अथ रुधादिप्रकरणम्‌

रुधिर् आवरणे। रुधादिभ्यः श्नम्‌ (पा०सू० ३/१/७८) शपोऽपवाद: सार्वधातुके परत: शकार: श्नसोरल्लोप: (पा०सू० ६/४/१११) इति विशेषणार्थ: रषाभ्याम्‌ (पा०सू० ८/४/१) इति णत्वम्‌ झषस्तथोर्धोऽध: (पा०सू० ८/२/४०) इति धत्वम्‌ अनचि च (पा०सू० ८/४/४७) इति द्वित्वं झलां जश्‌ झशि (पा०सू० ८/४/५३) इति जश्त्वं झरो झरि सवर्णे (पा०सू० ८/४/६५) इति हल उत्तरस्य दकारस्य लोप: रुणद्धि। सार्वधातुके क्ङिति श्नसोरल्लोप: (पा०सू० ६/४/१११) इत्यकारस्य लोप: अनुस्वारपरसवर्णौ शेषं पूर्ववत्‌ रुन्ध:। रुन्धन्ति। लङि तिप्सिपोहल्ङ्यादिलोप: जश्त्वे कृते वाऽवसाने (पा०सू० ८/४/५६) इति चर्त्वम्‌ अरुणत्‌। सिपि जश्त्वे कृते सिपि धातोरुर्वा (पा०सू० ८/२/७४) दश्च (पा०सू० ८/२/७५) इति रुत्वम्‌ अरुण:। अरुणत्‌। अरुणम्‌। लोटि रुणद्धु। रुन्धात्‌। रुन्धाम्‌। रुन्धन्तु। लिङि रुन्ध्यात्‌। रुन्ध्याताम्‌। रुन्ध्यु:। आशिषि रुध्यात्‌। रुध्यास्ताम्‌। लिटि रुरोध। रुरुधतु:। रुरुधु:। रुरोधिथ। लुङि इरितो वा (पा०सू० ३/१/५७) इति च्लेरङ्‌ अरुधत्‌। अरौत्सीत्‌। अरोत्स्यत्‌। रोद्धा। रुरुत्सति। रोरुध्यते। टेरेत्वम्‌ अल्लोपादि रुन्धे। रुन्धाते। रुन्धते। अरुन्ध। अरुन्धाताम्‌। अरुन्धत। रुन्धाम्‌। रुन्धाताम्‌। रुन्धताम्‌। लिङि सीयुट्‌ सलोप: रुत्सीत। रुत्सीयाताम्‌। रुत्सीरन्‌। आशिषि लिङि कित्वं चर्त्वं रुत्सीष्ट। रुत्सीयास्ताम्‌। रुत्सीरन्‌। लिटि रुरुधे। लुङि सिच: कित्वं झलो झलि (पा०सू० ८/२/२६) इति सिज्लोप: अरुन्ध। अरुन्धाताम्‌। अरुन्धत इत्यादि।

भिदिर् विदारणे। भिनत्ति। भिन्त:। भिन्दन्ति। अभिनत्‌। अभिन्ताम्‌। अभिन्दन्‌। सिपि दश्च (पा०सू० ८/२/७५) इति रुत्वम्‌ अभिन:। भिनत्तु भिन्दात्‌। भिन्ताम्‌। भिन्दन्तु। भिन्द्यात्‌। भिन्द्याताम्‌। भिन्द्यु:। आशिषि भिद्यात्। भिद्यास्ताम्‌। भिद्यासु:। बिभेद। बिभिदतु:। बिभिदु:। बिभेदिथ। लुङि इरितो वा (पा०सू० ३/१/५७) इत्यङ्‌ अभिनत्‌। अभैत्सीत्‌। भेत्स्यतेत्यादि। भिन्ते। भिन्दाते। अभिन्त। अभिन्दाताम्‌। अभिन्दत। भिन्ताम्‌। भिन्दाताम्‌। भिन्दताम्‌। भिन्दीत। भिन्दीयाताम्‌। भिन्दीरन्‌। अशिषि भित्सीष्ट। बिभिदे। अभित्त्। भेत्स्यते। अभेत्स्यत इत्यादि।

छिदिर् द्वैधीकरणे। पूर्ववत्‌।

रिचिर् विरेचने। रिणक्ति आत्मानम्‌। रिणक्ति यजमानम्‌। अल्लोपानुस्वारपरसवर्ण रिङ्क्त:। रिञ्चन्ति। लङि अरिणक्‌ अरिणग्‌। अरिङ्क्ताम्‌। अरिञ्चन्‌। लोटि रिणक्तु रिङ्क्ताद्वा। रिङ्क्ताम्‌। रिञ्चन्तु। लिङ रिञ्च्यात्‌। रिञ्च्याताम्‌। रिञ्च्यु:। आशिषि रिच्यात्‌। रिच्यास्ताम्‌। रिच्यासु:। रिरेच। रिरिचतु:। रिरिचु:। रेचिथ। लुङि अरिचत्‌। अरेक्षीत्‌। रेक्ष्यतीत्यादि। रिङ्क्ते। रिञ्चाते। रिञ्चते। अरिङ्क्त शेषं ऊह्यम्‌।

विचिर् पृथग्भावे।

क्षुदिर् संपेषणे। क्षुणत्ति। अक्षुणत्‌। क्षुणत्तु। क्षुन्ताम्‌। क्षुद्यात्‌। चुक्षोद। चुक्षुदतु:। चुक्षुदु:। चुक्षोदिथ। लुटि वा अह अक्षुदत्‌। अक्षोत्सीत्‌। क्षौत्स्यति। अक्षोत्स्यत्‌। क्षोत्ता। चुक्षुत्सति। चोक्षुद्यते। अल्लोप: टेरेत्वम्‌। क्षुन्ते। अक्षुन्त। क्षुन्ताम्‌। क्षुन्दीत। क्षुन्त्सीष्ट। चुक्षुदे। अक्षुन्त। क्षोत्स्यते। अक्षोत्स्यत इत्यादि।

युजिर् योगे। प्रोपाभ्यां युजेर० (पा०सू० १/३/६४) इत्यादि भास्वराद्यतो युजे: यज्ञपात्रविषयादन्यत्र अकर्त्रभिप्रायेक्रियाफले आत्मनेपदं कर्त्रभिप्राये तु सामान्ये तङि इति तत्र शेषत्वात्‌ परस्मैपदम्‌ उभयत्र पूर्वेण तुल्य:।

उतृदिर् हिंसानादरयो:। अनुबन्धयोर्मध्ये धातु:। लडादि पूर्ववत्‌। अभ्यैवेन तृणत्ति इत्येवम्‌। अभियामो अतृणत्‌। तृणत्तु तृद्यात्‌। ततर्द। ततृदतु:। ततर्दिथ। लुङि अतृदत्‌। अतर्दीत। सेसिचि (पा०सू० ७/२/५७) इत्यादिना वा इट्‌ तर्त्स्यति तर्दिष्यति। अतर्त्स्यत्‌ अतर्दिष्यत्‌। तर्दिता। तितृत्सति। तरीतृद्यते। पूर्वानुस्वारेणात्मनेपदेषु रूपनय:।

उच्छृदिर् दीप्तिदेवनयो:। सर्वं पूर्ववत्‌।

।। तृदिदृदिवर्जमनिट्‌ उभयतोभाषा:।।

कृती वेष्टने। कृणत्ति। कृन्त:। कृन्तन्ति। अकृणत्‌। कृणत्तु। कृत्यात्‌। चकर्त। चकृततु:। चकृतु:। चकर्तिथ। अकर्तीत्‌। णौ चङि अचीकृतत्‌ अचकर्ततत्‌। सिज्वर्जितसकारादौ पूर्ववदिड्विकल्प: कर्त्स्यति। अकर्त्स्यत्‌। अकर्तिष्यत्‌ कर्तिता। चिकृत्सति चिकर्तिषति।

।। सेट्‌ परस्मैभाषा:।।

ञिइन्धी दीप्तौ। श्नांनलोप: श्नसोरल्लोपश्च (पा०सू० ६/४/१११) टेरेत्वं तकारस्य धत्वं धकारस्य जस्त्वं इन्धे। समिन्धते युवतय: लङि ऐन्धत। ऐन्धताम्‌। ऐन्धत्‌। लोटि इन्धाताम्‌। इन्धताम्‌। लिङि इन्धीत। इन्धीयाताम्‌। इन्धीरन्‌। आशिषि इन्धिषीष्ट। लिटि इन्धिभवति। कित्वादनुनासिकलोप: समिधेदस्युहन्तम न केवलं छन्दस्येव समीधत इति अपितु भाषायामपि। ननु भाषायामिन्दादित्वादाम्‌ कस्मान्न भवति इन्धे: कित्वविधानात्‌। यदि छन्दस्येवायं प्रयोग: स्यात्‌ इन्धे: परस्य लिट: कित्वविधानमफलं स्यात्‌ लिट्‌ छन्दस्युभयथेति सार्वधातुकसंज्ञायां सार्वधातुकमपिदिति टित्वेनैवाभीष्टसिद्ध: नहीड्विकार्ये कित्वङित्वयोर्विशेषं पश्याम: तेन भाषायामपि समीधत इति प्रयोग: शोभते। लुङि ऐधिष्ट णौ चङि ऐदिधत। ऐन्धिष्यत इत्यादि।

खिद दैन्ये। खिन्ते। अखिन्तेत्यादि। आशिषि लिट: कित्वं खित्सीष्ट। लिटि चिखिदे। लुङि सिच: कित्वं झलि सलोप: अखित्त। खेत्स्यतीत्यादि।

विद विचारणे। पूर्ववत्।

।। इन्धिवर्जमनिट आत्मनेभाषा:।।

शिष्लृ विशेषणे। ष्टुत्वं विशिनष्टि। अल्लोपानुस्वारौ विशिंष्ट:। विशिंषन्ति। कत्वषत्वे विशिनक्षि। लङि व्यशिनट्‌। व्यशिंष्टाम्‌। व्यशिंषत्‌। पुनरपि व्यशिनट्‌। लोटि विशिनष्टु विशिंष्टाद्वा। विशिंष्टाम्‌। विशिंषन्तु। सेर्हि: अल्लोप: हेर्धिभाव: ष्टुत्वं झलां जश् झशि (पा०सू० ८/४/५३) इति जश्त्वं डकार: झरो झरि सवर्णे (पा०सू० ८/४/६५) इति वा तस्य लोप: अल्लोपस्य स्थानिवद्भावत्वेन पदान्तेत्यादिना प्रतिषिद्धे नकारस्यानुस्वारपरसवर्णौ शिगाङित्यङि विशिंष्यात्‌। आशिषि विशिष्यात्‌। लिटि विशिशेष। विशिशिषतु:। विशिशिषु:। विशिशेषिथ। लृङि लृङित्वादङ्‌ व्यशिशिषत्‌। विशेक्ष्यतीत्यादि।

पिष्लृ संचूर्णने। पूर्ववत्‌।

भञ्जो आमर्दने। श्नांनलोप: (पा०सू० ६/४/२३) प्रयोभनक्ति श्नसोरल्लोप: (पा०सू० ६/४/१११) भङ्क्त:। भञ्जन्ति। अभनक्‌। भनक्तु। भङ्क्ताद्वा। भङ्क्ताम्‌। भञ्जन्तु। आशिषि अनिदिताम्‌ (पा०सू० ६/४/२४) इति नलोप: भज्यात्‌। लिटि बभञ्ज। बभञ्जतु:। बभञ्जु:। बभञ्जिथ। लुङि कुत्वपरसवर्ण षत्वानि अभाङ्क्षीत्‌। झलि सलोप: अभाङ्क्ताम्‌। अभाङ्क्षु:। अभाङ्क्षी:। शाखा वृजिनं णौ चङि अबभञ्जत्‌। भङ्क्ष्यतीत्यादि। यङि जपजभ (पा०सू० ७/४/८६) इत्यादिनाभ्यासस्य नुक्‌ बंभक्ष्यते।

भुज पालनाभ्यवहारयो:। भुजोऽनवने (पा०सू० १/३/६६) इति वचनात्‌ पालने परस्मैपदम्‌ भुनक्ति। भुवं नृप इत्यादि पूर्ववत्‌ लिटि बुभोज। बुभुजतु:। बुभुजु:। बुभोजिथ। लुङि अभोक्षीत्‌। भोक्ष्यतीत्यादि। यङि बोभुज्यते। पालनादन्यत्र भुजोऽनवने (पा०सू० १/३/६६) इत्यात्मनेपदम्‌ अल्लोपानुस्वारपरसवर्णा:। भुङ्क्ते। भुञ्जाते। भुञ्जते। अल्लोपानुस्वारपरसवर्णषत्वानि भुङ्क्षे। लङि अभुङ्क्त। लोटि भुङ्क्ताम्‌। भुञ्जीत। आशिषि भुक्षीष्ट। लिटि बुभुजे। लुङि सिच: कित्वं सलोप: अभुक्त। अभोक्ष्यदित्यादि।

तृह हिसि हिंसायाम्‌। श्नं तृहेरङ्गस्य हलादौ पिति सार्वधातुके तृहणह इत्यनेनेमागम: आद्गुण: (पा०सू० ६/१/८७) हो ढ: (पा०सू० ८/२/३१) इति ढत्वं धत्वष्टुत्वे ढलोप इति क्रमेण कार्याणि तृणेढि। तृण्ढ:। तृंहन्ति। लटि तिप्सिपोर्हल्ङ्यादिलोप: प्रत्ययलक्षणेन इमागम: हो ढ: (पा०सू० ८/२/३१) ढत्वे चर्त्वे अतृणेट्‌। अतृण्ढाम्‌। अतृहन्‌। लोटि तृणेढु तृण्ढात्‌। तृण्ढाम्‌। तृंहन्तु। मध्यमैकवचने सेर्हि: तस्यापित्वान्तमागम: अल्लोप: ढत्वादिपूर्ववत्‌ तृणेढि। लिङि अल्लोपात्‌ तृह्यात्‌। लिटि ततर्ह। लुङि अतर्हीत्‌। अतर्हिष्यदित्यादि।

हिंसि हिंसायाम्‌। इदित्वान्नुं श्नान्नलोप: (पा०सू० ६/४/२३) हिनस्ति। श्नसोरल्लोप: (पा०सू० ६/४/१११) हिंस्त:। हिंसन्ति। लिङि तिप्सिपोर्हल्ङ्यादिलोप: तिपि तिप्यनस्ते: (पा०सू० ८/२/७३) इति दत्वं चर्त्वं अहिनत्‌। अहिंस्ताम्‌। अहिंसन्‌। मिपि सिपि धातोर्वेति दत्व उत्वे अहिंसनस्य अहिनत्वम्‌। लोटि हिनस्तु हिंस्तात्‌। हिंस्ताम्‌। हिंसन्तु। मध्यमैकवचने हेर्धिभाव: अल्लोप: झलां जश् झशि (पा०सू० ८/४/५३) इति जश्त्वं सकारस्य दकार: शेषं पूर्ववत्‌। लिङि हिंस्यात्‌। हिंस्याताम्‌। आशिषि हिंस्यात्‌। हिंस्यास्ताम्‌। लिटि जिहिंस। लुङि अहिंसीत्‌। अहिंसिष्टामित्यादि।

उन्दी क्लेदने। श्नान्नलोप: (पा०सू० ६/४/२३) चर्त्वम्‌ उनक्ति। भूमी यवनवृष्टिभुनक्ति भूम। अल्लोप: उन्त:। उन्दन्ति। लटि समुद्र स्कचितोषुनत्‌। औताम्‌। उन्दन्‌। सिचि उत्वम्‌ उनत्तु उन्ताद्वा। उन्ताम्‌। उन्दन्तु। उद्यात्‌। उद्याताम्‌। उद्यु:। उद्यात्‌। उद्यास्ताम्‌। उद्यासु:। लिटि उदाञ्चकार। लुङि औदीत्‌। औदिष्टाम्‌। औदिषु:। णौ चङि औदिदत्‌। उन्दिष्यतीत्यादि।

अञ्जू व्यक्तिम्लक्षणगतिषु। अनक्ति। अनक्त:। अञ्जन्ति। त्वामध्ये लङि आनक्‌। आङ्क्ताम्‌। आञ्जन्‌। अनक्तु अङ्क्ताद्वा। अङ्क्ताम्‌। अञ्जन्तु। अञ्ज्यात्‌। अञ्ज्याताम्‌। अञ्ज्यु:। आशिषि नलोप: अज्यात्‌। अज्यास्ताम्‌। अज्यासु:। लिटि तस्मान्नुड्‌द्विहल: (पा०सू० ७/४/७१) इति नुट्‌ आनञ्ज। आनञ्जतु:। आनञ्जु:। उदित्वादिड्विकल्प: आनञ्जिथ। आनञ्जथु:। तथा वस्मसोरपि लुङि अञ्जे: सिचि (पा०सू० ७/२/७१) इति नित्यमिट्‌ आञ्जीत्‌। आञ्जिष्टाम्‌। आञ्जिषु:। आञ्जिष्यति। आङ्क्ष्यतीत्यादि। सनि स्मिपूङ्‌रञ्ज्वशां सनि (पा०सू० ७/२/७४) इति नित्यमिड्‌ अञ्जिजिषति।

तञ्जू संकोचने।

ओविजी भयचलनयो:।

वृजि वर्जने।

पृचि संपर्के। तनङ्क्ति। विनङ्क्ति। वृणक्ति।

।। शिषादयो भुजिपर्यन्ता भुजपर्यन्ता अनिट: सर्वे परस्मैभाषा:।।

इति हरियोगिन: प्रोलनाचार्यस्य कृतौ शाब्दिकाभरणे श्नंविकरण रुधादय: समाप्ता:।