विशिष्टः पाठः

वाच्य ऊर्णोणुवद्भावो यङ्‌प्रसिद्धि: प्रयोजनम्‌।
आमश्च प्रतिषेधार्थमेकाचश्चेत्युपग्रहात्‌।।

अस्यायमर्थ:। ऊर्णुञ् छादने इत्यस्य णु स्तवने इत्यनेन तुल्यत्वं वाच्यमित्यर्थ:। किं प्रयोजनम्‌ यङ्‌प्रसिद्धि: प्रयोजनम्‌ धातोरेकाचो हलादे: क्रियासमभिहारे यङ् इत्यनेन एकाचो हलादे क्रियासमभिहारे यङ्‌ क्रियते नौतिस्तु एकाच्‌ हलादिश्च ततश्च यङ्‌ प्राप्नोति। तस्मादूर्णोतेरपि यङ्‌सिद्धये णुवद्भावो वाच्य: किञ्चान्यच्चापि प्रयोजनं इजादेश्च गुरुमतोऽनृच्छ इति इजादेर्गुरुमतोराम्‌ प्रत्ययो विधीयते लिटि परत: ऊर्णोतिश्च गुरुमान्‌ इजादिश्च तत आम्प्रत्यय: प्राप्नोति अतस्तत्प्रेतिषेधाय धातोर्णुवद्भावो वाच्य:। अन्यदपि प्रयोजनमस्ति एकाचश्चेडुपग्रहात्‌ इडुपग्रहादिति ल्यब्लोपे पञ्चमी प्रासादात्‌ प्रेक्षत इत्यादिवत्‌ कर्मणि ल्यब्लोपे पञ्चमी वक्तव्येत्यनेन इडुपग्रह: इट्‌प्रतिषेध: इट्‌प्रतिषेधं समीक्ष्य णुवद्भावो वाच्यं इत्यर्थ:। ननु च नौत्यूर्णोती द्वावपि सेटावेव तथा ह्यनिट्‌कारिकायामुकारान्तेषु द्वौ पठितावेव ऊर्णोतिमथोयनुक्ष्णुव इति। तत्‌ कथं नौतितुल्यतया ऊर्णोतेरनिट्‌त्वं प्रतिपाद्यते सिद्धमसिद्धेन साध्यते। नैष दोष: योऽयमिट्‌प्रतिषेधार्थोणुवद्भाव: सतु सामान्यविषयो न भवति अपि तु विशेषनिषय:। श्र्यु कितीत्यनेन एकाच इत्यधिकारादिगन्तस्यैकाच: कित्सु इट्‌प्रतिषेध: क्रियते यौतेर्यथा भवति नुनुतवानिति ऊर्णुतवानित्यत्रापि यथा स्यादित्येवमपि णुवद्भावे वाच्य इत्यर्थ:।।

इति हरियोगिना विरचितं शाब्दिकाभरणं संपूर्णम्‌।
शब्लुकौ श्लुश्यनौ श्नुश्श श्नमुश्ना स्वार्थणिच तथा।
इति वैकरणा भेदा दश तिङ्‌प्रत्यये शपो।।