स्वादिप्रकरणम्‌

षुञ् अभिषवे। सत्वं पूर्ववल्लडादिकार्यम्‌ स्वादिभ्य: श्नु: (पा०सू० ३/१/७३)। शपोऽपवाद: तस्य शित्वात्‌ सार्वधातुकत्वं तेन ङित्वाद्धातोर्गुणाभाव: तिपि सार्वधातुके गुण: सुनोति। उपसर्गादिण: परस्य उपसर्गात्‌ सार्वधातुकत्वं तेन सुनोतीत्यादिना षत्वम्‌ अभिषुणोति। ङित्वादगुणत्वं सुनुत: इको यणचि (पा०सू० ६/४/७७) इति यणं बाधित्वोवङ्‌ प्राप्तस्तं बाधित्वा स्नुप्रत्ययान्तस्यासंयोगपूर्वस्याजादौ प्रत्यये हुश्नुवो: सार्वधातुके (पा०सू० ६/४/८७) इति यणादेश: संयोगपूर्वस्य तु उवङेव सुन्वन्ति। सुनोषि। सुनुथ:। सुनथ। सुनोमि। वस्मसो: लोपश्चास्येत्यादिना वा उकारलोप: सुन्व: सुनुव:। सुन्म: सुनुम:। अड्‌व्यवायेऽपीति षत्वं अभ्यषुणोत्‌। लोटि सुनोतु सुनुतात्‌। सुनताम्‌। सुन्वन्तु। सेर्हि: उतश्च प्रत्ययादसंयोगपूर्वात्‌ (पा०सू० ६/४/१०६) इति हेर्लुक्‌ सुनु सोममुलूखलम्‌। लिङि सुनुयात्‌। सुनुयाताम्‌। आशिषि सूयात्‌। सूयास्ताम्‌। लिटि अभिषुषाव। स्थादिष्वत्याभ्यासेन (पा०सू० ८/३/६४) इति नियमादुपसर्गात्‌ परस्यापि षत्वाभाव: उवङ्‌ आदेश: सुषुवतु:। सुषुवु:। सुषुविथ सुषोथ। लुङि स्तुसुधूञ्भ्य: परस्मैपदेषु (पा०सू० ७/२/७२) इति इट्‌ सिचि वृद्धि: असावीत्‌। णौ चङि असूसुवत्‌। अभिसोस्यति। अभ्यसोस्यत्‌। अत्र सुनोते: स्यसनो: (पा०सू० ८/३/११७) इति षत्वप्रतिषेध: लुटि अभिषोता। अभिसुसूषति। अत्र स्तौतिण्योरेव (पा०सू० ८/३/६१) इति नियमादभ्यासात्‌ परस्य षत्वाभाव: उपसर्गात्‌ परस्य तु स्थादिष्वेवेति नियमात्‌ तर्हि सन्ग्रहणमनर्थकमिति न वाच्यम्‌ सनन्तात्‌ क्विपि षत्वप्रतिषेधार्थत्वात्‌ सुनुते। असुनुत। सुनुताम्‌। सीयुट्‌ सलोप: हुश्नुवो: (पा०सू० ६/४/८७) इति यण्‌ सुन्वीत। आशिषि सोषीष्ट। सुषुवे। असोष्ट। सोष्यत इत्यादि।

षिञ् बन्धने। सिनोति। असिनोत्‌। सिनोतु। सिनुयात्‌। सिनुते। असिनुत। सिनुताम्‌। सिन्वीत। सीयात्‌। सेषीष्ट। सिषाय। सिषिये। लुङि सिचि वृद्धि: असैषीत्‌। असेष्ट।

शिञ् निशामने। पूर्ववत्‌।

डुमिञ् प्रक्षेपणे। मिनोति। अमिनोत्‌। मिनुते। अमिनुतेत्यादि। आशिषि मीयात्‌। मीनातिमिनोतिदीङां त्यपि च (पा०सू० ६/१/५०) इत्येज्विषये आत्वं मासीष्ट। लिटि ममौ। मिम्ये। लुङि पूर्ववदात्वं न्यमासीत्‌। न्यमास्त। न्यमीमयत। मास्यति। मास्यते। सनि मित्सति मित्सते। मेमीयते।

चिञ् चयने। चिनोति। चिनुत:। चिन्वन्ति। चिनुते। चिन्वाते। चिन्वते। आशिषि चीयात्‌। चेषीष्ट। लिटि विभाषा चे: (पा०सू० ७/३/५८) इति अभ्यासात्परस्य वा कुत्वम्‌ चिचाय। चिकाय। चिच्ये। चिक्ये। लुङि अचैषीत्‌। अचेष्ट। णौ चङि चिस्फुरोर्णावित्यात्वपक्षे पुक्‌ अचीचपत्‌। अन्यत्र अचीचयत्‌। चेष्यति। चेष्यते। सनि वा कुत्वं सनि चिचीषति। चिकीषति। चिचीषते। चिकीषते।

स्तॄञ् आच्छादने। स्तृणोति। अस्तृणोत्‌। स्तृणोतु स्तृणुतात्‌। स्तृणुयात्‌। आशिषि गुणोर्तिसंयोगाद्यो: (पा०सू० ७/४/२९) इति गुण: स्तर्यात्‌। लिटि शर्पूर्वा: खय (पा०सू० ७/४/६१) इति अभ्यासादिभूता: खय: शिष्यन्ते आदिभूता: शरो लुप्यन्ते तस्तार। ऋतश्च संयोगादेर्गुण: (पा०सू० ७/४/११०) इति गुण तस्तरतु:। तस्तरु:। क्रादिनियमप्राप्त इट्‌ ऋतो भारद्वाजस्य (पा०सू० ७/२/६३) इति थलि निषिध्यते तस्तर्थ। लुङि अस्तार्षीत्‌। ऋद्धनो: स्य (पा०सू० ७/२/७०) इतीट्‌ स्तरिष्यति। स्तर्ता। सनि कित्वदीर्घत्वेषु कृतेषु द्विरुक्ति: तिस्तीर्षति। यञ गुणोर्तिसंयोगाद्यो: (पा०सू० ७/४/२९) यङि चेति गुण: अभ्यासकार्यं तास्तर्यते। ङित्वादात्मनेपदम्‌ स्तृणुते। अस्तृणुत। स्तृणुताम्‌। स्तृण्वीत। आशिषि उश्च (पा०सू० १/२/१२) इति कित्वम्‌ स्तृषीष्ट। ऋतश्च संयोगा० (पा०सू० ७/४/१०) इतीट्‌ कित्वाभावाद्‌ गुण: स्तर्षीष्ट। लिटि ऋतश्च संयोगादेर्गुण: (पा०सू० ७/४/१०) इति गुण: तस्तरे। तस्तराते। लुङि पूर्ववत्‌ कित्वं ह्रस्वादङ्गात्‌ (पा०सू० ८/२/२७) इति सलोप: अस्तृत। इट्‌ सनि वा लिङ्‌ सिचावात्मनेपदेषु (पा०सू० १/२/११) इत्यधिकृत्य ऋतश्च संयोगा० (पा०सू० ७/४/१०) इतीड्विकल्प: अस्तरिष्ट। स्तरिष्यते इत्यादि।

कृञ् हिंसायाम्‌। कृणोति। कृणुत: इत्यादि। तथा कृणुते इत्यादि।

वृञ् वरणे। वृङ्‌वृञाविति सेट्‌त्वं सिचि वृद्धि: अवारीत्‌। अवारिष्टाम्‌। अवारिषु:। लृलुटो: वरिष्यतीत्यादि। सनि इट्‌ सनि वा (पा०सू० ७/२/४१) इति ईट्‌ पक्षे दीर्घविकल्प: विवरिषति विवरीषति। इडभावे झलि सनि दीर्घ: यो ह्युभयस्थाने भवति लभते सौ अन्यतरव्यपदेशमिति दन्त्योष्ठ्यो वकार ओष्ठ्योऽपि भवति इति उदोष्ठ्यपूर्वस्य (पा०सू० ७/१/१०२) इत्युत्वम्‌ हलि च (पा०सू० ८/२/७७) इति दीर्घ: वुवूर्षति। यङि रीङृत: (पा०सू० ७/४/२७) इति रीङ्‌ वेव्रीयते। तथा वृणुते। अवृणुत। वृणुताम्‌। वृण्वीत। आशिषि वॄतो वा (पा०सू० ७/२/२८) इत्यधिकृत्य लिङ्‌सिचावात्मनेपदेषु (पा०सू० १/२/११) इति इड्विकल्प: न लिङि (पा०सू० ७/२/३९) इति इटो दीर्घत्वप्रतिषेध: वरिषीष्ट। लिटि वव्रे। वव्राते। वव्रिरे। वलादौ क्रादिसूत्रेणेट्‌ प्रतिषेध: लुङि अवृत। अवरिष्ट अवरीष्ट शेषं नेयम्‌।

धुञ् कम्पने। धुनोति। धुनुते। आशिषि धूयात्‌। धोषीष्ट। लिटि दुधाव। दुधुवतु:। दुधुवु:। दुधोथ। दुधविथ। दुधुवे। दुधुवाते। अधौषीत्‌। अधोष्ट। णौ चङि अदूधुवत्‌। धोष्यति। धोष्यते।

।। वृवर्जमनिट उभयतोभाषा:।।

टुदु उपतापे। दुनोतीत्यादि पूर्ववत्‌।

क्षि क्षये। क्षिणोति। अक्षिणोत्‌। क्षिणुयादित्यादि।

गृधु अभिकाङ्‌क्षायाम्‌। गृध्नोति। अगृध्नोत्‌ इत्यादि।

हि गतौ वृद्धौ च। उपसर्गात्‌ परस्य हिनु मीनोति णत्वं प्रहिणोति। प्राहिणोत्‌। प्रहिणोतु। प्रहिणुयात्‌। आशिषि प्रहीयात्‌। लिटि हेरचङीत्यभ्यासात्परस्य कुत्वं घकार: प्रजिघाय। प्रजिघ्यतु:। प्रजिघ्यु:। लुङि प्राहयिषीत्‌। णौ चङि प्राजीहयत्‌। प्रहेष्यतीत्यादि। सनि प्रजिहीर्षति। यङि प्रजेघीयते।

ष्टु स्तुतौ। स्तुनोतीत्यादि।

स्पृ प्रीतिपालनयो:। स्पृणोति। अस्पृणोत्‌ इत्यादि। लुङि अस्पार्षीत्‌। अस्पार्षमेनं शतशारदाय।

आप्लृ व्याप्तौ। आप्नोति। आप्नुत:। संयोगादित्वेन हुश्नुवो: सार्वधातुके (पा०सू० ६/४/८७) इति यण्‌ न भवति उवङादेश: आप्नुवति। लङि आप्नोत्‌। आप्नोतु। आप्नुयात्‌। आशिषि आप्यात्‌। लिटि आप। लुङि लृदित्वादङ्‌ आपत्‌। आप्स्यतीत्यादि। सनि आप्ज्ञपप्यृधामीत्‌ (पा०सू० ७/४/५५) इतीत्वम्‌ अभ्यासलोपश्च ईप्सति।

शक्लृ शक्तौ। शक्नोति। अशक्नोत्‌। शक्नोतु। शक्नुयात्‌। शक्यात्‌। शशाक। शेकतु:। शेकु:। शेकिथ शशक्थ। लुङि अङ्‌ शक्ष्यतीत्यादि। सनि सनि मीमा० (पा०सू० ७/४/५४) इत्यादिकार्यम्‌।

शिक्षे र्जिज्ञासायाम्‌ इति वचनादात्मनेपदं शिष्यते शिष्यति।

राध साध संसिद्धौ। राध्नोति। अराध्नोत्‌। राध्नुयात्‌। राध्यादित्यादि एवं साधेरपि।

श्रु श्रवणे। स्वादिभ्य: श्नु: (पा०सू० ३/१/७३) श्रुव: शृ च (पा०सू० ३/१/७४) इति शृभाव: अश्च शृणोति। अशृणोत्‌। शृणुयात्‌। श्रूयात्‌। शुश्राव। शुश्रुवतु:। शुश्रुवु:। क्रादिसूत्रेण नित्यमिट्‌प्रतिषेध: शुश्रोथ। लुङि अश्रौषीत्‌। श्रोष्यतीत्यादि। णौ चङि अशुश्रवत्‌ अशिश्रवत्‌। श्रोष्यतीत्यादि। सनि ज्ञाश्रुस्मृदृशाम्‌ (पा०सू० १/३/५७) इत्यात्मनेपदं शुश्रूषते। संपूर्वात्‌ समो गम्यृच्छी (पा०सू० १/३/२९) इत्यादिनात्मनेपदम्‌ संशृणुते। आशिषि संश्रोषीष्ट। ध्वमि संश्रोषीढ्वम्‌। लिटि संशुश्रुवे। लुङि समश्रौष्ट।

।। अनिट्‌ परस्मैभाष:।।

अशू व्याप्तौ। अश्नुते। आश्नुत। अश्नुताम्‌। अश्नुवीत। आशिषि ऊदित्वादिड्विकल्प: अक्षीष्ट आशिषीष्ट। लिटि अत आदे: (पा०सू० ७/४/७०) इति दीर्घभूतादभ्यासात्‌ परस्याश्नोतेश्चेति नुट्‌ आनशे। आनशाते। लुङि आष्ट। स्वेदुहव्यै: आशिष्ट। अक्ष्यते अशिष्यते। सनि स्मिपूङ्‌रञ्ज्व (पा०सू० ७/२/७४) इत्यादिना नित्यमिट्‌ अशिशिषते। ऊदित्वादिड्विकल्प: आत्मनेभाष:।

ञिधृषा प्रागल्भ्ये। धृष्णोति अधृष्णोत्‌।

दम्भु स्तम्भे। अनिदिताम्‌ (पा०सू० ६/४/२४) इति न लोप: दभ्नोति। दभ्नुत:। दभ्नुवन्ति। भून्नय अदभ्नोत्‌। दभ्नोतु। दभ्नुयात्‌। दभ्यात्‌। लिटि नकारस्यानुस्वार: ददम्भ। श्रन्थिग्रन्थि इति कित्वान्नलोप: आभादसिद्धस्य अनित्यत्वाद् अत एकहल्मध्ये० (पा०सू० ६/४/१२०) इत्यादिकार्यं देभतु:। देभु: नार्घागिन्द्रं प्रतिमानानि देतू: ददम्भिथ। लुङि अदम्भीत्‌। दम्भिष्यतीत्यादि। सनीवन्तर्ध० (पा०सू० ७/२/४९) इतीट्‌पक्षे दिदम्भिषति। अन्यत्र दम्भ इच्च (पा०सू० ७/४/५६) इति इत्वे कृते अभ्यासलोप: हलन्ताच्च (पा०सू० १/२/१०) इत्यत्र हल्ग्रहणस्य जातिवाचकत्वात्‌ कित्वं नलोप: भष्भाव: चर्त्वं धिप्सति। यङि दादभ्यते।

ऋधु वृद्धौ। समृध्नोति। समार्ध्नोत्‌। समृध्नोतु। समृध्नुयात्‌। इत: पर मृध्यतिवत्‌ लुङि तु समार्धीत्‌ इत्यादि।

।। सेट: परस्मैभाषा:।।

इति हरियोगिन: प्रोल्लनाचार्यस्य कृतौ शाब्दिकाभरणे श्नुविकरणा: स्वादय: समाप्ता:।।