारस्य वा किति लिटि वकारादेशो भवति किति सम्प्रसारणं ततो द्विरुक्तिरेकादेशश्च ऊवतु:। ऊयतु:। ऊवु:। ऊयु:। उवयिथ। भारद्वाजीयस्तु थलीडागमविकल्पस्तास्विदिति वचनात् तासौ सतोत्वमो नचायं वयिस्तासावस्तीति न भवति क्रादिनियमान्नित्यमेव भवति ययादेशानां वपक्षे अभ्याससम्प्रसारणं च वेञ् इत्यनेन सूत्रेण प्रतिषिध्यते आत औ णल: (पा०सू० ७/१/३४) ववौ आतो लोप इटि च ववतु:। ववु:। थलीड्विकल्प: ववाथ। वविथ। लुङि यमरमेत्यादिकार्यं अवासीत्। अवासिष्टाम्। णौ चङि शाच्छासाह्वाव्यावेवां युक् पुगपवाद: अवीवयत् वास्यतीत्यादि तथा आत्मनेपदे वयते: आशिष वासीष्ट। लिटि ऊये। ऊयाते। ऊयिरे। ऊवे। ऊवाते। ऊविरे। लुङि अवास्त। शेषं नेयम्।
व्येञ् संवरणे। व्ययति। आशिषि आदेच० (पा०सू० ६/१/६५) इत्यात्वं सम्प्रसारणं हल: (पा०सू० ६/४/२) इति दीर्घ:। वीयात्। लिटि न व्यो लिटि० (पा०सू० ६/१/४६) इत्यात्वप्रतिषेध: अभ्याससम्प्रसारणं विव्याय। कित्वात्सम्प्रसारणम् एरनेकाच० (पा०सू० ६/४/८२) इति यण् विव्यतु:। विव्यु:। थलि इडत्यर्तिव्ययतीनाम् (पा०सू० ७/२/६६) इति नित्यमिट् विव्ययिथ। लुङि प्राग्वत्सगिकटौ अव्यासीत्। अव्यासिष्टाम्। णौ चङि पूर्ववत् पुक् अविव्यपत्। व्यास्यति। यङ् स्वपिस्यमिव्येञां यङि (पा०सू० ६/१/१९) इति सम्प्रसारणं ततो र्द्विर्वचनं वेवीयते। तथा आशिषि व्यासीष्ट। विव्ये। अव्यास्त। व्यास्यते इत्यादि।
ह्वेञ् स्पर्धायाम् शब्दे च। ह्वयति। अह्वयत्। आशिषि आत्वं सम्प्रसारणदीर्घत्वादि हूयात्। लिटि ह्व: सम्प्रसारणं० (पा०सू० ३/३/७२) अभ्यस्तस्य च (पा०सू० ६/१/३३) इति सम्प्रसारणं जुहाव। किति सम्प्रसारणं उवङ् जुहुवतु:। जुहुवु:। जुहुविथ जुहोथ। लुङि लिपिसिचि ह्वश्च (पा०सू० ३/१/५३) इति च्लेरङ् आतो लोप: आह्वत्। अह्वताम्। णौ चङि णौ च संश्चङो: (पा०सू० २/४/५१) इति ह्व: सम्प्रसारणम्० (पा०सू० ३/३/७२) अजूहुवत्। ह्वास्यति। सनि पूर्ववत्सम्प्रसारणं जुहूषति। यङि जोहूयते। तथा क्रियाफले कर्त्रभिप्राये ह्वयते। अह्वयत। आशिषि ह्वासीष्ट। लिटि जुहुवे। लुङि लिपिसिचिह्वश्च (पा०सू० ३/१/५३)आत्मनेपदेष्वन्यतरस्याम् (पा०सू० २/४/४४) इति वा च्लेरङ् आकारलोप: अह्वत। आतो ङित: (पा०सू० ७/२/८१) अह्वेताम्। अङभावे अह्वास्त। अह्वासाताम्। ह्वास्यते। अकर्त्रभिप्राये क्रियाफले निसमुपविभ्यो ह्व: (पा०सू० १/३/३०) स्पर्धायामाङ: (पा०सू० १/३/३१) इत्यात्मनेपदम् एतान्येवोदाहरणानि।
।। अनिट उभयतो भाषा:।।
वद व्यक्तायां वाचि। वदति। आशिषि उद्यात्। लिटि उवाद। किति सम्प्रसारणम् ऊदतु:। ऊदु:। उवदिथ। वदव्रज० (पा०सू० ७/२/३) इति अवादीत्। तथा भासनोपसम्भाषाज्ञानयत्नविमत्युपमन्त्रणेषु वद: (पा०सू० १/३/४७) भासनादिष्वर्थेषु वदेरात्मनेपदं विहितं तत्र भासनं दीप्ति: वदते चार्विलोकायते उपसम्भाषोपछदनं कर्मकरानुपवदते ज्ञानं सम्यगवबोध: वदते चार्विलोकायते। यत्न क्षेत्रे वदते। विमतिर्नानामति:। क्षेत्रे विवदते। उपमन्त्रणं रहस्युपछदनं भार्यामुपवदते। व्यक्तवाचां समुच्चारणे (पा०सू० १/३/४८) समुच्चारणं सहोच्चारणं सम्प्रवदन्ते ब्राह्मण:। सहोच्चारणादन्यत्र न भवति अनोरकर्मकात् (पा०सू० १/३/४९) अनु: सादृश्ये अनुवदते कठ: कालापीयस्य कालापीयवद्वदतीत्यर्थ:। सकर्मकान्न भवति विभाषा विप्रलापे (पा०सू० १/३/५०) विरुद्धप्रलापे व्यक्तवाचां समुच्चारणे वा भवति विप्रवदन्ते विप्रवदन्ति तथा कर्त्रभिप्राये क्रियाफले अपाद्वद: (पा०सू० १/३/७३) अपवदते आशिषि वदिषीष्ट लिटि ऊदे लुङि अवदिष्ट इत्यादि।
टुओश्वि गतिवृद्ध्यो:। श्वयति। अश्वयत्। श्वयतु। श्वयेत्। आशिषि श्वीयात्। शूयात् लिटि लिङ्यङोश्च (पा०सू० ६/१/२९) इत्यधिकृत्य ‘विभाषा श्वयते:’ इति सम्प्रसारणविकल्प: कित्यकिति च शुशाव शिश्वाय। इयङुवङौ शिश्वियतु: शुशुवतु:। शिश्वियु:। शुशुवु:। शिश्वयिथ शुशविथ। लुङि विभाषा धेट्च्छो: (पा०सू० ३/१/४९) इति च्लेश्चङ् चङीति द्विर्वचनम् अशिश्वियत्। इरितो वा (पा०सू० ३/१/५७) इत्यधिकृत्य जृस्तन्भु० (पा०सू० ३/१/५८) इत्यादिना च्लेरङ् अङि श्वयतेर इत्वं अश्वत्। अश्वताम्। अश्वन् उभयाभावपक्षे सिचि इडागम: सिचि इगन्तलक्षणावृद्धि: प्राप्ता ह्म्यन्तक्षणश्वसजागृणिश्व्येदिताम् (पा०सू० ७/२/५) इति प्रतिषिध्यते ननु च ‘नेटि’ इति कस्मान्न निषिध्यते अनन्तरत्वाद्धलन्तलक्षणाया एव स निषेध: नेगन्तलक्षणाया श्वि इ ईत् इति स्थिते अन्तरङ्गत्वात् गुणायादेशयो: यकारान्तत्वात् ह्म्यन्तेत्येव प्रतिषेध: कस्मान्न भवति सत्यं एवं सति श्विग्रहणं तु ज्ञापकार्थं क्रियते न सिच्यमन्तरङ्गमस्तीति अश्वयीत्। अश्वयिष्टाम्। णौ चङि ‘विभाषा श्वयते:’ इत्यधिकृत्य णौ च संश्चङो (पा०सू० २/४/५१) इति वा सम्प्रसारणं अशूशुवत्। अशिश्वयत्। श्वयिष्यति। अश्वयिष्यत्। श्वयिता। सनि शिश्वयिषति। यङि शोशूयते।
यजिर्वाव्ययतीप्रोक्तो वयिर्वहिर्वहिवसीवदि।
श्वयति श्वकयती कित्सु सम्प्रसारणभागिन:।।
।। वदि श्वयति सेटौ परस्मैभाषौ।
।। इति हरियोगिन: प्रोल्लनाचार्यस्य कृतौ धातुप्रत्ययपञ्चिकायां शब्विकरणा भूवादय: समाप्ता:।।