।। शाब्दिकाभरणम्‌।। (भूमिका-भागः)

विद्यानिधिं नमस्कृत्य सर्वदेवमयं हरिम्‌।
शाब्दिकानामलङ्कार: क्रियते हरियोगिना।।


अथ शब्दानुशासनम्‌, केषां शब्दानां लौकिकानां वैदिकानां च, अथ किमात्मकं शब्दमभ्युपगम्य इदं शब्दानुशासनमारभ्यते, तावद्वर्णात्मकमिति ब्रूम:, वर्णा: पुनरनित्या नित्या वा, तावन्नित्या इति वदाम:। कुत एषां नित्यतावगति:, प्रत्यभिज्ञानात्‌ तथाहि यमहमश्रौषं यकारं तमेतर्हि शृणोमीति। प्रतिसन्धानमुत्पद्यमानं दृष्टं, न चेदमनित्यत्वे वर्णानां घटते। अर्थप्रतीत्यन्यथोपपत्त्या च वर्णानां नित्यत्वम् अभ्युपगन्तव्यम्‌। तथाहि क्षणिकत्वे वर्णानां समुदायाभावे सङ्केतस्य असम्भवात्‌ तत्पूर्विका शब्दादर्थप्रतिपत्तिरनुपपन्ना स्यात्‌। नैतदस्ति, प्रत्यभिज्ञानस्यानधिगतार्थगन्तृत्वे प्रामाण्याभावात्‌। अनधिगतार्थगन्तृ प्रमाणमिति प्रामाण्यसामान्यलक्षणाभिधानात्‌। अथानधिगतार्थगन्तृ प्रत्यभिज्ञानम्‌, तन्न, अदृष्टार्थतायां मिथ्यात्वप्रसङ्गात्‌। अथ धीरूपेणाधिगतार्थमपीदानीन्तनदेश-कालाद्यनपेक्षयाऽनधिगतार्थञ्चेति। ननु एवमपि उभयदोषातिनिपातप्रसङ्ग:, प्रमेयसमग्र्यां च देशकालादेरभावाभ्युपगमेनाधिगतार्थत्वमेव, तावत: प्रमेयस्य पूर्वमप्रतिपत्ते:, न च श्रोत्रव्यापारेण देशकालादेर्ग्रहणं दृष्टम्‌। अथ प्रमाणसामग्र्यम्‌ अन्तर्भाव:। तर्हि प्रमाणस्यानित्यत्वेऽपि प्रमेये तादवस्थ्यादधिगतार्थविषयत्वमेव सर्वत्र प्रमेयभेदादेव विज्ञानभेद इत्यभ्युपगमे प्रतिज्ञानमन्यतायां क्षणिकताप्रसङ्ग:। तस्मादनधिगतार्थविषयत्वमेव सर्वप्रमाणमित्येवंवादिनः अप्रमाणम् एव प्रत्यभिज्ञानम्‌। किञ्च छन्नोभूतेषु केशनखादिषु सादृश्यवशात्‌ प्रत्यभिज्ञानं सामान्यादौ चार्थतथाभावादिति द्वैविध्योपलब्धेर्विशेषानुपलब्धौ सन्दिग्धत्वाद्. अप्रामाण्यम्‌। अथ वर्णस्य श्रवणानन्तरमनुपलब्धिर्व्यञ्जकाभावान्नासत्वादिति चेत्‌ न, सद्भावे प्रमाणाभावात्‌। अभ्युपगमे वा क्वचित्‌ प्रदेशे शब्दस्याभिव्यक्तौ तस्य व्यापकतया सर्वदेशावस्थितपुरुषाणाम्‌ उपलम्भ: स्यात्‌, अथैकदेशास्तस्याभि-व्यज्यन्ते, तेषामभेदे शब्दस्याभिव्यक्तिरिति तदेव दूषणम्‌, भेदे तु तदभिव्यक्तौ कथं शब्दोऽर्थमभिदध्यात्‌, अवेगवशात्‌ भेरिदण्डसंयोगापेक्षादुत्पन्नक्रियो वायुर्वेगवान्‌ श्रोत्रदेशेनागत्याभिसम्बध्यते तद्गतानि स्तिमितवाय्वन्तराण्यपनयति तत: प्रतिबन्धकाभावे सति श्रोत्रवर्णग्राहकमिति, नन्वेवमदोष: शब्दोपलम्भप्रसङ्ग:, संस्कृते हि श्रोत्रे सर्वेषां सान्निध्यात्‌। न च गोशब्दाभिव्यक्त्त्यर्थम्‌ उत्पादितप्रेरितो वायुर्नाश्वं वक्तीति वाच्यम्‌। व्यञ्जकेषु नियमानुपलब्धे:, यथा घटादिव्यक्त्त्यर्थम् उत्पादित: प्रदीप: समानेन्द्रियग्राह्य: समानदेशावस्थितपदार्थाभिव्यञ्जक इति, तदेवमभिव्यक्तिपक्षे वर्णानां बाधकोपपत्ते:। अर्थप्रतीतेरन्यथापि भावाच्च, नित्यत्वप्रतिपादनं निरालम्बनमेव। अनित्यास्तर्हि वर्णा: कथं तेषामनित्यता, उत्पन्नप्रध्वंसित्वात्‌, एतच्च कुतोऽवसीयते, प्रत्युच्चारणमन्यथाभावेनानुभूय-मानत्वात्‌, तथाहि प्रत्यक्षमनुपलभ्यमानोऽपि पुरुषविशेषोऽध्ययध्वनिश्रवणादेव विशेषतो निर्धार्यते, देवदत्तोऽयमधीते, यज्ञदत्तोऽयमधीत इति। न चेयं वर्णविषयान्यथा प्रतीतिर्मिथ्याज्ञानमिति विवेदितव्यम् बाधकप्रत्ययाभावात्‌, नन्वस्ति बाधकप्रत्यय:, त एवादिवर्णेषु प्रकीर्णा इति प्रत्यभिज्ञानम्‌, नेयं वर्णविषया प्रत्यभिज्ञेति वाच्यम्‌, नित्यत्वपक्षे वर्णानां बाधकस्योपपादितत्वात्, किं तर्हि तदाकृति, विषया यथा अन्योन्यविसदृशीषु गोव्यक्तिषु सैवेयमित्यनुसन्धानं जात्यालम्बनम् एवमबाध्यमानान्यथाप्रत्ययविषयभूतेषु वर्णेषु प्रतिसन्धानमुत्पाद्यमानं वर्णाकृतिमेवावलम्ब्य प्रथत इति युक्तम्‌, तथाहि सङ्केतोत्तरकालं गवादिषु गोत्वादिवद्वर्णेषु तदाकृति: प्रतिभासते। अत एव दम्भेर्हल्ग्रहणस्य जातिवाचकत्वात्‌ सिद्धं धिप्सतीत्याकृतिनिर्देशात्‌ सिद्धमित्यादि-भाष्यकारवचनमुपपन्नं भवति, अस्तु तर्हि कथं तेषां हि वाचकत्वं न प्रत्येक-वाचकत्वं व्यभिचारात्‌, तथा हि न प्रत्येकं वर्णानाम्‌ अर्थवत्ताऽस्ति, यदि स्यात्‌, धनं वनमित्यत्र नान्तस्यार्थवत्वेन प्रातिपदिकसंज्ञायां सुबुत्पत्तौ पदसंज्ञायां संज्ञा द्वयनिबन्धनो नलोप: स्यात्‌, विसंबुसमित्यत्र सान्तस्यात एव हेतो: ससजुषोरुरिति रुत्वं स्यात्‌ इत्येवमादयो दोषा: प्रसज्येरन्‌। अपि च कूप: सूपो यूप इत्यत्रान्वयव्यतिरेकाभ्यां ककारसकारयाकाराणाम्‌ एवार्थवत्त्वं प्रतीयते नेतरयो: कथं कर्मकार: वृक: शुक: इत्यत्र पूर्वोत्तरभावेन व्यवस्थितस्य ककारस्यैवार्थवत्वम्‌ अन्वयव्यतिरेकसिद्धं नेतरस्य, तस्मान्न प्रत्येकमर्थवन्तो वर्णा: न च समुदायप्रत्ययः अस्ति तेषां क्रमेणानुत्पाद्यमानत्वात्‌, तथाहि वागिन्द्रियमष्टस्थानविभक्तम्‌ उदानेन वायुनाभिहन्यमानं क्रमेण वर्णान्‌ करोति, तथा च शिक्षाकारवचनम् -

आत्मा बुद्ध्या च सामर्थ्यात् मनो युङ्क्ते विवक्षया।
मन: कायाग्निमाहन्ति स प्रेरयति मारुतम्‌।।
अष्टौ स्थानानि वर्णानामुर: कण्ठ: शिरस्तथा।
जिह्वामूलं च दन्ताश्च नासिकोष्ठौ च तालु च।। इति।


एवमेकस्मिन्‌ वर्णे जाते नष्टे अपरस्य जन्मनाशावपीत्यनेन क्रमेणैककलानवस्थानाम् वर्णानां समुदायप्रत्ययाभाव:। अथ यदि ब्रूया: पूर्ववर्णानुभवसंस्कारसचिवस्य वाचकत्वमिति, मनोरथमात्रमेतत्‌। तथाहि- सम्बन्धग्रहणमपेक्षमाण: शब्दस्त्वयं प्रतीयमानोऽर्थं प्रत्याययितुमीष्टे धूमादिवत्‌, न हि धूम: स्वयमनुपलभ्यमानोऽग्निमनुमापयितुं शक्नोति। न च पूर्ववर्णजनितसंस्कारसहितस्य चरमवर्णस्य प्रतीतिरस्ति संस्काराणामप्रत्यक्षत्वात् संस्काराणां प्रत्यक्षतायामपि कार्यप्रत्यायितैस्तै: पदस्य वाचकत्वमभ्युपगन्तव्यम्‌। अथ किमर्थप्रतीत्यन्यथानुपपत्या स्फोट: कल्प्यते उतोपलभ्यते, न कल्पयाम्यहं, स्फोटप्रत्यक्षं चैनमवगच्छामि, एकैववर्णग्रहणाहितवाङ्क्षायामन्त्यवर्णप्रत्यक्षजनितविपाकायां बुद्धावयवविप्रत्ययवदखण्डिताकारतया गौरिति प्रतिभासनात्‌ समस्तवर्णविषयज्ञानमेतदिति वक्तुं युक्तं क्षणिकत्वेन वर्णानां सामस्त्यासम्भवात्‌। अयमन्त्यवर्णप्रत्यय इति च न वाच्यम्‌, गौरिति प्रतीते:। वर्णाकृतिविषयता च दुरोत्सारिता अननुवृत्तस्वभावत्वात्‌, तस्य च यदेतद्वर्णेभ्योऽत्यन्तमभिन्नत्वं तद्वर्णद्वारेणैव प्रतीयमानत्वात्‌ गवादिव्यक्तिद्वारेण गोत्वादिवत्‌, स यदा गकारादिवर्णाग्रहणाहितसंस्कारया बुद्ध्या परिच्छिद्यते तदा तदाकार इवावभासते। स एव यदाकारादिवर्णानुभवजनितवासनया धिया विषयीक्रियते तदा तद्रूप इव भवति स च प्रत्युच्चारणं प्रत्यभिज्ञायमानत्वात्‌ आकृतिवन्नित्य:। ननु नित्यश्चेत्‌ किमिति सर्वदा नोपलभ्यते, तदभिव्यञ्जकस्य वर्णकलापस्यानित्यत्वात्, ननु कथं वर्णानामभिव्यञ्जकत्वं, तथाहि समस्तैरभिव्यज्यते क्षणिकत्वेन समुदायानाभ्युपगमात्‌ अव्यस्तैरेकेनाभिव्यक्तौ शेषोच्चारणवैयर्थ्यप्रसङ्गात्‌। उच्यते- यद्यपि वर्णानां क्षणिकतया साक्षादभिव्यञ्जकत्वं न सम्भवति तथापि गकारादिवर्णोच्चारण-समनन्तरं गौरित्यभिन्नबुद्धिविषयस्य शब्दस्य प्रतिभासनात्‌ प्रणालीकया तेषामव्यञ्जकत्वं निश्चीयते। तथा चोक्तम्‌-

नादैराहितबीजायामन्त्येन ध्वनिना सह।
आवृत्तपरिपाकायां बुद्धौ शब्दोऽवधार्यते।। इति ।


अपरं च स्फोटनिरूपणपरं वचनं तदिदमेकबुद्धिविषयं एकप्रयत्नाक्षिप्तम्‌ अभागमक्रमं अवर्णं बौद्धम्‌ अन्त्यवर्णप्रत्ययव्यापारोपस्थापितमिति। अस्यार्थ:- तत्पदं बौद्धं मानसमेकं नानेकं, कस्मात्‌, यस्मादेकबुद्धिविषयं यस्मादेकप्रयत्नाक्षिप्तम्‌, कुत:, यस्मादभागमंशरहितं, कस्मादभागं, यस्मादक्रमं यस्मादवर्णं कस्मादवर्णं, यस्माद्बौद्धं, कस्मात्‌ बौद्धं यस्माद्. अन्त्यवर्णप्रत्ययव्यापारोपस्थापितं तस्मादन्त्यवर्णप्रत्ययव्यापारोपस्थापितत्वात्‌ अवर्णमवर्णत्वात् अक्रममक्रमत्वात्‌ अनागममनागत्वात्‌ एकप्रयत्नाक्षिप्तम् एकप्रयत्नाक्षिप्तत्वादेकबुद्धिविषयमेकबुद्धिविषयत्वात्‌ एकं पदं यत्तद् बौद्धं पदमिति। सूक्ष्मं, तत्कथं लोके प्रतीयते, तदुच्यते- पुरुषान्तरप्रतिपादविषया वर्णैरेवाभिधीयमानै: श्रूयमाणैश्च श्रोतृभिरनादिवाग्व्यवहारजनिते वासनावासितया लोकबुद्ध्या वृद्धेभ्यो बालानाम् इत्यनया संप्रदायपरम्परया प्रसिद्धमिवप्रतीयते। यत एवं तस्मादनादिवासनैवात्मनि देहादावात्मबुद्धे: नित्य इव वर्णेषु शब्दबुद्धे: शरणम्‌। तथा वर्णैरेव पदाभिव्यक्तिरिति लोकभ्रान्त्या लौकिकैर्वर्णाद्वर्णेष्वेव वाचकत्वमासज्यते। ननु तस्य स्तिमितमहोदधिकल्पस्य शब्दतत्त्वस्य कुत: प्रविभाग: उतैतस्य पदस्य वर्णाकारेणावस्थितस्यैतावता वर्णानामनेन क्रमेणावस्थितो विन्यास एतस्यार्थस्य वाचक इति परोपदेशजनितार्थसङ्केत-बुद्धिविभागात्‌ प्रविभागात्‌ प्रविभाग:। दृश्यते च लोके सङ्केतबुद्धिभेदादभिन्नस्यापि वस्तुनो भेदव्यवहारहेतुत्वम्‌। तद्यथा देवदत्तस्यैकस्य पितृपुत्रपौत्रभ्रातृजामातृ-बुद्धिभेदवशेन भेदव्यपदेशभागित्वम्‌। ननु क्षणिकत्वे सति वर्णानां कथं सङ्केतविषयत्वोपपत्ति:, विशिष्टानुपूर्वसचिवतया तेषां सङ्केतविषयत्वमुपपद्यत इत्यदोष:, तथा तदेकमेव शब्दब्रह्म कूटस्थं नित्यं सर्वभूतानां चैतन्यं तस्यैव विवर्त विविक्त: परिणामो वा जगदिदं सर्वमिति मन्यन्ते। शब्दाद्वैतवादिनो वैयाकरणा:, तथाहि- शब्दसंपृक्तप्रतिभास एव विवर्त:। प्रमाणम्‌, ‘सर्व एवार्थो विशिष्टनामधेयविशिष्टं परिस्फुरति यत्रापि विशिष्टनामाधेयाभावस्तत्रापि किं यत्तदादिशब्दैर्व्यपदेश: सम्भवत्येव, तथा ज्ञानं च. शब्दानुविद्धं प्रतिभासते, तदुक्तं च-

न सोस्ति प्रत्ययो लोके य: शब्दानुगमादृते।
अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते।। इति।


यदि गौरियं घटोऽयमिति, एवं विमर्शो न स्यात्‌, तदा ज्ञानमपि न भवेत्‌। तदुक्तम्‌-

वाग्रूपता चेदुत्क्राममेदवबोधस्य शास्वती।
न प्रकाश: प्रकाशेत सा हि प्रत्यवमर्शिनी।। इति।


न च शब्दानुविद्धेन ज्ञानेन प्रतिभासमानानाम्‌ अप्यशब्दात्मकत्वम् अर्थानामिति, साम्प्रतं रूपादिरूपत्वेनापि तदसिद्धिप्रसङ्गात्‌, न चैष शब्दोल्लेख: स्पष्टत्वादिवद्विज्ञानधर्मरूपोल्लेखसमानकक्ष्यतया प्रतिभासनात्‌, यथा हि शुक्लं वस्त्रं शुक्लो गुण इति शुक्लविशिष्ट: परिस्फुरति, तथा शुक्लशब्दविशिष्टोऽपि परिस्फुरतीत्युभयोरपि सिद्धिरसिद्धिर्वा स्यात्‌, समानन्यायत्वात्‌, यत्तु गौरयमिति संवेदनेऽपि न गौ: शब्दोयमिति प्रतिपत्तिरसौ शब्दांशभेदात्‌, एवमन्यत्रापीति, तस्माच्छ्रोत्रेण ग्रहणमवस्थाभेदादेव तथा चोक्तम्‌-

वैखरी शब्दनिष्पत्तिर्मध्यमा श्रुतिगोचरा।
द्योतितार्थ च पश्यन्ती सूक्ष्मा वागनपायिनी।। इति।


अस्यार्थ: शब्दान्निष्पत्तिर्यस्यासौ शब्दनिष्पत्ति: घटादिरूपपरिणामो वैखरी श्रुतिगोचरा श्रोत्रग्राह्या मध्यमाद्योतित: प्रकाशितोऽर्थो यस्या: सा द्योतितार्था ज्ञानरूपा पश्यन्ती गीयते, अनपायिनी ब्रह्मरूपेण सूक्ष्मेति गीयते। तथा चोक्तम्‌-

शब्दब्रह्म यदेकं चैतन्यं च सर्वभूतानाम्‌।
यत्परिणामं त्रिभुवनं अखिलमिदं जयति सा वाणी।।


श्रुतिरपि च-
चत्वारि वाक्परिमितापदानि
तानि विदुर्ब्राह्मणा ये मनीषिण:।
गुहा त्रीणि हिता नेङ्गयन्ति
तुरीयं वाचो मनुष्या वदन्ति। इति।


स्थूलसूक्ष्मभावेनावस्थितस्य प्रवणस्य शब्दब्रह्मात्मकत्वं दर्शयति अकारो वै सर्वावाक्। सैषा स्पर्शोष्मभिर्व्यज्यमाना बह्वी नानारूपा भवति चेत्यलमतिप्रपञ्चेन।

नन्वेवं तर्हि कथमित्थम्भावमुपगतस्तस्य शब्दस्यानुशासनमुपपद्यते प्रकृत्यादिविभागकल्पनयेति ब्रूम:। ननु लोकादेव लौकिका: सिद्धा:। वेदाच्च वैदिका: इत्यनर्थकं व्याकरणं तथाहि कश्चिद्घटेन कार्यं करिष्यन्‌ कुलालकुलं गत्वा ब्रवीति कुरु घटमनेन कार्यं करिष्यामीति। न तथा शब्दान्‌ प्रयुङ्क्षमाणो वैयाकरणकुलं गत्वा हि कुरु शब्दान्‌ प्रयोक्ष्य इति। तं तमेवार्थमुपादाय शब्दान्‌ प्रयुञ्जते। उच्यते ‘सिद्धे शब्दार्थसम्बन्धे शास्त्रेण धर्मनियम: क्रियते किमिदं धर्मनियम इति, धर्मायनियमो धर्मनियम:। तद्यथा- लोके वेदे च। लोके तावत्‌ अभक्ष्या: ग्राम्यकुक्कुट: अभक्ष्यो ग्राम्यसूकर इत्युच्यते। भक्ष्यं च नाम क्षुत्प्रतिघातार्थमुपादीयते। शक्यं चानेन श्वमांसादिभिरपि क्षुत्प्रतिहन्तुम्‌। तत्र नियम: क्रियते इदं भक्ष्यमिदमभक्ष्यमिति। तथा खेदास्त्रीषु प्रवृत्तिर्भवति। समानश्च खेदविगमो गम्यायामगम्यायां च। तत्र नियम: क्रियते। इयं गम्येयमगम्येति। तथा वेदे पयोव्रतो ब्राह्मण:। यवागूव्रतो राजन्य:। अमिक्षाव्रतो वैश्य:। व्रतं नामाभ्यवहारार्थम्‌ उपादीयते। शक्यं चानेन शालिमांसान्यपि व्रतयितुं तत्र नियम: क्रियते तथा वैल्व: खदिरो वा यूप: स्यादित्युच्यते। यूपश्च नाम पश्वनुबन्धनार्थमुपादीयते। शक्यं चानेन किञ्चित्काष्ठमुच्छ्रित्यानुच्छ्रित्य वा पशुरनुबन्धुं तत्र च नियम: क्रियते। तथाग्नौ कपालान्यधिश्रित्यनेनानुमन्त्रयते ‘भृगूणामङ्गिरसां तपसा तप्यध्वमिति’ अन्तरेणापि मन्त्रमग्निर्दाहकर्मा कपालानि सन्तापयति। तत्र च नियम: क्रियते। एवं क्रियमाणमभ्युदयकारि भवतीति। एवमिहापि समानायामर्थावगतौ शब्देनापशब्देन च धर्मनियम: क्रियते। शब्देनैवार्थोऽभिधेयो भवति नापशब्देनेति। एवं क्रियमाणमभ्युदयकारी भवति। सन्ति चाप्रयुक्ता: शब्दा:, यद्यप्येते अप्रयुक्तास्तथापि दीर्घसत्रवत् लक्षणेनानुविधातव्या:। तद्यथा दीर्घसत्राणि वार्षशतिकानि वार्षसहस्रिकाणि नत्वद्यत्वे कश्चिदध्याहरति। केवलं तु ऋषिसम्प्रदायो धर्म इति कृत्वा याज्ञिक: शास्त्रेणानुविदधते। अपि च एते शब्दा देशान्तरेषु प्रयुज्यन्ते। न चोपलभ्यन्ते। उपलब्धौ यत्न: कर्तव्य:। महान्‌ शब्दस्य विषय:। सप्तद्वीपा वसुमती त्रयो लोकाश्चत्वारो वेदा: साङ्गा: सरहस्या बहुधा भिन्ना एकशतमध्वर्यो: शाखा: सहस्त्रवर्त्मा सामवेद:। एकविंशतिधा बाह्वृच्यं नवधाथर्वणो वेद:, वाकोवाक्यमितिहास: पुराणं वैद्यकमित्येतावान्‌ शब्दस्य प्रयोगविषय:। अथ पुन: शब्दस्य ज्ञाने धर्म:, आहोस्वित्‌ प्रयोगे कश्चात्र विशेष:। ज्ञाने धर्म इति चेदधर्मश्च प्राप्नोति। यो हि शब्दं जानाति, अपशब्दानप्यसौ जानाति। यथैव शब्दज्ञाने धर्म: एवमपशब्दज्ञानेप्यधर्म:। अथवा भूयानधर्म: प्राप्नोति। भूयांसोऽपशब्दा: अल्पीयांस: शब्दा:। यस्मादेकस्य हि शब्दस्य बहवोऽपभ्रंशा:। अस्तु तर्हि आचारे नियममृर्षिवेदयते। तेऽसुरा हेलय इति कुर्वन्त: पराबभूवु:। तस्माद्. ब्राह्मणेन न म्लेच्छितवै नापभाषितव्यं ‘म्लेच्छो ह वा एष अपशब्द इति। अस्तु तर्हि प्रयोगे धर्म: सर्वेलोकोभ्युदयेन युज्यते। कश्चेदानीं भवतो मत्सरो: यदि सर्वलोकोभ्युदयेन युज्यते न खलु कश्चिन्मत्सर: प्रयत्नार्थक्यं तु भवति, फलवता च नाम प्रयत्नेन भवितव्यम्‌। न प्रयत्न: फलाद्व्यतिरेच्य:। ननु च ये कृतयत्ना: ते साधीयांस: शब्दान्‌ प्रयोक्ष्यन्ते। त एव साधीयोऽभ्युदयेन योक्ष्यन्ते। व्यतिरेकोऽपि लक्ष्यते कृतयत्नाश्चाप्रवीणा: अकृतयत्नाश्च प्रवीणा: तत्र फलव्यतिरेकोऽपि स्यात्‌। एवं तर्हि ज्ञाने नापि प्रयोग एव। किं तर्हि ज्ञानपूर्वके प्रयोगेऽभ्युदयेन यथा वेदशब्दा नियमपूर्वकमधीता: फलवन्तो भवन्ति। एवं य: शास्त्रपूर्वकान्‌ शब्दान्‌ प्रयुङ्क्ते सोऽभ्युदयेन युज्यते। तथा चोक्तम्‌


यदधीतमविज्ञातं निगदेनैव शब्द्यते।
अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित्‌।।

‘‘दुष्ट: शब्द: स्वरतो वर्णतो वा मिथ्या प्रयुक्तो न तमर्थमाह।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रु: स्वरतोपराधादिति।’’


किं च रक्षोहागमलघ्वसन्देहा: प्रयोजनम्‌। पुराकल्प एतदासीत्‌ ‘‘संस्कारोत्तरकालं ब्राह्मणा व्याकरणं स्माधीयते तेभ्य: स्थानकरणानुप्रदानज्ञेभ्य: तत उत्तरकालं वैदिका: शब्दा उपदिश्यन्ते, तदद्यत्वे न तथा। तथा वेदमधीत्य त्वरिता वक्तारो भवन्ति। वेदान्नो वैदिका: सिद्धा: लोकाच्च लौकिका:। अनर्थकं व्याकरणमिति तेभ्य एवंविप्रतिपन्नबुद्धिभ्योऽध्येतृभ्य आचार्य: प्रयोजनानि व्याचष्टे इमानि प्रयोजनानि नित्यमध्येयं व्याकरणमिति। तत्र

रक्षा तावत्‌ लोपागमवर्णविकारज्ञो हि वेदान् परिपालयिष्यति।
ऊह: खल्वपि न सवैर्लिङ्‌गैर्न सर्वाभिर्विभक्तिभिर्वेदे मन्त्रा निगदिता:। तान्नावैयाकरण: शक्नोति विपरिणमयितुम्‌।
आगम: खल्वपि ब्राह्मणेन निष्कारणो धर्म: षडङ्गो वेदोध्येतव्य इति। प्रथमं च षड्ष्वङ्गेषु व्याकरणम्‌ प्रधानमेव। प्रधाने च कृतो यत्न: फलवान्‌ भवति। फलार्थश्चाध्येयं व्याकरणम्‌।
लघ्वर्थं चाध्येयं व्याकरणम्। ब्राह्मणेन शब्दा ज्ञेया इति। न चान्तरेण व्याकरणं लघुनोपायान्तरेण शब्दा: शक्या ज्ञातुम्‌।
असन्देहार्थं चाध्येयं व्याकरणम्‌। याज्ञिका: पठन्ति : - स्थूलपृषतीमाग्निवारुणीमनड्वाहीमालभेतेति।


तस्यां सन्देह: स्थूला पृषती स्थूलपृषती स्थूलानि पृषन्त्यस्या: स्थूलपृषती तान्नावैयाकरण: स्वरतो व्यवस्यति। यदि पूर्वपदप्रकृतिस्वरत्वं ततो बहुब्रीहि:। अथान्तोदात्तत्त्वं ततस्तत्पुरुष इति। नामाख्यातपदसारूप्यादप्यस्ति सन्देह:, तद्यथा भवत्यश्वोऽजापय: इति भवति शब्द आख्यातिक: क्रियावाचक: प्रथमपुरुषस्यैकवचनम्‌, अस्ति विद्यते भवतीति, तथा कारक वाचक: सप्तम्येकवचनं भवति। त्वयि टुओश्विगतिवृद्ध्योरिति मध्यमैकवचने सिपि शपि च्लिलुङीत्यधिकृत्यास्यतिवक्तिख्यातिभ्योऽङ्‌ इति वर्तमाने ‘जृस्तम्भ०’ इत्यादिनाङि च कृते श्वयते: इत्यत्वे चातो गुणे च पररूपत्वे चाडागमे रुत्वविसर्गयोरश्वो वृद्धवान् क्रियावाचक:। तथा श्रुवृषि कणिगञिविशिष्क्वनित्यौणादिक: कारकवाचकोऽश्वशब्द: जपेर्ण्यन्त लङि मध्यमैकवचने सिच्यडागमे कृते सत्यजापय: जपङ्कारितवानसीति क्रियावाचक: इति। नाख्यातं पदम्‌ अजाया: पयोऽजापय इति कारकवाचकम्‌। तथा तेन इति, तनोतेर्लिटि मध्यमबहुवचने द्विर्वचनैत्वाभ्यासलोपेषु सत्सु क्रियावाचकम्‌, तृतीयैकवचने तु कारकमिति नामाख्यातसादृश्यम्‌ तथा वचनसादृश्यं चास्ति। तद्यथा ते इत्युक्ते तव इत्येकवचनम्‌, द्विवचनं ते कुले इति, बहुवचनं ते पुरुषा इति तस्मादसंदेहार्थमध्येयं व्याकरणम्‌।।