भू सत्तायाम्। उदात्त: परस्मैभाष:। भू इत्ययं धातु: सत्तायामर्थे वर्तते। भू इति स्थिते भूवादयो धातव: (पा०सू० १/३/१) भू इत्येवमादय: शब्दा: क्रियावाचिनो धातुसंज्ञा भवन्ति। साध्यमानरूपा हि क्रिया। सा च पूर्वापरीभूतावयवा तत्र पूर्वावयवोऽधिश्रयणादिरपर उदकसेकादि: पाकक्रियाया: एवमन्यासामपि यदि पूर्वापरीभूतावयवा क्रिया तद्वाचक: शब्दो धातु: कथं तर्हि भवतेरर्थस्य क्रियात्वम्। पूर्वापरीभावस्यैवासम्भवात्। तथाहि भवतिरयं सत्तार्थ:। सत्ता च नित्या नित्यस्य चाक्रियारूपत्वात् पौर्यापर्यं नास्ति कथं तद्वाचकस्य धातुसंज्ञा, तथा अभावो नाम विनाश: स कथं क्रिया भवेत्। नहि तस्य पौर्वापर्यमस्ति। कथं तद्वाचकस्य नशेर्धातुत्वम्। श्वेतसंयोगावपि गुणौगुणत्वाच्च पौर्यापर्यं नास्तीति कथंचित् कथं युजे: संयुजेश्च धातुत्वं समवायोऽपि नित्यत्वादक्रमत्वाच्च। क्रियातोत्यन्तभिन्न एवेति तद्वाचिन: समवपूर्वस्य इणो न धातुत्वमिति, उच्यते इह व्याकरणे सर्व साधनायत्तोदयमिति नित्यमपि वस्तु पूर्वापरीभावेनोच्यमानं क्रियात्वेनावभासते। अयमर्थ:-सत्तावत: पदार्थस्यार्थ: क्रियायां पूर्वापरीभावेन व्यापारोपलम्भात् तद्गता सत्तापि पूर्वापरीभूता बुद्ध्या कल्प्यते। तन्निबन्धनस्तस्यामपि क्रियाव्यवहार एवमभावादिष्वपि तथा वदनैकदेशे द्रव्येऽपि वर्तमानस्य गण्डे: पूर्ववद्धातुत्वम्। तेन गण्ड इति सिद्धम्। तथा बिदि अवयवे इति अवयवे द्रव्येऽपि बिन्दुरिति। अथवा अक्रियावाचिनामपि क्रियावाचिषु मध्येपाठाद्धातुत्वं वेदितव्यम्। नन्वङ्कुरो जायत इति कथमिदं, तथा हि प्रादुर्भाव: कर्तृत्वं चेति द्वितीयमिह न घटते प्रादुर्भावोह्यसत: उत्पत्ति: कर्तृत्वं च सत इति परस्परं विरुद्धयो: कर्मणोरेकं सन्धित्सतेऽन्यत् प्राच्यवत इति सत्यमेकस्य विरुद्धकर्मद्वयानुसन्धानं न घटते। अत्र तु द्वयमस्ति। सामान्यं विशेषश्च तत्राङ्कुरसामान्यं कर्तृ तद्विशिष्टा च व्यक्ति:। पूर्वमसति जायते अन्तस्तत्वगृहीत: पूर्वमदृष्टाङ्कुर: कर्ता बाह्यरूपतया च जन्म, जन्मनि चाभूतप्रादुर्भाव एवेति न वक्तव्यम् अन्य: कर्तान्यश्च बाह्ये जायते। ततो भिन्नविषयत्वादयुक्तमिति अन्तस्तत्वगृहीतस्य बाह्ये नैकत्वाध्यवसायात्। तथाहि य एव मयाध्यवसित: स एवायं दृश्यते बाह्य इति। दृश्यविकल्पयोरेकत्वेन व्यवहारो दृश्यते। यथोक्त दृश्यविकल्पार्थावेकीकृत्य व्यवहारप्रवृत्तेरिति सत्कार्यवादिनां तु मते कारणमेव कार्यरूपेण विपरिणमत इति युक्तम्। कर्तृत्वमङ्कुरादे: कारणावस्थायामेव कार्यस्य शक्तिरूपेण विद्यमानत्वात् आविर्भावश्च जन्मार्थ:। स च पूर्वमपि सत एवेति अभूतप्रादुर्भावो जन्मापि संगच्छत एवेति। एवमङ्कुरो भवति अथवा प्रकृतिविकार-भावविवक्षायां तु च्विप्रत्यय: बीजमङ्कुरीभवतीति। न खल्वत्यन्तमसत उत्पत्ति: प्रादुर्भाव: अपि तु जायते विशेषणोपलभ्यते। पत्रकाण्डनालादिभावेन स्फुटीभवतीत्यर्थ:। तथाहि प्राहुर्भाशब्द: प्रकाशेऽभिधानकाण्डेषु पठ्यते प्रकाशश्च सत एव भवति। अतोङ्कुरस्यैव कर्तृत्वमिति पूर्वापरीभावो हि जन्मनिपातादि-क्रियावद्विद्यत इति सर्वमनवद्यम्। सा च क्रिया द्विविधा परिस्पन्दनसाधनसाध्या अपरिस्पन्दनसाधनसाध्या। तत्र परिस्पन्दनसाधनसाध्यो धात्वर्थ: क्रियेत्युच्यते इतरस्तु भाव इति। सा पुनरपि द्विविधा कर्मस्था कर्तृस्था चेति। तत्र कर्मसमवायेनोत्पद्यमाना कर्मस्था क्रिया कुसूलं भिनत्तीति। कर्मस्थो भाव: ओदनं पचतीति। कर्तरि समवेतोत्पद्यमाना कर्तृस्था। गच्छति ग्राममिति कर्तृस्था क्रिया। आस्ते शेत इति कर्तृस्थो भाव:।
भू इत्येतस्य धातुसंज्ञायां क्रियाप्रधानत्वार्थविशेषणाय कालकारकविशेष-विवक्षायां तावद्वर्तमानकाल उपतिष्ठते। प्रत्ययार्थत्वेन कर्ता च ततो धातो: (पा०सू० ३/१/९०) इत्यधिकृत्य वर्तमाने लट् (पा०सू० ३/२/०२३)। कश्च वर्तमान: प्रारब्धापरिसमाप्तश्च वर्तमानस्तस्मिन् वर्तमानेऽर्थे वर्तमानाद्धातोः लट्प्रत्ययो भवति। कर्तरि कृत् (पा०सू० ३/४/६७) इत्यधिकृत्य ल: कर्मणि च भावे चाकर्मकेभ्य: (पा०सू० ३/४/६९) लकारा: सकर्मकेभ्य: कर्मणि अकर्मकेभ्यो भावे उभयेभ्यश्च कर्तरि भवन्तीति। ततो लट: प्रत्ययत्वेन परश्च (पा०सू० ३/१/२) इति धातो: परत्र कर्त्रर्थप्रयोगप्रसङ्गे ‘लस्य इत्यधिकृत्य तिप्तस्झिसिप्तस्थमिब्वसमस्ताताञ्झथासाथांध्वमिड्वहिमहिङ् (पा०सू०३/४/७८) तिबादयः अष्टादश प्रत्यया लस्य स्थाने भवन्ति। ततो युगपत्तिबादिसर्वप्रत्ययप्रसङ्गे शेषात् कर्तरि परस्मैपदम् (पा०सू० १/३/७८) कश्च शेष: उपयुक्तादन्य: शेष: येभ्यो धातुभ्यो येन विशेषणेनात्मनेपदं न विहितं शेष:। तत्र कर्तरि परस्मैपदं भवति। स च चतुर्विध:-
अर्थादुपपदाच्चैव तथा चैवानुबन्धनात्।
कारकाच्चेति विज्ञेय: तस्माच्छेषश्चतुर्विध:।।इति।
अर्थात् भुजपालनाभ्यवहारयोरित्येतस्मात् भुजोनऽवने इत्यवनादन्यत्रात्मनेपदविधानादवनार्थ: शेष: तथोपपदात् नेर्विश (पा०सू० १/३/१७ ) इति नेरुपपदात् विशेरात्मनेपदविधानात् अन्योपपदपूर्व: केवलश्च विशिश्शेष:। विशिग्रहणमुपलक्षणम्। अनुबन्धाच्छेष:। अनुदात्तङित: स्वरितञितश्च वर्षयित्वा योऽन्यो धातु: स शेष:। कारकाच्छेष:। शुद्ध: कर्ता कर्मकर्तरि शुद्धे कर्मणि भावेकर्तरि कर्मव्यतिहारविषये कर्तरि च यथाक्रमं कर्मवत्कर्मणा तुल्यक्रिय: (पा०सू० ३/१/८७) भावकर्मणो: (पा०सू० १/३/१३) कर्तरि कर्मव्यतिहारे (पा०सू० १/३/१४) इत्यात्मनेपदविधानात् तत्र भवते: कर्तरि परस्मैपदसंज्ञकेन वचनप्रसङ्गे शेषविवक्षायां शेषे प्रथम: (पा०सू० १/४/००७) कश्च शेष: उच्यते- युष्मदष्मदो: प्रयोगे समानाधिकरणयो: तत्प्रसंगे च मध्यमोत्तमपुरुषविधानात् ततोऽन्य: किंयत्तदेतद्भगवदादीनां प्रयोगप्रसङ्गे य: स शेष:। तत्र प्रथमपुरुष:, तत्र वचनत्रयप्रसङ्गे द्व्येकयोर्द्विवचनैकवचने (पा०सू० १/४/२२) प्रसङ्गे एकत्व विवक्षायां कर्तुरेकवचनम् लार्थाभिधानसमर्थस्तिबित्ययं शब्द: सानुबन्ध: प्रयुज्यते उच्चरितप्रध्वंसिनोऽनुबन्धा: कार्यार्था:। प्रकृतिप्रत्ययविकारागमेष्वनुबध्यन्ते तत तिङ्शित् सार्वधातुकम् (पा०सू० ३/४/००३) तिङ: शितश्च धात्वधिकारविहिता: प्रत्यया: सार्वधातुकसंज्ञा भवन्ति सार्वधातुके यक् (पा०सू० ३/१/६७) इति वर्तमाने कर्तरि शप् (पा०सू० ३/१/६८) शुद्धकर्तृवाचिनि सार्वधातुके परतो धातो: शप् प्रत्ययो भवति। इहैकयैव संज्ञया नेकं कार्यं क्रियत इति दर्शने लकारोत्पत्तिनिमित्तभूतामेव धातुसंज्ञामाश्रित्य भवते: शप् प्रत्यय: प्रतिकार्यं संज्ञाप्रवृत्तिरित्यस्मिन् दर्शने पुनरपि धातुसंज्ञा कर्तव्या यस्मात्प्रत्ययविधिस्तदादिप्रत्ययेऽङ्गम् (पा०सू० १/४/०३) इत्यङ्गसंज्ञायां अङ्गस्य (पा०सू० ६/४/१) इत्यधिकृत्य सार्वधातुकार्धधातुकयो: (पा०सू० ७/३/८४) सार्वधातुके आर्धधातुके च परत: इगन्तस्याङ्गस्य गुणो भवतीति गुण: एचोऽयवायाव: (पा०सू० ६/१/७८) इत्यवादेश भवति। द्वित्वविवक्षायां भवत:। बह्वर्थविवक्षायां बहुषु बहुवचनम् (पा०सू० १/४/२०) इति बहुवचनं झोऽन्त: (पा०सू० ७/१/३) प्रत्यायादेर्झस्यान्त इत्ययमादेशो भवति। अकार उच्चारणार्थ: शपोकारेण अतो गुणे (पा०सू० ६/१/९७) पररूपत्वं सवर्णदीर्घो न भवत्यपदान्तत्वात् भवन्ति। भवसि। भवथ:। भवथ। उत्तमपुरुषे तदादिवचनस्यादिनुमर्थमिति वचनात् शब्विकरणस्याङ्गसंज्ञायां अतो दीर्घो यञि (पा०सू० ७/३/०००) अकारान्तस्याङ्गस्य यञादौ सार्वधातुके परतो दीर्घो भवति। भवामि। भवाव:। भवाम:। ‘भूते (पा०सू० ३/२/८४) इत्यधिकृत्य अनद्यतने लङ् (पा०सू० ३/२/०००) भूतानद्यतनविशिष्टेऽर्थे वर्तमानाद्धातो: लङ्प्रत्ययो भवति लुङ्लङ्लृङ्क्ष्वडुदात्त: (पा०सू० ६/४/७०) लुङ् लङ् लृङ् इत्येतेषु परतोङ्गस्याडागमो भवति परस्मैपदाधिकारे नित्यं ङित: (पा०सू० ३/४/९९) इत्यधिकृत्य इतश्च ङिल्लकारसंबंधिन: परस्मैपदेकारस्य लोपो भवति। अभवत्। नित्यं ङित: (पा०सू० ३/४/९९) इत्यधिकृत्य तस्थस्थमिपां तान्तन्ताम: (पा०सू० ३/४/१०१) ङिल्लकारसंबंधिनां तस्थस्थमिपां यथासङ्ख्यं ताम् तम् त अम् इत्येते आदेशा भवन्ति। अभवत। इतश्च लोपे कृते सुप्तिङन्तं पदम् (पा०सू० १/४/०४) इति पदसंज्ञायां संयोगान्तस्य लोप: (पा०सू० ८/२/२३) संयोगान्तस्य पदान्तस्य लोपो भवति इति तकारलोप: अभवत्। अभव:। अभवतम्। अभवत। अभवम्। नित्यं ङित: (पा०सू० ३/४/९९) ङिल्लकारसम्बन्धिन: उत्तमपुरुषसकारस्य नित्यं लोपो भवति, दीर्घ: पूर्ववत् अभवाव। अभवाम। विध्यादिष्वर्थेषु प्रत्ययार्थविशेषणेषु सत्सु तदधिकारे लोट् च (पा०सू० ३/३/०६२) विध्यादिष्वर्थेषु प्रत्ययार्थविशेषणभूतेषु धातोर्लोट् प्रत्ययो भवति। सर्वलकाराणामपवाद:। प्रैषादिसर्गप्राप्तकालेषु कृत्याश्च (पा०सू० ३/३/०६३) इति लोडित्यनुवर्तते। प्रैषादिष्वर्थेषु कृत्यप्रत्यया भवन्ति चकाराल्लोट् च आशिषि लिङ्लोटौ (पा०सू० ३/३/०७३) आशंसनमाशी: इष्टस्यार्थस्य प्राप्तुमिच्छाप्रकृत्त्यर्थविशेषणं चेतत् आशीर्विशिष्टेऽर्थ वर्तमानाद्धातोर्लिङ्लोटौ प्रत्ययौ भवत: क्रिसमभिहारे लोटो हिस्वौ वा च तद्ध्वमो: पौन: पुन्यं भृशार्थो वा क्रियासमभिव्याहार:। प्रकृत्यर्थविशेषणं चैतत् समभिव्याहारविशिष्टक्रियावचनाद्धातो: लोट् प्रत्ययो भवति। सर्वलकाराणमपवाद: तस्य लोट: हि स्व इत्येतावादेशौ भवत:। तत्र परस्मैपदिभ्यो धातुभ्यो परस्मैपदवचनापवादेन हिरादेश:। आत्मनेपदिभ्यस्तु स्वादेश: तद्ध्वम्भाविनस्तु वा भवत:। भवतेः धातुसंज्ञादि पूर्ववदनुसन्धेयम् एरु: (पा०सू० ३/४/८६) लोडित्येव लोडादेशानामिकारस्य उकारादेशो भवति। एकदेशविकारद्वारेण तिशब्दस्य स्थाने तु शब्द:। तथा चोक्तम्-
सर्वे सर्वपदादेशा दाक्षीपुत्रस्य पाणिने:।
एकदेशविकारे तु नित्यत्वं नोपपद्यते।। इति।
लोटो लङ्वत् (पा०सू० ३/४/८५) लोट् संबंधिनां लङ्वत् कार्यं भवति तच्च तामादय: सलोपश्च। भवताम्। भवन्तु। सेर्ह्यपिच्च (पा०सू० ३/४/८७) लोडित्येव लोडादेशस्य सेर्हिरादेशो भवति। आशिषिविषये तातङादेशो भवति अतो हे: (पा०सू० ६/४/१०५) अकारादङ्गादुत्तरस्य हेर्लुग्भवति। तत्र । आशिषि लोटि तुह्योस्तातङ्गाशिष्यन्यतरस्यां (पा०सू० ७/१/३५) तुहि इत्येतयो: आशिषि विषये तातङित्ययमादेशो भवति, भवतात् भवान्, भवतात् त्वं स्थानिवद्भावेन अतो हे: (पा०सू० ६/४/१०५) इति हिस्थानिकस्य तातङो लुङ् न भवति। तथा चोक्तम्-
तातङो ङित्वसामर्थ्यात् नायमन्त्यविधि: स्मृत:।
नतद्वदतनङादीनां तेन्त्यविकारजा:।।
भवतम्। भवत:। मेर्नि: (पा०सू० ३/४/८९) लोडादेशस्य मे: निरादेशो भवति। आडुत्तमस्य पिच्च (पा०सू० ३/४/९२) लोड्संबंधिन: उत्तमपुरुषस्याडागमो भवति। स चोत्तमपुरुष: पिद्वद् भवति। भवानि। नित्यं ङित (पा०सू०३/४/९९) स उत्तमस्येति वर्तमाने ङिल्लकारसम्बन्धिन उत्तमपुरुषसकारस्य नित्यं लोपो भवति। भवाव। भवाम। क्रियासमभिव्याहारेऽपि अनुभवानुभवेत्येवायमनुभवति। इमावनुभवत:। इमे अनुभवन्ति इत्यादि। सर्वलकारेषूदाहार्य:, परस्मैपदेष्वेव विधिनिमन्त्रणामन्त्रणाधीष्टसंप्रश्नप्रार्थनेषु लिङ् (पा०सू०३/३/१६१) विध्यादिष्वर्थेषु धातोर्लिङ् प्रत्ययो भवति सर्वलकाराणामपवाद:। धातुसंज्ञादिपूर्ववत् यासुट् परस्मैपदेषूदात्तो ङिच्च (पा०सू० ३/४/१३) लिङित्यनुवर्तते परस्मैपदविषयस्य लिङो यासुडागमो भवति स च ङिद्वद्भवति। लिङो ङित्वविधानं ज्ञापकं तत्र तत्कार्याणामसम्भवात्। तेन लकाराश्रयङित्वमादेशानां न भवति अचिनवमसुनवमिति। भवयास् त् इति स्थिते लिङ: सलोपोऽनन्त्यस्य (पा०सू० ७/२/२९) सार्वधातुक इत्येवलिङ्सम्बन्धिन: सकारस्यानन्त्यस्य लोपो भवति। अतो येय: (पा०सू० ७/२/८०) अकारान्तादङ्गादुत्तरस्य या इत्येतस्य इय् इत्ययमादेशो भवति लोपो व्योर्वलि (पा०सू० ६/१/६४) धातोरधातोश्च यकारवकारयोर्लोपो भवति वलि परत:। भवेत् तसादीनां तामादय: भवेतां झेर्जुस् (पा०सू० ३/४/१०८) लिङ् इत्येव लिङादेशस्य झेर्जुसादेशो भवति। झोऽन्तापवाद:। भवेयु:। भवे:। भवेतम्। भवेत्। भवेयम्। नित्यं ङित: (पा०सू० ३/४/९९) इति सलोप: भवेव। भवेम। अकर्मका अपि धातव: सोपसर्गा: सकर्मका भवन्ति भवतेरनुपूर्वाद्यदा कर्मणि लकार: तदा सार्वधातुके यक् (पा०सू० ३/१/६७) भावकर्मणो: (पा०सू० ३/१/१३) इत्यनुवर्तते। भावकर्मवाचिनि सार्वधातुके परतो धातो: यक् प्रत्ययो भवति। भावकर्मणो: आत्मनेपदमिति वर्तते। भावकर्मविहितस्य लकारस्य स्थाने आत्मनेपदं भवति। टेरेत्वं। अनुभूयते लक्ष्मी: सार्वधातुकमपित् (पा०सू० १/२/४) ङित्येव, सार्वधातुकं यदपित् तत् ङिद्वत् भवति, आतो ङित: (पा०सू० ७/२/८१) अकारान्तादङ्गादुत्तरस्य ङितामकारस्य इय् इत्ययमादेशो भवति, वलि लोप: अनुभूयेते। अनुभूयन्ते। थास: से (पा०सू० ३/४/८०) टितो लकारस्य थास: से इत्ययमादेशो भवति से इत्येकारान्तादेशकरणं ज्ञापकं तदादेशानां टेरेत्वाभाव तेन वक्ता। वक्तारौ। वक्तार इति टेरेत्वं न भवति अनुभूयसे। अनुभूयेथे। अनुभूयध्वे। अनुभूय इ इति स्थिते टेरेत्वं अतो गुणे (पा०सू० ६/१/४४) पररूपत्वं अनुभूये। अतो दीर्घो यञि (पा०सू० ७/३/१०१) अनुभूयावहे। अनुभूयामहे। लङि अन्वभूयत। शेषं नेयम्। उत्तमैकवचने अन्वभूय इति स्थिते आद्गुण: (पा०सू० ६/१/८४) अन्वभूये। अन्वभूयावहि। अन्वभूयामहि लङि अन्वभूयत। लोटि टेरेत्वे कृते आमेत: (पा०सू० ३/४/९०) लोट्सम्बन्धिन एकारस्य आमित्ययमादेशो भवति अनुभूयतामित्यादि। मध्यमैकवचने से आदेशे कृते सवाभ्यां वामौ (पा०सू० ३/४/९१) लोट् सम्बन्धिन एकारस्य सकारवकाराभ्यामुत्तरस्य यथासङ्ख्यं व अम् इत्येतावादशौ भवत:। अमोपवाद:। अनुभूयस्व। उत्तमैकवचनस्य इट् एत्वे एत ऐ (पा०सू० ३/४/९३) लोट् सम्बन्धिन: एकारस्यैकारादेशो भवति। अमोपवाद: आडुत्तमस्य (पा०सू० ३/४/९२) इत्यादिना आट् आटश्च (पा०सू० ६/१/८७) इति वृद्धि:, अनुभूयै। अनुभूयावहै। अनुभूयामहै। लिङि लिङ: सीयुट् (पा०सू० ३/४/१०२) लिङादेशानां सीयुडागमो भवति आत्मनेपदविषये। उकारटकारावनुबन्धौ वलि लोप: सलोपश्च इकारेण आद्गुण (पा०सू० ६/१/८४) अनुभूयेत। झस्य रन् (पा०सू० ३/४/१०५) लिङादेशस्य झस्य रन्नित्ययमादशो भवति झोन्तापवाद:। अनुभूयेरन्। इटोत् (पा०सू० ३/४/१०६) लिङादेशस्येट: इत्ययमादेशो भवति। तकार: मुखसुखार्थ: नादेशावयव:। अनुभूयेय। अनुभूयेवहि। अनुभूयेमहि। भवते केवलाद्यदाभावे लकार: तदा भावस्यैकत्वादेकवचनमेव भूयते अभूयत इत्यादि योज्यम्। आशिषि लिङि कर्तरि भावकर्मणोश्च लिङाशिषि (पा०सू० ३/४/११६) आशिषि विषयो यो लिङ् तदादेशास्तिङार्धधातुकसंज्ञो भवति इत्यार्धधातुकत्वाद्विकरणाभाव: किदाशिषि (पा०सू० ३/४/१०४) आशिषि विषये यो लिङ् तस्य यासुट् किद्भवति प्रत्ययस्यैवेदं कित्वं नागमस्य कित्वङित्वयो: सम्प्रसारणे जागर्ति गुणे च विशेष: कित्वात् गुणाभाव: इतश्च लोप: स्को: संयोगाद्योरन्ते च (पा०सू० ८/२/२९) झलीत्येव पदान्ते य: संयोग: झलि परतो य: संयोग: तदाद्यो: सकारककारयोर्लोपो भवति इति सलोप: भूयात्। भूयास्ताम्। अत्र लिङ: सलोपोनन्त्यस्य (पा०सू० ७/२/२९) इति न भवति तस्य सार्वधातुकविषयत्वात् शेषं सुबोधम्। भावकर्मणोस्तु पूर्ववदात्मनेपदं सीयुट् तस्य स्स्यसिच्सीयुट्तासिषु भावकर्मणोः उपदेशेऽज्झनग्रहदृशां वा चिण्वदिट् च (पा०सू० ६/४/६२) स्यसीयुट् तासि इत्येतेषु भावकर्मविषयेषु परत उपदेशेऽजन्तानां धातूनां हनग्रहदृशां च वा चिण्वदिट् भवतीति स्यसिच्सीयुट्तासीनामिडागमो विधीयते चिण्वद्भावश्च। उपदेशेजन्तानां मध्ये ये सेटस्तेषां चिण्वदिडभावपक्षे वलादिलक्षण इट् भवति। उपदेशेजन्तास्सनाद्यन्ताश्च भवन्ति। तेन णिजाद्यन्तानाम् अपि चिण्वद्भाव:। कानि पुनरस्य चिण्वद्भावस्य प्रयोजनानि -
चिण्वद्वृद्धियुक् च हन्तेश्च घत्वंदीर्घश्चोक्तोये मितां वा चिणिति।
इट्चासिद्धस्तेन मे लुप्यते णिर्नित्यश्चायं वल्निमित्तो विघाती।।
अस्यार्थ: चिण्वद्भावस्य अनुभाविषीष्टेत्यादौ वृद्धि: अतो युक्चिण्वकृतोरिति युक् घानिष्यत इत्यत्र होहन्तेर्णिन्नेष्वु (पा०सू० ७/३ ५४/) इति कुत्वं घकार:। शमिष्यत इत्यत्र अमन्तत्वेन मितां ह्रस्व: चिण्णमुलोदीर्घोन्यतरस्याम् (पा०सू० ६/४/९३) इति वा दीर्घ:। कथमत्र णिलोप:। यावता णेरनिटि (पा०सू० ६/४/५१) इत्याह इट् चासिद्धस्तेन मे लुप्यतेर्णि: णिलोपचिण्वद्भावयोः आभाच्छास्त्रीयत्वात् णिलोपे कर्तव्ये चिण्वदिदिडसिद्ध: तेन मे लुप्यतेर्णि:। ननु सेटापरत्वात् वालादिलक्षणेनेटा भवितव्यम्, नैतत् नित्यश्चायं कृताकृप्रसङ्गित्वेन वल्निमित्ते विघाती वल्निमित्त इडनित्य: विपर्ययात्। एवं शमिष्यते शामिष्यत इत्यत्र चिण्ण्मुलोरित्यादिना दीर्घविकल्पश्चेति एतानि प्रयोजनानीति संक्षेपार्थ:। सुट्तिथो: (पा०सू० ३/४/१०७) लिङ् इत्येव लिङ्सम्बन्धिनोस्तकारथकायो: सुडागमो भवति। षुटस्तकारथकारावागमिनौ। सीयुटस्तु लिङागमीति तेन भिन्नविषयत्वात् अनयोरविरोध:। अनयो: सकारस्य षत्वम्। अनुभाविषीष्ट। चिण्वदिडभावे अनुभविषीष्ट वलादिलक्षण इट् अनुभाविषीयास्ताम्। अनुभाविषीरन्। अनुभाविषीष्ठा:। अनुभाविषीयास्थां इण: षीध्वंलुङ्लिटांधोऽङ्गात् (पा०सू० ८/३/७८) इण्णन्तादङ्गादुत्तरेषां षीध्वं लुङ्लिटां धकास्य मूर्धन्यादेशो भवति। विभाषेट: (पा०सू० ८/३/७९) इणन्तादङ्गादुत्तरो य य इट् तत उत्तरेषां षीध्वंलुङ्लिटां धकारस्य विभाषा मूर्धन्यादेशो भवति। अनुभाविषीध्वम् अनुभाविषीढ्वम्। अनुभाविषीय। अनुभविषीवहि। अनुभविषीमहि। अनुभाविषीवहि। अनुभाविषीमहि। परोक्षे लिट् (पा०सू० ३/२/११५) भूतानद्यतनपरोक्षेर्थे वर्तमानाद्धातोर्लिट् प्रत्ययो भवति। परस्मैपदानां णलतुसुस्थलथुसणल्वमा: (पा०सू० ३/४/८२) लिट् इत्येव लिडादेशानां परस्मैपदवचनानां नवानां यथासंख्यं णल् अतुस् उस्। थल् अथुस् अ। णल् व म इत्येते नवादेशा भवन्ति। लिटि धातोरनभ्यासस्य (पा०सू० ६/१/८) लिटि परतोऽनभ्यासस्य धातोरवयवस्य प्रथमस्यैकाचो द्वितीयस्य वा यथायोगं द्वे भवत: इन्धिभवतिभ्याञ्च (पा०सू० १/२/६) इन्धि भवति इत्येताभ्यां परो लिट्प्रत्यय: किद्भवति। भुवो वुक् लुङ्लिटो: (पा०सू० ६/४/८८) ओरित्येव भुवोङ्गस्य वुगागमो भवति अजाद्यो: लुङ् लिटो: परत: भवतेर: (पा०सू० ७/४/७३) अभ्यासस्येत्येव भवतेरभ्यासस्य अकारादेशो भवति लिटि परत: अभ्यासे चर्च (पा०सू० ८/४/५३) अभ्यासे वर्तमानानां झलां चरादेशो भवति भकारस्य चकाराज्जश्त्वं बकार: तत्रायं क्रम: लिट: स्थाने तिप् प्रसङ्गे णल् तत: कित्वात् गुणवृद्ध्यभावो वुक ततो द्विर्वचनम् अभ्यासकार्यं चेति। सङ्क्रमार्थं भुव: कित्वं न कर्तव्यं वुको यदि नित्यत्वं स्यान्नचास्त्यैतदुवर्णान्तस्य वुग् विधे: शब्दान्तरस्य प्राप्त्या वा ततो वृद्धिगुणौ परौ प्राप्नुतो भवतेत्तस्मालिट: कित्वं पित: कृत:-
निर्दिष्टस्थानिकावृद्धि: कथं कित्वेन वार्यते।
कित्वाधिकारसामर्थ्यात् गुणवत् सा निषिध्यते।।
बभूव। बभूवतु:। बभूवु:। सिपि थलि। अत्र अनिट्
अनिट् स्वरान्तो भवतीति दृश्यताम्
इमांस्तु सेट: सम्प्रवदन्ति तद्विद:।
अदन्त शीङ्शिङावपि।
गणस्थमूदन्तमुताञ्च रुस्नुवौ क्षुवन्तथोर्णोतिमथो युनुक्ष्णुव:।
इति स्वरान्ता निपुणं समुच्चिता: ततो हलन्तानपि सन्निबोधत।।
अत्र गणस्थमूदन्तमिति वचनात् आर्धधातुकस्येड्वलादे: (पा०सू० ७/२/३५) वलादेरार्धधातुकस्य इडागमो भवतीति इडागम: कित्वादगुणं बभूविथ बभूथेति निगमे बभूथाततन्थजगृह्मेति वचनात्। शेषं नेयम् भावकर्मणो: (पा०सू० १/३/१३) लिटस्तज्झयोरेशिरेच् (पा०सू० ३/४/८१) लिडादेशयोस्तज्झयोरेश् इरेच् इत्येतावादेशौ भवत: भावे बभूवे। कर्मणि अनुबभूवे। अनुबभूवाते। अनुबभूविरे इत्यादि भूत (पा०सू० ३/२/८४) इत्यधिकृत्य लुङ् (पा०सू० ३/२/११०) भूतेऽर्थे वर्तमानाद्धातो: लुङ् प्रत्ययो भवति इतश्च (पा०सू० ३/४/१००) लोप: अडागम: च्लि लुङि (पा०सू० ३/१/४३) लुङि परत: श्च्लिप्रत्ययो भवति च्ले: सिच् (पा०सू० ३/१/४४) च्ले: सिजादेशो भवति अ भू स् त् इति स्थिते गातिस्थाघुपाभूभ्य: सिच: परस्मैपदेषु (पा०सू० २/४/७७) गापाग्रहणे इण्पिबत्योर्ग्रहणम् इण्पिबत्योर्ग्रहणे घुग्रहणेन डुदाञ् दाने। दो अवखण्डने। देङ् रक्षणे। दाञ् दाने। डुधाङ् दानधारणपोषणयो:। धेट् पाने। एषां ग्रहणम् गातिस्थादिभ्य: परस्य सिचो लुक् भवति तत: सार्वधातुकगुणे प्राप्ते भूसुवोस्तिङि (पा०सू० ७/३/८८) भू सू इत्येतयो: तिङि सार्वधातुके परतो गुणो न भवति अभूत्। तसादीनां तामादय:। अभूतां भुवो वुग् लुङ्लिटो: (पा०सू० ६/४/८८) इति वुक् अभूवन्। अत इति नियमात् जुस् न भवति भावकर्मणो: (पा०सू० १/३/१३) चिण् भावकर्मणो: धातो: परस्य च्लेश्चिणादेशो भवति। भावकर्मवाचिनि त शब्दे परत: चिणो लुक्। चिण उत्तरस्य तत्प्रत्ययस्य लुग्भवति अचो ञ्णिति (पा०सू० ७/२/११५) इति वृद्धि: अभावि देवदत्तेन। धनम् अन्वभावि लक्ष्मी:। आतामादौ सिजादेश: चिण्वदिट् च अन्वभाविषातामित्यादि। झस्य आत्मनेपदेष्वनत इत्यत् अन्वभाविषत अन्वभाविष्ठा: अन्वभाविषाथां ध्वमि धि च (पा०सू० ८/२/२५) इति सकारलोप: ‘विभाषेट’ इति मूर्धन्यादेश: अन्वभाविढ्वं अन्वभाविध्वं इत्यादि णौ चङि भवतेर्हेतुमण्णिजन्तस्य सनाद्यन्ता धातव (पा०सू० ३/१/३१) इति धातुसंज्ञायां लुङि णिश्रि० (पा०सू० ३/१/४८) इत्यादिना च्लेश्चङ् भावि अत् इति स्थिते णौ चङ्युपधाया ह्रस्व: (पा०सू० ७/४/१) चङ्परे णौ यदङ्गं तस्योपधाया ह्रस्वो भवतीति ह्रस्व:। चङीति द्विर्वचनं भू इत्येतस्य स्थानिवद्भावात्। ननु द्विर्वचननिमित्तं अण्यव्यवहित ज्ञापकात्। किं तत्ज्ञापकं ओ: पुयण्ज्यपर (पा०सू० ७/४/८०) इति द्विर्वचनं पवर्गयणि जकारे चावर्णपरे परत इवर्णान्तस्याभ्यासस्य सन्वद्भावे चर्त्त्वविधानम् उवर्णान्तत्वमभ्यासस्य सम्पादयितुं द्विर्वचनमित्तेऽपि स्थानिवद्भावमजादेशस्य ज्ञापयति तस्माद्. भू इत्येतस्य द्विर्वचनमभ्यासकार्यम् सन्वल्लघूनि (पा०सू० ७/४/९३) इति सन्वद्भाव: ओ: पुयण्ज्यपर (पा०सू० ७/४/८०) इत्यभ्यासस्येत्वं दीर्घो लघो: (पा०सू० ७/४/९४) लघुनीत्येव लघुनि धात्वक्षरे परतोऽभ्यासस्य दीर्घो भवतीति दीर्घ:। अबीभवत्। क्रियाफले कर्त्रभिप्राये णिचश्च (पा०सू० १/३/७४) इत्यात्मनेपदम् अबीभवत। लृट् शेषे च (पा०सू० ३/३/१३) भविष्यतीत्येव। ‘कश्च शेष:’ क्रियार्थोपपदादन्य: शेष:। शेषे शुद्धे भविष्यति काले चकारात् क्रियार्थायां चोपपदे धातोर्लिट् प्रत्ययो भवति। भविष्यामीति मन्यत इति क्रियार्थोपपदम् उदाहरणम्, शुद्धे तु भविष्यति काले भविष्यति भविष्यत: भविष्यन्तीत्यादि सुबोधम्। भावकर्मणो: (पा०सू० १/३/१३) भाविष्यते। भविष्यते। अनुभाविष्यते। अनुभविष्यते। अत्र स्यतासी लृलुटो: (पा०सू० ३/१/३३) इति स्य प्रत्यय:। परत्वादन्तरङ्गत्वाच्च यकं बाधते। लिङ्निमित्ते लृङ् क्रियातिपत्तौ (पा०सू० ३/३/१३९) भविष्यतीत्येव हेतुहेतुमद्भावादिकेऽर्थे लिङ्निमित्तं तत्र लिङ्निमित्ते भविष्यति काले लृङ्प्रत्ययो भवति क्रियातिपत्तौ सत्याम्। कुतश्चित् कारणवैगुण्यात् क्रियाया अनभिनिर्वृत्ति: क्रियातिपत्ति: विधुरप्रत्ययोपनिपात:। कारणवैकल्यं वा वैगुण्यम्, दक्षिणेन चेदास्यत् न शकटं पर्याभविष्यत् भविष्यत्कालविषयमेतद्वचनं भविष्यदपरिभवनं हेतुमत् तद्धेतुभूतं च कमलकाह्वानं बुद्ध्वा कोऽर्थ:। असकृत्प्राक्कमलकाह्वाने सति शकटापर्याभवनं दृष्ट्वा भाविनोऽपि कमलकाह्वानस्य शकटपर्याभवनहेतुत्वं लिङ्गेनबुद्ध्वा लिङ्गं पुन: लिङ्गेन पुन: कमलकाह्वा सामान्यधर्मा: तदतिपत्ति: कमलकाह्वानस्यातिपत्ति: कमलकस्य देशान्तरागमनालिङ्गेनाऽवगम्य शकटापर्याभवनातिपत्तिमपि शकटस्य गुरुतरभारारोपणादिनावगम्य वक्ता वाक्यं प्रयुङ्क्ते। भूते च लिङ्निमित्त इत्यादि सर्वमनुवर्तते। भूते च काले च पूर्वसूत्रविषये लृङ् प्रत्ययो भवति उताप्यो: (पा०सू० ३/३/१५२) इति आरण्यलिङ्निमित्तविधानमेतत् प्राक्ततो विकल्पं वक्ष्यति। उदाहरणं तु दृष्टो माया भवत: पुत्राणार्था चङ्क्रम्यमाण: इतरस्य ब्राह्मणार्थी यदि स तेन दृष्टो भविष्यत: अतो भोक्ष्यत: न भुक्तवान् अन्येन पथा स गत इति स्यतासी लृलुटो: (पा०सू० ३/१/३३) लृ इति लृङ् लृटो: सामान्येन ग्रहणं तयोर्लृङ्लृटो: यथासंख्यं स्यतासी भवत: कर्तरि अभविष्यत अभविष्यतामभविष्यन्नित्यादि भावकर्मणो: (पा०सू० ३/१/१३) चिण्वदिट् अचो ञ्णिति (पा०सू० ७/२/११५) इति वृद्धि: अभाविष्यत त्वया कर्मणि अन्वभाविष्यत, श्रीरित्यादि शेषं नेयम्। अनद्यतने लुट् (पा०सू० ३/३/१५) भविष्यतीत्येव। भविष्यदनद्यतनेऽर्थे वर्तमानाद्धातोर्लुट् प्रत्ययो भवति लृटोपवाद: लुट: प्रथमस्य डारौरस: (पा०सू० २/४/८५) लुडादेशस्य प्रथमपुरुषस्य परस्मैपदस्यात्मनेपदस्य च यथासंख्यं डारौरस इत्येते आदेशा भवन्ति। एकवचनादेशस्य डित्वात् तासन्तस्याङ्गस्य टिलोपेकृते भवित् आ इति स्थिते लघूपधगुण: प्राप्नुवन् दीधीवेवीटाम् (पा०सू० १/१/५) इति प्रतिषिध्यते भविता रि च (पा०सू० ७/४/५१) इति सलोप: भवितारौ भवितार: मध्यमैकवचने भवितास् इति स्थिते तासस्त्योर्लोप: (पा०सू० ७/४/५०) स: सीत्येव सकारादौ प्रत्यये परस्तासेरस्तेश्च सकारस्य लोपो भवति। भवितासि। भवितास्थ:। भवितास्थ। भवितास्मि। भवितास्व:। भवितास्म:। चिण्वदिटि भाविता। भाविता त्वया। शुद्धकर्मणि अनुभाविता अनुभविता श्री:। अनुभावितारौ। अनुभवितारौ। अनुभावितार:। अनुभवितार:। पूर्ववदनुबन्धलोप: थासस्से (पा०सू० ३/४/८०) अनुभावितासे। अनुभावितासाथे टेरेत्वं धि च (पा०सू० ८/२/२५) इति सकारलोप: ‘जश्त्वं वा अनुभाविताद्ध्वे। अनुभविताद्ध्वे। उत्तमैकवचनस्य टेरत्वे तासस्त्योर्लोप (पा०सू० ७/४/५०) इति वर्तमाने ह एति (पा०सू० ७/४/५२) तासेरस्तेश्च सकारस्य ह इत्ययमादेशो भवति एति परत:, अनुभाविताहे अनुभविताहे इत्यादि। धातो: कर्मण: समानकर्तृकादिच्छायां वा (पा०सू० ३/१/७) सनित्यनुवर्त्तते इषिकर्मयो धातुरिषिणैव समानकर्तृकस्तस्मादिच्छायां सन् प्रत्ययो भवति इको झल् (पा०सू० १/२/९) इगन्ताद्धातो: परे झलादि: सन् किद्भवतीति कित्वादगुणत्वं सनिग्रहगुहोश्च (पा०सू० ७/२/१२) सति परत: ग्रहगुह इत्येतयोरुगन्तानाञ्च इडागमो न भवति सन्यङो: (पा०सू० ६/१/९) सनन्तस्य यङन्तस्य च धातो: प्रथमस्यैकाचो द्वितीयस्य वा यथायोगं द्वे भवत:। भू स इत्येतस्य द्विर्वचनं हलादि शेष: (पा०सू० ७/४/६०) अभ्यासस्य हलादि: शिष्यते अनादिर्हल्लुप्यते अभ्यासस्य ह्रस्वत्वं इण्कोरिति षत्वं बुभूष इति स्थिते सनाद्यन्ता धातव: (पा०सू० ३/१/३२) सन् आदिर्येषां प्रत्यायानां ते सनादय: के पुनस्ते सनादय: सुप आत्मन क्यच् (पा०सू० ३/१/८) काम्यच्च (पा०सू० ३/१/९) उपमानादाचारे (पा०सू० ३/१/१०)कर्तु: क्यङ्सलोपश्च (पा०सू० ३/१/११) आचारेवगल्भ्यक्लीबहोढेभ्य: क्विब्वा वक्तव्य: सर्वप्रातिपदिकेभ्य इत्येके लोहितादिडज्भ्य: क्यष् नमोवरिवश्चित्रङ् क्यच् (पा०सू० ३/१/१९) पुच्छभाण्डचीवराण्णिङ् (पा०सू० ३/१/२०) मुण्डमिश्रश्लक्ष्णलवणव्रतवस्त्रहलकलकृततूस्तेभ्यो णिच् (पा०सू० ३/१/२१) धातोरेकाचो हलादे: क्रियासमभिव्याहारे यङ् (पा०सू० ३/१/२२) सत्यापपाशरूपवीणातूलश्लोकसेनालोमत्वचवर्मवर्णचूर्णचुरादिभ्यो णिच् (पा०सू० ३/१/२५) कण्ड्वादिभ्यो यङ् (पा०सू० ३/१/२७) गुपूधूपविच्छिपणिपनिभ्य आय: (पा०सू० ३/१/२८) ऋतेरीयङ् (पा०सू० ३/१/२९) कमेर्णिङ् (पा०सू० ३/१/३०) इत्येते वा तदन्ता: समुदाया धातुसंज्ञा भवन्ति, ततो लडादय: बुभूषतीत्यादि सनोकारस्य प्रयोजनम् प्रतीतिषषतीति द्वितीयस्यैकाचो द्विर्वचनं धातोरेकाचो हलादे: क्रियासमभिव्याहारे यङ् (पा०सू० ३/१/२२) पौन: पुन्यं भृशार्थो वा क्रिया समभिव्याहार:। एकाचो हलादेधातो: समभिव्याहारविशिष्टक्रियायां वर्तमानाद्यङ्प्रत्ययो भवति, पूर्ववद्विर्वचनम् हलादि शेष: (पा०सू० ७/४/६०) अभ्यासकार्यं गुणो यङ्लुको: (पा०सू० ७/४/८२) यङ्लुकोपरतोऽभ्यासस्य गुणो भवति, बोभूय इति स्थिते सनाद्यन्ता धातव: (पा०सू० ३/१/३२) इति धातुसंज्ञायां लकारा: ङित्वादात्मनेपदं बोभूयते। अबोभूयत। बोभूयताम्। बोभूयेत। बोभूयिषीष्ट। बोभूयाञ्चक्रे। बोभूयिता। बोभूयिषते बोभूयाम्बभूवे। बोभूयामास। लुङि अबोभूयिष्ट। बोभूयिष्यते। अबोभूयिष्यत। बोभूयिष्यताम्। कर्मणि लुङि अबोभूयि इत्यादि योज्यम्। सनाद्यन्तधातूनामेतदनुसारेण यदेतदुपक्रान्तं तिङन्तपदसाधारणं तदुत्तरत्र यथासम्भवमनुसन्धेयं विशेषस्तु यथासम्भवं वक्ष्याम:।